[[उभयभिसारिका Source: EB]]
[
** श्रीरस्तु ।
वररुचिकृता ।**
** उभयभिसारिका ।
—–:o: —-**
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सू -
कोऽसि त्वं मे कावाहं ते विसृज शठ मम निवसनं मुखं किमपेक्षसे
न व्यग्रहं जाने ही ही तव सुभग दशनवसनं प्रियादशनाङ्कितम् ।
या ते रुष्टा सा ते नाहं व्रज चपल हृदयनिलयां प्रसादय कामिनी
मित्येवं वः कन्दर्पार्ताः प्रणयकृतकलहकुपिता वदन्तु वरस्त्रियः ॥
एवमार्यमिश्रान् विज्ञापयामि। अये ! किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि (नेपथ्ये) -
वसन्तप्रमुखे काले लोध्रवृक्षो गतप्रभः ।
मित्रकार्येण संभ्रान्तो दीनो विट इव स्थितः ॥
(निष्क्रान्तः )
स्थापना ।
(ततः प्रविशति विटः )
विटः -अहो! वसन्तसमृद्धिः कुतः !
परभृतचूताशोका डोला परवारुणी शशाङ्कश्च ।
मधुगुणविगुणितशोभा मदनमपि सविभ्रमं कुर्युः ॥
अहो! परस्परव्यलीकं सहते कामिजनः । अहो ! अप्रतिहतशासनो भ्रमति दूतीजनः । अहो ! ऋतुकालप्राधान्यम् । प्रवालमुक्तामणिरशनादुकूलपेलवांशुकहारहरिचन्दनादीनां वर्धते सौभाग्यम् । सर्वजनमदनजनने लोककान्ते वसन्त एवं विजृम्भमाणे सागरदत्तश्रेष्ठिपुत्रस्य कुबेरदत्तस्य नारायणदत्तायाश्च कश्चित्कलहाभिनिवेशः संवृत्तः । एतत्कारणात्कुबेरदत्तेनात्मनः परिचारकः सहकारको नाम मां प्रति प्रेषितः “भगवतो नारायणस्य भवने मदनसेनया मदनाराधने संगीतके यथारसमभिनीयमाने ततो मामतीत्य सा त्वया प्रशस्तेति तत्संक्रान्तमदनानुरागशङ्कया परिकुपिता नारायणदत्ता चरणपतनमप्यनवेक्ष्य स्वभवनमेव गता। तद्गतमदनानुरागतप्तहृदयस्य यथा ममेयं रजनी रजनीसहस्त्रवन्न व्यतिगच्छेत् तथा चास्य नगरस्य सर्वकालवसन्तभूतेन भाववैशिकाचलेन कृतां सन्धिमिच्छामि” इति । श्रुत्वैव तद्वचनमभिज्ञातया मदनदुःखस्याप्यसह्यत्वात्प्रदोष एवाभिप्रस्थितः सन्नस्मद्वयः प्रमाणमगणयन्त्याऽऽत्मयौवनावस्थामेव चिन्तयन्त्यास्मद्गेहिन्यऽन्यथाशङ्कमानया निवारितोऽस्मि । तदेष इदानीँ तस्याः कोपविनाशने कृतप्रतिज्ञो गमिष्यामि । अथवा किमत्र मया प्रतिज्ञातव्यम् । कुतः -
मधुरैः कोकिलालापै श्चूताङ्कुरनिबोधितैः ।
वसन्तः कलहावस्थां कामिनी मनुनेष्यति ।
अपि च -
कान्तं रूपं यौवनं चारुशीलं
दानं दाक्षिण्यं वाक्च सामोपपन्ना ।
यं प्राप्यैते सद्गुणा भान्ति सर्वे
लोके कामिन्यः केन तस्य प्रसाद्याः ॥
(परिक्रम्य) अहो! कुसुमपुरराजमार्गस्य परा श्रीः । इह
हि - सुसिक्तसंमृष्टोच्चावचकुसुमोपहारा अन्यगृहाणां वासगृहायन्ते रथ्याः । नानाविधानां पण्यसमुदायानां क्रयविक्रयव्यापृतजनेन शोभन्तेऽन्तरापणमुखानि । ब्रह्योदाहरणसंगीतधनुर्ज्याघोषै रन्योऽन्य मभिव्याहरन्तीव प्रासादपङ्क्तयः । क्वचिदुद्धटितगवाक्षेषु प्रासादमेघेषु रथ्यावलोकनकुतूहलाः शोभन्ते प्रमदाविद्युतः कैलासपर्वतान्तर्गता इवाप्सरसः । अपि च, प्रवरहयगजरथगता इतस्ततः परिचलन्तः शोभन्ते महामात्रमुख्याः । तरूणजननयनमनोहरणसमर्था श्चारुलीलाः स्थानविन्यस्तभूषणाः सुरनगरवरयुवतिश्रिय मपहसन्त्यः परिचरन्ति प्रेष्ययुवतयः । सर्वजननयनभ्रमरै रापीयमानमुखकमलशोभा रथ्यानुप्रहार्थमिव पादप्रचारलीलामनुभवन्ति गणिकादारिकाः। किं ब्रहुना -
