०८ वसन्तसेनामोटनः

अष्टमोऽङ्कः ।
(ततः प्रविशत्यार्द्रचीवरहस्तो भिक्षुः । )
भिक्षुः - अज्ञा, कलेध धम्मशञ्चअम् ।
शञ्जम्मध णिअपोटं णिच्चं जग्गेध झाणपडहेण ।
विशमा इन्दिअचोला हलन्ति चिलशञ्चिदं धम्मम् ॥१॥
अवि अ ।
अणिच्चदाए पेक्खिअ णवलं दाव धम्माणं शलणम्हि ।
पञ्चज्जण जेण मालिदा इत्थिअ मालिअ गाम लक्खिदे ।
अबल क चण्डाल मालिदे अवसं वि शे णल शग्ग गाहदि ॥२॥
शिल मुण्डिद तुण्ड मुण्डिदे चित्त ण मुण्डिद कीश मुण्डिदे ।
जाह उण अ चित्त मुण्डिदे शाहु शुट्टु शिल ताह मुण्डिदे ॥३॥
गिहिदकशाओदए एशे चीवले, जाव एदं लट्टिअशालकाहकेलके उज्जाणे पविशिअ पोक्खलिणीए पक्खालिअ लहुं लहुं अवक्कमिश्शम् ।
(परिक्रम्य तथा करोति । )
(नेपथ्ये । )
चिट्ठ ले दुट्टशमणका, चिट्ठ ।
भिक्षुः - (दृष्ट्वा सभयम् । )
ही अविद माणहे ।
एशे शे लाअशालशण्ठाणे आअदे ।
एक्केण भिक्खुणा अवलाहे किदे अण्णं पि जहिं जहिं भिक्खुं पेक्खदि, तहिं तहिं गोणं विअ णासं विन्धिअ ओवाहेदि ।
ता कहिं अशलणे शलणं गमिश्शम् ।
अधवा भट्टालके ज्जेव बुद्धे मे शलणे ।
(प्रविश्य सखड्गेन विटेन सह । )
शकारः - चिट्ठ ले दुट्ठशमणका, चिट्ठ ।
आवाणअमज्झपविट्टश्श विअ लत्तमूलअश्श शीशं दे मोडैश्शम् ।
(इति ताडयति । )
विटः - काणेलीमातः, न युक्तं निर्वेदधृतकषायं भिक्षुं ताडयितुम् ।
तत्किमनेन ।
इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।
अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
हृदयमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥४॥
भिक्षुः - शाअदम् ।
पशीददु उवाशके ।
शकारः - भावे, पेक्ख पेक्ख ।
आक्कोशदि मम् ।
विटः - किं ब्रवीति ।
शकारः - उवाशके त्ति मं भणादि ।
किं हग्गे णाविदे ।
विटः - बुद्धोपासक इति भवन्तं स्तौति ।
शकारः - थुणु शमणका, थुणु ।
भिक्षुः - तुमं धण्णे, तुमं पुण्णे ।
शकारः - वावे, धण्णे पुण्णे त्ति मं भणादि ।
किं हग्गे शलावके कोश्टके कोम्भकले वा ।
विटः - काणेलीमातः, ननु ऽधन्यस्त्वम्, पुण्यस्त्वम्ऽ इति भवन्तं स्तौति ।
शकारः - भावे, ता कीश एशे इध आगदे ।
भिक्षुः - इदं चीवलं पक्खालिदुम् ।
शकारः - अले दुट्टशमणका, एशे मम बहिणीवदिणा शव्वुज्जाणाणं पबले पुप्फकलण्डुज्जाणे दिण्णे, जहिं दाव शुणहका शिआला पाणिअं पिअन्ति ।
हग्गे वि पबलपुलिशे मणुश्शके ण ण्हाआमि ।
तहिं तुमं पुक्खलिणीए पुलाणकुलुत्थजूशशवण्णाइं उश्शगन्धिआइं चीवलाइ पक्खालेशि ।
ता तुमं एक्कपहालिअं कलेमि ।
विटः - काणेलीमातः, तथा तर्कयामि यथानेनाचिरप्रव्रजितेन भवितव्यम् ।
शकारः - कधं भावे जाणादि ।
विटः - किमत्र ज्ञेयम् ।
पश्य ।
अद्याप्यस्य तथैव केशविरहाद्गौरी ललाटच्छविः कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः ।
नाभ्यस्ता च कषायवस्त्ररचना दूरं निगूढान्तरं वस्त्रान्तं च पटोच्छ्रयात्प्रशिथिलं स्कन्धे न सन्तिष्ठते ॥५॥
भिक्षुः - उवाशके, एव्वम् ।
अचिलपव्वजिदे हग्गे ।
शकारः - ता कीशं तुमं जातमेत्तक ज्जेव ण पव्वजिदे ।
(इति ताडयति । )
भिक्षुः - णमो बुद्धश्श ।
विटः - किमनेन ताडितेन तपस्विना ।
मुच्यताम् ।
गच्छतु ।
शकारः - अले, चिट्ठ दाव, जाव शम्पधालेमि ।
विटः - केन सार्धम् ।
शकारः - अत्तणो हडक्केण ।
विटः - हन्त, न गतः ।
शकारः - पुत्तका हडक्का, भश्टके पुत्तके, एशे शमणके अवि णाम किं गच्छदु, किं चिश्टदु ।
(स्वगतम् । )
णावि गच्छदु, णावि चिश्टदु ।
(प्रकाशम् । )
भावे, शम्पधालिदं मए हडक्केण शह ।
एशे मह हडक्के भणादि ।
विटः - किं ब्रवीति ।
शकारः - मावि गच्छदु, मावि चिश्टदु ।
मावि ऊशशदु, मावि णीशशदु ।
इध ज्जेव झत्ति पडिअ मलेदु ।
भिक्षुः - णमो बुद्धश्श ।
शलणागदम्हि ।
विटः - गच्छतु ।
शकारः - णं शमएण ।
