पञ्चमोऽङ्कः ।
(ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः । )
चारुदत्तः - (ऊर्ध्वमवलोक्य । )
उन्नमत्यकालदुर्दिनम् ।
यदेतत् आलोकितं गृहशिखण्डिभिरुत्कलापैर्हंसैर्यियासुभिरपाकृतमुन्मनस्कैः ।
आकालिकं सपदि दुर्दिनमन्तरीक्षमुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥१॥
अपि च ।
मेघो जलार्द्रमहिषोदरभृङ्गनीलो विद्युत्प्रभारचितपीतपटोत्तरीयः ।
आभाति संहतबलाकगृहीतशङ्खः खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥२॥
अपि च ।
केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः ।
विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥३॥
एता निषिक्तरजतद्रवसन्निकाशा धारा जवेन पतिता जलदोदरेभ्यः ।
विद्युत्प्रदीपशिखया क्षणनष्टदृष्टाश्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥४॥
संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव व्याविद्धैरिव मीनचक्रमकरैर्हर्म्यैरिव प्रोच्छ्रितैः ।
तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥५॥
एतत्तद्धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः सम्प्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥६॥
(विचिन्त्य । )
चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य ।
नाद्यापि आगच्छति ।
(प्रविश्य । )
विदूषकः - अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा ।
अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली ।
एत्तिआए ऋद्धीए ण तए अहं भणिदो - ऽअज्जमित्तेअ, वीसमीअदु ।
मल्लकेण पाणीअं पि पिबिअ गच्छीअदुऽ त्ति ।
ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सम् ।
(सनिर्वेदम् । )
सुट्ठु क्खु वुच्चदि - ऽअकन्दसमुत्थिदा पौमिणी, अवञ्चओ वाणिओ, अचोरो, सुवण्णआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे सम्भावीअन्तिऽ ।
ता पिअवअस्सं गदुअ इमादो गणिआपसङ्गादो णिवत्तावेमि ।
(परिक्रम्य दृष्ट्वा । )
कधं पिअवअस्सो रुक्खवाडिआए उवविट्टो चिट्ठदि ।
ता जाव उवसप्पामि ।
(उपसृत्य । )
सोत्थि भवदे ।
वड्ढदु भवम् ।
चारुदत्तः - (विलोक्य । )
अये, सुहृन्मे मैत्रेयः प्राप्तः ।
वयस्य, स्वागतम् ।
आस्यताम् ।
विदूषकः - उवविट्टो म्हि ।
चारुदत्तः - वयस्य, कथय तत्कार्यम् ।
विदूषकः - तं क्खु कज्जं विणट्टम् ।
चारुदत्तः - किं तया न गृहीता रत्नावली ।
विदूषकः - कुदो अम्हाणं एत्तिअं भाअधेअम् ।
णवणलिणकोमलं अञ्जलिं मत्थए कदुअ पडिच्छिआ ।
चारुदत्तः - तत्किं ब्रवीषि विनष्टमिति ।
विदूषकः - भो, कधं ण विणट्टम्, जं अभुत्तपीदस्स चोरेहिं अवहिदस्स अप्पमुल्लस्स सुवण्णभण्डअस्स कारणादो चदुस्समुद्दसारभूदा रअणमाला हारिदा ।
चारुदत्तः - वयस्य मा मैवम् ।
यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥७॥
विदूषकः - भो वअस्स, एदं पि मे दुदिअं सन्तावकारणं जं सहीअणदिण्णसण्णाए पडन्तोवारिदं मुहं कदुअ अहं उवहसिदो ।
ता अहं बम्हणो भविअ दाणिं भवन्तं सीसेण पडिअ विण्णवेमि - ऽणिवत्तीअदु अप्पा इमादो बहुपच्चवाआदो गणिआपसङ्गादोऽ ।
