०४ मदनिकाशर्विलकः

चतुर्थोऽङ्कः ।
(ततः प्रविशति चेटी । )
चेटी - आणत्तम्हि अत्ताए अज्जआए सआसं गन्तुम् ।
एसा अज्जआ चित्तफलअणिसण्णदिट्टी मदणिआए सह किम्पि मन्तअन्ती चिट्ठदि ।
ता जाव उवसप्पामि ।
(इति परिक्रामति । )
(ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च । )
वसन्तसेना - हञ्जे मदणिए, अबि सुसदिसी इअं चित्ताकिदी अज्जचारुदत्तस्स ।
मदनिका - सुसदिसी ।
वसन्तसेना - कधं तुमं जाणासि ।
मदनिका - जेण अज्जआए सुसिणिद्धा दिट्टि अणुलग्गा ।
वसन्तसेना - हञ्जे, किं वेसवासदाक्खिण्णेण मदणिए, एव्वं भणासि ।
मदनिका - अज्जए, किं जो ज्जेव जणो वेसे पडिवसदि, सो ज्जेव अलीअदक्खिणो भोदि ।
वसन्तसेना - हञ्जे, णाणापुरिससङ्गेण वेस्साजणो अलीअदक्खिणो भोदि ।
मदनिका - जदो दाव अज्जआए दिट्टी इध अभिरमदि हिअअं च, तस्स कारणं किं पुच्छीअदि ।
वसन्तसेना - हञ्जे, सहीजणादो उबहसणीअदां रक्खामि ।
मदनिका - अज्जए, एव्वं णेदम् ।
सहीजणचित्ताणुवत्ती अबलाअणो भोदि ।
प्रथमा चेटी - (उपसृत्य । )
अज्जए, अत्ता आणवेदि - ऽगहिदावगुण्ठणं पक्खदुआरए सज्जं पवहणम् ।
ता गच्चऽ त्ति ।
वसन्तसेना - हञ्जे, किं अज्जचारुदत्तो मं णैस्सदि ।
चेटी - अज्जए, जेण पवहणेण सह सुवण्णदससाहस्सिओ अलङ्कारओ अणुप्पेसिदो ।
वसन्तसेना - को उण सो ।
चेटी - एसो ज्जेव राअस्सालो सण्ठाणओ ।
वसन्तसेना - (सक्रोधम् । )
अवेहि ।
मा पुणो एव्वं भणिस्ससि ।
चेटी - पसीददु पसीददु अज्जआ ।
सन्देसेण म्हि पेसिदा ।
वसन्तसेना - अहं सन्देसस्स ज्जेव कुप्पामि ।
चेटी - ता किन्ति अत्तं विण्णविस्सम् ।
वसन्तसेना - एव्वं विण्णाविदव्वा - ऽजै मं जीअन्तीं इच्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वाऽ ।
चेटी - जधा दे रोअदि ।
(इति निष्क्रान्ता । )
(प्रविश्य । )
शर्विलकः - दत्त्वा निशाया वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान् ।
स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥१॥
अपि च ।
यः कश्चित्त्वरितगतिर्निरीक्षते मां सम्भ्रान्तं द्रुतमुपसर्पति स्थितं वा ।
तं सर्वं तुलयति दूषितोऽन्तरात्मा स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥२॥
मया खलु मदनिकायाः कृते साहसमनुष्ठितम् ।
परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः क्वचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम् ।
नरपतिबले पार्श्वायाते स्थितं गृहदारुवद्व्यवसितशतैरेवम्प्रायैर्निशा दिवसीकृता ॥३॥
(इति परिक्रामति । )
वसन्तसेना - हञ्जे, इमं दाव चित्तफलअं मम सअणीए ठाविअ तालवेण्टअं गेण्हिअ लहु आअच्छ ।
मदनिका - जं अज्जआ आण्णवेदि ।
(इति फलकं गृहीत्वा निष्क्रान्ता । )
शर्विलकः - इदं वसन्तसेनाया गृहम् ।
तद्यावत्प्रविशामि ।
(प्रविश्य । )
क्व नु मया मदनिका द्रष्टव्या ।
(ततः प्रविशति तालवृन्तहस्ता मदनिका । )