विटः - कीदृशः समयः ।
शकारः - तधा कद्दमं फेलदु, जधा पाणिअं पङ्काइलं ण होदि ।
अधवा पाणिअं पुञ्जीकदुअ कद्दमे फेलदु ।
विटः - अहो मूर्खता ।
विपर्यस्तमनश्चेष्टैः शिलाशकलवर्ष्मभिः ।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुन्धरा ॥६॥
(भिक्षुर्नाट्येनाक्रोशति । )
शकारः - किं भणादि ।
विटः - स्तौति भवन्तम् ।
शकारः - थुणु थुणु ।
पुणो वि थुणु ।
(तथा कृत्वा निष्क्रान्तो भिक्षुः । )
विटः - काणेलीमातः, पश्योद्यानस्य शोभाम् ।
अमी हि वृक्षाः फलपुष्पशोभिताः कठोरनिष्पन्दलतोपवेष्टिताः ।
नृपाज्ञया रक्षिजनेन पालिता नराः सदारा इव यान्ति निर्वृतिम् ॥७॥
शकारः - शुश्टु भावे भणादि ।
बहुकुशुमविचित्तिदा अ भूमी कुशुमभलेण विणामिदा अ रुक्खा ।
दुमशिहललदाअलम्बमाणा पणशफला विअ वाणला ललन्ति ॥८॥
विटः - काणेलीमातः, इदं शिलातलमध्यास्यताम् ।
शकारः - एशे म्हि आशिदे ।
(इति विटेन सहोपविशति । )
भावे, अज्ज वि तं वशन्तशेणिअं शुमलामि ।
दुज्जणवअणं विअ हडक्कादो ण ओशलदि ।
विटः - (स्वगतम् । )
तथा निरस्तोऽपि स्मरति ताम् ।
अथवा ।
स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः ।
सत्पुरुषस्य स एव तु भवति मृदुर्नैव वा भवति ॥९॥
शकारः - भावे, का वि वेला थावलकचेडश्श भणिदश्श ऽपवहणं गेण्हिअ लहुं लहुं आअच्छेऽ त्ति ।
अज्ज वि ण आअच्छदि त्ति ।
चिलम्हि बुभुक्खिदे ।
मज्झण्हे ण शक्कीअदि पादेहिं गन्तुम् ।
ता पेक्ख पेक्ख ।
णहमज्झगदे शूले दुप्पेक्खे कुविदवाणलशलिच्छे ।
भूमी दढशन्तत्ता हदपुत्तशदे व्व गन्धाली ॥१०॥
विटः - एवमेतत् ।
छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं तृष्णार्तैश्च निपीयते वनमृगैरुष्णं पयः सारसम् ।
सन्तापादतिशङ्कितैर्न नगरीमार्गो नरैः सेव्यते तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम् ॥११॥
शकारः - भावे, शिलशि मम णिलीणे भाव शुज्जश्श पादे शौणिखगविहङ्गा लुक्खशाहाशु लीणा ।
णलपुलिशमणुश्शा उण्हदीहं शशन्ता घलशलणणिशण्णा आदवं णिव्वहन्ति ॥१२॥
भावे, अज्ज वि शे चेडे णाअच्छदि ।
अत्तणो विणोदणणिमित्तं किं पि गाइश्शम् ।
(इति गायति । )
भावे भावे, शुदं तुए जं मए गाइदम् ।
विटः - किमुच्यते ।
गन्धर्वो भवान् ।
शकारः - कधं गन्धव्वे ण भविश्शम् ।
हिङ्गुज्जले जीलकभद्दमुश्ते वचाह गण्ठी शगुडा अ शुण्ठी ।
एशे मए शेविद गन्धजुत्ती कधं ण हग्गे मधुलश्शले त्ति ॥१३॥
भावे, पुणो वि दाव गाइश्शम् ।
(तथा करोति । )
भावे भावे, शुदं तुए जं मए गाइदम् ।
विटः - किमुच्यते ।
गन्धर्वो भवान् ।
शकारः - कधं गन्धव्वे ण भवामि ।
हिङ्गुज्जले दिण्णमरीचचुण्णे वग्घालिदे तेल्लघिएण मिश्शे ।
भुत्ते मए पालहुदीअमंशे कधं ण हग्गे मधुलश्शले त्ति ॥१४॥
भावे, अज्जवि चेडे णाअच्छदि ।
विटः - स्वस्थो भवतु भवान् ।
सम्प्रत्येवागमिष्यति ।
(ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च । )
चेटः - भीदे क्खु हग्गे ।
मज्झण्हिके शुज्जे ।
मा दाणिं कुविदे लाअशालशण्ठाणे हुविश्शदि ।
ता तुलिदं वहामि ।
जाध गोणा, जाध ।
वसन्तसेना - हद्धी हद्धी ।
ण क्खु वड्ढमाणअस्स अअं सरसञ्जोओ ।
किं णेदम् ।
किं णु क्खु अज्जचारुदत्तेण वाहणपडिस्समं परिहरन्तेण अण्णो मणुस्सो अण्णं पवहणं पेसिदं भविस्सदि ।
फुरदि दाहिणं लोअणम् ।
वेवदि मे हिअअम् ।
सुण्णाओ दिसाओ ।
सव्वं ज्जेव विसण्ठुलं पेक्खामि ।
शकारः - (नेमिघोषमाकर्ण्य । )
भावे भावे, आगदे पवहणे ।
विटः - कथं जानासि ।
शकारः - किं ण पेक्खदि भावे ।
बुड्ढशूअले विअ घुलघुलाअमाणे लक्खीअदि ।
विटः - (दृष्ट्वा । )
साधु लक्षितम् ।
अयमागतः ।
शकारः - पुत्तका थावलका चेडा, आगदे शि ।
चेटः - अध इं ।
शकारः - पवहणे वि आगदे ।
