[[पादताडितकम्-भाणः Source: EB]]
[
** श्रीः
महाकवि
श्यामिलकविरचितं
पादताडितकम् -
—-:o: —**
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सू - देहत्यागेन शंभोर्नयनहुतवहे मानितो येन कोपः
सेन्द्रा यस्यानुशिष्टिँ स्रजमित्र विबुधा धारयन्त्युत्तमांगैः ।
पायात्कामः स युष्मान् प्रविततवनितालोचनापाङ्गशार्ङ्गो
बाणा यस्येन्द्रियार्था मुनिजनमनसां सादका भेदकाश्च ॥
अपि च,
सभ्रूक्षेपं सहासं स्तननिहितकरामीक्षमाणेन देवीँ
सन्त्रासक्षिप्तवाग्भिः सह गणपतिभिर्नन्दिना वन्दितेन ।
पायाद्वः पुष्पकेतुर्वृषपतिककुदापाश्रयन्यस्तदोष्णा
यस्य क्रुद्धेन बाह्यं करणमपहृतं शंभुना न प्रभावः ॥ 2
एवमार्यमिश्रान् शिरसा प्रणिपत्य विज्ञापयामि । यद्वयमार्यश्यामिलकस्य कृतिं पादताडितकं नाम भाणं प्रयोक्तुं व्यवसिताः । तत्तस्य कवेर्मतिपरिश्रममवधानेनानुगृहीतुमिच्छामः । कुतः -
इदमिह पदं माभूदेवं भवत्विदमन्यथा-
कृतमिदमयं ग्रन्थेनार्थो महानुपपादितः ।
इति मनसि यः काव्यारंभे कवेर्भवति श्रमः
स नयनजलो रोमोद्भेदः सतां तमपोहति ॥ 3 ॥
निर्गम्यतां बकविलालसमप्रचारै -
रार्यैश्च राजसचिवैः शमवृत्तिभिश्च ।
तिष्ठन्तु डिण्डिकाविनर्मकलाविदग्धा
निर्मक्षिकं मधु पिपासति धूर्तगोष्ठी ॥ 4 ॥
कुतः- न प्राप्नुवन्ति यतयो रुदितेन मोक्षं
स्वर्गायतिं न परिहासकथा रुणद्धि ।
तस्मात्प्रतीतमनसा हसितव्यमेव
वृत्तिँ बुधेन खलु कौरुकुचीँ विहाय । 5 ॥
को नु खलु मयि विज्ञापनव्यग्रे इव शब्द श्रूयते । (कर्णदत्वा) हन्त ! विज्ञातम् । एष हि स विटमण्डपः । (प्रविश्य) धूर्तचाकिकः खलतिश्यामिलको घणटामाहत्य घोषयति । य एषः-
व्यतिकरसुखभेदः कामिनीकामुकानां
दिवससमयदूतो दुन्दुभीनां पुरोधाः ।
कलमुषसि खरत्वादस्य कण्ठा (घंटा) रवाणां
बलवदभिनदन्तो गर्दभा नानुयन्ति ॥ 6 ॥
किन्नु तावदनेन घुष्यते ? (कर्पाँ दत्वा) (नेपथ्ये)
जयति मदनस्य केतुः कान्तं प्रत्युद्यतो विलासिन्याः ।
शिरसा प्रार्थयितव्यः सालक्तकनूपुरः पादः ॥7 ॥
(निष्क्रान्तः)
स्थापना ।
(ततः प्रविशति विटः)
वि- मा तावद्भोः किमत्र घोषयितव्यम् ? यदेवं -
प्रणयकलहोद्यतेन स्त्रस्तांशुकदर्शितोरुमूलेन ।
जितमेव मदकलाया नूपुरमुखरेण पादेन ॥ 8॥
अये केनैवद्धसितम् ? (विलोक्य) दद्रुणमाधवोऽप्यत्रैव । अंघो ! ददुणमाधव किमत्र हास्यस्थानम् ? किं ब्रवीषि -“प्रत्यक्षं हि मे तत् यदतीतेऽहनि तत्रभवत्या सुराष्ट्राणां वारमुख्यया समदनया मदनसेनिकया तत्रभवान् स्तौण्डिकोकिर्विष्णुनागश्चरणकमलेन शिरस्यनुगृहीतः” इति । सुष्ठु खल्विदमुच्यते -
** “एति जीवन्तमानन्दो नरं वर्षशतैरपि ।” इति । विष्णुनागोऽपि नामैवं सर्वकामिजनसाधारणं चरणताडनसंज्ञकं शिरस्यभिषेकं प्राप्तवान् । किं ब्रवीषि
-“कुतोऽस्य तानि भगधेयानि? यः स ईदृशानां प्रणयकलहोत्सवानां पात्रं भविष्यति । स हि तस्या वेशदेवतायास्तं संमानविशेषमवमानं मन्यमानः क्रोधपरिव्यक्तनयनरागः प्रस्फुरितभ्रुकुटीवक्रं ललाटं कृत्वा शिरो विनिधूर्य दशनेरोष्ठमभिदश्य पाणिना पाणिमभिहत्य दीर्घँ निश्वस्योक्तवान् । “हाधिक् पुंश्चलि अनात्मज्ञे यया त्वया ममस्मिन्
प्रयतकरया मात्रा यन्तात्प्रबद्धशिखण्डके
चरणविनते पित्राघ्राते शिशुर्गुणवानिति ।
स कुसुमलवैः शान्त्यं भोभिर्द्विजातिभिरुक्षिते
शिरसि चरणो न्यस्तो गर्वान्न गौरवमीक्षितम् ’ ॥ 9 ॥
एवञ्चानेनोक्ता विरज्यमानसन्ध्यारागेव रजनी वर्णान्तरमुपगता । अतिप्रभातचन्द्रनिष्प्रभं वदनमुद्वहन्ती
व्यपगतमदरागा भ्रश्यमानोपचारा
किमिदमिति विषादात्स्विन्नस्वन्नसर्बाँगयष्टिः ।
भयविगलितशोभा वान्तपुष्पेण मूर्ध्ना
न पुनरिति वदन्ती पादयोस्तस्य लग्ना ॥ 10 ॥
प्रणिपातावनता चानेन निर्धूयोक्ता’ चण्डिमास्पाक्षीः, कर्दनेन न मां ढौकितुमर्हसि’ इति” इति । कष्टं भोः कोकिला खलु कौशिकमनुवर्तते । मदनसेनिकापि तं पुरुषवेतालं कदर्यमपवीर्यमनुवर्तत इति मे विस्मयः । भवित च पुनर्महामात्रपुत्रो राज्ञः शासनाधिकृत इति न दानकामपपेक्षन्ते (ते) । शब्दकामाः खल्वेता भवन्ति । कामे हि प्रयोजनमनेकविधमित्युपदिश्यते । किं ब्रवीषि -” लब्धं खलु शब्दकामया शब्दप्रधानार्जनाच्छब्दस्य व्यसन"इति । सा हि तपस्विनी
तिर्यक्त्रपावनतपक्ष्मपुटप्रवान्तै-**
र्धौताधरस्तनुमुखी नयनांबुपातैः ।
स्वांगेष्वलीयत नवैः सहसा स्तनद्भि
रुद्वेजिता जलधरैरिव राजहंसी ॥ 11 ॥ इति ।
** न च भोश्चित्रमिदं श्रोतव्यं श्रुतम । न च खल्वस्माभिर्विदितार्थैरप्यतीतं पृष्टम् । ततस्ततः । किं ब्रवीषि -“ततः स मया निर्भत्स्योक्तः ‘अये वैय्याकरणखसूचिन् सुमनसो मुसलेन मा क्षौत्सीः वल्लकीमुल्मुकेन मा वादीः वाक् क्षुरेण किसलयक्षीबां मा लौत्सीः ?मत्तकाशिनीँ ‘इति एवमुक्तो मामनादृत्य विटमहत्तरं भट्टिजीमूत गृहं गतः । ततः सा तपस्विनी करकिसलयपर्यस्तकपोलमाननं कृत्वा प्ररुदिता । तत उत्थाप्य मयोक्ता -‘सुन्दरि न वानरो वेष्टनमर्हति गर्दभो वा वरप्रवहणं वोढुम् । अलमलं रुदितेन । हास्यः खल्वेष तपस्वी । नैवं महान्तं शिरः सत्कारर्हति ।
किं कामी न कचग्रहैर्यमबलाः क्लिश्यन्ति मत्ता बला -
द्यं ब्रध्नन्ति न मेखलाभिरथवा न घ्नन्ति कर्णौत्पलैः ।
पक्षे तस्य तु मन्यथः सुकृतिनस्तयोत्सावोयौवनं
दासेनेव रहस्यपेतविनयाः क्रडिन्ति यनांगनाः’ ॥ 12 ॥
एवञ्चोक्ता स्पितपुरस्सरमपांगेन मे वचः प्रतिगृह्य सशिरः पादमवकुण्ठ्य वासासा शयनतलमलंकृतवति । अहमपि कामिप्रत्यवरस्य दुश्चरितमनुचिन्तयन् प्रभातमिति राज्ञः प्राभातानान्दीस्वनैरुत्थापितः कृतकर्तव्यस्तदेव दुःस्वप्नदर्शनमिवापनेतुं ब्राह्णपीठिकां गतः । तस्यां ब्राहणपीठिकायां पूर्वगतं कीर्णकेशं विष्णुनागमेवार्तरूपमात्मकर्माचक्षाणं ’ असावहं भोः एवंकर्मा । तं मा वृषल्याः पाद वधूतशिरस्कं त्रातुमर्हन्ति त्रैविद्यवृद्धाः’ इत्युक्तवन्तमपश्यम् । एवञ्चोक्ता ब्रहणाश्चलकपोलसूचितहासमन्योऽन्यमवलोक्य मुहूर्तमिवध्यात्वोक्तवन्तः । ‘भोः साधो अवलोकितान्यस्माभिर्मनुयमवसिष्ठगौतमभरद्वाजशंखलिखितापस्तम्बहारीतप्रचेतोदेवलवृद्वगार्ग्यप्रभृतीना मनीषिणां धर्मशास्त्राणि । नैवंविधस्य महतः पातकस्य प्रायश्चित्तमवगच्छामः’ इति । एवञ्चोक्तो विषण्णतरवक्त्र उच्छ्रित्य हस्तावुपाक्रेशत् । ‘भो भोः चतुर्थो वर्पा इति न मामर्हथ भूमिदेवाः परित्यक्तुम् । कुतः -
आर्योऽस्मि शुद्धचरितोऽस्मि कुलोद्गतोऽस्मि
शब्दे च हेतुसमये च कृतश्रमोऽस्मि ।
राज्ञोऽस्मि शासनकरो न पृथग्जनोऽस्मि
त्रायध्वमार्तमगतिँ शरणागतोऽस्मि ॥ 13 ॥
रवञ्चोत्तायां तस्यां परिषदि -**
कौश्चिद्गैरयमित्यरात्रिचलनैरन्योऽन्यमाघाटितं
स्यादुन्मत्त इति स्थितं स्मितमुखैः कौश्विच्विरं वीक्षितम् ।
कैश्चित्कामपिशाच इत्यपि तृणं दत्वान्तरे धिक्कृतं
कैश्चिद्दुष्कृतकारिणीति च पुनः सैवांगना शोचिता ॥ 14 ॥
एवमवस्थायाञ्च संसदि तस्यां प्रतिपत्तिमूढेषु ब्राह्यणेषु प्रायश्वित्तवि प्रलंभिवह्वले क्रोशति विष्णुनागे तेषामेकतम आचार्यपुत्रः स्वयञ्चाचार्यो दण्डनीत्यान्वीक्षिक्योरन्यासु च विद्यास्वभिविनीतः कलास्वपि च सर्वासु परं कौशलमनुप्राप्तो वाग्मी चान्तेवासिगणपरिवृतः परिहासप्रकृति शाण्डिल्यो भवस्वामी नाम ब्राह्यणः सव्येतरं हस्तमुद्यम्य स्मितोदग्रया वाचा परिषदमामन्त्रयोक्तवान्’ अये भो विष्णुनाग न भेतव्तम् अलमलं विषादेन । अस्तीदं धर्मवचनं ‘यथादेशजातिकुलतीर्थसमयधर्माश्चान्नयैरविरुद्धाः प्रमाणं’इति । अतो विटजातिँ सन्निपात्य विटमुख्येभ्यः प्रायश्चित्तं मृग्यताम् । ते हि त्वामस्मात्किल्बिषान्मोचयिष्यन्ति’ इत्युक्ते साधुवादानुयात्रमूर्ध्वागुलिप्रनृत्तमवर्तत तस्यां परिषदि । तच्छ्रुत्व विष्णुनागोऽप्यनुगृहीत इति प्रस्थितः । त्वञ्चपि विटसन्निपातकर्मणि नियुक्तः’ इति बाढव । किं ब्रवीषि-‘के पुनरिह भवतो विटसम्म(म्ति) ताः’ इति ननु भवानेव तावदग्रे विटः । किं ब्रवीषि -‘कथमहमपि नाम विटशब्देनानुगृहीतः’ इति । कः संशयः श्रूयतां -
दिवसमखिलं कृत्वा वादं सह व्यवहारिभि-
र्दिवसविगमे भुक्तवा भोज्यं सहृभ्दवने क्वचित् ।
निशि च रमसे वेशस्त्रीभिः क्षिपस्यपि चायुधं
जलमपि च ते नास्त्यावासे तथापि च कत्थसे ॥ 15 ॥
तत्कथं त्वमविटः ? किं ब्रवीषि -‘यद्येवमनुगृहीतः सन्निपातयिष्यसि विटान् विटलक्षणंतावच्छ्रोतुमिच्छामः’ इति । तत्प्रथमः कल्पः । श्रूयतां -
स्वैः प्राणैरपि विद्विषः प्रणयिनामापत्सु यो रक्षिता
यस्यार्तौ भवति स्व एव शरणं खड्गद्वितीयो भुजः ।
संघर्षान्मदनातुरो मृगयते यं वारमुख्यो जनः
स ज्ञेयो विट इत्यपावृतधनो यो नित्यमेवार्थिषु ॥ 16 ॥
अपि च,
चरणकमलयुग्मैरर्चितं सुन्दरीणां
समकृटमिव तुष्ट्या यो बिभर्त्युत्तमाङ्गम् ।
स विट इति विटज्ञैः कीर्त्यते यस्य चार्थान्
सलिलमिव तृषार्ताः पाणियुग्मैर्हरन्ति ॥ 17 ॥
