०९ व्यवहारः

नवमोऽङ्कः ।
(ततः प्रविशति शोधनकः । )
शोधनकः - आणत्तम्हि अधिअरणभोइएहिं - ऽअरे सोहणआ, ववहारमण्डवं गदुअ आसणाइं सज्जीकरेहिऽ त्ति ।
ता जाव अधिअरणमण्डवं सज्जिदुं गच्छामि ।
(परिक्रम्यावलोक्य च । )
एदं अधिअरणमण्डवम् ।
एस पविसामि ।
(प्रविश्य सम्मार्ज्यासनमाधाय । )
विवित्तं कारिदं मए अधिअरणमण्डवम् ।
विरैदा मए आसणा ।
ता जाव अधिअरणिआणं उण णिवेदेमि ।
(परिक्रम्यावलोक्य च । )
कधम्, एसो रट्टिअस्सालो दुट्टदुज्जणमणुस्सो इदो एव्व आअच्छदि ।
ता दिट्टिपधं परिहरिअ गमिस्सम् ।
(इत्येकान्ते स्थितः । )
(ततः प्रविशत्युज्ज्वलवेशधारी शकारः । )
शकारः - ण्हादेहं शलिलजलेहिं पाणिएहिं उज्जाणे उववणकाणणे णिशण्णे ।
णालीहिं शह जुवदीहिं इश्तिआहिं गन्धव्वेहिं शुविहिदएहिं अङ्गकेहिं ॥१॥
खणेण गण्ठी खणजूलके मे खणेण बाला खलकुन्तले वा ।
खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशाले ॥२॥
अवि अ ।
विशगण्ठिगब्भपविश्टेण विअ कीडएण अन्तलं मग्गमाणेण पाविदं मए महदन्तलम् ।
ता कश्श एदं किविणचेश्टिअं पाडैश्शम् ।
(स्मृत्वा । )
आं, शुमलिदं मए ।
दलिद्दचालुदत्तश्श एदं किविणचेश्टिअं पाडैश्शम् ।
अण्णं च ।
दलिद्दे क्खु शे ।
तश्श शव्वं शम्भावीअदि ।
भोदु ।
अधिअलणमण्डवं गदुअ अग्गदो ववहालं लिहावैश्शम्, जधा चालुदत्ताकेण वशन्तशेणिआ मोडिअ मालिदा ।
ता जाव अधिअलणमण्डवं ज्जेव्व गच्छामि ।
(परिक्रम्यावलोक्य च । )
एदं तं अधिअलणमण्डवम् ।
एत्थ पविशामि ।
(प्रविश्यावलोक्य च । )
कधम्, आशणाइं दिण्णाइं चिश्टन्ति ।
जाव आअश्शन्ति अधिअलणभोइआ, दाव एदश्शिं दुव्वचत्तले मुहुत्तअं उवविशिअ पडिवालैश्शम् ।
(तथा स्थितः । )
शोधनकः - (अन्यतः परिक्रम्य पुरो दृष्ट्वा । )
एदे अधिअरणिआ आअच्छन्ति ।
ता जाव उवसप्पामि ।
(इत्युपसर्पति । )
(ततः प्रविशति श्रेष्ठिकायस्थादिपरिवृतोऽधिकरणिकः । )
अधिकरणिकः - भो भोः श्रेष्ठिकायस्थौ ।
श्रेष्ठिकायस्थौ - आणवेदु अज्जो ।
अधिकरणिकः - अहो, व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः ।
छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दूरीकृतं स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् ।
तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते सङ्क्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥३॥
अपि च ।
छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः स्वान्दोषान्कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् ।
ये पक्षापरपक्षदोषसहिताः पापानि सङ्कुर्वते सङ्क्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥४॥
यतः ।
अधिकरणिकः खलु शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधनस्तुल्यो मित्रपरस्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः ।
क्लीबान्पालयिता शठान्व्यथयिता धर्म्यो न लोभान्वितो द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥५॥
श्रेष्ठिकायस्थौ - अज्जस्स वि णाम गुणे दोसो त्ति वुच्चदि ।
जै एव्वम्, ता चन्दालोए वि अन्धआरो त्ति वुच्चदि ।
अधिकरणिकः - भद्र शोधनक, अधिकरणमण्डपस्य मार्गमादेशय ।
शोधनकः - एदु एदु अधिअरणभोइओ, एदु ।
(इति परिक्रामन्ति । )
शोधनकः - एदं अधिअरणमण्डवम् ।
ता पविसन्तु अधिअरणभोइआ ।
(सर्वे च प्रविशन्ति । )
अधिकरणिकः - भद्र शोधनक, बहिर्निष्क्रम्य ज्ञायताम् - ऽकः कः कार्यार्थीऽ इति ।
शोधनकः - जं अज्जो आणवेदि ।
(इति निष्क्रम्य । )
