स्वप्नानिरुद्धम्

[[स्वप्नानिरुद्धम् Source: EB]]

[

स्वप्नानिरुद्धम्

स्वप्नानिरुद्ध मधुराधर दंशनेन
तेजोविराजित मनोभव वैभवेन ।
नाकीय भव्य विषय प्रविचेष्टितोषा ।
त्रैगुण लोकमनिशं महसा पुनातु ॥

नान्द्यन्ते

सूत्रधारः – आर्ये यद्यवसित नेपथ्यालङ्कारा इतः आगम्यताम् ।

नटी – आर्य ! नेपथ्याऽलङ्कारः चरमालङ्करण दशायां विद्यते किश्चित् कालं निरीक्षस्व समागच्छेय्यम् ।

सूत्रधारः – (उच्चैः) विलम्बः सञ्जातः हञ्जे । (आत्मगतम्) स्रियः न केवलं मन्दयानाः किन्तु मन्द कार्यकरण्यश्चाऽपि ।

नटी – (ससम्भ्रमं प्रविश्य) आर्यपुत्र इयमस्मि । नेपथ्यालङ्कारः अवसितः अस्ति ।

सूत्रधारः – आर्ये ! सकलकलागुणालङ्कार भूयिष्ठा खल्वियं सभा ।

नटी – नूनमेव एषा सभा कलाभिज्ञैः परिपूर्णा ।

सूत्रधारः – तस्मात् अद्य गीर्वाणान्ध्र भाषाप्रवीणेन सम्बमूर्ति शर्मणः सूनुना परीक्षित् शर्मणा ग्रथितवस्तुना स्वप्नानिरुद्धम् इत्यनेन नाटकेन उपस्थातव्यमस्माभिः । तथा पात्रग्रहणे अधीयतां मतिः ।

नटी – आर्यस्य मधुरा प्रयोगतया न किमपि परिहीनं भविष्यति ।

सूत्रधारः – आर्ये गीयतां किञ्चित् ।

नटी – कं विषयमुद्दिश्य गातव्यम् ।

सूत्रधारः – सङ्गीत साहित्य प्रभाविनं वसन्तमुद्दिश्य गीयताम् ।

नटी – अनेन सम्बन्धेन किमत्र प्रयोजनम् ।

सूत्रधारः – आधुनिक दिवसेषु सुशिक्षितानामपि सङ्गीतसाहित्य सम्बन्धमुद्दिश्य सम्यक् ज्ञातं न भवति ।

नटी – तत्कथम् ।

सूत्रधारः – गायकः साहित्यं न जानाति । साहित्यज्ञः सङ्गीतं न जानाति । यदि तौ गायकौ भवतः, तदा तयोः गानं रसाविर्भावः सम्यक् न भवति ।

नटी – तस्मात् किं कर्तव्यमिति भवतां मनीषा ।

सूत्रधारः – गायनसमये रसाविष्करणार्थं साहित्यं सम्यक् ज्ञात्वा सुस्वरेण सङ्गीतेन गीते विद्यमान भावः गायकेन प्रकटीकर्तव्यः । तदानीं आनन्दस्य परमावधिः भविष्यती । श्रृणु ।
विशदार्थ प्रभावेन । साहित्यं ज्ञानदायकम् ।
नादब्रह्म वशेनैतत् । सङ्गीत मोक्षदायकम् ॥

ततः गायनसमये गायकस्य सङ्गीतसाहित्ययोः समानादृष्टिः भवितव्या । तदानीं साहित्यज्ञानमिश्रित सङ्गीतमार्गेण गायकः श्रोतारः अपि मुक्तिं प्राप्स्यन्ति इति भारतीयानां समयः ।

नटी – आर्य ! आधुनिकाः गायकाः तथा न कुर्वन्ति किम् !

सूत्रधारः – नहि । ते पदस्य विच्छेदः कुत्र कर्तव्यः । कुत्र दीर्घः कर्तव्यः, कुत्र हृस्वः कर्तव्यः इति ज्ञानेन विना केवलं ताले निबद्ध चित्तवृत्तयः गायन्ति । ततः भवती वसन्तमुद्दिश्य वसन्त रागेणे गायतु ।

नटी – आर्य ! काचन शङ्का विद्यते ।

सूत्रधारः – का शङ्का पृच्छतु ।

नटी – आर्य ! गीर्वाणप्रपञ्चे विराजमान नाटक सञ्चयं विसृज्य किमर्थं नूतन नाटक व्यामोहः ।

सूत्रधारः – आर्ये शृणु ।

शब्दार्थ सम्प्राणित रम्यभावैः । कृतं प्रियं नाटक चक्रमेतत् ।
नवं पुराणं खलु कल्पनेयम् । तात्कालिका सर्वमिदं पुराणम् ॥

अपिच ।

शृङ्गारपूर्णं मधुशब्दरम्यम् । सङ्गीत चित्रावली मञ्जुकाव्यम् ।
प्रिया परिष्वङ्गवदीहया तत् । स्वर्गीय सौख्यं प्रददाति लोके ॥

नटी – अधुना अधीत तत्वास्मि ।

सूत्रधारः – अधुना परिषदः शृति प्रसादन निमित्तं गायनमुपक्रम्यताम् ।

नटी – श्रूयताम्

तन्त्री स्वरोपमित षट्पद नादपुञ्जैः ।
गायन् विमोहयति कोकिल कण्ठनादैः ।
कौसुम्भराग परिचर्चित चित्रिताङ्ग ।
चैत्रः प्रियं स्वकवितां मधुमास काले ॥

सूत्रधारः – आर्ये साधुगीतम् । अहो पश्य सर्वतः परिषदियं बद्ध चित्तवृत्तिः आलिखितमिवाभाति तव वसन्तगीतरागेण ।

नटी – आर्य ! शृङ्गार रसपूर्णं स्वप्नानिरुद्धं नाम अपूर्व नाटकं वयं प्रकटयितुं उद्युक्तास्मः यतः शृङ्गारस्य वसन्तर्तौ आनुकूल्यत्वात् ।

सूत्रधारः – आर्ये ! अन्यत्र दत्तावधानोऽस्मि पश्य ।

उषा चित्र सुवर्णाख्याः । बाणकुम्भाण्ड कन्यकाः ।
आलपन्त्यः प्रियं भावैः । प्रविशन्ति यथा प्रियम् ॥

ततः गच्छावः एहि । (इति तया सार्थं गच्छति) (शोणित पुर्यां राजप्रासादः । ततः प्रविशन्ति हसन्त्यः उषा चित्रलेखा सुवर्णाख्याः)

चित्रलेखा – सखि उषे एहि उपविश अस्मिन् पीठे । अहं ते केश प्रसादनं करिष्ये ।

उषा – (उषा पीठे उपविशति)

चित्रलेखा – (कङ्कतिकया उषायाः केश प्रसादनं करोति, ततः वेणीं रचयति)

उषा – स्वसौन्दर्यं हस्तदर्पणे पश्यन्ती शृङ्गार चेष्टादिकं कुर्वन्ती आस्ते )

