दशमोऽङ्कः ।
(ततः प्रविशति चाण्डालद्वयेनानुगम्यमानश्चारुदत्तः । )
उभौ - तक्किं ण कलअ कालण णववहबन्धणअणे णिउणा ।
अचिलेण शीशछेअणशूलालोवेशु कुशलम्ह ॥१॥
ओशलध अज्जा, ओशलध ।
एशे अज्जचालुदत्ते दिण्णकलवीलदामे गहिदे अम्हेहिं वज्झपुलिसेहिं ।
दीवे व्व मन्दणेहे थोअं थोअं खअं जादि ॥२॥
चारुदत्तः - (सविषादम् । )
नयनसलिलसिक्तं पांशुरुक्षीकृताङ्गं पितृवनसुमनोभिर्वेष्टितं मे शरीरम् ।
विरसमिह रटन्तो रक्तगन्धानुलिप्तं बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥३॥
चाण्डालौ - ओशलध अज्जा, ओशलध ।
किं पेक्खध छिज्जन्तं शप्पुलिशं कालपलशुधालाहिं ।
शुअणशौणाधिवाशं शज्जणपुलिशद्दुमं एदम् ॥४॥
आअच्छ ले चालुदत्ता, आअछ्ह ।
चारुदत्तः - पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः, यदहमीदृशीं दशामनुप्राप्तः ।
सर्वगात्रेषु विन्यस्तै रक्तचन्दनहस्तकैः ।
पिष्टचूर्णावकीर्णश्च पुरुषोऽहं पशूकृतः ॥५॥
(अग्रतो निरूप्य । )
अहो, तारतम्यं नराणाम् ।
(सकरुणम् । )
अमी हि दृष्ट्वा मदुपेतमेतन्मर्त्यं धिगस्त्वित्युपजातबाष्पाः ।
अशक्नुवन्तः परिरक्षितुं मां स्वर्गं लभस्वेति वदन्ति पौराः ॥६॥
चाण्डालौ - ओशलध अज्जा, ओशलध ।
किं पेक्खध ।
इन्दे प्पवाहिअन्ते गोप्पशवे सङ्कमं च तालाणम् ।
शुपुलिशपाणविपत्ती चत्तालि इमे ण दट्टव्वा ॥७॥
एकः - हण्डे आहीन्ता, पेक्ख पेक्ख ।
णअलीपधाणभूदे वज्झीअन्ते कदन्तअण्णाए ।
किं लुअदि अन्तलिक्खे आदु अणब्भे पडदि वज्जे ॥८॥
द्वितीयः - अले गोहा, ण अ लुअदि अन्तलिक्के णेअ अणब्भे पडदि वज्जे ।
महिलाशमूहमेहे निवडदि णअणम्बु धाराहिं ॥९॥
अवि अ ।
वज्झम्मि णीअमाणे जणश्श शव्वश्श लोदमाणश्श ।
णअणशलिलेहिं शित्ते लच्छादो ण उण्णमै लेणू ॥१०॥
चारुदत्तः - (निरूप्य सकरुणम् । )
एताः पुनर्हर्म्यगताः स्त्रियो मां वातायनार्धेन विनिःसृतास्याः ।
हा चारुदत्तेत्यभिभाषमाणा बाष्पं प्रणालीभिरिवोत्सृजन्ति ॥११॥
चाण्डालौ - आअच्छ ले चालुदत्ता आअच्छ ।
इमं घोषणट्ठाणम् ।
आहणेध डिण्डिमम् ।
घोशेध घोशणम् ।
उभौ - शुणाध अज्जा, शुणाध ।
एशे शत्थवाहविणअदत्तश्श णत्थिके शाअलदत्तश्श पुत्तके अज्जचालुदत्ते णाम ।
एदिणा किल अकज्जकालिणा गणिआ वशन्तशेणा अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डअजिण्णुज्जाणं पवेशिअ बाहुपाशबल्लक्कालेण मालिदे त्ति एशे शलोत्ते गहिदे, शअं अ पडिवण्णे ।
तदो लण्णा पालएण अम्हे आण्णत्ता एदं मालेदुम् ।
जदि अवले ईदिशं उभअलोअविलुद्धं अकज्जं कलेदि तं पि लाआ पालए एव्वं ज्जेव शाशदि ।
चारुदत्तः - (सनिर्वेदं स्वगतम् । )
मखशतपरिपूतं गोत्रमुद्भासितं मे सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम मरणदशायां वर्तमानस्य पापैस्तदसदृशमनुष्यैर्घुष्यते घोषणायाम् ॥१२॥
(उद्वीज्य कर्णौ पिधाय । )
हा प्रिये वसन्तसेने, शशिविमलमयूखशुभ्रदन्ति सुरुचिरविद्रुमसन्निभाधरौष्टि ।
तव वदनभवामृतं निपीय कथमवशो ह्ययशोविषं पिबामि ॥१३॥
उभौ - ओशलध अज्जा ओशलध ।
एशे गुणलअणणिही शज्जणदुक्खाण उत्तलणशेदू ।
अशुवण्णं मण्डणअं अवणीअदि अज्ज णअलीदो ॥१४॥
अण्णं च ।
शव्वे क्खु होइ लोए लोए शुहशण्ठिदाण तत्तिल्लः ।
विणिवडिदाण णलाणं पिअकाली दुल्लहो होदि ॥१५॥
चारुदत्तः - (सर्वतोऽवलोक्य । )
अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः ।
परोऽपि बन्धुः समसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य ॥१६॥
चाण्डालौ - ओशालणं किदम् ।
विवित्तं लाअमग्गम् ।
ता आणेध एदं दिण्णवज्झचिण्हम् ।
(चारुदत्तो निःश्वस्य ऽमैत्रेय भोः किमिदमद्यऽ इत्यादि पठति । )
(नेपथ्ये । )
हा ताद, हा पिअवअस्स ।
चारुदत्तः - (आकर्ण्य सकरुणम् । )
भोः स्वजातिमहत्तर, इच्छाम्यहं भवतः सकाशात्प्रतिग्रहं कर्तुम् ।
चाण्डालौ - किं अह्माणं हत्थादो पडिग्गहं कलेशि ।
चारुदत्तः - शान्तं पापम् ।
नापरीक्ष्यकारी दुराचारः पालक इव चाण्डालः ।
तत्परलोकार्थं पुत्रमुखं द्रष्टुमभ्यर्थये ।
चाण्डालौ - एव्वं कलीअदु ।
(नेपथ्ये । )
हा ताद, हा आवुक ।
(चारुदत्तः श्रुत्वा सकरुणम् ऽभोः स्वजातिमहत्तरऽ इत्यादि पठति । )