सर्वै र्वोतभयैः प्रहृष्टवदनै र्नित्योत्सवव्यापृतैः
श्रीमद्रत्रविभूषणाङ्गरचनैः रत्रग्गन्धवरत्रोज्वलैः ।
क्रीडासौख्यपरायणैर्विरचितप्रख्व्यातानानागुणै -
र्भूमिः पाटलिपुत्रचारुतिलका स्वर्गायते साम्प्रतम् ॥
(परिक्रम्य) अये! इयं खलु चारणदास्या दुहिता अनङ्गदत्ता नाम सुरतपरिश्रमखेदालसा चतुरपदविन्यासा सर्वजननयनामृतायमानरूपा इत एवाभिवर्तते । अवश्यमनया प्रियजननिर्दयोपभु क्तया भवितव्यम् । कुतः -
दशनपदचित्रतोष्ठं निद्रालसलोललोचनं वदनम् ॥
जघऩञ्च सुरतविभ्रमविलुलितरशनागुणपरीतम् ॥
भो अस्या दर्शनमेव च नः कार्यसिद्धिनिमित्तम् । अये मामनवेक्ष्यैव गता । अभिभाषिष्ये तावदेनाम् । हन्त! स्वयमेव प्रतिनिवृत्ता । (उपगम्य) वासु किं नाभिवादयसि । किं ब्रवीषि" चिरेण विज्ञातास्मि भवन्त मभिवाद्यामि" इति । श्रूयतामियमाशीः -
प्रथमवयसं स्वतन्त्रं दातारं चारुरूपमर्थाढ्यम् ।
भद्रे लभस्व भद्रं कुशलं कान्तं रतिपरं च ॥
वासु सर्व तावत् तिष्ठतु ।
विधेयो मन्मथस्तस्य सफलं तस्य जीवितम् ।
वेशलक्ष्म्या त्वया सार्ध यस्येयं रजनी गता ॥
किं ब्रवीषि," महामात्रपुत्रस्य नागदत्तस्योदवसितादागच्छामि" इति। भद्रे भूतपूर्वविभवः खल्वेषः । व्यक्तं मातु रप्रिय मुपपादितम् । कथं व्रीलावनतवदनयाऽनया हसितम्। हन्त! सफलो नः प्रतर्कः । मामैवम् । कुतः -
मातुर्लोभ मपास्य यद्रतिसुखेष्वासक्तचिता सती
त्यक्तवा वैशिकशासनं बहुफलं वेश्याङ्गनादुस्त्यजम् ।
गत्वा कान्तनिवेशनं बहुरसं प्राप्तासि कामोत्सवं
तेनायं गणिकाजन स्तव गुणैर्निक्षिप्तपादः कृतः ॥
अहो स्थाने खुल ते व्रील । किं शपथेन । स्वगृह मागत्यानुनेष्यमि ते मातरम् । त्वया तु वेश्योपचारविरुद्धं कृतम् । गच्छतु भवती । किं ब्रवीषि
-“अभिवादयामि” इति । सुभगे श्रूयतामियमाशीः -
स्वगुणाः सद्गुणाः सर्वे न स्तोतव्याः स्थिता स्त्वयि ।
लोकलोचनकान्तं ते स्थिरीभवतु यौवनम् ॥
गतैषा । वयमपि गच्छामः । (परिक्रम्य)
अये एषा खलु विष्णुदत्ताया दुहिता माधवसेना नाम अनपोक्षितपरिजनानुसरणा व्याघ्रानुसारवित्रस्तमृगपोतिकेव त्वरिततरपदविन्यासा इत एवाभिवर्तते । व्यक्तमिदानीँ जननीलोभदोषादनिष्टजनसंभोगपरिक्लिष्टयानया भवितव्यम् । तथा हि
न ग्लानं वदनं न केशरचना प्रभ्रष्टपुष्पद्युतिः ।
दन्ताक्रान्तनिपीतकोमलरुचिर्नैवाधरोष्ठः कृतः ।
गाढालिङ्गनवर्जितौ स्तनतटावक्लिष्टपूर्णश्रियौ
श्रोण्यां रागरतिप्रबन्धशिथिला न व्याकुला मेखला ॥
अये अनिष्टजनसंभोगजनितसन्त्रासा मामनवेक्ष्यैवातिक्रान्ता । भवतु । एनामनुसृय निर्वेदकारणं ज्ञास्यामहे । हन्त! स्वयमेव प्रतिनिवृत्ता । किं ब्रवीषि -“न मया भावोऽलक्ष्यत” इति । वासु नास्ति दोषः । परिक्लिष्टतया व्याकुलितचित्तानां बुद्धयो हि ससं त्रमा भवन्ति । किं ब्रवीषि - “अभिवादयामि"इति । प्रतिगृह्यतामय माशीर्वादः -
आढ्यास्ते दयितास्सन्तु विप्रियास्सन्तु निर्द्धनाः ।
मातुर्लोभात्कदचित्स्यान्नाप्रियैरपि सङ्गमः ॥
वासु कुत आगम्यते ?
