अथ प्रथम स्थानम्
प्रथमोऽध्यायः
नत्वा शिवं परमतत्त्वकलाविरूढं ज्ञानामृतैकचटुलं परमात्मरूपम्
रागादिरोगशमनं दमनं स्मरस्य शश्वत्क्षपाधिपधरं त्रिगुणात्मरूपम् १
आत्रेयहारीतसंवादः
हिमवदुत्तरे कूले सिद्धगन्धर्वसेविते
शान्ते मृगगणाकीर्णं नाना पादपशोभिते २
तत्रस्थं तपसा युक्तं तरुणादित्यतेजसम्
शुद्धस्फटिकवच्छुभ्रं भूतिभूषितविग्रहम् ३
जटाजूटाटवीमूले उषितं शुभ्रकुण्डलम्
आत्रेयं बहुशिष्यैस्तु राजितं तपसान्वितम् ४
पप्रच्छ शिष्यो हारीतः सर्वज्ञानमिदं महत् ५
हारीत उवाच
भवन् गुणगणाधार आयुर्वेदविदां वर
विनयादविनीतोऽहं पृच्छामि मुनिपुङ्गव ६
कथं रोगसमुत्पत्तिरुत्पन्नो ज्ञायते कथम्
उपचारः प्रचारश्च कथं वा सिद्धिमिच्छति ७
एतत्सम्यक् परिज्ञानं कथयस्व महामुने
एवं पृष्टो महाचार्यो हारीतेन महात्मना
प्रत्युवाच ऋषिः पुत्रं प्रहस्योत्फुल्ललोचनः ८
आत्रेय उवाच
शृणु पुत्र महाप्राज्ञ सर्वशास्त्रविशारद
चिकित्साशास्त्रकुशल वैद्यविद्याविचक्षण ९
हारीतसंहिता

आयुर्वेदमपारन्तु श्लोकानां लक्षसंख्यया
कथं तस्य परिज्ञानं कालेनाल्पेन पुत्रक १०
अल्पायुषोऽल्पवक्तारः स्वल्पशास्त्रविशारदाः
अल्पावत्रारणे शक्ताः कलौ जाता इमे नराः ११
अल्पः कलियुगश्चायं नरोपद्रवकारणम्
कथं पुत्र प्रवक्ष्यामि विस्तरेण तवागमम् १२
यस्य श्रवणकालो यो याति चान्तञ्च पुत्रक
तस्माच्चाल्पतरेणाऽपिवक्ष्यामि शृणु साम्प्रतम् १३
चतुर्विंशसहस्रैस्तु मयोक्ता चाद्यसंहिता
तथा द्वादशसाहस्री द्वितीया संहिता मता १४
तृतीया षट्सहस्रैस्तु चतुर्थी त्रिभिरेव च १५ पञ्चमी दिक्पञ्चशतैः प्रोक्ताः पञ्चात्र संहिताः
तस्माच्चाल्पतरेणापि वक्ष्यामि शृणु पुत्रक १६
येन विज्ञानमात्रेण गदवेदविदो भवेत्
किमत्र बहुनोक्तेन चाल्पसारे विशारद १७
येन धर्मार्थसौख्यं च तद्धि कर्म समाचरेत्
येन संजायते श्रेयो येन कीर्तिर्महत्सुखम् १८
तत्कर्म नितरां साध्यं जनानन्दविधायकम् १९
एकं शास्त्रं वैद्यमध्यात्मकं वा सौख्यं चैकं यत्सुखं वा तपो वा
वन्द्यश्चैको भूपतिर्वा यतिर्वा एकं कर्म श्रेयसं वा यशो वा २०
बहुतरमुपचारात् सारमाधारलोके जननमतिसुखानां वर्द्धनं श्रेयसां वा
्रञ्द्भ्यरद्धतअत्र
हारीत संहिता

विगतकलुषभावा चोज्ज्वला कीर्त्तिमूर्त्तिर्न खलु कुटिलतास्याः श्रूयते
लोकवृन्दैः २१
आयुर्वेदमिदं सम्यक् न देयं यस्य कस्यचित् २२
नाभक्तायाप्यशान्ताय न मूर्खाय न चाधमे
शान्ते देयं न देयं स्यात् सर्वथा नाऽधमेऽधने २३
धर्मिष्ठो कुहनी विवर्जितमनाः शान्तः शुचिः शुद्धधीर्धीरोऽभीरुविवेकसा-
रहृदयो विद्याविलासोज्ज्वलः ।
प्राज्ञो रोगगणप्रचारनिपुणोऽलुब्धः सदा तोषधृगित्थं सर्वगुणाकरौ नृपजनैः
पूज्यः सदा रोगवित् २४
दृष्ट्वा यथा मृगपतिं गजयूथनाथः संशुष्कमानमदबिन्दुकपोलधारः ।
त्यक्त्वा वनं व्रजति चाकुलमानसेन दृष्ट्वा तथा गदगजो भिषजं प्रयाति २५
यद्वत्तमोवृतमिदं भुवनं मयूखैः प्राकाश्यमाशु कुरुते सकलं रविस्तु ।
तद्वत्सुवैद्य उपलभ्य रुजोतिनाशं शीघ्रं करोति गदिनं गदमुक्तभारम् २६
लुब्धः क्रूरः शठजठरको मद्यपश्चालसश्चाधीरो भीरुर्विकलहृदयो हीन-
कर्मार्थमन्दः । शास्त्रज्ञातोप्यविदितगदज्ञानपाखण्डखण्डोवर्ज्यो वैद्यः प्रबलमतिभिर्भूमिपैर्वा सुदूरात् २७
वैद्यशास्त्रपठनविधि
अद्भुतं चाप्यशङ्कञ्च नात्युच्चं नीचमेव च
यः पठेच्छास्त्रमित्थञ्च शास्त्राप्तिस्तस्य दृश्यते २८
चर्वणं गिलनं चापि कम्पितं श्वसितं तथा
नोचोच्चं चैव गम्भीरं वर्जयेत्पाठकेन तु २९
अनध्यायेन शास्त्रस्य नोत्सवे यज्ञकर्मसु
्रञ्द्भ्यरद्धतअत्र
प्रथमस्थानम् १

जातके सूतके चाथ पठनं न विधीयते ३०
चतुर्दश्यष्टमीदर्शप्रतिपत्पूर्णिमास्तथा
वर्ज्याः पञ्च इमाः पाठे मुनिभिः परिकीर्तिताः ३१
अकाले दुर्दिने गर्जे दिग्दाहे भूमिकम्पने
शास्त्रपाठस्तथा वर्ज्यो ग्रहणे चन्द्रसूर्य्ययोः ३२
द्वादशैते अनध्यायाः प्रोक्ताः शृणुष्व पुत्रक
गुरुपीडासमुत्पन्ने नृपे संपीडितेऽथवा ३३ आहवे जीवसम्पाते प्रदोषे वाऽथवा पुनः
राष्ट्रपीडासमुत्पन्ने न कुर्याच्छास्त्रपाठनम् ३४
एतैस्तु पठितं शास्त्रं न स्वार्थे सिद्धिसाधकम्
न श्रेयसे न माङ्गल्ये नोपकारे सुखावहम ३५
एवं ज्ञात्वा पठति निपुणो वैद्यविद्यानिधानं श्रेयस्तस्य प्रतिदिनमसौ वाञ्छितार्थं प्रपद्येत् ।
कीर्तिः सौख्यं भवति नितरां तस्य लोकप्रशंसा पूज्यो राज्ञां सततमपि वै जायते स्वार्थसिद्धिः ३६
इति आत्रेयभाषिते हारीतोत्तरे वैद्यगुणदोषशास्त्रपठनविधिर्नाम
प्रथमोऽध्यायः १
द्वितीयोऽध्यायः
चिकित्सासंग्रह
आत्रेय उवाच
अथातः संप्रवक्ष्यामि शास्त्रस्यास्य समुच्चयम्
आयुर्वेदसमुत्पत्तिं सर्वशास्त्रार्थसंग्रहम् १
अष्टौ चात्र चिकित्साश्च तिष्ठन्ति भिषजां वर
्रञ्द्भ्यरद्धतअत्र
हारीत संहिता

ता वक्ष्यामि समासेन चिकित्साश्च पृथक्पृथक् २
संग्रहस्य प्रवक्ष्यामि प्रथमं चान्नपानकम्
अरिष्टं च द्वितीयं स्यात्तृतीयं च चिकित्सितम् ३
कल्पं चतुर्थकं प्रोक्तं सूत्रस्थानन्तु पञ्चमम्
षष्ठं चात्र शरीरं स्यादित्यायुर्वेदकारकाः ४
शल्यशालाक्यकायाश्च तथा बालचिकित्सितम्
अगदं विषतन्त्रञ्च भूतविद्या रसायनम्
वाजीकरणमेवेति चिकित्सा चाष्टधा स्मृता ५
वैद्यागमेषु सर्वेषु प्रोक्तं श्रेष्ठमिदं महत्
तथा चाष्टौ चिकित्सायां वदन्ति वेदविज्जनाः ६
यन्त्रशस्त्राग्निक्षाराणामौषधं पथ्यमेव च
स्वेदनं मर्दनं चैव कथितान्युपकारिणाम् ७
एतैर्वैद्यकशास्त्रस्य सारो भवति सर्वतः ८
शल्यतन्त्रम्
यन्त्रशास्त्रार्थबन्धैस्तु येन चोध्रियते भिषक्
तच्च शल्योद्धरणकं प्रोच्यते वैद्यकागमे
नाराचवालवल्लीभिर्भल्लैः कुन्तैश्च तोमरैः ९
शिलाग्निभिन्नगात्रस्य तत्र सार्य्यादिशल्यकम् १०
तत्प्रतीकारकरणं तच्च शल्यचिकित्सितम्
तथा बाणसमुद्दिष्टतृणपांशुकृमीकचम्
रक्तवस्तु तथा पेशी पूयं शेषान्तरेऽपि यत् ११
्रञ्द्भ्यरद्धतअत्र
प्रथमस्थानम् १

तच्छल्यमिति जानीयाल्लोष्टकाष्ठविभिन्नकम् १२
शालाक्यम्
शिरोरोगा नेत्ररोगाः कर्णरोगा विशेषतः
भ्रूकण्ठशंखमन्यासु ये रोगाः सम्भवन्ति हि १३
तेषां प्रतीकारकर्म नासावर्त्यञ्जनानि च
अभ्यङ्गं मुखगण्डूषक्रिया शालाक्यनामिका १४
इति शालाक्यं नाम कायचिकित्सा
कषायचूर्णगुटिका पञ्चानां शोधनानि च
कोष्ठामयानां शमनीक्रिया कायचिकित्सितम् १५
गुदामयं बस्तिरुजं शमनं बस्तिरूहकम्
आस्थापनानुवासन्तु अगदं नाम एव च १६
बालचिकित्सा
गर्भोपक्रमविज्ञानं सूतिकोपक्रमस्तथा
बालानां रोगशमनं क्रिया बालचिकित्सितम् १७
विषतन्त्रं नाम
सर्पवृश्चिकलूतानां विषोपशमनी तु या
सा क्रिया विषतन्त्रञ्च नाम प्रोक्ता मनीषिभिः १८
भूतविद्यानाम
ग्रहभूतपिशाचाश्च शाकिनीडाकिनीग्रहाः
एतेषां निग्रहः सम्यग्भूतविद्या निगद्यते १९
वाजीकरणम्
क्षीणानां चाल्पवीर्याणां बृंहणं बलवर्द्धनम्
्रञ्द्भ्यरद्धतअत्र
हारीत संहिता

तर्पणं समधातूनां वाजीकरणमुच्यते २०
रसायनतन्त्रम्
देहस्येन्द्रियदन्तानां दृढीकरणमेव च
वलीपलितखालित्यवर्जनेऽपि च या क्रिया २१
पूर्वं वैद्यप्रणीतं हि तद्रसायनमुच्यते २२
उपाङ्गचिकित्सा
छिन्नं भिन्नं तथा भग्नं क्षतं पिच्चितमेव च
तेषां दग्धप्रतीकारः प्रोक्तश्चोपाङ्गसंज्ञकः २३
इति वैद्यकसर्वस्वं चिकित्सागमभूषणम्
पठित्वा तु सुधीः सम्यक् प्राप्स्यते सिद्धिसङ्गमम् २४
इति वैद्यकसर्वस्वे चिकित्सासंग्रहो नाम द्वितीयोऽध्यायः २
तृतीयोऽध्यायः
वैद्य शिक्षा विधानम्
अथ वक्ष्यामि रोगाणामुपचारक्रमं तथा
जानाति यो बुधः सम्यक् पूज्यते नृपसत्तमैः १
ज्ञात्वा रोगसमुत्पत्तिं रोगाणामप्युपक्रमम्
ज्ञात्वा प्रतिक्रियां वैद्यः प्रतिकुर्याद्यथोचिताम् २
देशं कालं वयो वह्निं सात्म्यप्रकृतिभेषजम्
देहं सत्वं बलं व्याधेर्दृष्ट्वा कर्म समाचरेत् ३
धर्मार्थकामलाभः स्यात् सम्यगातुरसेवनात्
यदा नाचरतस्तस्य विनाशश्चात्मनस्तदा ४
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ५
्रञ्द्भ्यरद्धतअत्र
प्रथमस्थानम् १

द्विविधोपक्रमश्चैव शमनः कोपनो रुजाम्
तथैव ज्ञात्वा विबुधः क्रियां कुर्याद्विचक्षणः ६
वैद्योऽपि द्विविधो ज्ञेयो विकारेङ्गितरोगयोः
उपचारापचारज्ञो द्विविधः प्रोच्यते भिषक् ७
उपचारेण शमनमपचारेण कोपनम्
एवं विज्ञाय सद्वैद्यः कुर्य्यात् संशमनक्रियाम् ८
साध्योऽसाध्यश्च याप्यश्च कृच्छ्रसाध्यस्तथैव च
व्याधिश्चतुर्विधः प्रोक्तः सद्वैद्यैः शास्त्रकोविदैः ९
उपचारेण साध्या ये रोगा गच्छन्ति याप्यताम्
याप्यास्त्वसाध्यतां यान्ति साध्यकष्टेन पुत्रक १०
सम्भवन्ति महारोगाः कष्टसाध्या म्रियन्ति वै
एवं चतुर्विधो व्याधिर्ज्ञात्वा कर्म समाचरेत् ११
उपचारकृता दोषाः कृच्छ्रास्ते यान्ति याप्यताम्
याप्याः साध्यत्वमायान्ति कष्टसाध्यं भवेद्ध्रुवम् १२
सुखसाध्यः सुखी शीघ्रं स्यात् सुधीभिरुपक्रमैः
साध्यासाध्यपरिज्ञानं ज्ञात्वोपक्रमणं तथा १३
साध्यं गते यदा रोगे दोषशेषं न धारयेत्
दोषशेषेऽपि कष्टं स्यात्तस्माद्यत्नान्निकृन्तयेत् १४
यथा हि कालदुष्टः स्यात् यथा सूक्ष्मोऽग्नितः कणः
स्वल्पस्तद्वत् क्रियाप्राप्तो गदो घोरतरो भवेत् १५
तथा दोषस्य शेषे तु शमनं याति चाल्पशः
्रञ्द्भ्यरद्धतअत्र
हारीत संहिता

दैवाद्यद्दुष्टतां याति यथाग्निः कुपितो भृशम् १६
यथा काष्ठचयं दूरात् प्राप्य घोरतरोऽग्निकः
तथापथ्यस्य संयोगाद्भवेद्धोरतरो गदः १७
कषायैश्च फलैश्चूर्णैः पिण्डलेहानुवासनैः
सर्वाः क्रिया भृशं व्यर्था न शमं याति चामयः १८
एवं ज्ञात्वा सदा वैद्ये रोगशान्तिककारणम्
कर्त्तव्यमतियोगेन येन रोगः प्रशाम्यति १९
ज्ञात्वा दोषबलं धीमान् लङ्घनानि समाचरेत्
दोषे सति न दोषाय लङ्घनानि बहून्यपि २०
पचेत्प्रथममाहारं दोषानाहारसंक्षये
दोषक्षयेऽनलो धातून् प्राणान् धातुक्षये सति २१
ज्ञात्वा बलाबलं व्याधेः सामन्निराममेव च
तदा सामे पाचनं स्यान्निरामे पथ्यसंक्रमः २२
सामं निरामं सुखसाध्यमेव सम्यग् रुजश्च परिलक्ष्य रुजो विनाशम्
एतद्भवेत् सकलवैद्यकशास्त्रसारं नैवायुषश्च बलदानकरो हि वैद्यः २३
नो वैद्यो मनुजस्य सौख्यमथवा दुःखञ्च दातुं क्षमो जन्तोः कर्मविपाक एव भुवने सौख्याय दुःखाय च ।
तस्मान्मानवदुःखकारणरुजां नाशस्य चात्र क्षमो वैद्यो बुद्धिनिधानधाम चतुरो नाम्नैव वैद्योऽपरः २४
सम्यक् रुजां परिज्ञानं ज्ञात्वा दोषविनिग्रहम्
प्रत्याख्येयञ्च यः साध्यं जानाति स भवेद्भिषक् २५
्रञ्द्भ्यरद्धतअत्र
प्रथमस्थानम् १