सुवर्णरेखा – हञ्जे चित्रलेखे राजोद्यानं अद्य बहुधा पुष्णैः चित्रितं गन्धिलञ्च आस्ते । अहं पर्याप्त पुष्पस्तबकान् विलूय उषामण्डनार्थं आनीतास्मि । अधुनाहं मालां विरचेयम् । (इति उषायाः पार्श्वे उपविश्य मालां रचयति)

चित्रलेखा – उषे अयमधुना मधुमासः खलु ।

उषा – हां अयं मधुमासः ।

चित्रलेखा – अस्मिन् मधुमासे सर्वा प्रकृतिः नवनवोन्मेष शालिनी भूत्वा यौवतस्य चित्ताह्लादकारिणी भवति ।

उषा – हां सत्यमेव भवति ।

चित्रलेखा – प्रायशः शर्वर्यः अतिसुखदाः परम रमणीयाः भवन्ति किं सत्य मेव खलु । (इति सुवर्णरेखां पश्यन्ती हसति)

उषा – चित्रलेखे मदपेक्ष्या त्वं अनुभव शालिनी असि । वयसि ज्येष्टासि । त्वदीय जीवने अनेकाः वसन्ताः व्यतीताः । किं मत्तः सर्वं ज्ञातुमिच्छसि ।

सुवर्णरेखा – (हसन्ती) सखि उषे त्वं मदपेक्ष्या ज्येष्टाऽसि मां कथय तत् सर्वम् । किं तत् सत्यं यदुदीरितं चित्रलेखया ? उत सा त्वां परिहासयति ?

उषा – सख्यौ वयं सर्वाः किञ्चिन्न्यूनाधिक वर्षैः समवयस्काः । अस्माकं सर्वासां सर्वं अनुभवैकवेद्यं भवति । तरतमभावपूर्णाः वयं सर्वाः । अनुभवैकवेद्यं कथं वक्तुं शक्यते ।

सुवर्णरेखा – वाक्चातुर्यं यदिस्यात् अनुभवैकवेद्यं स्वप्नदृष्टमपि वक्तुं शक्यते ।

उषा – सखि, जगति अनुभवैक वेद्यानि वक्तुं दुष्कराणि भवन्ति, किन्तु अनुभोक्तुं सुकराणि भवन्ति ।

चित्रलेखा – सखि ! उषे त्वं एषु दिवसेषु किञ्चित् नाशिकानर्तित कोपेन प्रत्युत्तरं ददासि किमत्र कारणं भवति ।

उषा – नाहं कदापि कुपिता भवामि । युवां मां कुपितमनस्कां कुरुतः ।

चित्रलेखा – उषे त्वं कतिपय दिवसेभ्यः अन्यमनस्का भवसि । त्वदीयः सर्व व्यवहारः अस्मदृशानां शङ्कास्पदः भवति ।

सुवर्णरेखा – सखि एतैः कुसुमैः सुन्दरमाला मया ग्रथिता । इति चत्रलेखायै ददाति)

चित्रलेखा – (तां मालां गृहीत्वा आघ्राय तां हेलया उषायाः वेण्यां निक्षिपति, उषायाः भुजौ गृहीत्वा तां वामतः दक्षिणतः भ्रामयित्वा, तदीयं सौन्दर्यं पश्यन्ती) सखि ! सर्वा मधुमास लक्ष्मीः त्वयि मूर्तीभूतेव सन्दृश्यते । अहं किं कथयेयं ते सौन्दर्यमुद्दिश्य ।

सुवर्णरेखा – नूनं त्वया कथितं सत्यम् । परन्तु अहं एवं कथयेयं इयं उषा मधुमासलक्ष्मी इति ।

उषा – युवां किं कथयतः नाहं जाने । भवत्योः सम्भाषणं मे दुर्बोधा भवति । भवत्योः वाक्प्रसारसराणिः काप्यन्या भाति ।

चित्रलेखा – सखि ! त्वं सर्वं जानासि । अधुना त्वं अवगत तत्त्वाऽसि किन्तु बहिः दुर्बोधा भवति इति कथयसि । भवती अवहित्थां जानाति ।

सुवर्णरेखा – एषा उषादेवतेव प्रत्यहं दृष्टापि नवीन शोभामावहन्ती अलौकिकानन्दं प्रजनयति ।

चित्रलेखा – तस्मादेवास्याः पिता बाणः अस्यै उषासुन्दरीति नामकरणमकरोत् ।

उषा – त्वं न जानासि कस्मात् मे पिता तन्नामकरणं अकरोत् ।

चित्रलेखा – त्वं कथय कस्मात् ।

उषा – अहं कल्ये ब्राह्मी मुहूर्ते उषोदये सञ्जाताऽस्मि तस्मात् मे नामकरणं तथा कृतवान् पिता ।

चित्रलेखा – सखि ! सुवर्णरेखे यदा यदाऽहमेनां पश्यामि तदातदा ममैतादृशी भावना सञ्जायते ।

सुवर्णरेखा – काते भावना कथय ।

चित्रलेखा – शृणु ।

उषा सखी विश्वसृजः प्रवृत्तेः । प्रतीक रूपा लसते धरण्याम् ।
कोवाऽनुभोक्ता प्रियरूपमस्याः । धन्योऽस्ति नित्यं खलु कामराज्ये ॥

सुवर्णरेखा – सखि चित्रलेखे भवत्या साधु समुद्गीरितम् । ममापि तदा तदा एवं प्रतिभाति, सत्यं उषा गगनमण्डलात् भूतलमवतीर्णा उषा सुन्दरी इति । एषा स्वीय सौन्दर्यालङ्कारैः कामस्य पञ्चबाणान् तिरस्कृत्य षष्टः शरः इव प्रतिभाति । यतः

अशोकपुष्पैः नवमालिकासुमैः । अलङ्कृता पङ्कज शोभितानना ।
नीलोत्पलाक्षी नवपल्लवाधरा । हिनस्ति नूनं कुसुमायुधं सा ॥

उषा – (कोपेन लज्जया च एकस्मिन् कोणे अवनत मुखी भूत्वा हस्तनखान् उल्लिखन्ती आस्ते)

चित्रलेखा – सुवर्णरेखे पश्य । एषा किलिकिञ्चितवती दूरं गत्वा तिष्टति । तस्याः व्यावर्तनादिकं सौन्दर्यपूर्णं भासते पृष्टभागेऽपि । विलोकय ।

रोलम्बमाला निभ रम्यवेणी । चक्रक्रिया कम्र नितम्ब भारा ।
स्रस्तांसरम्या भुजवल्लरीभ्याम् । कस्य प्रिया नैव भवत्यहो सा ॥

सुवर्णरेखा – तस्मादहं वक्ष्ये जन्मतः सौन्दर्यं सङ्क्रमितं भवति । शृणु ।

सौन्दर्यं कविता गानम् । सङ्क्रामन्तिच जन्मतः ।
संस्कार भावनाभ्यासैः । पूर्णत्वं यान्ति भूतले ॥

चित्रलेखा – (उषायाः समीपं गत्वा) उषे किमर्थं त्वं रुष्टासि कथय मे । (इति तां सान्त्वयति)