किं ब्रवीषि-‘उक्तं विटलक्षणं विटानिदानीमुपदेष्टुमर्हसि’ इति। श्रूयतां तत्रभवान् कामचारो भानुः लोमशो गुप्त अमात्यो विष्णुदासः शैब्य आर्यरक्षितो दाशेरको रुद्रवर्मा आवन्तिकः स्कन्दस्वामी हरिश्चन्द्रो भिषक् आभीरकः कुमारो मयूरदत्तो मार्दँगिकः स्थाणुर्गाधर्वसेनक उपायनिरिन्तकथः पार्वतीयः प्रथमोऽपरान्ताधिपतिरिन्द्रवर्मा आनन्दपुरतः कुमारो मखवर्मा सैराष्ट्रिको जयनन्दको मौद्गल्यो दयितविष्णुरित्येवमादयो यथासंभवं सन्निपात्याः किँ ब्रवीषि-“सर्वँ तावत्तिष्ठतु । दयितविष्णुरपि भवतो विटसंमत” इति ।कः सन्देहः । किँ ब्रवीषि-“एष योऽयं राज्ञो बलेष्वधिकृतः पारशवः क्वीः” इति । बाढमेवमेवैतत् । किं ब्रवीषि -‘‘मा तावद्भोः -
यः संकुचत्युपहितप्रणयोऽपि राज्ञो
यो मङ्गलैः स्वपिति च प्रतिबुध्यते च ।
देवार्चनादपि च गुग्गुलुगन्धवासा
योऽसौ किणत्रयकठोरललाटजानुः ॥ 18 ॥
अपि च,
देवकुलाद्रजकुलं राजकुलाद्याति देवकुलमेव।
इति यस्य यान्ति दिवसाः कुलद्वये संप्रसक्तस्य ॥ 19 ॥
कथमसावपि विटः’‘इति । आ एवमेतत् । अस्तीदमस्य विटसंवाद प्रत्यनीकभूतदम् । किन्तु
पूर्वावन्तिषु यस्य वेशकलहे हस्ताग्रशाखा हृता
सक्थ्वोः संयति यस्य पद्मनगरे द्विड्भर्निखाताविषू ।
बाहू यस्य विभिद्य भूरधिगता यन्त्रेषुणा वैदिशे
यो वाजीकरणार्थमुज्झति वसून्यद्यापि वैद्यादिषु ॥20 ।
यस्माद्ददाति स वसूनि विलासिनीभ्यः
क्षीणेन्द्रियोऽपि रमते रतिसंकथाभिः ।
तस्माल्लिखामि धुरि तं विटपुङ्गवानां
रागो हि रंजयति वित्तवतां न शक्तिः ॥21 ॥
कथमसावटिः ? किं ब्रवीषि-” एवञ्चेदग्रणीर्विटानां" इति । तस्मादेवायं धुरि लिखितः ।गच्छतु भवान् । स्वस्ति भवते । साधयामस्तावत् । (परिक्रम्य)
एषोऽस्मि नगररथ्यामवतीर्णः। अहो तु खलु जम्बूदीपतिलकभूतस्य सर्वरणाविष्कृत(रन्तालंकृत) विभूतेः सार्वभौमनरेन्द्राधिष्ठितस्य सार्वमौमनगरस्य परा श्रीः । इह हि -
संगीतैर्वनिताविभूषणरवैः कीडाशकुन्तस्वनैः
स्वाध्यायध्वनिभिर्धनुस्स्वनयुतैः सूनासिशब्दैरपि ।
पात्रीणां गृहसारसप्रतिरुतैः कक्ष्यान्तरोषु स्वनैः
संजल्पानिव कुर्वते व्यतिकरात्प्रासादमालाः सिताः ॥22 ॥
अपि च,
गिरिभ्यो द्वीपेभ्यः सलिलनिधिकच्छादपि मरो -
र्नरेन्द्ररायातैर्दिशि दिशि निविष्टैश्च शतशः ।
विचित्रामेकस्थामनवगतपूर्वामिव कथा-
मिह स्त्रष्टुः सृष्टेर्बहुविषयतां पश्यति जनः ॥ 23 ॥
शकयवनतुषारपारसीकैर्मगधकिरातकलिँगवंगकाशैः ।
नगरमतिमुदायुंत समन्तान्महिषकचोलकपाण्डयकरेलैश्च ॥24 ॥
(विलोक्य) अये को नु खल्वेषोऽवमुक्तकञ्चुकतया धवलशिबिकयेभ्यविधवालीलां विडंबयन्नित एवामिवर्तत । (विमृश्य) भवतु विज्ञातं । एष हि स वेत्रदण्डकुण्डिकामण्डसूचितो वृषलचौक्षामात्यो विष्णुदासः । अनेन ह्येवं महत्यपि प्राड्विवाककर्मणि नियुक्तेन ध्यानाभ्यासपरत्तयोपेक्षाविहारिणेव भिक्षुणा नात्यर्थँ राजकार्याणि क्रियन्ते । तथा हि -
करविचलितजानुः कौश्चिदर्द्धासनस्थैः
समवनतशिरोभिः कौश्चिदाकृष्टपादः ।
अधिकरणगतोऽपि क्रोशतां कार्यकाणां
विपणिवृष इवैषो ध्याति निद्राञ्च याति ॥ 25 ॥
तत्कामं विटजनप्रत्यनीकभूतमस्य दर्शनम् । तथापि धर्ममुपदिशन्नभिगम्य एव । उपसर्पाम्येनव । एष खलु दूरादेव मामवलोक्य शिविकामवतार्यावतरति । अये भोः मर्षयतु भवान् । नार्हस्यस्मानुपचारयन्त्रणया जनीकर्तुम् । किँ ब्रवीषि-“कश्च भवन्तमुपचरति ? आचारोऽयमस्माभिरनुवर्त्यते"इति । मातावद्भोः एवमुपचरतायुक्तं नाम भवतीमनङ्गसेनामिह प्रणयामिमुखीँ तथा विमुखयितम् कि ब्रवीषि -“किं मया न तस्याः प्रणयनुरूपः सम्परिग्रहः कृतः? पश्यतु भवान् । सा हि मया-
स्वस्तीत्युक्तवा वन्दनायां कृतायामसीनायां याचितं योगशास्त्रमू ।
नेत्र चास्या वायुनेवेर्यमाणे संप्रेक्ष्योक्ता पुत्रिसर्पिँ पिबेति ॥ 26 ॥
तत्कयं न संप्रतिगृहीता मया” इति । अहो कामिन्याः सललितस्मपरिग्रहः कृतः एष मां प्रहस्य चौक्षोपायनेन बीजपूरकेण प्रसादयति । अये भो युष्मदतेवांसेन एव वयमीदृशेषु प्रयोजनेषु नोत्कोट(च) नाभिर्वञ्चयितुं शक्याः । सर्वथाऽदृश्य एवास्तु भवान् । साधयामस्तावत् । (परिक्रम्य)
एष भोः अनेकदेशस्थलजजलसारफल्गुपण्यक्रयविक्रयोपस्थितस्त्रीपुरुषसंबाधान्तरापणां सार्वभौमस्य विपणिमनुप्राप्तः । अहो! बतास्याः -
शकुनीनामिवावासे प्रचारेषु गवामिव ।
जनानां व्यवहारेषु सन्निपाता (ते) महाध्वनिः ॥ 27 ॥
तथा हि -
स्वरः सानुस्वारः परिपतति कर्म्मारविपणौ
भ्रमारूढं कांस्यं कुररविरुतानीव कुरुते ।
धृ(दु,धु) तं शंखे (के) शस्त्रं रसति तुरगश्वासपिशुनं
समन्ताच्चान्नोति क्रयमपि जनो विक्रयमपि ॥ 28 ॥
अपि चेदानीं-
सुमनस इमा विक्रीयन्ते हसन्त्य इव श्रिया
चरति चषकः पानागारेष्वतः परिपीयते ।
करधृतः तृणैर्माँसक्रायैरपांगनिरीक्षिता
नगरविहगाः सूनामेते पतन्त्यसिमालिनीम् ॥ 29 ॥
अपि च,
**अंसेनांसमाभिध्नतां विवदतां तत्तश्च संक्रीणतां
सस्यानामिव पंक्तयः प्रचलतां नतॄणाममीराशयः ।
द्यूतादाहृतमाषकाश्च कितवा वेशाय गच्छन्त्यमी
संप्राप्ताः परिचारकैः सकुसुमैः सापूपमांसासवैः ॥ 30 ॥
यावदहमपीदानीँ महाजनसंमर्ददुर्गमं विपणिमार्गमुत्सृज्येमां पुष्पवीथिकामन्तरेण पानागाराण्यपसव्यमुपावर्तमानः पूर्णभद्रशृङ्गटकमवतीर्य मकररथ्यया वेशमर्गमवगाहिष्ये । तत्काममसंगृहीतमाषस्यवेशप्रवेशो निरायुधस्व संग्रमावतरणमित्युभयमपार्थकं केवलमयश सेचानर्थाय च । किन्तु सुहृन्निदेशोऽयमस्माभिरवश्यं निर्वर्तयितव्यः । भूयान् वेशे विटसंनिपातः । (परिक्रम्य)
अये कोनु खल्वेष रोहितकीयैर्मार्दगिकैः कांस्यपन्नवेणुभिश्रैर्यौधिँकवर्णैरुपगीयमानः एवश्रवणावलंबितकुरंटकशेखरो विरलमपसव्यमाकुलदशमुत्तरीयमपवर्तिकयासंक्षिपन्मुहुर्मुहुः प्रकटै कस्फिक् स़ञ्येन पाणिना मद्यभाजनमुत्क्षिप्य नृत्यन्नापानमण्डपं हासयति । (निर्वर्ण्य) आः ज्ञातम् । एव हि सबाहिलकपुत्रः सर्वधूर्तपरिहासैकमाजनभूतोवेशकुक्कुटो बाष्पो धान्त्रः । भो यत्सत्यं न कदाचिदप्येनममत्तमपीतं वा पश्यामि मवायममुंक्षित हस्तो माषकार्धैनापि । तत्कुतोऽस्यैतदुपपद्यते । (वितर्क्य) हन्त विज्ञातम् । एष हि पुगेभागी लज्जावियुक्तः सर्वँकषः सर्वजनीनत्वात् -
आबद्धमण्डलानां पिबतामुपदंशमुष्टिमादाय ।
प्रविशति बाष्पो मध्यं नटनटीचेटाश्च बन्धानां ॥ 31 ॥
अहो तु खल्वस्य पानोपार्जने विज्ञानम् । तदलमनेनाभिभाषितेन । इतो वयं (परिक्रम्य) इदमपरं जङ्गमं जीर्णैद्यानं विटजनस्य । एषा हि पुराणपुंश्चली सरणिगुप्ता नाम कामदेवायतनाद् देवतायाउपयाचितमभिनिर्वर्त्य स्फुटितकाशवल्लरीश्वेतमागलितमंसदेशादुपरि केशहस्तमुपन्यस्यन्ती सद्योधौतनिवसना विगलितमुत्तरीयमेकांसे प्रतिसमादधानाबलिविक्षेपोपनिपतितैर्बलिभ्रतैः परिवृतं मयूरं नृत्यन्तमपाङ्गेनावलोकयन्ती मकरयष्टिँ प्रदक्षिणीकरोति । भोः यत्सत्यमद्याप्यस्याश्चिरातिक्रान्तं यौवनविभ्रमं विलासशेषं कथयति । तथाहि
श्चेताभिर्नखराजिभिः परिवृतौ व्यावृत्तमूलौ स्तनौ
सृक्विण्योः शिथिलञ्च मध्यगडुलो निष्पीतपूर्वौऽधरः ।
सभ्रूश्रेपमुदाहृतः परिचयादद्यापि युक्तोऽन्तरः
रूपं हि प्रहृतं प्रसह्य जरया नस्या विलासा हृताः ॥ 32 ॥
तन्न शक्यमेनामभिभाष्यातिक्रमितुम् । एषा ह्यस्माकं प्रियवयस्यमार्दाँगेकं स्थाणुमित्रं मित्रं व्यपदिशन्ती क्रौञ्चरसायनोपयोगमात्मनः प्रकाशयति। तत्कथमेनामुपसर्पामि । (विचिन्त्य) आ ज्ञातम् । अस्या हि इतस्तृतीयेऽहनि तपस्वी स्थाणुमित्रश्चुम्बनातिप्रसङ्गात्तथा बीभत्समनुभूतवात् । अहो धिगकरुणो रागः
-**
** चुंबनरक्तं सोऽस्या दशनं च्युतमूलयात्मनो वदने ।
जिह्वामूलस्पृष्टं खाडिति कृत्वा निरष्ठीवत् ॥ 33 ।**
** तत्कामं वेशमवतितीर्षुस्तीर्थमतिक्रमन्ञ्चितः स्याम् । अथवा, आविष्कृतं स्यात् स्थाणुमित्रवदने दन्तनिपतनम् । तन्नाभिगमनेन व्रीलां पुनरुक्तीकरोमि । सर्वथा नमोऽस्यै । साधयामस्तावत् । (परिक्रम्य)
एषोऽस्मि वेशमवतीर्णः । अहो तु वेशस्य परा श्रीः । इह हि - एतानि पृथक्पृथङ्निविटष्टनि रूचिरवप्रनेमिसलहर्म्यशिखरकपोतपालीसिंहकर्णगोपानसीवलभीपुदाद्टालकावलोकनप्रतोलीविटङ्कप्रासादसम्बाधानि असम्बाधकक्ष्याविमागानि भागे निमितानि सुनिर्मितरुचिरखातपूरितसिक्तसुषिरफूत्कृतोत्कोटितलिप्तलिखितसूक्ष्मस्थूलविविक्तरूपशतनिबद्धानि बन्धसन्धिद्वारगवाक्षवितर्दिसंजवनवीथीनिर्व्यूहकानि एकद्वित्रिपादपालंकृतमाध्यकोद्देशानि उद्देस्यवृक्षकहरितकफलमाल्यष्ण्डमण्डितानि पुण्डरीकशबलितविमलवापीतोयानि तोयान्तरविहितदारुपर्वतकभूमिलतागृहचित्रशालालंकृतानि परार्थ्यमुक्ताप्रवालकिङ्किणीजालाविष्कृतपरिपुष्काराणि उछ्रितसौभाग्यवैजयन्तीपताकानि उत्पतन्तीव गगनतलमवनितलात् भवनवरावतंसकानि वार,मुख्यानाम् । यत्रैते -
आसीनैखलीढचक्रवलयैर्मौलद्भिरावन्तिकै
र्धार्यारूढकिरातसंगतधुरास्तिष्ठन्ति कर्णोरथाः । (?)