किं ब्रवीषि -“वनदत्तसार्थवाहपुत्रस्य समुद्रदत्तस्योदवसितादागच्छामि” इति । अहो ! प्राप्तं कृतम् । अद्यतनकालवैश्रवणः खल्वेषः । किं दीर्घोष्णश्वसितविकम्पिताधरकिसलयं भ्रुकुटीविजिह्यितनयनं व्यवर्तितमेवानया वदनकमलम् । हन्त! अथावितप्रतर्का स्मः । कुतः -
कृच्छ्राद्दत्तोष्ठबिंबं विरलमृदुकथं हासलीलावियुक्तं
जृंभोष्णश्वासमिश्रं परिशिथिलभुजालिङ्गनं वीतरागम् ।
दुःखादश्रित्यशय्यां कृतकरतिविधौ चेष्टितं भावहीनं
व्यक्तं बालेऽकृथास्त्वं निशि दिवसकस्योदयं चिन्तयन्ती ॥
वासु अलमलं विषादेन । रूपावरोऽपि धनवान् गम्येष्वभिहित एव । श्रूयताम्
सर्वथा रागमुत्पाद्य विप्रियस्य प्रियस्य वा ।
अर्थस्यैवार्जनं कार्यमिति शास्त्रविनिश्चयः ॥
किं ब्रवीषि -” भावस्यापि खलु मे जनन्याः समोनिश्चयः “इति भवति मामैवम् । अस्त्येतत्कारणम् । गच्छतु भवती । त्वद्गृहमेवागत्य शास्त्रं तत्वतस्त्त्वा ग्रहयिष्यामि ।अहो ! उपदेशदोषादनभिवाद्यैवगता । अहो! तपस्विन्या उद्वेगः । वयमपि साधयामस्तावत्
(परिक्रम्य)
अये एषा खलु विलासकौण्डिनी नाम परिव्राजिका सललितमृदुपदविन्यासा नयनामृतावमानरूपा इत एवाभिवर्तते । अस्याः पटवासगन्धोन्मत्ता भ्रमन्तो मधुकरगणाश्चूतशिखराण्यपि त्यक्तवा परिव्रजन्ति खल्वेनाम् । अभिभाषिष्ये तावदेनाम् । यतो नयनश्रवणकुतूहलमपनेष्यामि । भगवति वौशिकाचलोऽहमभिवादये । किं ब्रवीषि -“न वैशिकाचलेन प्रयोजनं, भवेद्वैशेषिकाचलेन” इति । असत्येतत्कारणम् । कुतः -
दृष्टिस्तेऽतिविशालचारुरुचिरा नैकत्र सन्तिष्ठते ।
ग्लान्या कान्ततरं रतिश्रमयुतं शूनाधरोष्ठं मुखम् ॥
आचष्टे सुरतोत्सवप्रकरणं खेदालसा ते गतिः
व्यक्तं ते कथितं प्रियेण सुभगे रत्यर्थवैशेषिकम् ॥
किं ब्रवीषि -“अहो दासेनात्मसदृशमभिहितम् “इति ।
धन्या भवन्ति सुभगे दासास्ते चरणकमलयुगलस्य ।
अस्मद्विधस्य वरतनु कुतोऽस्ति तत्क्षीणपुण्यस्य ॥
किं ब्रवीषि"षट्पदार्थबहिष्कृतैः सह सम्भाषणमस्माकं गुरुभिः प्रतिषिद्धम्” इति । भगवति युक्तमेवैतत् । कुतः -
द्रव्यं ते तनु रायताक्षि दयिता रूपादयस्ते गुणा
सामान्यं तव यौवनं युवजनः संस्तौति कर्माणि ते ।
त्वय्यार्ये समवायमिच्छति जनो यस्माद्विशेषोऽस्ति ते
योगस्ते तरुणैर्मनोभिलषितैर्मोर्क्षोऽप्यनिष्टाज्जनात् ॥
अये प्रहास एव नः प्रतिवचनम् । हन्त! सफलो नः प्रतर्कः। किं ब्रवीषि -“सांख्यमस्माभिर्ज्ञायते - अलेपको निर्गुणः क्षेत्रज्ञः पुरुषः” इति । हन्त ! निरुत्तरा स्मः । अम्मत्ककयषाप्रसङ्गेन सोत्कण्ठेव भवती दृश्यते । तरुणजनसुरतविघ्नोऽप्यस्माभिः परिहर्तव्यः । साधयतु भवती । गतैषा । गच्छामस्तावत् । (परिक्रम्य)