उषा – युवां मां लज्जानम्रमुखीं कुर्वन्त्यौ आस्ताम् ।

चित्रलेखा – उषे अत्र न कोप्यन्यः उत काप्यन्या वा विद्येते । वयं सर्वाः सख्यः । किञ्चित्कालं परिहास पूर्वकः कालः यापनीयः इति ममाभिप्रायः । अहं यत् कथयामि तत् असङ्गतं न भवति । अहं सर्वदा वर्तमानस्थितिं कथयामि । एहि उषे (इति तां स्वनिकटं गृहीत्वा) सुवर्णरेखे पश्य । एषा उषासुन्दरी युवतीनां उन्माद कारयित्री भवति किमुत पुरुषाणां विषये शृणु ।

स्रैणं प्रयाति खलु वीक्ष्य तदीय हेलाम् ।
माद्यन्मनोभव विलास विकार भावम् ।
किं किं वदेयमहमत्र विचित्र लोकम् ।
कामावृताखिल मदोद्धत राजलोकम् ॥

सुवर्णरेखा – सखि ! राजा बाणस्तु नितान्तं दुर्वार दोर्गर्व समञ्चितः दुहितृ सौख्यं न विचारयति ।

चित्रलेखा – यदि एवमेव पराधीनमनस्कः बाणः व्यवहरिष्यति तर्हि दुहितृ जीवने वक्रः पन्था भविष्यत्यवश्यम् ।

सुवर्णरेखा – संस्कारबलेन वक्रः पन्था न भवति ।

चित्रलेखा – सखि बह्व्यः राजकन्यकाः वक्रमार्गे विचरन्त्यः अन्ततः दुःखसागरे निमज्जिताः अभवन् ।

सुवर्णरेखा – तथा न भूयात् कस्याः अपि जीवनम् । सखि बह्व्यः कथाः संश्रूयन्ते सुखान्ते परिणताः ।

चित्रलेखा – सखि ! कास्ताः कथाः श्रावय ।

उषा – सख्यौ किमर्थं मां टीकात्मिकां कुर्वाते ।

सुवर्णरेखा – सखि आवां त्वामुद्दिश्य न किमपि कथयावः ।

चित्रलेखा – उषे ! आवयोः भाषणं मा शृणु । किञ्चित्कालं पराङ्मुखी भव ।

सुवर्णरेखा – चित्रेलेखे ! नगराज पुत्री उमा शङ्करं तपसा विचिक्रिये ।

चित्रलेखा – तयोः दाम्पत्यं जगतः आदर्शं बभूव । तथा यदि स्यात् जीवनं घृते पतित माषापूप शकलमेव भवति ।

सुवर्णरेखा – अपिचान्या रुक्मिणी कृष्णेन सार्थं पलायनमन्त्रं पपाठ ।

चित्रलेखा – सः पलायनमन्त्रः योग्यः सर्वथा अभिनन्दितः सर्वैः ।

सुवर्णरेखा – एवं बह्व्यः कथाः संश्रूयन्ते । यदा पितरौ दुहितृवर्गकल्याणमुद्दिश्य न चिन्तयतः तदा उमारुक्मिणीवत् दुहितॄणां विवाहः भविष्यति ।

चित्रलेखा – यदि तथा भवेत् । सः विवाहः काम्यः भवति ।

सुवर्णरेखा – किन्तु व्यथापरिणामकारकः मा भूयात् ।

चित्रलेखा – सर्वोऽपि जीवनं सुखान्तं कामयते । तद्भिन्नं कदापि कोऽपि न कामयते ।

सुवर्णरेखा – सखि ! निम्नगाः सर्वदा पतिं उदन्वन्तं प्रयान्ति लोके अयं निसर्गस्वभावः ।

उषा – सख्यौ युवां नद्यः इव निम्नस्थानं कामयेते किम् ?

चित्रलेखा – उषे ! आवां लोके वृत्तवर्तिष्यमाणानां कथानां विषये संलापं कुर्वः । त्वं विहरभावप्रपञ्चे ।

उषा – (कुपित चालनं करोति)

चित्रलेखा – (तस्याः सम्मुखं गत्वा किञ्चित् नाट्यं कुर्वन्ती । उषाहस्तौ गृहीत्वा कल्याणरागे गायन्ती आस्ते ।)

गीतम्

कुप्यत्येषा । वनिता चोषा ।
मञ्जुलहासा । शोभितवासा ॥ ध्रु

पङ्कज वदना । कुड्मल रदना ।
चञ्चल नयना । मन्मथ शयना ॥ 1

(तां विसृज्य नाट्यं कुर्वन्ती आस्ते)

सुवर्णरेखा – (उषां धृत्वा)

(आनन्दभैरवीरागे)

कुप्यत्येषा । वनिताचोषा ।
मञ्जुलहासा । शोभितवासा ॥ ध्रु.

वक्रित केशा । मदनावेशा ।
सज्जित वेशा । पल्लविताशा ॥ 1

चित्रलेखा – (उषां गृहीत्वा)

(मोहनरागे)

कुप्यतेषा । वनिताचोषा ।
मञ्जुलहासा । शोभितवासा ॥ ध्रु.

पृथुल नितम्बा । राका बिम्बा ।
चलने शम्पा । गन्धिल चम्पा ॥ 1

(इति तां त्यजति)

उषा – सख्यौ किं मां भावज भावनायां विहारिष्यमाणामिव जानीयाते (इति रुष्टा जिगमिषति)

सख्यौ – (तां धारयतः)

[ततः प्रविशति वेत्रवती]

वेत्रवती – अयि उषानन्दिनि । राजा बाणः भवतीः सर्वाः समाह्वयति । (इति नमस्कृत्य कथयति)

उषा – कख्यौ अहं गच्छामि ।

सख्यौ – सखि उषे आवामपि त्वां अनुसारावः । (इति सर्वे गच्छन्ति)

(यवनिका पतति)

****************************************************************

.

द्वितीयं दृश्यम्

(शयनमन्दिरे उषाचित्रलेखासुवर्णरेखाः स्वपन्ति)

उषा – (हा हा शब्दं कुर्वन्ती शनैः शनैः उत्तर काये उपविश्य) कोऽसि प्रिय । (इति बाहू उद्यम्य विरौति)

(तस्याः शब्दं शृत्वा चित्रलेखा सुवर्णलेखा च प्रजागर्य उषां पश्यतः । चित्रलेखा उत्थाय उषासमीपं गत्वा तां धृत्वा)

चित्रलेखा – सखि ! उषे किमभूत् किमर्थं विरौषि ?