एते च द्विगुणीकृतोत्तरकुथा निद्रालसाधोरणाः
कांबोजाश्च करेणवश्च कथयन्त्यर्गतान् स्वामिनः ॥ 34 ॥
अपि चास्मिन्नुद्देशे-
नयनसलिलैर्यैरेवैको व्रजन्नतिवाह्यते
प्रततविसृतैस्तैरेवान्यो गृहानभि नीयते ।
अकृशविभवेष्वासामास्था तथापि कृतव्ययाः
समनुपतिता निर्भर्त्स्यन्त बलात्किल मातृभिः ॥ 35 ।
(परिक्रम्य)
- इयमनुनयति प्रियं कुद्वमेषा प्रियेणानुनीता प्रसीदत्यसौ सप्तन्तीर्न्नखैर्घटृयन्ती कलं काकलीपञ्चमप्रायमुत्कण्ठिता वल्गुगीता पदेशेन विक्रोशति ॥
- इयामुपहितदर्पणा कामिना मण्डयो कामिनी कामिनो मौलिमेषा निबघ्नात्यसौ शारिकां स्पष्टमालापयत्येष मत्ते मयुरोऽतया चूतपुष्पेण सन्तार्ज्जितो नृत्यति ॥
- कथमियमतिकन्दुकक्रीडया मध्यमायासयत्यल्पमेषा प्रिर्यणोपविष्टा सहाक्षैः परिक्रीडति प्रौढया चानयैतत्स्वयं लिख्यते चित्रमाख्यायिकासौ पुनर्वाच्यते ॥**
4. अलमलमतिसंभ्रमेणास्यतां वासु भद्रे चिराद्दृश्यसे किँ ब्रवीष्य” द्य तं प्रष्टुमर्हस्यहं येन मुगधातथावञ्चिते"ति प्रसाद्यासि नः स्वास्तिते तत्तथा साधयामो वयंम् ॥(परिक्रम्य) इदमपरं सुहृत्पत्तनमुपस्थितम् । एष हि स बाल्हिकः काकायनो भिषगैशानचन्द्रिः हरिश्चन्द्रश्चन्द्र इव कुमुदवापीँ वेशवाटीमवभासयन्नित एवभिवर्तते । तत्किमस्येह प्रयोजनम् । (विचिन्त्य) आ ज्ञातं एष हि तस्याः पूर्वप्रणीयन्या यशोमत्या भगिनीं प्रियंगुयष्टिकां कामयो । अत्मानपि रहस्येनातिसन्धत्ते । तन्नशक्यमेनमप्रतिपद्य गन्तुम् । यावढुपसर्पामः । (उपगम्य) अंघो वेशबिसवनैकचक्रवाक कुतो भवान् । किं ब्रवीषि
-“एष हि तस्याः प्रियसख्यास्ते कनीयसीँ प्रियंगुयष्टिकामौषधेन संभाव्यागच्छामि” इति । न खलु तस्याः सुरतसुभिक्षाया आमयावसन्नो मदनाग्निस्तस्यदीपनीयकमुपदिष्टवानसि । किं ब्रवीषि-“मुक्तः परिहासः कष्टा खलु तस्याः शिरोवेदना” इति । वयस्यं । किं ब्रवीषि-“कः सन्देहः, कृच्छ्रसाध्या” इति एव मेतत् । शिरोवेदना नाम गणिकाजनस्य लक्षव्याधिर्यौतकम् । पश्यतु भवान् -
ललोट विन्यस्य क्षतजसंदृशं चन्दनरसं
मृणालैः क्रीडन्ती कुवलयपलाशैः सकमलैः ।
सलीलं भ्रूक्षेपैरनुगतसुखप्राश्निककथा
विरक्तारक्ता वा शिरसिरुजमाख्यति गणिका ॥ 36 ॥
किं ब्रवीषि-“सदापि नाम त्वं कर्कशपरिहासः । एष खलु तामौषधं प्रपाय्यागच्छामि” इति । युक्तमेतत् । असंशयं हि -
धून्वन्त्याः करपल्लवं वलयिनं घ्न्न्त्याः पदा कुट्टिमं
बिभ्रन्त्या(त्या)श्च्युतमंशुकं सरशनं नाभेरधः पाणिना ।
तस्या दीर्घतरीकृताक्षमपिबः केशग्रहैराननं
बाला त्वद्दशनच्छदौषधमलं सावा त्वया पायिता ॥ 37॥
किं ब्रवीषि-" वयस्य एव तथा विवास्यति" इति । चोर यदि न पुनरस्मात्रहस्येनावक्षेप्स्यसि । किन्त्वद्य सर्वविटैः सर्वविटमहत्तरस्य भट्टिजीमूतस्य गृहे केन चित्प्रयोजनेन सन्निपतितव्यम् । तद्वयस्योऽप्यहीनकालमागच्छेत् । किं व्रवीषि-“विदितमेवैतद्विटजनस्य यथा विष्णुनगप्रायश्चित्तदानायापराह्णे समागन्तव्यमिति । तद्गच्छतु भवान् । अहमप्यागच्छमि"इति । तथा नाम । स्वस्ति भवते । साधयामस्तावत् । (परिक्रम्य) कथमिदं सर्वविटैर्विदितम् । तेनह्यल्पपरिश्रमोऽस्मि संजातः । केवलं वेश्यासुत्सहृत्समागमैः कालोऽनुपलयितव्यः । अये कस्य खल्वयमहूणो हूणमण्डनमण्डितः आर्यघोटकः पाटलिपुत्रिकायाः पुष्पदास्या भवनद्वारामाविष्करोति । (निर्वर्ण्य) आ ज्ञातं एभिरिहावद्धश्वेतकाष्ठकार्णैकाप्रहसितकपोलदेशैर्बद्धकरैसज्जमप्यसकृत्सज्जमितिसांजलि प्रतिवादिभिर्लाटडिँडिभिः सूचितः सेनापतेः सेनकस्यापत्यरन्नं भट्टिमघवर्मा भविष्यति । तन्नशक्यमेन मनभिभाष्यातिक्रमितुम् । अतिक्रमन् हि स्त्रेहमाध्यस्थ्यं दर्शयेयम् । यावदेनमुपसर्पामि (उपेत्य) भोः कः सुहृद्गृहे (कर्णँ दत्वा) एष खलु भिट्टिमघवर्मा मामाह्वयति । किं ब्रवीषि
-“वयस्य किमद्याप्यपूर्वप्रतीहारोपस्थानेन चिरोत्सन्नो राजभावोऽस्मास्वाधीयते । स्थीयतां मुहूर्तम् । आगच्छामि” इति । सखे स्थितेऽस्मि । (विलोक्य) इव इतो भवान् । एष खलु पुलिनावतीर्णवृवभपदोद्धरणखेलैश्चरणपदविन्या सैर्भवनकक्ष्यामलं कुर्वान्नित एवभिवर्तते भट्टि अहो तु खल्पस्य विलासेऽवभ्या सः । वेशो विलास इत्युपपन्नमेतत् । अपि च -
विलोलभुजगामिना रुचिरपीवरांसोरसा
विलासचतुरभ्रुवा मुहुरपाङ्गविप्रेक्षिणा ।
अनेन हि नरेन्द्रसद्म विशता पदैर्मन्थरै -
रवीणममृदङ्गमेकनटनाटकं नाट्यते ॥ 38 ॥
** यावदेन मालपमि । भट्टिमघवर्मन् किमयमतिदिवाविहारेण सुहृज्जान उत्कण्ठ्यते । साधु मुहुर्तमपि तावद्युष्कद्दर्शनेनानुगृह्येत । एष खलु विहसन्नाकुलापसव्यपरिधानं श्वासविषमिताक्षरं स्वागतमित्यंजलिनाभ्युपैति । भो यदैतावदनेनाद्यैव पुष्पवतीति मह्यमाख्वाता,तथापि कथमुपभुक्तैव । (विचिन्त्य) लाटडिंडिनो नामैते नातिभिन्नाः पिशाचेभ्यः कुतः ? सर्वोहि लाटः
नग्नः स्त्रति महाजनेँऽभसि सदा नेनेक्ति वासः स्वयं
केशानाकुलयत्यधौतचरणः शय्यां समाक्रामति ।
यत्तभ्दक्षयति व्रजन्नपि पथा धत्ते पटं पाटितं
छिद्रेचापि सकृत्प्रहृत्य सहसा लाट(लोल) श्चिरं कत्थते ॥ 39 ॥
सर्वथा कृतमनेन स्वदेशौपयिकम् । मातावभ्दोः -
अविचिन्त्य फलं वल्यास्त्वया पुष्पवधः कृतः ।
किं ब्रवीषि-“कथं” इति ।
इदं हि रजसाध्वस्तमुत्तरीयं विलोक्यताम्
किं ब्रवीषि -” शय्यान्तावलंबितं तांबूलावसिक्तमेतदवगच्छामि" इति । मातावत् । इदं क्षुद्रमुक्ताफलावकीर्णमिव ललाटं स्वेदबिन्दुभिः किमिति वक्ष्यति । एष पार्श्वमपधायोच्वैः प्रहासतः । हण्डे जघन्यकामुक कथमनायाच्छलितः । किं ब्रवीषि -“कः च्छलितो नाम, ननु गृहीतोऽस्मि । श्रूयताम् । साहि _
विपुलतरललाटा संयताग्रलकत्वात्
रुचिरजघनभारा वाससार्धौरुकेण ।
विवृततनुरपोढप्रागलंकारभारा
कथय कथ मगम्या पुष्पिता स्त्री लता स्यात् ॥ 40 ॥
अपि च, श्रोतुमर्हति भवान् -
पार्श्वावर्त्तितलोचना नखपदान्यालोकयन्ती मया
दृष्ट चेषदवाङ्मुखी स्वभवनप्रत्यातपेऽवस्थिता ।
संगृह्याथ करद्वयेन कठिनावुत्कंपमानौ स्तनौ
प्रविश्यान्तरगारमर्गलवता द्वारं करेणा वृणोत् ॥ 41 ॥
ततोऽहमनुद्रुतं प्रविश्य -
कचनिग्रहदीर्ग्घलोचनांरभसावर्तितवल्गितस्तनीँ ।
किमसीतिनहीतिवादिनीँ समचुंबु सहसा विलासिनीँ” ॥ इति ।
भोः चित्रः खलु प्रस्तावः । पृच्छामस्तावदेनां । ततस्ततः । किँ ब्रवीषि -" अथ सखे
समुपस्थितस्य जघनं रशनात्यागाद्विविक्ततरबिँबम् ।
पाणिभ्यां व्रीलितया निमीलिते मेऽनया नयने" इति ॥ 42 ॥
ही धिक्त्वामस्तु । अविकत्थन उद्वेजनीयोह्यसि। निन्द्यश्चर्यजनस्य संवृत्त । किँ ब्रवीषि- एव मप्यनुगृहीतोऽस्मि । न त्वया महाभारते श्रुतपूर्वँ-
यस्यामित्रा न बहवो यस्मान्नोद्विजते जनः ।
यं समेत्य न निन्दन्ति स पार्थ पुरुषाधमः ॥ इति 43 ॥
भो एतत्खलु डिण्डित्वं नाम । सर्वथापि साधु भोः प्रीतोऽस्मि भवतोऽनेनडिण्डित्वेन । सर्वथा विटेष्वाधिराज्यमर्हासि । अयमिदानीमाशीर्वादः
किं ब्रवीषि" अवहितोऽस्मि" इति । श्रूयताम् ॥
प्रभातमवगम्य पृष्ठमुपगृह्य सुप्तस्य ते
प्रगल्भमधिरुह्य पार्श्वमपवाससैकोरुणा ।
तथैव हि कचग्रहेण परिवृत्य वक्त्राम्बुजं
पिबत्वथ च पाययत्वधरमात्मनस्त्वां प्रिया ॥ 44 ॥
एष खलवनुगृहीतोऽस्मीत्युक्तवा पलायते नमोऽस्तुभगवते । साधयामास्त्वावत् ॥(परिक्रम्य)
अये का नु खल्वेषा स्वभवनावलोकन मप्सरा विमानमिवालङ्करोति ॥ एष हि सा काशीनां वारमुख्य पराक्रमिका नाम सुखमतिपिञ्छोलया क्रीडन्ती रूपलावण्यविभ्रमैर्लौचनमनुगृह्णाति । आश्चर्यम् ॥
विरचितकुचभारा हेमवैकक्ष्यकेण
स्फुटविवृतनिम्बा वाससार्धौरुकेण ।
विचरति चलयन्ती कामिनां चित्तमेषा
किसलयमिव लोला चञ्चलं वेशवल्या ॥ 45 ॥
अपि च,
गण्डान्तागलितैककुण्डलमणिच्छायानुलिप्तानना
मन्वभ्यस्ततया हिकारपिशुनैः श्वसैरवाक्तालुभिः ।
पिञ्चोलामधरे निवेश्य मधुरामावादयन्तीमिमां
गण्डूकस्वनशङ्कितो गृहशिखी पर्यैति वक्राननः ॥46 ॥
