परिचयः
आयुष्यकामीयः
मङ्गलम्
रागादि-रोगान् सततानुषक्तान्
अ-शेष-काय-प्रसृतान् अ-शेषान् ।
औत्सुक्य-मोहाऽऽरति-दाञ् जघान
यो ऽ-पूर्व-वैद्याय नमो ऽस्तु तस्मै ॥
अधिकारिनिर्णयः
आयुः-कामयमानेन
धर्मार्थ-सुख-साधनम् ।
आयुर्-वेदोपदेशेषु
विधेयः परम् आदरः ॥
ग्रन्थप्रणीतिः
ब्रह्मा स्मृत्वायुषो वेदं
प्रजापतिम् अजिग्रहत् ।
सो ऽश्विनौ तौ सहस्राक्षं
सो ऽत्रि-पुत्रादिकान् मुनीन् ॥
ते ऽग्निवेशादिकांस् ते तु
पृथक् तन्त्राणि तेनिरे ।
तेभ्यो ऽति-विप्रकीर्णेभ्यः
प्रायः सार-तरोच्चयः ॥
क्रियते ऽष्टाङ्ग-हृदयं
नाति-संक्षेप-विस्तरम् ।
काय+++(स्थ-ज्वरादिवारण)+++-बाल+++(भरण)+++-+++(देवादि)+++ग्रह+++(शान्ति)+++ ++++(जत्रु+)+++ऊर्ध्वाङ्ग+++(चिकित्सा)+++-
शल्य+++(व्रणवारण)+++-+++(सर्पादि)+++दंष्ट्रा+++(ऽऽहतिव्याधिवारण)+++-जरा+++(=दीर्घायुःप्राप्ति)+++-वृषान्+++(=वाजीकरणम्)+++ ॥
नाति-संक्षिप्त-विस्तृतम्
अष्टाव् अङ्गानि तस्याहुश्
चिकित्सा येषु संश्रिता ।
दोषाः
वायुः पित्तं कफश् चेति
त्रयो दोषाः समासतः ॥
विकृता-ऽविकृता देहं
घ्नन्ति ते वर्तयन्ति च ।
ते व्यापिनो ऽपि हृन्-नाभ्योर्
अधो-मध्योर्ध्व-संश्रयाः ॥
वयो-ऽहो-रात्रि-भुक्तानां
ते ऽन्त-मध्यादि-गाः क्रमात् ।
तैर् भवेद् विषमस् तीक्ष्णो
मन्दश् चाग्निः समैः समः ॥
+++(उदरादि)+++कोष्ठः क्रूरो मृदुर् मध्यो
मध्यः स्यात् तैः समैर् अपि ।
प्रकृतिः
शुक्रार्तव-स्थैर् जन्मादौ
विषेणेव विष-क्रिमेः ॥
तैश् च तिस्रः प्रकृतयो
हीन-मध्योत्तमाः पृथक् ।
सम-धातुः समस्तासु +++(तासु प्रकृतिषु)+++
श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥
प्रभेदाः
तत्र रूक्षो लघुः शीतः
खरः सूक्ष्मश् चलो ऽनिलः+++(=वातः)+++ ।
पित्तं स-स्नेह-तीक्ष्णोष्णं
लघु विस्रं सरं द्रवम् ॥
स्निग्धः शीतो गुरुर् मन्दः
श्लक्ष्णो मृत्स्नः स्थिरः कफः ।
संसर्गः संनिपातश् च
तद्-द्वि-त्रि-क्षय-कोपतः ॥
धातुः
रसासृङ्-मांस-मेदो-ऽस्थि-
मज्ज-शुक्राणि +++(शरीरधारणाद्)+++ धातवः ।
सप्त +++(वातादिभिर्)+++ दूष्या मला मूत्र-
शकृत्-स्वेदादयो ऽपि च ॥
वृद्धिः समानैः सर्वेषां
विपरीतैर् विपर्ययः ।
द्रव्याणि
रसाः स्वाद्व्-अम्ल-लवण-
तिक्तोषण+++(=मरीच)+++-कषायकाः ॥
षड् द्रव्यम् आश्रितास् ते च
यथा-पूर्वं बलावहाः ।
तत्राद्या मारुतं घ्नन्ति
त्रयस् तिक्तादयः कफम् ॥
कषाय-तिक्त-मधुराः
पित्तम्, अन्ये तु +++(कोपनं)+++ कुर्वते ।+++(5)+++
शमनं कोपनं स्वस्थ-
हितं द्रव्यम् इति त्रि-धा ॥
उष्ण-शीत-गुणोत्कर्षात्
तत्र वीर्यं द्वि-धा स्मृतम् ।
त्रि-धा +++(जठराग्निसम्बन्धाद्)+++ विपाको द्रव्यस्य
स्वाद्व्-अम्ल-कटुकात्मकः ॥
गुरु-मन्द-हिम-स्निग्ध-
श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ।
+++(द्रव्ये)+++ गुणाः स-सूक्ष्म-विशदा
विंशतिः स-विपर्ययाः ॥
रोगः
कालार्थ-कर्मणां योगो
हीन-मिथ्याति-मात्रकः ।
सम्यग्-योगश् च विज्ञेयो
रोगारोग्यैक-कारणम् ॥
रोगस् तु दोष-वैषम्यं
दोष-साम्यम् अ-रोग-ता ।
निजाऽऽगन्तु-विभागेन
तत्र रोगा द्वि-धा स्मृताः ॥
तेषां काय-मनो-भेदाद्
अधिष्ठानम् अपि द्वि-धा ।
रजस् तमश् च मनसो
द्वौ च दोषाव् उदाहृतौ ॥+++(5)+++
दर्शन-स्पर्शन-प्रश्नैः
परीक्षेत च रोगिणम् ।
रोगं निदान–+++(रोगक्रम)+++प्राग्-रूप-
लक्षण++++(यथासुख)+++उपशय+आप्तिभिः ॥
भूमिः
भूमि-देह-प्रभेदेन
देशम् आहुर् इह द्वि-धा ।
जाङ्गलं वात-भूयिष्ठम्
अनूपं तु कफोल्बणम् ॥
साधारणं सम-मलं
त्रि-धा भू-देशम् आदिशेत् ।
कालः
क्षणादिर् व्याध्य्-अवस्था च
कालो +++(द्विविधो)+++ भेषज-योग-कृत् ॥
औषधम्
शोधनं शमनं चेति
समासाद् औषधं द्वि-धा ।
शरीर-जानां दोषाणां
क्रमेण परमौषधम् ॥
+++(शोधने वातस्-पित्त-कफानां)+++ वस्तिर्, +++(गुदमार्गेण)+++ विरेको, वमनं
तथा +++(शमने तेषाम् एव)+++ तैलं घृतं मधु । +++(5)+++
धी-धैर्यात्मादि-विज्ञानं
मनो-दोषौषधं परम् ॥+++(5)+++
चिकित्साङ्गानि
भिषग् द्रव्याण्य् उपस्थाता
रोगी पाद-चतुष्टयम् ।
चिकित्सितस्य निर्दिष्टं
प्रत्य्-एकं तच् चतुर्-गुणम् ॥
दक्षस् तीर्थात्त-शास्त्रार्थो
दृष्ट-कर्मा शुचिर् भिषक् ।
बहु-कल्पं बहु-गुणं
संपन्नं योग्यम् औषधम् ॥
अनुरक्तः शुचिर् दक्षो
बुद्धि-मान् परिचारकः ।
आढ्यो रोगी भिषग्-वश्यो
+++(निदानादि)+++ज्ञापकः +++(धैर्यादिभिः)+++ सत्-त्व-वान् अपि ॥
साध्यो ऽ-साध्य इति व्याधिर्
द्वि-धा तौ तु पुनर् द्वि-धा ।
सु-साध्यः कृच्छ्र-साध्यश् च
याप्यो यश्चानुपक्रमः॥
सर्वौषध-क्षमे देहे
यूनः पुंसो जितात्मनः ।
अ-मर्म-गो ऽल्प–हेत्व्–अग्र-
रूप–रूपो ऽन्-उपद्रवः ॥
+++(पूर्वोक्तदेशादिदोषानुगुणम्)+++ अ-तुल्य-दूष्य–देश-र्तु-
प्रकृतिः पाद-संपदि ।
+++(सूर्यादि)+++ग्रहेष्व् अनु-गुणेष्व् एक-
दोष-मार्गो नवः सुखः ॥
शस्त्रादि-साधनः कृच्छ्रः
संकरे च ततो गदः ।
शेष-त्वाद् आयुषो याप्यः
पथ्याभ्यासाद् विपर्यये ॥
अन्-उपक्रम एव स्यात्
स्थितो ऽत्य्-अन्त-विपर्यये ।
औत्सुक्य-मोहाऽरति-कृद्
दृष्ट-रिष्टो+++(=मरणचिह्नः)+++ ऽक्ष+++(=इन्द्रिय)+++-नाशनः ॥
त्यजेद् आर्तं भिषग् भूपैर्
द्विष्टं, तेषां द्विषं, +++(स्वस्य च)+++ द्विषम् ।
हीनोपकरणं व्यग्रम्
अ-विधेयं गतायुषम् ॥
चण्डं शोकातुरं भीरुं
कृत-घ्नं वैद्य-मानिनम् ।+++(5)+++
अध्याय-सङ्ग्रहः
तन्त्रस्यास्य परं चातो
वक्ष्यते ऽध्याय-संग्रहः ॥
आयुष्-काम-दिनर्त्व्-ईहा-
रोगान्-उत्पादन-द्रवाः ।
अन्न-ज्ञानान्न-संरक्षा-
मात्रा-द्रव्य-रसाश्रयाः ॥
दोषादि-ज्ञान-तद्-भेद-
तच्-चिकित्सा-द्व्य्-उपक्रमाः ।
शुद्ध्य्-आदि-स्नेहन-स्वेद-
रेकास्थापन-नावनम् ॥
धूम-गण्डूष-दृक्-सेक-
तृप्ति-यन्त्रक-शस्त्रकम् ।
सिरा-विधिः शल्य-विधिः
शस्त्र-क्षाराग्नि-कर्मिकौ ॥
सूत्र-स्थानम् इमे ऽध्यायास्
त्रिंशच् छारीरम् उच्यते ।
गर्भावक्रान्ति-तद्-व्यापद्-
अङ्ग-मर्म-विभागिकम् ॥
विकृतिर् दूत-जं षष्ठं
निदानं सार्वरोगिकम् ।
ज्वरासृक्-श्वास-यक्ष्मादि-
मदाद्य्-अर्शो-ऽतिसारिणाम् ॥
मूत्राघात-प्रमेहाणां
विद्रध्य्-आद्य्-उदरस्य च ।
पाण्डु-कुष्ठानिलार्तानां
वातास्रस्य च षो-डश ॥
चिकित्सितं ज्वरे रक्ते
कासे श्वासे च यक्ष्मणि ।
वमौ मदात्यये ऽर्शःसु
विषि द्वौ द्वौ च मूत्रिते ॥
विद्रधौ गुल्म-जठर-
पाण्डु-शोफ-विसर्पिषु ।
कुष्ठ-श्वित्रानिल-व्याधि-
वातास्रेषु चिकित्सितम् ॥
द्वा-विंशतिर् इमे ऽध्यायाः
कल्प-सिद्धिर् अतः परम् ।
कल्पो वमेर् विरेकस्य
तत्-सिद्धिर् वस्ति-कल्पना ॥
सिद्धिर् वस्त्य्-आपदां षष्ठो
द्रव्य-कल्पो ऽत उत्तरम् ।
बालोपचारे तद्-व्याधौ
तद्-ग्रहे द्वौ च भूत-गे ॥
उन्मादे ऽथ स्मृति-भ्रंशे
द्वौ द्वौ वर्त्मसु संधिषु ।
दृक्-तमो-लिङ्ग-नाशेषु
त्रयो द्वौ द्वौ च सर्व-गे ॥
कर्ण-नासा-मुख-शिरो-
व्रणे भङ्गे भगन्दरे ।
ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु
गुह्य-रोगे पृथग् द्वयम् ॥
विषे भुजङ्गे कीटेषु
मूषकेषु रसायने ।
चत्वारिंशो ऽन्-अपत्यानाम्
अध्यायो बीज-पोषणः ॥
अध्यायो बीज-पोषणे इत्य्
अध्याय-शतं विंशं
षड्भिः स्थानैर् उदीरितम् ॥
दिनचर्या
उत्थानम् शौचकर्म च
ब्राह्मे मुहूर्त उत्तिष्ठेत्
स्वस्थो रक्षार्थम् आयुषः ।
शरीर-चिन्तां निर्वर्त्य
कृत-शौच-विधिस् ततः ॥
दन्तधावनम्
अर्क-न्यग्रोध-खदिर-
करञ्ज-ककुभादि-जम् ।
प्रातर् भुक्त्वा च +++(कूर्चितत्वेन)+++ मृद्व्-अग्रं
कषाय-कटु-तिक्तकम् ॥
कनीन्य्-अग्र-सम-स्थौल्यं
प्रगुणं द्वादशाङ्गुलम् ।
भक्षयेद् दन्त-पवनं
दन्त-मांसान्य् अ-बाधयन् ॥
(लिखेद् अनुसुखं जिह्वां
जिह्वा-निर्लेखनेन च॥
तथा ऽऽस्य-मल-वैरस्य-
गन्धा जिह्वास्यदन्तजाः।
रुचि-वैशद्य-लघुता
न भवन्ति भवन्ति च॥)
नाद्याद् +++(दन्तकाष्ठम्)+++ अ-जीर्ण-वमथु-
श्वास-कास-ज्वरार्दिती +++(जनः)+++ ।
तृष्णास्य-पाक-हृन्-नेत्र-
शिरः-कर्णामयी च तत् ॥
नेत्राञ्जनम्
सौवीरम् अञ्जनं नित्यं
हितम् अक्ष्णोस् ततो भजेत् ।
(लोचने भवतस् तेन
सुस्निग्धे घनपक्ष्मणी।
