०७ आर्यकापहरणम्

सप्तमोऽङ्कः ।
(ततः प्रविशति चारुदत्तो विदूषकश्च । )
विदूषकः - भो, पेक्ख पेक्ख पुप्फकरण्डअजिण्णुज्जाणस्स सस्सिरीअदाम् ।
चारुदत्तः - वयस्य, एवमेतत् ।
तथाहि ।
वणिज इव भान्ति तरवः पण्यानीव स्थितानि कुसुमानि ।
शुल्कमिव साधयन्तो मधुकरपुरुषाः प्रविचरन्ति ॥१॥
विदूषकः - भो, इमं असक्काररमणीअं सिलाअलं उवविसदु भवम् ।
चारुदत्तः - (उपविश्य । )
वयस्य, चिरयति वर्धमानकः ।
विदूषकः - भणिदो मए वड्ढमाणअ - ऽवसन्तसेणिअं गेण्हिअ लहुं लहुं आअच्छऽ त्ति ।
चारुदत्तः - तत् किं चिरयति ।
किं यात्यस्य पुरः शनैः प्रवहणं तस्यान्तरं मार्गते भग्नेऽक्षे परिवर्तनं प्रकुरुते छिन्नोऽथ वा प्रग्रहः ।
कर्मान्तोज्झितदारुवारितगतिर्मार्गान्तरं याचते स्वैरं प्रेरितगोयुगः किमथ वा स्वच्छन्दमागच्छति ॥२॥
(प्रविश्य गुप्तार्यकप्रवहणस्थः । )
चेटः - जाध गोणा, जाध ।
आर्यकः - (स्वगतम् । )
नरपतिपुरुषाणां दर्शनाद्भीतभीतः सनिगडचरणत्वात्सावशेषापसारः ।
अविदितमधिरूढो यामि साधोस्तु याने परभृत इव नीडे रक्षितो वायसीभिः ॥३॥
अहो, नगरात्सुदूरमपक्रान्तोऽस्मि ।
तत्किमस्मात्प्रवहणादवतीर्य वृक्षवाटिकागहनं प्रविशामि ।
उताहो प्रवहणस्वामिनं पश्यामि ।
अथ वा कृतं वृक्षवाटिकागहनेन ।
अभ्युपपन्नवत्सलः खलु तत्रभवानार्यचारुदत्तः श्रूयते ।
तत्प्रत्यक्षीकृत्य गच्छामि ।
स तावदस्माद्द्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् ।
शरीरमेतद्गतमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥४॥
चेटः - इमं तं उज्जाणम् ।
जाव उवशप्पामि ।
(उपसृत्य । )
अज्जमित्तेअ ।
विदूषकः - भो, पिअं दे णिवेदेमि ।
वड्ढमाणओ मन्तेदि ।
आगदाए वसन्तसेणाए होदव्वम् ।
चारुदत्तः - प्रियं नः प्रियम् ।
विदूषकः - दासीए पुत्ता, किं चिरैदो सि ।
चेटः - अज्जमित्तेअ, मा कुप्प ।
जाणत्थलके विशुमलिदे त्ति कदुअ गदागदिं कलेन्ते चिलैदेम्हि ।
चारुदत्तः - वर्धमानक, परिवर्तय प्रवहणम् ।
सखे मैत्रेय, अवतारय वसन्तसेनाम् ।
विदूषकः - किं णिअडेण वद्धा से गोड्डा, जेण सअं ण ओदरेदि ।
(उत्थाय प्रवहणमुद्घाट्य । )
भो, ण वसन्तसेणा, वसन्तसेणो क्खु एसो ।
चारुदत्तः - वयस्य, अलं परिहासेन ।
न कालमपेक्षते स्नेहः ।
अथ वा स्वयमेवावतारयामि ।
(इत्युत्तिष्ठति । )
आर्यकः - (दृष्ट्वा । )
अये, अयमेव प्रवहणस्वामी ।
न केवलं श्रुतिरमणीयो दृष्टिरमणीयोऽपि ।
हन्त, रक्षितोऽस्मि ।
चारुदत्तः - (प्रवहणमधिरुह्य दृष्ट्वा च । )
अये, तत्कोऽयम् ।