अज्जा, अधिअरणिआ भणन्ति - ऽको को इध कज्जत्थीऽ त्ति ।
शकारः - (सहर्षम् । )
उवत्थिए अधिअलणिए ।
(साटोपं परिक्रम्य । )
हग्गे वलपुलिशे मणुश्शे वाशुदेवे लश्टिअशाले लाअशाले कज्जत्थी ।
शोधनकः - (ससम्भ्रमम् । )
हीमादिके, पढमं ज्जेव रट्टिअसालो कज्जत्थी ।
भोदु ।
अज्ज, मुहुत्तं चिट्ठ ।
दाव अधिअरणिआणं णिवेदेमि ।
(उपगम्य । )
अज्जा, एसो क्खु रट्टिअसालो कज्जत्थी ववहारं उवत्थिदो ।
अधिकरणिकः - कथम् ।
प्रथममेव राष्ट्रियश्यालः कार्यार्थी ।
यथा सूर्योदय उपरागो महापुरुषनिपातमेव कथयति ।
शोधनक, व्याकुलेनाद्य व्यवहारेण भवितव्यम् ।
भद्र, निष्क्रम्योच्यताम् - ऽगच्छाद्य ।
न दृश्यते तव व्यवहारःऽ इति ।
शोधनकः - जं अज्जो आणवेदि त्ति ।
(निष्क्रम्य शकारमुपगम्य । )
अज्ज, अधिअरणिआ भणन्ति - ऽअज्ज, गच्छ ।
ण दीशदि तव ववहारोऽ ।
शकारः - (सक्रोधम् । )
आः, किं ण दीशदि मम ववहाले ।
जै ण दीशदि, तदो आवुत्तं लाआणं पालअं बहिणीवदिं विण्णविअ बहिणिं अत्तिकं च विण्णविअ एदं अधिअलणिअं दूले फेलिअ एत्थ अण्णं अधिअलणिअं ठावैश्शम् ।
(इति गन्तुमिच्छति । )
शोधनकः - अज्ज रट्टिअशालअ, मुहुत्तअं चिट्ठ ।
दाव अधिअरणिआणं णिवेदेमि ।
(अधिकरणिकमुपगम्य । )
एसो रट्टिअशालो कुविदो भणादि ।
(इति तदुक्तं भणति । )
अधिकरणिकः - सर्वमस्य मूर्खस्य सम्भाव्यते ।
भद्र, उच्यताम् - ऽआगच्छ, दृश्यते तव व्यवहारःऽ ।
शोधनकः - (शकारमुपगम्य । )
अज्ज, अधिअरणिआ भणन्ति - ऽआअच्छ ।
दीसदि तव ववहारो ।
ता पविसदु अज्जोऽ ।
शकारः - पढमं भणन्ति ण दीशदि, सम्पदं दीशदि त्ति ।
ता णाम भीदभीदा अधिअलणभोइआ ।
जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवैश्शम् ।
भोदु ।
पविशामि ।
(प्रविश्योपसृत्य । )
शुशुहं अम्हाणम्, तुम्हाणं पि शुहं देमि ण देमि अ ।
अधिकरणिकः - (स्वगतम् । )
अहो, स्थिरसंस्कारता व्यवहारार्थिनः ।
(प्रकाशम् । )
उपविश्यताम् ।
शकारः - आं, अत्तणकेलका शे भूमी ।
ता जहिं मे रोअदि तहिं उवविशामि ।
(श्रेष्ठिनं प्रति । )
एश उवविशामि ।
(शोधनकं प्रति । )
णं एत्थ उवविशामि ।
(इत्यधिकरणिकमस्तके हस्तं दत्त्वा । )
एश उवविशामि ।
(इति भूमावुपविशति । )
अधिकरणिकः - भवान्कार्यार्थी ।
शकारः - अध इं ।
अधिकरणिकः - तत्कार्यं कथय ।
शकारः - कण्णे कज्जं कधैश्शम् ।
एव्वं वड्ढके मल्लक्कप्पमाणाह कुले हग्गे जादे ।
लाअशशुले मम पिदा लाआ तादश्श होइ जामादा ।
लाअशिआले हग्गे ममावि बहिणीवदी लाआ ॥६॥
अधिकरणिकः - सर्वं ज्ञायते ।
किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥७॥
तदुच्यतां कार्यम् ।
शकारः - एव्वं भणामि, अवलद्धाह वि ण अ मे किं पि कलैश्शदि, तदो तेण बहिणीवदिणा परितुश्टेण मे कीलिदुं लक्खिदु शव्वुज्जाणाणं पबले पुप्फकलण्डकजिण्णुज्जाणे दिण्णे ।
तहिं च पेक्खिदुं अणुदिअहं शोशावेदुं शोधावेदुम् पोत्थावेदुं लुणावेदुं गच्छामि ।
देव्वजोएण पेक्खामि, ण पेक्खामि वा, इत्थिआशलीलं णिवडिदम् ।
अधिकरणिकः - अथ ज्ञायते का स्त्री विपन्नेति ।
शकारः - हंहो अधिअलणभोइआ, किन्त्ति ण जाणामि ।
तं तादिशिं णअलमण्डणं कञ्चणशदभूशणिअं केण वि कुपुत्तेण अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डकजिण्णुज्जाणं पवेशिअ बाहुपाशबलक्कालेण वशन्तशेणिआ मालिदा ।
ण मए ।
(इत्यर्धोक्ते मुखमावृणोति । )
अधिकरणिकः - अहो नगररक्षिणां प्रमादः ।
भोः श्रेष्ठिकायस्थौ, न मयेति व्यवहारपदं प्रथममभिलिख्यताम् ।
कायस्थः - जं अज्जो आणवेदि ।
(तथा कृत्वा । )