व्यक्तत्रिवर्णे विमले
मनोज्ञे सूक्ष्मदर्शने॥)
+++(कदा न कार्यम् इति चेत् -)+++
चक्षुस् तेजो-मयं तस्य
विशेषाच् छ्लेष्मतो भयम् ॥
(भुक्तवांश् च शिरः-स्नातः
श्रान्तः छर्दन-नावनैः ।
रात्रौ जागरितश् चापि
नाञ्ज्याज् ज्वरित एव च ॥)
योजयेत् सप्त-रात्रे ऽस्मात्
+++(नेत्र-)+++स्रावणार्थं रसाञ्जनम् ।
ततो नावन-गण्डूष-धूम-
ताम्बूल-भाग् भवेत् ॥
(स्रावणार्थे रसाञ्जनम्)
(ताम्बूलं क्षत-पित्तास्र-
रूक्षोत्कुपित-चक्षुषाम् ।
विष-मूर्छा-मदार्तानाम्
अ-पथ्यं शोषिणाम् अपि ॥)
अभ्यङ्गम्
अभ्यङ्गम् आचरेन् नित्यं
स जरा-श्रम-वात-हा ।
दृष्टि-प्रसाद-पुष्ट्य्-आयुः-
स्वप्न-सु-त्वक्-त्व-दार्ढ्य-कृत् ॥
शिरः-श्रवण-पादेषु
तं विशेषेण शीलयेत् ।
वर्ज्यो ऽभ्यङ्गः कफ-ग्रस्त-
कृत-संशुद्ध्य्-अ-जीर्णिभिः ॥
व्यायामो मर्धनं च
लाघवं कर्म-सामर्थ्यं
दीप्तो ऽग्निर् मेदसः क्षयः ।
विभक्त-घन-गात्र-त्वं
व्यायामाद् उपजायते ॥
वात-पित्तामयी बालो
वृद्धो ऽ-जीर्णो च तं त्यजेत् ।
अर्ध-शक्त्या निषेव्यस् तु
बलिभिः स्निग्ध-भोजिभिः ॥
शीत-काले वसन्ते च
मन्दम् एव ततो ऽन्य-दा ।
तं कृत्वानु-सुखं देहं
मर्दयेच् च समन्ततः ॥
तृष्णा क्षयः प्रतमको+++(=तमःप्रवेशः)+++
रक्त-पित्तं श्रमः क्लमः ।
अति-व्यायामतः कासो
ज्वरश् छर्दिश् च जायते ॥
व्यायाम-जागर+अध्व-स्त्री-
हास्य-भाष्यादि-साहसम् ।
गजं सिंह इवाकर्षन्
भजन्न् अति विनश्यति ॥
उद्वर्तनं कफ-हरं
मेदसः प्रविलायनम् ।
स्थिरी-करणम् अङ्गानां
त्वक्-प्रसाद-करं परम् ॥
स्नानम्
दीपनं+++(=उत्तेजनं)+++ वृष्यम् आयुष्यं
स्नानम् ऊर्जा-बल-प्रदम् ।
कण्डू-मल-श्रम-स्वेद-
तन्द्रा-तृड्-दाह-पाप्म-जित् ॥
स्नानम् ओजो-बल-प्रदम्॥
उष्णाम्बुनाऽधः-कायस्य
परिषेको बलावहः।
तेनैव तूत्तमाङ्गस्य
बल-हृत् केश-चक्षुषाम् ॥+++(5)+++
स्नानम् अर्दित-नेत्रास्य-
कर्ण-रोगातिसारिषु ।
+++(जठर-)+++आध्मान-पीनसाऽजीर्ण-
भुक्त-वत्सु च गर्हितम् ॥
भोजनम् वेगाश्च
जीर्णे +++(पूर्वाहारे)+++ हितं मितं चाद्यान्
न +++(वात-विण्-मूत्रादि)+++वेगान् ईरयेद् बलात् ।
न +++(वात-विण्-मूत्रादिभिर्)+++ वेगितो ऽन्य-कार्यः स्यान्
ना-जित्वा साध्यम् आमयम् ॥
सद्वर्तनम्
सुखार्थाः सर्व-भूतानां
मताः सर्वाः प्रवृत्तयः ।
सुखं च न विना धर्मात्
तस्माद् धर्म-परो भवेत् ॥+++(5)+++
भक्त्या कल्याण-मित्राणि
सेवेतेतर-दूर-गः ।
हिंसा-स्तेयान् यथा-कामं
पैशुन्यं परुष+अनृते ॥
संभिन्नालापं व्यापादम्+++(=प्राण्युपघातचिन्ताम्)+++
अभिध्यां दृग्-विपर्ययम् ।
पापं कर्मेति दश-धा
काय-वाङ्-मानसैस् त्यजेत् ॥
अ-वृत्ति–व्याधि-शोकार्तान्
अनुवर्तेत +++(दानचिकित्सादिभिः)+++ शक्तितः ।
आत्म-वत् सततं पश्येद्
अपि कीट-पिपीलिकम् ॥+++(5)+++
अर्चयेद् देव-गो-विप्र-
वृद्ध-वैद्य-नृपातिथीन् ।
+++(प्रत्याख्यानेन)+++ वि-मुखान् नार्थिनः कुर्यान्
नावमन्येत नाक्षिपेत् ॥+++(4)+++
उपकार-प्रधानः स्याद्
अपकार-परे ऽप्य् अरौ ।
संपद्-विपत्स्व् एक-मना
हेताव् ईर्ष्येत् फले न तु ॥
काले हितं मितं ब्रूयाद्
अ-विसंवादि पेशलम् ।
पूर्वाभिभाषी सु-मुखः
सु-शीलः करुणा-मृदुः ॥+++(5)+++
नैकःसुखी, न सर्व-त्र
विश्रब्धो न च शङ्कितः ।
न कञ्-चिद् आत्मनः शत्रुं
नात्मानं कस्य-चिद् रिपुम् ॥
प्रकाशयेन् नापमानं न
च निः-स्नेह-तां प्रभोः ।
जनस्याशयम् आलक्ष्य
यो यथा परितुष्यति ॥
प्रकाशयेन् नावमानं
तं तथैवानुवर्तेत
पराराधन-पण्डितः ।+++(4)+++
न पीडयेद् इन्द्रियाणि
न चैतान्य् अति लालयेत् ॥
त्रि-वर्ग-शून्यं नारम्भं
भजेत् तं चा-विरोधयन् ।+++(5)+++
अनुयायात् प्रति-पदं
सर्व-धर्मेषु मध्यमाम् ॥
नीच-रोम-नख-श्मश्रुर्
निर्-मलाङ्घ्रि-मलायनः ।
स्नान-शीलः सु-सुरभिः
सु-वेषो ऽन्-उल्बणोज्ज्वलः ॥
(धारयेत् सततं रत्न-
सिद्ध-मन्त्र-महौषधीः ।)
(सातप-त्र–पद-त्राणो
विचरेद् युग-मात्र-दृक् ॥
निशि चात्ययिके कार्ये
दण्डी मौली+++(=शिरस्त्रवान्)+++ सहाय-वान् ।)
चैत्य-पूज्य-ध्वजा-शस्त-
च्छाया-भस्म-तुषा-शुचीन् ॥
नाक्रामेच् छर्करा-लोष्ट-
बलि-स्नान-भुवो न च ।
नदीं तरेन् न बाहुभ्यां
नाग्नि-स्कन्धम् अभिव्रजेत् ॥
संदिग्ध-नावं वृक्षं च
नारोहेद् दुष्ट-यान-वत् ।
ना-संवृत-मुखः कुर्यात्
क्षुति-हास्य-विजृम्भणम् ॥+++(5)+++
नासिकां न विकुष्णीयान्
ना-कस्माद् विलिखेद् भुवम् ।
नाङ्गैश् चेष्टेत वि-गुणं
नासीत+उत्कटकश् चिरम् ॥+++(5)+++
देह-वाक्-चेतसां चेष्टाः
प्राक् श्रमाद् विनिवर्तयेत् +++(तुष्टिः परमा!)+++ ।+++(5)+++
नोर्ध्व-जानुश्+++(→न वक्रजानुश्)+++ चिरं तिष्ठेन्
नक्तं सेवेत न द्रुमम् ॥
तथा चत्वर-चैत्यान्तश्-
चतुष्-पथ-सुरालयान् ।
सूनाटवी-शून्य-गृह-
श्मशानानि दिवापि न ॥
अ-संमार्जितम् आदर्शम्
अन्-उपस्कृत-कामिनीम् ।
रजस्वलां च नेक्षेत
सदा प्रातर् अ-मङ्गलम् ॥+++(4)+++
सर्वथेक्षेत नादित्यं
न भारं शिरसा वहेत् ।
नेक्षेत प्रततं सूक्ष्मं
दीप्ताऽमेध्याऽप्रियाणि च ॥
मद्य-विक्रय-संधान-
दानादानानि नाचरेत् ।
पुरो-वातातप-रजस्-
तुषार-परुषानिलान् ॥
अन्-ऋजुः क्षवथूद्गार-
कास-स्वप्नान्न-मैथुनम् ।
+++(नदी)+++कूल-च्छायां नृप-द्विष्टं
व्याल-दंष्ट्रि-विषाणिनः ॥
हीनाऽनार्यायाति-निपुण-
सेवां विग्रहम् उत्तमैः ।
संध्यास्व् अभ्यवहार-स्त्री-
स्वप्नाध्ययन-चिन्तनम् ॥
शत्रु-सत्त्र-गणाकीर्ण-
गणिका-पणिकाशनम् ।
गात्र-वक्त्र-नखैर् वाद्यं
हस्त-केशावधूननम् ॥
तोयाग्नि-पूज्य-मध्येन
यानं धूमं शवाश्रयम् ।
मद्याति-सक्तिं विश्रम्भ-
स्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥+++(4)+++
आचार्यः सर्व-चेष्टासु
लोक एव हि धी-मतः ।
अनुकुर्यात् तम् एवातो
लौकिके ऽर्थे परीक्षकः ॥+++(5)+++
आर्द्र-संतान-ता+++(=कृपालुता)+++ त्यागः
काय-वाक्-चेतसां दमः ।
स्वार्थ-बुद्धिः परार्थेषु
पर्याप्तम् इति सद्-व्रतम् ॥
“नक्तन्-दिनानि मे यान्ति
कथम्-भूतस्य संप्रति” ।
दुःख-भाङ् न भवत्य् एवं
नित्यं संनिहित-स्मृतिः ॥
शयनम्
एवं कृत्स्न-दिनं नीत्वा
रात्रौ यामे गृहे गते ।
देवान् ऋषीन् गुरून् स्मृत्वा
ततः शयनम् आचरेत् ॥
इत्य् आचारः समासेन
यं प्राप्नोति समाचरन् ।
आयुर् आरोग्यम् ऐश्वर्यं
यशो लोकांश् च शाश्वतान् ॥
ऋतुचर्या
मासैर् द्वि-संख्यैर् माघाद्यैः
क्रमात् षड् ऋतवः स्मृताः ।
शिशिरो ऽथ वसन्तश् च
ग्रीष्मो वर्षा-शरद्-धिमाः ॥
उत्तरायणम्
शिशिराद्यास् त्रिभिस् तैस् तु
विद्याद् अयनम् उत्तरम् ।
“आदानं” +++(संज्ञया)+++ च तदा ऽऽदत्ते
नृणां प्रति-दिनं बलम् ॥
तस्मिन् ह्य् अत्य्-अर्थ-तीक्ष्णोष्ण-
रूक्षा +++(सूर्य)+++मार्ग-स्व-भावतः ।
आदित्य-पवनाः सौम्यान्
क्षपयन्ति गुणान् भुवः ॥
तिक्तः कषायः कटुको
बलिनो +++(भवन्ति)+++ ऽत्र रसाः क्रमात् +++(शिशिर-वसन्त-ग्रीष्मेषु)+++।
तस्माद् आदानम् आग्नेयम्।
दक्षिणायनम्
ऋतवो दक्षिणायनम् ॥
वर्षादयो, +++(संज्ञया)+++ “विसर्गश्” च
यद् बलं विसृजत्य् अयम् ।
सौम्य-त्वाद् अत्र सोमो हि
बल-वान् हीयते रविः ॥
मेघ-वृष्ट्य्-अनिलैः शीतैः
शान्त-तापे मही-तले ।
स्निग्धाश् चेहाम्ल-लवण-
मधुरा बलिनो रसाः ॥
बलम्
शीते ऽग्र्यं वृष्टि-घर्मे+++(=वर्षाग्रीष्मयोः)+++ ऽल्पं
बलं मध्यं तु शेषयोः ।
शीतकाले
बलिनः +++(पुंसः)+++ शीत-संरोधाद्
+हेमन्ते प्रबलो ऽनलः ॥
भवत्य् अल्पेन्धनो धातून्
स पचेद् वायुनेरितः ।
अतो हिमे ऽस्मिन् सेवेत
स्वाद्व्-अम्ल-लवणान् रसान् ॥
दैर्घ्यान् निशानाम् एतर्हि
प्रातर् एव बुभुक्षितः ।
अवश्य-कार्यं संभाव्य
यथोक्तं शीलयेद् अनु ॥
वात-घ्न-तैलैर् अभ्यङ्गं
मूर्ध्नि तैलं विमर्दनम् ।
नियुद्धं कुशलैः सार्धं
पादाघातं च युक्तितः ॥+++(5)+++
कषायापहृत-स्नेहस्
ततः स्नातो यथा-विधि ।
कुङ्कुमेन स-दर्पेण+++(=कस्तूरिकेण)+++
प्रदिग्धो ऽगुरु-धूपितः ॥
रसान् स्निग्धान् पलं पुष्टं
गौडम् अच्छ-सुरां सुराम् ।
गोधूम-पिष्ट-माषेक्षु-
क्षीरोत्थ-विकृतीः शुभाः ॥+++(4)+++
नवम् अन्नं वसां+++(=अमेदुरमांसं)+++ तैलं