तपस्वी च ब्राह्मणश्च स्त्रियो वा बालकस्तथा दीनो वा दुर्बलो वापि प्राज्ञो वा पण्डितस्तथा २६
महात्मा श्रोत्रियः साधुरनाथो बन्धुवर्जितः
एतान् व्याधिविनिग्रस्तान् प्रतिकुर्याद्विशेषतः २७
राजा च सुधनी चैव मण्डलीको बलाधिपः
उपचार्योऽर्थसिद्धिः स्याद्वित्तं ग्राह्यं भयं न च २८
मध्यमा वणिजां पत्तिः पुरोधा ब्राह्मणादयः
भट्टो वा गणिकागण्यश्चिकित्स्यास्तु विशेषतः
रोगग्रस्तेषु चैतेषु चिकित्सा कीर्त्तिकारिणी २९
व्याधश्चौरस्तथा म्लेच्छो वह्निदो मत्स्यबन्धकः ३०
बहुद्वेषो ग्रामकूटो बन्धकी मांसविक्रयी
एतेषां व्याधिग्रस्तानां नैव कुर्यात् प्रतिक्रियाम् ३१
एतेभ्यः स्वार्थसिद्धिर्नोपकारो हितमङ्गलम्
तेषां जीवाप्तसंजातो वैद्यो भवति दोषभाक् ३२
एवं ज्ञात्वा तु सद्वैद्यः कुर्यादथ प्रतिक्रियाम्
धर्मार्थकामसम्पत्तिः कीर्तिर्लोके प्रवर्त्तते ३३
इति बहुविधियुक्तो वैद्यविद्याविचारः क्षणमपि हृदये यो धारणं संकरोति ।
स भवति गदसंघस्याथ विध्वंसशक्तो विमलविदितकीर्त्तिः पूज्यमानो
नरेन्द्रैः ३४
इति आत्रेयभाषिते हारीतोत्तरे वैद्यशिक्षाविधानो नाम तृतीयोऽध्यायः ३
चतुर्थोऽध्यायः
अथ देशकालबलाबलम्
्रञ्द्भ्यरद्धतअत्र
हारीत संहिता
१०

इदानीं सम्प्रवक्ष्यामि देशकालबलाबलम्
सात्म्यं प्रकृतिदेहञ्च तथाग्नीनां विशेषणम् १
देशस्तु त्रिविधो ज्ञेयो ह्यनूपो जाङ्गलस्तथा
साधारणो विशेषेण ज्ञातव्यास्ते मनीषिभिः २
बहुतरशुभनद्यश्चारुपानीयपुष्टाः सरससरउपेता शाद्वलासार भूमिः
हरितकुशजलानां शालिकेदाररम्यादिनकरकरदीप्तिं वाञ्छते यत्र लोकः ३
गुरुमधुररसाढ्या भाति चेक्षुः सदार्द्रा विविधजनितवर्णाः शालिगोधूमयूषाः
मधुररसविभुक्त्या मानवानां प्रकोपी भवति कफसमीरः स्यात्तदानूपदेशः ४
खरपरुषविशालाः पर्वताः कण्टकीर्णा दिशि दिशि मृगतृष्णा भूरुहाः शीर्णपर्णाः ।
अतिखररविरश्मीपांशुसम्पूर्णभूमिः सरसि रसविहीना कूपकाम्भःप्रकर्षः ५
तदनु विरससस्याहारिणो गोमहिष्यः प्रभवति रसमांसे रूक्षभावश्च सम्यक् ।
पुनरपि हिमवाहं शालिशस्यं न चेक्षुर्भवति रुधिरपित्तं कोपमाशु ह्युपैति ६
उभयगुणशतं वा नातिरूक्षं न स्निग्धं न च खरबहुलं चेच्चाभितः कण्टका-
ढ्यम् ।
भवति च जलकीर्णं नातिशीतं न चोष्णं समप्रकृतिसमेतं विद्धि साधारणं च
७ कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ८ कालः कालयते लोकं कालः कालयते जगत्
कालः कालयते विश्वं तेन कालो विधीयते ९ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ११

कालस्य वशगाः सर्वं देवर्षिसिद्धकिन्नराः कालो हि भगवान् देवः स साक्षात्परमेश्वरः १० सर्पपालनसंहर्त्ता स कालः सर्वतः समः
कालेन काल्यते विश्वं तेन कालो विधीयते ११ येनोत्पत्तिश्च जायेत येन वै कल्पते कला सत्त्ववांस्तु भवेत्कालो जगदुत्पत्तिकारकः १२ यः कर्माणि प्रपश्येत प्रकर्षं वर्त्तमानके सोऽपि प्रवर्त्तको ज्ञेयः कालःस्यात्प्रतिकालकः १३ येन मृत्युवशं याति कृतं येन लयं व्रजेत् संहर्त्ता सोऽपि विज्ञेयः कालः स्यात्कलनापरः १४ कालः सृजति भूतानि कालः संहरते प्रजाः कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः १५ काले देवा विनश्यन्ति काले चासुरपन्नगाः नरेन्द्राः सर्वजीवाश्च काले सर्वं विनश्यति १६ त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः सूक्ष्मोऽपि सर्वगः सर्वैर्व्यक्ताव्यक्ततरः शुभः १७ तथा वर्षाहिमोष्णाख्यास्त्रयः काला इमे मताः तथा त्रयोऽन्येऽपि ज्ञेया उदयमध्यास्तमेव च १८ वर्षा शरच्च हेमन्तः शिशिरश्च वसन्तकः ग्रीष्मोऽतिक्रमतो ज्ञेय एवं षड् ऋतवः स्मृताः १९ पृथक्पृथक् प्रवक्ष्यामि रवेर्गतिविशेषणैः ्रञ्द्भ्यरद्धतअत्र हारीत संहिता १२

प्रकोपं शमनं ज्ञात्वा अयने द्वे स्मृते बुधैः २० दक्षिणायनमेकं स्यात् द्वितीयं चोत्तरायणम् वर्षा शरच्च हेमन्तो दक्षिणायनमध्यगाः २१ शिशिरश्च वसन्तश्च ग्रीष्मः स्यादुत्तरायणे याम्ये गतिर्यदा भानोस्तदा चान्द्रगुणा मही २२ वारि शीतलसम्भूतं शीतं तत्र प्रजायते बलिनो मधुरास्तिक्ताः कषायास्तु विशेषतः २३ जीवानां सात्म्यमतुलमोषधीनां च वीर्यता आर्द्रत्वं भूधराणाञ्च दिशश्चाप्यतिशीतलाः २४ सक्लेदा पृथिवी सर्वा तस्मादार्द्रा सफेनिला कथं चिकित्सयेत् पित्तं कोपं याति विलीयते २५ तस्मादनुविपर्यासादुपचारेण शाम्यति यदोदीच्यां गतिर्भानोस्तदा सूर्य्यो जलाधिपः २६ तस्मादुष्णगुणास्तीव्राः सम्भवन्ति विदाहिनः खरसूर्यांशुजालैस्तु शुष्यते वनकाननम् २७ संशुष्का मेदिनी सर्वादिशः पानादिनोरसाः बलिनोऽम्लकटुक्षाराः सम्भवन्ति विदाहिनः २८ तस्मात् संकुप्यते पित्तं रक्तेन सह मूर्च्छितम् ओषधिरसः संशुष्को गोजातीनां पयांसि च २९ अल्पं बलं च जन्तूनां कथञ्चित्कफसम्भवः
दृश्यते च वसन्ते च स्वयमेव शमं व्रजेत् ३० ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ १३

एवं ज्ञात्वा सुधीः सम्यक्कुर्यात्सर्वं प्रतिक्रियाम् ३१ सघनवारिदवारिसमाकुला अखिलवत्प्रवरोदकपूरिताः । समदवातकरा विदिशो दिशः प्रमुदितक्रिमिकीटभृता मही ३२ नीलसस्यहरितोज्ज्वला मही कुल्यका सलिलसंप्लुता नता । इन्द्रगोपकविराजिता वरा पङ्कभूषणबिभूषिता धरा ३३ उद्भिन्नचूतांकुरो भूधरः स्याद्रेजे वनं वा मधुरं व्यकूजन् । भृङ्गा मयूरा जलदस्य घोषं सर्वेऽपि जीवा बलमाप्नुवन्ति ३४ केकी कूजति कानने च सरसो म्लानाम्बुपूर्णा तथा हंसा मानसमाव्रजन्ति कमलान्युन्म्लानतां यान्ति च । गर्जन्मेघमहेन्द्रकन्दरदरी सस्यावृता श्यामला भात्येवं पवनस्य कोपनकरी वर्षाऋतुः श्रेयसी ३५ किञ्चिद्गर्भोद्भवानि स्युः सस्यानां दृढतागमः बहुसस्या भवेद्धात्री वारिपूर्णा शरन्मुहुः ३६
नद्यः पूर्णाम्भसोत्खातशीर्णपातास्तटद्रुमाः
कुल्याप्रस्रवणानान्तु स्रवत्यम्भो दिशो दिशः ३७ बहूदकधरा मेघा बहुवृक्षा घनस्वनाः एवं गुणसमायुक्ता वर्षा स्यादृतुकोविदैः ३८ तस्माद्वातकफः कोपी जायते च नृणां भृशम् इति ज्ञात्वा भिषक्छ्रेष्ठः कुर्यात्तस्यां प्रतिक्रियाम् ३९ स्वेदनं मर्दनं पथ्यं निर्वातसेवनं तथा गौरारामारतं शस्तं व्यायामक्रमविक्रमः ४० ्रञ्द्भ्यरद्धतअत्र हारीत संहिता १४

कटुवम्लक्षारसुरसाः सेव्या वातकफापहाः निरूहबस्तिकर्मात्र कफवातरुजापहम् ४१ मेघाः सूर्यशिलासमानरुचयो ह्यल्पस्रवाल्पस्वना हंसालीजलजालिमण्डितजलं पद्माकरं शोभनम् । तीव्रस्निग्धमयूख चन्द्रविमला सानन्दिनी कौमुदी चित्रा घर्मविपक्वतोयसुरसा स्यान्निर्मलं पुष्करम् ४२ तत्र शीतलगतं वयोगतं जातपित्तरुधिरस्य योग्यताम् । पथ्यमत्र च नरस्य शीतलं दृश्यते कथमपि त्रयोद्भवम् ४३ शृतं क्षीरं सिता पथ्यं चन्द्रिकासेवनं निशि । श्यामारामारतं शस्तं प्रभाते निर्मलं दधि ४४ कामिन्यालिङ्गनानन्दश्रान्तः शीतसिरोरुहैः चन्दनादीनि सेवेत दृष्टं शरदि कोपनम् एवं प्रशमनं दृष्टं शरत्पित्तप्रकोपने ४५ बहुशीतः समीरोऽल्पश्चाल्पवासरता ऋतौ अल्पतेजा दिवानाथो धूमाक्रान्ता च दिग्भवेत् ४६ विस्तीर्णशालिकेदारा नीलधान्योज्ज्वला मही एवं गुणसमायुक्ता हैमन्ती स्म भवेदृतुः ४७ तत्र वातकफा दोषा दृश्यन्ते कुपिता भृशम् अग्निसंसेवनं पथ्यं कटुक्षाराम्लसेवनम् ४८ गौरारामारतं शस्तं व्यायामश्च प्रशस्यते
एवं संशाम्यन्ति दोषाः कफवातसमुद्भवाः ४९ बलिनः शीतसंरोधा हेमन्ते प्रबलोऽनिलः ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ १५

भवत्यल्पेन्धनो धातून् सपचेद्वायुनेरितः ५० अतो हिमेऽस्मिन् सेवेत स्वाद्वम्ललवणान्रसान् दीर्घा निशाभवेत्तर्हि प्रातरेव बुभुक्षितः ५१ भवत्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु ५२ अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् प्रातर्भुक्त्वा च मधुरकषायकटुतिक्तकम् ५३ बहुलशिशिरवातः किञ्चिदुद्भूतसस्या भवति वसुमतीयं पक्वसस्यैस्तु पीता । कथमपि तु हिमं स्याल्लिङ्गवैशेषिकं वा पवनकफविकारो जायते शैशिरे च ५४ गौरारामारतमतिशयेनारुणान्यम्बराणि सेव्यं तिक्तं कटुकलवणं प्रायशो ह्यम्लमेव । स्वेदोन्मर्दं प्रतिदिनमिदं कारयेद्यत्र सम्यग् नाशं यातोऽनिलकफगदौ क्वास्ति तेषां प्रकोपः ५५ मुदितकोकिलकूजितकाननं मदनसूचितकिंशुकशोभितम् । कुसुमसौरभरञ्जितभूधरं क्वणितमत्तमधुव्रतलालसम् ५६ मकरकेतनबाणसमाकुलं मुदितमेव समस्तमिदं जगत् । मलयमारुत उष्णगुणान्वितः कफकरो हि वसन्तऋतुर्भवेत् ५७ कफजकोपविनाशनलालनं वमननावनरूक्षनिषेवणम् ५८ विविधः सुरतानन्दः सम्भ्रमः कफवारणः । व्यायाम श्रमसंरोधखिन्नविश्रान्तमानसः ५९ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता १६

कटुक्षाराम्लाः सेव्याश्च शोषणं कफसम्भवम्
एवं क्रियासमापन्नो नरः शीघ्रं सुखी भवेत् ६० दीर्घवासरसंतीक्ष्णं ज्वालामालाकुलं जगत् दिशि दिशि मृगतृष्णा चोष्णं भृशं भवेद्रजः ६१ नैर्ऋतो मारुतो रूक्षः शीर्णपर्णा महीरुहः दग्धतृणाकुलारण्यं दावाग्निसंकुला दिशः ६२ एवं तु लक्ष्म ग्रीष्मस्य पित्तरक्तमुदीर्यते तस्मात् क्रियाप्रतीकारं कुर्यात् संशमनं भिषक् ६३ जलक्रीडादिवानिद्रासेवनं सुखसाधनम् श्यामारामारतं शस्तं किञ्जल्कं कुञ्जशीतलम् ६४ नीलनालदलोपेतः श्रमघ्नो व्यजनानिलः । केतक्यामोदकुसुमं चन्दनोशीरशीतलैः ६५ लेपनं शीतलं सम्यग्धारागाराशयः पुनः एवं क्रियासमापन्नो ग्रीष्मे च सुखमङ्गमः ६६ इति आत्रेयभाषिते ऋतुचर्यानाम चतुर्थोऽध्यायः ४ पञ्चमोऽध्यायः अथातो वयोज्ञानं वक्ष्यते वयश्चतुर्विधं प्रोक्तमुत्तमाधममध्यमम् हीनं चातुर्थिकं प्रोक्तं तानि वक्ष्यामि साम्प्रतम् १ बालं युवानं वृद्धं च मध्यमं च तथैव च चतुर्विधं वयः सम्यक् तत्समासेन वक्ष्यते २ पथि श्रान्तं श्रमक्षीणं बालस्त्री सुकुमारकम् ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ १७

एतेषां मध्यमा संज्ञा प्रोच्यते वैद्यकागमे ३ आषोडशाद्भवेद्बालः पञ्चविंशो युवा नरः मध्यमं सप्ततिर्यावत्परतो वृद्ध उच्यते ४ तथा च सुकुमाराश्चेत्येते मध्यमसंज्ञकाः वयसः षोडशाधिक्यं समयश्च भवेत्तु यः ५ आविंशति समाः प्राप्तो यथा च कृशदेहवान् पूर्णं वयः स्त्रियः प्राप्ता मध्यमे चाधमं वयः ६ पञ्चविंशत्समादूर्ध्वमापञ्चाशदगतः पुमान् कर्मकठोरा वनिता दृश्यते चोत्तमं वयः ७ सप्तविंशत्समादूर्ध्वं पञ्चाशत्संयुताः समाः बालवृद्धिस्तथा यस्य इत्येतदुत्तमं वयः ८ स्थूलोऽतिदीर्घकठिनस्तथा स्त्री बृहदौदरा इत्युत्तमोऽवयववाञ्ज्ञातव्यश्चोत्तमोत्तमः ९ षष्ठयूर्ध्वमशीतिसमाः प्राप्तं हीनबलं वयः तदूर्ध्वं हीनहीनश्च विज्ञेयो वयसः क्रमः १० क्षीणाध्वश्रान्तसङ्खिन्नस्तथा रोगानुपीडितः रूक्षश्चातिकृशो ज्ञेयो बालसात्म्यमुदाहृतम् ११ सुकुमारोऽतिभीरुश्च मध्यकायस्त्रियोपि वा मध्यसात्म्योऽपि विज्ञेयो मध्यमो वयसात्म्यकः १२ पञ्चवर्षा स्मृता बाला मुग्धा च षट्समावधिम् द्वादशाब्दं स्मृता बाला मुग्धा स्यात्सप्तमावधिम् १३ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता १८

प्रौढा च नववर्षाणि प्रगल्भा च त्रयोदश चतुर्विंशद्वर्षादूर्ध्वं सप्तत्रिंशति मध्यगाः पूर्णं वयः स्त्रियः प्राप्ता इत्येतदुत्तमं वयः १४ मध्यसात्म्यश्च स्थूलः स्याद्बलवान् सत्त्ववान्नरः सचाऽप्युत्तमसात्म्यः स्याद्बलवत्समुपाचरेत् १५ अथातः सम्प्रवक्ष्यामि प्रकृतिज्ञानमुत्तमम् वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् १६ यः कृष्णवर्णश्चपलोऽतिसूक्ष्मः केशाल्परूक्षो बलवान् क्षमः स्यात् । सूक्ष्मातिदन्तो नखवृद्धिमेति दीर्घस्वनश्चंक्रमणक्षमोऽसौ १७ दीर्घाक्रमो लोलुपहीनसत्त्वस्तथैव चाम्लीरसभोजनेच्छुः । संस्वेदने नातिविमर्दनेन सौख्यं समागच्छति वातलो नरः १८ गौरातिपिङ्गः सुकुमारमूर्त्तिः प्रीतः सुशीते मधुपिङ्गनेत्रः तीक्ष्णोऽपि कोऽपि क्षणभंगुरश्च त्रासी मृदुर्गात्रमलोमकं स्यात् १९ लौल्यप्रियस्तिक्तरसानुभोजी द्वेषी च तीक्ष्णे च नवोष्णसेवी । स्तुतिप्रियो दन्तविशुद्धवर्णो जातः स पित्तप्रकृतिर्मनुष्यः २० सुस्निग्धवर्णः सितनेत्रतृप्तः श्यामः सुकेशो नखदीर्घरोमा । गम्भीरशब्दः श्रुतशास्त्रनिद्रातन्द्राप्रियस्तिक्तकटूष्णभोजी २१ स मांसलः स्निग्धरसप्रियश्च सगीतवाद्योऽतिसहिष्णुशीतः । व्यायामशीलो रतिलालसोऽसौ भवेत् कफस्य प्रकृतिर्मनुष्यः २२ सम्मिश्रवर्णोऽतिसुदीप्तगात्रो गम्भीरधीरोऽतिविदीर्णरोमा रामाप्रियो भारसहोऽतिमिश्रो भोगेन युक्तः समता प्रकृत्याः २३ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ १९