अज्ज, लिहिदम् ।
शकारः - (स्वगतम् । )
हीमादिके ।
उत्तलान्तेण विअ पाअशपिण्डालकेण अज्ज मए अत्ता एव्व णिण्णाशिदो ।
भोदु ।
एव्वं दाव ।
(प्रकाशम् । )
अहो अधिअलणभोइआ, णं भणामि, मए ज्जेव दिट्टा ।
किं कोलाहलं कलेध ।
(इति पादेन लिखितं प्रोञ्छति । )
अधिकरणिकः - कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता ।
शकारः - हंहो, णूणं पडिशूणाए मोघट्ठाणाए गीवालिआए णिशुवण्णकेहिं आहलणट्ठाणेहिं तक्केमि ।
श्रेष्ठिकायस्थौ - जुज्जदि विअ ।
शकारः - (स्वगतम् । )
दिश्टिआ पच्चुज्जीविदम्हि ।
अविद मादिके ।
श्रेष्ठिकायस्थौ - भो, कं एसो ववहारो अवलम्बदि ।
अधिकरणिकः - इह हि द्विविधो व्यवहारः ।
श्रेष्ठिकायस्थौ - केरिसो ।
अधिकरणिकः - वाक्यानुसारेण, अर्थानुसारेण च ।
यस्तावद्वाक्यानुसारेण, स खल्वर्थिप्रत्यर्थिभ्यः ।
यश्चार्थानुसारेण स चाधिकरणिकबुद्धिनिष्पाद्यः ।
श्रेष्ठिकायस्थौ - ता वसन्तसेणामादरं अवलम्बदि ववहारो ।
अधिकरणिकः - एवमिदम् ।
भद्र शोधनक, वसन्तसेनामातरमनुद्वेजयन्नाह्वय ।
शोधनकः - तथा ।
(इति निष्क्रम्य गणिकामात्रा सह प्रविश्य । )
एदु एदु अज्जा ।
वृद्धा - गदा मे दारिआ मित्तघरअं अत्तणो जोव्वणं अनुभविदुम् ।
एसो उण दीहाऊ भणादि - ऽआअच्छ ।
अधिअरणिओ सद्दावेदि ।
ता मोहपरवसं विअ अत्ताणअं अवगच्छामि ।
हिअअं मे थरथरेदि ।
अज्ज, आदेसेहि मे अधिअरणमण्डवस्स मग्गम् ।
शोधनकः - एदु एदु अज्जा ।
(उभौ परिक्रामतः । )
शोधनकः - एदं अधिअरणमण्डवम् ।
एत्थ पविसदु अज्जा ।
(इत्युभौ प्रविशतः । )
वृद्धा - (उपसृत्य । )
सुहं तुम्हाणं भोदु भावमिस्साणम् ।
अधिकरणिकः - भद्रे, स्वागतम् ।
आस्यताम् ।
वृद्धा - तधा ।
(इत्युपविष्टा । )
शकारः - (साक्षेपम् । )
आगदाशि बुड्ढकुट्टणि, आगदाशि ।
अधिकरणिकः - अये, त्वं किल वसन्तसेनाया माता ।
वृद्धा - अध इं ।
अधिकरणिकः - अथेदानीं वसन्तसेना क्व गता ।
वृद्धा - मित्तघरअम् ।
अधिकरणिकः - किन्नामधेयं तस्या मित्रम् ।
वृद्धा - (स्वगतम् । )
हद्धी हद्धी ।
अदिलज्जणीअं क्खु एदम् ।
(प्रकाशम् । )
जणस्स पुच्छणीओ अअं अत्थो, ण उण अधिअरणिअस्स ।
अधिकरणिकः - अलं लज्जया ।
व्यवहारस्त्वां पृच्छति ।
श्रेष्ठिकायस्थौ - ववहारो पुच्छदि ।
णत्थि दोसो ।
कधेहि ।
वृद्धा - कधं ववहारो ।
जै एव्वम्, ता सुणन्तु अज्जमिस्सा ।
सो क्खु सत्थवाहविणअदत्तस्स णत्तिओ, साअरदत्तस्स तणओ, सुगहिदणामहेओ अज्जचारुदत्तो णाम, सेट्ठिचत्तरे पडिवसदि ।
तहिं मे दारिआ जोव्वणसुहं अणुभवदि ।
शकारः - शुदं अज्जेहिं ।
लिहीअन्दु एदे अक्खला ।
चालुदत्तेण शह मम विवादे ।
श्रेष्ठिकायस्थौ - चारुदत्तो मित्तो त्ति णत्थि दोसो ।
अधिकरणिकः - व्यवहारोऽयं चारुदत्तमवलम्बते ।
श्रेष्ठिकायस्थौ - एव्वं विअ ।
अधिकरणिकः - धनदत्त, वसन्तसेनार्यचारुदत्तस्य गृहं गतेति लिख्यतां व्यवहारस्य प्रथमः पादः ।
कथम् ।
आर्यचारुदत्तोऽप्यस्माभिराह्वाययितव्यः ।
अथवा व्यवहारस्तमाह्वयति ।
भद्र शोधनक, गच्छ ।
आर्यचारुदत्तं स्वैरमसम्भ्रान्तमनुद्विग्नं सादरमाह्वय प्रस्तावेन - ऽअधिकरणिकस्त्वां द्रष्टुमिच्छतिऽ इति ।
शोधनकः - जं अज्जो आणवेदि ।
(इति निष्क्रान्तः ।
चारुदत्तेन सह प्रविश्य च । )
एदु एदु अज्जो ।
चारुदत्तः - (विचिन्त्य । )
परिज्ञातस्य मे राज्ञा शीलेन च कुलेन च ।
यत्सत्यमिदमाह्वानमवस्थामभिशङ्कते ॥८॥
(सवितर्कं स्वगतम् । )
ज्ञातो हि किं नु खलु बन्धनविप्रयुक्तो मार्गागतः प्रवहणेन मयापनीतः ।
चारेक्षणस्य नृपतेः श्रुतिमागतो वा येनाहमेवमभियुक्त इव प्रयामि ॥९॥