उषा – प्रिय क्वासि प्रयच्छ मे प्रतिवचनम् । (इति नभसि गाढालिङ्गनं करोति)

सुवर्णरेखा – [तस्याः समीपं गत्वा] सखि उषे किमर्थमेवं निर्लज्जया प्रवर्तसे ।

उषा – [ते विलोक्य सव्रीडं अधोमुखी आस्ते]

चित्रलेखा – [उषायाः पार्श्वे उपविश्य] सखि उषे किमर्थमेवं उच्छैराक्रोशसि ।

उषा – सखि न किमपि विद्यते ।

चित्रलेखा – तथा मावद । किमपि गोप्यं न विद्यते ते मत्सकाशे । कथय किं वृत्तम् ।

उषा – नाहं वक्तुं समर्थास्मि ।

सुवर्णरेखा – किमर्थमेवं हाहाकारं कृतवती ।

उषा – महानानन्दः अनुभूतः मया ।

चित्रलेखा – कोऽयं आनन्दः ।

उषा – अनिर्वचनीयः आनन्दः ।

चित्रलेखा – सखि त्वं एतावत्पर्यन्तं असूर्यं पश्या असि । किं अनुभूतं भवत्या सविस्तरं कथय ।

उषा – सखि स्वप्नः दृष्टः ।

चित्रलेखा – जानाम्यहं अयं स्वप्नः इति । कीदृशः स्वप्नः इति मे प्रश्नः ।

सुवर्णरेखा – उषे किमयं दुस्वप्नः ।

उषा – न हि दुस्वप्नः ।

चित्रलेखा – तर्हि कथं इयमवस्था तव भवति ।

उषा – सखि ! स्वप्ने दृष्टः कश्चित् दिव्यमानुषविग्रहः ।

चित्रलेखा – [सुवर्णरेखां वलोक्य हसन्ती] किमयं दिव्यमानुषविग्रहः दृष्टपूर्वः ।

उषा – न मया दृष्ट पूर्वः ।

सुवर्णरेखा – किं शृतपूर्वः ।

उषा – नहि ।

सुवर्णरेखा – किं चित्रमेतत् ।

उषा – इदं विचित्रमेतत् ।

चित्रलेखा – यदि विचित्रं स्यात् अहं प्रत्यक्षं करिष्यामि ।

उषा – मया दृष्टं चित्रं, कथं त्वं प्रत्यक्षं करिष्यसि ।

चित्रलेखा – करिष्याम्यहम् ।

उषा – न शक्यं भवति ते ।

चित्रलेखा – जगति अशक्यं न किमपि विद्यते ।

उषा – तर्हि शृणु । सः स्वप्नसुन्दरः ।

चित्रलेखा – हां सत्यं स्वप्नसुन्दरः ?

उषा – सः अनिर्वचनीयः ।

सुवर्णरेख – यथा दृष्टं वर्णय ।

उषा – श्यामाकृतिः ।

सुवर्णरेखा – अपिच कथम् ।

उषा – कमललोचनः ।

चित्रलेखा – अपिच ।

उषा – पीतवासाः ।

सुवर्णरेखा – ततस्ततः ।

उषा – बृहद्बाहुः ।

चित्रलेखा – अपिच कीदृशः ।

उषा – योषितां हृदयङ्गमः ।

चित्रलेखा – सः कस्मिन् कर्मणि रतः ।

उषा – [लज्जिता भवति]

चित्रलेखा – सखि । आवां तव सख्यौ । आवयोः समक्षं लज्जा कुतस्ते ।

सुवर्णरेखा – निर्भीका सविस्तरं अल्पाक्षरैः कथय ।

उषा – सखि । नाहं वक्तुं शक्तासि ।

सुवर्णरेखा – प्रयतस्व ।

उषा – अहं सङ्क्षिप्तेन कथयामि ।

अधरं मे निपीड्यासौ । बद्ध्वा मां बाहुपञ्जरे ।
यथेष्टं विहरन् कामे । तोषयमास सर्वथा ॥

चित्रलेखा – [सुवर्णरेखां पश्यन्ती, भ्रूविक्षेपं कुर्वन्ती साभिप्रायं] कथम् ?

उषा – गाढमालिङ्ग्य । [इति चित्रलेखां आलिङ्गति]

सुवर्णरेखा – तं महान्तं आपादमस्तकं यथा दृष्टं वर्णयित्वा चेत्रलेखां कथय । सासर्वं सुकरं करिष्यति ।

चित्रलेखा – शतथाऽहं ते उपकरिष्यामि ।

उषा – कथं त्वं करिष्यासि ।

उषा – कथं त्वं करिष्यासि ।

चित्रलेखा – यस्ते मनोहर्ता तं वर्णय ।

उषा – नाहं जाने सः कथं ते उपयोगः भवति ।

सुवर्णरेखा – तस्याः नाम चित्रलेखा । त्वं जानासि । सा अशृतं अदृष्टं केवलं शृत्वा चित्रलेखनं करिष्यति । साकुशाग्र धिषणाशालिनी ।

उषा – हला मे प्रियसखी चित्रलेखा भविष्यति । (इत्यालिङ्गति ताम्)

चेत्रलेखा – सखि उषे ! त्वं निर्लज्जया यथा दृष्टं तं दिव्यमानुषविग्रहं वर्णय ।

उषा – चित्रलेखे शृणु ।

कर्णान्त विस्फारित लोचनोऽयम् । पीनोन्नतोरस्थल कम्बु कण्ठः ।
नीलोत्पलश्याम तनुप्रकाशः । सम्भोगकाले रतिसुन्दरोऽभूत् ॥

सुवर्णरेखा – सखि चित्रलेखे । सिद्धचारणपन्नगान् देवगन्धर्व दैत्य विद्याधरान् यक्षान्, मनुजान्, रामकृष्णौ, कन्तजयन्तौ, प्रद्युम्नं च विलिख । उषे त्वं विना चिन्तां स्वपस्व । आवां त्वत्कृते यत्कर्तव्यं तत् सर्वं विधाय पुनरागच्छावः । (इति निर्गतवत्यौ, उषा सुप्ता भवति)

(यवनिका पतति )

*********************************************************************

.

तृतीयं दृश्यम्

(ततः प्रविशतः चित्रलेखा चित्रसंवाहिनी सुस्मिता च)

चित्रलेखा – हञ्जे चित्रवाहिनि सुस्मिते !

सुस्मिता – कथय तत्र भवती ।

चित्रलेखा – अद्य चित्रगृहे सप्तवर्णपूरितं चित्र कलशावलिं विविध कूर्चिकाः तूलिकाः नैकचित्र फलकानि समाह्रत्य संसिद्धं कुरु चित्रलेखनार्थम् ।

सुस्मिता – मैत्रिणि । अद्य भवती अतीव सन्तुष्टहृदया दृश्यसे । किमत्र कारणम् ।

चित्रलेखा – हञ्जे सुस्मिते । मे सखी उषा स्वप्ने कमपि दिव्यमानुषविग्रहं दृष्ट्वा तस्मिन् अनुरक्ता अस्ति । सः कः । कीदृशः । न कोऽपि जानाति । उषायाः वर्णनानुसारं चित्रं मनसि निधाय तस्य प्रतिकृतिः कर्तव्या । तस्मात् मे हृदयं आनन्देन दोलायितं भवति ।

सुस्मिता – अहो बहुकालानन्तरं आनन्दमयी वार्ता शृता ।

चित्रलेखा – इयं वार्ता अस्माकं परमानन्ददायिनी भवति ।

सुस्मिता – अयं तवारम्भः सदृशोदयाय भविष्यति ।

चित्रलेखा – एतावत्पर्यन्तं ममारम्भः फलितार्थः अभूत् ।

सुस्मिता – देवि । बाणः दुहितरि न कदापि वात्सल्यं दर्शयति । कात्र हेतुः ।

चित्रलेखा – अयं सर्वदा भुजकण्डूत्यपनयनार्थं युयुत्सति । सर्वदा नर्तने वाद्ये, युद्धकरणे आसक्तः । एकैकस्यास्ति एकैकव्यामोहः संसारे । सर्वस्यापि स्वीयोन्मत्तता स्वीयानन्दाय भवति ।

सुस्मिता – कन्या विवाहयोग्या जाता इत्येतन्मात्रमपि तस्य न विदितं भवति किम् ?