शौच-कार्ये सुखोदकम् ।
प्रावार+++(=/कार्पास)++++अजिन-कौशेय-
प्रवेणी+++(=सूचीबाणवस्त्र)+++-कौचव+++(=राङ्कववस्त्र)++++आस्तृतम् ॥
उष्ण-स्व-भावैर् लघुभिः
प्रावृतः शयनं भजेत् ।
युक्त्यार्क-किरणान् स्वेदं
पाद-त्राणं च सर्व-दा ॥
पीवरोरु-स्तन-श्रोण्यः
स-मदाः प्रमदाः प्रियाः ।
हरन्ति शीतम् उष्णाङ्ग्यो
धूप-कुङ्कुम-यौवनैः ॥
अङ्गार-ताप-संतप्त-
गर्भ-भू-वेश्म-चारिणः ।
शीत-पारुष्य-जनितो
न दोषो जातु जायते ॥
शिशिरेऽपि
अयम् एव विधिः कार्यः
शिशिरे ऽपि विशेषतः ।
तदा हि शीतम् अधिकं
रौक्ष्यं चादान-काल-जम् ॥
कफश् चितो हि शिशिरे
वसन्ते ऽर्कांशु-तापितः ।
हत्वाग्निं कुरुते रोगान्
अतस् तं त्वरया त्यजेत् ॥
तीक्ष्णैर् वमन-नस्याद्यैर्
लघु-रूक्षैश् च भोजनैः ।
व्यायामोद्वर्तनाघातैर्
जित्वा श्लेष्माणम् उल्बणम् ॥
स्नातो ऽनुलिप्तः कर्पूर-
चन्दनागुरु-कुङ्कुमैः ।
पुराण-यव-गोधूम-
क्षौद्र-जाङ्गल-शूल्य+++(मांस)+++-भुक् ॥
सहकार-रसोन्मिश्रान्
आस्वाद्य प्रिययार्पितान् ।
प्रियास्य-सङ्ग-सुरभीन्
प्रिया-नेत्रोत्पलाङ्कितान् ॥
सौमनस्य-कृतो हृद्यान्
वयस्यैः सहितः पिबेत् ।
निर्गदान् आसव+अरिष्ट+++(=निःक्वथ्य कृतम् मद्यम्)+++-
सीधु-मार्द्वीक-माधवान् ॥
शृङ्गवेराम्बु+++(=शुण्ठितोयम्)+++ +++(दाडिम)+++साराम्बु
मध्व्-अम्बु जलदाम्बु च ।
दक्षिणानिल-शीतेषु
परितो जल-वाहिषु ॥
मध्व्-अम्बु जलदाम्बु वा
+अ-दृष्ट-नष्ट-सूर्येषु
मणि-कुट्टिम-कान्तिषु ।
परपुष्ट-विघुष्टेषु
काम-कर्मान्त-भूमिषु ॥
विचित्र-पुष्प-वृक्षेषु
काननेषु सु-गन्धिषु ।
गोष्ठी-कथाभिश् चित्राभिर्
मध्याह्नं गमयेत् सुखी ॥
ग्रीष्मे
गुरु-शीत–दिवा-स्वप्न-
स्निग्धाम्ल-मधुरांस् त्यजेत् ।
तीक्ष्णांशुर् अति-तीक्ष्णांशुर्
ग्रीष्मे संक्षिपतीव यत् ॥
प्रत्य्-अहं क्षीयते श्लेष्मा
तेन वायुश् च वर्धते ।
अतो ऽस्मिन् पटु-कट्व्-अम्ल-
व्यायामार्क-करांस् त्यजेत् ॥
भजेन् मधुरम् एवान्नं
लघु स्निग्धं हिमं द्रवम् ।
सु-शीत-तोय-सिक्ताङ्गो
लिह्यात् सक्तून् स-शर्करान् ॥
मद्यं न पेयं पेयं वा
स्व्-अल्पं सु-बहु-वारि वा ।
अन्य-था शोष-शैथिल्य-
दाह-मोहान् करोति तत् ॥
कुन्देन्दु-धवलं शालिम्
अश्नीयाज् जाङ्गलैः पलैः ।
पिबेद् +++(मांसादि-)+++रसं नाति-घनं
रसालां, +++(गुड-दाडिमादि-)+++राग-खाण्डवौ+++(=स्वाद्व्-आम्लादि-प्रलेहौ)+++ ॥
पानकं पञ्च-सारं वा
नव-मृद्-भाजने स्थितम् ।
मोच+++(=कदलीफल)+++-चोच+++(=पनस)+++-दलैर् युक्तं
साम्लं मृन्-मय-शुक्तिभिः+++(→चषकैः)+++ ॥
पाटला+++(पुष्प)+++-वासितं चाम्भः
स-कर्पूरं सु-शीतलम् ।
शशाङ्क-किरणान् भक्ष्यान्
रजन्यां भक्षयन् पिबेत् ॥
स-सितं माहिषं क्षीरं
चन्द्र-नक्षत्र-शीतलम् ।
दिवास्वापः
अभ्रङ्-कष-महा-शाल-
ताल-रुद्धोष्ण-रश्मिषु ॥
वनेषु माधवी-श्लिष्ट-
द्राक्षा-स्तबक-शालिषु ।
सु-गन्धि-हिम-पानीय-
सिच्यमान-पटालिके ॥
काय-माने+++(=शिबिरे)+++ चिते चूत-
प्रवाल-फल-लुम्बिभिः+++(=स्तबकैः)+++ ।
कदली-दल-कल्हार+++(=श्वेतकमल)+++-
मृणाल-कमलोत्पलैः ॥
कोमलैः कल्पिते तल्पे
हसत्-कुसुम-पल्लवे ।
मध्यन्-दिने ऽर्क-तापार्तः
स्वप्याद् धारा-गृहे ऽथ-वा ॥
रात्रिस्वापः
पुस्त+++(=दारुयन्त्र)+++-स्त्री-स्तन-हस्तास्य-
प्रवृत्तोशीर+++(=सुगन्धमूल)+++-वारिणि ।
निशा-कर-कराकीर्णे
सौध-पृष्ठे निशासु च ॥
आसना स्वस्थ-चित्तस्य
चन्दनार्द्रस्य मालिनः ।
निवृत्त-काम-तन्त्रस्य
सु-सूक्ष्म-तनु-वाससः ॥
टीका ।
जलार्द्रास् ताल-वृन्तानि
विस्तृताः पद्मिनी-पुटाः ।
उत्क्षेपाश् च मृदूत्क्षेपा
जल-वर्षि-हिमानिलाः ॥
कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः ।
मनो-हर-कलालापाः शिशवः सारिकाः शुकाः ॥
मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमलोज्ज्वलाः ।
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥
आदान-ग्लान-वपुषाम् अग्निः सन्नो ऽपि सीदति ।
वर्षासु दोषैर् दुष्यन्ति ते ऽम्बु-लम्बाम्बु-दे ऽम्बरे ॥
आदान-म्लान-वपुषाम् स-तुषारेण मरुता सहसा शीतलेन च ।
भू-बाष्पेणाम्ल-पाकेन मलिनेन च वारिणा ॥
वह्निनैव च मन्देन तेष्व् इत्य् अन्यो-ऽन्य-दूषिषु ।
भजेत् साधारणं सर्वम् ऊष्मणस् तेजनं च यत् ॥
आस्थापनं शुद्ध-तनुर् जीर्णं धान्यं रसान् कृतान् ।
जाङ्गलं पिशितं यूषान् मध्व्-अरिष्टं चिरन्-तनम् ॥
मस्तु सौवर्चलाढ्यं वा पञ्च-कोलावचूर्णितम् ।
दिव्यं कौपं शृतं चाम्भो भोजनं त्व् अति-दुर्-दिने ॥
मस्तु सौवर्चलाढ्यं च व्यक्ताम्ल-लवण-स्नेहं संशुष्कं क्षौद्र-वल् लघु ।
अ-पाद-चारी सुरभिः सततं धूपिताम्बरः ॥
हर्म्य-पृष्ठे वसेद् बाष्प-शीत-सीकर-वर्जिते ।
नदी-जलोद-मन्थाहः-स्वप्नायासातपांश् त्यजेत् ॥
वर्षा-शीतोचिताङ्गानां सहसैवार्क-रश्मिभिः ।
तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥
तज्-जयाय घृतं तिक्तं विरेको रक्त-मोक्षणम् ।
तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥
शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् ।
तप्तं तप्तांशु-किरणैः शीतं शीतांशु-रश्मिभिः ॥
समन्ताद् अप्य् अहो-रात्रम् अगस्त्योदय-निर्-विषम् ।
शुचि हंसोदकं नाम निर्-मलं मल-जिज् जलम् ॥
नाभिष्यन्दि न वा रूक्षं पानादिष्व् अमृतोपमम् ।
चन्दनोशीर-कर्पूर-मुक्ता-स्रग्-वसनोज्ज्वलः ॥
सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे ।
तुषार-क्षार-सौहित्य-दधि-तैल-वसातपान् ॥
तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् ।
शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥
स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् ।
शरद्-वसन्तयो रूक्षं शीतं घर्म-घनान्तयोः ॥
अन्न-पानं समासेन विपरीतम् अतो ऽन्य-दा ।
नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥
ऋत्वोर् अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः ।
तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥
ऋत्वोर् अन्त्यादि-सप्ताहाद् अ-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥
रोगानुत्पादनीयः
वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् ।
निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥
अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः ।
वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥
स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च ।
पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥ +
शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः ।
ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥
ऊर्ध्वं वायुः परीकर्तो मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः ।
अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥
मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् ।
वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥
अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु ।
मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥
मूत्र-जेषु च पानं तु मूत्र-जेषु प्रयुञ्जीत सर्पिषश् चावपीडकम् जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् ।
अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥
उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥
शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः ।
तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥
प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् ।
शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥
तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः ।
अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥
-कार्श्य-शूल-श्रम-भ्रमाः तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् ।
निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥
वैवर्ण्यं च क्षुधस् तत्र स्निग्धोष्णं लघु भोजनम् अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च ।
कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥
शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः ।
गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥
श्रम-श्वासा-विधारणात् हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः ।
जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥
च्च् जृम्भायाः क्षुति-वद् रोगाः पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः ।
स-गुल्मा बाष्पतस् तत्र स्वप्नो मद्यं प्रियाः कथाः ॥
विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः ।
स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥
गण्डूष-धूमान्-आहारा रूक्षं भुक्त्वा तद्-उद्वमः ।
व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥
गण्डूष-धूमान्-आहारं गण्डूष-धूमान्-आहारान् रूक्षं भुक्त्वा तद् उद्वमेत् रूक्षान् भुक्त्वा तद् उद्वमेत् स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।
शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥
अभ्यङ्गार्थे च शस्यते हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः ।
ताम्र-चूड-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥
वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ।
तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥
रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः ।
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥
ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति ।
अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥
धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च ।
लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥
यतेत च यथा-कालं मलानां शोधनं प्रति ।
अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥
दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः ।
ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥
ये तु संशोधनैः शुद्धास् तेषां न पुनर्-उद्भवःच यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् ।
रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥
यथा-क्रमं यथा-योग्यम् भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् ।
शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥
-मुद्ग-मांस-रसादिभिः हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः ।
साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-वस्तिभिः ॥
तथा स लभते शर्म सर्व-पावक-पाटवम् ।
धी-वर्णेन्द्रिय-वैमल्यं वृष-तां दैर्घ्यम् आयुषः ॥
ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः ।
राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥
काम-क्रोध-भायाद्याश् त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः ।
देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥
अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् ।
भूताद्य-स्पर्शनोपायो निर्दिष्टश् च पृथक् पृथक् ॥
अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः ।
निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥
अन्-उत्पत्तौ समासेन शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले ।
घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥
नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् अ-सक्तः ।
दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् अ-रोगः ॥
द्रवद्रव्यविज्ञानम्
जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् ।
तन्व् अ-व्यक्त-रसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥
गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दु-मारुतैः ।
हिता-हित-त्वे तद् भूयो देश-कालाव् अपेक्षते ॥
येनाभिवृष्टम् अ-मलं शाल्य्-अन्नं राजते स्थितम् ।
अ-क्लिन्नम् अ-वि-वर्णं च तत् पेयं गाङ्गम् अन्य-था ॥
शाल्य्-अन्नं राजत-स्थितम् अ-क्लिन्नम् अ-वि-वर्णं स्यात् अ-क्लिन्नम् अ-विवर्णं वा तत् तोयं गाङ्गम् अन्य-था सामुद्रं तन् न पातव्यं मासाद् आश्वयुजाद् विना ।
ऐन्द्रम् अम्बु सु-पात्र-स्थम् अ-विपन्नं सदा पिबेत् ॥
तद्-अ-भावे च भूमि-ष्ठम् आन्तरिक्षानुकारि यत् ।
शुचि-पृथ्व्-असित-श्वेते देशे ऽर्क-पवनाहतम् ॥
तद्-अ-भावे च भूयिष्ठम् तद्-अ-भावे पिबेद् भौमम् न पिबेत् पङ्क-शैवाल-तृण-पर्णाविलास्तृतम् ।
सूर्येन्दु-पवना-दृष्टम् अभिवृष्टं घनं गुरु ॥
फेनिलं जन्तु-मत् तप्तं दन्त-ग्राह्य् अति-शैत्यतः ।
अन्-आर्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥
लूतादि-तन्तु-विण्-मूत्र-विष-संश्लेष-दूषितम् ।
पश्चिमोद-धि-गाः शीघ्र-वहा याश् चा-मलोदकाः ॥
पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्य-था ।
उपलास्फालनाक्षेप-विच्छेदैः खेदितोदकाः ॥
पथ्याः समासतो नद्यो हिमवन्-मलयोद्भूताः पथ्यास् ता एव च स्थिराः ।
कृमि-श्लीपद-हृत्-कण्थ-शिरो-रोगान् प्रकुर्वते ॥
प्राच्यावन्त्य्-अपरान्तोत्था दुर्-नामानि महेन्द्र-जाः ।
उदर-श्लीपदातङ्कान् सह्य-विन्ध्योद्भवाः पुनः ॥
सह्य-विन्ध्य-भवाः पुनः कुष्ठ-पाण्डु-शिरो-रोगान् दोष-घ्न्यः पारियात्र-जाः ।
बल-पौरुष-कारिण्यः सागराम्भस् त्रि-दोष-कृत् ॥
सागराम्बु त्रि-दोष-कृत् आविलं स-मलं नीलं घनं पीतम् अथापि च ।
स-क्षारं पिच्छिलं चैव सामुद्रं तन् निगद्यते ॥ +
विद्यात् कूप-तडागादीन् जाङ्गलानूप-शैलतः ।
नाम्बु पेयम् अ-शक्त्या वा स्व्-अल्पम् अल्पाग्नि-गुल्मिभिः ॥
पाण्डूदरातिसारार्शो-ग्रहणी-शोष-शोथिभिः ।
ऋते शरन्-निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्प-शः ॥
-ग्रहणी-दोष-शोथिभिः सम-स्थूल-कृशा भुक्त-मध्यान्त-प्रथमाम्बु-पाः ।
शीतं मदात्यय-ग्लानि-मूर्छा-छर्दि-श्रम-भ्रमान् ॥
सम-स्थूल-कृशा भक्त- तृष्णोष्ण-दाह-पित्तास्र-विषाण्य् अम्बु नियच्छति ।
दीपनं पाचनं कण्ठ्यं लघूष्णं वस्ति-शोधनम् ॥
तृष्णोष्म-दाह-पित्तास्र- हिध्माध्मानानिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे ।
कासाम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥
-सद्यः-शुद्धे नव-ज्वरे अन्-अभिष्यन्दि लघु च तोयं क्वथित-शीतलम् ।
पित्त-युक्ते हितं दोषे व्युषितं तत् त्रि-दोष-कृत् ॥
रूक्षम् अन्-अभिष्यन्दि लघु क्वथित-शीतलम् ऽध्युषितं तत् त्रि-दोष-कृत् नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।
तृष्णा-पित्तानिल-हरं दीपनं वस्ति-शोधनम् ॥
वर्षासु दिव्य-नादेये परं तोये वरावरे ।
स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥
वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् ।
प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥
क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् ।
श्रम-भ्रम-मदा-लक्ष्मी-श्वास-कासाति-तृट्-क्षुधः ॥
-श्वास-कासार्ति-तृट्-क्षुधः -श्वास-कासाधि-तृट्-क्षुधः जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् ।
हितम् अत्य्-अग्न्य्-अ-निद्रेभ्यो गरीयो माहिषं हिमम् ॥
अल्पाम्बु-पान-व्यायाम-कटु-तिक्ताशनैर् लघु ।
आजं शोष-ज्वर-श्वास-रक्त-पित्तातिसार-जित् ॥
ईषद्-रूक्षोष्ण-लवणम् औष्ट्राकम् दीपनं लघु ।
शस्तं वात-कफानाह-कृमि-शोफोदरार्शसाम् ॥
मानुषं वात-पित्तासृग्-अभिघाताक्षि-रोग-जित् ।
तर्पणाश्च्योतनैर् नस्यैर् अ-हृद्यं तूष्णम् आविकम् ॥
वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् ।
हस्तिन्याः स्थैर्य-कृद् बाढम् उष्णं त्व् ऐकशफं लघु ॥
शाखा-वात-हरं साम्ल-लवणं जड-ता-करम् ।