चेटः - अध इं ।
शकारः - गोणा वि आगदे ।
चेटः - अध इं ।
शकारः - तुमं पि आगदे ।
चेटः - (सहासम् । )
भट्टके, अहं पि आगदे ।
शकारः - ता पवेशेहि पवहणम् ।
चेटः - कदलेण मग्गेण ।
शकारः - एदेण ज्जेव पगालखण्डेण ।
चेटः - भट्टके, गोणा मलेन्ति ।
पवहणे वि भज्जेदि ।
हग्गे वि चेडे मलामि ।
शकारः - अले, लाअशालके हग्गे ।
गोणा मले, अवले कीणिश्शम् ।
पवहणे भग्गे, अवलं घडाइश्शम् ।
तुमं मले, अण्णे पवहणवाहके हुविश्शदि ।
चेटः - शव्वं उववण्णं हुविश्शदि ।
हग्गे अत्तणकेलके ण हुविश्शम् ।
शकारः - अले, शव्वं पि णश्शदु ।
पगालखण्डेण पवेशेहि पवहणम् ।
चेटः - विभज्ज ले पवहण, शमं शामिणा विभज्ज ।
अण्णे पवहणे भोदु ।
भट्टके गदुअ णिवेदेमि ।
(प्रविश्य । )
कधं ण भग्गे ।
भट्टके, एशे उवत्थिदे पवहणे ।
शकारः - ण छिण्णा गोणा ।
ण मला लज्ज ।
तुमं पि ण मले ।
चेटः - अध इं ।
शकारः - भाव, आअच्छ ।
पवहणं पेक्खामो ।
भावे, तुमं पि मे गुलु पलमगुलु ।
पेक्खीअशि शादलके अब्भन्तलकेत्ति पुलक्कलण्णीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह ।
विटः - एवं भवतु ।
(इत्यारोहति । )
शकारः - अधवा चिश्ट तुमम् ।
तुह बप्पकेलके पवहणे, जेण तुमं अग्गदो अहिलुहशि ।
हग्गे पवहणशामी ।
अग्गदो पवहणं अहिलुहामि ।
विटः - भवानेवं ब्रवीति ।
शकारः - जै वि हग्गे एव्वं भणामि, तधा वि तुह एशे आदले ऽअहिलुह भश्टकेऽ त्ति भणिदुम् ।
विटः - आरोहतु भवान् ।
शकारः - एशे शम्पदं अहिलुहामि ।
पुत्तका थावलका चेडा, पलिवत्तावेहि पवहणम् ।
चेटः - (परावर्त्य । )
अहिलुहदु भट्टालके ।
शकारः - (अधिरुह्यावलोक्य च शङ्कां नाटयित्वा त्वरितमवतीर्य विटं कण्ठेऽवलम्ब्य । )
भावे भावे, मलेशि मलेशि ।
पवहणाधिलूढा लक्खशी चोले वा पडिवशदि ।
ता जै लक्खशी, तदो उभे वि मूशे ।
अध चोले, तदो उभे वि खज्जे ।
विटः - न भेतव्यम् ।
कुतोऽत्र वृषभयाने राक्षस्याः सञ्चारः ।
मा नाम ते मध्याह्नार्कतापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना ।
शकारः - पुत्तका थावलका चेडा, जीवेशि ।
चेटः - अध इं ।
शकारः - भावे, पवहणाधिलूढा इत्थिआ पडिवशदि ।
ता अवलोएहि ।
विटः - कथं स्त्री ।
अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः ।
मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥१५॥
वसन्तसेना - (सविस्मयमात्मगतम् । )
कधं मम णअणाणं आआसअरो ज्जेव राअसालओ ।
ता संसैदम्हि मन्दभाआ ।
एसो दाणिं मम मन्दभाइणीए ऊसरक्खेत्तपडिदो विअ बीअमुट्टी णिप्फलो इध आगमणो संवुत्तो ।
ता किं एत्थ करैस्सम् ।
शकारः - कादले क्खु एशे बुड्ढचेडे पवहणं णावलोएदि ।
भावे, आलोएहि पवहणम् ।
विटः - को दोषः ।
भवतु ।
एवं तावत् ।
शकारः - कधम्, शिआला उड्डेन्ति, वाअशा वच्चेन्ति ।
ता जाव भावे अक्खीहिं भक्खीअदि, दन्तेहिं पेक्खीअदि, ताव हग्गे पलाइश्शम् ।
विटः - (वसन्तसेनां दृष्ट्वा ।
सविषादमात्मगतम् । )
कथमये, मृगी व्याघ्रमनुसरति ।
भोः, कष्टम् ।
शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् ।
हंसी हंसं परित्यज्य वायसं समुपस्थिता ॥१६॥
(जनान्तिकम् । )
वसन्तसेने, न युक्तमिदम्, नापि सदृशमिदम् ।
पूर्वं मानादवज्ञाय द्रव्यार्थे जननीवशात् ।
वसन्तसेना - ण ।
(इति शिरश्चालयति । )
विटः - अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥१७॥
ननूक्तमेव मया भवतीं प्रति - ऽसममुपचर भद्रे सुप्रियं चाप्रियं चऽ ।
वसन्तसेना - पवहणविपज्जासेण आगदा ।
सरणागदम्हि ।
विटः - न भेतव्यं न भेतव्यम् ।
भवतु ।
एनं वञ्चयामि ।
(शकारमुपगम्य । )
काणेलीमातः, सत्यं राक्षस्येवात्र प्रतिवसति ।
शकारः - भावे भावे, जै लक्खशी पडिवशदि, ता कीश ण तुमं मूशेदि ।
अध चोले, ता किं तुमं ण भक्खिदे ।