किंनु खल्वस्या उदवसितदिन्द्रस्वामिनो रहस्यसचिवो हिरण्यगर्मको निष्पत्य इत एवभिवर्तते । किमत्राश्चर्यम् । इन्द्रस्वामी हिरण्यगर्भको वेश इति संहितमिदं तप्तं तप्तेनेति। एष मामज्जलिनोपसर्पति । हण्डे हिरण्यगर्भक किमिदं वेशदेवायतनमपरान्तपिशाचैर्विध्वंसयितुमिष्यते ? किँ ब्रवीपि " एष खलु स्वामिनोऽस्मि विदेशरागेणैवं धुरि नियुक्तः । एषा हि पूर्वँ पञ्चसुवर्णशतानि गणयति । अधुना सहस्त्रेणाप्युपनिमन्त्रितापि विनियुज्यमाना नैवशक्यते तीर्थमवतारयितुम् । तदर्हसि त्वमपि तावदेनां गमायितुम्" इति ॥
अत्यार्जवः खल्वसि । न हि शतसहस्त्रेणापि प्राणा लभ्यन्ते । किँ ब्रवीषि । “किञ्चास्याः प्राणसन्देहे कारणमस्मासु पश्यसि” इति । आविष्कृतं हि तत्रभवत्या भर्तृस्वामिनश्चामरग्राहिण्या कुटङ्गदास्या स्वामिनः संसर्गात्तथाभूतं व्यसनमनुभूतम् । किं ब्रवीषि । “आलभस्व तावदिदं शरीरम् । सत्यमेवेदम्” इति । असत्येन न स्वामिनमेवं ब्रूयात् ॥
किं ब्रवीषि" चिराभ्यस्तमेवेदमस्मत्स्वामिपादानाम्" इति । अत एव न शक्यमन्यथाकारयितुं, नचैतदेवं,पश्यतु भवान् ॥
काव्ये गान्धर्व नृत्तशास्त्रे विधिज्ञं
दक्षं दातारं दक्षिणं दाक्षिणात्यम् ।
वेश्या का नेच्छेत्स्वामिनं कोङ्कणानां
स्याच्चेदस्य स्त्रीष्वार्जवात्सन्निपातः ॥ 47 ॥
अपि च
साञ्चारयन्कलभकं गजनर्तकं वा
वेश्याङ्गणेषु भगदत्त इवेन्द्रदत्तम् ।
उद्वीक्ष्यते स्ताननिविष्टकराम्बुजाभि-
र्व्याघ्रो मृगीभिरिव वारविलासिनीभिः ॥ 48 ॥
अपिचैषा भर्तुर्नौऽधिराजस्य स्यालं पारशवं कौशिकं सिंहवर्माणं मित्रमपदिशन्ती सर्वान्कामिनः प्रत्याख्यानेन व्रीलयति। किं ब्रवीषि"तस्यैषातिकामितयावमन्यते" इति । युष्मद्देशौपयिकमेव किलसततमतिसेवनम् ॥
किं ब्रवीषि" देशौपयिकमदेशौपयिकमिति नावगच्छामि । विस्पष्टम भिधीयताम् “इति ॥
एवमनुगृहीतः कथं न कथयिष्यामि । श्रूयताम् -
श्रवणनिकटजैर्न्नखावपातैः
वनगजदम्य इवाङिकतः प्रतोदैः ।
विवृतजघनभूषणां विवस्त्रां
वृष इव वत्सतरीमिहोपयाति ॥ 49 ॥
किं ब्रवीषि” तेन ह्यनेनैवोपायनेनोपस्थास्यामि" इति ॥
यद्येवमिन्द्रस्वामी विज्ञाप्यः -
दशनमण्डलचित्रककुन्दरां
दयितमाल्यनिवासितमेखलाम् ।
त्वदपरं प्रति सा जघनस्थलीँ
न विवृणोति वृतापि शतं शतैः ॥ 50 ॥
स्वस्ति भवते । साधयामस्तावत् (परिक्रम्य)
अये कोनु खल्वेषः शौर्पकारिकायाः शमदास्या भवन न्निषात्य डिण्डि गणपरिवृतो वेशमविष्कारोति । (विलोक्य) ॥ एतज्जङ्गमं विटतीर्थमुदीच्यानां बाह्लीकानां कारूशमलदानां चेश्वेरो म हाप्रतीहारो भद्रायु एषः ॥
विरचितकुन्तलमौलिः श्रवणर्पितकाष्ठविपुलसितकलशः ।
जनमालपञ्जकारैरुन्नाटयतीव लाटानाम् ॥ 51 ॥
का च तावादस्य लाटेषु साधुदृष्टिः एतावत् । सर्वो हि लाटः
संवेष्ट्याद्वावुत्तरीयेण बाहू
रज्वा मध्यं वाससा सन्निबध्य ।
प्रत्युद्गव्छन् संमुखीनः शकारैः
पादापातैरंसकुब्जः प्रयाति ॥ 52 ॥
अपि च
उरसि कृतकपोतकः कराभ्यां
वदति जजेति यकारहीनमुच्चैः ।
समयुगलनिबद्धमध्यदेशो
व्रजति च पङ्कमिव स्पृशक्रराग्रैः ॥ 53 ॥
सर्वँथा नास्त्यपिशाचमैश्वर्यँ । अथावास्यैवैकस्य देशान्तरविहारो युतः । कुतः ? ॥
येनापरान्तशकमालवभूपतीनां
कृत्वा शिरस्सु चरणौ चरता यथेष्टम् ।
कलेऽभ्युपेत्य जननीँ जननीँ च गङ्गां
आविष्कृता मगधराजकुलस्य लक्ष्मीः ॥ 54 ॥
अपि च,
वेलानिलैर्भृदुभिराकुलितालकान्ता
गायन्ति यस्य चरितान्यपरान्तकान्ताः ।
उत्काण्ठिताः समवलंब्य लतास्तरूणां
हिन्तालमालिषु तटेषु महार्णवस्य ॥ 55 ॥
किंतद्गीतम्
उहि माणुसोत्ति भदृउहेण ण विलिच्चइ आउहे असो ण्णारितस्सकम्मसिर्द्धि विघ सुखलु भुजंति सोकरसिद्विँ ॥ इति ।
(परिक्रम्य)
एषः खलु प्रद्युभ्रदेवायतनस्य वैजयन्तीमाभिलिखति । एतङ्ङिण्डित्वं नाम भोः डिण्डिनो हि नामैते नातिविप्रकृष्टा वानरेभ्यः । भोः किञ्च तावदस्य डिण्डिकेषु प्रियत्वम् । डिण्डिनो हि नाम -
आलेख्यमात्मलिखिभिर्गमयन्ति नाशं
सौधेषु कूर्चकमषीमलमर्पयन्ति ।
आदाय तीक्ष्णतरधारमयोविकारं
प्रासादभूमिषु धुणक्रियया चरन्ति ॥ 56 ॥
कि ञ्चतावादयं लिखति (विलोक्य)
निरपेक्ष इति । स्थाने खल्वस्येदं नाम । सुष्टु खल्विदमुच्यते अर्थँ नाम शीलस्यापहरतीति । तथा ह्येष धान्त्रस्तां नः प्रियसखीमनवेक्षया वेशतापसीव्रतेन कर्शयति । सा हि तपस्विनी -
नेत्राम्बु पक्ष्मभिररालघनासिताग्रैः
नेत्राम्बुधौतवलयेन करेण वक्त्रम् ।
शोकं गुरुं च हृदयेन समं बिभर्ति
त्रीणि त्रिधा त्रिवालिजिह्नितरोमराजिः ॥ 57 ॥
तदुपालप्स्ये तावदेनम् । भो भागवन्निरपेक्ष करुणात्मकस्य भवतो मैत्रीमादाय वर्तमानस्य त्वयि मुद्रितायां योषिति युक्तमुपेक्षाविहारित्वम् ?
किं ब्रवीषि" गृहीतो वञ्चितकस्यार्थः । स्पृष्टोऽस्म्युपासकत्वेन । ईदृशः संसारथम्र इत्युक्तं तथागतेन" इति । मा तावभ्दोः । तस्यामेव भगवतस्तथागतस्य वचनं प्रमाणं नान्यत्र ॥
किँब्रवीषि" कुत्र वा कदा वा मम तथागतस्य वचनमप्रमाणम्" इति ॥ इयं प्रतिज्ञा ? किँ ब्रवीषि"कः सन्देहः" इति । भद्रमुख श्रूयताम् -
श्रमनिस्सृतजिह्वमुन्मुखं
हृदि निस्सङ्गनिखातसायकम् ।
समवेक्ष्य मृगं तथागतं
स्मरसि त्वं मृगं तथागतम् ॥ 58 ॥
एष प्रहस्तिः । किं ब्रवीषि" न खलु तथागतशासनं शङ्कितव्यम् । अन्यद्धि शास्त्रमन्यथा पुरुषप्रकृतिः न वयं वीतरागाः" इति । यद्ये वमर्हति भवांस्तत्रभवतीँ राधिकां तथाभूतां शोकसागरादुद्धर्तुम् । किं ब्रवीषि"यदाज्ञापयति वयस्योऽयमञ्जलिः साधुमुच्येयम्"इति । सर्वथा दुर्लभस्ते मोक्षः किन्त्वियमाशीः प्रतिगृह्यताम् ॥
विप्रोष्यागत उत्सुकामवनतामुत्सङ्गमारोपय
स्कन्धे वक्त्रमुपोपधाय रुदतीँ भूयस्समाश्वासय ।
आबद्धां महिषीविषाणविषमामुन्मुच्य वेणीँ ततो
लंबं लोचनतोयशौण्डमलकं छिन्धि प्रियायाः स्वयम्
एष प्रहस्य गतः । इतो वयम् (परिक्रम्य) अये कोनु खल्वेष इत एवाभिवर्तते ॥
दुश्चीवरावयवसंवृतगुह्यदेशो
बस्ताननः कपिलरोमशपीवरांसः ।
आयाति मूलकमदन् कपिपिङ्गलाक्षो
दाशेरको यदि न नूनमयं पिशाचः ॥ 60 ॥
भवतु,विज्ञातम् “एष खलु भ्रातुरथवा वयस्यस्य तत्रभवतो दाशेरकाधिपतेरपत्यरत्रस्य गुप्तकुलस्यावासे दृष्टपूर्वः, तत् किमस्येह प्रयोजनम् ? एषमां कृताञ्जलिरुपसर्पति । किं ब्रवीषि ?‘गुप्तकुलेण पेक्खसि ओवाररिदपणपञ्चदिच्चु गणिका कावि किदेप्पयतित्ति इतप्पुं आणा दिह्णाणुपरोखीथीएअषेष आउंणि काचि गणिका ए दीषइतहम्मि तष्ष अदीएतेणय्यं समंल्लेँतोणिय्युदिष्ष ए अम्बाए मेषापितं तुर्यमर्थकेण दाणिकाकमुप्पूलिद अष्षेण कुलंधित्थेव कामाण अष्षे जइ गच्छामि विषक्वहे दण्डितुं होमिरिदिवशाविषु एक एवंति” अहो देशवेष भाषादाक्षिण्यसम्पदुपेतो गुप्तकुलस्य युवराजस्य मदनदूतो वेश एव वर्तमानो वेशमापणमिधानेन पृच्छति । तत्र शक्यमीटृशं रत्नमवबोध्यविनाशयितुम् । इदृर्श एवास्तु ।एवं तावदेनं वक्ष्ये । भद्र राजवीथ्यां लावणिकापणेषु मृग्यतां गणिका । एष प्रहर्षात् प्रणिपत्य गतः । इतो वयम । (परिक्रम्प)क्वनु खल्विदानीँ दाशेकदर्शनावधूतं चक्षुः प्रक्षालयेयं (विलोक्य) भवत, दृष्टम् । एतद्धि तदस्माकं पूर्वप्रणयिन्याः शूरसेनसुन्दर्या निवेशन । कथमपावृतपक्षद्वारमेव । यावदेतत् प्रविशामि । (प्रविष्टकेन) क्वन खल्विमं पादप्रचारश्रममपनयेयं । भवतु, दृष्टं। इयं खलु ग्रियंगुवीथिका पियेवोत्सङ्गेनशिलातलेन मामुपनिमन्त्रयते । यावदत्रोपविशामि । (विलोक्य) किमिहाभिलिखितम् ॥ (वाचयति)
सखि प्रथमसङ्गमे न कलहास्पदं विद्यते
नचास्य विमनस्कता मश्रृणवं नवा कल्यताम् ।
युवान मभिसृत्यं तं चिरमनोर थप्रार्थितं॥
किमस्यमृदितांगरागरचना तथैवागता ॥ इति । 61॥
(विचिन्त्य) कस्याश्चित् खल्वियं केनापि प्रत्याख्यातप्रणयाया दौर्भाग्यघोषणा घुष्यते । तत् कंनु खलु पृच्छेयं ? (कर्णंदत्वा ) अये इयं चरणाभरणशब्दसूचिता शूरसेनसुन्दगीत एवाभिवर्तते । यैषा -
आलंब्यैकेन कान्तं किसलयमृदुना पाणिना छत्रदण्डं
सगृह्यौकेन नीवीँ चलमणिरशनां भ्रश्यमनांशुकान्ता ।
आयात्यभ्युत्स्मयन्ती ज्वलिततरवपुर्भुषणानां प्रभाभिः
सज्योतिष्का सचन्द्रा सविहगविरुता शर्वरीदेवतेव ॥ 62 ॥
