श्रेष्ठसूचिः

परिचयः

टीका ऽत्र

पाठः

अतो भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्यामः। तद्यथा-

  • अन्नं वृत्तिकराणां श्रेष्ठम्+++(५)+++, उदकमाश्वासकराणां, (सुरा श्रमहराणां +++(५)+++),
  • क्षीरं जीवनीयानां, मांसं बृंहणीयानां, रसस्तर्पणीयानां, लवणमन्नद्रव्यरुचिकराणाम् +++(५)+++, अम्लं हृद्यानां +++(४)+++,
  • कुक्कुटो बल्यानां, नक्ररेतो वृष्याणां,
  • मधु श्लेष्मपित्तप्रशमनानां, सर्पिर् वातपित्तप्रशमनानां, तैलं वातश्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां, बस्तिर्वातहराणां, स्वेदो मार्दवकराणां,
  • व्यायामः स्थैर्यकराणां+++(५)+++, क्षारः पुंस्त्वोपघातिनां+++(४)+++, (तिन्दुकम्+++(?)+++ अनन्नद्रव्यरुचिकराणाम् ,)
  • आमं कपित्थमकण्ठ्यानाम्, आविकं सर्पिर् अहृद्यानाम्, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानाम्, अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानाम्, उद्दालकान्नं विरूक्षणीयानाम्, इक्षुर्मूत्रजननानां +++(५)+++, यवाः पुरीषजननानां +++(४)+++, जाम्बवं वातजननानां, शष्कुल्यः श्लेष्मपित्तजननानां+++(४)+++, कुलत्था अम्लपित्तजननानां, माषाः श्लेष्मपित्तजननानां,
  • मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत् सुखविरेचनानां, चतुरङ्गुलो मृदुविरेचनानां, स्नुक्पयस् तीक्ष्णविरेचननां, प्रत्यक्पुष्पा शिरोविरेचनानां,
  • विडङ्गं क्रिमिघ्नानां, शिरीषो विषघ्नानां+++(४)+++, खदिरः कुष्ठघ्नानां, रास्ना वातहराणाम्, आमलकं वयःस्थापनानां, हरीतकी पथ्यानाम्+++(४)+++, एरण्डमूलं वृष्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्शःशूलहराणां, पुष्करमूलं हिक्काश्वासकासपार्श्वशूलहराणां+++(४)+++, मुस्तं साङ्ग्राहिकदीपनीयपाचनीयानाम्, उदीच्यं निर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां,
  • कट्वङ्गं साङ्ग्राहिकपाचनीयदीपनीयानाम्, अनन्ता साङ्ग्राहिकरक्तपित्तप्रशमनानाम्, अमृता साङ्ग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वं साङ्ग्राहिकदीपनीयवातकफप्रशमनानाम्, अतिविषा दीपनीयपाचनीयसाङ्ग्राहिकसर्वदोषहराणाम्, उत्पलकुमुदपद्मकिञ्जल्कः साङ्ग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानां, कुटजत्वक् श्लेष्मपित्तरक्तसाङ्ग्राहिकोपशोषणानां, काश्मर्यफलं रक्तसाङ्ग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी साङ्ग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बला साङ्ग्राहिकबल्यवातहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्, अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महराणां, यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासो ग्रहणीदोषशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासो रसायनानां, समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणां, तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां, रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां,