चाण्डालौ - अले पौला, खणं अन्तलं देध ।
एशे अज्जचालुदत्ते पुत्तमुहं पेक्खदु ।
(नेपथ्याभिमुखम् । )
अज्ज, इदो इदो ।
आअच्छ ले दालआ, आअच्छ ।
(ततः प्रविशति दारकमादाय विदूषकः । )
विदूषकः - तुवरदु तुवरदु भद्दमुहो ।
पिदा दे मारिदुं णीअदि ।
दारकः - हा ताद, हा आवुक ।
विदूषकः - हा पिअवअस्स, कहिं मए तुमं पेक्खिदव्वो ।
चारुदत्तः - (पुत्रं मित्रं च वीक्ष्य । )
हा पुत्र, हा मैत्रेय ।
(सकरुणम् । )
भोः, कष्टम् ।
चिरं खलु भविष्यामि परलोके पिपासितः ।
अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥१७॥
किं पुत्राय प्रयच्छामि ।
(आत्मानमवलोक्य ।
यज्ञोपवीत दृष्ट्वा । )
आं, इदं तावदस्ति मम च ।
अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् ।
देवतानां पितॄणां च भागो येन प्रदीयते ॥१८॥
(इति यज्ञोपवीतं ददाति । )
चाण्डालः - आअच्छ ले चालुदत्ता, आअच्छ ।
द्वितीयः - अले, अज्जचालुदत्तं णिलुववदेण णामेण आलवेशि ।
अले, पेक्ख ।
अब्भुदए अवशाणे तहे अ लत्तिन्दिवं अहदमग्गा ।
उद्दामे व्व किशोली णिअदी क्खु पडिच्छिदुं जादि ॥१९॥
अण्णं च ।
शुक्खा वि वदेशा शे किं विणमिअमत्थएण काअव्वम् ।
लाहुगहिदे वि चन्दे ण वन्दणीए जणपदश्श ॥२०॥
दारकः - अरे रे चाण्डाला, कहिं मे आवुकं णेध ।
चारुदत्तः - वत्स, अंसेन बिभ्रत्करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् ।
आघातमद्याहमनुप्रयामि शामित्रमालब्धुमिवाध्वरेऽजः ॥२१॥
चाण्डालः - दालआ, ण हु अम्हे चाण्डाला चाण्डालकुलम्मि जादपुव्वा वि ।
जे अहिभवन्ति शाहुं ते पावा ते अ चाण्डाला ॥२२॥
दारकः - ता कीस मारेध आवुकम् ।
चाण्डालः - दीहाओ, अत्त लाअणिओओ क्खु अवलज्झदि, ण क्खु अम्हे ।
दारकः - वावादेध मम् ।
मुञ्चध आवुकम् ।
चाण्डालः - दीहाओ, एवं भणन्ते चिलं मे जीव ।
चारुदत्तः - (सास्रं पुत्रं कण्ठे गृहीत्वा । )
इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥२३॥
(ऽअंसेन बिभ्रत्-ऽ इत्यादि पुनः पठति ।
अवलोक्य स्वगतम् ।
ऽअमी हि वस्त्रान्तनिरुद्धवक्त्राःऽ इत्यादि पुनः पठति । )
विदूषकः - भो भद्दमुहा, मुञ्चध पिअवअस्सं चारुदत्तम् ।
मं वावादेध ।
चारुदत्तः - शान्तं पापम् ।
(दृष्ट्वा स्वगतम् । )
अद्यावगच्छामि ।
(ऽसमसंस्थित-ऽ इत्यादि पठति ।
प्रकाशम् ।
ऽएताः पुनर्हर्म्यगताः स्त्रियो माम्ऽ इत्यादि पुनः पठति । )
चाण्डालः - ओशलध अज्जा, ओशलध ।
किं पेक्खध शप्पुलिशं अजशवशेण प्पणट्टजीवाशम् ।
कूवे खण्डिदपाशं कञ्चणकलशं व्वि डुब्बन्तम् ॥२४॥
(चारुदत्तः सकरुणम् ऽशशिविमलमयूख-ऽ इत्यादि पठति । )
अपरः - अले, पुणोवि घोशेहि ।
(चाण्डालस्तथा करोति । )
चारुदत्तः - प्राप्तोऽहं व्यसनकृशां दशामनार्यां यत्रेदं फलमपि जीवितावसानम् ।
एषा च व्यथयति घोषणा मनो मे श्रोतव्यं यदिदमसौ मया हतेति ॥२५॥
(ततः प्रविशति प्रासादस्थो बद्धः स्थावरकः । )
स्थावरकः - (घोषणामाकर्ण्य सवैक्लव्यम् । )
कधं अपावे चालुदत्ते वावादीअदि ।
हग्गे णिअलेण शामिणा बन्धिदे ।
भोदु ।
आक्कन्दामि ।
शुणाध अज्जा, शुणाध ।
अत्थि दाणिं मए पावेण पवहणपडिवत्तेण पुप्फकलण्डअजिण्णुज्जाणं वसन्तशेणा णीदा ।
तदो मम शामिणा मं ण कामेशित्ति कदुअ बाहुपाशबलक्कालेण मालिदा, ण उण एदिणा अज्जेण ।
कधम् ।
विदूलदाए ण को वि शुणादि ।
ता किं कलेमि ।
अत्ताणअं पाडेमि ।
(विचिन्त्य । )
जै एव्वं कलेमि, तदा अज्जचालुदत्ते ण वावादीअदि ।
भोदु ।
इमादो पाशादबालग्गपदोलिकादो एदिणा जिण्णगवक्खेण अत्ताणअं णिक्खिवामि ।
वलं हग्गे उवलदे, ण उण एशे कुलपुत्तविहगाणं वाशपादवे अज्जचालुदत्ते ।
एव्वं जै विवज्जामि लद्धे मए पललोए ।
(इत्यात्मानं पातयित्वा । )
ही ही ।
ण उवलदम्हि ।
भग्गे मे दण्डणिअले ।
ता चाण्डालघोशं शमण्णेशामि ।
(दृष्ट्वोपसृत्य । )
हंहो चाण्डाला, अन्तलं अन्तलम् ।
चाण्डालौ - अले, के अन्तलं मग्गेदि ।
(चेटः ऽशुणाधऽ इति पूर्वोक्तं पठति । )
चारुदत्तः - अये, कोऽयमेवंविधे काले कालपाशस्थिते मयि ।
अनावृष्टि हते सस्ये द्रोणमेघ इवोदितः ॥२६॥
भोः, श्रुतं भवद्भिः ।