गणिआ णाम पादुअन्तरप्पविट्टा विअ लेट्ठुआ दुक्खेण उण णिराकरीअदि ।
अवि अ भो वअस्स, गणिआ हत्थी काअत्थओ भिक्खु चाटो रासहो अ जहिं एदे णिवसन्ति तहिं दुट्टा वि ण जाअन्ति ।
चारुदत्तः - वयस्य, अलमिदानीं सर्वं परिवादमुक्त्वा ।
अवस्थयैवास्मि निवारितः ।
पश्य ।
वेगं करोति तुरगस्त्वरितं प्रयातुं प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥८॥
अपि च वयस्य, यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।
(स्वगतम् । )
न गुणहार्यो ह्यसौ जनः ।
(प्रकाशम् । )
वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥९॥
विदूषकः - (अधोऽवलोक्य स्वगतम् । )
जधा एसो उद्धं पेक्खिअ दीहं णिससदि, तधा तक्केमि मए विणिवारिअन्तस्स अधिअदरं वड्ढिदा से उक्कण्ठा ।
ता सुट्ठु क्खु एव्वं वुच्चदि - ऽकामो वामोऽ त्ति ।
(प्रकाशम् । )
भो वअस्स, भणिदं अ ताए - भणेहि चारुदत्तम् - ऽअज्ज पओसे मए एत्थ आअन्तव्वंऽ त्ति ।
ता तक्केमि रअणावलीए अपरितुट्टा अवरं मग्गिदुं आअमिस्सदि त्ति ।
चारुदत्तः - वयस्य, आगच्छतु ।
परितुष्टा यास्यति ।
चेटः - (प्रविश्य । )
अवेध माणहे ।
जधा जधा वश्यदि अब्भखण्डे तधा तधा तिम्मदि पुट्ठिचम्मे ।
जधा जधा लग्गदि शीदवादे तधा तधा वेवदि मे हलक्के ॥१०॥
(प्रहस्य । )
वंशं वाए शत्तछिद्दं शुशद्दं वीणं वाए शत्ततन्तिं णदन्तिम् ।
गीअं गाए गद्दहश्शाणुलूअं के मे गाणे तुम्बुलू णालदे वा ॥११॥
आणत्तम्हि अज्जआए वशन्तशेणाए - ऽकुम्भीलआ, गच्छ तुमम् ।
मम आगमणं अज्जचारुदत्तश्श णिवेदेहिऽ त्ति ।
ता जाव अज्जचारुदत्तश्श गेहं गच्छामि ।
(परिक्रम्य प्रविष्टकेन दृष्ट्वा । )
एशे चालुदत्ते रुक्खवाडिआए चिट्ठदि ।
एशे वि शे दुट्टवडुके ।
ता जाव उवशप्पेमि ।
कधं ढक्किदे दुवाले रुक्खवाडिआए ।
भोदु ।
एदश्श दुट्टवडुकश्श शण्णं देमि ।
(इति लोष्टगुटिकाः क्षिपति । )
विदूषकः - अए, को दाणिं एसो पाआरवेट्टिदं विअ कैत्थं मं लोट्टकेहिं ताडेदि ।
चारुदत्तः - आरामप्रासादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् ।
विदूषकः - दासीए पुत्त दुट्टपारावअ, चिट्ठ चिट्ठ ।
जाव एदिणा दण्डकट्ठेण सुपक्वं विअ चूअफलं इमादो पासादादो भूमीए पाडैस्सम् ।
(इति दण्डकाष्ठमुद्यम्य धावति । )
चारुदत्तः - (यज्ञोपवीत आकृष्य । )
वयस्य, उपविश ।
किमनेन ।
तिष्ठतु दयितासहितस्तपस्वी पारावतः ।
चेटः - कधं पारावदं पेक्खदि ।
मं ण पेक्खदि ।
भोदु ।
अवराए लोट्टगुडिकाए पुणो वि ताडैस्सम् ।
(तथा करोति । )
विदूषकः - (दिशोऽवलोक्य । )
कधं कुम्भीलओ ।
ता जाव उवसप्पामि ।
(उपसृत्य ।
द्वारमुद्धाट्य । )
अरे कुम्भीलअ, पविश ।
साअदं दे ।
चेटः - (प्रविश्य । )
अज्ज, वन्दामि ।
विदूषकः - अरे, कहिं तुमं ईदिसे दुद्दिणे अन्धआरे आअदो ।
चेटः - अले, एशा शा ।
विदूषकः - का एसा का ।
चेटः - एशा शा ।
विदूषकः - किं दाणिं दासीए पुत्ता, दुब्भिक्खकाले वुड्ढरङ्को विअ उद्धकं सासाअसि - ऽएसा सा सेऽ त्ति ।