चित्रलेखा – अन्येषां व्यवहारेषु न रोचते मे हस्तक्षेपः । राजानं प्रति त्वं किमपि माभण । तथा भणणं अस्माकं योग्यं न भवति । पश्यतोहरः वार्ताहारः भविष्यति । पितरौ दुहितृ विषये न श्रद्धावन्तः जातौ तदस्माकं किमर्थम् ।

सुस्मिता – साधु भणितं भवत्या । वयं कर्मचराः न तु मन्त्रिणः ।

चित्रलेखा – भवती सत्वरं सर्वव्यवस्थां कुरु ।

सुस्मिता – देवि भवती अत्रैव उपविशतु । अहं सर्ववर्ण पात्राणि अत्रैवानयिष्यामि । (इति सर्व वस्तुचयं अपेक्षितं यत्, तत् सर्वं आनीय तत्र निक्षिप्य गच्छति)

चित्रलेखा – (तूलिकां गृहीत्वा सप्तवर्णपूरितकलशेषु निक्षिप्य यथोचितं चित्राणि करोति)

(ततः प्रविशति सुवर्णरेखा)

सुवर्णरेखा – हञ्जे चित्रलेखे, कियत्पर्यन्तं चित्रलेखनं समाप्तं दर्शय मे ।

चित्रलेखा – (एकैकं सुवर्णरेखायै दर्शयति)

सुवर्णरेखा – (आश्चर्येण) अहो कियत् सुन्दरं कृतं चित्रलेखनम् । एषु चित्रेषु को नाम भविष्यति । प्रिय सख्यः उषायाः स्वप्नसुन्दरः वरः ।

चित्रलेखा – वयं न किमपि निर्णीतुं शक्ताः ।

सुवर्णरेखा – कथं भवत्या विचित्रवर्णचित्राणि लिखितानि । सत्यं ते कला जन्मतः सङ्क्रामिता ।

चित्रलेखा – मम बाल्ये मे पिता मदीय मानसिक प्रवृत्तिं विलोक्य मम चित्रलेखा इति नामकरणं कृतवान् ।

सुवर्णरेखा – त्वयि सर्वमेतत् योग्यं युक्तं च भवति । लोके मूर्खः किञ्चित् अभ्यस्य तस्य कला जन्मतः सङ्क्रामिता इति कथयन् आत्मानं महापुरुषं कर्तुं प्रयतते । इयं परिपाटिः लोके दृश्यते ।

चित्रलेखा – उषायाः कथनमनुसृत्य चित्रमेतत् चित्रितम् । किमयं जन्मतः सङ्क्रामित संस्कारः न भवति ।

सुवर्णरेखा – बाल्ये केवलं जन्मान्तर वासनाः छायारूपेण व्यक्तिमत्वं प्रदर्शयन्ति । ताः वासनाः अभ्यासक्रमेण परिपूर्णाः भवन्ति । त्वयि इयमवस्था प्रत्यक्षं भवति ।

चित्रलेखा – भवत्या सत्यमुदीरितं । तथैव अत्र उषासुन्दरी विषयेऽपि पूर्वजन्मकृत वासनाः तां अनुधावन्ति, यतः एषा न कदापि अन्यं कमपि पुरुषं ददर्श अन्तःपुर वासिनी भूत्वा । तया स्वप्ने कोऽपि महानुभावः दृष्टः । तथ्यमयं पूर्वजन्मनि समधिगत संस्कार भावना विशेषः एव ।

सुवर्णरेखा – केचन पूर्वसंस्कार विशेषः इति न जानन्ति, किन्तु यत् किमपि वृत्तं इति मन्वते । केचन अवितर्कित पूर्वाऽपरविषयाः आकाशवाणी भूत्वा प्रतिगृहं गत्वा अप्रस्तुतप्रशंसां कुर्वन्ति जगति ।

चित्रलेखा – ते मूर्खाः इति मन्ये यतः ।

असंस्कारवतां लोके । कथं संस्कारभावना ।
जायते, तथ्यमेवास्ति । पुनर्जन्म धरातले ॥

असूर्यं पश्याचैषा कथं दिव्यपुरुखं अपस्यत् स्वप्ने । विचार्यमाणे सर्वमाश्चर्यं भवति ।

सुवर्णरेखा – भवत्या उषायाः स्वप्नानुगुण्यं चित्रनिर्माणं कृतमिति मे मतिः ।

चित्रलेखा – यथा तया कथितं तद्वदेव प्रतिकृतिः विलिखिता ।

सुवर्णरेखा – तथा यदि स्यात् तस्याः कामनाः परिपूर्णा भविष्यति । अधुना अहं उषायाः सकाशं गत्वा तस्याः प्रकृतिः कथं विद्यते इति विचारयेयम् । भवती चित्रवाहिन्या सुस्मितया चित्रैः साकं उषासदनं समागच्छ । (इति गच्छति)

चित्रलेखा – (सर्वाणि चित्राणि एकत्र एकैकोपरि एकं निक्षिप्य हस्तप्रक्षालनं कर्तुं अन्तः प्रविशति)

सुस्मिता – देवि चित्रलेखे, इति आह्वयन्ती प्रविशति सुस्मिता, गच्छति च चित्र फलकानां समीपम्)

चित्रलेखा – (प्रविश्य) हञ्जे सुस्मिते । त्वं समये प्रत्यागतासि । (इति वस्त्रखण्डेन हस्तौ मार्जयन्ती) त्वं अधुना सर्व चित्र चयं व्यवास्थतं बध्वा निक्षिप । अधुना सर्वाणि चित्रफलकानि नेयानि उषा सदनम् । एहि आवां गच्छावः [इति निष्क्रान्तौ]

[यवनिका पतति]

*********************************************************

.

चतुर्थं दृश्यम्

(उषा सुवर्णरेखे संलपन्त्यौ स्तः)

सुवर्णरेखा – कथं विद्यते ते मानसिक बाधा ।

उषा – तथैव विद्यते यथापूर्वं । नोपशमिता बाधा । पदे पदे तदेव स्वप्नचित्रं समक्षं भवति ।

सुवर्णरेखा – चित्रलेखा सुन्दर चित्राणि विलिखितवती आसीत् । अहं सर्वाणि चित्राणि अपस्यम् । ते अतीव सुन्दराणि मनोहराणि । त्वं तानि द्रक्ष्यसि ।

(ततः प्रविशति सुस्मिता चित्रफलकैः)

सुस्मिता – अयि देवि सुवर्णरेखे चित्रलेखा चित्राणि विलिख्य मां आदिदेश अत्र फलकानि स्थापयितुम् । अपिच सा अनुपदमेव अत्रागमिष्यति ।

सुवर्णरेखा – हां सुष्टुकृतं भवत्या तत्र निक्षिप्य गम्यताम् ।

सुस्मिता – तथैव । (इति निक्षिण्य गच्छति)

(ततः प्रविशति चित्रलेखा)