भो यत्सयमभ्युत्थापयतीव मामप्यस्यास्तेजस्विता । एषा मां कपोतकेनोपसर्पति । अलमस्मानुपचारेण प्रत्यादेष्टुम् । किमाह भवती ? “चिरादपि तावन् स्वमिनामुपगतानामुपचारेण तावदयं जन आत्मानमनुगृह्णीयात् " इति । अलमलमत्युपालम्भेन । इदमुचितमुत्सङ्गासनमनुगृह्यताम् । एषा मे शिरसा प्रतिगृहीतं इत्युक्तवा शिलातलार्घँ श्रोणीबिँबेनाक्षिपन्तीवोपविशत्ति । अये न खल्वत्रोपवेष्टव्यम् । कि माह भवती ? ‘किमर्थँ’ इति । नन्विदं कस्या अपि चरितं केनापि प्रत्यख्यातप्रणयायाः श्लोकसंज्ञकमयशोऽस्माभिर्दृष्टम् । (कथं हस्ताभ्यां प्रमाष्टि) चोरि न शक्यमिदं प्रमाष्टुम् । इदं हि मे हृदिलिखितम् एषा किं वारयति ? किमाह भवती । ‘जानीत एवास्मत्स्वामीयथास्मत्सख्या कुसुमावतिकायाः प्रियवस्यं चित्राचार्यँ शिवस्वामिनं प्रति माहान् मदनोन्मादः’ इति । सुष्टु जानीमः, किञ्च तत्रभवन्या कुसुमावतिकया तत्रभवानभिगमनेननुगुहीतः । किमाह भवती ? ‘मदनविक्लबस्य स्त्रीहृयस्यायं स्वभावः, कृतमनया स्त्रीचापल्यं’ इति। चित्रः खलु प्रस्तावः, पृच्छामस्तावदेनाम् । भवति विस्त्रं भः पृच्छति, न पररहस्यकुतूहलिता । ततू कयमनयोश्चिराभिलषितसमागमोत्सवो निर्व्वृत्तोऽभूत् ? किमाहभवती ? “श्रूयतां " इति । अवहितोऽस्मि । किमाहभवती ? “तस्यां किल वारुणीमदलक्षेण तत्रभवन्तमनुगृहीतायां तत्रभवतोवयस्यस्य
गतः पूर्वो यामः श्रुतिविरसया मल्लकथया
द्वितीयो विक्षिप्तः पललगुडबाह्यव्यतिकरैः ।
तृतीयो गात्राणामुपचयकथाभिर्विगलितः
ततस्तान्निर्व्वृत्तं कथयितुमलंत्वघ्यपियत् ॥ 63 ॥ इति ।**
सुन्दरि कुतस्त्वयैतदुपलब्धं ? ।कमाहभवती ? “तस्यैव सख्युरुदवसितादागतात् प्रतीहारपद्मपालदुपलब्धवृतान्तया मयैषश्लोकः सुखप्राश्रिकहस्तेनानुप्रेषितः । ततः सातेनैव परिचारकेण मामुपास्थिता लज्जाविलक्षमुपहसन्तीव मामुक्तवती - नच रहस्यानाख्यानेन भवतीमाक्षेप्तुमर्हामि, श्रूयतामिदमपूर्वँ -इति । ततोऽनयायथावृत्तं सर्वँ मह्यमाख्यातम् । तेन हि त्वमप्यनेन श्रोत्रामृतेन संविभक्ततुमर्हासि” इति । एषा सतलघातं प्रहस्य कथयति । सुन्दरि किं ब्रवीषि ? “श्रूयतामिदभिदानीँ यन्मम प्रियसख्या कथितम् । सा हि मामुक्तवती -प्रियसखि स हि मया -
आलिङ्गितोऽपि स मया परिचुंबितोऽपि
श्रोण्यर्पितोऽपि करजैरुपचोदितोऽपि ।
खिन्नास्मि दार्विव यदा न स मामुपैति
शय्याङ्गमेकमुपगूह्य ततोऽस्मि सुप्ता ॥ 64 ॥ इति ।
ततो मयोक्ता- कृच्छ्रं बतानुभूतवत्यसि । किमेतन्नावगच्छामि इति । ततो निश्वस्य मामुक्तवती -
यदा सर्वोपायैश्चटुभिरुपयातोऽपि स मया
न यत्रं कुर्वाणो मयि मनसिजेच्छामलभत ।
ततस्तस्मिन्सर्वप्रतिहतविधानस्मि सहसा
स्वदौर्भाग्यं मत्वा स्तनतटविकम्पं प्ररुदिता ॥ 65 ॥
ततस्समां रुदतीमुत्सङ्गमारोप्य मुहुर्मुहुर्व्यर्थेश्चुंबनपरिष्वंगैराश्वासयन्नाम दृढमात्मानमायासितवान् । उक्तं च मया -किं ते पाणिभ्यां स्पृष्टया- इति । ततो व्रीलञ्चितसाध्वसस्वेदवेपथुः शुष्यता मुखेन नातिप्रगल्भाक्षरमुक्तवान्-
न निन्दितुमनिन्दिते सुभगतां निजामर्हासि
च्युतं हि मम चक्षुरेतदाभितो निधिँ पश्यतः ।
वधाय किल मेदसो यदपिबं पुरा गुग्गुलुं
तदेतदुपहन्ति मे व्यतिकरामृतं त्वद्गतम् ॥ इति ॥ 66 ॥
ततो मया चिन्तिम् -
मेद क्षयायपीतोयदिगुग्गुलुरिन्द्रियक्षयं कुरुते ।
धूपार्त्थोऽपिनकार्यो गुग्गुलुना कमयमानेन् (?) ॥ इति । 67 ॥
एवमावयोश्चिरप्रर्थितमपार्थकं समागपनं प्राप्तकालमिच्छतोः,
रजनीव्यपयानसूचकोनृपतेर्न्दन्दुभिपारिपार्श्वकः ।
अपठत्स्तुतिमङ्गलान्यलंसहिघंटामभिहत्यघांटिकः ॥ 68 ॥
ततस्तेनैव दक्षिणेनेव सुहृदा तस्मात् सङ्कटात्परिमोचिता कामिना सव्रीलं मुहूर्तमनुगम्य प्रेषिता। स्वगृहमागता च त्वया च सुखप्राश्रिकाभिधानेनोपहसितास्मि । तदेतत्ते सर्वमशेषतः कथितम् । अहमिदानीँ मिथ्या प्रजागरं दिवास्वप्नेनापनेष्यामीत्युक्तवा मयानुज्ञाता । तदनन्तरागतेन स्वामिनाप्येतच्छ्रुतम “इति । तेनह्यनेनैव परिहासप्ल वेन तत्रभवतः शिवदत्तस्य पुत्रं शिवस्वामिनं पुरुषडंभगंभीरकीर्तिसगारमवगाहिष्ये । पश्यतु भवती -
यो गुग्गुलुं पिबति मेदसि संप्रवृद्धे
तस्य क्षयं व्रजति चण्ड्यचिरेण मेदः ।
स्त्रीणां भवत्यथ स यौवनशालिनीनां
अलेख्ययक्ष इव दर्शनमात्ररम्वः ॥ 69 ॥
एषा प्रहस्योत्थिता- यास्यामि - इति । भवत्वलमञ्जलिना । इतो वयम् । (परिक्रम्त)
किं नु खल्विमान्युद्दण्डपुण्डरीकवनषण्डशोभानुकारीण्युद्ग्रीववदनपुण्डरीकाणि विस्मयवितताक्षमालशबलानि उरसिनिहितकरपल्लवान्यन्योन्यसंज्ञापरिवृत्तकानि निवृत्तकन्दुकपिञ्जोलाकृतकपुत्रकदुहितृकाक्रीडनकानि वेशरथ्याया प्रतिभवनच्छासु वेशकन्यकाबृन्दकान्यवलोकयन्ति ? अये किं नु खल्विदम् ॥
अरञ्जरमिदं लुठत्यथ दृतिः समाकृष्यते
कबन्धमिदमुत्थितं व्रजतिकिं कुसूलद्वयं ।
भवेत् किमिदमदभुतं भवतु सांप्रतं लक्षितं
तदेतदुपगुप्तसंज्ञमुदरं समुत्सर्पति । (?)
भोः सुष्ठु खल्विदमुच्यते धूर्तपरिषत्सु -
करभोगैर्गुप्तगलोहरिकृष्णः कृष्णएषवनमेषः ।
गोमहिषोहरिभूतिर्दृतिगुप्तोऽनिलाध्मातः । (?) इति ।
कथं नु तावदिमं सा तपस्विनी गङ्गायमुनयोश्चामरग्रहिणी पुस्तकवाचिका मदयन्ती प्रियवयस्यं नस्तत्र भवन्तं त्रैविद्यवृद्धं पुस्तकवाचकमुत्सृज्योपगुप्तमनुरक्ता ? तथा चास्य कोमलाभ्यां भुजाभ्यां परिष्वज्यते । अथवा न तस्याः परिष्वङ्गेन प्रयोजनम् । साहि तपस्विनी निवृत्तकामतन्त्रा रजोपरोधात् केवलं कुटुंबतन्त्रार्थं शब्दकाममनुवर्तते । गम्यश्चायमस्याः । ‘अपुमान् शब्दकामः” इति दात्तकीयाः । (विलोक्य) किञ्च तावदयमविग्न इव । आ ज्ञातम् । तस्या एव मात्रा पणार्थमधिकरणायाकृष्यत इति वेशे मयोपलब्धम् । ततः श्वश्वा सह कृतविवादेनानेन भवितव्यम् । महदिदं परिहासवस्तु । न शक्यमस्यातिक्रमाणादात्मानं वञ्चयितुम् । यावदेनमुपसर्पामि । (उपेत्य) हण्डे वेशवीथीयक्ष कुतो भवान् । एष पादचारखेदात् काकोछ्वासश्रमविषमिताक्षरं -अयम़ञ्जलिः - इत्युक्तवा स्थिताः । स्वस्ति भवते । किं ब्रवीषि ? “एष खलु तया वृद्धपुंश्चल्या सह विवादार्थं गत्वा कुमारामात्याधिकरणादागच्छामि” इति । कथं भवन्तं जयेन वर्धयामः, उताहोस्वित् दण्डसाहाय्येन संभावयाम ? किमाह भवान् ? “कुतो जयदण्डाभ्यां सह संयोग,केवलं क्लेशोऽनुभूयते” इति । कस्मात् ? किं ब्रवीषि ?
प्रध्यातिर्विष्णुदासो भ्रात्रा किल तर्जितोऽस्मि कोङ्केन ।
क्तेनभिहतोऽहं क्रोशति विष्णुः स्वपिति चात्र ॥ अपिच,
मृगयन्ते तदधिकृता मृगयन्ते पुस्तपालकायस्थाः ।
काष्ठकमहत्तरैरपि विधृतोऽस्मि चिरं मृगयमाणैः ॥ 70 ॥
अपिच ततो मयावधृतम् ।
गणिकायाः कायस्थान् कायस्थेभ्य श्च विमृशतो गणिकाः ।
गणिकायै दातव्यं रतिरपि तावत् भवत्यस्यां ॥ 71 ॥ इति ।
दिष्ट्या कायस्थवागुरादतीतं भवन्तमक्षतं पश्यामि । सर्वथा प्रतिबुद्धोऽसि । इदानीमियमाशीः -
कलमधुररक्तकण्ठी शयने मदिरालसा समदना च ।
वक्त्रापरवक्त्राभ्यामुपतिष्ठतु वारमुख्या त्वां ॥ 72 ॥
एष सतलघातं प्रहस्य प्रस्थितः । इतो वयं (परिक्रम्य) अये अयमपरः -
स्त्रस्तेष्वङ्गेष्वाढकान् लाटभक्तया
दत्वा चित्रान् कोऽयमायाति मत्तः ।
विभ्रान्त्ताक्षो गण्डविच्छिन्नहासो
वेशस्वर्गँ किँ कृतेऽयं प्रविष्ट ॥ 73 ॥ भवतु, विज्ञातम् ।
शर्कँरपालस्य गृहे जातः कीरेण चर्मकारेण ।
एष खलु कोङ्कचेट्यां पिशाचिकायां तृणपिशाचः ॥ 74 ॥
अपि च,
शर्करपालंपितरं व्यपदिशति भ्रातरञ्च निरपेक्षम् ।
प्रायेण दौष्कुलेयाः सहैव दंभेन जायन्ते ॥ 75 ॥
(परिक्रम्य) भोः किं नु खलु पृच्छेयम् ? -किमस्य वेशप्रवेशे प्रयोजनं -इति । अये अयंजरद्विटो भट्टिरविटत्त इत एवभिवर्तते । यावदेनं पृच्छामि । अंघो भद्टिरविदत्त कञ्चिज्जानीते भवानस्य पुरुषवेतालस्य वेशप्रवेशप्रयोजनम् ? किं ब्रवीषि ? “भवनेव जानीते” इति । तद्गच्छतु भवान् (परिक्रम्य) क्वनु खल्विदं पुरुषकान्तारावगाहश्रान्तं मनो विनोदयेयम् । भवतु दृष्टम् ॥
इदमपरं प्रियसुहृदः सुहृभ्दयादर्पितार्गलं भवनम् ।
वेश्यासुरतविमर्दैष्कृतविरामस्य रामस्य ॥ 76 ॥
तत्कथं प्रविशामि(कर्ण दत्वा)
यथाकाञ्ची शव्दश्चरतिविकलोनू पुररवैः
यथा मुष्ट्याघातः पतति वलयोद्घातपिशुनः ।
यथा निश्शूत्कारं श्वसितमपि चान्तर्गृहगतं
ध्रुवं रामा रामं युवतिविपरीतं रमयति ॥ 77॥?