न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमो भवेत् ॥२७॥
अन्यच्च ।
तेनास्म्यकृतवैरेण क्षुद्रेणात्यल्पबुद्धिना ।
शरेणेव विषाक्तेन दूषितेनापि दूषितः ॥२८॥
चाण्डालौ - थावलअ, अवि शच्चं भणाशि ।
चेटः - शच्चम् ।
हग्गे वि मा कश्श वि कधैश्शशि त्ति पाशादबालग्गपदोलिकाए दण्डणिअलेण बन्धिअ णिक्खित्ते ।
(प्रविश्य । )
शकारः - (सहर्षम् । )
मंशेण तिक्खामिलकेण भत्ते शाकेण शूपेण शमच्छकेण ।
भुत्तं मए अत्तणअश्श गेहे शालिश्शकूलेण गुलोदणेण ॥२९॥
(कर्णं दत्त्वा । )
भिण्णकंशखङ्खणाए चाण्डालवाआए शलशञ्जोए ।
जधा अ एशे उक्खालिदे वज्झडिण्डिमशद्दे पडहाणं अ शुणीअदि, तधा तक्केमि, दलिद्दचालुदत्ताके वज्झट्ठाणं णीअदि त्ति ।
ता पेक्खिश्शम् ।
शत्तुविनाशे णाम मम महन्ते हलक्कश्श पलिदोशे होदि ।
शुदं अ मए, जे वि किल शत्तुं वावादअन्तं पेक्खदि, तश्श अण्णश्शिं जम्मन्तले अक्खिलोगे ण होदि ।
मए क्खु विशगण्ठिगब्भपविट्टेण विअ कीडएण किं पि अन्तलं मग्गमाणेण उप्पाडिदे ताह दलिद्दचालुदत्ताह विणाशे ।
शम्पदं अत्तणकेलिकाए पाशादबालग्गपदोलिकाए अहिलुहिअ अत्तणो पलक्कमं पेक्खामि ।
(तथा कृत्वा दृष्ट्वा च । )
ही ही, एदाह दलिद्दचालुदत्ताह वज्झं णीअमाणाह एवड्ढे जणशम्मद्दे, जं वेलं अम्हालिशे पबले वलमणुश्शे वज्झं णीअदि तं वेलं कीदिशे भवे ।
(निरीक्ष्य । )
कधम् ।
एशे शे णवबलद्दके विअ मण्डिदे दक्खिणं दिशं णीअदि ।
अध किण्णिमित्तं ममकेलिकाए पाशादबालग्गपदोलिकाए शमीवे घोशणा णिवडिदा, णिवालिदा अ ।
(विलोक्य । )
कधम्, थावलके चेडे वि णत्थि इध ।
मा णाम तेण इदो गदुअ मन्तभेदे कडे भविश्शदि ।
ता जाव णं अण्णेशामि ।
(इत्यवतीर्योपसर्पति । )
चेटः - (दृष्ट्वा । )
भट्टालका, एशे शे आगडे ।
चाण्डालौ - ओशलध देध मग्गं दालं ढक्केध होध तुण्हीआ ।
अविणअतिक्खविशाणे दुट्ठबैल्ले इदो एदि ॥३०॥
शकारः - अले अले, अन्तलं अन्तलं देध ।
(उपसृत्य । )
पुश्तका थावलका चेडा, एहि ।
गच्छम्ह ।
चेटः - ही ही अणज्ज, वशन्तशेणिअं मालिअ ण पलितुट्टे शि ।
शम्पदं पणैजणकप्पपादवं अज्जचालुदत्तं मालैदुं ववशिदे शि ।
शकारः - ण हि लअणकुम्भशलिशे हग्गे इत्थिअं वावादेमि ।
सर्वे - अहो, तुए मारिदा ।
ण अज्जचारुदत्तेण ।
शकारः - के एव्वं भणादि ।
सर्वे - (चेटमुद्दिश्य । )
णं एसो साहू ।
शकारः - (अपवार्य सभयम् । )
अविद मादिके अविद मादिके, कधं थावलके चेडे शुश्ठु ण मए शञ्जदे ।
एशे क्खु मम अकज्जश्श शक्खी ।
(विचिन्त्य । )
एव्वं दाव कलैश्शम् ।
(प्रकाशम् । )
अलिअं भश्टालका ।
हंहो, एशे चेडे शुवण्णचोलिआए मए गहिदे पिश्टिदे मालिदे बद्धे अ ।
ता किदवेले एशे जं भणादि किं शच्चम् ।
(अपवारितकेन चेटस्य कटकं प्रयच्छति ।
स्वैरकम् । )
पुश्तका थावलका चेडा, एदं गेण्हिअ अण्णधा भणाहि ।
चेटः - (गृहीत्वा । )
पेक्खध पेक्खध भट्टालका ।
हंहो, शुवण्णेण मं पलोभेदि ।
शकारः - (कटकमाच्छिद्य । )
एशे शे शुवण्णके, जश्श कालणादो मए बद्धे ।
(सक्रोधम् । )
हंहो चाण्डाला, मए क्खु एशे शुवण्णभण्डाले णिउत्ते शुवण्णं चोलअन्ते मालिदे पिश्टदे ।
ता जदि ण पत्तिआअध ता पिश्टिं दाव पेक्खध ।
चाण्डालौ - (दृष्ट्वा । )
शोहणं भणादि ।
वितत्ते चेडे किं ण प्पलवदि ।
चेटः - हीमादिके, ईदिशे दाशभावे, जं शच्चं कम्पि ण पत्तिआअदि ।
(सकरुणम् । )
अज्जचालुदत्त, एत्तिके मे विहवे ।
(इति पादयोः पतति । )
चारुदत्तः - (सकरुणम् । )
उत्तिष्ठ भोः पतितसाधुजनानुकम्पिन्निष्कारणोपगतबान्धव धर्मशील ।
यत्नः कृतोऽपि सुमहान्मम मोक्षणाय दैवं न संवदति किं न कृतं त्वयाद्य ॥३१॥
चाण्डालौ - भट्टके, पिट्ठिअ एदं चेडं णिक्खालेहि ।
शकारः - णिक्कम ले ।
(इति निष्क्रामयति । )
अले चाण्डाला, किं विलम्बेध ।
मालेध एदम् ।
चाण्डालौ - जदि तुवलशि ता शअं ज्जेव मालेहि ।
रोहसेनः - अले चाण्डाला, मं मारेध ।
मुञ्चध आवुकम् ।
शकारः - शपुत्तं ज्जेव एदं मालेध ।
चारुदत्तः - सर्वमस्य मूर्खस्य सम्भाव्यते ।
तद्गच्छ पुत्र, मातुः समीपम् ।
रोहसेनः - किं मए गदेण कादव्वम् ।
चारुदत्तः - आश्रमं वत्स गन्तव्यं गृहीत्वाद्यैव मातरम् ।