चित्रलेखा – सखी उषे ! कथं विद्यते ते मानसिक प्रवृत्तिः ।

उषा – सखि ! मानसिक व्याधेः नास्त्यौषधं लोके ।

चित्रलेखा – अस्त्यौषधं अहं दास्यामि ते ।

सुवर्णरेखा – सत्यं चित्रलेखा मानसिकव्याधि तज्ञा, चिकित्सका च मास्तु ते चिन्ता ।

चित्रलेखा – उषे । अहं तव व्याधि उपशमनार्थं अनेक औषध प्रक्रियाः विधाय त्वत्सकाशमानीतास्मि पश्य । (इति चित्रबन्धनं विसृज्य एकैक चित्रं तस्यै दर्शयितुं प्रयतते) पश्यैतत् चित्रं यदि ते मनोनुरूपं उत नहि । (इति एकं चित्रं दर्शयति)

उषा – (दृष्ट्वा) एतन्नहि । (इति हस्तेन निराकरोति तत् चित्रम्)

चित्रलेखा – (नैक चित्राणि दर्शयति)

उषा – एतानि सर्वाणि अननुकूलानि मे बाधा निवारणाय । (इति असन्तुष्टि प्रदर्शयति)

चित्रलेखा – सखि इमौ पश्य । (इति रामकृष्णौ दर्शयति)

उषा – (तौ दृष्ट्वा) एतौ पूज्यपादौ ।

चित्रलेखा – एवं पश्य । (इति प्रद्युम्नं दर्शयति)

उषा – [दृष्ट्वा लज्जा भवति]

चित्रलेखा – उषे किमर्थमेवं लज्जिता भवसि । एवं पश्य । [इति अनिरुद्धं दर्शयति]

उषा – [ह्रिया अवाङ्मुखी भवति कथयति]

सोसावत्मनि संलग्नः । मधुराधर दंशकः ।
त्यक्त्वा मां वृजिनारण्ये । गतः स्वप्ने महीपतिः ।

[चित्रलेखा सुवर्णरेखा च परस्परं विलोक्य साभिप्रायं हसतः]

चित्रलेखा – सखि उषे ! अहं अनुपदमेव द्वारकां गत्वा अनिरुद्धं योगे नात्रानयेयम् । भवती मा विचारयतु । त्वयासाकं सुपवर्णरेखा अत्रैवस्थास्यति ।

उषा – सखि ! त्वं मे प्रियसखी मनश्चित्रलेखा भवसि खलु ।

चित्रलेखा – आवां चित्रसुवर्णे तव सख्यौ । [इति तां प्रसान्त्वयित्वा गच्छति]

(यवनिका पतति)

*************************************************************************

.

पञ्चमं दृश्यम्

[द्वारकानगरी तत्र सौधे अनिरुद्धः नन्दसारणसाम्बैः साकं द्यूतं खेलन् आस्ते]

अनिरुद्धः – [ अक्षान् कुस्यति] ओ षट् । एकं द्वे त्रीणि चत्वारि पञ्च षट् । [इति अक्षं चालयति]

सारणः – अरे साम्ब ! पश्य अहं पञ्च दर्शयेयम् । [इति अक्षान् कुस्यति] अहह साम्ब एकं द्वे त्रीणि चत्वारि पञ्च । [इति अक्षं चालयति]

नन्दः – [अक्षान् हस्ते चालयित्वा कुस्यति] यत् भणितं तत् जातम् । [इति एकं द्वे इति अक्षं चालयति)

साम्बः – पश्य अहं चत्वारि दर्शयेयम् । (इति अक्षान् कुस्यति) एकं द्वे त्रीणि चत्वारि इति उक्त्वा । अक्षं चालयति)

अनिरुद्धः – (अक्षान् गृहीत्वा वेगेन हस्ते चालयति)

( ततः प्रविशति दौवारिकः)

दौवारिकः – (प्रविश्य) अयि देव ! चित्रलेखा नाम कन्यका तत्र भवतः दिदृक्षया द्वारि तिष्ठति ।

अनिरुद्धः – अनुपदं प्रवेशय ताम् ।

दौवारिकः – यथाज्ञापयति देवः । (इति प्रणम्य गच्छति)

अनिरुद्धः – अरे नन्दसारणिसाम्बाः गच्छय यूयं सर्वे । (सर्वे गच्छन्ति)

(ततः प्रविशति चित्रलेखा)

चित्रलेखा – अयि अनिरुद्ध देव ! शत प्रणामाः (इति नमस्करोति)

अनिरुद्धः – हो नमस्काराः । एहि सुन्दरि । कासित्वम् ।

चित्रलेखा – अहं चित्रलेखा । बाणस्य मन्त्रिणः कुम्भाण्डस्य पुत्री ।

अनिरुद्धः – किमर्थमागतासि ।

चित्रलेखा – कार्यमेकं साधयितुं समागतास्मि ।

अनिरुद्धः – उपविशतु तत्र भवती ।

चित्रलेखा – (उपविशति)

अनिरुद्धः – किं तत् करणीयं विद्यते निवेदय । अहं ते कार्ये साधयिष्यामि ।

चित्रलेखा – अहं अतीव तुष्टास्मि ।

अनिरुद्धः – चित्रलेखे त्वां दृष्ट्वा मे मनः आनन्दपारवश्यतां प्राप्नोति । कारणं नाहं जाने ।

एकाकिनी त्वं खलु यौवनेऽसि । मत्तः प्रियं किं तव कार्यमस्ति ।
वदस्व नूनं प्रियमाचरेयम् । निर्भीकभावेन विशाललोचने ।

चित्रलेखा – अयि भोः न ते युक्तं मां सम्बोधितुं विशाललोचने इति ।

अनिरुद्धः – कोऽयं अत्र दोषः ।

चित्रलेखा – अदृष्टपूर्वां मां परिचितः इव कथं एवं सम्बोधयसि ।

अनिरुद्धः – सौन्दर्योपासकानां जगति सौन्दर्यवत्यः हृदयग्राहिकाः भवन्ति तत्र दोषो न कार्यः ।

चित्रलेखा – भ्रमया भ्रमरो मा भवतु ।

अनिरुद्धः – भवती भ्रमरी भूत्वा अत्रागतासि ।

चित्रलेखा – भवान् अत्यन्त सरसः अस्ति । शृणु ।

यत्र ते हृदयं लग्नम् । कामिनी यत्र चुम्बिता ।
तत्रैव यानं योग्यं ते । सा ते हृदय सुन्दरी ॥

अनिरुद्धः – चित्रलेखे । किं त्वं कथां कल्पयसि ते कविता सौन्दर्येण ।

चित्रलेखा – अलं आश्चर्याभिमनयेन ।

अनिरुद्धः – भामिनि किमर्थमेवं कथयसि ।

कुत्राऽहं कामिनी कुत्र । चुम्बनं तु विशेषतः ।
किमेवं सर्वतो भ्रान्तिम् । प्रकल्पयसि सुन्दरि ॥

मम सकाशे असत्यस्य स्थानं नहि ।

चित्रलेखा – प्रभो अनिरुद्ध ! मयि कृत्थो मा भव ।

पुरुषाः निर्भयं कृत्वा । कृत्याऽकृत्यमनारतम् ।
अज्ञाता इव शान्त्या ते । प्रवदन्ति च नीतयः ॥