अथान्तरं वच्मि मरुत्प्रवाहं पूर्वं तथा पश्चिमदक्षिणोत्तरम् तेषां गुणान् दोषविकोपनं च पृथक्पृथङ्मे गदतः शृणु त्वम् २४ शीतोऽतिमाधुर्यगुणः प्रयुक्तो वातप्रकोपी बलकृद्विशेषात् । वाताधिकानां व्रणशोफिनाञ्च प्राचीप्रवृत्तः पवनो न शस्तः २५ किञ्चित्सतिक्तो मधुरान्वितः स्यात् कफः समीरोद्भवरोगकारी । सुशीतलः शोफवतां व्रणानां शस्तो न चाग्नेयसमीरणश्च २६ तिक्तः कषायो मधुरातिमन्दः सुगन्धसंशीतगुणैः प्रकृष्टः । वदन्ति संज्ञां मलयानिलेति प्रकृष्टरामाजनचित्तहारी २७ मनोभवस्य प्रकरो मरुत्स्यात्कफोद्भवः सम्भवति प्रवारः । न चाति शीतो न तथोष्णको वा शुभश्च याम्यां प्रभवः समोरः २८ रूक्षोष्णवातः प्रशमः समीरः कट्वम्लपित्तासृजि दोषकारी प्रशोषणो देहबलस्य वायुः कफान्वितो नैर्ऋतिकः समीरः २९ अथातिसूक्ष्मो मरुतः प्रशस्तो नूनं प्रतीच्यास्तु दिशः प्रवृत्तः । वायुस्तथोदीरति रक्तपित्तं शस्तो व्रणानां कफशोफिनां वा ३० वायव्यजातो मरुतः प्रशस्तः कषायसंशुष्कगुणप्रसन्नः । करोति वातस्य वशं नराणां शस्तो न निन्द्यो व्रणशोफिनाञ्च ३१ स्वादुः कषायश्च कफप्रकोपी वायुः कुबेरस्य दिशः प्रवृत्तः । करोति मेघागमनं जलस्य शीतो न चोष्णो न च निन्द्य एषः ३२ शीतोतिगौल्यः कफवातकोपं करोति चैशानदिशः प्रवृत्तः । शस्तश्च नासौ व्रणशोफकासिनां क्षमस्तथा श्वासविकारिणाञ्च ३३ वस्त्रं नानाविधं चर्म वैणवं तालव्यञ्जनम् ्रञ्द्भ्यरद्धतअत्र हारीत संहिता २०

उशीरं शिखिपिच्छन्तु प्रत्येकेन गुणोत्तमाः ३४ वस्त्रप्रवृत्तो मरुतो न शस्तो व्रणशोफिनाम् । रक्तवासःसमुत्पन्नं विशेषेण तु वर्जयेत् ३५ करोति कफरक्तस्य कोपनं बहुरोगकृत्
श्रमग्लानिपिपासासु तन्द्रानिद्राकरो भृशम् ३६ वैणवं व्यजनं तन्द्रानिद्राकरणमेव च रूक्षोऽतिकषायरसो न च वातप्रकोपनः ३७ कांस्यपात्रमरुद्रूक्षाः सोष्णो वातस्य शान्तिकृत् दाहश्रमघ्नः स्वेदघ्नो निद्रासौख्यकरो नृणाम् ३८ तालपत्रकरम्भाया दलस्य व्यजनो हिमः मधुरोऽति श्रमघ्नः स्यादार्द्रत्वात्कफकोपनः ३९ निद्राकरः प्रीतिकरः शोकरोगविकारहा । दाहपित्त श्रमग्लानिनाशनो भ्रमशान्तिकृत् ४० उशीरमूलरचितं व्यजनं शिखिपिच्छकैः व्यजनेन सुगन्धः स्यान्मन्दशीतगुणात्मकः ४१ ग्लानिमूर्च्छाभ्रमशोषविसर्पविषदर्पहा इति पञ्चविधो वायुरुपायेन कृतो नृणाम् ४२ शिशिरे पूर्वकृद्वायुराग्नेयो हेमन्ते मरुत् वसन्ते दक्षिणो वायुग्रीष्मे नैर्ऋत्यकस्तथा ४३ वर्षासु पश्चिमो वायुर्वायव्यः शरदि स्मृतः शिशिरे च हेमन्ते च कथितश्चोत्तरोऽनिलः ४४ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ २१

अपराह्णे वर्षा वदन्ति निपुणास्तस्मिन्निशीथे शरत् प्रोक्तः शैशिरिकस्ततो हिमऋतुः सूर्योदयादग्रतः । मध्याह्ने च तथा वदन्ति निपुणा ग्रीष्मो ऋतुः स्यात्ततो वासन्तः कथितो ऋतुस्तु मुनिभिः पूर्वापराह्णे सदा ४५ कार्तिके मार्गशीर्षे वा माघे चाषाढसंज्ञके ऋतुसन्धौ च हेमन्ते सविषः स्यात्तु मारुतः ४६ स यस्मिन्नगरे देशे ग्रामे वाऽनगरेऽपि वा संस्पृशेदुल्बणो वायुर्गोमनुष्येभवाजिनाम् ४७ तिलकं गोषु जानीयाद्यक्ष्माणं मानुषेषु च गजेषु पावकं विद्याद्धयानां वेद्य उच्यते ४८ रक्षणीयं गजे पित्तं श्लेष्मा वाजिषु सर्वदा पवनोऽयं मनुष्याणां प्रायो रक्षेत सर्वदा ४९ वर्षां वायुः कुप्यतेऽन्तः शरत्सु लीनो वायुः कुप्यते पित्तरोगे । लीयेत्पित्तं शैशिरे श्लेष्मकुञ्जे हेमन्ते वा चीयमानस्तथापि ५० कोपं याति श्लेष्मरोगो वसन्ते तस्माच्छान्तिः श्लेष्मरोगस्य चोष्णे । पित्तं यायात्कोपतां ग्रीष्मकाले दृष्ट्वा शान्तिः पैत्तिकी वार्षिके च ५१ अधोवातमूत्रपुरीषस्य रोधात् कषायातिशीतान्निशाजागरेषु । व्यवायेऽथ वाहःश्रमाद्वातिभुक्त्या ध्वनि प्रायशो भाषणेनातिभीत्या ५२ विरूक्षैरतिक्षारतिक्तैः कटूभिस्तथा यानदोलाश्वकोष्ट्रे रथे वा । खरे कुञ्जरे मन्दिरारोहणेनोपवासे भवेन्मारुतस्य प्रकोपः ५३ शीते दिने दुर्दिने स्नानपीतेऽपराह्णे निशाजागरे वासरे वा । वर्षासु वै केवलं याति कोपं मरुत्सेवितो याति भुक्तस्य जीर्णम् ५४ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता २२

मसूराः कलायाश्च निष्पावकाश्च महामाषशुभ्रा यवाश्चामलाः स्युः । महाचावलाः कृष्णकान्या प्रदिष्टा हिमाः कंगुनीवाररक्ताश्च शाल्यः ५५ तथा कोरदूषकः श्यामाक एतैः कृतं चौदनं वा यवागूशृतं वा । कलिङ्गानि वास्तूकचिल्लीकपूती पलाण्डुस्तथा गृञ्जनं कन्दशाकम् ५६ इमान् सेवितात्यर्थमेति प्रकोपं समीरस्य चोक्तः सुरासम्भवस्तु । ततो यत्नतो रक्षणीयं मनुष्यैः शुभं चेहसे त्वं सदा रोगशान्तिम् ५७ अत्युष्णकट्वम्लरूक्षैर्विदाहे ससीधूसुरासेवनेनोपवासैः । घर्मेण क्रोधेन वा स्वेदनेन व्यवायेन वा याति कोपञ्च पित्तम् ५८ कुलित्थाढकीयूषमूला कशिग्रुशठीसर्षपाराजिकाशाकमेव । निशाजागरेणापि युद्धे श्रमे वा घनान्ते शरत्सु प्रकोपः प्रदिष्टः ५९ अम्लेन वापि चोष्णकाले शरत्सु भृशं वासरे मध्यमे वा निशीथे । जीर्ण रसे भुक्तमात्रे प्रकोपः प्रदिष्टो विदैः कोविदैः पैत्तिकः स्यात् ६० निशाजागरे वासरे वातिनिद्रा सुशीतोदसंसेवने शीतले वा । पयःपानपीयूषमिक्षुस्तिलैस्तु तथा गृञ्जनैः कन्दशाकैरथापि ६१ सदा सेवितैर्वास्तुकैश्चाणुमत्स्यैर्दधिपिच्छिलैर्माषमद्यैर्गुरूभिः । अतिस्निग्धसंसेवनैर्भोजनेषु प्रदिष्टः कफस्य प्रकोपोवसन्ते ६२ दिनान्ते प्रभाते निशान्ते नरस्य प्रकोपः प्रदिष्टोपि भुङ्क्ते न जीर्ण । प्रदिष्टो बुधैः कोविदैरेव रोगः कफोत्पत्तिं जानीहि कष्टप्रयुक्ताम् ६३ सशीतेऽथवा शीतकाले निशान्ते नरस्य प्रकोपः प्रदिष्टोऽपि भुक्तेः । न जीर्ण प्रदिष्टो बुधै रोगवेगो निदानं कफस्येति चोक्तं सुधीभिः ६४ यदा विपर्यासगते ऋतौ च प्रकोपनं यस्य यथा प्रदिष्टम् । ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ २३

तत्सेवमानस्य नरस्य रोगः स्याद्द्वन्द्वजो नाम विकारकारी ६५ यस्मिन्नृतौ वातविकोप उक्तस्तस्मिन्यदि श्लेष्मविकोपनानि । संसेवते वा मनुजस्तदास्य भवेत्प्रकोपः कफवातयोश्च ६६ यस्मिन्मरुत्कुप्यति सेवते यः पित्तस्य कोपप्रकराणि यानि । विपर्ययो वा ऋतुधान्ययोश्च स पित्तवातप्रभवस्तदा स्यात् ६७ विपर्यासागते काले रसे विपरिसेविते
तदा स्यात्सन्निपातो हि रोगोपद्रवकारकः ६८ इति आत्रेयभाषिते हारीतोत्तरे दोषप्रकोपो नाम पञ्चमोऽध्यायः ५ षष्ठोऽध्यायः अथातः सम्प्रवक्ष्यामि रसानाञ्च गुणागुणान् येन विज्ञानमात्रेण रसानां गुणविद्भवेत् १ मधुरः कषायस्तिक्तोम्लकश्च क्षारः कटुः षड्रसनामधेयम् द्वयं द्वयं वातकफप्रकोपनं द्वयं तथा पित्तकरं वदन्ति २ क्षारः कषायपवनः प्रकोपी मधुरोऽय तिक्तः कफकोपनश्च कट्वम्लकौ पित्तविकारकारिणौ कट्वम्लकौ वातशमौ प्रदिष्टौ ३ पित्तस्य नाशी मधुरः सतिक्तः कटूकषायौ शमनौ कफस्य अन्योन्यमेतच्छमनं वदन्ति परस्परं दोषविवृद्धिमन्तः ४ मधुरकटुकावन्योन्यस्य प्रकर्षविधायिनौ लवणवियुतोऽम्लीकः प्रोक्तो विशेषरसानुगः । अविकृतस्तथा तिक्तैर्युक्तः कषायरसो लघुर्भवति सुतरां स्वादुः श्रेष्ठो गुणं प्रकरोति वै ५ कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ्रञ्द्भ्यरद्धतअत्र हारीत संहिता २४

कट्वम्ललवणाः पित्तं स्वाद्वम्ललवणाः कफम् ६ समीरणे तु नो देयाः कटुतिक्तकषायकाः पित्ते कट्वम्ललवणाः स्वाद्वम्ललवणाः कफे ७ स्वाद्वम्ललवणान्वाते तिक्तस्वादुकषायकान् पित्ते कफे तिक्तकटुकषायान् योजयेद्रसान् ८ यः स्वादुः श्रमशोषहारिबलकृद्वीर्यप्रदः पुष्टिदः प्रह्लादं रसने करोति तदनु श्लेष्मप्रवृद्धिं ततः । पित्तानां दमनः श्रमोपशमनो वृष्यो नराणां हि तः क्षीणानां क्षतपाण्डुनेत्ररुजसंहर्ता भवेन्माधुरः ९ यस्तिक्तः कफवायुसंहृतिकरः कुष्ठादिदोषापहः शीतः सर्वरुजापहो भ्रमहरो रुच्यो न संक्लेदनः । जिह्वास्फोटकनाशनोऽथ भवति क्षीणक्षतानां हितो वक्त्रोल्लासकरः प्रकृष्टकथितो निम्बादिकास्वादकृत् १० नेत्रं स्रावयते मुखं विदहते कर्णस्य तापं वहन् बीभत्सं तनुते मुखं विकुरुते पित्तासृजः कोपनम् । अग्नीनध्युषते क्षणं विदहते जीर्णो न शस्तो भवेत् वातान्नाशयते कफञ्च दहते कटुको महारौद्रकः ११ जिह्वाक्लेदं जनयति तथा नेत्रनिर्म्मीलनं च बीभत्सं वा जनयति सदा वातरोगापहारी । कण्डूकुष्ठक्षतरुजकरो नो हितः शोफिनः स्यादम्लः प्रोक्तो मरुनशमनो- ऽसृक्प्रकोपं तनोति १२ जिह्वां कण्ठं ग्रसति नितरां ग्राहकश्चातिसारे श्लेष्मव्याधेरुपशमकरः श्वास- कासापहर्त्ता । हिक्कां शूलं हरति नितरां शोधनः स्याद्व्रणानां प्रोक्तश्चायं समधिकगुणः ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ २५

श्रेष्ठकाषायनामा १३ क्षारः क्लेदं जनयति मुखेऽस्वादुरुष्णो विदाही शूलश्लेष्मारुचिहरतृषामूत्र- कृच्छोषणश्च । आमाहारं जनयति पुनर्वह्निसन्धुक्षणः स्याच्छ्रेष्ठः प्रोक्तः स हि रसमहान्सर्वतो योग्यभूतः १४ इति षड्रसवर्णनं नाम षष्ठोऽध्यायः ६ सप्तमोऽध्यायः अथातः सम्प्रवक्ष्यामि पानीयानि पृथक्पृथक् शृणुध्वं च समासेन गुणान्गुणविपर्ययम् १ द्विविधं चोदकं प्रोक्तमान्तरिक्षं तथौद्भिदम् आन्तरिक्षं तु द्विविधं गाङ्गं सामुद्रिकं पयः २ तद्वच्चतुर्विधं प्रोक्तमन्तरिक्षसमुद्भवम् भूमा निपतितं तच्च जातं चाष्टविधं जलम् ३ गाङ्गसामुद्रविज्ञानं कथयिष्यामि साम्प्रतम् । धारितं येन पात्रेण लक्ष्यते तेन तद्विधम् ४ धौतं शुद्धं सितं वस्त्रं चतुर्हस्तप्रमाणकम् दण्डास्त्रिहस्ताच्चत्वारश्चतुष्कोणेषु बन्धयेत् ५ तस्मात्परीक्ष्यं तत्तोयं शुद्धे रौप्यमयेऽथवा कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः ६ शुद्धकार्पासतूलं वा श्वेतशाल्योदनस्य वा पिण्डिका तत्समाक्षिप्ता श्वेततां याति सा पुनः ७ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता २६

श्वेता तु निर्मला पिण्डी शुद्धञ्च निर्मलं पयः तद्गाङ्गं सर्वदोषघ्नं गृहीताङ्गं सुभाजने ८ तद्धारयेच्च मतिमान्बल्यं मेध्यं रसायनम् श्रमक्लमपिपासाघ्नं कण्डूदोषनिवारणम् ९ लघु मूर्च्छातृषाच्छर्दिमूत्रस्तम्भविनाशनम् गङ्गोदकस्य वृष्टिः स्याद्दिवसे वा प्रदृश्यते १० आविलं समलं नीलं घनं पीतमथापि च । सक्षारं पिच्छिलं चैव सामुद्रं तन्निगद्यते ११ सघनं कफकृच्चैव कण्डूश्लीपदकारकम् सवातलं च विज्ञेयं रक्तदोषार्त्तिकारणम् १२ द्विविधमुदकं प्रोक्तं तथा वक्ष्ये चतुर्विधम् रात्रिवृष्टिर्दिवावृष्टिर्दुर्दिनावाक्षणोद्भवा १३ निशाजलं कफकरं घनशीतगुणात्मकम् सामुद्रतोयस्य समं विज्ञेयं वातकोपनम् १४ दिवा सूर्यांशुतप्ताश्च मेघा वर्षन्ति यत्पयः तत्कफघ्नं पिपासाघ्नं लघु वातप्रकोपनम् १५ दुर्दिने वृष्टिसम्पातं वातभूतं सवातलम् कफकृच्छोषहननं तर्पणं दोषकोपनम् १६ तथा वा क्षणवृष्टिश्च दोषरोगकरी नृणाम् कण्डूत्रिदोषजननं पानीयं न प्रशस्यते १७ मेघा वमन्ति यत्तोयं सशैलवनकानने ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ २७