मा पुत्र पितृदोषेण त्वमप्येवं गमिष्यसि ॥३२॥
तद्वयस्य, गृहीत्वैनं व्रज ।
विदूषकः - भो वअस्स, एव्वं तुए जाणिदम्, तुए विणा अहं पाणाइं धारेमि त्ति ।
चारुदत्तः - वयस्य, स्वाधीनजीवितस्य न युज्यते तव प्राणपरित्यागः ।
विदूषकः - (स्वगतम् । )
जुत्तं णेदम् ।
तधा वि ण सक्कुणोमि पिअवअस्सविरहिदो पाणाइं धारेदुं त्ति ।
ता बम्हणीए दारअं समप्पिअ पाणपरिच्चाएण अत्तणो पिअवअस्सं अणुगमिस्सम् ।
(प्रकाशम् । )
भो वअस्स, पराणेमि एदं लहुम् ।
(इति सकण्ठग्रहं पादयोः पतति । )
(दारकोपि रुदन्पतति । )
शकारः - अले, णं भणामि शपुत्ताकं चालुदत्ताकं वावादेध त्ति ।
(चारुदत्तो भयं नाटयति । )
चाण्डालौ - णहि अम्हाणं ईदिशी लाआण्णत्ती, जधा शपुत्तं चालुदत्तं वावादेध त्ति ।
ता णिक्कम ले दालआ, णिक्कम ।
(इति निष्क्रामयतः । )
इमं तैअं घोशणट्ठाणम् ।
ताडेध डिण्डिमम् ।
(पुनर्घोषयतः । )
शकारः - (स्वगतम् । )
कधं एशे ण पत्तिआअन्ति पौला ।
(प्रकाशम् । )
हंहो चालुदत्ता बडुका, ण पत्तिआअदि एशे पौलजणे ।
ता अत्तणकेलिकाए जीहाए भणाहि मए वशन्तशेणा मालिदेत्ति ।
(चारुदत्तस्तूष्णीमास्ते । )
शकारः - अले चण्डालगोहे, ण भणादि चालुदत्तबडुके ।
ता भणावेध इमिणा जज्जलवंशखण्डेण शङ्खलेण तालिअ तालिअ ।
चाण्डालः - (प्रहारमुद्यम्य । )
भो चालुदत्त, भणाहि ।
चारुदत्तः - (सकरुणम् । )
प्राप्यैतद्व्यसनमहार्णवप्रपातं न त्रासो न च मनसोऽस्ति मे विषादः ।
एको मां दहति जनापवादवह्निर्वक्तव्यं यदिह मया हता प्रियेति ॥३३॥
(शकारः पुनस्तथैव । )
चारुदत्तः - भो भोः पौराः ।
(ऽमया खलु नृशंसेनऽ इत्यादि पुनः पठति । )
शकारः - वावादिदा ।
चारुदत्तः - एवमस्तु ।
प्रथमचाण्डालः - अले, तव अत्त वज्झपालिआ ।
द्वितीयचाण्डालः - अले, तव ।
प्रथमः - अले, लेक्खअं कलेम्ह ।
(इति बहुविधं लेखकं कृत्वा । )
अले, जदि ममकेलिका वज्झपालिआ, ता चिट्ठदु दाव मुहुत्तअम् ।
द्वितीयः - किण्णिमित्तम् ।
प्रथमः - अले, भणिदो म्हि पिदुणा शग्गं गच्छन्तेण, जधा - पुत्त वीरअ, जै तुह वज्झपालिआ होदि, मा शहशा वावादअशि वज्झम् ।
द्वितीयः - अले, किण्णिमित्तम् ।
प्रथमः - कदावि कोवि साहू अत्थं दैअ वज्झं मोआवेदि ।
कदावि लण्णो पुत्ते भोदि, तेण वद्धावेण शव्ववज्झाणं मोक्खे होदि ।
कदावि हत्थी बन्धं खण्डेदि, तेण शम्भमेण वज्झे मुक्के होदि ।
कदावि लाअपलिवत्ते होदि, तेण शव्ववज्झाणं मोक्खे होदि ।
शकारः - किं किं लाअपलिवत्ते होदि ।
चाण्डालः - अले, वज्झपालिआए लेक्खअं कलेम्ह ।
शकारः - अले, शिग्घं मालेघ चालुदत्ताकम् ।
(इत्युक्त्वा चेटं गृहीत्वैकान्ते स्थितः । )
चाण्डालः - अज्जचालुदत्त, लाअणिओओ क्खु अवलज्झदि, ण क्खु अम्हे चाण्डाला ।
ता शुमलेहि जं शुमलिव्वम् ।
चारुदत्तः - प्रभवति यदि धर्मो दूषितस्यापि मेऽद्य प्रबलपुरुषवाक्यैर्भाग्यदोषात्कथञ्चित् ।
सुरपतिभवनस्था यत्र तत्र स्थिता वा व्यपनयतु कलङ्कं स्वस्वभावेन सैव ॥३४॥
भोः, क्व तावन्मया गन्तव्यम् ।
चाण्डालः - (अग्रतो दर्शयित्वा । )
अले एदं दीशदि दक्खिणमशाणम्, जं पेक्खिअ वज्झा झत्ति पाणाइं मुञ्चन्ति पेक्ख पेक्ख ।
अद्धं कलेवलं पडिवुत्तं कट्टन्ति दीहगोमाआ ।
अद्धं पि शूललग्गं वेशं विअ अट्टहाशश्श ॥३५॥
चारुदत्तः - हा, हतोऽस्मि मन्दभाग्यः ।
(इति सावेगमुपविशति । )
शकारः - ण दाव गमिश्शम् ।
चालुदत्ताकं वावादअन्तं दाव पेक्खामि ।
(परिक्रम्य दृष्ट्वा । )
कधं उवविश्टे ।
चाण्डालः - चालुदत्ता, किं भीदेशि ।
चारुदत्तः - (सहसोत्थाय । )
मूर्ख ।
(ऽन भीतो मरणादस्मि केवलं दूषितं यशःऽ इत्यादि पुनः पठति । )
चाण्डालः - अज्जचालुदत्त, गअणदले पडिवशन्ता चन्दशुज्जा वि विपत्तिं लहन्ति ।
किं उण जणा मलणभीलुआ माणवा वा ।
लोए कोवि उट्ठिदो पडदि, कोवि पडिदोवि उट्ठेदि ।
उट्ठन्तपडन्ताह वशणपाडिआ शवश्श उण अत्थि ।
एदाइं हिअए कदुअ सन्धालेहि अत्ताणअम् ।
(द्वितीयचाण्डालं प्रति । )
एदं चौट्ठं घोशणट्ठाणम् ।
ता उग्घोशम्ह ।
(पुनस्तथैवोद्घोषयतः । )
चारुदत्तः - हा प्रिये वसन्तसेने ।
(ऽशशिविमलमयूखऽ इत्यादि पुनः पठति । )