पयो ऽभिष्यन्दि गुर्व् आमं युक्त्या शृतम् अतो ऽन्य-था ॥
विना तु वनिता-स्तन्यम् आमम् एव हितं हि तत् ॥ +अब् ॥
भवेद् गरीयो ऽति-शृतं धारोष्णम् अमृतोपमम् ।
अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥
मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्ताग्नि-शोफ-कृत् ।
रोचिष्णु शस्तम् अ-रुचौ शीतके विषम-ज्वरे ॥
पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे ।
नैवाद्यान् निशि नैवोष्णं वसन्तोष्ण-शरत्सु न ॥
शरद्-ग्रीष्म-वसन्तेषु नाद्यान् नोष्णं न रात्रिषु ना-मुद्ग-सूपं ना-क्षौद्रं तन् ना-घृत-सितोपलम् ।
न चान्-आमलकं नापि नित्यं नो मन्दम् अन्य-था ॥
ज्वरासृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् ।
तक्रं लघु कषायाम्लं दीपनं कफ-वात-जित् ॥
शोफोदरार्शो-ग्रहणी-दोष-मूत्र-ग्रहा-रुचीः ।
प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्ड्व्-आमयाञ् जयेत् ॥
तद्-वन् मस्तु सरं स्रोतः-शोधि विष्टम्भ-जिल् लघु ।
नव-नीतं नवं वृष्यं शीतं वर्ण-बलाग्नि-कृत् ॥
संग्राहि वात-पित्तासृक्-क्षयार्शो-ऽर्दित-कास-जित् ।
क्षीरोद्भवं तु संग्राहि रक्त-पित्ताक्षि-रोग-जित् ॥
शस्तं धी-स्मृति-मेधाग्नि-बलायुः-शुक्र-चक्षुषाम् ।
बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥
क्षत-क्षीण-परीसर्प-शस्त्राग्नि-ग्लपितात्मनाम् ।
वात-पित्त-विषोन्माद-शोषा-लक्ष्मी-ज्वरापहम् ॥
स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।
सहस्र-वीर्यं विधिभिर् घृतं कर्म-सहस्र-कृत् ॥
सहस्र-वीर्यं विधि-वद् मदापस्मार-मूर्छाय-शिरः-कर्णाक्षि-योनि-जान् ।
पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥
बल्याः किलाट-पीयूष-कूर्चिका-मोरणादयः ।
शुक्र-निद्रा-कफ-करा विष्टम्भि-गुरु-दोषलाः ॥
-कूचिका-मोरणादयः गव्ये क्षीर-घृते श्रेष्ठे निन्दिते चावि-संभवे ।
इक्षोः सरो गुरुः स्निग्धो बृंहणः कफ-मूत्र-कृत् ॥
वृष्यः शीतो ऽस्र-पित्त-घ्नः स्वादु-पाक-रसो रसः ।
सो ऽग्रे स-लवणो दन्त-पीडितः शर्करा-समः ॥
मूलाग्र-जन्तु-जग्धादि-पीडनान् मल-संकरात् ।
किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥
किञ्-चित्-काल-विधृत्या च विदाही गुरु-विष्टम्भी तेनासौ तत्र पौण्ड्रकः ।
शैत्य-प्रसाद-माधुर्यैर् वरस् तम् अनु वांशिकः ॥
गुरुर् विदाही विष्टम्भी शतपर्वक-कान्तार-नैपालाद्यास् ततः क्रमात् ।
स-क्षाराः स-कषायाश् च सोष्णाः किञ्-चिद्-विदाहिनः ॥
शातपर्वक-कान्तार- -नेपालाद्यास् ततः क्रमात् फाणितं गुर्व् अभिष्यन्दि चय-कृन् मूत्र-शोधनम् ।
नाति-श्लेष्म-करो धौतः सृष्ट-मूत्र-शकृद् गुडः ॥
प्रभूत-कृमि-मज्जासृङ्-मेदो-मांस-कफो ऽपरः ।
हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्नि-साद-कृत् ॥
वृष्याः क्षीण-क्षत-हिता रक्त-पित्तानिलापहाः ।
मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥
तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा ।
दाह-तृट्-छर्दि-मूर्छासृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥
शर्करेक्षु-विकाराणां फाणितं च वरावरे ।
चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मास्र-पित्त-नुत् ॥
मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कासातिसार-जित् ।
व्रण-शोधन-संधान-रोपणं वातलं मधु ॥
रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा ।
उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥
यक्ष्मार्शो-ऽर्दित-पित्तासृङ्-नाशनं ग्राहि दीपनम् ॥ +
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते ।
अ-लब्ध-पाकम् आश्व् एव तयोर् यस्मान् निवर्तते ॥
अ-लब्ध-पाकम् एवाशु तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च ।
त्वग्-दोष-कृद् अ-चक्षुष्यं सूक्ष्मोष्णं कफ-कृन् न च ॥
कृशानां बृंहणायालं स्थूलानां कर्शनाय च ।
बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥
संस्कारात् सर्व-दोष-जित् स-तिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु ।
वर्ध्म-गुल्मानिल-कफान् उदरं विषम-ज्वरम् ॥
रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठाश्रयौ जयेत् ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥
कटूष्णं सार्षपं तीक्ष्णं कफ-शुक्रानिलापहम् ।
लघु पित्तास्र-कृत् कोठ-कुष्ठार्शो-व्रण-जन्तु-जित् ॥
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ।
नात्य्-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥
उमा-कुसुम्भ-जं चोष्णं त्वग्-दोष-कफ-पित्त-कृत् ।
वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥
कषाय-तिक्त-कटुकं कारञ्जं व्रण-शोधनम् ॥ +
मांसानुग-स्व-रूपौ च विद्यान् मेदो ऽपि ताव् इव ।
दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥
स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् ।
स-कषायं स्वरारोग्य-प्रतिभा-वर्ण-कृल् लघु ॥
नष्ट-निद्राति-निद्रेभ्यो हितं पित्तास्र-दूषणम् ।
कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥
वात-श्लेष्म-हरं युक्त्या पीतं विष-वद् अन्य-था ।
गुरु तद्-दोष-जननं नवं जीर्णम् अतो ऽन्य-था ॥
द्राक्षेक्षवः स-खर्जूराः शालि-पिष्टम् यवस्य च ।
पञ्च मद्याकाराः श्रेष्ठा द्राक्षा तेषां विशिष्यते ॥ +
- शालेः पिष्टम् यवस्य च पेयं नोष्णोपचारेण न विरिक्त-क्षुधातुरैः ।
नात्य्-अर्थ-तीक्ष्ण-मृद्व्-अल्प-संभारं कलुषं न च ॥
गुल्मोदरार्शो-ग्रहणी-शोष-हृत् स्नेहनी गुरुः ।
सुरानिल-घ्नी मेदो-ऽसृक्-स्तन्य-मूत्र-कफावहा ॥
तद्-गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च ।
शूल-कास-वमि-श्वास-विबन्धाध्मान-पीनसान् ॥
नाति-तीव्र-मदा लघ्वी पथ्या वैभीतकी सुरा ।
व्रणे पाण्ड्व्-आमये कुष्ठे न चात्य्-अर्थं विरुध्यते ॥
विष्टम्भिनी यव-सुरा गुर्वी रूक्षा त्रि-दोषला ।
यथा-द्रव्य-गुणो ऽरिष्टः सर्व-मद्य-गुणाधिकः ॥
ग्रहणी-पाण्डु-कुष्ठार्शः-शोफ-शोषोदर-ज्वरान् ।
हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥
कषायः कटु-वातलः मार्द्वीकं लेखनं हृद्यं नात्य्-उष्णं मधुरं सरम् ।
अल्प-पित्तानिलं पाण्डु-मेहार्शः-कृमि-नाशनम् ॥
अस्माद् अल्पान्तर-गुणं खार्जूरं वातलं गुरु ।
शार्करः सुरभिः स्वादु-हृद्यो नाति-मदो लघुः ॥
शार्करं सुरभि स्वादु हृद्यं नाति-मदं लघु सृष्ट-मूत्र-शकृद्-वातो गौडस् तर्पण-दीपनः ।
वात-पित्त-करः सीधुः स्नेह-श्लेष्म-विकार-हा ॥
मेदः-शोफोदरार्शो-घ्नस् तत्र पक्व-रसो वरः ।
छेदी मध्व्-आसवस् तीक्ष्णो मेह-पीनस-कास-जित् ॥
रक्त-पित्त-कफोत्क्लेदि शुक्तं वातानुलोमनम् ।
भृशोष्ण-तीक्ष्ण-रूक्षाम्लं हृद्यं रुचि-करं सरम् ॥
हृद्यं रुचि-करं परम् दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् ।
गुडेक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथोत्तरम् ॥
पाण्डु-हृत् कृमि-नाशनम् गुडेक्षु-मद्य-माध्वीक- कन्द-मूल-फलाद्यं च तद्-वद् विद्यात् तद्-आसुतम् ।
शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥
धान्याम्लं भेदि तीक्ष्णोष्णं पित्त-कृत् स्पर्श-शीतलम् ।
श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥
शस्तम् आस्थापने हृद्यं लघु वात-कफापहम् ।
एभिर् एव गुणैर् युक्ते सौवीरक-तुषोदके ॥
गण्डूष-धारणाद् वक्त्र-मल-दौर्गन्ध्य-शोष-जित् ॥ + कृमि-हृद्-रोग-गुल्मार्शः-पाण्डु-रोग-निबर्हणे ।
ते क्रमाद् वि-तुषैर् विद्यात् स-तुषैश् च यवैः कृते ॥
कृमि-हृद्-रोग-गुल्मार्शो- -ग्रहणी-पाण्डु-नाशने मूत्रं गो-ऽजावि-महिषी-गजाश्वोष्ट्र-खरोद्भवम् ।
पित्तलं रूक्ष-तीक्ष्णोष्णं लवणानु-रसं कटु ॥
कृमि-शोफोदरानाह-शूल-पाण्डु-कफानिलान् ।
गुल्मा-रुचि-विष-श्वित्र-कुष्ठार्शांसि जयेल् लघु ॥
-शूल-पाण्डु-कफामयान् तोय-क्षीरेक्षु-तैलानां वर्गैर् मद्यस्य च क्रमात् ।