अथवा किं विचारितेन ।
अधिकरणमण्डपमेव गच्छामि ।
भद्र शोधनक, अधिकरणस्य मार्गमादेशय ।
शोधनकः - एदु एदु अज्जो ।
(इति परिक्रामतः । )
चारुदत्तः - (सशङ्कम् । )
तत्किमपरम् ।
रुक्षस्वरं वाशति वायसोऽयममात्यभृत्या मुहुराह्वयन्ति ।
सव्यं च नेत्रं स्फुरति प्रसह्य ममानिमित्तानि हि खेदयन्ति ॥१०॥
शोधनकः - एदु एदु अज्जो सैरं असम्भन्तम् ।
चारुदत्तः - (परिक्रम्याग्रतोऽवलोक्य च । )
शुष्कवृक्षस्थितो ध्वाङ्क्ष आदित्याभिमुखस्तथा ।
मयि चोदयते वामं चक्षुर्घोरमसंशयम् ॥११॥
(पुनरन्यतोऽवलोक्य । )
अये, कथमयं सर्पः ।
मयि विनिहितदृष्टिर्भिन्ननीलाञ्जनाभः स्फुरितविततजिह्वः शुक्लदंष्ट्राचतुष्कः ।
अभिपतति सरोषो जिह्मिताध्मातकुक्षिर्भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः ॥१२॥
अपि च ।
इदम् स्खलति चरणं भूमौ न्यस्तं न चार्द्रतमा मही स्फुरति नयनं वामो बाहुर्मुहुश्च विकम्पते ।
शकुनिरपरश्चायं तावद्विरौति हि नैकशः कथयति महाघोरं मृत्युं न चात्र विचारणा ॥१३॥
सर्वथा देवताः स्वस्ति करिष्यन्ति ।
शोधनकः - एदु एदु अज्जो ।
इमं अधिअरणमण्डवं पविसदु अज्जो ।
चारुदत्तः - (प्रविश्य समन्तादवलोक्य । )
अहो, अधिकरणमण्डपस्य परा श्रीः ।
इह हि चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्खाकुलं पर्यन्तस्थितचारनक्रमकरं नागाश्वहिंस्राश्रयम् ।
नानावाशककङ्कपक्षिरचितं कायस्थसर्पास्पदं नीतिक्षुण्णतटं च राजकरणं हिंस्रैः समुद्रायते ॥१४॥
भवतु ।
(प्रविशञ्छिरोघातमभिनीय सवितर्कम् । )
अहह, इदमपरम् सव्यं मे स्पन्दते चक्षुर्विरौति वायसस्तथा ।
पन्थाः सर्पेण रुद्धोऽयं स्वस्ति चास्मासु दैवतः ॥१५॥
तावत्प्रविशामि ।
(इति प्रविशति । )
अधिकरणिकः - अयमसौ चारुदत्तः ।
य एषः - घोणोन्नतं मुखमपाङ्गविशालनेत्रं नैतद्धि भाजनमकारणदूषणानाम् ।
नागेषु गोषु तुरगेषु तथा नरेषु नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥१६॥
चारुदत्तः - भोः, अधिकृतेभ्यः स्वस्ति ।
हंहो नियुक्ताः, अपि कुशलं भवताम् ।
अधिकरणिकः - (ससम्भ्रमम् । )
स्वागतमार्यस्य ।
भद्र शोधनक, आर्यस्यासनमुपनय ।
शोधनकः - (आसनमुपनीय । )
एदं आसनम् ।
एत्थ उवविसदु अज्जो ।
(चारुदत्त उपविशति । )
शकारः - (सक्रोधम् । )
आगदेशि ले इश्थिआघादआ, आगदेशि ।
अहो णाए ववहाले, अहो धम्मे ववहाले, जं एदाह इश्थिआघादकाह आशणे दीअदि ।
(सगर्वम् । )
भोदु ।
णं दीअदु ।
अधिकरणिकः - आर्य चारुदत्त, अस्ति भवतोऽस्या आर्याया दुहित्रा सह प्रसक्तिः प्रणयः प्रीतिर्वा ।
चारुदत्तः - कस्याः ।
अधिकरणिकः - अस्याः ।
(इति वसन्तसेनामातरं दर्शयति । )
चारुदत्तः - (उत्थाय । )
आर्ये, अभिवादये ।
वृद्धा - जाद, चिरं मे जीव ।
(स्वगतम् । )
अअं सो चारुदत्तो ।
सुणिक्खित्तं क्खु दारिआए जोव्वणम् ।
अधिकरणिकः - आर्य, गणिका तव मित्रम् ।
(चारुदत्तो लज्जां नाटयति । )
शकारः - लज्जाए भीलुदाए वा चालित्तं अलिए णिगूहिदुम् ।
शअं मालिअ अत्थकालणा दाणिं गूहदि ण तं हि भश्टके ॥१७॥
श्रेष्ठिकायस्थौ - अज्जचारुदत्त, भणाहि ।
अलं लज्जाए ।
ववहारो क्खु एसो ।
चारुदत्तः - (सलज्जम् । )
भो अधिकृताः, मया कथमीदृशं वक्तव्यम्, यथा गणिका मम मित्रमिति ।
अथवा यौवनमत्रापराध्यति, न चारित्र्यम् ।
अधिकरणिकः - व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् ।
ब्रूहि सत्यमलं धैर्यं छलमत्र न गृह्यते ॥१८॥
अलं लज्जया ।
व्यवहारस्त्वां पृच्छति ।