अये किं नु खल्वेषा चारणदास्या माता रामसेना नाम वयः प्रकर्षेऽपि वर्तमाना विलासविप्रेक्षितगतिहसितैर्युवतिजनलीलां विडम्बयन्ती इतएवाभिवर्तते अहो ! विस्मयनीया खल्वेषा -
भुक्तवा भोगनीप्सितान् कामिदत्तान्
कृत्वा सक्तान् स्वैर्गुणैः पीतसारान्
भूत्वा यूनां वैरसंघर्षयोनि-
र्नूनं दोग्धुं याति कान्तं सुतायाः ॥
हन्त! कामिजनमृत्युभूताया अस्या आदेहपातलीलामनुभवामस्तावत् । नमोऽस्त्वस्यै कामुकजनमहाशनये । बाले रामसेने दुहितृसङ्क्रान्तयौवनसौभाग्ये कतरस्य कामिनः कुलोत्सादनार्थमभिप्रस्थिता भवती । भोः तद्दर्शने शपथ एव नः प्रतिवचनम् । किं ब्रवीषि- “त्वच्छीलमेव त्वामाक्रोशयति” इति । अलमत्र बहुभाषित्वेन। त्वद्गमनमेव तावदुच्यताम् । किं ब्रवीषि- “दुहिता मे चारणादासी व्यतीतेऽहनि गता धनिकोदवसितम् । एनां सङ्गीतकव्यपदेशेनाकर्षितुमभिप्रस्थितास्मि” इति । अहो तु खलु चारणदास्या प्रमादः । कुतः -कामुकजनसर्वस्वहरणकुशलया निष्पीतसारपरित्यागसामर्थ्ययुक्तायास्तवापि नाम दुहिता भूत्वा शास्त्रोपदेशाग्रहणेन शोच्या खलु सा तपस्विनी । कुतः -
लब्ध्वा गम्यं प्राप्यचार्थँ यथावत्
ज्ञात्वा सम्यङ् निर्धनत्वं च तस्य ।
रागात्सक्तं विप्रमोक्तुं न वेत्ति
मिथ्या तस्याः शात्रतत्त्वोपदेशः ॥
किं ब्रवीषि -“सङ्गीतकव्यपदेशेन तां गृहमानयिष्यमि,त्वयापि प्रत्यागतेन तत्रागम्य शास्त्रतत्त्वश्रुतिं ग्रहयितव्या” इति । एवमस्तु । किन्तु त्वरानुष्ठेयं मित्रकार्यमस्ति । तत्समानीय भवत्याः कार्यमपि साधयिष्यामि । गच्छतु भवती । साधयामस्तावत् ।
अहो! अविश्वसनीयानि खलु गणिकाजनस्य हृदयानि । कुतः -
स्निग्धैः प्रश्लिष्टैः क्रीडनैर्लालयित्वा
हृत्वा सर्वस्वं निर्घृणाः कामुकानाम् ।
लुब्धा वेश्या स्तानन्यसंरञ्जनार्थँ
देहान् वैरग्याद्देहिवत्सन्त्यजन्ति ॥
अहो! गणिकामातरो नाम कामुकजनस्य निष्पतीकारा ईतयः । सर्वथा स्वस्त्यस्तु कामुकेभ्यः । विनाशोऽस्तु कामुकजनसर्वस्वहरणकुशलाभ्यो गणिकाजनमातृभ्यो गणिकामोधास्त्रसर्गनिपुणाभ्यः । (परिक्रम्य)
अहो! राजमार्गस्य कलिः सुकुमारिका नाम तृतीया प्रकृतिरित एवाभिवर्तते । अहो अमङ्गलदर्शनैषा .भवतु । अनभिभाष्यैनां वस्त्रमन्तरीकृत्यातिक्रमिष्यमस्तावत् । (तथा कुर्वन्) अये अनुधावत्येव माम् । केदानीँ मे गतिः । अहो बलवान् कृतान्तःयस्मात्प्रियमाभेभाष्यैनां व्याघ्रमुखादिवात्मानं मोचयिष्यामि । किं ब्रवीषि -” अभिवादयामि"इति । वासु अविधवा बहुपुत्रा भव अथ च -
भ्रूक्षेपाक्षिविचारणोष्ठचलनैर्बाह्वोश्च विक्षेपणै
र्गत्या चारुकया विलासहसितैः स्त्रीविभ्रमा निर्जिताः ।
विस्पष्टाकुललोललम्बिरशना श्रोणी विशालायता
कस्यायासि रतैरतृप्तहृदया गेहाद्विशालेक्षणे ॥