करिकरसमबाहुः सिंहपीनोन्नतांसः पृथुतरसमवक्षास्ताम्रलोलायताक्षः ।
कथमिदमसमानं प्राप्त एवंविधो यो वहति निगडमेकं पादलग्नं महात्मा ॥५॥
ततः को भवान् ।
आर्यकः - शरणागतो गोपालप्रकृतिरार्यकोऽस्मि ।
चारुदत्तः - किं घोषादानीय योऽसौ राज्ञा पालकेन बद्धः ।
आर्यकः - अथ किम् ।
चारुदत्तः - विधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः ।
अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥६॥
(आर्यको हर्षं नाटयति । )
चारुदत्तः - वर्धमानक, चरणान्निगडमपनय ।
चेटः - जं अज्जो आणवेदि ।
(तथा कृत्वा । )
अज्ज, अवणीदाइं णिगलाइं ।
आर्यकः - स्नेहमयान्यन्यानि दृढतराणि दत्तानि ।
विदूषकः - सङ्गच्छेहि णिअडाइं ।
एसो वि मुक्को ।
सम्पदं अम्हे वच्चिस्सामो ।
चारुदत्तः - धिक्शान्तम् ।
आर्यकः - सखे चारुदत्त, अहमपि प्रणयेनेदं प्रवहणमारूढः ।
तत्क्षन्तव्यम् ।
चारुदत्तः - अलङ्कृतोऽस्मि स्वयङ्ग्राहप्रणयेन भवता ।
आर्यकः - अभ्यनुज्ञातो भवता गन्तुमिच्छामि ।
चारुदत्तः - गम्यताम् ।
आर्यकः - भवतु अवतरामि ।
चारुदत्तः - सखे, नावतरितव्यम् ।
प्रत्यग्रापनीतसंयमनस्य भवतोऽलघुसंवारा गतिः ।
सुलभपुरुषसञ्चारेऽस्मिन्प्रदेशे प्रवहणं विश्वासमुत्पादयति ।
तत्प्रवहणेनैव गम्यताम् ।
आर्यकः - यथाह भवान् ।
चारुदत्तः - क्षेमेण व्रज बान्धवान् ।
आर्यकः - ननु मया लब्धो भवान्बान्धवः ।
चारुदत्तः - स्मर्तव्योऽस्मि कथान्तरेषु भवता ।
आर्यकः - स्वात्मापि विस्मर्यते ।
चारुदत्तः - त्वां रक्षन्तु पथि प्रयान्तममराः ।
आर्यकः - संरक्षितोऽहं त्वया ।
चारुदत्तः - स्वैर्भाग्यैः परिरक्षितोऽसि ।
आर्यकः - ननु हे तत्रापि हेतुर्भवान् ॥७॥
चारुदत्तः - यदुद्यते पालके महती रक्षा न वर्तते, तच्छीघ्रमपक्रामतु भवान् ।
आर्यकः - एवं पुनर्दर्शनाय ।
(इति निष्क्रान्तः । )
चारुदत्तः - कृत्वैवं मनुजपतेर्महद्द्यलीकं स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
मैत्रेय क्षिप निगडं पुराणकूपे पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥८॥
(वामाक्षिस्पन्दनं सूचयित्वा । )
सखे मैत्रेय, वसन्तसेनादर्शनोत्सुकोऽयं जनः ।
पश्य ।
अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम् ।
अकारणपरित्रस्तं हृदयं व्यथते मम ॥९॥
तदेहि ।
गच्छावः ।
(परिक्रम्य । )
कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् ।
(विचार्य । )
प्रविशत्वयमनेन पथा ।
वयमप्यनेनैव पथा गच्छामः ।
(इति निष्क्रान्तः । )
इत्य् आर्यकापहरणं नाम सप्तमोऽङ्कः ।