विटः - किमनेन निरूपितेन ।
यदि पुनरुद्यानपरम्परया पद्भ्यामेव नगरीमुज्जयिनीं प्रविशावः, तदा को दोषः स्यात् ।
शकारः - एव्वं किदे तिं भोदि ।
विटः - एवं कृते व्यायामः सेवितो धुर्याणां च परिश्रमः परिहृतो भवति ।
शकारः - एवं भोदु ।
थावलआ चेडा, णेह पवहणम् ।
अधवा चिश्ट चिश्ट ।
देवदाणं बम्भणाणं च अग्गदो चलणेण गच्छामि ।
णहि णहि ।
पवहणं अहिलुहिअ गच्छामि, जेण दूलदो मं पेक्खिअ भणिश्शन्ति - ऽएशे शे लश्टिअशाले भश्टालके गच्छदिऽ ।
विटः - (स्वगतम् । )
दुष्करं विषमौषधीकर्तुम् ।
भवतु ।
एवं तावत् ।
(प्रकाशम् । )
काणेलीमातः, एषा वसन्तसेना भवन्तमभिसारयितुमागता ।
वसन्तसेना - सन्तं पावम् ।
सन्तं पावम् ।
शकारः - (सहर्षम् । )
भावे भावे, मं पबलपुलिशं मणुश्शं वाशुदेवकम् ।
विटः - अथ किम् ।
शकारः - तेण हि अपुव्वा शिली शमाशादिदा ।
तश्शिं काले मए लोशाविदा, शम्पदं पादेशुं पडिअ पशादेमि ।
विटः - साध्वभिहितम् ।
शकारः - एशे पादेशुं पडेमि ।
(इति वसन्तसेनामुपसृत्य । )
अत्तिके, अम्बिके शुणु मम विण्णत्तिम् ।
एशे पडामि चलणेशु विशालणेत्ते हश्तञ्जलिं दशणहे तव शुद्धदन्ति ।
जं तं मए अवकिदं मदणातुलेण तं खम्मिदाशि वलगत्ति तव म्हि दाशे ॥१८॥
वसन्तसेना - (सक्रोधम् । )
अवेहि ।
अणज्जं मन्तेसि ।
(इति पादेन ताडयति । )
शकारः - (सक्रोधम् । )
जे चुम्बिदे अम्बिकमादुकेहिं गदे ण देवाणं वि जे पणामम् ।
शे पाडिदे पादतलेण मुण्डे वणे शिआलेण जधा मुदङ्गे ॥१९॥
अले थावलआ चेडा, कहिं तुए एशा शमाशादिदा ।
चेटः - भश्टके, गामशअलेहिं लुद्धे लाअमग्गे ।
तदो चालुदत्तश्श लुक्खवाडिआए पवहणं थाविअ तहिं ओदलिअ जाव चक्कपलिवट्टिअं कलेमि, ताव एशा पवैणविपज्जाशेण इह आलूढे त्ति तक्केमि ।
शकारः - कधं पवहणविपज्जाशेण आगदा ।
ण मं अहिशालिदुम् ।
ता ओदल ओदल ममकेलकादो पवहणादो ।
तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि ।
ममकेलकाइं गोणाइं वाहेशि ।
ता ओदल ओदल गब्भदाशि, ओदल ओदल ।
वसन्तसेना - तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चम्, अलङ्किदम्हि इमिणा वअणेण ।
सम्पदं जं भोदु तं भोदु ।
शकारः - एदेहिं दे दशणहुप्पलमण्डलेहिं हत्थेहिं चाडुशदताडणलम्पडेहिं ।
कट्टामि दे वलतणुं णिअजाणकादो केशेशु वालिदैअं वि जहा जडाऊ ॥२०॥
विटः - अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥२१॥
तदुत्तिष्ठ त्वम् ।
अहमेनामवतारयामि ।
वसन्तसेने, अवतीर्यताम् ।
(वसन्तसेनावतीर्यैकान्ते स्थिता । )
शकारः - (स्वगतम् । )
जे शे मम वअणावमाणेण तदा लोशग्गी शन्धुक्खिदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलिदे ।
तं शम्पदं मालेमि णम् ।
भोदु ।
एव्वं दाव ।
(प्रकाशम् । )
भावे भावे, जदिच्छशे लम्बदशाविशालं पावालअं शुत्तशदेहिं जुत्तम् ।
मंशं च खादुं तह तुश्टि कादुं चुहू चुहू चुक्कु चुहू चुहूत्ति ॥२२॥
विटः - ततः किम् ।
शकारः - मम पिअं कलेहि ।
विटः - बाढं करोमि वर्जयित्वा त्वकार्यम् ।
शकारः - भावे, अकज्जाह गन्धे वि णत्थि ।
लक्खशी कावि णत्थि ।
विटः - उच्यतां तर्हि ।
शकारः - मालेहि वसन्तशेणिअम् ।
विटः - (कर्णौ पिधाय । )
बालां स्त्रियं च नगरस्य विभूषणं च वेश्यामवेशसदृशप्रणयोपचाराम् ।
एनामनागसमहं यदि घातयामि केनोडुपेन परलोकनदीं तरिष्ये ॥२३॥
शकारः - अहं ते भेडकं दैश्शम् ।
अण्णं च ।
विवित्ते उज्जाणे इध मालन्तं को तुमं पेक्खिश्शदि ।
विटः - पश्यन्ति मां दशदिशो वनदेवताश्च चन्द्रश्च दीप्तकिरणश्च दिवाकरोऽयम् ।
धर्मानिलौ च गगनं च तथान्तरात्मा भूमिस्तथा सुकृतदुष्कृतसाक्षिभूता ॥२४॥
शकारः - तेण हि पडन्तोवालिदं कदुअ मालेहि ।
विटः - मूर्ख, अपध्वस्तोऽसि ।