किं ब्रवीषि-“राजस्यालस्य रामसेनस्य गृहादागच्छामि” इति । अहो! सफलं जीवितं तस्य। सुभगे किमिदानीँ चक्रवाकमिथुनस्येव वियोगः संवृत्तः । किं ब्रवीषि -“राजावस्थानं गच्छन्त्या गणिकापरिचारिकया रतिलतिकया चतुरमधुरहसितरतिचेष्टया सस्नेहललितकटाक्षविक्षेपाम्बुभिरभिषिच्यमानहृदयः समुद्गतरोमाञ्चनि वेद्यमानमदनानुरागः स तस्यास्तं मदनानुरागं शिरः प्रणामेन प्रतिगृहीतवान् । ततस्तत्प्रत्यक्षव्यलीकमसहमानया मया प्रत्यादिष्टस्सन् पादयोर्मे पीततः । तथापि च मया इर्ष्याभिभृतहृदयया नैवास्य प्रसादः कृतः । ततो मा मसौ बलात्कारेण गृहमानीय पर्यङ्कतलमारोप्य मया सहासितः ।स पुनर्माँ मदनाक्रर्न्तो रजन्यां मदनवेगखेदसुप्तां परित्यज्य तस्या एव गृहं गत्वाद्य कतिपयान्यहानि नैवगृहमागच्छतीति पुनस्साहमनुनयमगृहीत्वा पश्चत्तापेन दह्यमाना भा वसमीपमुपागता यदृच्छया भावं समासादितास्मि । तद्भावः प्राणसमेन मे सन्धानं कर्तुमर्हति” इति । वासु अहो रामसेनस्य प्रमादः । कुतः -
व्याक्षेपं कुरुतस्तनौ न सुरते गाढोपगूढस्य ते
रागघ्नस्तव मासि मासि सुभगे नैवार्तवस्यागमः
रूपश्रीनवयौवनोदयरिपुर्गर्भोऽप नैवास्ति ते
त्वमेवं सगुणां विहास्यति सचेद्रत्युत्सवं त्यक्ष्यति ॥
भवत्विदानीम् । मानिनि तस्यैव स्वोदवसिते मां प्रतिपालय । अस्ति तावन्मम मित्रकार्यँ किञ्चित्त्वरानुष्ठेयम् । तत्समानीय तं भगिनीसौभाग्यगर्वितं सुकुमारहृदयानां त्वद्विधानां युवतीनां भवबहिष्कृतं गृहमागत्य चरणयोस्ते पातायिष्यामि । गच्छतु भवती। गतैषा। गच्छाम्यहम् । अहो ! कृच्छ्रेण खल्षस्माभिः प्रकृतिजनादात्मा मोचितः । (परुक्रम्य)
अये कोनु खल्वयंमागम्य मा मभिवादयति । स्वस्ति भवते । चिरेणेदानीँ मया संलक्षितोऽसि । पार्थकसार्थवाहपुत्रो धनमित्रो ननु भवान् । अथ भृत्यार्थिसंबन्धिसुहृज्जनदारिद्य्तमोपहस्य युवतिजनहृदयकुमुदविबोधनकरस्य कुसुमपुरगगनपूर्णचन्द्रस्य कथमयं ते व्यसनोपरागः संवृत्तः ? किमतिलाभकांक्षया कुङुम्बसर्वस्वेन संगृहीतभाण्डो दशान्तरमभिगच्छन्नन्तरा चोरैरप्यासादितो भवान् ? आहो स्वित् राज्ञोऽपथ्यमाचरत स्ते राज्ञापहृतं सर्वस्वम्? अथवा एकाक्षपातमात्रेण धनदस्यापि विभवहरणसमर्थेन द्यूतेन क्षपितो भवान्? किं बहुना-
संरूढदीर्घनखलोममलाचिताङ्गो
घ्यानाभिभूतपरिपाण्डुरशुष्कवक्त्रः ।
अश्लक्ष्णजीर्णमलकीर्णविशीर्णवस्त्रो
नाभासि दिव्यमुनिशापहतो यथैव ॥