चेटः - अले, तुमं पि दाणिं इन्दमहकामुको विअ सुट्ठु किं काकाअसि - ऽका केऽ त्ति ।
विदूषकः - ता कहेहि ।
चेटः - (स्वगतम् । )
भोदु ।
एव्वं भणिश्शम् ।
(प्रकाशम् । )
अले, पण्हं दे दैश्शम् ।
विदूषकः - अहं दे मुण्डे गोड्डं दैस्सम् ।
चेटः - अले, जाणाहि दाव, तेण हि ।
कश्शिं काले चूआ मोलेन्ति ।
विदूषकः - अरे दासीए पुत्ता, गिम्हे ।
चेटः - (सहासम् । )
अले, णहि णहि ।
विदूषकः - (स्वगतम् । )
किं दाणिं एत्थ कहिस्सम् ।
(विचिन्त्य । )
भोदु ।
चारुदत्तं गदुअ पुच्छिस्सम् ।
(प्रकाशम् । )
अरे, मुहुत्तअं चिट्ठ ।
(चारुदत्तमुपसृत्य । )
भो वअस्स, पुच्छिस्सं दाव, कस्सिं काले चूआ मोलेन्ति ।
चारुदत्तः - मूर्ख, वसन्ते ।
विदूषकः - (चेटमुपगम्य । )
मुक्ख, वसन्ते ।
चेटः - दुदिअ दे पण्हं दैश्शम् ।
शुशमिद्धाणं गामाणं का लक्खअं कलेदि ।
विदूषकः - अरे, रच्छा ।
चेटः - (सहासम् । )
अले, णहि णहि ।
विदूषकः - भोदु ।
संसए पडिदम्हि ।
(विचिन्त्य । )
भोदु ।
चारुदत्तं पुणो वि पुच्छिस्सम् ।
(पुनर्निवृत्य चारुदत्तं तथैवोदाहरति । )
चारुदत्तः - वयस्य, सेना ।
विदूषकः - (चेटमुपगम्य । )
अरे दासीए पुत्ता, सेणा ।
चेटः - अले, दुवे वि एक्कश्शिं कदुअ शिग्घं भणाहि ।
विदूषकः - सेणावसन्ते ।
चेटः - णं पलिवत्तिअ भणाहि ।
विदूषकः - (कायेन परिवृत्य । )
सेणावसन्ते ।
चेटः - अले मुक्ख बडुका, पदाइं पलिवत्तावेहि ।
विदूषकः - (पादौ परिवर्त्य । )
सेणावसन्ते ।
विटः - अले मुक्ख, अक्खलपदाइं पलिवत्तावेहि ।
विदूषकः - (विचिन्त्य । )
वसन्तसेणा ।
चेटः - एशा शा आअदा ।
विदूषकः - ता जाव चारुदत्तस्स णिवेदेमि ।
(उपसृत्य । )
भो चारुदत्त, धणिओ दे आअदो ।
चारुदत्तः - कुतोऽस्मत्कुले धनिकः ।
विदूषकः - जै कुले णत्थि, ता दुवारे अत्थि ।
एसा वसन्तसेणा आअदा ।
चारुदत्तः - वयस्य, किं मां प्रतारयसि ।
विदूषकः - जै मे वअणे ण पत्तिआअसि, ता एदं कुम्भीलअं पुच्छ ।
अरे दासीए पुत्ता कुम्भीलअ, उवसप्प ।
चेटः - (उपसृत्य । )
अज्ज, वन्दामि ।
चारुदत्तः - भद्र, स्वागतम् ।
कथय सत्यं प्राप्ता वसन्तसेना ।
चेटः - एशा शा आअदा वशन्तशेणा ।
चारुदत्तः - (सहर्षम् । )
भद्र, न कदाचित्प्रियवचनं निष्फलीकृतं मया ।
तद्गृह्यतां पारितोषिकम् ।
(इत्युत्तरीयं प्रयच्छति । )
चेटः - (गृहीत्वा प्रणम्य सपरितोषम् । )
जाव अज्जआए णिवेदेमि ।
(इति निष्क्रान्तः । )
विदूषकः - भो, अवि जाणासि, किण्णिमित्तं ईदिसे दुद्दिणे आअदेत्ति ।
चारुदत्तः - वयस्य, न सम्यगवधारयामि ।
विदूषकः - मए जाणिदम् ।
अप्पमुल्ला रअणावली, बहुमुल्लं सुवस्सभण्डअं त्ति ण परितुट्टा अवरं मग्गिदुं आअदा ।
चारुदत्तः - (स्वगतम् । )
परितुष्टा यास्यति ।
(ततः प्रविशत्युज्ज्वलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च । )
विटः - (वसन्तसेनामुद्दिश्य । )
अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् ।
सलीलं गच्छन्ती रतिसमयलज्जाप्रणयिनी रतिक्षेत्रे रङ्गे प्रियपथिकसार्थैरनुगता ॥१२॥
वसन्तसेने, पश्य पश्य ।
गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा मेघा वियुक्तवनिताहृदयानुकाराः ।