अनिरुद्धः – सुन्दरि चित्रलेखे । भवती भावोद्वेवेगेन किंवा किंवा प्रजल्पन्ती मां विमोहयसि ।

चित्रलेखा – भवतः कृत्यं समालोत्य व्यथाविला भवामि ।

अनिरुद्धः – किमपराद्धं मया ।

चित्रलेखा – कथयामि शृणु ।

उषा नाम सखी स्वप्ने । चुम्बिता भवता भृशम् ।
साचासील्लग्नचित्ता च । त्वयि भूप विचारय ॥

अनिरुद्धः – (आश्चर्येण) मया उषानाम कन्या स्वप्ने चुम्बिता । इदम् आश्चर्याणां परमायतनम् । (इति उच्चैः हसति)

चित्रलेखा – देव ! सत्यं ब्रवीमि । अत्र हसितस्य कारणं न विद्यते । अयं आलोचनात्मकांशः भवति ।

अनिरुद्धः – चित्रलेखे । विचारणीया सराणिरियम् । अयं सन्निवेशः परमानन्दस्यात्युत्तम समावेशः भवति ।

सा धन्या सुन्दरी लोके । या स्वप्ने चुम्बिता प्रियम् ।
अनाज्ञातेन भूपेन । तदेतत्परमं सुखम् ॥

चित्रलेखा – कथनीयं बहु विद्यते शृणोतु भवान् ।

अनिरुद्धः – कथनीयं यत् विद्यते ते तत् आसान्तं कथय ।

चित्रलेखा – सा निद्रायाः उत्थाय कोऽसि क्वासि, क्व गतोऽसि इति निर्लज्जया अरोदीत् । भवानेव मम सख्याः तादृशावस्था कारकः । तस्मात् त्वयाऽपराद्धं मम सख्यैः । अपराधं परिहारार्थं समेतु भोः इति मदीया विज्ञाप्तिरियम् ।

अनिरुद्धः – चित्रलेखे ! सा मया अदृष्टपूर्वा । कथमहमागमिष्यामि ।

चित्रलेखा – देव ! सा त्वां स्वप्ने ददर्श । तस्याः सखी अहं त्वां पश्यामि भवानपि तां अधुना द्रक्ष्यति ।

अनिरुद्धः – उषायाः स्वप्नसुन्दरोऽहम् इति भवती कथं जानाति ।

चित्रलेखा – भोः शृणु ।

उषा त्वां वर्णयामास । त्वदीयं रूपसम्पदम् ।
तदुक्तिमनुसृत्यैव । चित्रं ते लिखितं मया ॥

अनिरुद्धः – चित्रलेखे । मे हृदयं सत्यं रसनिस्तुलं भवति । इयं घटना परमानन्ददायिनी भवति । एतावत्पर्यन्तम् ईदृशी घटना मया न शृता । विचार्यमाणे इयं बहु रसनिर्भरा भवति ।
कविता वनितां चैव । स्वातन्त्र्येण विनिसृते ।
रसाधिक्यं प्रकुर्वाते । काव्यं हृदयमेवच ॥

चित्रलेखा – अनिरुद्ध ! त्वमेव उषापतिः एहि मया सार्थम् । अपिच युवयोः समागमः स्वप्न सञ्जातः परमपवित्रप्रायः । प्रभो शोणितपुरं निर्भयमहं मम योगविद्यया त्वां नेष्यामि तव प्रियायाः सकाशम् ।

अनिरुद्धः – चित्रलेखे ! शृणु ।

यदि कन्या विनाऽयासम् । वशं याति सलक्षणा ।
यथेच्छमनुभोक्तव्या । सत्यं रसिक लक्षणम् ॥

चित्रलेखा – अयमेव आदर्शपूर्ण दाम्पत्यभावः ।

अनिरुद्धः – अयि सुन्दरि । अगच्छेयम् मार्गमादिशतु भवती ।

चित्रलेखा – मार्गमादिशाम्यहम् । प्रथमतः भवता किं कर्तव्यं तत् भवान् शृणोतु ।

अनिरुद्धः – कथयतु भवती ।

चित्रलेखा – प्रभो अहं गृहस्यान्तर्भागं गत्वा तस्यै उषायै कथयेयं यत् वृत्तं तदुदन्तजातं सर्वमपि, भवान् बहिः तत्रैव स्थित्वा, यदा उषा एकाकी भूत्वा, विरहवेदनां असहन्ती त्वां निन्दन्ती रोदितुं प्रारभते, तदा यथासन्दर्भं प्रविशतु ।

अनिरुद्धः – शाधि मां चित्रलेखे ।

चित्रलेखा – मे यत्नः फलोन्मुखः भवति । धन्योस्म्यहम् । भवान् मामनुसरतु । (इति द्वावपि गच्छतः)

(यवनिका पतति)

*********************************************************

.

षष्ठं दृश्यम्

(उषा एकान्ते उपविश्य अनिरुद्धस्य चित्रफलकं गृहीत्वा गायन्ती आस्ते)

(भीमपलासरागे)

आयाता मधुर मधु यामिनी । मुग्ध वधूजन जीवनदायिनी ।
मलयानिल चञ्चलगामिनी । मधुमय जीवित वसन्त भामिनी ॥ 1

चिरयति मे जीवनवसन्त दाता । अभिनव यौवन मद सम्भारिता ।
रसमय प्रियतम पदसङ्गीता । वल्लभ प्रतिकृति दर्शन रमिता ॥ 2

निन्दति स्वान्तं रञ्जित सन्ध्यारागम् । शतथा मञ्जुल गन्धिल कुसुम परागम् ।
मधुरं गायति प्रियतम मोहनरागम् । प्रथयति लोके प्रेम लतानुरागम् ॥ 3

पराभृतविरुतं कुरुते हृदयम् । पतिविरहित जनमनुरागमयम् ।
कर्षति चापं मुञ्चति शर निचयम् । अबलाजन हृदयमदय मदनोऽयम् ॥ 4

(गीतान्ते प्रविशति चित्रलेखा)

उषा – चित्रलेखां विलोक्य सन्तोषेण) सखि चित्रलेखे त्वमागतोऽसि ? सखि किं सः दृष्टः ।

चित्रलेखा – (उषायाः हस्तौ गृहीत्वा सानन्दं) सखि उषे सः दृष्टः ।

उषा – सखि सः किमवदत् ।

चित्रलेखा – न किञ्चिदप्यकथयत् ।

उषा – न किमप्यकथयत् ।

चित्रलेखा – सः उदन्तमेतत् शृत्वा कृत्थो बभूव ।

उषा – किमर्थं कृत्थः ।

चित्रलेखा – भवती तस्मै अर्धाधर पानमेव दत्तवतीति ।

उषा – सः कथं जानाति अर्धाधर पानं दत्तं मया इति ।

चित्रलेखा – सोऽपि स्वप्ने त्वाम्पश्यत् । (इति हसति)

उषा – त्वं असत्यं वदसि ।

चित्रलेखा – नहि । मया परिहासपूर्वकं जल्पितम् ।

उषा – भवतु नाम । अर्धाधरपानदान विषये न मे दोषः विद्यते । अहं न किमपि जानामि इतः परं यत् सः मां दोर्भ्या गाढमालिङ्ग्य बहुवारं अधरं निपीड्य चुचुम्ब इति ।

चित्रलेखा – त्वदीय शरीरे लावण्यमय सम्पत् बाहुबन्धने राशीकृत्य अचुचूरदिति मन्ये ।

उषा – मम शरीर सम्पदासार्थं मानसमपि चोरयामास ।

चित्रलेखा – (विहस्य) एतत् सर्वं नोक्तं भवत्या सविस्तरम् ।

उषा – तस्मै त्वया न विपुली कृतोऽयं वृत्तान्तः ?