(ततः प्रविशति ससम्भ्रमा वसन्तसेना भिक्षुश्च । )
भिक्षुः - हीमाणहे, अट्ठाणपलिश्शन्तं शमश्शाशिअ वशन्तशेणिअं णअन्ते अणुग्गहिदम्हि पव्वजाए ।
उवाशिके, कहिं तुमं णैश्शम् ।
वसन्तसेना - अज्जचारुदत्तस्स ज्जेव गेहम् ।
तस्स दंसणेण मिअलाञ्छणस्स विअ कुमुदिणिं आणन्देहि मम् ।
भिक्षुः - (स्वगतम् । )
कदलेण मग्गेण पविशामि ।
(विचिन्त्य । )
लाअमग्गेण ज्जेव पविशामि ।
उवाशिके, एहि ।
इमं लाअमग्गम् ।
(आकर्ण्य । )
किं णु क्खु एशे लाअमग्गे महन्ते कलअले शुणीअदि ।
वसन्तसेना - (अग्रतो निरूप्य । )
कधं पुरदो महाजणसमूहो ।
अज्ज, जाणाहि दाव किं णेदं त्ति ।
विसमभरक्कन्ता विअ वसुन्धरा एअवासोण्णदा उज्जैणी वट्टदि ।
चाण्डालः - इमं अ पच्छिमं घोशणट्ठाणम् ।
ता तालेध डिण्डिमम् ।
उग्घोशेध घोशणम् ।
(तथा कृत्वा । )
भो चालुदत्त, पडिवालेहि ।
मा भाआहि ।
लहुं ज्जेव मालीअशि ।
चारुदत्तः - भगवत्यो देवताः ।
भिक्षुः - (श्रुत्वा ससम्भ्रमम् । )
उवाशिके, तुमम् किल चालुदत्तेण मालिदाशि त्ति चालुदत्तो मालिदुं णीअदि ।
वसन्तसेना - (ससम्भ्रमम् । )
हद्धी हद्धी, कधं मम मन्दभाइणीए किदे अज्जचालुदत्तो वावादीअदि ।
भो, तुरिदं तुरिदं आदेसेहि मग्गम् ।
भिक्षुः - तुवलदु तुवलदु बुद्धोवाशिका अज्जचालुदत्तं जीअन्तं शमश्शाशिदुम् ।
अज्जा, अन्तलं अन्तलं देध ।
वसन्तसेना - अन्तरं अन्तरम् ।
चाण्डालः - अज्जचालुदत्त, शामिणिओओ अवलज्झदि ।
ता शुमलेहि जं शुमलिदव्वम् ।
चारुदत्तः - किं बहुना ।
(ऽप्रभवति-ऽ इत्यादि श्लोकं पठति । )
चाण्डालः - (खड्गमाकृष्य । )
अज्जचालुदत्त, उत्ताणे भविअ समं चिट्ठ ।
एक्कप्पहालेण मालिअ तुमं शग्गं णेम्ह ।
(चारुदत्तस्तथा तिष्ठति । )
चाण्डालः - (प्रहर्तुमीहते ।
खड्गपतनं हस्तादभिनयन् । )
ही कधम् ।
आअट्ठिदे शलोशं मुट्ठीए मुट्ठिणा गहीदे वि ।
धलणीए कीश पडिदे दालुणके अशणिशण्णिहे खग्गे ॥३६॥
जधा एदं संवुत्तम्, तधा तक्केमि ण विवज्जदि अज्जचालुदत्ते त्ति ।
भअवदि शज्झवाशिणि, पशीद पशीद ।
अवि णाम चालुदत्तश्श मोक्खे भवे, तदो अणुगहिदं तुए चाण्डालौलं भवे ।
अपरः - जधाण्णत्तं अणुचिट्ठम्ह ।
प्रथमः - भोदु ।
एव्वं कलेम्ह ।
(इत्युभौ चारुदत्तं शूले समारोपयितुमिच्छतः । )
(चारुदत्तः ऽप्रभवतिऽ इत्यादि पुनः पठति । )
भिक्षुर्वसन्तसेना च - (दृष्ट्वा । )
अज्जा, मा दाव मा दाव ।
अज्जा, एसा अहं मन्दभाइणी, जाए कारणादो एसो वावादीअदि ।
चाण्डालः - (दृष्ट्वा । )
का उण तुलिदं एशा अंशपडन्तेण चिउलभालेण ।
मा मेत्ति वाहलन्ती उट्ठिदहत्था इदो एदि ॥३७॥
वसन्तसेना - अज्जचारुदत्त, किं णेदम् ।
(इत्युरसि पतति । )
भिक्षुः - अज्जचालुदत्त, किं णेदम् ।
(इति पादयोः पतति । )
चाण्डालः - (सभयमपसृत्य । )
कधम्, वशन्तशेणा ।
णं क्खु अम्हेहिं शाहू ण वावादिदे ।
भिक्षुः - (उत्थाय । )
अले, जीवदि चालुदत्ते ।
चाण्डालः - जीवदि वश्शशदम् ।
वसन्तसेना - (सहर्षम् । )
पच्चुज्जीविदम्हि ।
चाण्डालः - ता जाव एदं वुत्तं राइण्णो जण्णवाडगदश्श णिवेदेम्ह ।
(इति निष्क्रामतः । )
शकारः - (वसन्तसेनां दृष्ट्वा सत्रासम् । )
हीमादिके ।
केण गब्भदाशी जीवाविदा ।
उक्कन्ताइं मे पाणाइं ।
भोदु ।
पलाइश्शम् ।
(इति पलायते । )
चाण्डालः - (उपसृत्य । )
अले, णं अम्हाणं ईदिशी लाआण्णत्ती - जेण शा वावादिदा, तं मालेधत्ति ।
ता लट्टिअशालअं ज्जेव अण्णेशम्ह ।
(इति निष्क्रान्तौ । )
चारुदत्तः - (सविस्मयम् । )
केयमभ्युद्यते शस्त्रे मृत्युवक्त्रगते मयि ।
अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागता ॥३८॥
(अवलोक्य च । )
वसन्तसेना किमियं द्वितीया समागता सैव दिवः किमित्थम् ।
भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना न मृताथ सैव ॥३९॥
अथवा ।
किं नु स्वर्गात्पुनः प्राप्ता मम जीवातुकाम्यया ।
तस्या रूपानुरूपेण किमुतान्येयमागता ॥४०॥
वसन्तसेना - (सास्रमुत्थाय पादयोर्निपत्य । )
अज्जचालुदत्त, सा ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा ।
(नेपथ्ये । )
अच्चरिअं अच्चरिअम् ।
जीवदि वसन्तसेना ।
(इति सर्वे पठन्ति । )