  • वायुः प्राणसञ्ज्ञाप्रदानहेतूनाम्+++(४)+++, अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितमुदकं तृष्णाच्छर्द्यतियोगप्रशमनानाम्,
  • अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां +++(४)+++, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां+++(५)+++, कालभोजनमारोग्यकराणां+++(५)+++, तृप्तिराहारगुणानां+++(५)+++, वेगसन्धारणमनारोग्यकराणां,
  • मद्यं सौमनस्यजननानां+++(५)+++, मद्याक्षेपो धीधृतिस्मृतिहराणां+++(५)+++,
  • गुरुभोजनं दुर्विपाककराणाम्+++(४)+++, एकाशनभोजनं सुखपरिणामकराणां+++(४)+++,
  • स्त्रीष्वतिप्रसङ्गः शोषकराणां+++(४)+++, शुक्रवेगनिग्रहः षाण्ड्यकराणां+++(३)+++,
  • पराघातनमन्नाश्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणां+++(५)+++, प्रमिताशनं कर्शनीयानाम्+++(५)+++, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां+++(४)+++, विरुद्धवीर्याशनं निन्दितव्याधिकराणां,
  • प्रशमः पथ्यानां+++(४)+++, आयासः सर्वापथ्यानां+++(४)+++, मिथ्यायोगो व्याधिकराणां,
  • रजस्वलाभिगमनमलक्ष्मीमुखानां+++(३)+++, ब्रह्मचर्यमायुष्याणां+++(४)+++, परदाराभिगमनमनायुष्याणां+++(४)+++,
  • सङ्कल्पो वृष्याणां, दौर्मनस्यमवृष्याणाम्, अयथाबलमारम्भः प्राणोपरोधिनां+++(३)+++, विषादो रोगवर्धनानां+++(५)+++, स्नानं श्रमहराणां+++(५)+++, हर्षः प्रीणनानां+++(५)+++, शोकः शोषणानां+++(४)+++,
  • निवृत्तिः पुष्टिकराणां+++(५)+++, पुष्टिः स्वप्नकराणाम्, अतिस्वप्नस् तन्द्राकराणां+++(५)+++,
  • सर्वरसाभ्यासो बलकराणाम्, एकरसाभ्यासो दौर्बल्यकराणां, गर्भशल्यमाहार्याणाम्, अजीर्णमुद्धार्याणां+++(५)+++,
  • बालो मृदुभेषजीयानां+++(४)+++, वृद्धो याप्यानां+++(४)+++, गर्भिणी तीक्ष्णौषध-व्यवाय-व्यायाम-वर्जनीयानां+++(४)+++, सौमनस्यं गर्भधारणानां+++(५)+++,
  • सन्निपातो दुश्चिकित्स्यानाम्, आमो विषमचिकित्स्यानां , ज्वरो रोगाणां+++(५)+++, कुष्ठं दीर्घरोगाणां+++(४)+++, राजयक्ष्मा रोगसमूहानां+++(५)+++, प्रमेहोऽनुषङ्गिणां+++(३)+++, जलौकसोऽनुशस्त्राणां, बस्तिस्तन्त्राणां+++(३)+++, हिमवानौषधिभूमीनां+++(५)+++, सोम ओषधीनां+++(४)+++,
  • मरुभूमिरारोग्यदेशानाम्+++(५)+++, अनूपो+++(कच्छो)+++ ऽहितदेशानाम्+++(५)+++, निर्देश-कारित्वम् आतुरगुणानां+++(४)+++, भिषक् चिकित्साङ्गानां+++(५)+++, नास्तिकोवर्ज्यानां+++(५)+++, लौल्यं+++(चञ्चलता)+++ क्लेशकराणाम्+++(५)+++, अनिर्देशकारित्वम् अरिष्टानां+++(४)+++, अनिर्वेदो वार्त+++(स्वस्थ)+++लक्षणानां+++(५)+++,
  • वैद्यसमूहो निःसंशयकराणं+++(५)+++, योगो वैद्यगुणानां+++(४)+++, विज्ञानमौषधीनां+++(५)+++, शास्त्रसहितस्तर्कः साधनानां+++(५)+++,
  • सम्प्रतिपत्तिः कालज्ञानप्रयोजनानाम्+++(५)+++, अव्यवसायः कालातिपत्तिहेतूनां+++(५)+++, दृष्टकर्मता+++(ऽनुभवो)+++ निःसंशयकराणाम्+++(५)+++, असमर्थता भयकराणां+++(५)+++,
  • तद्विद्यसम्भाषा बुद्धिवर्धनानाम्+++(५)+++, आचार्यः शास्त्राधिगमहेतूनाम्+++(५)+++,
  • आयुर्वेदोऽमृतानां+++(५)+++, सद्वचनमनुष्ठेयानाम्+++(५)+++, असद्ग्रहणं सर्वाहितानां+++(५)+++, सर्वसन्न्यासः सुखानाम्+++(५)+++ इति|