शकारः - अधम्मभीलू एशे वुड्ढकोले ।
भोदु ।
थावलअं चेडं अणुणेमि ।
पुत्तका थावलका चेडा, शोवण्णखण्डुआइं दैश्शम् ।
चेटः - अहं पि पहिलिश्शम् ।
शकारः - शोवण्णं दे पीढके कालैश्शम् ।
चेटः - अहं पि उवविशिश्शम् ।
शकारः - शव्वं दे उच्छिश्टअं दैश्शम् ।
चेटः - अहं पि खाइश्शम् ।
शकारः - शव्वचेडाणं महत्तलकं कलैश्शम् ।
चेटः - भट्टके, हुविश्शम् ।
शकारः - ता मण्णेहि मम वअणम् ।
चेटः - भट्टके, शव्वं कलेमि वज्जिअ अकज्जम् ।
शकारः - अकज्जाह गन्धे वि णत्थि ।
चेटः - भणादु भट्टके ।
शकारः - एणं वशन्तशेणिअं मालेहि ।
चेटः - पशीददु भट्टके ।
इअं मए अणज्जेण अज्जा पवहणपलिवत्तणेण आणीदा ।
शकारः - अले चेडा, तवावि ण पहवामि ।
चेटः - पहवदि भट्टके शलीलाह, ण चालित्ताह ।
ता पशीददु पशीददु भट्टके ।
भाआमि क्खु अहम् ।
शकारः - तुमं मम चेडे भविअ कश्श भाआशि ।
चेटः - भट्टके, पललोअश्श ।
शकारः - के शे पललोए ।
चेटः - भट्टके, शुकिददुक्किदश्श पलिणामे ।
शकारः - केलिशे शुकिदश्श पलिणामे ।
चेटः - जादिशे भट्टके बहुशोवण्णमण्डिदे ।
शकारः - दुक्किदश्श केलिशे ।
चेटः - जादिशे हग्गे पलपिण्डभक्खके भूदे ।
ता अकज्जं ण कलैश्शम् ।
शकारः - अले, ण मालिश्शशि ।
(इति बहुविधं ताडयति । )
चेटः - पिट्ठयदु भट्टके, मालेदु भट्टके, अकज्जं ण कलैश्शम् ।
जेण म्हि गब्भदाशे विणिम्मिदे भाअधेअदोशेहिं ।
अहिअं च ण कीणिश्शं तेण अकज्जं पलिहलामि ॥२५॥
वसन्तसेना - भाव, शरणागद म्हि ।
विटः - काणेलीमातः, मर्षय मर्षय ।
साधु स्थावरक, साधु ।
अप्येष नाम परिभूतदशो दरिद्रः प्रेष्यः परत्र फलमिच्छति नास्य भर्ता ।
तस्मादमी कथमिवाद्य न यान्ति नाशं ये वर्धयन्त्यसदृशं सदृशं त्यजन्ति ॥२६॥
अपि च ।
रन्ध्रानुसारी विषमः कृतान्तो यदस्य दास्यं तव चेश्वरत्वम् ।
श्रियं त्वदीयां यदयं न भुङ्क्ते यदेतदाज्ञां न भवान्करोति ॥२७॥
शकारः - (स्वगतम् । )
अधम्मभिलुए वुड्ढखोडे, पललोअभिलू एशे गब्भदाशे ।
हग्गे लट्टिअशाले कश्श भाआमि वलपुलिशमणुश्शे ।
(प्रकाशम् । )
अले गब्भदाशे चेडे, गच्छ तुमम् ।
ओवलके पविशिअ वीशन्ते एअन्ते चिश्ट ।
चेटः - जं भट्टके आणवेदि ।
(वसन्तसेनामुपसृत्य । )
अज्जए, एत्तिके मे विहवे ।
(इति निष्क्रान्तः । )
शकारः - (परिकरं बध्नन् । )
चिश्ट वशन्तशेणिए, चिश्ट ।
मालैश्शम् ।
विटः - आः, ममाग्रतो व्यापादयिष्यसि ।
(इति गले गृह्णाति । )
शकारः - (भूमौ पतति । )
भावे भट्टकं मालेदि ।
(इति मोहं नाटयति ।
चेतनां लब्ध्वा । )
शव्वकालं मए पुश्टे मंशेण अ घिएण अ ।
अज्ज कज्जे शमुप्पण्णे जादे मे वैलिए कधम् ॥२८॥
(विचिन्त्य । )
भोदु ।
लद्धे मए उवाए ।
दिण्णा वुड्ढखोडेण शिलश्चालणशण्णा ।
ता एदं पेशिअ वशन्तशेणिअं मालैश्शम् ।
एव्वं दाव ।
(प्रकाशम् । )
भावे, जं तुमं मए भणिदे, तं कधं हग्गे एव्वं वड्ढकेहिं मल्लक्कप्पमाणेहिं कुलेहिं जादे अकज्जं कलेमि ।
एव्वं एदं अङ्गीकलावेदुं मए भणिदम् ।
विटः - किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥२९॥
शकारः - भावे, एशा तव अग्गदो लज्जाअदि, ण मं अङ्गीकलेदि ।
ता गच्छ ।
थावलअचेडे मए पिश्टिदे गदे वि ।
एशे पलाइअ गच्छदि ।
ता तं गेण्हिअ आअच्छदु भावे ।
विटः - (स्वगतम् । )
अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात्करोम्येष विविक्तमस्या विविक्तविश्रम्भरसो हि कामः ॥३०॥
(प्रकाशम् । )
एवं भवतु ।
गच्छामि ।
वसन्तसेना - (पटान्ते गृहीत्वा । )
णं भणामि शरणागदम्हि ।
विटः - वसन्तसेने, न भेतव्यं न भेतव्यम् ।
काणेलीमातः, वसन्तसेना तव हस्ते न्यासः ।
शकारः - एव्वम् ।
मम हश्ते एशा णाशेण चिश्टदु ।
विटः - सत्यम् ।
शकारः - शच्चम् ।
विटः - (किञ्चिद्गत्वा । )
अथवा मयि गते नृशंसो हन्यादेनाम् ।
तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् ।
(इत्येकान्ते स्थितः । )
शकारः - भोदु ।
मालैश्शम् ।
अधवा कवडकावडिके एशे बम्हणे वुड्ढखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि ।
ता एदश्श वञ्चणाणिमित्तं एव्वं दाव कलैश्शम् ।
(कुसुमावचयं कुर्वन्नात्मानं मण्डयति । )
वाशू वाशू वशन्तशेणिए, एहि ।
विटः - अये, कामी संवृत्तः ।
हन्त, निर्वृतोऽस्मि ।
गच्छामि ।
(इति निष्क्रान्तः । )
शकारः - शुवण्णअं देमि पिअं वदेमि पडेमि शीशेण शवेश्टणेण ।
तधा वि मं णेच्छशि शुद्धदन्ति किं शेवअं कश्टमआ मणुश्शा ॥३१॥
वसन्तसेना - को एत्थ सन्देहो ।
(अवनतमुखी ऽखलचरितऽ इत्यादि श्लोकद्वयं पठति । )
खलचरित निकृष्ट जातदोषः कथमिह मां परिलोभसे धनेन ।
सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति ॥३२॥
यत्नेन सेवितव्यः पुरुषः कुलशीलवान्दरिद्रोऽपि ।
शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥३३॥
अवि अ ।
सहआरपादवं सेविअ ण पलासपादवं अङ्गीकरिस्सम् ।
शकारः - दाशीए धीए, दलिद्दचालुदत्ताके शहआलपादवे कडे, हग्गे उण पलाशे भणिदे, किंशुके वि ण कडे ।
एव्वं तुमं मे गालिं देन्ती अज्जवि तं ज्जेव चालुदत्ताकं शुमलेशि ।
वसन्तसेना - हिअअगदो ज्जेव किन्त्ति न सुमरीअदि ।
शकारः - अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि ।
ता दलिद्दशत्थवाहअमणुश्शकामुकिणि, चिश्ट चिश्ट ।
वसन्तसेना - भण भण पुणो वि भण सलाहणिआइं एदाइं अक्खराइं ।
शकारः - पलित्ताअदु दाशीए पुत्ते दलिद्दचालुदत्ताके तुमम् ।
वसन्तसेना - परित्ताअदि जदि मं पेक्खदि ।
शकारः - किं शे शक्के वालिपुत्ते महिन्दे लम्भापुत्ते कालणेमी शुबन्धू ।
लुद्दे लाआ दोणपुत्ते जडाऊ चाणक्के वा धुन्धुमाले तिशङ्कू ॥३४॥
अधवा, एदे वि दे ण लक्खन्ति ।
चाणक्केण जधा शीदा मालिदा भालदे जुए ।
एव्वं दे मोडैश्शामि जडाऊ विअ दोव्वदिम् ॥३५॥
(इति ताडयितुमुद्यतः । )
वसन्तसेना - हा अत्ते, कहिं सि ।
हा अज्जचारुदत्त, एसो जणो असम्पुण्णमणोरधो ज्जेव विवज्जदि ।
ता उद्धं अक्कन्दैस्सम् ।
अधवा वसन्तसेणा उद्धं अक्कन्ददि त्ति लज्जणीअं क्खु एदम् ।
णमो अज्जचारुदत्तस्स ।
शकारः - अज्जवि गब्भदाशी तश्श ज्जेव पावस्स णामं गेण्हदि (इति कण्थे पीडयन् । )
शुमल गब्भदाशि, शुमल ।
वसन्तसेना - णमो अज्जचारुदत्तस्स ।
शकारः - मल गब्भदाशि, मल ।
(नाट्येन कण्थे निपीडयन्मारयति । )
(वसन्तसेना मूर्च्छिता निश्चेष्टा पतति । )
शकारः - (सहर्षम् । )
एदं दोशकलण्डिअं अविणअश्शावासभूदं खलं लत्तं तश्श किलागदश्श लमणे कालागदं आअदम् ।
किं एशे शमुदाहलामि णिअअं बाहूण शूलत्तणं णीशाशे वि मलेइ अम्ब शुमला शीदा जधा भालदे ॥३६॥
इच्छन्तं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा शुण्णे पुप्फकलण्डके त्ति शहशा पाशेण उत्ताशिदा ।
शेवावञ्चिद भादुके मम पिदा मादेव शा दोप्पदी जे शे पेक्खदि णेदिशं ववशिदं पुत्ताह शूलत्तणम् ॥३७॥
भोदु ।
सम्पदं वुड्ढखोदे आगमिश्शदि त्ति ।
ता ओशलिअ चिश्टामि ।
(तथा करोति । )
(प्रविश्य चेटेन सह । )
विटः - अनुनीतो मया स्थावरकश्चेटः ।
तद्यावत्काणेलीमातरं पश्यामि ।
(परिक्रम्यावलोक्य च । )
अये, मार्ग एव पादपो निपतितः ।
अनेन च पतता स्त्री व्यापादिता ।
भोः पाप, किमिदमकार्यमनुष्ठितं त्वया ।
तवापि पापिनः पतनात्स्त्रीवधदर्शनेनातीव पातिता वयम् ।
अनिमित्तमेतत्, यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः ।
सर्वथा देवताः स्वस्ति करिष्यन्ति ।
(शकारमुपसृत्य । )
काणेलीमातः, एवं मयानुनीतः स्थावरकश्चेटः ।
शकारः - भावे, शाअदं दे ।
पुश्तका थावलका चेडा, तवावि शाअदम् ।
चेटः - अध इं ।
विटः - मदीयं न्यासमुपनय ।