किं ब्रवीषि -“यथा रामसेनाया दुहितरि रतिसेनायां परमोमम मदनानुराग संवृत्तः । तस्याश्च मयि तथा । सर्वमेतद्विदितं भावस्य । अतो मातुर्लोभविकारं ज्ञात्वापि सा मां न त्यक्ष्यतीति सुहृज्जनेन निवार्यमाणेनापि मया कुटुम्बसर्वस्वं तस्यै युगपदेवोपनीतम् । ततस्तद्गृहीत्वा कतिपयेष्वेवाहस्सु गेतषु स्न्नानाव्यपदेशेन स्न्नानीयशाटिका परिधाप्य मा मशोकवनिकादीर्घिकां प्रवेश्य द्वारे चापिहिते अशोकवनिकारक्षिभिः विदितपरमार्थैः पुरुषैश्छिद्रद्वारेण निष्क्रामितोऽहम् । ततोस्मिन्नेव नगरे ऊर्जितमुषित्त्वा कथमिदानीँ बहून्यहीनि दीनवासं पश्यामीति अरण्यमभिप्रस्थितेन मया यदृच्छया भाव एवासादितः । सुगुह्यमप्येतद्भावस्य निवोदितम् । तदिदानीँ भावेनानुज्ञातः स्वात्मनिः श्रियसं चिन्तयिष्यामि” इति अहो ! लो भाभिनिवेशो वेशस्य । अहो ! कुटिलस्वभावता च । एहि परिष्वजामहे तावद् भवन्तम् । दिष्ट्या जीवन्तं त्वां पश्यामि । कुतः -
शान्तिँ याति शनैर्महौषधिबलादाशीविषाणां विषं
शक्यो मोचयितुं मदोत्कटकटादात्मागजेन्द्राद्वने ।
ग्रहस्यापि मुखान्महार्णवजले मोक्षः कदाचिद्भ्वेत्
वेशस्त्रीबडबामुखानलगतो नैवोत्थितो दृश्यते ॥
अथ भद्रमुख भवतो निर्वेदस्य कारणं रतिसेना, आहोस्विदस्या जननी ? किं ब्रवीषि -“किमित्यनृतमभिधास्यामि । रतिसेना मां प्रति सस्नेहैव । मातृदोषेणैवेदं संवृत्तम् । यदि तावद्भावः खल्पमपि तस्या मातुरविदितमेव मे समागमं प्रति यत्नं कुर्यात् ततो मे प्राणाः प्रत्यानीता भवेयुः” इति । जाने तस्यास्त्वय्यनुरागमन्यस्मादपि जनान्मया नाम श्रुतम् । हा । रोदित्ययम् । अलमलं विषादेन । ममेदानीँ किञ्चित्त्वरानुष्ठेयं मित्रकार्य मस्ति । तत्सं पाद्य पुनरागम्य तवापि कार्यँ साधयामि । गच्छतु भवान् । अहो! निपुणता वेश्याङ्गननाम् । कुतः ।
यथा नरेन्द्राः कुटिलस्वभावाः स्वं दुष्कृतं मन्त्रिषु पातयन्ति ।
तथैव वेश्याः शठधूर्तभावाः स्वं दुष्कृतं मातृयु पातयन्ति ॥
अहो गत एव तपत्वी खलजनोपाध्यायः । वयमपि साधयामस्तावत् । (परिक्रम्य )
अये वसन्तवनकोकिलानुसारिणा स्न्निग्धमधुरेण स्वरेण कया नु खल्वस्मन्नामधेयाभिव्यक्तिः क्रियते । (विलोक्य)
अये प्रियङ्गुसेना ! अयि प्रियङूगुसेने अयमहमागच्छामि । किं ब्रवीषि -” अभिवादयामि"इति । वासु प्रितगृह्यता मियमाशीः -
रमणं निवारयन्ती कोमलकरचरणताडनैः शयने ।
—– सविमृदित सुविपुलजघना सुखमुपेहि ॥
वासु अतिपरिश्रान्तजघनाप्यायनकरस्य नानागन्धाधिवासितस्य सुरभिगन्धिनो गन्धतैलस्यात्माङ्गस्पर्शप्रदानेन किमनुग्रहः क्रियते ? भद्रमुखि अवतारितघण्टाग्रैवेयककक्षाया राजौपवाह्यकरेणोरिवावमुक्तालङ्काराया निर्व्याजमनोहररूपायाश्चारुशोभं ते वपुर्यो न पश्यति स खलु व़ञ्चितः स्यात् । कुतः -
मुक्तालङ्कारशोभां नखरपदचितां गन्धतैलाङ्गरागा -
मीषत्ताम्रान्तनेत्रां प्रहसितवदनां यौवनौष्ण्यस्तनाढ्याम् ।
सुश्लक्ष्णार्द्धौरुवस्त्रां व्यपगतरशनां व्यायतश्रोणिबिँबां