तदलमिह प्रविष्टकेन । कः सुरतरथाक्षभङ्गं करिष्यति ? इतो वयम् । (परिक्रम्य) अये अपरः -
दग्धः शाल्मलिवृक्षः कतिपयविटपाग्रशेषतनुशाखः ।
कृष्णः कृशो विटबको वेशनलिन्या मरुपिशाचः ॥ 78 ॥
भवतु, विज्ञातम् । एष हि सौरपरस्तौण्डिकोकिः सूर्यनागः । ततः किमिहास्य प्रयोजनम् ?कथमेष मां दृषट्वैवोत्तरीयावकुण्ठनेन मुखमपवार्य कामदेवायतनमपसव्यं कृत्वा प्रस्थितः। भो यदातावदद्य तृतीयेऽहनि बहिश्शिविके कुटङ्कागारनिकेतनाभिः पताकावेश्याभिः संप्रयुक्तो म्लेच्छश्वबन्धकैर्व्यवहारार्थँ श्रावणिकैरधिकरणमुपनीयमानः स्कन्धकीर्तिना बलदर्शकेन स्वमिनो मे विष्णोः स्यालीपतिरिति कृत्वा कृचछ्रात्प्रमोचित इति वयस्यविष्णुनागेन कथितम् । तत्किमयमिदानीमस्माद्वेशसंसर्गात् व्रीलित इवात्मानं परिहरति । (विचिन्त्य) पार्थिवकुमारसन्निकर्ष एनमनया प्रवृत्या व्रीलयति । आश्चर्यम् ! गुण वान खलु गुणवतां सन्निकर्षः । यदयमपि नामैवं गुणाभिमुखः । तन्न शक्यमेनमप्रत्यभिज्ञानेन सकामं कर्तुम । यावदहमप्ययनं प्रदक्षिणीकुर्वन्नामसंमुखीनमेनं परिहासावस्कन्देन हन्मि । (परिक्रम्य) एष मां प्रतिमुखमेवावलोक्य प्रतिहतितः । हण्डे सूर्यनाग किमयं वेशनवावतारोऽधकारनृत्तमिव सुहृदवक्षेपेण विफलीक्रियते ? किं ब्रवीषि ? “क इव ममेहार्थः? अहं हि कामायामवरुद्धस्य मातुलस्य मौद्गल्यस्य पाराशवस्य हरिदतस्य पूर्वप्रणयिनीमकल्यरूपामद्य वार्ताँ पृच्छंस्तेनैव प्रहितोऽस्मि । त्वं तु मां कथमप्यवगच्छासि” इति । आश्चर्यमिदं हि - भवतः सुहृव्द्यापारेषु स्थैर्यँ, तस्याश्च वारमुख्ययाः पूर्वप्रणयिष्वापद्गतेष्वपि प्रतिपत्तिश्च । अतश्चैनां -
वर्णानुरूपोज्वलचारुवेषां लक्ष्मीवालेख्यपटे निविष्टाम् ।
सापह्नवां कामिषु कामवन्तोऽरूपां विरूपामपि कामयतेन॥ 79 ॥
किञ्च, अतिदुष्करकारिणीञ्चैनामवगच्छामि । कुतः ? असंशयं हि सा -
कारानिरोधादविकारगौरं देवार्चनाजातकिणं ललाठे ।
आस्यं बृहच्छमश्रुविताननद्धं कालास्थिनिर्भ्रुग्नमिवावलेढि ॥ 80 ॥
किमाह भवान् ?“अत एवस्माकमस्यामादरः"इति। भवत्वेवम् । सुहृदनुरक्तं भवन्तं ख्यापयामो वयम् । एष खलु - प्रसीदतु स्वामी - इति पादभूलयोरुपगृह्णाति । किं ब्रवीषि ? " नार्हति स्वामीममैव वेशप्रवेशं क्वचिदपि प्रकाशीकर्तु” इति । भो वयस्य कश्चान्द्रोदयं प्रकाशयति ? ननु यदैव भवांस्तत्र भवत्या रूपदास्याः परिचारिकां कुब्जां प्रति बद्धमदनानुरागस्तदैवैतस्मिन् प्रदेशे उदकतैलबिन्दुवृत्या विकसितं यशः । मातावत् भोः -
परिष्वक्ता वक्षः क्षिपति गडुना याति बृहता
त्रिके भुग्नानेष्टे जघनमुपाधातुं समदना ।
सरूपा टिट्टिभ्यां गवति शयिता या च शयने
कथं त्वं तां कुब्जामवनतमुखाब्जां रमयसि ? ॥ 81 ॥
किं ब्रवीषि ? “शान्तं पापं शान्तं पापं, प्रतिहतमनिष्टम् । स्वगतमन्वाख्यानाय । पश्य तु भवान् -
सविभ्रान्तैर्यातैः करभललितं या प्रकुरुते
मुहुर्विक्षिप्ताभ्यां जलमिव भुजाभ्यां तरति या ।
मुखस्योत्तानत्वाद्गगन इव तारा गणयति
स्पृशेत् कस्तां प्राज्ञाः कृमिजनितरोगामिव लताम् ?” ॥ इति ।
अहो धिक्कष्टमेवं धर्मज्ञस्य भवतो न युक्तमुपयुक्तस्त्रीनिन्दां कर्तुम । अपि च, -
यद्यपि वयस्य कुब्जा नालीनलिकाकृशा च गुहुला च ।
असतामिव संप्रीतिर्मुखम(?) रणीया भवति यावत् ॥ 83 ॥
न चेयं ताभ्योऽरण्यवासिनीभ्यः पताकावेश्याभ्यः पापीयसी । किं ब्रवीषि ? “काभ्य"इति । कथं न जानीषे -
यास्त्वं मत्ताः काकिणीमात्रपण्याः
नीचैर्गम्याः सोपचारैर्नियम्याः ।
लोकैश्छन्नं काममिच्छन् प्रकामं
कामोद्रेकात् कामिनीऽर्यास्यरण्ये ॥ 84 ॥
किं ब्रवीषि ? “कुतस्त्वयैतदुपलब्ध” इति । सहस्त्रचक्षुषो वयमीदृ शेषु प्रयोजनेषु । अपि च, पदात्पदमारोक्ष्यति भवान् -
त्यक्तवा रूपाजीवां यस्त्वं कुब्जां वयस्य कामयसे ।
कुब्जामपि हि त्यक्तवा गन्तासि स्वामिनीमस्याः ॥ 85 ॥
एष प्रहस्य प्रस्थितः । इतो वयं साधयामः । (परिक्रम्य)
अये अयमपरः कः सिंहिलिकाया मयूरसेनाया गृहान्निष्पत्य स्कन्धविन्यस्तवसनो विमलासिपाणिभिर्दाक्षिणात्यैः परिवृत्तो भद्राङ्कं विरलमुत्तरीयमाकर्षन्नान्ध्रकं कार्ष्णायसं निवसितः कुंकुमानुरक्तच्छविस्तांबूलसमादानव्यग्रपाणिरित एवाभिवर्तते । भवतु, दृ ष्टम् । एष हि विदर्भवासी तलवरो हरिशूद्रः । भो यदा तावदयं तां कावेरिकामनुरक्त इतिममैव तु समक्षं सपादपरिग्रहमनुनयन्नप्युक्तस्तया -
तोमेहि किं तव मया ज्योत्स्त्रा यदि क इव दीपशिखयार्थः ।
विरम सहसंग्रहीतुं बिल्वद्वयमेकहस्तेन ॥ इति ॥ 86 ॥
तत् कथमनेनेयमनुनीता भविष्यति ? किमयमनुरक्तामपि त्यक्तवाऽन्यां प्रकाशं कामयत इति वेपशप्रत्यक्षमात्मनो दौर्भाग्यमयशस्यमितिस्वयमेव प्रसन्ना । आहोस्वित् काम्यमानं कामयन्ते स्त्रिय इति स्त्रिस्वभावादस्याः संघर्ष उत्पन्नः उताहो परिव्ययार्थकर्शितया मात्रैवानुनियुक्ता भविष्यति । सर्वथा प्रक्ष्यामस्तावदेनम् । (उपसृतकेनाञ्जलिंकृत्वा)
तां सुन्दरीँ दरीमिव सिंहस्य मानुष्यसिँह सिहलिकाम् ।
युक्तं भवता मोक्तं द्रमिलीसुरताभिलाषेण ॥ 87 ॥
किँ ब्रवीषि ?” अनुनीता मया मयूरसेना । एष तस्या एव गृहादागच्छामि"इति ॥
कथय कथय कथमवशीर्णप्रायः सन्धिरनुष्ठितः ॥
किँ ब्रवीषि? “अद्य तृतीयेऽहन्यहमपि वेश्याध्यक्षप्रतिहारद्रौणिलकगृहे प्रेक्षायामुपनिमन्त्रितस्तन्न च मयूरसेनाया लास्यवारो बुद्धिपूर्वक इत्यवगच्छामि । ततः प्रतारितेष्वातोद्येणु देवतामङ्गलं पूर्वमुपोह्य प्रस्तुते गीतके प्रनृत्तायां नर्तक्यां प्रथमवस्तुन्येव मपूरसेनायाः खलुनृत्ते प्रयोगदोषा गृहीता” इति मातावद्भोः मयूरसेनायाः खलु नृत्ते प्रयोगदोषा गृह्यन्त इति । कस्यायमतटप्रपातः ॥
किं ब्रवीषि ? “भगवत्या वारुण्या” इति ।
युक्तं नित्यसन्निहिता भगवती सुरादेवी प्रतिहारगृहे ।
अथ कमन्तरीकृत्यायं सुराविभ्रमः ।
किं ब्रवीषि “वयस्यमेव ते लासकमुपचन्द्रक"मिति ।
किमु(मनु) पपन्नमायतनं हि स ईदृशानाम्। अपि तु सविषयस्तस्यैषः। ततस्ततः । किं ब्रवीषि"स चोपचन्द्रपक्षे ससर्वसामाजिकजनः मयापि मयूर सेनायाः पक्षः परिगृहीतः” इति ।
साधु वयस्य देशकालौपयिकमनुष्ठितम् । ततस्ततः । किं ब्रवीषि “ततो न तेषां बुद्धिं परिभवामि । अपरिभूतामेव सदस्या आगमप्रधानतया मे प्राश्रिकानुमते प्रतिष्ठिः पक्ष” इति ॥
साधु वयस्यानन्यसाधारणेन पण्येन क्रीता तत्रभवती । ततस्ततः ॥
किँ ब्रवीषि"ततः सर्वगणिकाजनप्रत्यक्षं दत्ते पारितोषिके मयूरसेनायाः स्मितपुरससरेणापाङ्गपातिना कटाक्षेण प्रसादित इवास्मि । कावेरिकायास्तु पुनरसूयापिशुनमुत्थाय गच्छन्त्या, आकारेण बहूपालब्ध इवास्मि । तयोस्च कोपप्रसादयोश्च प्रत्यक्षतयोभयतटभ्रष्ट इव सन्देहस्त्रोतसा ह्रियमाणस्तस्मात्सङ्कटात्कथञ्चिद्गृहानागतः । उपविष्टश्च कानयो किं प्रतिपत्स्यत इति वितर्कडोलां वाहयामि । ततः सहसैव मे प्रियया समेत्य नेत्रे निमीलिते । तते विहस्य मयोक्ता
‘नेत्रनिमीलननिपुणे किं ते हसितेन चोरि गूढेन ।
सूचयति त्वां पाण्योरनन्यसाधारणाः स्पर्शः ॥ 88 ॥
एवमुक्तयानया सुरभितनिश्वाससूचितमदस्खलिताक्षरमभिहितोऽहमाचक्ष्वमा काह"मिति । ततो मयोक्ता
‘रोमाञ्चकर्कशाभ्यां प्रत्युक्तासि ननु मे कपोलाभ्याम् ।
यद्वदसि पुनर्मुग्धे स्वयमेवाचक्ष्व काह’मिति ॥ 89 ॥
तत उन्मील्य मामुक्तवती ‘अनेनैव रोमाञ्चसंज्ञकेन कैतवेन अयं जन आकृष्यत’ इत्युक्तवा मा कपोले चुम्बित्वा प्रस्थिता । तत्तो मयोक्ता
‘चुम्बितेनेदमादाय हृदयं क्व गमिष्यसि ।
चोरि पादाविमौ मूर्ध्ना धृतौ मे स्थीयतां ननु’ ॥ 90 ॥
एवंचोक्ता शयनमुपगम्योपविष्टा । ततो मयास्याः स्वयं पादौ प्रक्षालित्तौ। अनया चास्म्युक्तः’गृहीतं पाद्यम् । एहीदानीँ कितवः खल्वसी’ति । ततो विकोचमुकुजालकेनेव मालतीलताविहसितेनैकहस्तावलम्बितसरशननिवसना पर्यङ्कावेष्टनद्विगुणमध्यबाहुमृणालिकात्रिकपरिवर्तनसाचीकृतदर्शनीयतरा तदानीँ वेष्टमानमध्यविषमवलिप्रनष्टनाभिमण्डलप्रविषमीकृत रोमराजिरेकस्तनावगलितहारापाश्रितेतरस्तनकलशपार्श्वावगलितकपोलपर्यस्तकुण्डलमकराधिष्ठितविशेषककान्ततरेणांसपरावृत्त शोभिनावस्थानेन लज्जाद्वितीया रतिरिव रूपिणी समुत्थितैकभ्रूलतिकेन कुवलयशबलं जलमिवाकिरन्ती दृष्टिविक्षेपेण मामुक्तवती’यत्तेरोचत’ इति । ततोऽहमासङ्गमालेख्यवर्णकपात्रं गवाक्षादाक्षिण्य चरणनलिनरागायोपस्थितः । अथ वयस्यालक्तकविन्यासविन्यस्तचक्षुरुत्क्षिप्तपार्ष्णिगुल्फनूपुराधिष्ठितजङ्गाकाण्डायाः तस्या असंभुक्तत्वादनूरुप्राहिणो मर्मरस्योपसंहारभङ्गभोगानुकारिणः कौशेयस्यासंयतत्वाद्गजकलभदन्तदशनच्छदानतरमिव कदलीगर्भमिव चान्तरूरुमीक्षे । ईक्षणञ्चापोह्याविनीतचक्षुरसीत्युक्तवा पादमाक्षिप्योरसि मां ताडितवती । ततो रोमाञ्चकवचकर्कशत्वचा मयोक्ता’नार्हसि मामसमाप्तरागमवक्षेप्तु’ मिति । ततस्तयाहमक्तः’साधु खलु निमीलिताक्षः समापयैन’ मिति । ततस्तस्या लाक्षरसं निमीलिताक्षोऽर्पयामि चरणाभ्यां सकचग्रहमधरोष्ठे गृहीतोऽस्मि । ततस्तथैव विवृतरोमाञ्चं मां समभिवीक्ष्याशोकसमदोहलोऽसि नमोऽस्तु ते शाठ्यायेति मां परिष्वज्यशय नमुपगता । ततः परं देवानां प्रिय एव ज्ञास्यति” इति ॥