चारुदत्तः - (आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षगद्गदाक्षरम् । )
प्रिये, वसन्तसेना त्वम् ।
वसन्तसेना - सा ज्जेवाहं मन्दभाआ ।
चारुदत्तः - (निरूप्य सहर्षम् । )
कथं वसन्तसेनैव ।
(सानन्दम् । )
कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ ।
मयि मृत्युवशं प्राप्ते विद्येव समुपागता ॥४१॥
प्रिये वसन्तसेने, त्वदर्थमेतद्विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे ।
अहो प्रभावः प्रियसङ्गमस्य मृतोऽपि को नाम पुनर्ध्रियेत ॥४२॥
अपि च ।
प्रिये, पश्य ।
रक्तं तदेव वरवस्त्रमियं च माला कान्तागमेन हि वरस्य यथा विभाति ।
एते च वध्यपटहध्वनयस्तथैव जाता विवाहपटहध्वनिभिः समानाः ॥४३॥
वसन्तसेना - अदिदक्खिणदाए किं णेदं ववसिदं अज्जेण ।
चारुदत्तः - प्रिये, त्वं किल मया हतेति ।
पूर्वानुबद्धवैरेण शत्रुणा प्रभविष्णुना ।
नरके पतता तेन मनागस्मि निपातितः ॥४४॥
वसन्तसेना - (कर्णौ पिधाय । )
सन्तं पावम् ।
तेण म्हि राअसालेण वावादिदा ।
चारुदत्तः - (भिक्षुं दृष्ट्वा । )
अयमपि कः ।
वसन्तसेना - तेण अणज्जेण वावादिदा ।
एदिणा अज्जेण जीवाविदम्हि ।
चारुदत्तः - कस्त्वमकारणबन्धुः ।
भिक्षुः - ण पच्चभिजाणादि मं अज्जो ।
अहं शे अज्जश्श चलणशंवाहचिन्तए शंवाहके णाम ।
जूदिअलेहिं गहिदे एदाए उवाशिकाए अज्जश्श केलकेत्ति अलङ्कालपणणिक्कीदे म्हि ।
तेण अ जूदणिव्वेदेण शक्कशमणके शंवुत्ते म्हि ।
एशावि अज्जा पवहणविपज्जाशेण पुप्फकलण्डकजिण्णुज्जाणं गदा ।
तेण अ अणज्जेण ण मं बहु मण्णेशि त्ति बाहुपाशबलक्कालेण मालिदा ।
मए दिट्टा ।
(नेपथ्ये कलकलः । )
जयति वृषभकेतुर्दक्षयज्ञस्य हन्ता तदनु जयति भेत्ता षण्मुखः क्रौञ्चशत्रुः ।
तदनु जयति कृत्स्नां शुभ्रकैलासकेतुं विनिहतवरवैरी चार्यको गां विशालाम् ॥४५॥
(प्रविश्य सहसा । )
शर्विलकः - हत्वा तं कुनृपमहं हि पालकं भोस्तद्राज्ये द्रुतमभिषिच्य चार्यकं तम् ।
तस्याज्ञां शिरसि निधाय शेषभूतां मोक्ष्येऽहं व्यसनगतं च चारुदत्तम् ॥४६॥
हत्वा रिपुं तं बलमन्त्रिहीनं पौरान्समाश्वास्य पुनः प्रकर्षात् ।
प्राप्तं समग्रं वसुधाधिराज्यं राज्यं बलारेरिव शत्रुराज्यम् ॥४७॥
(अग्रतो निरूप्य । )
भवतु ।
अत्र तेन भवितव्यम्, यत्रायं जनपदसमवायः ।
अपि नामायमारम्भः क्षितिपतेरार्यकस्यार्यचारुदत्तस्य जीवितेन सफलः स्यात् ।
(त्वरिततरमुपसृत्य । )
अपयात जाल्माः ।
(दृष्ट्वा ।
सहर्षम् । )
अपि ध्रियते चारुदत्तः सह वसन्तसेनया ।
सम्पूर्णाः खल्वस्मत्स्वामिनो मनोरथाः ।
दिष्ट्या भो व्यसनमहार्णवादपारादुत्तीर्णं गुणधृतया सुशीलवत्या ।
नावेव प्रियतमया चिरान्निरीक्ष्ये ज्योत्स्नाढ्यं शशिनमिवोपरागमुक्तम् ॥४८॥
तत्कृतमहापातकः कथमिवैनमुपसर्पामि ।
(अथवा । )
सर्वत्रार्जवं शोभते ।
(प्रकाशमुपसृत्य बद्धाञ्जलिः । )
आर्यचारुदत्त ।
चारुदत्तः - ननु को भवान् ।
शर्विलकः - येन ते भवनं भित्त्वा न्यासापहरणं कृतम् ।
सोऽहं कृतमहापापस्त्वामेव शरणं गतः ॥४९॥
चारुदत्तः - सखे, मैवम् ।
त्वयासौ प्रणयः कृतः ।
(इति कण्ठे गृह्णाति । )
शर्विलकः - अन्यच्च ।
आर्यकेणार्यवृत्तेन कुलं मानं च रक्षता ।
पशुवद्यज्ञवाटस्थो दुरात्मा पालको हतः ॥५०॥
चारुदत्तः - किम् ।
शर्विलकः - त्वद्यानं यः समारुह्य यतस्त्वां शरणं पुरा ।
पशुवद्वितते यज्ञे हतस्तेनाद्य पालकः ॥५१॥
चारुदत्तः - शर्विलक, योऽसौ पालकेन घोषादानीय निष्कारणं कूटागारे बद्ध आर्यकनामा त्वया मोचितः ।
शर्विलकः - यथाह तत्रभवान् ।
चारुदत्तः - प्रियं नः प्रियम् ।
शर्विलकः - प्रतिष्ठितमात्रेण तव सुहृदार्यकेणोज्जयिन्यां वेणातटे कुशावत्यां राज्यमतिसृष्टम् ।
तत्प्रतिमान्यतां प्रथमः सुहृत्प्रणयः ।
(परिवृत्य । )
अरे रे, आनीयतामयं पापो राष्ट्रियशठः ।
(नेपथ्ये । )
यथाज्ञापयति शर्विलकः ।
शर्विलकः - आर्य, नन्वयमार्यको राजा विज्ञापयति - इदं मया युष्मद्गुणोपार्जितं राज्यम् ।
तदुपयुज्यताम् ।
चारुदत्तः - अस्मद्गुणोपार्जितं राज्यम् ।
(नेपथ्ये । )
अरे रे राष्ट्रियश्यालक, एह्येहि ।
स्वस्याविनयस्य फलमनुभव ।