दृष्ट्वा त्वां चारुरूपां प्रविचलितधृतिर्मन्मथोऽप्यातुरः स्यात् ॥
किं ब्रवीषि -" प्रियवचनं भावस्य" इति ।
भोः किंमवं सेवावादः । अलं व्रीलामुत्पाद्य । आह्वानप्रयोजनं तावदुच्यताम् । किं ब्रवीषि -" श्रूयताम् “इति । वासु अवहितोऽस्मि । किं ब्रवीषि-“भगवतोऽप्रतिहतशासनस्य कुसुमपुरपुरन्दरस्य भवने पुरन्दरविजयं नाम सङ्गीतकं यथारसाभिनयमभिनेतव्यमिति देवदत्तया सह मे पणितः संवृत्तः । अत्र ममाभ्युदयस्य भावः कारणम् " इति । मामैवम् । सकलशशङ्कविमलायारजन्यां नास्ति दीपायोजनम् । अपि च बलवतो नास्ति सहायसम्पत्प्रयोजनम् । भवत्येवात्र कारणम् । अस्मिन्नेवार्थे त्वदर्पितमदनानुरागहृदयेन रामसेनेनाभ्यर्थितोऽस्मि । कथं सभ्रूविलासविक्षेपमीषत्कुञ्चितनयनकपोलनिवेद्यमानान्तर्गतप्रहर्षँ प्रचलिताधरकिसलयं मुखकमलं परिवर्त्य परिजनमवलोकयन्त्यानया हसितं हन्त प्राप्तं सेवाफलं रामसेनेन । अहो देवदत्ताया अकुशलता । या त्वया सह संघर्ष कुरुते । यस्यास्तावत्प्रथमं रूपश्रीनवयौवनद्युतिकान्त्यादीनां गुणानां सम्पत् ,चतुर्विधाभिनयसिद्धिः , द्वात्रिशद्विधो हस्तप्रचारः ,अष्टादशविधं निरीक्षणं, षट् स्थानानि, गीत द्वयं (त्रयं), अष्टौ रसाः, त्रयो गीतवादित्रादिलया इत्येवमादीनि नृत्तांगानि त्वदाश्रयेणालकृतानि । अथवा अनेनापि वेषेण देवासुरमहर्षिमनोनयनहरणसमर्थानामप्सरोगणानामपि लंघनसमर्थेति त्वां पश्यामि । अपि च -
प्रतिनर्तयसे नित्यं जननयनमनांसि चेष्टितैर्ललितः ।
किं नर्तनेन सुभगे पर्याप्त चारुलीलैव ॥
अये व्रीडिता । हन्त अनेनैव व्रीडालङ्कारेण विसर्जिताः स्मः । च्छामस्तावत् । (परिक्रम्य )
अये किन्नु खल्वेषा नारायणदत्तायाश्चेटिका कनकलता नाम चूर्णामोदितकर्कशस्तनयुगलं विविधकुसुमालंकृतकेशहस्ता किमपि खलु प्रहृष्टवदना मदविलासस्खलितपदविन्यासा इत एवाभिवर्तते । अभिभाषिष्ये तावदेनाम् । कथमन्तिकमुपेत्य मामभिवादयति । वासु किं ब्रवीषि ? “अभिवादयामि” इति । वासु प्रियस्य दयिता भव । भवति चरणकमलविन्यासेन किमयं मार्गानुग्रहः क्रियते । किं ब्रीवीषि ? " प्रियवादी खलु भावः " इति । भद्रे नैष संस्तवः किं ब्रीवीषि ? “अनुगृहीतास्मि” इति । सर्वँ तावत्तिष्ठतु । किमिदानीँ चक्रवाकमिथुनस्येव वियोगस्संवृत्तः । किं ब्रवीषि ? " इर्ष्यामिभूतहृदयायां परित्यक्तरन्नानशयनभोजनालङ्कारायामशोकवनिकायामशोकबालवृक्षसंश्रिते शिलातल उपविष्टायामीषत्पर्याप्त चन्द्रमण्डलदर्शनेनानिभृतमधुकरवेण वसन्तकुसुमगन्धामोदकर्कशेन दक्षिणपवनेन च परिवर्धितसन्तापायां सखीजनमधुरवचनैराश्वास्यमानायामस्मदज्जुकायामशोकवनिकाभ्याशे कोऽपि खलु पुरुषस्संदिष्टं इव मदनेनाव्यक्तकाकलीँ रचनामूर्छनां वीणां कृत्वा इमे वक्त्रापरवक्त्रे गायन्नतिक्रान्तः ।