शकारः - कीदिशे णाशे ।
विटः - वसन्तसेना ।
शकारः - गडा ।
विटः - क्व ।
शकारः - भावश्श ज्जेव पिश्टदो ।
विटः - (सवितर्कम् । )
न गता खलु सा तया दिशा ।
शकारः - तुमं कदमाए दिशाए गडे ।
विटः - पूर्वया दिशा ।
शकारः - शा वि दक्खिणाए गडा ।
विटः - अहं दक्षिणया ।
शकारः - शा वि उत्तलाए ।
विटः - अत्याकुलं कथयसि ।
न शुद्ध्यति मेऽन्तरात्मा ।
तत्कथय सत्यम् ।
शकारः - शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं ।
ता शण्ठावेहि हिअअम् ।
एशा मए मालिदा ।
विटः - (सविषदाम् । )
सत्यं त्वया व्यापादिता ।
शकारः - जै मम वअणे न पत्तिआअशि, ता पेक्ख पढमं लश्टिअशालशण्ठाणाह शूलत्तणम् ।
(इति दर्शयति । )
विटः - हा, हतोऽस्मि मन्दभाग्यः ।
(इति मूर्छितः पतति । )
शकारः - ही ही ।
उवलदे भावे ।
चेटः - शमश्शशदु शमश्शशदु भावे ।
अविचालिअं पवहणं आणन्तेण ज्जेव मए पढमं मालिदा ।
विटः - (समाश्वस्य सकरुणम् । )
हा वसन्तसेने, दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रतिर्हा हालङ्कृतभूषणे सुवदने क्रीडारसोद्भासिनि ।
हा सौजन्यनदि प्रहासपुलिने हा मादृशामाश्रये हा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरः ॥३८॥
(सास्रम् । )
कष्टं भोः, कष्टम् ।
किं नु नाम भवेत्कार्यमिदं येन त्वया कृतम् ।
अपापा पापकल्पेन नगरश्रीर्निपातिता ॥३९॥
(स्वगतम् । )
अये, कदाचिदयं पाप इदमकार्यं मयि सङ्क्रामयेत् ।
भवतु ।
इतो गच्छामि (इति परिक्रामति । )
(शकार उपगम्य धारयति । )
विटः - पाप, मा मा स्प्राक्षीः ।
अलं त्वया ।
गच्छाम्यहम् ।
शकारः - अले, वशन्तशेणिअं शअं ज्जेव मालिअ मं दूशिअ कहिं पलाअशि ।
शम्पदं ईदिशे हग्गे अणाधे पाविदे ।
विटः - अपध्वस्तोऽसि ।
शकारः - अत्थं शदं देमि शुवण्णअं दे कहावणं देमि शवोडिअं दे ।
एशे दुशट्ठाण पलक्कमे मे शामाण्णए भोदु मणुश्शआणम् ॥४०॥
विटः - धिक्, तवैवास्तु ।
चेटः - शन्तं पावम् ।
(शकारो हसति । )
विटः - अप्रीतिर्भवतु विमुच्यतां हि हासो धिक्प्रीतिं परिभवकारिकामनार्याम् ।
मा भूच्च त्वयि मम सङ्गतं कदाचिदाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥४१॥
शकारः - भावे, पशीद पशीद ।
एहि ।
णलिणीए पविशिअ कीलेम्ह ।
विटः - अपतितमपि तावत्सेवमानं भवन्तं पतितमिव जनोऽयं मन्यते मामनार्यम् ।
कथमहमनुयायां त्वां हतस्त्रीकमेनं पुनरपि नगरस्त्रीशङ्कितार्धाक्षिदृष्टम् ॥४२॥
(सकरुणम् । )
वसन्तसेने, अन्यस्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि ।
चारित्र्यगुणसम्पन्ने जायेथा विमले कुले ॥४३॥
शकारः - ममकेलके पुप्फकलण्डकजिण्णुज्जाणे वशन्तशेणिअं मालिअ कहिं पलाअशि ।
एहि ।
मम आवुत्तश्श अग्गदो ववहालं देहि ।
(इति धारयति । )
विटः - आः, तिष्ठ जाल्म ।
(इति खड्गमाकर्षति । )
शकारः - (सभयमपसृत्य । )
किं ले, भीदेशि ।
ता गच्छ ।
विटः - (स्वगतम् । )
न युक्तमवस्थातुम् ।
भवतु ।
यत्रार्यशर्विलकचन्दनकप्रभृतयः सन्ति, तत्र गच्छामि ।
(इति निष्क्रान्तः । )
शकारः - णिधणं गच्छ ।
अले थावलका पुश्तका, कीलिशे मए कडे ।
चेटः - भट्टके, महन्ते अकज्जे कडे ।
शकारः - अले चेडे, किं भणाशि अकज्जे कडेत्ति ।
भोदु ।
एव्वं दाव ।
(नानाभरणान्यवतार्य । )
गेण्ह एदं अलङ्कारअं ।
मए ताव दिण्णे ।
जेत्तिके वेले अलङ्कलेमि तेत्तिकं वेलं मम ।
अण्णं तव ।
चेटः - भट्टके ज्जेव एदे शोहन्ति ।
किं मम एदेहिं ।
शकारः - ता गच्छ ।
एदाइं गोणाइं गेण्हिअ ममकेलकाए पाशादबालग्गपदोलिकाए चिश्ट ।
जाव हग्गे आअच्छामि ।
चेटः - जं भट्टके आणवेदि ।
(इति निष्क्रान्तः । )
शकारः - अत्तपलित्ताणे भावे गदे अदंशणम् ।
चेडं वि पाशादबालग्गपदोलिकाए णिगलपूलिदं कदुअ थावैश्शम् ।