श्रावणे निन्द्यते भूमौ कराम्बु वर्षते रविः १८ सघनं नाभसं नीरं श्लेष्मकृद्वातकोपनम् शमनं पित्तरोगाणां मधुरं रक्तदोषकृत् १९ रूक्षं पित्तकरं चाम्लं गुल्मरक्तविकारकृत् चित्रानक्षत्रसम्भूतं खरं शस्यविदोषकृत् २० कार्त्तिकीवृष्टिसम्भूतं स्वातिसन्तापशीतलम् नाशनं च त्रिदोषाणां सर्वशस्यप्रवर्द्धनं २१ शीतलं बलकृद्वृष्यं विदाहज्वरनाशनम् क्वचित् पुण्यतरे देशे शरद्वर्षति माधवम् २२ पित्तज्वरविनाशाय शस्यनिष्पत्तिहेतवे
अम्बरस्थं सदा पथ्यममृतं स्वातिसम्भवम् २३ गगनाम्बु त्रिदोषघ्नं गृहीतं यच्च भाजने बल्यं रसायनं मेध्यं यन्त्रापेक्ष्यं ततः परम् २४ अनार्त्तवं विमुञ्चन्ति जलं जलधरास्तु यत् पतितं तत् त्रिदोषाय सर्वेषां देहिनामपि २५ अकाले वृष्टिसन्तापसम्भूतं तद्विकारकृत् विशेषाच्छ्लेष्मरोगाणां कारणान्न प्रशस्यते २६ तथा धारं च कारं च तौषारं हैममेव च चतुर्विधं समुद्दिष्टं तेषां वच्मि गुणागुणान् २७ धारं चतुर्विधं प्रोक्तं वक्ष्ये कारं महामते श्रीमतां महाप्राज्ञानां हिताय रुजशान्तये २८ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता २८

स्वर्नद्याः शीतवातेन मेघविस्फूर्जसंकुलम् शीताम्बु कठिनं भूत्वा शिलं जातं हिमेन तु २९ पश्चात् सुसूर्यात् सन्तापात् किञ्चिद्वै द्रवते जलम् वमन्ति मेघाः सलिलशकलं शीतलं मतम् ३० कारं शीतगुणैः श्रमोपशमनं शोषार्त्तिनिर्णाशनं मूर्च्छामोहशिरोर्त्तिनाशनकरं हिक्कावमेर्वारणम् । शोफानां व्रणिनान्तु दोषशमनं पित्तात्मिकानां हितं शंसन्ति प्रवरं गुणैः प्रतिदिनं तस्मान्न दूरे कृतम् ३१ तौषारं लघु शीतलं श्रमहरं पित्तार्त्तिशान्तिप्रदं दोषाणां शमनं जलार्त्तिहननं सर्वामयघ्नं परम् । कुष्ठश्लीपदचर्चिकाविषहरं पामाविसर्पापहं क्षीणानां क्षतशोषिणां हितकरं संसेव्यते मानवैः ३२ हैमं घनञ्च मधुरञ्च कफात्मकञ्च मूर्च्छाश्रमार्तिशमनं भ्रमनाशनञ्च पित्तासृजः प्रशमनं रुधिरक्षमञ्च शान्तिङ्करोति हिमसम्भववारि सद्यः ३३ धारं पृथिव्यां पतितं पयस्तु तत्रैव जातं गुणभेदभिन्नम् नानाविधैर्भेदगुणैश्च सम्यग् जातं जलं चाष्टविधं वदन्ति ३४ नाद्यौद्भिदं प्रस्रवणं च चौण्ड्य कौपं तडागं सरसोद्भवञ्च वाप्युद्भवं तत्प्रवदन्ति धीरा नीरं समासेन वदन्ति चात्र ३५ यत् श्रीमताञ्चैव महीपतीनां सेव्यं तथा योग्यतमं प्रदिष्टम् नादेयमम्बु मधुरं तथा लघु रूक्षं तथोष्णं शमनञ्च वायोः ३६ सन्दीपनं शस्यविनाशनञ्च हिमागमे वा शिशिरे निषेव्यम् बलप्रदं पथ्यकरं नराणां प्रदिष्टमेतत्तु सदा भिषग्भिः ३७ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ २९

औद्भिद्यमुष्णं लघु वातहारि सपैत्तिकं तृड्ज्वरनाशनञ्च कुष्ठव्रणानां श्रमशोषिणाञ्च शस्तं न च क्षारगुणोपपन्नम् ३८ उष्णं कषायं स्रवणोद्भवञ्च श्लेष्मापहं गुल्महृदामयघ्नम् कण्डूविसर्पक्षयरोगकारि नानाविधं दोषचयं करोति ३९ वदन्ति चौण्ड्यं लवणं तथा गुरु कफात्मकं वारि विकारकर्तृ हिक्काज्वरं शूलमरोचनञ्च करोति नूनं त्वचि दोषरोगम् ४० रूक्षं कफघ्नं लवणात्मकञ्च सन्दीपनं पित्तकरं लघूष्णम् कौपं जलं वातहरं प्रदिष्टं हितं न शस्तं शरदि वदन्ति ४१ घनं कषायञ्च तडागजं स्यात्स्वादु प्रपाके मधुरं तथैव शस्तं शरत्सु कफकृत् सवातं ग्रीष्मे हितं न प्रवदन्ति धीराः ४२ क्षारं घनं वातकफानुकारि त्वग्दोषकारि कटु दीपनञ्च
प्रोक्तं विपाके भ्रमशोषकारि स्यात् सारसं नो सुखकारि वारि ४३ क्षारं कवोष्णं कफवातरोगविनाशनं पित्तकरं कटु स्यात् शस्तं सदा पित्तविकारिणाञ्च शस्तं न वाप्यं शरदि वदन्ति ४४ इति चाष्टविधं प्रोक्तं जलं भिषजसत्तमैः नादेयं सम्प्रवक्ष्यामि समुद्रङ्गानित्तोतसाम् ४५ तथा प्राच्याङ्गमाश्चान्याः पश्चिमानुगमास्तथा तासां गुणागुणान् वक्ष्ये समासेन गुणोत्तम ४६ ससैकता सपाषाणां द्विविधा चाम्बुवाहिनी एवं चतुर्विधा नद्यो वातपित्तकफात्मिकाः ४७ सदावहा वा घनवारिकोष्णा मरुत्कफानां शमनञ्च तस्याः ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ३०

नीरं वसन्ते हितकृद्विशेषात् नदीभवं नैव हिमागमे च ४८ घनविमलशिलानां स्फालनात्ततफेनं बहलसजलवीचीच्छन्नसंक्षोभदृप्तम् । ननु लघु सुखशीतं नाति चोष्णं घनञ्च हरति पवनपित्तं श्लेष्मकृद्वारि सम्यक् ४९ न घनविमलतोयं सैकतायाः प्रवाहो न च भवति लघुत्वं श्लेष्मकृद्धन्ति पित्तम् । भवति मधुरमेवं किञ्चिदुष्णं कषायं भवति पवनकारि शोषमूर्च्छां निहन्ति ५० हिमवत्प्रभवा नद्यः पुण्या देवर्षिसेविताः घनपाषाणसिकतावाहिन्यो विमलोदकाः ५१ हन्ति वातकफं तोयं श्रमशोषविनाशनम् किञ्चित् करोति वा पित्तं त्रिदोषशमनं जलम् ५२ मलयप्रभवा नद्यः शीततोयामृतोपमाः घ्नन्ति वातञ्च पितञ्च शोषभ्रमश्रमापहाः ५३ गङ्गा सरस्वती शोणो यमुना सरयू शची वेणा शरावती नीला उत्तरापूर्ववाहिनी ५४ हिमवत्प्रभवा ह्येता हिमसम्भवशीतलाः समाः सर्वगुणैर्नद्यो वातश्लेष्महरा नृणाम् ५५ आसां नवशतैर्युक्ता गङ्गा प्रोक्ता मनीषिभिः
तथा चर्म्मण्वती वेत्रवती पारावती तथा ५६ क्षिप्रा महापदी पीता मुत्सकान्या मनस्विनी ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ३१

शेवती शैवलिन्यश्च सिन्धुयुक्ताः समुद्रगाः ५७ वातपित्तहरं नीरं त्रिदोषघ्नं मतं परम् श्रमग्लानिहरं वृष्यमुत्तराशानुगामि च ५८ तापी तापा च गोलोमी गोमती सलिला मही सरस्वतीयुता नद्यो नर्मदा पश्चिमानुगाः ५९ आसां जलं घनं पीतं पित्तघ्नं कफकृत्तथा वातदोषहरं हृद्यं कण्डूकुष्ठविनाशनम् ६० पश्चिमाद्रिसमुद्भूता गौतमी पुण्यभावना अस्याः शीतं जलं वापि कफवातविकारकृत् पित्तदं शमनं बल्यं मूत्रदोषविकारकृत् ६१ पूर्णा पयस्विनी वेत्रा प्रणीता च वरानना द्रोणा गोवर्द्धनी यान्या गौतम्यानुगता इमाः ६२ आसां जलं घनं नातिवातश्लेष्मविकारकृत् पूर्वसामुद्रगाश्चैव नद्यो नवशतैर्युताः ६३ कावेरी वीरकान्ता च भीमा चैव पयस्विनी विभावरी विशाला च गोविन्दी मदनस्वसा पार्वती चापरा नद्यो दक्षिणादिग्गमा इमाः ६४ प्रत्येकशो न सेवेत युक्तायाश्च पृथक्पृथक् सर्वासां परिसंख्या च शतानां चैकविंशतिः ६५ क्रोशे क्रोशे भवेत् कुल्या योजने योजने नदी द्वियोजना च विज्ञेया महानीरा बुधैर्नदी ६६ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ३२

भूमिः पञ्चविधा ज्ञेया कृष्णा रक्ता तथा सिता पीता नीला भवेच्चान्या गुणास्तासां प्रकीर्तिताः ६७ कृष्णा च मधुरा रूक्षा कषाया पीतवर्णिनी रक्ता सा च भवेत्तिक्ता मधुराम्ला सिता स्मृता ६८ नीला सकटुका ज्ञेया भूमिभागजलं विदुः सघनं मधुरं नीरं कृष्णं भूमिपरिश्रितम् ६९ पीताश्रितं कषायञ्च रक्तायाः क्षारमाधुरम् सितायामम्लमधुरं भूमिभागेन लक्षयेत् ७० तथा चतुर्विधं तोयं वक्ष्यामि शृणु कोविद पापोदकं रोगोदकमंशूदकारोग्योदकौ ७१ पापं पापोदकं चैव करोत्येवमरोचकम् विष्ठायुक्तं ग्राहि नीरं कृमिकीटसमाकुलम् ७२ समलं नीलशैवालं पापन्तु नर्दितञ्च यत् स्नाने पाने न तत् शस्तं नराणां वा हयेषु च ७३ स्नानेन त्वग्भवान्रोगान् कण्डूकुष्ठविसर्पकृत् पानेन कफगुल्मानां कृमीणां वरसम्भवान् करोति विविधान् रोगांस्तस्मात्तत् परिवर्जयेत् ७४ बहुवृक्षलताकुञ्जे छायाकूपोऽथ वा सरः अव्ययञ्चेदधोऽप्येवं कृमिशैवालसंयुतम् ७५ क्लिन्नं सपिच्छलं कृष्णं वृक्षमूलाश्रितं भवेत् बहुवृक्षपर्णयुक्तं दुर्गन्धं मूत्रगन्धवत् ७६ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ३३

रोगोदकं विजानीयात् करोति विषमान् गदान् शूलं कुष्ठं च कण्डूञ्च सेवितेन करोति हि ७७ विण्मूत्रतृणनीलिकाविषयुतं तप्तं घन फेनिलं दन्तग्राह्यमनार्त्तवं हि सजलं दुर्गन्धि शैवालजम् । नानाजीवविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुसुगोपितं न च पिबेन्नीरं सदा दोषलम् ७८ गुल्मप्लीहार्शः पाण्डुञ्च जलं वापि जलोदरात् ७९ दिवा सूर्यांशुसन्तप्तं रात्रौ चन्द्रांशुशीतलम् अंशूदकमिति ख्यातं सर्वरोगनिवारकम् ८० कफमेदोनिलघ्नं च दीपनं बस्तिशोधनम् श्वासकासहरं नीरं चक्षुष्यं नेत्ररोगहृत् ८१ पादशेषन्तु क्वथितं तच्चारोग्यजलं विदुः कासश्वासहरं पथ्यं मारुतं चापकर्षति ८२ सद्यो ज्वरं हरत्याशु समेदः कफनाशनम् प्रतिश्यायं पाचयति शूलगुल्मार्शनाशनम् ८३ दीपनञ्च हुताशस्य पाण्डुशोफोदरापहम् अजीर्णञ्च जरत्याशु पीतमुष्णोदकं निशि ८४ मद्यपानसमुद्भूते रोगे पित्तान्विते पुनः सन्निपातसमुत्थे च तत्र शीतोदकं हितम् ८५ शारदे च तथा ग्रीष्मे क्वाथेत् पादावशेषितम् शिशिरे च वसन्ते च कुर्यादर्द्धावशेषितम् ८६ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ३४

विपरीतमृतौ घृष्ट्वा प्रावृषि वार्द्धभागिकम् ८७ क्वाथ्यमानं च निर्वेगं निष्फेनं निर्मलञ्च यत् अर्द्धावशिष्टं भवति तदुष्णोदकमुच्यते ८८ तत्पादहीनं वातघ्नं चार्द्धं पित्तविकारजित् कफघ्नं पादशेषन्तु पानीयं लघु पाचनम् ८९ धारापाते हि विष्टम्भि दुर्जरं पवनापहम् शृतशीतं त्रिदोषघ्नं कफान्तभ्रामि शीतलम् ९० दिवसे क्वथितं तोयं रात्रौ तद्गुरु वर्जयेत् रात्रौ शृतं तु दिवसे गुरुत्वमधिगच्छति ९१ मदात्यये सदाहे च रक्तपित्ते तथोर्ध्वगे रक्तमेहे विशेषेण नोष्णं तोयं प्रशस्यते ९२ पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे आध्माने स्तिमिते कोष्ठे सद्यःशुद्धौ नवज्वरे ९३ अजीर्ण च तथा कासे न शीतमुदकं हितम् प्रतिश्याये प्रसेके च ज्वरे कुष्ठे व्रणेषु च ९४ शोफे नेत्रामये चैव मन्दाग्नौ च तथा क्षये सूतिजातासुतानारीरक्तस्रावेऽप्यरोचके ९५ एतेषां सिद्धिमिच्छद्भिः पानीयं मन्दमाचरेत् जीर्ण च क्षुत्प्रपन्ने च पीतं हन्त्युदरानलम् ९६ करोति गुल्मं शूलं वा तथा श्रान्ते बहूदकम् तस्माज्जीर्णऽनलं हन्ति अजीर्ण वारि भेषजम् ९७ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ३५

भुक्तान्तः परतः शस्तं पीतं वारि गुणात्मकम् अध्वश्रान्ते क्षुधाक्रान्ते शोषक्रोधातुरेषु च ९८ विषमासनोपविष्टे च पीतं वारि रुजाकरम् तस्मात् प्रसन्ने मनसि पानीयं मन्दमाचरेत् ९९ आदौ पीत्वा दहत्यग्निर्मध्ये पीत्वा रसायनम् तदन्ते च जलं पीत्वा तज्जलं दुर्जरं भवेत् १०० भोजनादौ जलं पीत्वा चाग्निसादः कृशाङ्गता अन्ते करोति स्थूलत्वमूर्ध्वमामाशयात् कफम् १०१ इति तोयपानविधिः इति जलवर्गो नाम सप्तमोऽध्यायः ७ अष्टमोऽध्यायः अथातः सम्प्रवक्ष्यामि क्षीरवर्गन्तु वत्सक दधिसर्पिर्वसातक्रं तेषां सर्वगुणागुणम् १ यद्यदाहारजातन्तु रसं क्षीरशिरानुगम् रसो जलं च भुक्तं च तथा पित्तेन संयुतम् २ पाचितं जाठरे वह्नौ पित्तेन सह मूर्च्छितम् पच्यमानं शिराप्राप्तं क्षीरतोयेन पुत्रक ३ तेन क्षीरमिति ख्यातमग्निसामात्मकं पयः अमृतं सर्वभूतानां जीवनं वलकृन्मतम् ४ हारीतः संशयापन्नः पप्रच्छ पितरं पुनः कथं रसस्य सम्पत्तिः कथं सञ्चीयतै विभो ५ कथं रक्तस्य संस्थाने क्षीरं पाण्ड समीरितम् ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ३६