इति द्रवैक-देशो ऽयं यथा-स्थूलम् उदाहृतः ॥
अन्नस्वरूपविज्ञानम्
रक्तो महान् स-कलमस् तूर्णकः शकुनाहृतः ।
सारा-मुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौर-शारिवौ ।
काञ्चनो महिषः शूकः दूषकः कुसुमाण्डकः ॥
पाण्डुकः पुण्डरीकश् च पौण्ड्रकः पुण्डरीकश् च प्रमोदो गौर-शालिकः लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः ।
पतङ्गास् तपनीयाश् च ये चान्ये शालयः शुभाः ॥
जाङ्गला लोहवालाख्याः लाङ्गला लोहवालाश् च लाङ्गलो लोहवालाख्यः कर्दमः शीतभीरुकः स्वादु-पाक-रसाः स्निग्धा वृष्या बद्धाल्प-वर्चसः ।
कषायानु-रसाः पथ्या लघवो मूत्रला हिमाः ॥
शूक-जेषु वरस् तत्र रक्तस् तृष्णा-त्रि-दोष-हा ।
महांस् तम् अनु कलमस् तं चाप्य् अनु ततः परे ॥
महांस् तस्यानु कलमस् यवका हायनाः पांसु-बाष्प-नैषधकादयः ।
स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्म-पित्तलाः ॥
-वाप्य-नैषधकादयः सृष्ट-मूत्र-पुरीषाश् च पूर्वं पूर्वं च निन्दिताः ।
स्निग्धो ग्राही लघुः स्वादुस् त्रि-दोष-घ्नः स्थिरो हिमः ॥
षष्टिको व्रीहिषु श्रेष्ठो गौरश् चासित-गौरतः ।
ततः क्रमान् महा-व्रीहि-कृष्ण-व्रीहि-जतूमुखाः ॥
कुक्कुटाण्डक-लावाख्य-पारावतक-शूकराः ।
वरकोद्दालकोज्ज्वाल-चीन-शारद-दर्दुराः ॥
कुक्कुटाण्डक-पालाक्ष- कुक्कुटाण्डक-पालाख्य- कुक्कुटाण्डक-लावाक्ष- -चीन-शारद-दुर्दराः गन्धनाः कुरुविन्दाश् च गुणैर् अल्पान्तराः स्मृताः ।
स्वादुर् अम्ल-विपाको ऽन्यो व्रीहिः पित्त-करो गुरुः ॥
बहु-मूत्र-पुरीषोष्मा त्रि-दोषस् त्व् एव पाटलः ।
कङ्गु-कोद्रव-नीवार-श्यामाकादि हिमं लघु ॥
तृण-धान्यं पवन-कृल् लेखनं कफ-पित्त-हृत् ।
भग्न-संधान-कृत् तत्र प्रियङ्गुर् बृंहणी गुरुः ॥
कोरदूषः परं ग्राही स्पर्शो शीतो विषापहः ।
रूक्षः शीतो गुरुः स्वादुः सरो विड्-वात-कृद् यवः ॥
स्पर्शो शीतो गरापहः स्पर्श-शीतो विषापहः वृष्यः स्थैर्य-करो मूत्र-मेदः-पित्त-कफाञ् जयेत् ।
पीनस-श्वास-कासोरु-स्तम्भ-कण्ठ-त्वग्-आमयान् ॥
न्यूनो यवाद् अनु-यवो रूक्षोष्णो वंश-जो यवः ।
वृष्यः शीतो गुरुः स्निग्धो जीवनो वात-पित्त-हा ॥
न्यूनो यावद् अन्य-यवो संधान-कारी मधुरो गोधूमः स्थैर्य-कृत् सरः ।
पथ्या नन्दीमुखी शीता कषाय-मधुरा लघुः ॥
निः-सारा वातला रूक्षा जूर्णाध्मान-करा सरा ॥ +
मुद्गाढकी-मसूरादि शिम्बी-धान्यं विबन्ध-कृत् ।
कषायं स्वादु संग्राहि कटु-पाकं हिमं लघु ॥
मेदः-श्लेष्मास्र-पित्तेषु हितं लेपोपसेकयोः ।
वरो ऽत्र मुद्गो ऽल्प-चलः कलायस् त्व् अति-वातलः ॥
असृक्-पित्त-हरो रूक्षो वातलश् चणकः स्मृतः ॥ +
राज-माषो ऽनिल-करो रूक्षो बहु-शकृद् गुरुः ।
उष्णाः कुलत्थाः पाके ऽम्लाः शुक्राश्म-श्वास-पीनसान् ॥
कासार्शः-कफ-वातांश् च घ्नन्ति पित्तास्र-दाः परम् ।
निष्पावो वात-पित्तास्र-स्तन्य-मूत्र-करो गुरुः ॥
निष्पावो वात-पित्तासृक्- सरो विदाही दृक्-शुक्र-कफ-शोफ-विषापहः ।
माषः स्निग्धो बल-श्लेष्म-मल-पित्त-करः सरः ॥
गुरूष्णो ऽनिल-हा स्वादुः शुक्र-वृद्धि-विरेक-कृत् ।
फलानि माष-वद् विद्यात् काकाण्डोलात्मगुप्तयोः ॥
उष्णस् त्वच्यो हिमः स्पर्शे केश्यो बल्यस् तिलो गुरुः ।
अल्प-मूत्रः कटुः पाके मेधाग्नि-कफ-पित्त-कृत् ॥
उष्णस् त्वच्यो हिम-स्पर्शः स्निग्धोमा स्वादु-तिक्तोष्णा कफ-पित्त-करी गुरुः ।
दृक्-शुक्र-हृत् कटुः पाके तद्-वद् बीजं कुसुम्भ-जम् ॥
माषो ऽत्र सर्वेष्व् अवरो यवकः शूक-जेषु च ।
नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् ॥
यवकः शूक-जेष्व् अपि लघु वर्षोषितं च यत् शीघ्र-जन्म तथा सूप्यं निस्-तुषं युक्ति-भर्जितम् ।
मण्ड-पेया-विलेपीनाम् ओदनस्य च लाघवम् ॥
यव-गोधूम-माषाश् च तिलाश् चाभिनवा हिताः ।
पुराणा वि-रसाः सूक्ष्मा न तथार्थ-करा मताः ॥ +
यथा-पूर्वं शिवस् तत्र मण्डो वातानुलोमनः ।
तृड्-ग्लानि-दोष-शेष-घ्नः पाचनो धातु-साम्य-कृत् ॥
स्रोतो-मार्दव-कृत् स्वेदी संधुक्षयति चानलम् ।
क्षुत्-तृष्णा-ग्लानि-दौर्बल्य-कुक्षि-रोग-ज्वरापहा ॥
मलानुलोमनी पथ्या पेया दीपन-पाचनी ।
विलेपी ग्राहिणी हृद्या तृष्णा-घ्नी दीपनी हिता ॥
व्रणाक्षि-रोग-संशुद्ध-दुर्-बल-स्नेह-पायिनाम् ।
सु-धौतः प्रस्रुतः स्विन्नो ऽ-त्यक्तोष्मा चौदनो लघुः ॥
यश् चाग्नेयौषध-क्वाथ-साधितो भृष्ट-तण्डुलः ।
विपरीतो गुरुः क्षीर-मांसाद्यैर् यश् च साधितः ॥
यश् चाग्नेयौषध-क्वाथे साधितो भृष्ट-तण्डुलैः इति द्रव्य-क्रिया-योग-मानाद्यैः सर्वम् आदिशेत् ।
बृंहणः प्रीणनो वृष्यश् चक्षुष्यो व्रण-हा रसः ॥
मौद्गस् तु पथ्यः संशुद्ध-व्रण-कण्ठाक्षि-रोगिणाम् ।
वातानुलोमी कौलत्थो गुल्म-तूणी-प्रतूणि-जित् ॥
अ-कृतं कृत-यूषं च तनु संस्कारितं रसम् ।
सूपम् अम्लम् अन्-अम्लं च गुरु विद्याद् यथोत्तरम् ॥ +
तिल-पिण्याक-विकृतिः शुष्क-शाकं विरूढकम् ।
शाण्डाकी-वटकं दृङ्-घ्नं दोषलं ग्लपनं गुरु ॥
रसाला बृंहणी वृष्या स्निग्धा बल्या रुचि-प्रदा ।
श्रम-क्षुत्-तृट्-क्लम-हरं पानकं प्रीणनं गुरु ॥
विष्टम्भि मूत्रलं हृद्यं यथा-द्रव्य-गुणं च तत् ।
लाजास् तृट्-छर्द्य्-अतीसार-मेह-मेदः-कफ-च्छिदः ॥
कास-पित्तोपशमना दीपना लघवो हिमाः ।
पृथुका गुरवो बल्याः कफ-विष्टम्भ-कारिणः ॥
धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः ।
सक्तवो लघवः क्षुत्-तृट्-श्रम-नेत्रामय-व्रणान् ॥
-श्रम-नेत्र-गलामयान् घ्नन्ति संतर्पणाः पानात् सद्य एव बल-प्रदाः ।
नोदकान्तरितान् न द्विर् न निशायां न केवलान् ॥
न भुक्त्वा न द्वि-जैश् छित्त्वा सक्तून् अद्यान् न वा बहून् ।
पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टि-दूषणः ॥
रौक्ष्याद् विष्टम्भते कोष्ठे विष्टम्भि-त्वाद् विदह्यते ।
विदाहात् कुरुते ग्लानिं पिण्याको निशि सेवितः ॥ +
वेसवारो गुरुः स्निग्धो बलोपचय-वर्धनः ।
मुद्गादि-जास् तु गुरवो यथा-द्रव्य-गुणानुगाः ॥
कुकूल-कर्पर-भ्राष्ट्र-कन्द्व्-अङ्गार-विपाचितान् ।
एक-योनीō̃ लघून् विद्याद् अपूपान् उत्तरोत्तरम् ॥
कुकूल-खर्पर-भ्राष्ट्र- -कट्व्-अङ्गार-विपाचितान् अपूपांस् तु यथोत्तरम् हरिणैण-कुरङ्गर्क्ष-गोकर्ण-मृगमातृकाः ।
शश-शम्बर-चारुष्क-शरभाद्या मृगाः स्मृताः ॥
लाव-वार्तीक-वर्तीर-रक्तवर्त्मक-कुक्कुभाः ।
कपिञ्जलोपचक्राख्य-चकोर-कुरुबाहवः ॥
-रक्तवर्त्मक-कुर्कुभाः वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी ।
ताम्र-चूडाख्य-बकर-गोनर्द-गिरि-वर्तिकाः ॥
कुक्कुटो बकरः कङ्क- ताम्र-चूडाख्य-वरक- तथा शारपदेन्द्राभ-वरटाद्याश् च विष्किराः ।
जीवञ्जीवक-दात्यूह-भृङ्गाह्व-शुक-सारिकाः ॥
-वारटाद्याश् च विष्किराः -वारटाश् चेति विष्किराः -वरटाश् चेति विष्किराः लट्वा-कोकिल-हारीत-कपोत-चटकादयः ।
प्रतुदा भेक-गोधाहि-श्वाविद्-आद्या बिले-शयाः ॥
गो-खराश्वतरोष्ट्राश्व-द्वीपि-सिंहर्क्ष-वानराः ।
मार्जार-मूषक-व्याघ्र-वृक-बभ्रु-तरक्षवः ॥
लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः ।
शशघ्नी-भास-कुरर-गृध्रोलूक-कुलिङ्गकाः ॥
शशारि-भास-कुरर- धूमिका मधुहा चेति प्रसहा मृग-पक्षिणः ।
वराह-महिष-न्यङ्कु-रुरु-रोहित-वारणाः ॥
सृमरश् चमरः खड्गो गवयश् च महा-मृगाः ।
हंस-सारस-कादम्ब-बक-कारण्डव-प्लवाः ॥
बलाकोत्क्रोश-चक्राह्व-मद्गु-क्रौञ्चादयो ऽप्-चराः ।
मत्स्या रोहित-पाठीन-कूर्म-कुम्भीर-कर्कटाः ॥
शुक्ति-शङ्खोद्र-शम्बूक-शफरी-वर्मि-चन्द्रिकाः ।
चुलूकी-नक्र-मकर-शिशुमार-तिमिङ्गिलाः ॥
शुक्ति-शङ्खोद्रु-शम्बूक- चुल्लकी-नक्र-मकर- राजी-चिलिचिमाद्याश् च मांसम् इत्य् आहुर् अष्ट-धा ।
योनिष्व् अजावी व्यामिश्र-गो-चर-त्वाद् अ-निश्चिते ॥
मृग्यं वैष्किरिकं किं च प्रातुदं च बिले-शयम् ।
प्रासहं च महा-मृग्यम् अप्-चरं मात्स्यम् अष्ट-धा ॥ +
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ ।
तत्र बद्ध-मलाः शीता लघवो जाङ्गला हिताः ॥
पित्तोत्तरे वात-मध्ये संनिपाते कफानुगे ।
दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः ॥
ईषद्-उष्ण-गुरु-स्निग्धा बृंहणा वर्तकादयः ।
तित्तिरिस् तेष्व् अपि वरो मेधाग्नि-बल-शुक्र-कृत् ॥
ग्राही वर्ण्यो ऽनिलोद्रिक्त-संनिपात-हरः परम् ।
नाति-पथ्यः शिखी पथ्यः श्रोत्र-स्वर-वयो-दृशाम् ॥
तद्-वच् च कुक्कुटो वृष्यो ग्राम्यस् तु श्लेष्मलो गुरुः ।
मेधानल-करा हृद्याः क्रकराः सोपचक्रकाः ॥
गुरुः स-लवणः काण-कपोतः सर्व-दोष-कृत् ।
चटकाः श्लेष्मलाः स्निग्धा वात-घ्नाः शुक्रलाः परम् ॥
वात-घ्नाः शुक्रलाः भृशम् गुरूष्ण-स्निग्ध-मधुरा वर्गाश् चातो यथोत्तरम् ।
मूत्र-शुक्र-कृतो बल्या वात-घ्नाः कफ-पित्तलाः ॥
शीता महा-मृगास् तेषु क्रव्याद-प्रसहाः पुनः ।
लवणानु-रसाः पाके कटुका मांस-वर्धनाः ॥
क्रव्यादाः प्रसहाः पुनः जीर्णार्शो-ग्रहणी-दोष-शोषार्तानां परं हिताः ।
नाति-शीत-गुरु-स्निग्धं मांसम् आजम् अ-दोषलम् ॥
नाति-शीतं गुरु स्निग्धं शरीर-धातु-सामान्याद् अन्-अभिष्यन्दि बृंहणम् ।
विपरीतम् अतो ज्ञेयम् आविकं बृंहणं तु तत् ॥
शुष्क-कास-श्रमात्य्-अग्नि-विषम-ज्वर-पीनसान् ।
कार्श्यं केवल-वातांश् च गो-मांसं संनियच्छति ॥
उष्णो गरीयान् महिषः स्वप्न-दार्ढ्य-बृहत्-त्व-कृत् ।
तद्-वद् वराहः श्रम-हा रुचि-शुक्र-बल-प्रदः ॥
मत्स्याः परं कफ-कराश् चिलिचीमस् त्रि-दोष-कृत् ।
लाव-रोहित-गोधैणाः स्वे स्वे वर्गे वराः परम् ॥
मत्स्यादि-पक्षिणां चैव गुरूण्य् अण्डानि चादिशेत् ।
तानि स्निग्धानि वृष्याणि स्वादु-पाक-रसानि च ॥ +
- गुरूण्य् अण्डान्य् अतो दिशेत् + गुरूण्य् अण्डानि चान्यतो मांसं सद्यो-हतं शुद्धं वयः-स्थं च भजेत् त्यजेत् ।
मृतं कृशं भृशं मेद्यं व्याधि-वारि-विषैर् हतम् ॥
पुं-स्त्रियोः पूर्व-पश्चार्धे गुरुणी गर्भिणी गुरुः ।
लघुर् योषिच् चतुष्-पात्सु विहङ्गेषु पुनः पुमान् ॥
शिरः-स्कन्धोरु-पृष्ठस्य कट्याः सक्थ्नोश् च गौरवम् ।
तथाम-पक्वाशययोर् यथा-पूर्वं विनिर्दिशेत् ॥
शोणित-प्रभृतीनां च धातूनाम् उत्तरोत्तरम् ।
मांसाद् गरीयो वृषण-मेढ्र-वृक्क-यकृद्-गुदम् ॥
शाकं पाठा-शठी-सूषा-सुनिषण्ण-सतीन-जम् ।
त्रि-दोष-घ्नं लघु ग्राहि स-राज-क्षव-वास्तुकम् ॥
शाकं पाठा-शठी-शूषा- सुनिषण्णो ऽग्नि-कृद् वृष्यस् तेषु राज-क्षवः परम् ।
ग्रहण्य्-अर्शो-विकार-घ्नो वर्चो-भेदि तु वास्तुकम् ॥
हन्ति दोष-त्रयं कुष्ठं वृष्या सोष्णा रसायनी ।
काकमाची सरा स्वर्या चाङ्गेर्य् अम्लाग्नि-दीपनी ॥
वृष्या सोष्णा रसायनम् ग्रहण्य्-अर्शो-ऽनिल-श्लेष्मन्-हितोष्णा ग्राहिणी लघुः ।
पटोल-सप्तलारिष्ट-शार्ङ्गष्टावल्गुजामृताः ॥
पटोलं सप्तलारिष्ट- वेत्राग्र-बृहती-वासा-कुतिली-तिलपर्णिकाः ।
मण्डूकपर्णी-कर्कोट-कारवेल्लक-पर्पटाः ॥
वेत्राग्रं बृहती-वासा- -कुन्तिली-तिलपर्णिकाः -कुन्तली-तिलपर्णिकाः नाडी-कलाय-गोजिह्वा-वार्ताकं वनतिक्तकम् ।
करीरं कुलकं नन्दी कुचैला शकुलादनी ॥
कठिल्लं केम्बुकं शीतं स-कोशातक-कर्कशम् ।
तिक्तं पाके कटु ग्राहि वातलं कफ-पित्त-जित् ॥
कठिल्ल-केम्बुकं शीतं हृद्यं पटोलं कृमि-नुत् स्वादु-पाकं रुचि-प्रदम् ।
पित्तलं दीपनं भेदि वात-घ्नं बृहती-द्वयम् ॥
वृषं तु वमि-कास-घ्नं रक्त-पित्त-हरं परम् ।
कारवेल्लं स-कटुकं दीपनं कफ-जित् परम् ॥
वार्ताकं कटु-तिक्तोष्णं मधुरं कफ-वात-जित् ।
स-क्षारम् अग्नि-जननं हृद्यं रुच्यम् अ-पित्तलम् ॥
करीरम् आध्मान-करं कषायं स्वादु तिक्तकम् ।
कोशातकावल्गुजकौ भेदिनाव् अग्नि-दीपनौ ॥
भेदनाव् अग्नि-दीपनौ तण्डुलीयो हिमो रूक्षः स्वादु-पाक-रसो लघुः ।
मद-पित्त-विषास्र-घ्नो मुञ्जातं वात-पित्त-जित् ॥
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्र-कृत् परम् ।
गुर्वी सरा तु पालङ्क्या मद-घ्नी चाप्य् उपोदका ॥
पालङ्क्या-वत् स्मृतश् चञ्चुः स तु संग्रहणात्मकः ।
विदारी वात-पित्त-घ्नी मूत्रला स्वादु-शीतला ॥
पालङ्क्या-वत् स्मृतश् चुच्चुः पालङ्क्या-वत् स्मृतश् चुञ्चुः जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम् ।
चक्षुष्या सर्व-दोष-घ्नी जीवन्ती मधुरा हिमा ॥
कूष्माण्ड-तुम्ब-कालिङ्ग-कर्कार्व्-एर्वारु-तिण्डिशम् ।
तथा त्रपुस-चीनाक-चिर्भटं कफ-वात-कृत् ॥
भेदि विष्टम्भ्य् अभिष्यन्दि स्वादु-पाक-रसं गुरु ।
वल्ली-फलानां प्रवरं कूष्माण्डं वात-पित्त-जित् ॥
वस्ति-शुद्धि-करं वृष्यं त्रपुसं त्व् अति-मूत्रलम् ।
तुम्बं रूक्ष-तरं ग्राहि कालिङ्गैर्वारु-चिर्भटम् ॥
बालं पित्त-हरं शीतं विद्यात् पक्वम् अतो ऽन्य-था ।
शीर्णवृन्तं तु स-क्षारं पित्तलं कफ-वात-जित् ॥
रोचनं दीपनं हृद्यम् अष्ठीलानाह-नुल् लघु ।
मृणाल-बिस-शालूक-कुमुदोत्पल-कन्दकम् ॥
नन्दी-माषक-केलूट-शृङ्गाटक-कसेरुकम् ।
क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ॥
कदम्ब-नालिका-मार्ष-कुटिञ्जर-कुतुम्बकम् ।
चिल्ली-लट्वाक-लोणीका-कुरूटक-गवेधुकम् ॥
कलम्बु-नालिका-मार्ष- -कुटिञ्जर-कुरुम्बकम् -कुलिञ्जर-कुरुम्बकम् -कुरूढक-गवेधुकाः -कुरण्टक-गवेधुकाः -कुरण्टक-गवेधुकम् जीवन्त-झुञ्झ्व्-एडगज-यव-शाक-सुवर्चलाः ।
आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ॥
-यव-शाक-सुवर्चलम् तथा सूप्यानि लाक्ष्मणम् तथा सूप्यानि लक्ष्मणा स्वादु रूक्षं स-लवणं वात-श्लेष्म-करं गुरु ।
शीतलं सृष्ट-विण्-मूत्रं प्रायो विष्टभ्य जीर्यति ॥
स्विन्नं निष्पीडित-रसं स्नेहाढ्यं नाति-दोषलम् ।
लघु-पत्त्रा तु या चिल्ली सा वास्तुक-समा मता ॥
तर्कारी-वरुणं स्वादु स-तिक्तं कफ-वात-जित् ।
वर्षाभ्वौ काल-शाकं च स-क्षारं कटु-तिक्तकम् ॥
तर्कारी-वरणं स्वादु दीपनं भेदनं हन्ति गर-शोफ-कफानिलान् ।
दीपनाः कफ-वात-घ्नाश् चिरिबिल्वाङ्कुराः सराः ॥
संग्राहि शाल्मली-पुष्पं पित्तास्र-घ्नं विशेषतः ॥ + शतावर्य्-अङ्कुरास् तिक्ता वृष्या दोष-त्रयापहाः ।
रूक्षो वंश-करीरस् तु विदाही वात-पित्तलः ॥
पत्तूरो दीपनस् तिक्तः प्लीहार्शः-कफ-वात-जित् ।
कृमि-कास-कफोत्क्लेदान् कासमर्दो जयेत् सरः ॥
रूक्षोष्णम् अम्लं कौसुम्भं गुरु पित्त-करं सरम् ।
गुरूष्णं सार्षपं बद्ध-विण्-मूत्रं सर्व-दोष-कृत् ॥
यद् बालम् अ-व्यक्त-रसं किञ्-चित्-क्षारं स-तिक्तकम् ।
तन् मूलकं दोष-हरं लघु सोष्णं नियच्छति ॥
गुल्म-कास-क्षय-श्वास-व्रण-नेत्र-गलामयान् ।
स्वराग्नि-सादोदावर्त-पीनसांश् च महत् पुनः ॥
रसे पाके च कटुकम् उष्ण-वीर्यं त्रि-दोष-कृत् ।
गुर्व् अभिष्यन्दि च स्निग्ध-सिद्धं तद् अपि वात-जित् ॥
-स्विन्नं तद् अपि वात-जित् वात-श्लेष्म-हरं शुष्कं सर्वम् आमं तु दोषलम् ।
कटूष्णो वात-कफ-हा पिण्डालुः पित्त-वर्धनः ॥
कुठेर-शिग्रु-सुरस-सुमुखासुरि-भूस्तृणम् ।
फणिज्जार्जक-जम्बीर-प्रभृति ग्राहि शालनम् ॥
विदाहि कटु रूक्षोष्णं हृद्यं दीपन-रोचनम् ।
दृक्-शुक्र-कृमि-हृत् तीक्ष्णं दोषोत्क्लेश-करं लघु ॥
हिध्मा-कास-विष-श्वास-पार्श्व-रुक्-पूति-गन्ध-हा ।
सुरसः सुमुखो नाति-विदाही गर-शोफ-हा ॥
हिध्मा-कास-वमि-श्वास- हिध्मा-कास-श्रम-श्वास- आर्द्रिका तिक्त-मधुरा मूत्रला न च पित्त-कृत् ।
लशुनो भृश-तीक्ष्णोष्णः कटु-पाक-रसः सरः ॥
हृद्यः केश्यो गुरुर् वृष्यः स्निग्धो रोचन-दीपनः ।
भग्न-संधान-कृद् बल्यो रक्त-पित्त-प्रदूषणः ॥
स्निग्धो दीपन-पाचनः किलास-कुष्ठ-गुल्मार्शो-मेह-कृमि-कफानिलान् ।
स-हिध्मा-पीनस-श्वास-कासान् हन्ति रसायनम् ॥
-कासान् हन्त्य् अस्र-पित्त-कृत् पलाण्डुस् तद्-गुण-न्यूनः श्लेष्मलो नाति-पित्तलः ।
कफ-वातार्शसां पथ्यः स्वेदे ऽभ्यवहृतौ तथा ॥
तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हित-कृन् न सः ।
दीपनः सूरणो रुच्यः कफ-घ्नो विशदो लघुः ॥
विशेषाद् अर्शसां पथ्यो भू-कन्दस् त्व् अति-दोषलः ।
पत्त्रे पुष्पे फले नाले कन्दे च गुरु-ता क्रमात् ॥
पुष्पे पत्त्रे फले नाले वरा शाकेषु जीवन्ती सार्षपं त्व् अवरं परम् ।
द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्ट-मूत्र-विट् ॥