निष्फलं यौवनं तस्य रूपञ्च विभवश्च यः ।
यो जनः प्रियसंसक्तो न क्रीडति वसन्तके ॥
अपि च -
शशिनमभिसमीक्ष्य निर्मलं
परभृतरम्यरवं निशम्य वा ।
अनुनयति न यः प्रियं जनं
विफलतरं भुवि तस्य जीवितम् । इति ।
ततस्तेन गीतकेन शिथिलीकृतमानपरिग्रहास्मदज्जुका आयुष्मदागमनमप्यप्रतिपालयन्ती मामेवाहूय पादचारेणैवास्मद्भर्तृदारकगृहमभिप्रस्थिता । तथैवास्मद्गर्तृदारकोऽपि वसन्ताक्रान्तशिथिलीकृत धृतिर्भूत्वा सह केनाप्यस्मदज्जुकामनुनेतुमागच्छन् वीणाचार्यस्य विश्वावसुदत्तस्योदवसितद्वार्यस्मदज्जुकां समासादितवान् । ततस्तौ किञ्चिदप्रतिपद्यमानौ दृष्टवा यदृछया निर्गतेन विश्वावसुदत्तेनात्मन उदवसितमेव प्रवेशितौ । ततः प्रभातेऽस्मदज्जुकयाहमभिहितः” भाव वौशिकाचलं गृहीत्वागच्छ” इति । तदागम्यता" इति । अहो श्रुतिसुखं निवेदितं भवत्या । किमन्यां ते प्रीतीमुत्पादयिष्यामि । प्रतिगृह्यतामियमाशीः -
तव भवतु यौवनश्रीः प्रियस्य सततं भव प्रियतमा त्वम् ।
अनवरतमुचितमभिमतमुपभोगसुखं च ते भवतु ॥
गत्छाग्रतः (परिक्रम्य) किमाह कनकलता " एतद्गृहान् प्रविशाम" इति । बाढं प्रविशामस्तावत् । (प्रविश्य) अलमलं संभ्रमेण । आस्तामास्तां कामियुगलं -
अत्मगुणेन वसन्तो यथाद्य युवयोः समागममकार्षोत् ।
ऋतवस्तथैव सर्वे कुर्वन्तु सामागमं कलहे ॥
आत्मगुणगर्वितेन वसन्तेनाहमपि वञ्चितः । यतो युवयोः समागमबहिष्कृतः । किमिदानीमभिधास्यमि । अथवा नास्त्यत्रापराधो वसन्तस्य । कुतः -
उद्यानानि निशाश्च चन्द्रसहिता वीणाश्च रक्तस्वरा
गोष्ठी दूतिजनो विचत्रवचनो नानाविधाश्चर्त्तवः ।
नैतत् कामिजनस्य संगमविधौ संजायते कारणं
ह्यन्योऽन्यस्य गुणोद्भवैरकृतकै रागोछ्रयः कारणम् ॥
तस्मादन्यजनदुर्लभेन पस्परगुणातिशयनिचितेनात्मगुणोपनीतेन मदनतन्त्रसारेण कुसुमपुरप्रकाशेन युवयोरेव रागेण वञ्चिताः स्मः । किं ब्रूथ “आवयोरागोऽपि भावस्यैव प्रयत्नजनितम् । तेन भाव एव समागमकारणम् । कृत्स्न्नमिदानीँ पाटलिपुत्रं यस्य वचनलीलामनु भवति स कथं कामिजनवचनविशेषैरतिशयितो भवेत्” इति । कथाप्रसंगेन सुरततृषितस्य कामियुगलस्य रतिव्याक्षेपः परिहर्तव्यः । तदनुज्ञातो गन्तुमिच्छामि ।
(भरतवाक्यम्)
व्याकोचांभोजकान्तं मदमृदुकथितं चारुविस्तीर्णशोभं
जातस्तवं प्रीतियुक्तः प्रिययुवतिमुखं वीक्षमाणो यथाद्य ।
एवं सस्यर्धियुक्तां जलनिधिरशनां मेरुविन्ध्यस्तनाढ्यां
प्रतीतिँ प्रान्नोतु सर्वाँ क्षितिमधिकगुणां पालयन्नो नरेन्द्रः ॥
(इति निष्क्रान्तो विटः)
इति श्रीमद्वररुचिमुनिकृतिरुभयाभिसारिका नाम भाणः समाप्तः।
***
]