येषां रवेण सहसोत्पतितैर्मयूरैः खं वीज्यते मणिमयैरिव तालवृन्तैः ॥१३॥
अपि च ।
पङ्कक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते ।
सन्न्यासः कुलदूषणैरिव जनैर्मेघैर्वृतश्चन्द्रमा विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र सन्तिष्ठते ॥१४॥
वसन्तसेना - भाव, सुट्ठु दे भणिदम् ।
एषा हि मूढे निरन्तरपयोधरया मयैव कान्तः सहाभिरमते यदि किं तवात्र ।
मां गर्जितैरिति मुहुर्विनिवारयन्ती मार्गं रुणद्धि कुपितेव निशा सपत्नी ॥१५॥
विटः - भवतु ।
एवं तावत् ।
उपालभ्यतां तावदियम् ।
वसन्तसेना - भाव, किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया ।
पश्यतु भावः ।
मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा ।
गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥१६॥
विटः - वसन्तसेने, पश्य पश्य ।
अयमपरः पवनचपलवेगः स्थूलधाराशरौघः स्तनितपटहनादः स्पष्टविद्युत्पताकः ।
हरति करसमूहं खे शशाङ्कस्य मेघो नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥१७॥
वसन्तसेना - एव्वं णेदम् ।
ता कधं एसो अवरो ।
एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरैर्गर्जद्भिः सतडिड्बलाकशबलैर्मेघैः सशल्यं मनः ।
तत्किं प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ॥१८॥
विटः - वसन्तसेने, एवमेतत् ।
इदमपरं पश्य ।
बलाका पाण्डुरोष्णीषं विद्युदुत्क्षिप्तचामरम् ।
मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥१९॥
वसन्तसेना - भाव, पेक्ख पेक्ख ।
एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
विद्युत्काञ्चनदीपिकेव रचिता प्रासादसञ्चारिणी ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हृता ॥२०॥
विटः - वसन्तसेने, पश्य पश्य ।
एते हि विद्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
शक्राज्ञया वारिधराः सधारा गां रूप्यरज्ज्वेव समुद्धरन्ति ॥२१॥
अपि च पश्य ।
महावाताध्मातैर्महिषकुलनीलैर्जलधरैश्चलैर्विद्युत्पक्षैर्जलधिभिरिवान्तःप्रचलितैः ।
इयं गन्धोद्दामा नवहरितशष्पाङ्कुरवती धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥२२॥
वसन्तसेना - भाव, एसो अवरो ।
एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः ।
हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥२३॥
विटः - एवमेतत् ।
तथा हि पश्य ।
निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं विद्युद्भिः क्षणनष्टदृष्टतिमिरं प्रच्छादिताशामुखम् ।
निश्चेष्टं स्वपितीव सम्प्रति पयोधारागृहान्तर्गतं स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥२४॥
वसन्तसेना - भाव, एव्वं णेदम् ।
ता पेक्ख पेक्ख ।
गता नाशं तारा उपकृतमसाधाविव जने वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः ।
प्रकामान्तस्तप्तं त्रिदशपतिशस्त्रस्य शिखिना द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥२५॥
अपि च पश्य ।
उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम् ।
प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि ॥२६॥
विटः - एवमेतत् ।
विद्युद्भिर्ज्वलतीव संविहसतीवोच्चैर्बलाकाशतैर्माहेन्द्रेण विवल्गतीव धनुषा धाराशरोद्गारिणा ।
विस्पष्टाशनिनिस्वनेन रसतीवाघूर्णतीवानिलैर्नीलैः सान्द्रमिवाहिभिर्जलधरैर्धूपायतीवाम्बरम् ॥२७॥
वसन्तसेना - जलधर निर्लज्जस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् ।
स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥२८॥
भोः शक्र, किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुदसिंहनादैः ।
न युक्तमेतत्प्रियकाङ्क्षिताया मार्गं निरोद्धुं मम वर्षपातैः ॥२९॥
अपि च ।
यद्वदहल्याहेतोर्मृषा वदसि शक्र गौतमोऽस्मीति ।
तद्वन्ममापि दुःखं निरपेक्ष निवार्यतां जलदः ॥३०॥
अपि च ।
गर्ज वा वर्ष वा शक्र मुञ्च वा शतशोऽशनिम् ।
न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥३१॥
यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः ।
अयि विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥३२॥
विटः - भवति, अलमलमुपालम्भेन ।
उपकारिणी तवेयम् ।
ऐरावतोरसि चलेव सुवर्णरज्जुः शैलस्य मूर्ध्नि निहितेव सिता पताका ।
आखण्डलस्य भवनोदरदीपिकेयमाख्याति ते प्रियतमस्य हि सन्निवेशम् ॥३३॥
वसन्तसेना - भाव, एव्वं तं ज्जेव एदं गेहम् ।
विटः - सकलकलाभिज्ञाया न किञ्चिदिह तवोपदेष्टव्यमस्ति ।
तथापि स्नेहः प्रलापयति ।
अत्र प्रविश्य कोपोऽत्यन्तं न कर्तव्यः ।
यदि कुप्यसि नास्ति रतिः कोपेन विनाथवा कुतः कामः ।
कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम् ॥३४॥
भवतु ।
एवं तावत् ।
भो भोः, निवेद्यतामार्यचारुदत्ताय ।
एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका ।
विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥३५॥
चारुदत्तः - (आकर्ण्य । )
वयस्य, ज्ञायतां किमेतदिति ।
विदूषकः - जं भवं आणवेदि ।
(वसन्तसेनामुपगम्य ।
सादरम् । )
सोत्थि भोदीए ।
वसन्तसेना - अज्ज, वन्दामि ।
साअदं अज्जस्स ।
(विटं प्रति । )
भाव, एसा छत्तधारिआ भावस्स ज्जेव भोदु ।
विटः - (स्वगतम् । )
अनेनोपायेन निपुणं प्रेषितोऽस्मि ।
(प्रकाशम् । )
एवं भवतु ।
भवति वसन्तसेने, साटोपकूटकपटानृतजन्मभूमेः शाठ्यात्मकस्य रतिकेलिकृतालयस्य ।
वेश्यापणस्य सुरतोत्सवसङ्ग्रहस्य दाक्षिण्यपण्यमुखनिष्क्रयसिद्धिरस्तु ॥३६॥
(इति निष्क्रान्तो विटः । )
वसन्तसेना - अज्ज मित्तेअ, कहिं तुम्हाणं जूदिअरो ।
विदूषकः - (स्वगतम् । )
ही ही भो, जूदिअरो त्ति भणन्तीए अलङ्किदो पिअवअस्सो ।
(प्रकाशम् । )
भोदि, एसो क्खु सुक्खरुक्खवाडिआए ।
वसन्तसेना - अज्ज, का तुम्हाणं सुक्खरुक्खवाडिआ वुच्चदि ।
विदूषकः - भोदि, जहिं ण खाईअदि ण पीईअदि ।
(वसन्तसेना स्मितं करोति । )
विदूषकः - ता पविसदु भोदी ।
वसन्तसेना - (जनान्तिकम् । )
एत्थ पविसिअ किं मए भणिदव्वम् ।
चेटी - जूदिअर, अवि सुहो दे पदोसो त्ति ।
वसन्तसेना - अवि पारैस्सम् ।