चारुदत्तः - अधिकृत, केन सह मम व्यवहारः ।
शकारः - (साटोपम् । )
अले, मए शह ववहाले ।
चारुदत्तः - त्वया सह मम व्यवहारः सुदुःसहः ।
शकारः - अले इश्थिआघादआ, तं तादिशिं लअणशदभूशणिअं वशन्तशेणिअं मालिअ, शम्पदं कवडकावडिके भविअ णिगूहेशि ।
चारुदत्तः - असम्बद्धः खल्वसि ।
अधिकरणिकः - आर्यचारुदत्त, अलमनेन ।
ब्रूहि सत्यम् ।
अपि गणिका तव मित्रम् ।
चारुदत्तः - एवमेव ।
अधिकरणिकः - आर्य, वसन्तसेना क्व ।
चारुदत्तः - गृहं गता ।
श्रेष्ठिकायस्थौ - कधं गदा, कदा गदा, गच्छन्ती वा केण अणुगदा ।
चारुदत्तः - (स्वगतम् । )
किं प्रच्छन्नं गतेति ब्रवीमि ।
श्रेष्ठिकायस्थौ - अज्ज, कधेहि ।
चारुदत्तः - गृहं गता ।
किमन्यद्ब्रवीमि ।
शकारः - ममकेलकं पुप्फकलण्डकजिण्णुज्जाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा ।
अए, शम्पदं वदशि घलं गदे त्ति ।
चारुदत्तः - आः असम्बद्धप्रलापिन्, अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले ।
मिथ्यैतदाननमिदं भवतस्तथाहि हेमन्तपद्ममिव निष्प्रभतामुपैति ॥१९॥
अधिकरणिकः - (जनान्तिकम् । )
तुलनं चाद्रिराजस्य समुद्रस्य च तारणम् ।
ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥२०॥
(प्रकाशम् । )
आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति ।
(ऽघोणा-ऽ इत्यादि पठति । )
शकारः - किं पक्खवादेण ववहाले दीशदि ।
अधिकरणिकः - अपेहि मूर्ख, वेदार्थान्प्राकृतस्त्वं वदसि न च ते जिह्वा निपतिता मध्याह्ने वीक्षसेऽर्कं न तव सहसा दृष्टिर्विचलिता ।
दीप्ताग्नौ पाणिमन्तः क्षिपसि स च ते दग्धो भवति नो चारित्र्याच्चारुदत्तं चलयसि न ते देहं हरति भूः ॥२१॥
आर्यचारुदत्तः कथमकार्यं करिष्यति ।
कृत्वा समुद्रमुदकोच्छ्रयमात्रशेषं दत्तानि येन हि धनान्यनपेक्षितानि ।
स श्रेयसां कथमिवैकनिधिर्महात्मा पापं करिष्यति धनार्थमवैरिजुष्टम् ॥२२॥
वृद्धा - हदास, जो तदाणिं णासीकिदं सुवण्णभण्डअं रत्तिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रअणावलिं देदि, सो दाणिं अत्थकल्लवत्तस्स कारणादो इमं अकज्जं करेदि ।
हा जादे, एहि मे पुत्ति ।
(इति रोदिति । )
अधिकरणिकः - आर्यचारुदत्त, किमसौ पद्भ्यां गता, उत प्रवहणेनेति ।
चारुदत्तः - ननु मम प्रत्यक्षं न गता ।
तन्न जाने किं पद्भ्यां गता, उत प्रवहणेनेति ।
(प्रविश्य सामर्षः । )
वीरकः - पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स ।
अणुसोअन्तस्स इअं कधं पि रत्ती पभादा मे ॥२३॥
ता जाव अधिअरणमण्डवं उवसप्पामि ।
(प्रवेष्टकेन । )
सुहं अज्जमिस्साणम् ।
अधिकरणिकः - अये, नगररक्षाधिकृतो वीरकः ।
वीरक, किमागमनप्रयोजनम् ।
वीरकः - ही, बन्धणभेअणसम्भमे अज्जकं अण्णेसन्तो, ओवाडिदं पवहणं वच्चदि त्ति विआरं करन्तो अण्णेसन्तो, ऽअरे, तुए वि आलोइदे, मए वि आलोइदव्वोऽ त्ति भणन्तो ज्जेव चन्दणमहत्तरएण पादेण ताडिदो म्हि ।
एदं सुणिअ अज्जमिस्सा पमाणम् ।
अधिकरणिकः - भद्र, जानीषे कस्य तत्प्रवहणमिति ।
वीरकः - इमस्स अज्जचारुदत्तस्स ।
वसन्तसेणा आरूढा पुप्फकरण्डकजिण्णुज्जाणं कीलिदुं णीअदि त्ति पवहणवाहएण कहिदम् ।
शकारः - पुणो वि शुदं अज्जेहिं ।
अधिकरणिकः - एष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
जलं कूलावपातेन प्रसन्नं कलुषायते ॥२४॥
वीरक, पश्चादिह भवतो न्यायं द्रक्ष्यामः ।
य एषोऽधिकरणद्वार्यश्वस्तिष्ठति, तमेनमारुह्य गत्वा पुष्पकरण्डकोद्यानम्, दृश्यतामस्ति तत्र काचिद्विपन्ना स्त्री न वेति ।
