तत्र मलो बाह्याश् चाभ्यन्तरश् च । तत्र बाह्य-मल-जातान् मलजान् +++(→parasites)+++ संचक्ष्महे । तेषां समुत्थानं मृजा+++(=मार्जन)+++-वर्जनं; स्थानं – केश-श्मश्रु-लोम-पक्ष्म-वासांसि; संस्थानम् अणवस्-तिलाकृतयो बहुपादाश् च; वर्णः – कृष्णः शुक्लश् च; नामानि - यूकाः पिपीलिकाश्+++(=mite)+++ च; प्रभावः - कण्डु-जननं कोठ+++(=rash)+++-पिडक+++(=eruption)++++अभिनिर्वर्तनं च; चिकित्सितं तु खल्व् एषाम् अपकर्षणं मलोपघातः, मल-कराणां च भावानाम् अनुपसेवनम् इति ॥ (charaka-saMhitA; vimAnasthAna 7)
सूत्रस्थाने -
विंशति कृमिजातय इति । यूका पिपीलिकाश्+++(=mites)+++ चेति द्विविधा बहिर्-मलजाः। केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातरश् चेति षट् शोणितजाः । अन्त्रादा उदरवेष्टा हृदयादाश् चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश् चेति सप्त कफजाः । ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश् चेति पुरीषजाः ॥
अथास्मै प्रोवाच भगवान् आत्रेयः – इह खल्व् अग्निवेश! विंशति-विधाः +++(रोग)+++क्रिमयः पूर्वम् उद्धिष्ट नानाविधेन प्रविभागेन+अन्यत्र सहजेभ्यः; ते पुनः प्रकृतिभिर् विभज्यमानाश् चतुर्विधा भवन्ति; तद् यथा पुरीषजाः, श्लेष्मजाः, शोणितजा मलजाश चेति ॥
शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं । स्थानं- रक्तवाहिन्यो धमन्यः+++(=नालानि)+++; संस्थानम्- अणवो वृत्ताश् चापादाश् च; सूक्ष्मत्वाच् चैके भवन्त्य् अदृश्याः; वर्णः- ताम्रः; नामानि- केशादा, लोमादा, लोमद्वीपाः+++(=follicle-infecting)+++, सौरसा+++(=dermis-infecting)+++, औडुम्बरा+++(=fig-like wart-causing)+++, जन्तुमातरश् चेति; प्रभावः- केश-श्मश्रु-नख-लोम-पक्ष्मापध्वंसः; व्रणगतानां च हर्ष-कण्डू-तोद-संसर्पणानि; अतिवृद्धानां च त्वक्-सिरा+++(=blood vessels)+++-स्नायु+++(=sinews)+++-मांस-तरुणास्थि+++(=cartilage)+++-भक्षणमिति; चिकित्सितम् अप्य् एषां कुष्ठैः समानं, तदुत्तर-कालम् उपदेक्ष्यामः ॥