सार्षपस् त्व् अवरः परम् सर्षपास् त्व् अवराः परम् स्वादु-पाक-रसा स्निग्धा स-कषाया हिमा गुरुः ।
निहन्त्य् अनिल-पित्तास्र-तिक्तास्य-त्व-मदात्ययान् ॥
निहन्त्य् अनिल-पित्तासृक्- तृष्णा-कास-श्रम-श्वास-स्वर-भेद-क्षत-क्षयान् ।
उद्रिक्त-पित्ताञ् जयति त्रीन् दोषान् स्वादु दाडिमम् ॥
पित्ता-विरोधि नात्य्-उष्णम् अम्लं वात-कफापहम् ।
सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचन-दीपनम् ॥
मोच-खर्जूर-पनस-नारिकेल-परूषकम् ।
आम्रात-ताल-काश्मर्य-राजादन-मधूक-जम् ॥
सौवीर-बदराङ्कोल्ल-फल्गु-श्लेष्मातकोद्भवम् ।
वातामाभिषुकाक्षोट-मुकूलक-निकोचकम् ॥
उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् ।
दाह-क्षत-क्षय-हरं रक्त-पित्त-प्रसादनम् ॥
स्वादु-पाक-रसं स्निग्धं विष्टम्भि कफ-शुक्र-कृत् ।
फलं तु पित्तलं तालं सरं काश्मर्य-जं हिमम् ॥
श्लेष्मलं वात-पित्त-जित् शकृन्-मूत्र-विबन्ध-घ्नं केश्यं मेध्यं रसायनम् ।
वातामाद्य् उष्ण-वीर्यं तु कफ-पित्त-करं सरम् ॥
परं वात-हरं स्निग्धम् अन्-उष्णं तु प्रियाल-जम् ।
प्रियाल-मज्जा मधुरो वृष्यः पित्तानिलापहः ॥
कोल-मज्जा गुणैस् तद्-वत् तृट्-छर्दिः-कास-जिच् च सः ।
पक्वं सु-दुर्-जरं बिल्वं दोषलं पूति-मारुतम् ॥
दीपनं कफ-वात-घ्नं बालं ग्राह्य् उभयं च तत् ।
कपित्थम् आमं कण्ठ-घ्नं दोषलं दोष-घाति तु ॥
बालं ग्राह्य् उभयं तु तत् पक्वं हिध्मा-वमथु-जित् सर्वं ग्राहि विषापहम् ।
जाम्बवं गुरु विष्टम्भि शीतलं भृश-वातलम् ॥
संग्राहि मूत्र-शकृतोर् अ-कण्ठ्यं कफ-पित्त-जित् ।
वात-पित्तास्र-कृद् बालं बद्धास्थि कफ-पित्त-कृत् ॥
अ-कण्ठ्यं कफ-पित्त-नुत् गुर्व् आम्रं वात-जित् पक्वं स्वाद्व् अम्लं कफ-शुक्र-कृत् ।
वृक्षाम्लं ग्राहि रूक्षोष्णं वात-श्लेष्म-हरं लघु ॥
तृष्णा-घ्नम् उष्णम् अम्लायाः फलं पित्त-करं सरम् ॥ + शम्या गुरूष्णं केश-घ्नं रूक्षं पीलु तु पित्तलम् ।
कफ-वात-हरं भेदि प्लीहार्शः-कृमि-गुल्म-नुत् ॥
स-तिक्तं स्वादु यत् पीलु नात्य्-उष्णं तत् त्रि-दोष-जित् ।
त्वक् तिक्त-कटुका स्निग्धा मातुलुङ्गस्य वात-जित् ॥
बृंहणं मधुरं मांसं वात-पित्त-हरं गुरु ।
लघु तत्-केसरं कास-श्वास-हिध्मा-मदात्ययान् ॥
आस्य-शोषानिल-श्लेष्म-विबन्ध-च्छर्द्य्-अ-रोचकान् ।
गुल्मोदरार्शः-शूलानि मन्दाग्नि-त्वं च नाशयेत् ॥
मधुरं किञ्-चिद् अम्लं च हृद्यं भक्त-प्ररोचकम् ।
गुरु वात-प्रशमनं विद्यान् नारङ्ग-जं फलम् ॥ + भल्लातकस्य त्वङ्-मांसं बृंहणं स्वादु शीतलम् ।
तद्-अस्थ्य्-अग्नि-समं मेध्यं कफ-वात-हरं परम् ॥
स्वाद्व् अम्लं शीतम् उष्णं च द्वि-धा पालेवतं गुरु ।
रुच्यम् अत्य्-अग्नि-शमनं रुच्यं मधुरम् आरुकम् ॥
हृद्यं मधुरम् आरुकम् पक्वम् आशु जरां याति नात्य्-उष्ण-गुरु-दोषलम् ।
द्राक्षा-परूषकं चार्द्रम् अम्लं पित्त-कफ-प्रदम् ॥
नात्य्-उष्णं गुरु दोषलम् गुरूष्ण-वीर्यं वात-घ्नं सरं स-करमर्दकम् ।
तथाम्लं कोल-कर्कन्धु-लिकुचाम्रातकारुकम् ॥
तद्-वच् च कोल-कर्कन्धु- -लिकुचाम्रातम् आरुकम् ऐरावतं दन्तशठं स-तूदं मृगलिण्डिकम् ।
नाति-पित्त-करं पक्वं शुष्कं च करमर्दकम् ॥
दीपनं भेदनं शुष्कम् अम्लीका-कोलयोः फलम् ।
तृष्णा-श्रम-क्लम-च्छेदि लघ्व् इष्टं कफ-वातयोः ॥
स्वाद्व् अम्लं लघु कोलं तु शुष्कं जीर्णं च दीपनम् ॥ + फलानाम् अवरं तत्र लिकुचं सर्व-दोष-कृत् ।
हिमानलोष्ण-दुर्-वात-व्याल-लालादि-दूषितम् ॥
हिमानिलोष्ण-दुर्-वात- वात-घ्नं दुर्-जरं प्रोक्तं नारङ्गं कफ-कृद् गुरु ।
तृष्णा-शूल-कफोत्क्लेद-च्छर्दि-श्वास-निवारणम् ॥ + नारिकेलं गुरु स्निग्धं पित्त-घ्नं स्वादु शीतलम् ।
बल-मांस-करं हृद्यं बृंहणं वस्ति-शोधनम् ॥ + जन्तु-जुष्टं जले मग्नम् अ-भूमि-जम् अन्-आर्तवम् ।
अन्य-धान्य-युतं हीन-वीर्यं जीर्ण-तयाति च ॥
-वीर्यं जीर्ण-तयापि च धान्यं त्यजेत् तथा शाकं रूक्ष-सिद्धम् अ-कोमलम् ।
अ-संजात-रसं तद्-वच् छुष्कं चान्य-त्र मूलकात् ॥
प्रायेण फलम् अप्य् एवं तथामं बिल्व-वर्जितम् ।
विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्ट-मलं विदुः ॥
सूक्ष्मं सृष्ट-मलं मृदु वात-घ्नं पाकि तीक्ष्णोष्णं रोचनं कफ-पित्त-कृत् ।
सैन्धवं तत्र स-स्वादु वृष्यं हृद्यं त्रि-दोष-नुत् ॥
लघ्व् अन्-उष्णं दृशः पथ्यम् अ-विदाह्य् अग्नि-दीपनम् ।
लघु सौवर्चलं हृद्यं सु-गन्ध्य् उद्गार-शोधनम् ॥
कटु-पाकं विबन्ध-घ्नं दीपनीयं रुचि-प्रदम् ।
ऊर्ध्वाधः-कफ-वातानुलोमनं दीपनं विडम् ॥
कटु पाके विबन्ध-घ्नं विबन्धानाह-विष्टम्भ-शूल-गौरव-नाशनम् ।
विपाके स्वादु सामुद्रं गुरु श्लेष्म-विवर्धनम् ॥
स-तिक्त-कटुक-क्षारं तीक्ष्णम् उत्क्लेदि चौद्भिदम् ।
कृष्णे सौवर्चल-गुणा लवणे गन्ध-वर्जिताः ॥
रोमकं लघु पांसूत्थं स-क्षारं श्लेष्मलं गुरु ।
लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥
सैन्धवादीन् प्रयोजयेत् गुल्म-हृद्-ग्रहणी-पाण्डु-प्लीहानाह-गलामयान् ।
श्वासार्शः-कफ-कासांश् च शमयेद् यव-शूक-जः ॥
श्वासार्शः-कफ-वातांश् च शमयेद् याव-शूक-जः क्षारः सर्वश् च परमं तीक्ष्णोष्णः कृमि-जिल् लघुः ।
पित्तासृग्-दूषणः पाकी छेद्य् अ-हृद्यो विदारणः ॥
अ-पथ्यः कटु-लावण्याच् छुक्रौजः-केश-चक्षुषाम् ।
हिङ्गु वात-कफानाह-शूल-घ्नं पित्त-कोपनम् ॥
कटु-पाक-रसं रुच्यं दीपनं पाचनं लघु ।
कषाया मधुरा पाके रूक्षा वि-लवणा लघुः ॥
दीपनी पाचनी मेध्या वयसः स्थापनी परम् ।
उष्ण-वीर्या सरायुष्या बुद्धीन्द्रिय-बल-प्रदा ॥
कुष्ठ-वैवर्ण्य-वैस्वर्य-पुराण-विषम-ज्वरान् ।
शिरो-ऽक्षि-पाण्डु-हृद्-रोग-कामला-ग्रहणी-गदान् ॥
स-शोष-शोफातीसार-मेद-मोह-वमि-कृमीन् ।
श्वास-कास-प्रसेकार्शः-प्लीहानाह-गरोदरम् ॥
-मेह-मोह-वमि-कृमीन् विबन्धं स्रोतसां गुल्मम् ऊरु-स्तम्भम् अ-रोचकम् ।
हरीतकी जयेद् व्याधींस् तांस् तांश् च कफ-वात-जान् ॥
तद्-वद् आमलकं शीतम् अम्लं पित्त-कफापहम् ।
कटु पाके हिमं केश्यम् अक्षम् ईषच् च तद्-गुणम् ॥
कटु पाके ऽ-हिमं केश्यम् इयं रसायन-वरा त्रि-फलाक्ष्य्-आमयापहा ।
रोपणी त्वग् गद-क्लेद-मेदो-मेह-कफास्र-जित् ॥
स-केसरं चतुर्-जातं त्वक्-पत्त्रैलं त्रि-जातकम् ।
पित्त-प्रकोपि तीक्ष्णोष्णं रूक्षं रोचन-दीपनम् ॥
सु-गन्धि सर्व-पेयानां व्यञ्जनानां च वासनम् ।
लेहानां खाद्य-पाकानां चूर्णानां च प्रयोजयेत् ॥ + रसे पाके च कटुकं कफ-घ्नं मरिचं लघु ।
श्लेष्मला स्वादु-शीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥
सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः ।
स्वादु-पाकानिल-श्लेष्म-श्वास-कासापहा सरा ॥
न ताम् अत्य् उपयुञ्जीत रसायन-विधिं विना ।
नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्ध-नुत् ॥
रुच्यं लघु स्वादु-पाकं स्निग्धोष्णं कफ-वात-जित् ।
तद्-वद् आर्द्रकम् एतच् च त्रयं त्रि-कटुकं जयेत् ॥
स्थौल्याग्नि-सदन-श्वास-कास-श्लीपद-पीनसान् ।
चविका-पिप्पली-मूलं मरिचाल्पान्तरं गुणैः ॥
चित्रको ऽग्नि-समः पाके शोफार्शः-कृमि-कुष्ठ-हा ।
पञ्च-कोलकम् एतच् च मरिचेन विना स्मृतम् ॥
पञ्च-कोलकम् एतत् तु गुल्म-प्लीहोदरानाह-शूल-घ्नं दीपनं परम् ।
बिल्व-काश्मर्य-तर्कारी-पाटला-टुण्टुकैर् महत् ॥
-शूल-घ्नं दीपनं लघु जयेत् कषाय-तिक्तोष्णं पञ्च-मूलं कफानिलौ ।
ह्रस्वं बृहत्य्-अंशुमती-द्वय-गोक्षुरकैः स्मृतम् ॥
जयेत् कषाय-तीक्ष्णोष्णं स्वादु-पाक-रसं नाति-शीतोष्णं सर्व-दोष-जित् ।
बला-पुनर्नवैरण्ड-शूर्पपर्णी-द्वयेन तु ॥
बला-पुनर्नवैरण्डैः -शूर्पपर्णी-द्वयेन च शूर्पपर्णी-द्वयेन च शूर्पपर्णी-द्वयेन तु मध्यमं कफ-वात-घ्नं नाति-पित्त-करं सरम् ।
अभीरु-वीरा-जीवन्ती-जीवकर्षभकैः स्मृतम् ॥
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् ।
तृणाख्यं पित्त-जिद् दर्भ-काशेक्षु-शर-शालिभिः ॥
जीवनाख्यं च चक्षुष्यं शूक-शिम्बी-ज-पक्वान्न-मांस-शाक-फलौषधैः ।
वर्गितैर् अन्न-लेशो ऽयम् उक्तो नित्योपयोगिकः ॥
उक्तो नित्यौपयोगिकः