वीरकः - जं अज्जो आणवेदि ।
(इति निष्क्रान्तः ।
प्रविश्य च । )
गदो म्हि तहिं ।
दिट्टं च मए इत्थिआकलेवरं सावएहिं विलुप्पन्तम् ।
श्रेष्ठिकायस्थौ - कधं तुए जाणिदं इत्थिआकलेवरं त्ति ।
वीरकः - सावसेसेहिं केसहत्थपाणिपादेहिं उवलक्खिदं मए ।
अधिकरणिकः - अहो, धिग्वैषम्यं लोकव्यवहारस्य ।
यथा यथेदं निपुणं विचार्यते तथा तथा सङ्कटमेव दृश्यते ।
अहो सुसन्ना व्यवहारनीतयो मतिस्तु गौः पङ्कगतेव सीदति ॥२५॥
चारुदत्तः - (स्वगतम् । )
यथैव पुष्पं प्रथमे विकाशे समेत्य पातुं मधुपाः पतन्ति ।
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ॥२६॥
अधिकरणिकः - आर्यचारुदत्त, सत्यमभिधीयताम् ।
चारुदत्तः - दुष्टात्मा परगुणमत्सरी मनुष्यो रागान्धः परमिह हन्तुकामबुद्धिः ।
किं यो यद्वदति मृषैव जातिदोषात्तद्ग्राह्यं भवति न तद्विचारणीयम् ॥२७॥
अपि च ।
योऽहं लतां कुसुमितामपि पुष्पहेतोराकृष्य नैव कुसुमावचयं करोमि ।
सोऽहं कथं भ्रमरपक्षरुचौ सुदीर्घे केशे प्रगृह्य रुदतीं प्रमदां निहन्मि ॥२८॥
शकारः - हंहो अधिअलणभोइआ, किं तुम्हे पक्खवादेण ववहालं पेक्खध, ज्जेण अज्ज वि एशे हदाशचालुदत्ते आशणे धालीअदि ।
अधिकरणिकः - भद्र शोधनक, एवं क्रियताम् ।
(शोधनकस्तथा करोति । )
चारुदत्तः - विचार्यताम् ।
भो अधिकृताः, विचार्यताम् ।
(इत्यासनादवतीर्य भूमावुपविशति । )
शकारः - (स्वगतम् ।
सहर्षं नर्तित्वा । )
ही, अणेण मए कडे पावे अण्णश्श मश्तके निवडिदे ।
ता जहिं चालुदत्ताके उवविशदि तहिं हग्गे उवविशामि ।
(तथा कृत्वा । )
चालुदत्ता, पेक्ख पेक्ख मम् ।
ता भण भण मए मालिदे त्ति ।
चारुदत्तः - भो अधिकृताः ।
(ऽदुष्टात्मा-ऽ इति पूर्वोक्तं पठति ।
सनिश्वासं स्वगतम् । )
मैत्रेय भोः किमिदमद्य ममोपघातो हा ब्राह्मणि द्विजकुले विमले प्रसूता ।
हा रोहसेन न हि पश्यसि मे विपत्तिं मिथ्यैव नन्दसि परव्यसनेन नित्यम् ॥२९॥
प्रेषितश्च मया तद्वार्तान्वेषणाय मैत्रेयो वसन्तसेनासकाशं शकटिकानिमित्तं च तस्य प्रदत्तान्यलङ्करणानि प्रत्यर्पयितुम् ।
तत्कथं चिरयते ।
(ततः प्रविशति गृहीताभरणो विदूषकः । )
विदूषकः - पेसिदोम्हि अज्जचारुदत्तेण वसन्तसेणासआसम्, तहिं अलङ्करणाइं गेण्हिअ, जधा ऽअज्जमित्तेअ, वसन्तसेणाए वच्छो रोहसेणो अत्तणो अलङ्कारेण अलङ्करिअ जणणीसआसं पेसिदो ।
इमस्स आहरणं दादव्वम्, ण उण गेण्हिदव्वम् ।
ता समप्पेहिऽ त्ति ।
ता जाव वसन्तसेणासआसं ज्जेव गच्छामि ।
(परिक्रम्यावलोक्य च ।
आकाशे । )
कधं भावरेभिलो ।
भो भावरेभिल, किण्णिमित्तं तुमं उव्विग्गो उव्विग्गो विअ लक्खीअसि ।
(आकर्ण्य । )
किं भणासि - ऽपिअवअस्सो चारुदत्तो अधिअरणमण्डवे सद्दाइदोऽ त्ति ।
ता ण हु अप्पेण कज्जेण होदव्वम् ।
(विचिन्त्य । )
ता पच्छा वसन्तसेणासआसं गमिस्सम् ।
अधिअरणमण्डवं दाव गमिस्सम् ।
(परिक्रम्यावलोक्य च । )
इदं अधिअरणमण्डवम् ।
ता जाव पविसामि ।
(प्रविश्य । )
सुहं अधिअरणभोइआणम् ।
कहिं मम पिअवअस्सो ।
अधिकरणिकः - नन्वेष तिष्ठति ।
विदूषकः - वअस्स, सोत्थि दे ।
चारुदत्तः - भविष्यति ।
विदूषकः - अवि क्खेमं दे ।
चारुदत्तः - एतदपि भविष्यति ।
विदूषकः - भो वअस्स, किण्णिमित्तं उव्विग्गो उव्विग्गो विअ लक्खीअसि ।
कुदो वा सद्दाइदो ।
चारुदत्तः - वयस्य, मया खलु नृशंसेन परलोकमजानता ।
स्त्री रतिर्वाविशेषेण शेषमेषोऽभिधास्यति ॥३०॥
विदूषकः - किं किम् ।
चारुदत्तः - (कर्णे । )
एवमेवम् ।
विदूषकः - को एव्वं भणादि ।
चारुदत्तः - (सञ्ज्ञया शकारं दर्शयति । )