चेटी - अवसरो ज्जेव पारैस्सदि ।
विदूषकः - पविसदु भोदी ।
वसन्तसेना - (प्रविश्योपसृत्य च ।
पुष्पैस्ताडयन्ती । )
ऐ जूदिअर, अवि सुहो दे पदोसो ।
चारुदत्तः - (अवलोक्य । )
अये, वसन्तसेना प्राप्ता ।
(सहर्षमुत्थाय । )
अयि प्रिये, सदा प्रदोषो मम याति जाग्रतः सदा च मे निश्वसतो गता निशा ।
त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥३७॥
तत्स्वागतं भवत्यै ।
इदमासनम् ।
अत्रोपविश्यताम् ।
विदूषकः - इदं आसणम् ।
उवविसदु भोदी ।
(वसन्तसेनासीना ।
ततः सर्व उपविशन्ति । )
चारुदत्तः - वयस्य पश्य पश्य ।
वर्षोदकमुद्गिरता श्रवणान्तविलम्बिना कदम्बेन ।
एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥३८॥
तद्वयस्य, क्लिन्ने वाससी वसन्तसेनायाः ।
अन्ये प्रधानवाससी समुपनीयेतामिति ।
विदूषकः - जं भवं आणवेदि ।
चेटी - अज्ज मित्तेअ, चिट्ठ तुमम् ।
अहं ज्जेव अज्जअं सुस्सूसैस्सम् ।
(तथा करोति । )
विदूषकः - (अपवारितकेन । )
भो वअस्स, पुच्छामि दाव तत्थभोदिं किं पि ।
चारुदत्तः - एवं क्रियताम् ।
विदूषकः - (प्रकाशम् । )
अध किण्णिमित्तं उण ईदिसे पणट्टचन्दालोए दुद्दिणअन्धआरे आअदा भोदी ।
चेटी - अज्जए, उजुओ बम्हणो ।
वसन्तसेना - णं णिउणोत्ति भणाहि ।
चेटी - एसा क्खु अज्जआ एव्वम् पुच्छिदुं आअदा - ऽकेत्तिअं ताए रअणावलीए मुल्लंऽ त्ति ।
विदूषकः - (जनान्तिकम् । )
भो, भणिदं मए, जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभण्डअम् ।
ण परितुट्टा ।
अवरं मग्गिदुं आअदा ।
चेटी - सा क्खु अज्जआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा ।
सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति ।
विदूषकः - भोदि, मन्तिदं ज्जेव मन्तीअदि ।
चेटी - जाव सो अण्णेसीअदि ताव एदं ज्जेव गेण्ह सुवण्णभण्डअम् ।
(इति दर्शयति । )
(विदूषको विचारयति । )
चेटी - अदिमेत्तं अज्जो णिज्झाअदि ।
ता किं दिट्टपुरुव्वो दे ।
विदूषकः - भोदि, सिप्पकुसलदाए ओबन्धेदि दिट्ठिम् ।
चेटी - अज्ज, वञ्चिदोसि दिट्टीए ।
तं ज्जेव एदं सुवण्णभण्डअम् ।
विदूषकः - (सहर्षं । )
भो वअस्स, तं ज्जेव एदं सुवण्णभण्डअम्, जं अम्हाणं गेहे चोरेहिं अवहिदम् ।
चारुदत्तः - वयस्य, योऽस्माभिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् ।
स एव प्रस्तुतोऽस्माकं किन्तु सत्यं विडम्बना ॥३९॥
विदूषकः - भो वअस्स, सच्चं सबामि बम्हणेण ।
चारुदत्तः - प्रियं नः प्रियम् ।
विदूषकः - (जनान्तिकम् । )
भो, पुच्छामि णं कुदो एदं समासादिदं त्ति ।
चारुदत्तः - को दोषः ।
विदूषकः - (चेट्याः कर्णे । )
एव्वं विअ ।
चेटी - (विदूषकस्य कर्णे । )
एव्वं विअ ।
चारुदत्तः - किमिदं कथ्यते ।
किं वयं बाह्याः ।
विदूषकः - (चारुदत्तस्य कर्णे । )
एव्वं विअ ।
चारुदत्तः - भद्रे, सत्यं तदेवेदं सुवर्णभाण्डम् ।
चेटी - अज्ज, अध इं ।
चारुदत्तः - भद्रे, न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया ।
तद्गृह्यतां पारितोषिकमिदमङ्गुलीयकम् ।
(इत्यनङ्गुलीयकं हस्तमवलोक्य लज्जां नाटयति । )