कथं तत्र कुमारीणां वन्ध्यानां न कथं भवेत् ६ एवं पृष्टो महावीर्यः प्रोवाच मुनिपुङ्गवः शृणु पुत्र महाप्राज्ञ यदुक्तं पूर्वसूरिभिः ७ क्षीरं स्निग्धं तथा रक्तं पित्तेन पाकतां गतम् रक्तं श्वेतत्वमायाति तथा क्षीरं सितं भवेत् ८ क्षीरनाडी कुमारीणां वन्ध्यानां च कथं भवेत् अल्पधातुबलं यस्मात्तस्मात् क्षीरं न जायते ९ वन्ध्यानां क्षीरनाड्यस्तु वातेन परिपूरिताः क्षीरं च न भवेत्तस्मादार्त्तवं चाधिकं यतः १० प्रसूतासु च नारीषु बलेन सह सूयते तेन स्रोतोविशुद्धिः स्यात् क्षीरमाशु प्रवर्त्तते ११ तस्मात् सद्यः प्रसूतायां जायते श्लैष्मिकं पयः तेन कठिनतां याति तस्मात्तत् परिवर्जयेत् १२ स्रोतोविशुद्धिकरणं बलकृद्दोषनाशनम् पयस्त्रिदोषशमनं वृष्यञ्चाग्निप्रवर्द्धनम् १३ कृष्णा वृष्या च वातघ्नी पयस्तस्या विशिष्यते श्वेतापयः श्लेष्मकृच्च वातलं रक्तिकापयः १४ पित्तसंशमना पीता तस्याः क्षीरं विशिष्यते कृष्णासृक्पित्तसंयुक्ता श्वेता श्लेष्मगुणान्विता १५ कफवाताश्रिता पीता रक्ता वातगुणान्विता यद्यद्वर्यगुणास्ते तु ज्ञातव्याः सुमहात्मना १६ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ३७

धारोष्ण शस्यते गव्यं धाराशीतन्तु माहिषम् शृतोष्णमाविकं पथ्यं शृतशीतमजापयः १७ गव्यं पवित्रं च रसायनं च पथ्यं च हृद्यं बलपुष्टिदं स्यात् आयुष्प्रदं रक्तविकारपित्तत्रिदोषहृद्रोगविषापहं स्यात् १८ छागं कषायं मधुरञ्च शीतं ग्राहि लघु पित्तक्षयापहारि कासज्वराणां रुधिरातिसारे हितं पयश्छागलजं त्रिदोषजित् १९ औरभ्रं मधुरं रूक्षमुष्णवातकफापहम् न शस्तं रक्तपित्तानां वातिकानां हितं भवेत् २० स्निग्धं मरुच्छीतकरं च तन्द्रानिद्राकरं वृष्यतमं श्रमघ्नम् बलप्रदं पुष्टिकरं कफस्य सञ्जीवनं माहिषमुच्यते पयः २१ रूक्षं तथोष्णं लवणं कफस्य निवारणं वातविकारहारि लघु प्रशस्तं कटुकं कृमीणां शोफार्शसामौष्ट्रपयोऽनुकूलम् २२ सञ्जीवनं बृंहणमेव सात्म्यं सन्तर्पणं नेत्ररुजापहं च पित्तस्य रक्तस्य च नाशनं च नारीपयः स्नेहनमेव शस्तम् २३ निशाशीतांशुसंशीतं निद्रालस्यश्रमानुगम् सघनं शीतकफकृत्क्षीरं प्राभातिकं भवेत् २४ वासरे सूर्यसन्तापात्सद्योष्णं कफवातजित् हितं तत्पित्तशमनं सुशीतं भोजने निशि २५ अल्पाम्बुपानव्यायामात् कटुतिक्ताशने लघु पिण्याकाम्लाशिनीनान्तु गुर्वभिष्यन्दि शीतलम् २६ क्षीणानां दुर्बलानाञ्च तथा जीर्णज्वरार्दिते ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ३८

दीप्ताग्नीनामतन्द्राणां श्रमशोषविकारिणाम् २७ व्यवायिनामल्परेतसां श्वासिनां विषमाग्नीनाम् तथा च राजयक्ष्मणां क्षीरपानं विधीयते २८ न शस्तं लवणैर्युक्तं क्षीरं चाम्लेन वा पुनः करोति कुष्ठं त्वग्दोषं तस्मान्नेव हितं मतम् २९ अम्ल स्वादुरसं ग्राहि गुरूष्णं वातरोगजित् मेदःशुक्रबलश्लेष्मरक्तपित्ताग्निशोफकृत् ३० स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् वातापहं पवित्रं च दधि गव्यं रुजापहम् ३१ आजं दधि भवेच्चोष्णं क्षयवातविनाशनम् दुर्नामश्वासकासेषु हितमग्निप्रदीपनम् ३२ विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् शस्तं प्राभातिकं प्रोक्तं वातपित्तनिबर्हणम् ३३ घनं माहिषमुद्दिष्टं मधुरं रक्तदोषकृत् कफशोफहरं स्वस्थं पित्तकृद्वातकोपनम् ३४ विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि वातमर्शांसि कुष्ठानि क्रिमीन्हंत्युदरं परम् ३५ स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं हितम् चक्षुष्यं ग्राहि दोषघ्नं दधि नार्या गुणोत्तमम् ३६ कोपनं कफवातानां दुर्नाम्नां चाविकं दधि दीपनीयं तु चक्षुष्यं पाण्डुकृच्चापि वातुलम् ३७ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ३९

रूक्षमुष्णं कषायं स्यादत्यभिष्यन्दिदोषलम् रसे पाके च मधुरं कषायं कुष्ठवर्द्धनम् ३८ वार्षिकं पित्तकृद्वातशमनं कफकोपनम् गुल्मार्शःकुष्ठरोगे च रक्तपित्ते न शस्यते ३९ शारदं दधि गुर्वम्लं रक्तपित्तविवर्द्धनम् शोफतृष्णाज्वरार्त्तानां करोति विषमज्वरम् ४० गुरु स्निग्धं सुमधुरं कफकृद्बलवर्द्धनम् वृष्यं मेध्यं च हैमन्तं पुष्टिदं तुष्टिवृद्धिदम् ४१ वृष्यं बलकरं पैत्तं श्रमस्यापहरं परम् शैशिरं सघनं चाम्लं पिच्छलं गुरु चैव च ४२ वातलं मधुरं स्निग्धं किञ्चिदम्लं कफात्मकम् बलकृद्वीर्यकृत्प्रोक्तं वसन्ते न प्रशस्यते ४३ लघु चाम्लं भवेद्ग्रीण्मे चात्युष्णं रक्तपित्तकृत् शोषभ्रमपिपासाकृद्दधि प्रोक्तं न ग्रैष्मिके ४४ शरद्ग्रीष्मवसन्तेषु दोषकृन्न हितं भवेत् न नक्तं दधि भुञ्जीत न चाऽप्यघृतशर्करम् ४५ लवणं दधि भुञ्जीत भुञ्जीताऽप्युदकेन च तल्लवणाम्बुसंयुक्तं दधि शस्तं निशि ध्रुवम् ४६ ज्वरासृक्पित्तविसर्पकुष्ठिनां पाण्डुरोगिणाम् सम्प्राप्तकामलानाञ्च शोफिनाञ्च विशेषतः ४७ तथा च राजयक्ष्मणामपस्मारे च पीनसे ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ४०

प्रतिश्यायार्दितानाञ्च भोजने न हितं दधि ४८ हिक्काश्वासार्शःप्लीहानामतीसारे भगन्दरे शस्तं प्रोक्तं दधि चैषां लवणेन विमूर्च्छितम् ४९ गव्यं त्रिदोषशमनं पथ्ये श्रेष्ठं तदुच्यते दीपनं रुचिकृन्मेध्यमर्शोदरविकारजित् ५० माहिषं कफकृत्किञ्चिद्धनं शोफकरं नृणाम् शस्तं प्लीहार्शोग्रहणीदोषेऽतीसारिणामपि ५१ छागलं लघु सन्दिग्धं त्रिदोषशमनं परम् गुल्मार्शोग्रहणीशूलपाण्ड्वामयविनाशनम् ५२ तथा च त्रिविधं तक्रं कथ्यते शृणु पुत्रक यथा योगेन तत् तम्यक् शस्यते येषु रोगिषु ५३ समुद्धृतघृतं तक्रमर्द्धोद्धृतघृतञ्च यत् अनुद्धृतघृतञ्चान्यदित्येतत्त्रिविधं मतम् ५४ सर्वं लघु च पथ्यञ्च त्रिदोषशमनं परम् ततः परं वृष्यतरं क्रमेण समुदीरितम् ५५ अनुद्धृतघृतं सान्द्रं गुरु विद्यात्कफात्मकम् बलप्रदन्तु क्षीणानामामशोफातिसारकृत् ५६ गरोदरार्शोग्रहणीपाण्डुरोगे ज्वरातुरे वर्चोमूत्रग्रहे वापि प्लीहव्यापदमेहिषू ५७ हितं सम्प्रीणनं बल्यं पित्तरक्तविरोधकृत् मधुरं पित्तरक्तघ्नमत्युष्णं रक्तपित्तकृत् ५८ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ४१

बहूदकं दीपनीयं रक्तपित्तप्रकोपनम् पीनसे श्वासकासे च न शस्तमिह कथ्यते ५९ अर्द्धोदकमुदश्वित्स्यात्तक्रं पादजलान्वितम् वातं कफं हरेद्धोरमुदश्विच्छ्लेष्मलं भवेत् ६० करेण मर्दितं जन्तुतर्पणं बलकृन्मतम् श्रमापहरणं स्निग्धं ग्रहण्यर्शोऽतिसारनुत् ६१ ऋते शोफे च क्षीणानां नोष्णकाले शरत्सु च न मूर्च्छाभ्रमतृष्णासु तथा रक्ते सपैत्तिके न शस्तं तक्रपानञ्च करोति विविधान् गदान् ६२ शीतकालेऽग्निमान्द्ये च कफोच्छ्रायामयेषु च मार्गावरोधे दुष्टेऽग्नौ गुल्मार्शसि तथामये ६३ शस्तं प्रोक्तञ्च तक्रं स्यादमीषां सर्वदा हितम् सर्वकालेषु तच्छस्तमजाजिलवणान्वितम् ६४ नवनीतं नवग्राहि हृद्यं चोल्बणदीपकम् क्षयारुच्यर्दितप्लीहग्रहण्यर्शोविकारनुत् ६५ चक्षुष्यं शिशिरं स्निग्धं वृष्यं जीवनबृंहणम् क्षीणे द्रवं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ६६ स्मृतिवाय्वग्निशुक्रौजः कफमेदोविवर्द्धनम् वातपित्तकफोन्मादशोफालक्ष्मीज्वरापहम् सर्वदोषापहं शीतं मधुरं रसपाकयोः ६७ कृष्णगोऽश्वपयः फेनमजानां वेत्ति शस्यते
मन्दाग्नीनां कृशानाञ्च विशेषादतिसारिणाम् ६८ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ४२

उत्साहदीपनं वल्यं मधुरं वातनाशनम् सद्यो बलकरञ्चैव तस्य क्षीरविलोडितम् ६९ क्षीणज्वरातिसारे च सामे च विषमज्वरे मन्दाग्नौ कफमाश्रित्य पयःफेनं प्रशस्यते ७० क्षीरं गवां क्षीरफेनं तक्रं वा हितमेव च पक्वाम्रभक्षणाद्वापि ग्रहणी तस्य नश्यति ७१ ताम्बूलं नैव सेवेत क्षीरं पीत्वा तु मानवः यावत्तच्च द्रवेत्क्षीरं भुक्तान्ताद्वापि शस्यते ७२ विपाके मधुरं वृष्यं वातपित्तकफापहम् चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तमम् ७३ आज्यं सन्दीपनीयञ्च चक्षुष्यं बलवर्द्धनम् कासश्वासक्षयाणाञ्च हितं पाके कफापहम् ७४ सवातपित्तशमनं सुशीतं माहिषं घृतम् मधुरं गुरु विष्टम्भि बल्यं श्रेष्ठगुणात्मकम् ७५ औष्ट्रं कटु घृतं पाके शोषकृमिविषापहम् दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ७६ पाके लघ्वाविकं सर्पिः सर्वरोगविषापहम् वृद्धिं करोति चास्थ्नां वै वाश्मरीशर्करापहम् ७७ वृद्धिं करोति देहाग्नेः पय आश्वं विषापहम् चक्षुष्यमूषणञ्चाग्नेर्वातदोषनिवारणम् ७८ वृद्धिं करोति चास्थ्नां वै तत्प्रोक्तञ्च विषापहम् ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ४३

तर्पणं नेत्ररोगघ्नं दाहनुत्पयसो घृतम् ७९ सर्पिर्जीर्णं तच्च सन्धुक्षणे च मूर्च्छाकुष्ठोन्मादकर्णाक्षिशूले शोफार्शसोर्योनिदोषे व्रणेषु शस्तं सर्पिर्जीर्णमेवं नृणां स्यात् ८० कफेऽनिले योनिदोषे रोगेष्वन्येषु तद्धितम् चक्षुष्यमार्त्तं स्त्रीणाञ्च सर्पिः स्यादमृतोपमम् ८१ बलक्षये तर्पणभोजनेषु श्रमे च पित्तासृजि रेणुयुक्ते नेत्रामये कामलपाण्डुरोगे क्षये नवं सर्पिर्वदन्ति धीराः ८२ ज्वरे विबन्धेषु विषूचिकायामरोचके वा शमिते तथाग्नौ पानात्यये वापि मदात्यये वा शस्तं न सर्पिर्बहु मन्यते सुधीः ८३ इति आत्रेयभाषिते हारीतोत्तरे क्षीरवर्गो नाम अष्टमोऽध्यायः ८ नवमोऽध्यायः मूत्रवर्गः मूत्रं गोऽजाविमाहिष्यं गजाश्वोष्ट्रखरोद्भवम् मूत्रं मानुषजञ्चान्यत्समासेन गुणाञ्छृणु १ तीक्ष्णञ्चोष्णं क्षारमेवं कषायं बल्यं मेध्यं श्लेष्मवातान्निहन्ति भेदि रक्तपित्तशमं करोति गुल्मानाह दर्पदोषापहञ्च २ भ्रूशङ्खहनुकण्ठकमुखानाञ्च रोगान् गुल्मातिसारगुदमारुतनेत्रगदान् । कासं सकुष्ठं जठरकृमिकोशजालं गोमूत्रमेकमपि पीतमहानि हन्ति ३ आजं मूत्रं तीक्ष्णमुष्णं कषायं योज्यं पाने शूलगुल्मार्त्तिनाशम् कासश्वासकामलापाण्डुरोगार्शसाञ्चैव श्रेष्ठमेतद्वदन्ति ४ सक्षारं कटुकं तीक्ष्णं मूत्रं वातघ्नमाविकम् दुर्नामोदरशूलघ्नं कुष्ठमेहविशोधनम् ५ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ४४

सारं सतिक्तं कटुकं कषायं प्रभेदि वातस्य शमं करोति पित्तप्रकोपं कुरुते सदा च कुष्ठार्शपाण्डूदरशूलनाशम् ६ सुतिक्तं लवणं भेदि वातघ्नं कफकोपनम् क्षारमण्डलकुष्ठानां नाशनं गजमूत्रकम् ७ कासकफहरं छर्दिक्रिमिकुष्ठविनाशनम् दीपनं कटु तीक्ष्णोष्णं वातश्लेष्मविकारनुत् ८ औष्ट्रं कफहरं रूक्षं क्रिमिदद्रूविनाशनम् श्रेष्ठं कुष्ठोदरोन्मादशोषार्शःक्रिमिवातनुत् ९ गार्दभं नामनं मूत्रं तैलं योज्यं क्वचिद्भवेत् सक्षारं तिक्तकटुकमुन्मादकुष्ठरोगनुत् १० मानुषं क्षारकटुकं मधुरं लघु चोच्यते चक्षुरोगहरं बल्यं दीपनं कफनाशनम् ११ अप्रसूताया घनं मूत्रं प्रसूताया द्रवं लघु न किंगुणविशेषः स्यात्समता पाकवीर्ययोः १२ सौरभेयकमूत्रन्तु घनं सान्द्रं प्रशस्यते तच्च वृषणहीनानां किञ्चिल्लघुतरं मतम् १३ वृषमूत्रञ्च शोफघ्नं क्रिमिदोषविनाशनम् कामलाग्रहणीपाण्डुनाशनञ्चाग्निदीपनम् १४ अजागविगतं मूत्रं पाने शस्तं भिषग्वर आविकं माहिषं चाश्वं तैलपाके विधीयते १५ गजमूत्रप्रलेपञ्च कण्डूदद्रूविसर्पनुत् ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ४५

कारभं खरमूत्रं वा तैले नस्ये विधायकम् १६ इति आत्रेयभाषिते हारीतोत्तरे मूत्रवर्गो नाम नवमोऽध्यायः ९ दशमोऽध्यायः अथातः सम्प्रवक्ष्यामि इक्षुवर्गं गुणाधिकम् रसायनोत्तमं बल्यं रोगवारणमुत्तमम् १ स्निग्धञ्च तर्पणं वापि बृंहणञ्च सजीवनम् २ तद्वातपित्तशमनश्च तथैव वृष्य अन्तर्विदाही कफकृत्सितेक्षुः ३ तद्वत् सुकृष्णो भवते गुणानां वृष्यो भवेत्तर्पणदाहहन्ता क्षारः स किञ्चिन्मधुरो रसेन शोषापहर्त्ता व्रणशोफकारी ४ यन्त्रेण पीडितरसः कथितो गुरुश्च वृष्यः कफञ्च कुरुतेऽथ सुशीतलश्च । पाके विदाहबलकृच्च सुशोभनश्च संसेवितो रुधिरपित्तरुजं निहन्ति ५ दन्तैर्निष्पीडितरसो रुचिकृद्गुरुश्च सन्तर्पणो बलकरः कफकृच्छ्रमघ्नः । विष्टम्भकारी रुधिरस्य तथैव पित्तदोषं निहन्ति सकलं वमनञ्च शोषम् ६ रसपर्युषितोनेष्टस्तापहैकमते गुरुः कफपित्तकरः शोषी भेदनो वाऽथ मूत्रलः ७ पक्वो गुरुतरः स्निग्धः सतीक्ष्णः कफवातहा पित्तघ्नोऽपि विशेषेण गुल्मातीसारकासहा ८ फाणितं गुर्वभिष्यन्दि बृंहणं शुक्रलञ्च तत्
पित्तघ्नञ्च श्रमहरं रक्तदोषनिषूदनम् ९ बल्यो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः स पुराणोऽधिकगुणो गुल्मार्शोऽरोचकापहः १० ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ४६