नन्वेष तपस्वी हेतुभूतः कृतान्तो मां व्याहरति ।
विदूषकः - (जनान्तिकम् । )
एव्वं कीस ण भणीअदि, गेहं गदे त्ति ।
चारुदत्तः - उच्यमानमप्यवस्थादोषान्न गृह्यते ।
विदूषकः - भो भो अज्जा, जेण दाव पुरट्ठावणविहारारामदेउलतडागकूवजूवेहिं अलङ्किदा णअरी उज्जैणी, सो अणीसो अत्थकल्लवत्तकारणादो एरिसं अकज्जं अणुचिट्ठदि त्ति ।
(सक्रोधम् । )
अरे रे काणेलीसुदा राअश्शालसण्ठाणआ उस्सुङ्खलआ किदजणदोसभण्डआ बहुसुवण्णमण्डिदमक्कडआ, भण भण मम अग्गदो, जो दाणिं मम पिअवअस्सो कुसुमिदं माधवीलदं पि आकिट्ठिअ कुसुमावचअं ण करेदि कदा वि आकिट्ठिदाए पल्लवच्छेदो भोदि त्ति, सो कधं एरिसं अकज्जं उहअलोअविरुद्धं करेदि ।
चिट्ठ रे कुट्टणिपुत्ता, चिट्ठ ।
जाव एदिणा तव हिअअकुडिलेण दण्डअट्ठेण मत्थअं दे सदखण्डं करेमि ।
शकारः - (सक्रोधम् । )
शुणन्तु शुणन्तु अज्जमिश्शा ।
चालुदत्तकेण शह मम विवादे ववहाले वा ।
ता कीश एशे काकपदशीशमश्तका मए शिले शदखण्डे कलेदि ।
मा दाव ।
ले दाशीएपुत्ता दुट्टबडुका ।
(विदूषको दण्डकाष्ठमुद्यम्य पूर्वोक्तं पठति ।
शकारः सक्रोधमुत्थाय ताडयति ।
विदूषकः प्रतीपं ताडयति ।
अन्योन्यं ताडयतः ।
विदूषकस्य कक्षदेशादाभरणानि पतन्ति । )
शकारः - (तानि गृहीत्वा दृष्ट्वा ससाध्वसम् । )
पेक्खन्तु पेक्खन्तु अज्जा ।
एदे क्खु ताए तवश्शिणीए केलका अलङ्काला ।
(चारुदत्तमुद्दिश्य । )
इमश्श अत्थकल्लवत्तश्श कालणादो एशा मालिदा वावादिदा अ ।
(अधिकृताः सर्वेऽधोमुखाः स्थिताः । )
चारुदत्तः - (जनान्तिकम् । )
अयमेवंविधे काले दृष्टो भूषणविस्तरः ।
अस्माकं भाग्यवैषम्यात्पतितः पातयिष्यति ॥३१॥
विदूषकः - भो, कीस भूदत्थं ण णिवेदीअदि ।
चारुदत्तः - वयस्य, दुर्बलं नृपतेश्चक्षुर्नैतत्तत्त्वं निरीक्षते ।
केवलं वदतो दैन्यमश्लाघ्यं मरणं भवेत् ॥३२॥
अधिकरणिकः - कष्टं भोः, कष्टम् ।
अङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः ।
ग्रहोऽयमपरः पार्श्वे धूमकेतुरिवोत्थितः ॥३३॥
श्रेष्ठिकायस्थौ - (विलोक्य वसन्तसेनामातरमुद्दिश्य । )
अवहिदा दाव अज्जा एदं सुवण्णभण्डअं अवलोएदु, सो ज्जेव एसो ण वेत्ति ।
वृद्धा - (अवलोक्य । )
सरिसो एसो, ण उण सो ।
शकारः - आं बुड्ढकुट्टणि, अक्खीहिं मन्तिदं वाआए मूकिदम् ।
वृद्धा - हदास, अवेहि ।
श्रेष्ठिकायस्थौ - अप्पमत्तं कधेहि, सो ज्जेव एसो ण वेत्ति ।
वृद्धा - अज्ज, सिप्पिकुसलदाए ओबन्धेदि दिट्टिम् ।
ण उण सो ।
अधिकरणिकः - भद्रे, अपि जानास्येतान्याभरणानि ।
वृद्धा - णं भणामि, ण हु ण हु अणभिजाणिदो ।
अह वा कदा वि सिप्पिणा घडिदो भवे ।
अधिकरणिकः - पश्य श्रेष्ठिन्, वस्त्वन्तराणि सदृशानि भवन्ति नूनं रूपस्य भूषणगुणस्य च कृत्रिमस्य ।
दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः सादृश्यमेव कृतहस्ततया च दृष्टम् ॥३४॥
श्रेष्ठिकायस्थौ - अज्जचारुदत्तस्स केरकाइं एदाइं ।
चारुदत्तः - न खलु न खलु ।
श्रेष्ठिकायस्थौ - ता कस्स ।
चारुदत्तः - इहात्रभवत्या दुहितुः ।
श्रेष्ठिकायस्थौ - कधं एदाइं ताए विओअं गदाइं ।
चारुदत्तः - एवं गतानि ।
आं, इदम् ।
श्रेष्ठिकायस्थौ - अज्जचारुदत्त, एत्थ सच्चं वत्तव्वम् ।
पेक्ख पेक्ख ।
सच्चेण सुहं क्खु लब्भै सच्चालावे ण होइ पावम् ।
सच्चं त्ति दुवेवि अक्खरा मा सच्चं अलिएण गूहेहि ॥३५॥
चारुदत्तः - आभरणान्याभरणानीति ।
न जाने, किन्त्वस्मद्गृहादानीतानीति जाने ।
शकारः - उज्जाणं पवेशिअ पढमं मालेशि ।
कवडकावडिआए शम्पदं णिगूहेशि ।
अधिकरणिकः - आर्यचारुदत्त, सत्यमभिधीयताम् ।