वसन्तसेना - (आत्मगतम् । )
अदो ज्जेव कामीअसि ।
चारुदत्तः - (जनान्तिकम् । )
भोः, कष्टम् ।
धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् ।
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति ॥४०॥
अपि च ।
पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् ।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥४१॥
अपि च ।
शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः ।
यद्दृष्टपूर्वजनसङ्गमविस्मृतानामेवं भवन्ति विफलाः परितोषकालाः ॥४२॥
विदूषकः - भो, अलं अदिमेत्तं सन्तप्पिदेण ।
(प्रकाशं सपरिहासम् । )
भोदि, समप्पीअदु ममकेरिआ ण्हाणसाडिआ ।
वसन्तसेना - अज्ज चारुदत्त, जुत्तं णेदं इमाए रअणावलीए इमं जणं तुलैदुम् ।
चारुदत्तः - (सविलक्षस्मितम् । )
वसन्तसेने, पश्य पश्य ।
कः श्रद्धास्यति भूतार्थं सर्वो मां तूलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥४३॥
विदूषकः - हञ्जे, किं भोदीए इध ज्जेव सुविदव्वम् ।
चेटी - (विहस्य । )
अज्ज मित्तेअ, अदिमेत्तं दाणिं उजुअं अत्ताणअं दंसेसि ।
विदूषकः - भो वअस्स, एसो क्खु ओसारअन्तो विअ सुहोवविट्टं जणं पुणोवि वित्थारिवारिधाराहिं पविट्टो पज्जण्णो ।
चारुदत्तः - सम्यगाह भवान् ।
अमूर्हि भित्त्वा जलदान्तराणि पङ्कान्तराणीव मृणालसूच्यः ।
पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥४४॥
अपि च ।
धाराभिरार्यजनचित्तसुनिर्मलाभिश्चण्डाभिरर्जुनशरप्रतिकर्कशाभिः ।
मेघाः स्रवन्ति बलदेवपटप्रकाशाः शक्रस्य मौक्तिकनिधानमिवोद्गिरन्तः ॥४५॥
प्रिये, पश्य पश्य ।
एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ॥४६॥
(वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति । )
चारुदत्तः - (स्पर्शं नाटयन्प्रत्यालिङ्ग्य । )
भो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥४७॥
विदूषकः - दासीए पुत्त दुद्दिण, अणज्जो दाणिं सि तुमम्, जं अत्तभोदिं विज्जुआए भायावेसि ।
चारुदत्तः - वयस्य, नार्हस्युपालब्धुम् ।
वर्षशतमस्तु दुर्दिनमविरतधारं शतह्रदा स्फुरतु ।
अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥४८॥
अपि च ।
वयस्य, धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् ।
आर्द्राणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥४९॥
प्रिये वसन्तसेने, स्तम्भेषु प्रचलितवेदिसञ्चयान्तं शीर्णत्वात्कथमपि धार्यते वितानम् ।
एषा च स्फुटितसुधाद्रवानुलेपात्सक्लिन्ना सलिलभरेण चित्रभित्तिः ॥५०॥
(ऊर्ध्वमवलोक्य । )
अये इन्द्रधनुः ।
प्रिये, पश्य पश्य ।
विद्युज्जिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन ।
जलधरविवृद्धहनुना विजृम्भितमिवान्तरीक्षेण ॥५१॥
तदेहि ।
अभ्यन्तरमेव प्रविशावः ।
(इत्युत्थाय परिक्रामति । )
तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् ।
सङ्गीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ॥५२॥
(इति निष्क्रान्ताः सर्वे । )
दुर्दिनो नाम पञ्चमोऽङ्कः ।