(ततः प्रविशति पुरुषैरधिष्ठितः पश्चाद्बाहुबद्धः शकारः । )
शकारः - हीमादिके, एव्वं दूलमदिक्कन्ते उद्दामे विअ गद्दहे ।
आणीदे क्खु हगे बद्धे हुडे अण्णे व्व दुक्कले ॥५२॥
(दिशोऽवलोक्य । )
शमन्तदो उवट्ठिदे एशे लश्टिअबन्धे ।
ता कं दाणिं अशलणे शलणं वजामि ।
(विचिन्त्य । )
भोदु ।
तं ज्जेव अब्भुववण्णशलणवच्छलं गच्छामि ।
(इत्युपसृत्य । )
अज्जचालुदत्त, पलित्ताआहि पलित्ताआहि ।
(इति पादयोः पतति । )
(नेपथ्ये । )
अज्ज चालुदत्त, मुञ्च मुञ्च ।
वावादेम्ह एदम् ।
शकारः - (चारुदत्तं प्रति । )
भो अशलणशलणे, पलित्ताआहि ।
चारुदत्तः - (सानुकम्पम् । )
अहह, अभयमभयं शरणागतस्य ।
शर्विलकः - (सावेगम् । )
आः, अपनीयतामयं चारुदत्तपार्श्वात् ।
(चारुदत्तं प्रति । )
ननूच्यतां किमस्य पापस्यानुष्ठीयतामिति ।
आकर्षन्तु सुबद्ध्वैनं श्वभिः सङ्खाद्यतामथ ।
शूले वा तिष्ठतामेष पाट्यतां क्रकचेन वा ॥५३॥
चारुदत्तः - किमहं यद्ब्रवीमि तत्क्रियते ।
शर्विलकः - कोऽत्र सन्देहः ।
शकारः - भश्टालआ चालुदत्त, शलणागदे म्हि ।
ता पलित्ताआहि पलित्ताआहि ।
जं तुए शलिशं तं कलेहि ।
पुणो ण ईदिशं कलिश्शम् ।
(नेपथ्ये । )
पौराः वावादेध ।
किण्णिमित्तं पादकी जीवावीअदि ।
(वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति । )
शकारः - गब्भदाशीधीए, पशीद, पशीद ।
ण उण मालैश्शम् ।
ता पलित्ताआहि ।
शर्विलकः - अरे रे, अपनयत ।
आर्यचारुदत्त, आज्ञाप्यताम् - किमस्य पापस्यानुष्ठीयताम् ।
चारुदत्तः - किमहं यद्ब्रवीमि तत्क्रियते ।
शर्विलकः - कोऽत्र सन्देहः ।
चारुदत्तः - सत्यम् ।
शर्विलकः - सत्यम् ।
चारुदत्तः - यद्येवं शीघ्रमयम् - ।
शर्विलकः - किं हन्यताम् ।
चारुदत्तः - नहि नहि ।
मुच्यताम् ।
शर्विलकः - किमर्थम् ।
चारुदत्तः - शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।
शस्त्रेण न हन्तव्यः ।
शर्विलकः - एवम् ।
तर्हि श्वभिः खाद्यताम् ।
चारुदत्तः - नहि ।
उपकारहतस्तु कर्तव्यः ॥५४॥
शर्विलकः - अहो, आश्चर्यम् ।
किं करोमि ।
वदत्वार्यः ।
चारुदत्तः - तन्मुच्यताम् ।
शर्विलकः - मुक्तो भवतु ।
शकारः - हीमादिके ।
पच्चुज्जीविदे म्हि ।
(इति पुरुषैः सह निष्क्रान्तः । )
(नेपथ्ये कलकलः । )
(पुनर्नेपथ्ये । )
एसा अज्जचालुदत्तस्स वहुआ अज्जा धूदा पदे वसणञ्चले विलग्गन्तं दारअं आक्खिवन्ती वाप्फभरिदणअणेहिं जणेहिं णिवारिज्जमाणा पज्जलिदे पावए पविसदि ।
शर्विलकः - (आकर्ण्य नेपथ्याभिमुखमवलोक्य । )
कथं चन्दनकः ।
चन्दनक, किमेतत् ।
चन्दनकः - (प्रविश्य । )
किं ण पेक्खदि अज्जो ।
महाराअप्पासादं दक्खिणेण महन्तो जणसम्मद्दो वट्टदि ।
(ऽएसाऽ इत्यादि पुनः पठति । )
कधिदं अ मए तीए, जधा - ऽअज्जे, मा साहसं करेहि ।
जीवदि अज्जचारुदत्तोऽ त्ति ।
परन्तु दुक्खवावुडदाए को सुणेदि, को पत्तिआएदि ।
चारुदत्तः - (सोद्वेगम् । )
हा प्रिये, जीवत्यपि मयि किमेतद्व्यवसितम् ।
(ऊर्ध्वमवलोक्य दीर्घं निश्वस्य च । )
न महीतलस्थितिसहानि भवच्चरितानि चारुचरिते यदपि ।
उचितं तथापि परलोकसुखं न पतिव्रते तव विहाय पतिम् ॥५५॥
(इति मोहमुपगतः । )
शर्विलकः - अहो प्रमादः ।
त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।
हा धिक्प्रयत्नवैफल्यं दृश्यते सर्वतोमुखम् ॥५६॥
वसन्तसेना - समस्ससिदु अज्जो ।
तत्त गदुअ जीवावेदु अज्जाम् ।
अण्णधा अधीरत्तणेण अणत्थो सम्भावीअदि ।
चारुदत्तः - (समाश्वस्य सहसोत्थाय । )
हा प्रिये, क्वासि ।
देहि मे प्रतिवचनम् ।
चन्दनकः - इदो इदो अज्जो ।
(इति सर्वे परिक्रामन्ति । )
(ततः प्रविशति यथानिर्दिष्टा धूता चेलाञ्चलमाकर्षन्विदूषकेणानुगम्यमानो रोहसेनो रदनिका च । )
धूता - (सास्रम् । )
जाद, मुञ्चेहि मम् ।
मा विग्घं करेहि ।
भीआमि अज्जौत्तस्स अमङ्गलाकण्णणदो ।
(इत्युत्थायाञ्चलमाकृष्य पावकाभिमुखं परिक्रामति । )
रोहसेनः - माद अज्जए, पडिवालेहि मम् ।
तुए विणा ण सक्कुणोमि जीविदं धारेदुम् ।
(इति त्वरितमुपसृत्य पुनरञ्चलं गृह्णाति । )
विदूषकः - भोदीए दाव बम्हणीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरन्ति रिसीओ ।