इदानीं सुकुमारेऽस्मिन्निःशङ्कं कर्कशाः कशाः ।
तव गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥३६॥
चारुदत्तः - अपापानां कुले जाते मयि पापं न विद्यते ।
यदि सम्भाव्यते पापमपापेन च किं मया ॥३७॥
(स्वगतम् । )
न च मे वसन्तसेनाविरहितस्य जीवितेन कृत्यम् ।
(प्रकाशम् । )
भोः, किं बहुना ।
मया किल नृशंसेन लोकद्वयमजानता ।
स्त्रीरत्नं च विशेषेण शेषमेषोऽभिधास्यति ॥३८॥
शकारः - वावादिदा ।
अले, तुमं पि भण, मए वावादिदेत्ति ।
चारुदत्तः - त्वयैवोक्तम् ।
शकारः - शुणेध शुणेध भट्टालका, एदेण मालिदा ।
एदेण ज्जेव शंशए छिण्णे ।
एदश्श दलिद्दचालुदत्तश्श शालीले दण्डे धालीअदु ।
अधिकरणिकः - शोधनक, यथाह राष्ट्रियः ।
भो राजपुरुषाः, गृह्यतामयं चारुदत्तः ।
(राजपुरुषा गृह्णन्ति । )
वृद्धा - पसीदन्तु पसीदन्तु अज्जमिस्सा ।
(ऽजो दाव चोरेहिं अवहिदस्स-ऽ इत्यादि पूर्वोक्तं पठति । )
ता जदि वावादिदा मम दारिआ, वावादिदा ।
जीवदु मे दीहाऊ ।
अण्णं च ।
अत्थिपच्चत्थिण्णं ववहारो ।
अहं अत्थिणी ।
ता मुञ्चध एदम् ।
शकारः - अवेहि गब्भदाशि, गच्छ ।
किं तव एदिणा ।
अधिकरणिकः - आर्ये, गम्यताम् ।
हे राजपुरुषाः, निष्क्रामयतैनाम् ।
वृद्धा - हा जाद, हा पुत्तअ ।
(इति रुदती निष्क्रान्ता । )
शकारः - (स्वगतम् । )
कडं मए एदश्श अत्तणो शलिशम् ।
शम्पदं गच्छामि ।
(इति निष्क्रान्तः । )
अधिकरणिकः - आर्यचारुदत्त, निर्णये वयं प्रमाणम् ।
शेषे तु राजा ।
तथापि शोधनक, विज्ञाप्यतां राजा पालकः - ऽअयं हि पातकी विप्रो न वध्यो मनुरब्रवीत् ।
राष्ट्रादस्मात्तु निर्वास्यो विभवैरक्षतैः सहऽ ॥३९॥
शोधनकः - जं अज्जो आणवेदि ।
(इति निष्क्रम्य पुनः प्रविश्य ।
सास्रम् । )
अज्जा, गदम्हि तहिं ।
राआ पालओ भणादि - जेण अत्थकल्लवत्तस्स कारणादो वसन्तसेणा वावादिदा, तं ताइं ज्जेव आहरणाइं गले बन्धिअ डिण्डिमं ताडिअ दक्खिणमसाणं णैअ सूले भज्जेधऽ त्ति ।
जो को वि अवरो एरिसं अकज्जं अणुचिट्ठदि सो एदिणा सणिआरदण्डेण सासीअदि ।
चारुदत्तः - अहो, अविमृश्यकारी राजा पालकः ।
अथवा ।
ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः ।
स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥४०॥
अपि च ।
ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
अपापानां सहस्राणि हन्यन्ते च हतानि च ॥४१॥
सखे मैत्रेय, गच्छ ।
मद्वचनादम्बामपश्चिममभिवादयस्व ।
पुत्रं च मे रोहसेनं परिपालयस्व ।
विदूषकः - मूले छिण्णे कुदो पादवस्स पालणम् ।
चारुदत्तः - मा मैवम् ।
नृणां लोकान्तरस्थानां देहप्रतिकृतिः सुतः ।
मयि यो वै तव स्नेहो रोहसेने स युज्यताम् ॥४२॥
विदूषकः - भो वअस्स, अहं ते पिअवअस्सो भविअ तुए विरहिदाइं पाणाइं धारेमि ।
चारुदत्तः - रोहसेनमपि तावद्दर्शय ।
विदूषकः - एव्वम् ।
जुज्जदि ।
अधिकरणिकः - भद्र शोधनक, अपसार्यतामयं बटुः ।
(शोधनकस्तथा करोति । )
अधिकरणिकः - कः कोऽत्र भोः ।
चाण्डालानां दीयतामादेशः ।
(इति चारुदत्तं विसृज्य निष्क्रान्ताः सर्वे राजपुरुषाः । )
शोधनकः - इदो आअच्छदु अज्जो ।
चारुदत्तः - (सकरुणम् ऽमैत्रेय भोः किमिदमद्यऽ इत्यादि पठति ।
आकाशे । )
विषसलिलतुलाग्निप्रार्थिते मे विचारे क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य ।
अथ रिपुवचनाद्वा ब्राह्मणं मां निहंसि पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥४३॥
अयमागतोऽस्मि ।
(इति निष्क्रान्ताः सर्वे । )
इति व्यवहारो नाम नवमोऽङ्कः ।