यद्येवमर्हति भवानपि तौण्डिकोकिविष्णुनागप्रायश्चित्तार्थँ सन्निपतितान्विटानुपस्थातुम् ॥
किं ब्रवीषि” शान्तमेतत् पुनरपि यदि शिरो मे तस्याश्चरणकमलताडनेनानुगृह्येत तदेव मे प्रायश्चित्तमू” इति ॥
यद्येवं यमुनाह्रदनिलयो यदुपतिचग्णाङ्कितललाटो नागः कालिय इव वैनतेयस्यावध्य इदानीँ सर्वविटानामसि । एष विहस्यायमञ्जलिरिति प्रस्थितः । यावदहमपि विटलमाजं गच्छामि । अहो तु खलु सहृत्कथाव्यग्रैरस्माभिरतीतमप्यहो न विज्ञातम् । संप्रति हि -
सोत्कण्ठैरिव गच्छतीति कमलैर्मौलद्भिरालोकितः
प्रच्छायैरधिरुह्यवेश्मशिखराण्युत्सार्यमाणातपः ।
तैः स्पृष्ट्वा चिरन्मुखीषु किरणैरुद्यानशाखास्वसौ
यात्यस्तं वलभीकपोतनयनैराक्षिप्तरागो रविः ॥ 91 ॥
अपि चेदानीम्
प्राकाराग्रे गवाक्षैः पततिखररुतैः सूच्यमानोपि लालः
प्रासादेभ्यो निवृत्तो व्रजति समुचितां वासयष्टिँ मयूरः ।
सांध्यं पुष्पोपहारं परिहरतिमृगः स्थण्डिले स्वप्तुकामः
तोयादुत्तीर्य चासौ भवनकमिलिनी वेदिकां यातिहंसः ॥ 92 ॥
(परिक्रम्य)
एते प्रयान्ति घनतां वलभीषुधूपाः
वैडूर्यरेणव इवोत्पतिता गवाक्षैः ।
रथ्यासु चैतमवगाढमुदग्रमेत्य
स्त्रानोदकौधमनुषट्चरणा भ्रमन्ति ॥ 93 ॥
अहो तु खल्विदानीमस्य संमृष्टसिक्तावकीर्णकुसुमप्रद्वाराजिरस्य प्रादोषिकोपचारव्यग्रपरिचारकजनस्य देशवयोविभवानुरुपालंकारव्यापृतवारमुरव्यजनस्य प्रचरितमदनदूतीसञ्चाररमणीयस्य प्रवृत्तमत्तविटविदग्धपरिहासरसान्तरस्य स्न्नातानुलिप्तपीतप्रतीततरुणजनावकीर्णचतुष्पथशृङ्गाटकस्य वेशमहापथस्य परा श्रीः । इह हि -
एषा रौत्युपवेशिता गजवधूरारुह्यमाणा शनैः
एतत्कम्बलबाह्यकं प्रमदया द्वाःस्थं समारुह्यते ।
शिञ्जत्रूपुरमेखलामुपवहन्वेश्यां चलत्कुण्डलां
श्रोणीभारमपरायन्निव हयो गच्छत्यसौ धौरितम् ॥ 94 ॥
अपि चास्मिन्निमाः -
प्रदीपकरवल्लरीजटिलचारुवातायना
मयूरगलमेचकैरनुसृतास्तमोभिः क्वचित् ।
विभान्ति गृहभित्तयो नवसुधावदातान्तराः
तमालहरितालपङ्ककुतपत्रलेस्वा इव ॥ 95 ॥
(परिक्रम्य)
सर्वथा रमणीयस्तावदयमुद्भिद्यमानचन्द्रसनाथ उत्सवः प्रदोषसंज्ञाको जीवलोकस्य । संप्रति हि- एष भगवांश्च क्षुषां साधारणं रसायनं हसितमिव कुमुदवापीनामुदेति शीतरश्मिः । य एषः -
किं नीलोत्पलपत्रचक्रविवरैरभ्येषि मा चुम्बितुं
न त्वां पश्यति रोहिणी कथय मे सन्त्यज्यतां वेपथुः ।
मत्तानां मधुभाजनेष्वितिकथाः श्रोतुं साहासा इव
स्त्रीणां कुण्डल कोटिभिन्नकिरणश्चद्रः समुत्तिष्टति ॥ 96 ॥
(परिक्रम्य)
गायत्योषा वल्गुकान्तद्वितीया
सुप्रक्वाणा स्पृश्यतेऽसौ विप़ञ्ची ।
बध्वा गोष्ठीँ पीयते पानमेत -
द्धर्म्याग्रेषु प्राप्तचन्द्रोदयेषु ॥ 97 ॥
अपि चेदानीमेष भगवन् -
विरचयति मयूखैर्दिर्घिकाम्भस्सु सेतुं
विसृजति कदलीषु स्वाः प्रभादण्डराजीः ।
पुनरपि च सुधाभिर्वर्णयन् सौधमालाः
क्षरति किसलयेभ्यो मौक्तिकानीव चन्द्रः ॥ 98 ॥
(परिक्रम्य) अहो तु खलु क्षीरोदेनेवोद्वेलप्रवृत्तविकीर्यमाणवीचिराशिना ज्योत्सन्नासंज्ञकेन पयसा प्रसर्पतानुगृहीत इव जीवलोकः । सम्प्रति हि-
एते व्रजन्ति तुरगैश्च करेणुभिश्च
कर्णौरथैरपि च कम्बलवाह्यकैश्च ।
आलिङ्गिता युवतिभिर्मृदिता युवानो
गन्धर्वसिद्धमिथुनानि विहायसीव ॥ 99 ॥
(परिक्रम्य)
असावन्वारूढो मदललितचष्टः प्रमदया
परिष्वक्तः पृष्ठे निबिडतरनिक्षिप्तकुचया ।
परावृत्तश्चुम्बन्व्रजति दयितां यस्य तुरगे
गृहानेषोऽभ्यासादनुपतति नोत्क्रामति पथः ॥ 100 ॥
कश्च तावदयमस्मिँ श्चन्द्रातपेऽप्यन्धकार इव वर्तमानो वेशरथ्यायां गर्भगृहभोगेन तिष्ठन्नैर्लज्यमाविष्करोति ? आः ज्ञातम् । एष सौराष्ट्रिकः शककुमारो जयन्तक इमां घटदासीं बर्बरिकामनुरक्तः । किञ्च तावदनेनैतस्मात् सर्ववेश्यापत्तनाद्वेशवद्वेशबर्बर्या गुणवत्त्वमलोकितम् । किञ्च तावत् -
अधिदेवतेव तमसः कृष्णाशुक्ला द्विजेषु चाक्ष्णोश्च
असकलशाशाङ्कलेखेव शर्वरी बर्बरी भाति ॥ 101 ॥
अथवा सौरष्ट्रिका वानराबर्बरा इत्येको राशिः किमत्राश्चर्यम् । तथा हि -
धवलप्रतिमायामपि बर्बर्याँ सक्तचक्षुषो ह्यस्य ।
अलससकषायटृष्टेः ज्योत्स्त्रापीयं तमिस्त्रेव ॥ 102 ॥
तदलमयमस्य पन्थाः इतो वयम् । (परिक्रम्य) इयमपरा का -
कर्णद्वयावनतकाञ्चनतालपत्रा
वेण्यन्तलग्नमणिमौक्तिकहेमगुच्छा ।
कूर्पासकोत्कवचितस्तानबाहुमूला
लाटी नितम्बपरिवृत्तदशान्तनीवी ॥ 103 ॥
(विचार्य) भवतु विज्ञातम् । एषा हि सा राका राज्ञः स्यालमाभीलकं मयूरकुमारं मयूरमिव नृत्यन्तमालिङ्गन्ती चन्द्रशालाग्रे वेशवीथ्यामात्मनः सौभाग्यं प्रकाशयति । अयमपि चार्जवेनानया तपस्वी क्रीत इव ।
अपि च मयूरकुमारं गौरीकृष्णमतिदुर्बलं स्थूला ।
स्वमिव प्रच्छायाग्रकमुरसि विलग्रं वहत्येषा ॥ 104 ॥
(परिक्रम्य) इयमपरा का (विचार्य)
इयं हि सा तत्रभवतः सुगृहीतनाम्नः शार्दूलवर्मणः पुत्रस्य नः प्रियवयस्यस्य वराहदाहस्य प्रियतमा यवनी कर्पूरतुरिष्ठा नाम प्रतिचन्द्राभिमुखं मधुनः कांस्यमङ्गुलित्रयेण धारयन्ती कपो.लतलस्खलिताबिम्बमवलम्ब्य कुण्डलं किरणैः प्रेड्खोलितमंसदेशे शशिनमिवोद्वहन्ती यैषा -
चकोरचिकुरेक्षणा मधुनि वीक्षमाणा मुखं
विकीर्य यवनी नखैरलकवल्लरीमायताम् ।
मधूककुसुमावदातसुकुमारयोर्गण्डयोः
प्रमार्ष्टि मदरागमुत्थितमलक्तकाशङ्कया ॥ 105 ॥
अपि च यवनी गणिका,वानरी नर्तकी, मालवः कामुको गर्दभो, गायक इति गुणतः साधारणमवगच्छामि । सर्वथा सदृशयोगेषु निपुणः खलु प्रजापतिः । तथा हि -
खदिरतरुमात्मगुप्ता पटोलवल्ली समाश्रिता निम्बं
श्लिष्टो बत संयोगो यदि यवनी मालवे सक्ता ॥ 106 ॥
तत्काममियमपि मे सखी नत्वेनामभिभाषिष्ये । कोहि नाम तानि वानरी निष्कूजितोपमानि चीत्कारभूयिष्ठानि अप्रत्यभिज्ञेयव्यञ्जनानि किञ्चित्करेणान्ताराणि (?) प्रदेशिनीलालनमात्रसूचितानि स्वयंवेशयवनीकथितानि श्रोष्यति । तदलमनया (परिक्रम्य) अयमपरः कः -
प्रतिमुखपवनैर्वैगादुत्थिप्तग्रलकोत्तरीयान्ताम् ।
कान्तां हरति करेण्वा वासवदत्तामिवोदयनः ॥ 107 ॥
(विचार्य) आविदितम् । एष स इभ्यपुत्रो विटप्रवाल इति डिण्डिभिरभ्यस्तनामा सुरतरणपटकट्यंबराणामधिपतिस्तां वेशसुन्दरीमस्मत्बालिकां मदनपरवशः पितुर्मातुश्च शासनमुपेक्ष्यानुरक्त एव । काममतिडिण्डी खल्वयम् श्वशुरशब्दावकुण्ठनास्तु वयम् । तदलमनेनाभिभाषितेन । अयमस्याञ्जलिरितस्तावद्वयम् । (परिक्रम्य) ॥
यावदहमपि विटसमाजं गच्छामि । एषोऽस्मि भोः सुवृथातिवाहिते (?) वेशमहापथे विटमहत्तरस्य भट्टिजीमूतस्य समन्तात्सन्निपातितविटजनवाहनसहस्त्रसंबाधप्रद्वाराङ्गणमुत्क्षिप्तरजतकलशपाद्यपरिचारकोपास्थिततोरणं भवनमनुप्राप्तः सुष्ठु खल्विदमुच्यते -” महान्तः खलु महतामारम्भा" इति । साम्प्रते ह्येतद्दशार्धवर्ण (?) पुष्पमुत्कीर्यते मुक्तमासज्यते ग्रथितं सञ्चार्यन्ते धूपाः प्रज्वाल्यन्ते दीपाः उच्यते स्वागतं मुच्यते यानं दृश्यते विभ्रमः उपगीयते गीतं उपवाद्यते वाद्यं दीयते हस्तः कथ्यते श्लक्ष्णं आलिङ्ग्यते स्त्रिग्धं अवलम्ब्यते सप्रणयं अवनम्यते सविनयं स्पृश्यते पृष्ठं आहन्यते सभ्रूक्षेपं आघ्रायते शिरः स्थीयते सविभ्रमं उपविश्यते सलीलं विश्राण्यते चन्दनं आलिप्यते वर्णकः विन्यस्यते विलेपनं उत्कीर्यते चूर्णः परिहास्यते विटैः प्रितगृह्यते विलासिनीभिरिति । किं बहुना -
पुष्पेष्वेते जानुदघ्नोषु लग्नाः
कृत्छ्रात्पादा वामनैरुद्घ्रियन्ते ।
विभ्रान्ताक्ष्यः केतकीनां पलाशान्
सीत्कुर्वाणाः पादलग्नान् हरन्ति ॥ 108 ॥
अपिचैते विटमुख्याः -
श्रीमन्तः सखिभिरलङ्कृतासनार्द्धाः
कुर्वन्तञ्चतुरममर्मवेधि नर्म ।
वेश्याभिः समुपगताः समं समन्ता -
दुक्षाणे व्रज भान्ति सोपसर्पाः ॥ 109 ॥
अपिच्चैषामेतत्सदः -
नभ इव शतचन्द्रं योषितां वक्त्रचन्द्रैः
कृतशबलदिगन्तं सम्पतदभिः कटाक्षौः ।
सपरिधमिव यूनां बाहुभिः सम्प्रहारैः
निचितमिव शिलभिञ्चन्दनार्द्रैरुरोभिः ॥ 110 ॥
अपि चास्मिन् -
एते विभान्ति गणिकाजनकल्पवृक्षाः
तादत्विकाश्च खलु मूलहरा श्च वीराः
बाल्येऽपि काष्ठकलहान् कथयन्ति येषां
वृद्धाः सुयोधनवृकोदरयोरिवोच्चैः ॥ 111 ॥