क्षये कासे क्षतक्षीणे पाण्डुरोगेऽसृजः क्षये हितो योग्ये न संयुक्तो गुडः पथ्यतमो मतः ११ गुडखण्डश्च मधुरः सितश्च वातपित्तहा किञ्चिच्छीतगुणोपेतो बल्यो वृष्यो रुचिप्रदः १२ वातपित्तहरं शीतं स्निग्धं बल्यं मुखप्रियम् चक्षुष्यं श्लेष्मकृच्चोक्तं खण्डं वृष्यतमं मतम् १३ सिता सुमधुरा प्रोक्ता वृष्या शुक्रविवर्द्धनी पित्तघ्नी मधुरा बल्या शर्करा पायिनी नृणाम् १४ शर्करान्या सुशीता च कासशूलसमुद्भवा हिता पित्तासृजि शोषे मूर्च्छांभ्रममदापहा १५ गुदामये कामलशोषमेहे गुल्मामये पाण्डुहलीमके च
वाते सपित्तासृजि राजरोगे रुचिप्रदो गोरहरो गुरुः स्यात् १६ कासे शोषे गुडो नेष्ट अन्यत्रापि हितो मतः योगयुक्तोऽहि सर्वत्र हितो गुणगणालयः १७ क्षामक्षामक्षतरुजाश्वासमूर्च्छानुरोगिणाम् अध्वश्रान्तिश्रममदविषमूत्रकृच्छ्राश्मरीणाम् १८ जीर्णक्षामज्वरविषमगे रक्तपित्तप्रकोपे तृष्णादाहक्षयरुधिरगे सर्वरोगान् निहन्ति १९ इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने इक्षुवर्गो नाम दशमोऽध्यायः १० एकादशोऽध्यायः सन्धानं शीतलं स्वादु महातीसारनाशनम् सुस्वादु शीतलञ्चैव बृंहणं तण्डुलोदकम् १ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ४७

तुषोदकं वातपित्तहरन्तु रक्तपित्तहरं प्रभेदकञ्च विपाचनं स्याज्जरणं क्रिमिघ्नमजीर्णहन्तृ कटुकं विपाके २ जातं यवाम्लं कटुकं विपाके वातापहं श्लेष्महरं सरक्तम् पित्त प्रकोपं कुरुते सभेदि विदूषणं पित्तगदासृजश्च ३ सन्दीपनं शूलहरं रुचिप्रदं गोधूमजातं क्वथितं कषायम् सन्दीपनं स्याज्जरणं कफघ्नं समीरदोषं हरते ततोऽपि ४ पीतं जरयते वामं बाह्यदाह्यश्रमापहम् स्याच्च तत्कुष्ठकण्डूघ्नं तैलयुक्तं समीरहृत् ५ युगन्धराम्लं कफवातहन्तृ शूलामयानां जरणप्रकर्त्तृ तीक्ष्णं तथाम्लं श्रमदोषहन्तृ मेहार्शसो रक्तहितं मतञ्च ६ शोषे मूर्च्छाज्वरार्त्तानां भ्रमके दुर्विषार्दिते कुष्ठानां रक्तपित्तानां काञ्जिकं न प्रशस्यते ७ पाण्डुरोगे राजयक्ष्मे तथा शोफातुरेषु च क्षतक्षीणे पथिश्रान्ते मन्दज्वरनिपीडिते नरे नैव हितं प्रोक्तं काञ्जिकं दोषकारकम् ८ शूलवातार्दितानान्तु तथा जीर्णविबन्धिनाम् श्रेष्ठं प्रोक्तं तथाम्लञ्च गुणाधिक्यं नरेषु च ९ इति आत्रेयभाषिते हारीतोत्तरे काञ्जिकवर्गो नामैकादशोऽध्यायः ११ द्वादशोऽध्यायः मण्डवर्ग धाम्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम् वातलं रक्तशमनं ग्राहि सन्दीपनं वरम् १ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ४८

रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम् प्रमेहानश्मरीं हन्ति वातलं पित्तहृद्वरम् २ मधुरं शीतलं किञ्चिच्छ्लेष्मलं शोषनाशनम् अश्मरीमेहसंच्छर्दिवातलं श्वेततण्डुलम् ३ यवमण्डं कषायं स्याद्ग्राहि चोष्णे विपाकि च तद्वद्गोधूमसम्भूतं मधुरं पित्तवारणम् ४ अन्येषां क्षुद्रधान्यानां मण्डं वातहरं स्मृतम् ग्लानिमूर्च्छाकरं सद्यः कोद्रवं न हितं मतम् ५ तद्वच्च क्षुद्रधान्याम्लं वातलं पित्तकारकम् करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ६ इत्यात्रेयभाषिते हारीतोत्तरे मण्डवर्गो नाम द्वादशोऽध्यायः १२ त्रयोदशोऽध्यायः कुलत्थयूषो मधुरः कषाया भवेच्च रक्तस्य कफस्य हन्ता महाश्मरीपायुजमेदहन्ता सन्दीपनो मेहविशोषणश्च १ भवेदाढक्या मधुरञ्च यूषं विशोषणं वातनिवारणञ्च श्लेष्मापहं पित्तहरं ज्वराणां पृथक् पृथक् कृमिहृद्दारुणञ्च २ शीतलं मधुरं मौद्गयूषं पित्तविकारजित् तच्च वातहरं प्रोक्तं ज्वराणां शमनं परम् ३ कषायं कटुकं चोष्णं वातघ्नं कफदोषकृत् रक्तपित्तं नियन्त्याशु चणानां यूषमुच्यते ४ घनं सवातं कफकृन्माषयूषञ्च पित्तकृत् अम्लं पर्युषितं तच्च तैलपाके च शस्यते ५ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ४९

अन्यानि च प्रशस्तानि कुलत्थान्युषितानि च मसूरास्त्रिपुटा बल्याः कलायाद्याश्च वर्जिताः ६ इत्यात्रेयभाषिते हारीतोत्तरे यूषवर्गो नाम त्रयोदशोऽध्यायः १३ चतुर्दशोऽध्यायः० अथातः सम्प्रवक्ष्यामि तैलानाञ्च गुणागुणान् तच्च ज्ञेयं समासेन यथायोग्यं यथाविधि १ कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च पित्तकृद्वातशमनं श्लेष्मरोगादिवर्द्धनम् २ अल्पं रुचिकरं मेघ्यं कण्डूकुष्ठविकारनुत् वृष्यं श्रमापहं ज्ञेयं तिलतैलं विदुर्बुधाः ३ छिन्ने भिन्ने च्युते घृष्टे भग्नाग्निदाहकेऽपि च वाताभिष्यन्दिस्फुटने चाभ्यङ्गे तिलतैलकम् ४ विषे व्यालशुनः सर्पभेकाभ्यङ्गावगाहने पाने बस्तौ बलाशे च तिलतैलं विधीयते ५ तिलतैलं विधेयं स्यात्सर्वरोगनिवारणे ६ कटु तिक्तं तथा ग्राहि उष्णं स्यात् कफवातनुत् कृमिकण्डूशोधनं स्यात् पित्तकृत्सार्षपः स्रुतम् ७ कर्णरोगे कृमिरोगे तथा वातामयेषु च कण्डूकुष्ठामये चैव कफमेदोगुणेषु च ८ प्रशस्यं सार्षपञ्चैव रोगाणाञ्च विभावयेत् बस्तिकर्मणि नोशस्तं पित्तदाहकरं महत् ९ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ५०

अलसीप्रभवं तैलं घनं मधुरपिच्छलम् विपाके चोष्णवीर्यञ्च वातश्लेष्मनिवारणम् १० एरण्डजं घनञ्चापि शीतमेव मृदु स्मृतम् हृद्बस्तिजङ्घाकट्यूरुशूलानाहविबन्धुनुत् ११ आनाहाष्ठीलवातासृक्प्लीहोदावर्त्तशूलिनाम् हन्ति वातविकाराणां विदध्याच्च प्रशान्तये १२ यावन्तः स्थावराः स्नेहाः समासैन प्रकीर्तिताः सर्वे तैलेगुणा ज्ञेयाः सर्वे चानिलनाशनाः १३ सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं प्रशस्यते १४ तैलमेरण्डजं बल्यं गुरूष्णं मधुरं तथा तीक्ष्णोष्णं पिच्छलं विस्रं रक्तमेरण्डसम्भवम् १५ कुसुम्भतैलमुष्णन्तु विपाके कटुकं गुरु विदाहकं विशेषेण सर्वदोषप्रकोपनम् १६ कफोद्धातानि तैलानि यान्युक्तानि च कानिचित् गुणं कर्म च विज्ञाय कफवातानि निर्दिशेत् १७ सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं सूक्ष्मम् मधुरं कषायमेवं नातिरक्ते पित्तकरञ्च १८ सौवर्चलेंगुदीपीलुशिंशपासारसम्भवम् सरलागुरुदेवादिपादपसम्भवन्तु यत् १९ तम्बुरूत्थं करञ्जोत्थं ज्योतिष्मत्युद्भवं तथा अर्शः कुष्ठकृमिश्लेष्मशुक्रमेदोऽनिलापहम् २० ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ५१

करञ्जारिष्टके तिक्ते नात्युष्णेन विनिर्दिशेत् २१ कषायं मधुरं तिक्तं सारणं व्रणशोधनम् अच्छातिमुक्तकाच्छोडनालिकेरमधूकजम् २२ त्रपुष्युर्वारुकूष्माण्डश्लेष्मातकपीलूद्भवम् वातपित्तहृदर्शोघ्नं श्लेष्मलं गुरु शीतलम् २३ पित्तश्लेमप्रशमनं श्रीपर्णीकिंशुकोद्भवम् २४ वसा मत्त च वातघ्नी बलपित्तकफप्रदा सौकरी माहिषी वसा वातला श्लेष्मवर्द्धनी २५ सर्पनकुलगौधेया लेपने व्रणकुष्ठहा मत्स्यशिशुमारमकरग्राहादीनां वसाप्येवम् सा विसर्पहरा च हृद्या कुष्ठरोगविनाशिनी च २६ इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने तैलवसावर्गो नाम चतुर्दशोऽध्यायः १४ पञ्चदशोऽध्यायः धान्यवर्गः रक्तशालिर्महाशालिः कलमा षष्टिकापरा खञ्जरीटापसाही च जीरकान्या कपिञ्जला १ सौगन्धी शूकला चान्या बिलवासी कचोरका गरुडा रुक्मवन्ती च कलमान्या तथापरा बिल्वजा मागधी पीता ता अष्टादश शालयः २ रक्तशालिस्त्रिदोषघ्नी चक्षुष्या मूत्ररोगहा महाशालिर्गुरुर्वृष्या चक्षुष्याबलवर्द्धिनी ३ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ५२

शीता गुरुस्त्रिदोषघ्नी मधुरापरषष्टिका ४ जीरका वातपित्तघ्नी कलमा श्लेष्मपित्तहा कपिञ्जला श्लेष्मला स्यान्मागधीकफवातला ५ बिलवासी गुरुश्चापि पित्तघ्नी शुक्रवर्द्धिनी
शूकला पित्तवातघ्नी कचोरा पित्तनाशिनी ६ गरुडान्या च पातघ्नी पित्तमूत्रगदापहा रुक्मवन्ती लघू रुचिबलपुष्टिकरा मता ७ कलमान्या लघुः पथ्या वातश्लेष्मविवर्द्धिनी बिल्वजा मागधी पीता सामान्यास्तागुणागुणैः ८ रुचिकृद्बलकृन्मूत्रदोषघ्नी च श्रमापहा दग्धग्रामाचले जाताः शालयो लघुपाकिनः ९ सुपथ्या बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षिणः केदारप्रभवा वृक्षा वातपित्तविनाशिनः १० रक्तपित्तविकारघ्ना वातलाः कफकारकाः देशे देशे विभिन्नानि नामानि परिलक्षयेत् ११ समान्गुणैश्च सर्वास्तान्भूमिभागोद्भवान्विदुः १२ शालयश्छिन्नरोहाश्च मूत्रला वातलाहिमाः १३ श्यामाकः कोद्रवः कण्डूर्मर्कटी कपिकच्छुरा क्षुद्रधान्यमिदं प्रोक्तं शृणु पुत्र प्रवक्ष्यते १४ श्यामाकः शोषणो रूक्षो वातलः कफवारणः कोद्रवो रूक्षो ग्राही श्याद्रक्तपित्तविशोषणः १५ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ५३

नाधिककफकृत् प्रोक्तो रुच्यः स्वादुः प्रकीर्त्तितः १६ विदलान्नानि वक्ष्यामि शृणु पुत्र यथाक्रमम् यवगोधूमचणका माषो मुद्गाढकी तथा १७ मकुष्टकः कुलत्थश्च मसूरस्त्रिपुटस्तथा निष्पावकःकलायश्च विदलान्नं प्रकीर्त्तितम् १८ रूक्षः शीतो गुरुः स्वादुः कषायो मधुरो यवः वृष्यो ग्राही कफघ्नश्च स्यात्पित्तश्वासकासनुत् १९ मधुरो गुरुविष्टम्भी वृष्यो बल्योऽथ बृंहणः ईषत्कषायो मधुरो गोधूमः स्यात्त्रिदोषहा २० तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपनपथ्य उक्तः बल्योऽग्निमेधाजननो वरेण्यो मूत्रस्य दोषहरणो गुरुश्च २१ तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास्तथान्ये २२ रक्ते कफे पीनसके तु कण्ठे गलामये वातरुजे सपित्ते शीतः प्रतिश्यायकृमीन्निहन्ति शुष्कस्तथार्द्रश्चणकः प्रशस्तः २३ स्निग्धोऽथ वृष्यो मधुरश्च बल्यो मरुत्कफानां परिबृंहणश्च पाकेऽम्लकोष्णो विदितो हिमश्च माषोऽथ हृद्यः कथितो नरैश्च २४ शीतः कषायो मधुरो लघुः स्यात्पैत्तास्रजदोषहरः सरश्च विपाकतोऽसौ कटुकप्रधानो मुद्गस्तथान्यः कथितोऽभिरम्यः २५ मृदुःकषाया च सरक्तपित्तं वातं कफं हन्ति मुखव्रणश्च गुल्मज्वरारोचककासछर्दिहृद्रोगदुर्नामहराढकी स्यात् २६ सरक्तपित्तकफवातहन्ता चोष्णः कषायो मधुरः प्रदिष्टः ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ५४

ग्राही सुशीतो मुदकीलगुल्मं मकुष्टकः सर्वगदान्निहन्ति २७ उष्णो जयेन्मारुतपीनसन्तु कासप्रतिश्यायविबन्धगुल्मान् हिक्कां सरक्तस्तु बलाशपित्तं निहन्ति मेदश्च कुलत्थकोऽयम् २८ रूक्षो विशोषी मधुरः प्रदिष्टः स्नायुं करोत्यस्थिगतं बलिष्टम् शूलविबन्धभ्रमशोफकर्त्ता दाहार्शहृद्रोगविकारकारी २९ किञ्चित्कषाया मधुराः प्रदिष्टा रक्तप्रशन्तिं जनयन्ति बल्याः किञ्चित्सवातं विनिघ्नन्ति पित्तं कलायका मुद्गसमानरूपाः ३० रूक्षो विशोषी मधुरः प्रदिष्टः शूलार्त्तिगुल्मग्रहणीविकारान् करोति वातामयवर्द्धनञ्च पित्तासृजं ग्राहहरो मसूरः ३१ इति प्रतिष्टो बहुधान्यवर्गो ग्रन्थस्य विस्तारभयाच्च किञ्चित् ये ये प्रसिद्धाः सुतरां हि लोके तेषां गुणाः श्रेष्ठतमाः प्रदिष्टाः इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने धान्यवर्गो नाम पञ्चदशोऽध्यायः १५ षोडशोऽध्यायः शाकञ्चतुर्विधं प्रोक्तं पत्रं पुष्पं फलं तथा कन्दञ्चापि समुद्दिष्टं वक्ष्याम्येतत्पृथक्पृथक् १ द्विविधं शाकमुद्दिष्टं गुरु विद्यात्तथोत्तरम् प्रायः सर्वाणि शाकानि विष्टम्भीनि गुरूणि च २ रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि चक्षुष्या सर्वरोगघ्नी जीवन्ती मधुरा हिमा ३ स्वादुपाकमसृक्पित्तविषघ्नं तण्डुलीयकम् विविधवातविड्हन्ता मूत्रवातकफे हितः ४ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ५५