एव्वं मन्ते लक्खिदे भोदि ।
ता गच्छामि ।
अधवा पेक्खामि दाव एदम् ।
किं एशा मला आदु पुणो वि मालैश्शम् ।
(अवलोक्य । )
कधं शुमला ।
भोदु ।
एदिणा पावालएण पच्छादेमि णम् ।
अधवा णामङ्किदे एशे ।
ता के वि अज्जपुलिशे पच्चहिजाणेदि ।
भोदु ।
एदिणा वादालीपुञ्जिदेण शुक्खपण्णपुडेण पच्छादेमि ।
(तथा कृत्वा विचिन्त्य । )
भोदु ।
एव्वं दाव ।
सम्पदं अधिअलणं गच्छिअ ववहालं लिहावेमि, जहा अत्थश्श कालणादो शत्थवाहचालुदत्ताकेण ममकेलकं पुप्फकलण्डकं जिण्णुज्जाणं पवेशिअ वशन्तशेणिआ वावादिदे त्ति ।
चालुदत्तविणाशाय कलेमि कवडं णवम् ।
णअलीए विशुद्धाए पशुघादं व्व दालुणम् ॥४४॥
भोदु ।
गच्छामि ।
(इति निष्क्रम्य दृष्ट्वा सभयम् । )
अविद मादिके ।
जेण जेण गच्छामि मग्गेण, तेण ज्जेव एशे दुश्टशमणके गहिदकशाओदकं चीवलं गेण्हिअ आअच्छदि ।
एशे मए णशिं च्छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ एदेण मालिदे त्ति पआशैश्शदि ।
ता कधं गच्छामि ।
(अवलोक्य । )
भोदु ।
एदं अद्धपडिदं पाआलखण्डं उल्लङ्घिअ गच्छामि ।
एशे म्हि तुलिदतुलिदे लङ्काणअलीए गअणे गच्छन्ते ।
भूमीए पाआले हणूमशिहले विअ महेन्दे ॥४५॥
(इति निष्क्रान्तः । )
(प्रविश्यापटीक्षेपेण । )
संवाहको भिक्षुः - पक्खालिदे एशे मए चीवलखण्डे ।
किं णु क्खु शाहाए शुक्खावैश्शम् ।
इध वाणला विलुप्पन्ति ।
किं णु क्खु भूमीए ।
धूलीदोशे होदि ।
ता कहिं पशालिअ शुक्खावैश्शम् ।
(दृष्ट्वा । )
भोदु ।
इध वादालीपुञ्जिदे शुक्खवत्तसञ्चए पशालैश्शम् ।
(तथा कृत्वा । )
णमो बुद्धश्श ।
(इत्युपविशति । )
भोदु ।
धम्मक्खलाइं उदाहलामि ।
(पञ्चज्जण जेण मालिदाऽ इत्यादि पूर्वोक्तं पठति । )
अधवा अलं मम एदेण शग्गेण ।
जाव ताए वसन्तशेणिआए बुद्धोवाशिआए पच्चुवकालं ण कलेमि, जाए दशाणं शुवण्णकाणं किदे जूदिकलेहिं णिक्कीदे, तदो पहुदि ताए कीदं विअ अत्ताणअं अवगच्छामि ।
(दृष्ट्वा । )
किं णु क्खु पण्णोदले शमुश्शशदि ।
अधवा ।
वादादवेण तत्ता चीवलतोएण तिम्मिदा पत्ता ।
एदे विथिण्णपत्ता मण्णे पत्ता विअ फुलन्ति ॥४६॥
(वसन्तसेना सञ्ज्ञां लब्ध्वा हस्तं दर्शयति । )
भिक्षुः - हा हा, शुद्धालङ्कालभूशिदे इत्थिआहत्थे णिक्कमदि ।
कधम् ।
दुदिए वि हत्थे ।
(बहुविधं निर्वर्ण्य । )
पच्चभिआणामि विअ एदं हत्थम् ।
अधवा, किं विचालेण ।
शच्चं शे ज्जेव हत्थे जेण मे अभअं दिण्णम् ।
भोदु ।
पेक्खिश्शम् ।
(नाट्येनोद्धाट्य दृष्ट्वा प्रत्यभिज्ञाय च । )
शा ज्जेव बुद्धोवाशिआ ।
(वसन्तसेना पानीयमाकाङ्क्षति । )
भिक्षुः - कधम् ।
उदअं मग्गेदि ।
दूले च दिग्घिआ ।
किं दाणिं एत्थ कलैश्शम् ।
भोदु ।
एदं चीवलं शे उवलि गालैश्शम् ।
(तथा करोति । )
(वसन्तसेना सञ्ज्ञां लब्ध्वोत्तिष्ठति ।
भिक्षुः पटान्तेन वीजयति । )
वसन्तसेना - अज्ज, को तुमम् ।
भिक्षुः - किं मं ण शुमलेदि बुद्धोवाशिआ दशशुवण्णणिक्कीदम् ।
वसन्तसेना - सुमरामि ।
ण उण जधा अज्जो भणादि ।
वरं अहं उवरदा ज्जेव ।
भिक्षुः - बुद्धोवाशिए, किं ण्णेदम् ।
वसन्तसेना - (सनिर्वेदम् । )
जं सरिसं वेसभावस्स ।
भिक्षुः - उट्ठेदु उट्ठेदु बुद्धोवाशिआ एदं पादवसमीवजादं लदं ओलम्बिअ ।
(इति लतां नामयति । )
(वसन्तसेना गृहीत्वोत्तिष्ठति । )
भिक्षुः - एदश्शिं विहाले मम धम्मबहिणिआ चिट्ठदि ।
तहिं शमश्शशिदमणा भविअ उवाशिआ गेहं गमिश्शदि ।
ता शेणं शेणं गच्छदु बुद्धोवाशिआ ।
(इति परिक्रामति ।
दृष्ट्वा । )
ओशलध अज्जा, ओशलध ।
एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे ।
हत्थशञ्जदो मुहशञ्जदो इन्दियशञ्जदो शे क्खु माणुशे ।
किं कलेदि लाऔले तश्श पललोओ हत्थे णिच्चले ॥४७॥
(इति निष्क्रान्ताः । )
इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।