तदेतावदहमपि सुहृन्निदेशवेष्टने शिरासि भगवते चित्तेश्वरायाञ्जलिँ कृत्वा सुहृन्निदेशादिममधिकारं पुरस्कृत्य प्रायश्वितार्थँ तत्र भवतस्तौण्डिकोकेर्विष्णुनागस्य घोषणापूर्वँ विटान्विज्ञापयामि ॥ (परिक्रम्य) भोभोः सकलक्षिततिलसमागताः प्रियकलहाः कलहानां च निवेदितारो धूर्तमिश्राः श्रृण्वन्तु श्रृण्वन्तु भवन्तः ॥
कामस्तपस्विषु जयत्यधिकारकामो
विश्वस्य चित्तविभुरिन्द्रियवाज्यधीशः ।
भूतानि बिभ्रति महान्त्यपि यस्य शिष्टिं
व्यावृत्तमौलिमणिरश्मिभिरुत्तमाङ्गैः ॥ 112 ॥
(परिक्रम्य)
अथ जयति मदो विलासिनीनां
स्फुटहसितप्रविकीर्णकर्णपूरः ।
स्खलितगतमधीरदृष्टिपातः
तदनु च यौवनविभ्रमा जयन्ति ॥ 113 ॥
तदेवं वारमुख्यजनचरणरजः पवित्रीकृतेन् शिरसा धूर्तमिश्रान्प्रणिपत्य विज्ञापयमि । किच्चैतद्विज्ञाप्यमिति ? श्रूयताम्-
नागवद्विष्णुनामोऽसावुरसा वेष्टते क्षितौ
प्रायश्चित्तार्थमुद्विग्नन्तमेनं त्रातुमर्हथ ॥ 114 ॥
किं मां पृच्छन्ति भवन्तः" कोऽस्यापनय" इति । श्रूयताम् -
उत्क्षिप्तालकमीक्षणान्तगलितं कोपाञ्चितान्तभ्रुवा
दष्टार्धौष्ठमधीरदन्तकिरणं प्रोत्कम्पयन्त्या मुखम् ।
शिञ्चन्नूपुरया विकृष्य विगलद्रक्तांशुकं पाणिना
मूर्धन्यस्य सनू पुरः समदया पादोऽर्पितः कान्तया ॥ 115 ॥
किं किं वदन्ति भवन्तः" कस्याः पुनरिदमविज्ञातपुरुषान्तरायाः प्रमादसंज्ञाकमयशो विस्तीर्यत" इति ॥
ननु तत्र भवत्याः सौरष्ट्रिकाया मदनसेनिकायाः । एते विटा दिष्ट्या नेह कश्चिदिति संभ्रान्ता इव । य एते ॥
निर्धूतहस्ता विनिगूढहासा धिग्वादिनो धीरमुखानि बध्वा
ध्यायन्ति संप्रेक्ष्य परस्परस्य जातानुकम्पा इव नाम धूर्ताः ॥116 ॥
एतेषां तावदासीनानां नियुक्तो विटमहत्तरो भट्टिजीमूतः कृपया नाम परं वैक्लब्यमुपगतः । य एषः -
कष्टंकष्टमिति श्वासान्मुञ्चन्क्लान्त इव द्विपः ।
जीमूत इव जीमूतो नेत्राभ्यां वारि वर्षति ॥ 117 ॥
एष मामह्वयति । अयमागतोऽस्मि ॥
किमज्ञापयति भट्टिः"श्रुतपूर्व मया, भूयोऽपि वदसि - एवं प्रायश्चित्तार्थँवह्यणोपगमनम् । तस्मादेवाहमुपविष्टस्तत्समयपूर्वकमुपगृह्यन्तां तत्रभवन्तो विटाः" इति ॥
यदाज्ञापयति भट्टिः । भो भो श्रृण्वन्तु श्रृण्वन्तु भवन्तः -
द्यतेषु मास्म विजयिष्ट पणं कदाचित्
मातुः श्रृणोतु पितरं विनयेन यातु ॥ 118 ॥
क्षीरं श्रृतं पिबतु मोदकमत्तु मोहात्
व्यूढापतिर्भवतु योऽत्र वदेदयुक्तम् ॥
अपि च
परिचरतु गुरूनपैतु गोष्ट्या
भवतु च वृद्धसमो युवा विनीतः ।
पलितमभिसमीक्ष्य यातु शान्तिँ
य इदमयुक्तमुदाहरोन्निषण्णः ॥ 119 ॥
(विवृत्यावलोक्य) एष धावकिरनन्तकथः सहसोत्थाय मामह्वयति । किं ब्रवीषि" तस्या एवेदमविज्ञातप्रणयायाः पातकं नात्रभवतः । श्रोतुमर्हति भवान्-
अशोकं स्पर्शैन द्रुममसमये पुष्पयति यः
स्वयं यस्मिन्कामो विततशरचापो निवसति ।
स पादो विन्यस्तः पशुशिरसि मोहादिव यया
ननु प्रायश्चित्तं चरतु सुचिरं सैव चपला" इति ॥ 120 ॥
सम्यग्भवानाह । तथा हि -
उपवीणित एष गर्दभः
समुपश्लोकित एष वानरः ।
पयसि श्रि (श्रृ) त एष माहिषे
सहकारस्य रसो निपातितः ॥ 121 ॥
अपि त्वार्त्तानुपातानि प्रायाश्चित्तानि । आर्तश्चायुमुपगतस्तदनुग्रहीतुमर्हन्ति भवन्तः । तत्क्वनु खल्वेषां गोग्लनप्ता । य एष मदरभसचलितमौलिमेकहस्तेनप्रतिसमावध्य क्षुद्रमुत्तावकीर्णमिव स्वेदबिन्दुभिर्ललाटदेशं प्रदेशिन्या परिमृज्य" श्रूयतामस्य प्रायश्चित्त" मिति मामह्वयति । यावदुपसर्पामि । एते विटाः कश्च तावदयं विटभावदूषिताकारः प्रथमतरो विटो विटपरिषद्युत्थाय प्रायश्चित्तमुपदिशतीति कुपिताः । हण्डे मल्लस्वामिन । श्रुतम् । एवमाहुरत्र भवन्तः । किं ब्रवीषि “मातावन्नोच्यान्तामत्रभवन्तः ॥
ताते पञ्चत्वं पञ्चरात्रे प्रयाते
मित्रेष्वार्तैषु व्याकुले बन्धुवर्गै ।
एकं क्रोशन्तं बालमाधाय पुत्रं
दास्या सार्धँ पीतवानस्मि मद्यम् ॥ 122 ॥
कथमहमविटः” इति
एवं चेत्त्वामनुजानन्ति विटमुख्योऽसीति । आस्यताम् । किं व्रवीषि “दीयतामस्यै प्रायाश्चितम् “इति ॥
बाढम् । भूयाः श्रावयामि । तत्किँनु खल्वेष मां शैव्यः कविरार्यराक्षितो वायुवैषम्यनिपीडिताक्षरो मामाह्वय” न्नखलु न खल्विदं प्रायश्चित्त” मितिप्रतिषेधाति । अतिविटश्चैष धानत्रः । कुतः -
विक्रीणाति हि काव्यं श्रोत्रियभवनेषु मद्यचषकेण ।
यः शिबिकुल प्रसूतो भर्तृस्याने जरां यातः ॥ 123 ॥
अपि च -
विक्राणन्ति हि कवयो यद्येवं काव्यमद्य चषकेण ।
काशिषु च कोसलेषु च गर्गैषु निषादनगरेषु ॥ 124 ॥
यावदेनमुपसर्पामि । सखे अयमस्मि किं ब्रवीषि -
“धृतो गण्डाभेगे कमल इव बद्धो मधुकरैः
विलासिन्या मुक्तो वकुलतरुमापुष्पयति यः ।
विलासो नेत्राणां तरुणसहकारप्रियसखः
स गण्डूषः शीथु कथमिह शिरः प्राप्स्यति पशोः” इति ।
अय मपरो भवकीर्तिर्बद्धकरः प्रायश्चित्तार्थं मामाह्ववति । अतिविटश्चैष माणवकः । कुतः -
मुण्डां वृद्धां जीर्णकाषायवस्त्रां
भिक्षाहेतोनिर्विशङ्कं प्रविष्टाम् ।
भूमावातीँ पातयित्वा स्फुरन्तीँ
योऽयं कामी कामकारं करोति ॥ 125 ॥
यावदेनमुपसर्पामि किं ब्रवीषि ।" इदमस्याः प्रायश्चित्तम् -
बध्यतां मेखलादाम्न्ना समाकृष्य कचग्रहैः ।
अथ तस्याः प्रसुप्तायाः पादौ संवाहयत्वयम् " ॥ इति ॥
भो एतदपि प्रतिहतम् । एष इभ्यपुत्रश्चेटपुत्रैरभ्यस्तनामा गान्ध र्वसेनको हस्तमुद्यभ्य मामह्वयति । यद्यैष हस्तः ॥
वाद्येषु त्रिविधेष्वनेककरणैः सञ्चारिताग्रंगुलिः
ताभ्राम्भोरुहपत्रवृष्टिरिव यस्तन्त्रीषु पर्यस्यते ।
कोलं वानुगतेन येन दधता श्रोणीतटे वल्लकी -
मिभ्यान्तः पुरसुन्दरीकररुहक्षेपाः समास्वादिताः ॥
यावदेनमुपसर्पामि (उपेत्य) किं ब्रवीषि -
" जघंनरथितम्बवैजयन्ती
सुरतरणव्यतिषङ्गयोगवीणा ।
क्व च मणिरशना वराङ्गनानां
क्व च चरणावशुभस्य गर्दभस्य" । इति ॥ 129 ॥
(परिवर्तकेन) अयमिदानीँ दाक्षिणात्यः कविरार्यकः प्रायश्चितभुपदिशति । किं ब्रवीषि-
** ‘विभ्रामचेष्टितेनैव दृष्टिक्षेपेण भूयसा ।
शिरः कर्णैल्पलेनास्य ताडयतां मत्तयातया" ॥ इति ॥ 130 ॥
एतदपि प्रतिहतमनेन गान्धारकेण हस्तिमूर्खैण । किमिदमुच्यते भवता
" नखविलिखितं कर्णै नार्यानिवेशितबन्धनं
खचितशबलं दृष्टिक्षेपैरपाङ्गविलम्बिभिः ।
यदि नरपशोरस्येदं भो श्शिरस्यतिपात्यते
सुरभिरजसा प्रायश्चित्तं किमस्य भविष्यति" ॥ इति ॥
वाढमेवमेतदिति प्रतिपन्ना विटमुख्याः (परिवर्तकेत) इमावपरौ मामाह्वपतः ॥
गुप्तमहेश्वरदत्तौ सुहृदावेकासनस्थितावेतौ ।
उपगतकाव्यप्रतिभौ वररुचिकाव्यानुसारेण ॥ 132 ॥
यावदुपसर्पामि(उपसृत्य) हण्डे गुप्तरोमश किमाह भवान्
‘पादप्रक्षालनेनास्याः शिरः प्रक्षाल्यता’मिति ।
कथमेतदपि विप्रतिषिद्धं त्रैविद्यवृद्धैरिति सुहृद्भिरनुगृहीतनाग्ना महोश्वरदत्तेन -
पादप्रक्षालनं तस्याः पातुमप्येष नार्हति । इति ।
मयमपरोऽस्मत्सुहृस्सौवीरको वृद्धविटः स्वच्छन्दस्मितोदग्रया वाचा मवयते । किमाह भवान्-
निर्भूषणावयवचारुतराङ्गयष्टिँ
स्न्नार्द्रमुक्तजघनस्थितकोशहस्ताम्
तामानयाम्यहमयन्तु दधातु तस्याः
नेत्रप्रभाशबलमण्डलमात्मदर्शम् ॥ इति ॥
रमपि प्रतिषिद्धमनेन कविना दाशेरकेण रुद्रवर्मणा । किं ब्रवीषि-
“विद्वानयं महति कोकिकुले प्रसूतो
मन्त्राधिकारसचिवो नृपसत्तमस्य ।
वेश्याङ्गनाचरणपातरजोऽवधूतान्
केशान्न धरयितुमर्हति मुण्डातां स” ॥ इति ॥
एष खल्वनुगृहीतोऽस्मीत्युक्तवा विष्णुनागो विज्ञापयति ‘किं किल सदानमितं दासीपदन्यासधर्षितं शिरो विच्छिन्नमिच्छामि प्रागेव तु शिरोरुहाणि’ इति । कथमेतदप्यस्य प्रतिहतमन्येन विटमहत्तरेण भट्टिजीमूतेन । किमाह भवान् -
स्खलितवलयशब्दैरञ्चितभ्रूलतानां
खचितनखमयूखैरंगुलीयप्रभाभिः ।
किसलयसुकुमारैः पाणिभिः सुन्दुरीणां
सुचिरमनभिमृष्टान्धारयत्वेष केशान् ॥ 136 ॥
अपि चेदमस्याः प्रायश्रित्तं श्रूयताम्-
तस्या मदालसविधूर्णितलोचनायाः
श्रोण्यर्पितैककरसंहतमेखलायाः ।
सालक्तकेन चरणेन सनूपुरेण
पश्यत्वयं शिरसि मामनुगृह्यमाणम् ॥ इति ॥ 137 ॥
एते विटाः साधुवादनुयात्रा एतदेव प्रायश्चित्तमिति वादिनः सम्भावयन्ति विटमहत्तरं भट्टिजीमूतम् । एव सर्वथानुगृहीतोऽस्मीत्युक्तवाप्रस्थितस्तौण्डिकोकिर्विष्णुनागः । एष
मामाह्यति विटमहत्तरो भट्टी । अयमस्मि । किमाह भवान् । अनुष्ठितमिदं किं ते भूयः प्रियमुपहरामीति भो श्रूयताम् ॥
कुट्टिन्यश्चतुरकथा भवन्त्वरोगा
धूर्तानामधिकशताः पणा भवन्तु ।
भूयासुः प्रियविटसङ्गमाः पुरेऽस्मिन्
वारस्त्रीप्रणयमहोत्सवाः प्रदोषा ॥ 138 ॥
(निष्क्रान्तो विटः)
इति कवेरुदीच्यस्य विश्वेश्वरदत्तपुत्रस्यार्यश्यामिलकस्य
कृतिः पादताडितकं नाम भाणः समाप्तः ॥**
]