मधुरः कफवातघ्नः पाचनः कण्ठशोधनः विशेषतः पित्तहर इत्युक्तः कासमर्दकः ५ जयन्तीवातकफकृत्पित्तसंशमनी तथा त्रिदोषशमनी वृष्या काकमाची रसायनी ६ वास्तुकं मधुरं हृद्यं वातपित्तार्शसां हितम् तद्वच्चिल्ली तु विज्ञेया वातपित्तविकारिणाम् ७ केतकी वातला वृष्या तन्द्रानिद्राकरीमता मेथिका वातशमनी वेजिका वातला मता ८ सर्षपञ्च त्रिदोषघ्नं रुचिदञ्चाग्निवर्द्धनम् शतपुष्पा त्रिदोषघ्नी मेघ्या पथ्या रुचिप्रदा ९ जरात्री सिंहिका प्रोक्ता सातीसारे प्रशस्यते कुसुम्भं रुचिकृद्वातं हन्ति बल्यं रुचिप्रदम् १० किञ्चिद्वातावहं स्वादु विपाके च कफापहम् किञ्चिच्चाम्लं भवेत्क्षारं प्रशस्तमग्निमान्द्यके ११ मेदनं रूक्षमधुरं कषायमतिवातलम् उष्णा कषायमधुरा चाङ्गेरीवह्निदीपनी १२ कफादनी तथा फञ्जी तिलपर्णी तु सिंहिका चक्रमर्दन इत्यन्ये दुर्जरा वातकोपनाः १३ पिण्डालुको बला भिण्डी चिञ्चुकान्या बलादनी एते श्लेष्मकराः शाका वातलाग्निप्रशान्तकाः १४ सर्वे शाका दृष्टिहरा वीर्यत्वात्तण्डुलीयकम् ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ५६

तथैव शतपुष्पञ्च जयन्ती कासमर्दकम् १५ आलूषकञ्च वेताग्रं गुडूची चापमर्दकम् किराततिक्तसहितास्तिलाः पित्तहरा मताः १६ कूष्माण्डकालिङ्गचिर्भटं पटोलञ्च पुष्पञ्च तथा च तुण्डी बीजन्तु कर्कोटककारवेल्लं कोशातकीवेल्लिफलानि चैव १७ कूष्माण्डं त्रिविधं ज्ञेयं बाल्यं मध्यं तथोत्तमम् वातघ्नं रोचकं बाल्यं मध्यमं स्यास्त्रिदोषहृत् १८ शोफं वातकफौ हन्ति रक्तपित्तनिबर्हणम् १९ कलिङ्गं कफकृद्वातकरणं पित्तनाशनम् २० कारवेल्लश्च वातघ्नः कफघ्नः पित्तकारकः उष्णो रुचिकरः प्रोक्तो रक्तदोषकरो नृणाम् २१ पुष्पञ्च चिर्भटश्चैव दोषत्रयकरं स्मृतम् अपक्वं जीर्णकफकृत्पक्वं किञ्चिद्विशिष्यते २२ तुण्डीरमग्निरुचिकृद्वातपित्तनिवारणम् कर्कोटकं त्रिदोषघ्नं रुचिकृन्मधुरं तथा २३ कोशातकीफलं स्वादु मधुरं वातपित्तनुत् विपाके च कफं हन्ति ज्वरे शस्तं प्रदिश्यते २४ पटोलपत्रं विनिहन्ति पित्तं नालं कफघ्नं प्रवदन्ति धीराः फलञ्च तस्यास्तु त्रिदोषशान्तिं करोति नूनं ज्वरिणो हितं स्यात् २५ निद्राकरं प्रीतिकरं गुरु स्यात्सवातलं कासविकारकारि श्रेष्ठंसुदीर्घं कफवर्धनञ्च सश्वासकासारुचिवर्धनञ्च २६ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ५७

तथा बृहत्याः फलमेव शस्तं सन्दीपनं स्यात्कफवातनाशनम् कण्डूविसर्पज्वरकामलानां तथारुचौ शस्तमिदं वदन्ति २७ कन्दशाकान्प्रवक्ष्यामि शृणु पुत्र पृथक्पृथक् सूरणः पिण्डपिण्डालू पलाण्डुर्गृञ्जनस्तथा २८ ताम्बूलपर्णः कन्दः स्याद्धस्तिकन्दस्तथापरः वराहकन्दश्चाप्यन्यः कन्दशाका इमे स्मृताः २९ दीपनः सुरणो रुच्यः कफघ्नो विशदो लघुः विशेषात्सर्वपथ्यः स्यात्प्लीहगुल्मविनाशनः ३० आम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः ३१ पिण्डको वातलः श्लेष्मी ग्राही वृष्यो महागुरुः पिण्डालुकः श्लेष्मकरः शुक्रवृद्धिकरो मृदुः ३२ पलाण्डुर्वातकफहा शुक्रलः शूलगुल्मनुत् ताम्बूलपर्णः कन्दः स्याच्छुक्रलो विशदो लघुः ३३ हस्तिकन्दो गुरुर्ग्राही शुक्रवृद्धिप्रदो मतः वराहकन्दश्चार्शोघ्नो वातगुल्मनिवारणः ३४ अन्ये तेऽज्ञातकन्दाश्च ते न प्रोक्ता मयाऽनघ सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते ३५ दीपनोऽर्शस्तथा गुल्मक्रिमिप्लीहविनाशनः दद्रूणां रक्तपित्तानां कुष्ठानां न प्रशस्यते ३६ एते कन्दाः समाख्याताः श्रीमन्तो हि भिषग्वर ३७ इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने शाकवर्गो नाम षोडशोऽध्यायः १६ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ५८

सप्तदशोऽध्यायः आम्रं जम्बूश्च कोलश्च दाडिमामलकं तथा खर्जूरश्च परूषश्च मातुलुङ्गपियालजम् १ नागरं वालिम्का चैव द्राक्षा च करमर्दकम् क्षीरिका मधुराश्चैव फलवर्गे प्रकीर्तिताः २ अपक्वमाम्रं फलमेव शस्तं संग्राहि पित्तासृजि कोपनञ्च तथा विपक्वं मधुरञ्च चाम्लं भेद्यं सपित्तामयनाशनञ्च ३ जम्बूर्ग्राही मधुरकफहा रोचनो वातहारी कोलञ्चाम्लं मधुरमथवा श्लेष्मलं ग्राहि शस्तम् । श्रेष्ठं वातादिकरुजहरं दाडिमञ्चामयघ्नं तत्प्रोक्तञ्च मधुरमुदितं स्वादु राजादनञ्च ४ परूषककरहपीलुकानां पियालसिंहीकरमर्दकानाम् फलानि मेहे विनिहन्ति पित्तं हन्याच्च सर्वातुरसन्धिवातम् ५ स्यान्मातुलुङ्गः कफवातहन्ता हन्ता क्रिमीणां जठरामयघ्नः । सन्दूषितरक्तविकारपित्तसन्दीपनः शूलविकारहारी ६ श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोफनम् । दीपनं लघु रुच्यञ्च मातुलुङ्गमुदाहृतम् ७ त्वक् तिक्ता दुर्जरा तिष्या क्रिमिवात कफापहा । स्वादु शीतं गुरु स्निग्धं करहं वातपित्तजित् ८ मध्यं श्लेष्मातकं छर्दिकफारोचकनाशम् । दीपनं लघु संग्राहि गुल्मार्शोघ्नन्तु केशरम् ९ पित्तमारुतहृद्वातपित्तलं बद्धकेशरम् ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ५९

हृद्यं वर्णकरं रुच्यं रक्तमांसबलप्रदम् १० शूलाजीर्णविरुद्धेषु मन्दाग्नौ कफमारुते अरुचौ श्वासकासे च स्वरसोऽस्योपदिश्यते ११ रसोऽतिमधुरो हृद्यो वीर्यं पित्तानिलापहम् कफकृद्दुर्जरः पाके मातुलुङ्गकटाहकः १२ चेतोहारी तेन पृथगतिकटुत्वञ्चाभिधत्ते हृद्रोगानाहगुल्मश्वसनकफकरो ग्रीष्म कालेऽपहन्ता १३ वीर्यकृच्चार्शहृत्काले स्यात्तथा क्रिमिहृन्मतम् तिक्तं पुष्पञ्च बीजञ्च गुल्मनुत्स्यात्तथापरम् १४ निम्बूकं क्रिमिसमूहनाशनं तीक्ष्णमुष्णमुदरग्रहापहम् वातपित्तकफशूलिनां हितं नष्टधान्यरुचिशोधनं परम् १५ त्रिदोषसद्योज्वरपीडितानां दोषाश्रितानाञ्च स्रवज्जलानाम् मलग्रहे बद्धगुदे हितञ्च विषूचिकायां मुनयो वदन्ति १६ नारङ्गजं स्वादु गुणोपपन्नं सन्दीपनं रोचकमर्शसाञ्च त्रिदोषहृच्छूलक्रिमीन्निहन्ति मन्दाग्निकासश्वसनापहारि १७ अम्ली हि चाम्लफलमविपक्वां तदस्रपित्तामकरं विदाहि वातामये शूलगदे प्रशस्तं पक्वं तथा शीतगुणोपपन्नम् १८ द्राक्षाफलं मधुरमम्लकषाययुक्तं क्षारेण पित्तमरुतां कफहारिशीघ्रम् । श्रेष्ठं निहन्ति रुधिरामयदाहशोषमूर्च्छाज्वरश्वसनकासविनाशकारि १९ कषायघ्ना विपाके च द्राक्षा चैव कफे हिता २० नालिकेरं सुमधुरं गुरु स्निग्धञ्च शीतलम् ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ६०

हृद्यं सबृंहणं बस्तिशोधनं रक्तपित्तनुत् २१ विष्टम्भि पक्वं मतिमन्नपक्वं कफातलम् बृंहणं शीतलं वृष्यं नालिकेरफलं विदुः २२ हृद्यं मनोज्ञं कफवृद्धिकारि शान्तञ्च सन्तर्पणमेव बल्यम् । रक्तं सपित्तं श्वसनञ्च दाहं रम्भाफलं हन्ति सदा नराणाम् २३ अपक्वं संग्राहि च शीतलञ्च कषायकं वातकफं करोति । विष्टम्भि बल्यं गुरु दुर्जरञ्च आरण्यरम्भाफलमेव तद्वत् २४ कपित्थकाम्लं मधुरं कषायं विषदं गुरु कासातिसारहृद्रोगच्छर्दिकफामयापहम् २५ कपित्थं मधुरं शीतं कषायं ग्राहकं लघु २६ अपक्वं खर्जूरफलं त्रिदोषशमनं मतम् पक्वमेव हितं श्रेष्ठं त्रिदोषशमनं परम् २७ कषायमधुरं भेदि पूगं पित्तकफापहम् २८ नागवल्लोदलं हृद्यं सुगन्धि कफवातजित् २९ खदिरः कफपित्तघ्नः कण्ठ्यः कुष्ठनिबर्हणः ३० चूर्णकं पित्तहृत्तीक्ष्णं ताम्बूलं कफवातजित् ३१ संयोगात्सुरसं स्वादु मुखवैरस्यनाशनम् दन्तस्थैर्यकरं शोषपीनसारोगशान्तिकृत् ३२ रोगपाटवसंशुद्धिस्वरकान्तिकरं मतम् कण्ठ्यं रुच्यमुरस्यञ्च फलकर्पूरसंयुतम् ३३ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ६१

इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने फलवर्गो नाम सप्तदशोऽध्यायः१७ अष्टादशोऽध्यायः अतो वक्ष्यामि माक्षीकं त्रिविधं शृणु पुत्रक भ्रामरं सारघं क्षौद्रं तेषां वच्मि गुणागुणम् १ शीतं कषायं मधुरं लघु स्यात्सन्दीपनं लेहनमेव शस्तम् संशोधनञ्च व्रणशोधनञ्च संरोपणं हृद्यतमञ्च बल्यम् २ त्रिदोषनाशं कुरुते च पुष्टिं कासक्षये वा क्षतजे च छर्दौ । हिक्काभ्रमे शोषणपीनसानां रक्तप्रमेहे सरलातिसारे ३ रक्तातिसारे च सपित्तरक्ते तृण्मोहहृत्पार्श्वगदेऽपि शस्तः । नेत्रामये वा ग्रहणी गदे वा विषे प्रशस्तं भ्रमरैश्चित्तं यत् ४ भ्रामरं सघनं जाढ्यं भूयिष्ठं मधुरं च यत् क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेहनम् ५ तस्माल्लघुतरं रूक्षं सारघं नातिशीतलम् कासे क्षये प्रशस्तं स्यात्कामलार्शो विनाशनम् ६ नातिशीतं न च रूक्षं दीपनं बलकृन्मतम् अतीसारे नेत्ररोगे क्षते वा क्षतजे हितम् ७ भ्रामरं वृक्षसंस्थाने विटपे सारघं भवेत् रन्ध्रे तु कोटरे वापि क्षौद्रं तत्र प्रशस्यते ८ इति आत्रेयभाषिते हारीतोत्तरे मधुवर्गो नाम अष्टादशोऽध्यायः १८ एकोनविंशोऽध्यायः गौडी माध्वी तथा पैष्टी निर्यासा कथितापरा इति चतुर्विधा ज्ञेयाः सुरास्तासां प्रभेदकाः १ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ६२

भेदेन द्वादश प्रोक्ताः सुराः सौवीरकारसैः सीधुर्गौडी च मत्स्यण्डी गुडेन प्रभवास्त्रयः २ माध्वीकं मधुकं माध्वं मधुना संयुताः सुराः पैष्टीष्वरिष्टजातन्तु तण्डुलप्रभवास्त्रयः ३ मृद्वीकारसमम्भूता ताडमाडरसोद्भवा निर्यासा सा तु विज्ञेया तासां वच्मि गुणागुणम् ४ सीधुः कषायाम्लकमधुरो वा सन्दीपनो भेदमलापमर्दः । आमातिसारानिलपित्तशूलश्लेष्मामयार्शोग्रहणीगदघ्नः ५ गौडी कषाया मधुराम्लशीता सन्दीपनी शूलमलापहन्त्री हृद्यात्रिदोषं शमयत्यजीर्णं पाण्डामथार्शःश्वसनं निहन्ति ६ हरति मलमियञ्च दीपनी पाण्डुमेहान् लघुमधुरसुशीता रोचना पित्तहन्त्री । जरयति सकलं वा पीतमम्लातिमात्रं श्वसनरुधिरकासान् हन्ति वा कामलाञ्च ७ माध्वीकं शीतलं चाम्लमधुरमपि तथा सत् कषायोष्णकञ्च हन्यात्पित्ताम- यार्शः श्वसनमपि तथा चातिसारं प्रमेहान् । शूलानाहोपमर्दं जरयति सकलं दीपयत्यग्निसात्म्यं तस्माद्वातामवातं वमन- मपि तथा हन्ति सर्वांश्च रोगान् ८ कषाया मधुरा चाम्ला सुरा सन्दीपनी मता कासार्शोग्रहणीस्तन्यमूत्ररोगविनाशिनी ९ पैष्टी सन्दीपनी रुच्या कफकृद्वातनाशिनी पित्तला पाण्डुरोगाणां कारिणी बहुधा मता १० वातपित्तकरो रूक्षः कषायो विशदो गुरुः ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ६३

श्लेष्मलो भेदनो ग्राही मूत्रकृच्छ्रशिरोऽर्त्तिनुत् ११ श्लेष्मदोषकरा वृष्या वातला श्लेष्मवर्द्धिनी कासहृल्लासविध्वंसकरणा ताडमण्डिका १२ पूर्णं कषायपित्ते च योगयुक्ता सुरा हिता बहुदोषहरा चैव श्लेष्मरोगे विशेषतः १३ श्रमज्वरातुरे शोषे शोफपाण्ड्वामये क्षये क्षतेः क्लमेऽपस्मारे च यक्ष्मिणाञ्च भ्रमेषु च १४ श्रान्ते वा विषपीते वा सर्पदष्टे जलोदरे रक्तपित्ते तथा श्वासे वारुणी न हिता मता १५ इति आत्रेयभाषिते हारीतोत्तरे मद्यवर्गो नामैकोनविंशोऽध्यायः १९ विंशोऽध्यायः शूलिनः शृङ्गिणश्चैव नखिनोऽन्ये प्रकीर्तिताः श्वापदाः पक्षिणश्चान्ये मत्स्याश्चान्याः सरीसृपाः १ जलेचरा जलाधारा ग्रामारण्यनिवासिनः अनूपा जाङ्गला जीवास्तथा साधारणोऽपरः २ मृगरुरुचित्राङ्गास्तथा गण्डश्च वनगवयमहिषाः । सूकराद्याश्च येऽपि भवन्ति विविधवर्णा ग्रामवासिनश्च ३ ये ये वनगजाद्याश्च ग्रामकाद्याश्च शृङ्गिणः शूकरच्छिक्कराद्याश्च शूरिणो वा भवन्त्यमो ४ शशकः शल्लकी गोधा मार्जाराद्या नखायुधाः सर्पमत्स्यादिका ये च ते विज्ञेयाः सरीसृपाः ५ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ६४

मत्स्यमंकुरकाद्या ये कच्छपा दुर्जरादयः हंससारसचक्राद्याः कपिञ्जलकुमूदकाः ६ आनूपास्तेषु विज्ञेयाः श्लेष्मला वातकोपनाः ७ शशलावकवाताटा गोधाहरिणकूटकाः छिक्कराद्यास्तथान्येऽपि तित्तिराद्याश्च कूर्चकाः ८ भारद्वाजास्तथा श्येना मूषका वरवारणाः इत्येता जाङ्गला जीवा ये जलेन विना स्थिताः ९ शूकरा मृगशल्लाद्याः सलिलाशयमाश्रिताः मकराद्याश्च गण्डाका गवयाश्च तथापराः १० महिषाद्याश्च ये चैव ते च साघाराणा मताः कुररबकमकराः कङ्कचटकपिकभृङ्गसारसाः ११ आडिदात्यूहहंसा जलकरटिकपिङ्कटिट्टिभाद्याश्च जलेचरा विहङ्गास्ते खञ्जरीटाश्च भासकाः १२ इत्येते जलजा जीवाः स्थलजाः स्थलचारिणः १३ गजवाजिनस्तथोष्ट्रा माहिषा सौरभाजकाः खरशूकरमेषाश्च श्वानो मार्जारमूषकाः १४ इत्येते पशवो ज्ञेया ग्रामवासनिवासिनः कुक्कुटकलविङ्कपारावतकपोतकाः १५ पक्षिणो ग्रामचाराश्च वच्मि चैषां गुणागुणम् १६ शृङ्गिणां हरिणः श्रेष्ठो बल्यो रोचनदीपनः त्रिदोषघ्नो लघुः पाके मधुरो ज्वरिणां हितः १७ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ६५