धूता - वरं पावाचरणे ।
ण उण अज्जौत्तस्स अमङ्गलाकण्णणम् ।
शर्विलकः - (पुरोऽवलोक्य । )
आसन्नहुतवहार्या ।
तत्त्वर्यतां त्वर्यताम् ।
(चारुदत्तस्त्वरितं परिक्रामति । )
धूता - रअणिए, अवलम्ब दारअम्, जाव अहं समीहिदं करेमि ।
चेटी - (सकरुणम् । )
अहं पि जधोवदेसिणिम्हि भट्टिणीए ।
धूता - (विदूषकमवलोक्य । )
अज्जो दाव अवलम्बेदु ।
विदूषकः - (सावेगम् । )
समीहिदसिद्धिए पौत्तेण बम्हणो अग्गदो कादव्वो ।
अदो भोदीए अहं अग्गणी होमि ।
धूता - कधं पच्चादिट्ठम्हि दुवेहिं ।
(बालकमालिङ्ग्य । )
जाद, तुमं ज्जेव पज्जवट्ठावेहि अत्ताणं अम्हाणं तिलोदअदाणाअ ।
अदिक्कन्ते किं मणोरहेहिं ।
(सनिःश्वासम् । )
ण क्खु अज्जौत्तो तुमं पज्जवट्ठाविस्सदि ।
चारुदत्तः - (आकर्ण्य सहसोपसृत्य । )
अहमेव पर्यवस्थापयामि बालिशम् ।
(इति बालकम् बाहुभ्यामुत्थाप्य वक्षसालिङ्गति । )
धूता - (विलोक्य । )
अम्महे ।
अज्जौत्तस्स ज्जेव सरसञ्जोओ ।
(पुनर्निपुणं निरूप्य सहर्षम् । )
दिट्ठिआ अज्जौत्तो ज्जेव एसो ।
पिअं मे पिअम् ।
बालकः - (विलोक्य सहर्षम् । )
अम्मो ।
आवुको मं परिस्सजदि ।
(धूतां प्रति । )
अज्जए, वड्ढवीअसि ।
आवुको ज्जेव मं पज्जवट्ठावेदि ।
(इति प्रत्यालिङ्गति । )
चारुदत्तः - (धूतां प्रति । )
हा प्रेयसि प्रेयसि विद्यमाने कोऽयं कठोरो व्यवसाय आसीत् ।
अम्भोजिनीलोचनमुद्रणं किं भानावनस्तङ्गमिते करोति ॥५७॥
धूता - अज्जौत्त, अदो ज्जेव सा अचेतणेत्ति चुम्बीअदि ।
विदूषकः - (दृष्ट्वा सहर्षम् । )
ही ही भो, एदेहिं ज्जेव अच्छीहिं पिअवअस्सो पेक्खीअदि ।
अहो सदीए पहावो, जदो जलणप्पवेशव्ववसाएण ज्जेव पिअसमागमं पाविदा ।
(चारुदत्तं प्रति । )
जेदु जेदु पिअवअस्सो ।
चारुदत्तः - एहि मैत्रेय ।
(इत्यालिङ्गति । )
चेटी - अहो संविधाणअम् ।
अज्ज, वन्दामि ।
(इति चारुदत्तस्य पादयोः पतति । )
चारुदत्तः - (पृष्ठे करं दत्त्वा । )
रदनिके, उत्तिष्ठ ।
(इत्युत्थापयति । )
धूता - (वसन्तसेनां दृष्ट्वा । )
दिट्ठिआ कुसलिणी बहिणिआ ।
वसन्तसेना - अहुणा कुसलिणी संवुत्तम्हि ।
(इत्यन्योऽन्यमालिङ्गतः । )
शर्विलकः - दिष्ट्या जीवितसुहृद्वर्ग आर्यः ।
चारुदत्तः - युष्मत्प्रसादेन ।
शर्विलकः - आर्ये वसन्तसेने, परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति ।
वसन्तसेना - अज्ज, कदत्थम्हि ।
शर्विलकः - (वसन्तसेनामवगुण्ठ्य चारुदत्तं प्रति । )
आर्य, किमस्य भिक्षोः क्रियताम् ।
चारुदत्तः - भिक्षो, किं तव बहुमतम् ।
भिक्षुः - इमं ईदिशं अणिच्चत्तणं पेक्खिअ दिउणतले मे पव्वज्जाए बहुमाणे संवुत्ते ।
चारुदत्तः - सखे, दृढोऽस्य निश्चयः ।
तत्पृथिव्यां सर्वविहारेषु कुलपतिरयं क्रियताम् ।
शर्विलकः - यथाहार्यः ।
भिक्षुः - पिअं णो पिअम् ।
वसन्तसेना - सम्पदं जीवाविदम्हि ।
शर्विलकः - स्थावरकस्य किं क्रियताम् ।
चारुदत्तः - सुवृत्त, अदासो भवतु ।
ते चाण्डालाः सर्वचाण्डालानामधिपतयो भवन्तु ।
चन्दनकः पृथिवीदण्डपालको भवतु ।
तस्य राष्ट्रियश्यालस्य यथैव क्रिया पूर्वमासीत्, वर्तमाने तथैवास्यास्तु ।
शर्विलकः - एवं यथाहार्यः ।
परमेनं मुञ्च मुञ्च ।
व्यापादयामि ।
चारुदत्तः - अभयं शरणागतस्य ।
(ऽशत्रुः कृतापराधःऽ इत्यादि पठति । )
शर्विलकः - तदुच्यतां किं ते भूयः प्रियं करोमि ।
चारुदत्तः - अतः परमपि प्रियमस्ति ।
लब्धा चारित्रशुद्धिश्चरणनिपतितः शत्रुरप्येष मुक्तः प्रोत्खातारातिमूलः प्रियसुहृदचलामार्यकः शास्ति राजा ।
प्राप्ता भूयः प्रियेयं प्रियसुहृदि भवान्सङ्गतो मे वयस्यो लभ्यं किं चातिरिक्तं यदपरमधुना प्रार्थयेऽहं भवन्तम् ॥५८॥
कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।
अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥५९॥
तथापीदमस्तु भरतवाक्यम् - क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसम्पन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः ।
मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥६०॥
(इति निष्क्रान्ताः सर्वे । )
संहारो नाम दशमोऽङ्कः ।