चित्रलेखा – एतत् सर्वं अहं न जानामि । भवत्या नोक्तं सविस्तरम् ?

उषा – तर्हि त्वं किमवोचः ।

चित्रलेखा – मे सखी न केवलं स्वप्नसुन्दरी परन्तु सा सुरसुन्दरी तव हृदय सुन्दरी । भवता सा प्रत्यक्षी कर्तव्या इति ममाभिप्रायः इत्येवमुक्तं मया ।

उषा – (सकुतूहलं) सः कीदृशः सखी ।

चित्रलेखा – त्वया कथित वर्णनानुसारं विद्यते सः ।

उषा – अपिच ।

चित्रलेखा – उषे ! अतीव सुन्दरोऽयम् ।

उषा – (सकुतूहलं) ततस्ततः ।

चित्रलेखा – व्यूढोरस्कः ।

उषा – ततस्ततः ।

चित्रलेखा – बलवान् ।

उषा – हां ततस्ततः ।

चित्रलेखा – महाभुजाः । श्यामः । सः मया सार्थं किमपि किमपि भाषमाणः तस्स्थौ । कथं कालः व्यरसीत् आवां न ज्ञातवन्तौ ।

उषा – सखि त्वं मदर्थं अतीव मृदिताऽसि ।

चित्रलेखा – परार्थे मर्दनं सुखतमं भवति । तस्य रूपं मनसः अपाकर्तुम् अशक्यं भवति, यतः शृणु ।

मधुर मधुर भाषी शब्दतत्वार्थ धीमान् ।
मधुर गुण समेतो मन्मथो नैवचान्यः ।
जलधर समकायः पूर्ण रासिक्य मूर्तिः ।
सुहसित वदनेन्दुः सौम्यभावोऽनिरुद्धः ॥

उषा – (सानन्दम्) हे सखि त्वं मदर्थं बहु कष्टं भजसे ।

चित्रलेखा – नास्ति मे कञ्चिदपि क्लेशः किन्तु तव कष्टं मे असह्यवेदनं भवति ।

उषा – त्वं मम सखी खलु तस्मात् एवं वदसि ।

चित्रलेखा – सखि त्वम् अधुना वासकसज्जिकाभूत्वा शयनमन्दिरं केलीगृहम् आत्मानं च मुहुर्मुहुः मण्डयन्ती कालं निरीक्षस्व । सः आगमिष्यति तेन सार्थं तव समागमः भविष्यति । मा चिन्तां कुरु सः सकालं त्वां समेष्यति । शुभयामिनी भवतु ते । अहं गच्छामि । इति गच्छति)

(ततः प्रविशति सुवर्णरेखा)

सुवर्णरेखा – सखि उषे !

विचित्र पुष्पाणि मनोहराणि । सुगन्धमाल्यानि च लेपनानि ।
एताश्च ताम्बूल लवङ्ग पूगाः । समाहृताः पश्य नताङ्गि तुभ्यम् ॥

सखि उषे । चित्रलेखा मां जगाद यत् अद्यैव ते हृदयाधि देवः अनिरुद्धः समागमिष्यति इति । तस्मात् भवती यथोचितं हावभाव विलास हासलालित्यैः तं आत्मायत्तं करोतु । सुखं भूयात् । शुभरात्रिः । (इति गच्छति)

उषा – (एकान्ते शयने उपविश्य कामे विचरन्ती जोगियारागे गायति)

गीतम्

एहि प्रिय । पाहि प्रिय ।
स्मर सङ्गर कामी । वनिताऽवनगामी ॥ ध्रु.

मधुराधर पाही । गाढाऽलिङ्गन दायी ।
निरतं सङ्गमलग्नाम् । निभृतं कामे मग्नाम् ॥ 2

मामलिङ्गय तोषय मदनम् । गाढं चुम्बतु सरोज वदनम् ।
मम पृथुल नितम्ब भरेण । तारय कामं सन्तोषेण ॥ 3

प्रिय ! अहं वासकसज्जिकाऽभवम् । अहं प्रतिक्षणं त्वदागमनं निरीक्षन्ती केलीगृहं तथा आत्मानं च अलङ्कुर्वन्ती भवन्तुमानेतुं सखीं प्रैषयम् । सखी भवतः सन्देशमानीय प्रतिनिवृत्ता किन्तु भवान् न समागतवान् । अहं विभावानुभावैः मथितान्तरङ्गिणी भवामि । न ते हृदयं यथा मम भवति तथा ? प्रभो भवान् स्वप्ने दृष्टोऽस्ति । अहं प्रत्यक्षं त्वां दिदृक्षामि । सत्वरं गाढं मां ते बाहुबान्धनडोलायां प्रसान्त्वय ।

रात्रिं दिवं मे हृदयं त्वदीयम् । रूपं च चेष्टां सततं व्यनक्ति ।
सेहे न बाधां कुसुमायुधस्य । किमर्थमेवं प्रविलम्बसे प्रिय ॥

अपिच ।

अङगनासु सदाऽनङगः । निर्दयः क्रूर सायकः ।
रत्वा त्वया प्रियं चाहम् । तर्पयिष्यामि मन्मथम् ॥

प्रिय ! आलस्ये अमृतमपि विषं भविष्यति । (इति शयनमन्दिरे शयने मदनरेखेव तनुलतां निक्षिप्य विचारयन्ती आस्ते)

अनिरुद्धः – (एकस्मात् कोणात् प्रविश्य तां पश्यन्) (आत्मगतम्) युवतीनां विलासाः कृशावस्थासु शरन्नद्यः इव रमणीयाः चित्ताकर्षकाः भवन्ति । अत्रैव स्थित्वा अहं निरीक्ष्ये । (इति तत्रैव पश्यन् तिष्ठति)

उषा – (शरीरोत्सारणं जृम्भणं च कृत्वा) अहो निरीक्षणमेतत् हृदयविदारकं भवति । कुसुमायुधः क्रूरः भवति । प्रभो

गच्छाम्यहं काल कृतान्त गेहम् । पृच्छाम्यहं त्वां तव पादपीठम् ।
जीवामि नाहं भवता विना च । प्राणेश तुभ्यं शतता नमांसि ॥

(इति शयने इतस्ततः लुटति)

अनिरुद्धः – (प्रविश्य)

आगतोऽस्मि प्रिये मास्तु । चिन्ता सौख्य विनाशिनी ।
इतःपरं सदाऽनन्दे । तारयिष्यामि मा शुचः ॥

(इति तस्याः समीपं गत्वा) प्रिये ।

अन्योन्यालम्बनेनैव । जीवितं सरसं सदा ।
आधाराधेय रूपेण । सर्वं चलति मानिनि ॥

(इति तां आलिङ्गितुं गच्छति)

(यवनिका पतति)

*********************************************************

.

]