क्षते क्षयार्शसोः पाण्ड्वरोचकनिपीडिते कासश्वासातुराणाञ्च एणमांसं सुखावहम् १८ चित्राङ्गो वातशमनो बृंहणो बलकृन्मतः श्लेष्मलः कथितो वापि दुर्जरो मेदवर्द्धनः १९ छिक्करो लघु बृंही च मधुरो दोषनाशनः तुल्यो हरिणमांसस्य ज्वरेष्वपि प्रशस्यते २० रोहितो बृंहणश्चैव विबन्धी दुर्जरो घनः ज्वरिणां विषमाग्नीनामतीसारेण त्रास्यते २१ तथैव गण्डगवयमहिषोष्ट्रतुरङ्गमाः विबन्धिगुरवः स्निग्धा वातालस्ये प्रकीर्त्तिताः २२ वातघ्नं रोचनं वृष्यं दुर्जरं श्रमनाशनम् सौकरं पित्तशमनं रुचिदं धातुवर्द्धनम् २३ शशको जाङ्गलश्रेष्ठो लघुर्वृष्यश्च दीपनः रुचिकृत्तर्पणो बल्यस्त्रिदोषशमनो मतः २४ ज्वरे च पाण्डुरोगे च क्षये कासे गुदामये राजयक्ष्मणि पाण्डौ च तथातीसारिणां हितः २५ शल्लकी बृंहणो बल्यः स्निग्धो वृष्यो रुचिप्रदः वातश्लेष्महरो हृद्यो मधुरो धातुवर्द्धनः २६ शल्यको बृंहणो बल्यः स्निग्धो वृष्यो रुचिप्रदः वातलः किञ्चिद्धातूनां वर्द्धनो मधुरो घनः २७ रक्तपित्तहरा वृष्या स्निग्धा मधुरशीतला ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ६६

श्वासकाशहरा प्रोक्ता गोधा चार्शोहिता बला २८ स्निग्धो बलकरः शुक्रवर्द्धनो मधुरो लघु दुर्नामकृमिदोषघ्नो वातहारी च मूषकः २९ इति आत्रेयभाषिते हारीतोत्तरे चतुष्पदानां मांसवर्गो नाम विंशोऽध्यायः २० एकविंशोऽध्यायः पक्षिणाञ्च महाश्रेष्ठो लावको जाङ्गलात्मजः संग्राही दीपनः प्रोक्तः कषायो मधुरो लघुः १ तथा विपाके मधुरः सन्निपातेऽतिपूजितः २ तथैव तित्तिरो वृष्यो मेधाग्निबलवर्द्धनः सर्वदोषहरो बल्यो बलाका समता गुणैः ३ वार्त्ताको विशदो वृष्यो यथा लावस्तथैव च कृष्णगौरप्रभेदाश्च श्रेष्ठो गौरश्च तित्तिरः ४ तृतीयतित्तिरोऽन्योऽपि सामान्यो गुणलक्षणैः सवातलोऽतिबलकृद्धनः किञ्चिद्रसायनः ५ मेधावृद्धिं स्रोतसाञ्च करोत्युत्पाटनं शिखी सवातलोऽतिबलकृद्धनः किञ्चिद्रसायनः ६ सुस्निग्धो श्लेष्मलो वृष्यो घनः शुक्रविवर्द्धनः मांसवृद्धिकरो बल्यो द्वितीयश्च मयूरकः ७ तथैव कौक्कुटो ज्ञेयो मधुरश्च गुणात्मकः ८ कापोतो बृंहणो बल्यो वातपित्तविनाशनः तर्पणः शुक्रजननो हितो नॄणां रुचिप्रदः ९ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ६७

तथा पारावतो ज्ञेयो वातश्लेष्मकरो गुरुः बल्यो वृष्यो रुचिकृच्च तथा हारीतको मतः १० पोतकी भङ्गिका क्षुद्रा तथा च कुनटी तथा एते तुल्यगुणा ज्ञेया लघुवातापहारिणः ११ लघुश्च कृकरो ज्ञेयः कायाग्निवर्द्धनो भृशम् १२ तथा लघुर्वातहरः काष्ठकूटोऽग्निवर्द्धनः वातश्लेष्माधिको ज्ञेयः शीतलः शुक्रवर्द्धनः १३ अश्मरीं हन्ति विशदो बलकृन्मां सतक्षणः १४ चकोरोऽथ तथा शारी समदोषौ गुणागुणैः १५ क्रौंचो वृष्योऽतिरुचिकृदश्मरीं हन्ति नित्यशः शोषमूर्च्छाहरो वृष्यो हन्ति कासमरोचकम् १६ कोकिलः श्लेष्मलो ज्ञेयः पित्तसंशमनो मतः १७ वैवृताक्षस्त्रिदोषघ्नो बल्यः शुक्रविवर्द्धनः १८ गृहस्य चटको वृष्यो बलशुक्रविवर्द्धनः
सर्वदोषहरश्चापि दीपनो मांसवर्द्धनः १९ इति आत्रेयभाषिते हारीतोत्तरे स्थलचराणां मांसवर्गो नाम एकविंशोऽध्यायः २१ द्वाविंशोऽध्यायः हंसः श्लेष्मकरो बलातिरुचिदो वृष्यो गुरुः शीतलस् तद्वच्च कण्डजाड्यशुक्रजननो वृष्योऽतिरुच्यो मृदुः । ज्ञेयः सारसकः कफानिलहरो वृष्यो गुरुश्चोच्यते ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ६८

वृष्यो वीर्यविवर्द्धनः कफहरः कङ्कस्तथा भासकः १ आडी वातविकारकासहननी बल्या वृषा दीपनी क्रौञ्ची चासुरिशुक्रदोषहननी तुल्यस्तथा कर्कटः । दात्यूहो मरुतस्य नाशनकरो वृष्योबलः शुक्रदस् तथा श्रेष्ठगुणः श्रमोपशमनः शुक्रप्रदो वातहा २ मत्स्यानां मकरः श्रेष्ठो दीपनो वातनाशनः रुचिप्रदः शुक्रकरश्चाश्मरीदोषनाशनः ३ शृङ्गी वातविनाशनो रुचिकरो वृष्यः कफघ्नो मतस् तस्माद्रोहितको हितो बलकरो वातात्मकः श्लेष्मकः ४ श्लेष्माकरी तु सफरी नलमीनः कफात्मकः शकुली च विशाला च ज्ञेयौ वातकफात्मकौ बिलं विमत्स्यं ज्ञेयञ्च वातपित्तकफाकरम् ५ कच्छपो मधुरः स्वादुः शुक्रवृद्धिकरो मतः वातश्लेष्मप्रजननो बृंहणो रूक्ष एव च ६ कुलीरोऽतिबलो वृष्यः पाण्डुक्षयविनाशनः शोफातिसार ग्रहणीस्थविराणां स्त्रियां हितः ७ मकरो दीपनो हृद्यो ग्राही चोष्णविकारहा मूत्राश्मरीणां शमनो गुल्मातीसारनाशनः ८ बककाकारिश्येतशूकरखरोष्ट्राश्वादयो भल्लूका व्यालाः सौरभेयप्रभृतयश्च ये चान्ये जीवा नृणाम् । मण्डूकाश्च सरीसृपादिकगणाधूकाः कलिङ्गाश्च ये काकसारसशारिकाः शुका इमे भक्ष्या न शस्ता इमे ९ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ६९

गृहचटकचकोराः काकजात्याश्च श्येनाः पिकशुकमघशारीभृङ्गदात्यूहमाङ्गाः
। जलकरटकपोतपोटकीखञ्जरीटाः कुकुरमघमलिङ्गा यूकपिङ्गादयश्च १० एते भक्ष्या नैव भक्ष्या न चेष्टा ये चान्येऽप्यज्ञातनामाण्डजाश्च । अन्ये चापि श्वापदा ये च निन्द्यास्ते च खाद्ये वर्जिताश्चात्र सर्वे ११ इति आत्रेयभाषिते हारीतोत्तरे मांसवर्गो नाम द्वाविंशोऽध्यायः २२ त्रयोविंशोऽध्यायः मण्डः परिस्रवो भक्तस्तर्पणो वातनाशनः मूत्रमेहसमीरघ्नो रुचिकृन्मूत्रलो मतः १ आशुमण्डो भवेद्ग्राही मधुरो वा कफात्मकः तर्पणः क्षयदोषघ्नः शुक्रवृद्धिकरः परः २ अप्रसाधितभक्तो युगन्धराणां भक्तश्च घनो विशदमधुरश्च कफे त्रिदोषशमनश्च कथ्यते कासश्च श्वासात्मक एव स स्मृतः ३ सन्दीपनी स्वेदकरा यवागूः सम्पाचनी दोषमलामयानाम् सन्तर्पणी धातुबलेन्द्रियाणां शस्ता भवेत्स्याज्ज्वररोगिणाञ्च ४ भागैकञ्च भवेत् तत्र द्विभागेन जलं क्षिपेत् चित्रकं पिप्पलीमूलं पिप्पली चव्यनागरम् ५ धान्यकस्य समांशानि पिष्ट्वा श्वेतासितण्डुलान् संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ६ यवागूमुपभुञ्जानो जनो नारुचिमाचरेत् शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्जरा ७ पञ्चकोलकधान्याकैर्युक्तो रास्नान्वितः पुनः ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ७०

मण्डस्त्रिदोषशमनो ज्वराणां पाचनः परः ८ पायसं गुरु विष्टम्भजननं श्लेष्मवातलम् पित्तसंशमनं बल्यं वृष्यं श्रेष्ठं रसायनम् ९ गुरुर्विष्टम्भजननो वातश्लेष्मकरः स्मृतः पित्तसंशमनो बल्यो बृष्यश्चैव फलप्रदः १० मुहुस्तण्डुलसंयुक्तो माषतण्डुलवान् पुनः अन्यथा धान्यगुणवान् लक्ष्यते च भिषग्वर ११ तिलानां संयुतो हृद्यो धातुपुष्टिविवर्द्धनः गुरुर्विष्टम्भमलकृद्दुर्जरः श्लेष्मकोपनः १२ सूपश्चोक्तस्त्रिदोषघ्नो व्यञ्जितश्चैव सर्पिषा धातुपुष्टिकरः श्रेष्ठो बृंहणो बलवर्द्धनः १३ वातकफकरो हृद्यः खलको बलकारकः १४ कफानिलहरो हृद्यो दीपनो दाडिमाम्लकः १५ पर्पटस्तैलसंभृष्टो दोषाणाञ्च ज्वरापहः रुचिकृद्बलकृच्चैव दाहशोषतृषापहः १६ सण्डाकी च गुरुःस्निग्धा दुर्जरा अतिशीतला पित्तश्लेष्मकरा बल्या धातूनाञ्च बलप्रदा १७ दुर्जरा मधुरा रुच्या वटिका माषकादिभिः १८ गुडदधिप्रमुदिता हिता शिखरिणी नृणाम् धातुवृद्धिकरा वृष्या वातपित्तविनाशिनी १९ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ७१

शीतलः पित्तशमनो भ्रममूर्च्छातृषापहः खण्डेन संयुतः श्रेष्ठो घृतयुक्तो जलाधिकः २० सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताः नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते २१ मन्थः सद्यो बलच्छर्दिपिपासादाहनाशनः साम्लः स्नेहश्च सगुडो मूत्रकृच्छ्रस्य साधनः २२ सिद्धं मांसं वेसवारेण युक्तं बल्यं श्रेष्ठं स्वादु संदीपनञ्च त्रिदोषशमनं गुरु लवणस्नेहयुक्तं दुर्जरं दीपनं स्मृतम् २३ नहि मांससमं किञ्चिदन्यद्देहमहत्त्वकृत् मांसादमांसं मांसेन सम्भृतत्वाद्विशिष्यते २४ अङ्गारैः परिपक्वञ्च दीपनं श्लेष्मनाशनम् बल्यञ्च स्नेहसंयुक्तं घनं घनगुणात्मकम् २५ अत्युष्णं मण्डकं पथ्यं लघु चैव यथोत्तरम् त्रिकशूलपार्श्वशूलपरिणामापहं तथा तृष्णामारुतछर्दिघ्नमामाशयकरं तथा २६ तप्तकर्परपक्वा या रोचनी मधुरा घना कफवृद्धिकरी बल्या पित्तरक्तप्रदायिनी २७ पूरिका घृतपूरन्तु त्रिदोषशमनं परम् वृष्यं संबृहणं स्वादु क्षतक्षयनिवारणम् २८ गुरूष्णो दुर्जरो ज्ञेयो वातश्लेष्मकरो गुरुः पूपकः श्लेष्मको हृद्यो वृष्यो वातानुलोमकः २९ ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ७२

सोमालिका घना स्वादू रोचनी बलवर्द्धनी दुर्जरा दोषशमनी वृष्यानुकरणी मता ३० बृंहणी वातपित्तघ्नी पथ्या लघुतरा मता फेनिका रोचनी बल्या सर्वधातुबलप्रदा ३१ विष्टम्भी मधुरो हृद्यो घनो वातकफात्मकः स तिक्तो वा त्रिदोषघ्नो दुर्जरो जायते पुनः ३२ अभिन्नो दुर्जरो बल्यो घनतृष्णाप्रदः स्मृतः तीक्ष्णो विपाके विष्टम्भी दुर्जरो जायते पुनः ३३ कटुकास्तर्पणा बल्या दुर्जराः शोषकारकाः मन्दाग्नौ न प्रशस्यन्ते मोदका बहुवर्णकाः द्रव्यं गुणविशेषेण सारस्वादेन वा पुनः ३४ पोलिका कथिता बल्या कफदोषकरी मता वृष्या वीर्यप्रदा ज्ञेया दोषला वीर्यवर्द्धिनी ३५ विदलान्नस्य या पर्णा सिद्धा कर्परकेण तु रुच्या वान्नविशेषेण दोषान् सर्वान् विभावयेत् ३६ अन्यानि चान्नपानानि नैवोक्तानि महामते ग्रन्थविस्तारभीरुश्च लोको वक्तुं न च क्षमः ३७ श्रमात्तु भोजनं यस्तु पानं वा कुरुते नरः ज्वरः सञ्जायते तस्य छर्दिर्वा तत्क्षणाद्भवेत् ३८ कृत्वा तु भोजनं सद्यो व्यायामं सुरतं तथा यः करोति विपत्तिः स्यात्तस्य गात्रस्य निश्चितम् ३९ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ७३

न चातिशीतं भुञ्जीत नात्युष्णं भोजने हितम् कुर्याद्वातकफौ शीतमुष्णं भवति सारकम् ४० न श्रान्तो भोजनं कुर्यान्न व्यायामसमाकुलः विषमासने न भोक्तव्यं करोति विविधान् गदान् ४१ आदौ फलानि भुञ्जीत वर्जयित्वा तु कर्कटीम् न नक्तं दधि भुञ्जीत भोजनार्द्धे न धावनम् ४२ भोक्तोपविशति स्थौल्यं बलमुत्तानशायिनः आयुर्वामकटिस्थस्य मृत्युर्धावति धावतः ४३ नवादौ सलिलं पेयं भोजने पानमाचरेत् अर्द्धाहारेण भुञ्जीत तृतीयं व्यञ्जनेन तु ४४ चतुर्थं तोयपानेन पूर्णाहारः सुजायते ४५ भोजनोर्ध्वं चंक्रमते शतपादं शनैः शनैः पश्चादुत्तानशयनं ततो वामे क्षणं स्वपेत् ४६ भुक्त्वोपरि समाचम्य मार्जयेद्दक्षिणाकरैः पुनर्दक्षिणहस्तेन मार्जयेदुदरं सुधीः ४७ उद्गीरयेत्समुद्धारं न चोद्धारस्य धारणा ४८ व्यायामञ्च व्यवायञ्च धावनं पानमेव च युद्धं गीतञ्च पाठञ्च क्षणभुक्तो विवर्जयेत् ४९ न सद्यः पीते पठनं गमनं च न कारयेत् न वा वाहनमारोहं विवादं न च कारयेत् ५० दिवास्वापं न कुर्यात्तु भुक्त्वोपरि च विश्रमेत् ्रञ्द्भ्यरद्धतअत्र हारीत संहिता ७४

अकालशयनाच्छ्लेष्मा प्रतिश्यायः प्रपीनसः ५१ क्षयशोफशिरोऽर्त्तिश्च जायते चाग्निमदन्ता ५२ मद्यपीते परिश्रान्ते हिक्काश्वासातुरेषु च भयशोकक्षुधार्त्तानां पठनान्मैथुनेन च ५३ तथैव वृद्धबाले च भाराक्रान्ते तथातुरे अतीसारे च शोफे च तृष्णापानात्ययेऽपि च ५४ ग्रीष्मे बाल्ये निशादृप्ते दिवास्वप्नं हितं भवेत् ५५ इति आत्रेयभाषिते हारीतोत्तरे अन्नपानवर्गो नाम त्रयोविंशोऽध्यायः २३ प्रथमस्थानं समाप्तम् १ ्रञ्द्भ्यरद्धतअत्र प्रथमस्थानम् १ ७५