शर्विलकः - (दृष्ट्वा । )
अये, इयं मदनिका ।
मदनमपि गुणैर्विशेषयन्ती रतिरिव मूर्तिमती विभाति येयम् ।
मम हृदयमनङ्गवह्नितप्तं भृशमिव चन्दनशीतलं करोति ॥४॥
मदनिके ।
मदनिका - (दृष्ट्वा । )
अम्मो, कधं सव्विलओ ।
सव्विलअ, साअदं दे कहिं तुमम् ।
शर्विलकः - कथयिष्यामि ।
(इति सानुरागमन्योन्यं पश्यतः । )
वसन्तसेना - चिरअदि मदणिआ ।
ता कहिं णु क्खु सा ।
(गवाक्षकेन दृष्ट्वा । )
कथम् ।
एसा केनावि पुरिसकेण सह मन्तअन्ती चिट्ठदि ।
जधा अदिसिणिद्धाए णिच्चलदिट्ठीए आपिबन्ती विअ एदं निज्झाअदि, तधा तक्केमि, एसो सो जणो एदं इच्छदि अभुजिस्सं कादुम् ।
ता रमदु रमदु ।
मा कस्सावि पीदिच्छेदो भोदु ।
ण क्खु सद्दाविस्सम् ।
मदनिका - सव्विलअ, कधेहि ।
(शर्विलकः सशङ्कं दिशोऽवलोकयति । )
मदनिका - सव्विलअ, किं ण्णेदम् ।
ससङ्को विअ लक्खीअसि ।
शर्विलकः - वक्ष्ये त्वां किञ्चिद्रहस्यम् ।
तद्विविक्तमिदम् ।
मदनिका - अध इं ।
वसन्तसेना - कधं परमरहस्सम् ।
ता ण सुणिस्सम् ।
शर्विलकः - मदनिके, किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण ।
वसन्तसेना - कधं मम सम्बन्धिणी कधा ।
ता सुणिस्सं इमिणा गवक्खेण ओवारिदसरीरा ।
मदनिका - सव्विलअ, भणिदा मए अज्जआ ।
तदो भणादि - ऽजै मम छन्दो तदा विणा अत्थं सव्वं परिजणं अभुजिस्सं करैस्सम्ऽ ।
अध सव्विलअ, कुदो दे एत्तिओ विहवो, जेण मं अज्जआसआसादो मोआइस्ससि ।
शर्विलकः - दारिद्र्येणाभिभूतेन त्वत्स्नेहानुगतेन च ।
अद्य रात्रौ मया भीरु त्वदर्थे साहसं कृतम् ॥५॥
वसन्तसेना - पसण्णा से आकिदी, साहसकम्मदाए उण उव्वेअणीआ ।
मदनिका - सव्विलअ, इत्थीकल्लवत्तस्स कारणेण उहअं पि संसए विणिक्खित्तम् ।
शर्विलकः - किं किम् ।
मदनिका - सरीरं चारित्तं च ।
शर्विलकः - अपण्डिते, साहसे श्रीः प्रतिवसति ।
मदनिका - सव्विलअ, अखण्डिदचारित्तो सि ।
ता ण हु ते मम कारणादो साहसं करन्तेण अच्चन्तविरुद्धं आचरिदम् ।
शर्विलकः - नो मुष्णाम्यबलां विभूषणवतीं फुल्लामिवाहं लतां विप्रस्वं न हरामि काञ्चनमथो यज्ञार्थमभ्युद्धृतम् ।
धात्र्युत्सङ्गगतं हरामि न तथा बालं धनार्थी क्वचित्कार्याकार्यविचारिणी मम मतिश्चौर्येऽपि नित्यं स्थिता ॥६॥
तद्विज्ञाप्यतां वसन्तसेना - ऽअयं तव शरीरस्य प्रमाणादिव निर्मितः ।
अप्रकाशो ह्यलङ्कारो मत्स्नेहाद्धार्यतामितिऽ ॥७॥
मदनिका - सव्विलअ, अप्पकाशो अलङ्कारओ ।
अअं च जणो त्ति दुवेवि ण जुज्जदि ।
ता उवणेहि दाव ।
पेक्खामि एदं अलङ्कारअम् ।
शर्विलकः - इदमलङ्करणम् ।
(इति साशङ्कं समर्पयति । )
मदनिका - (निरूप्य । )
दिट्ठपुरुव्वो विअ अअं अलङ्कारओ ।
ता भणेहि कुदो दे एसो ।
शर्विलकः - मदनिके, किं तवानेन ।
गृह्यताम् ।
मदनिका - (सरोषम् । )
जै मे पच्चअं ण गच्छसि, ता किण्णिमित्तं मं णिक्किणसि ।
शर्विलकः - अयि, प्रभाते मया श्रुतं श्रेष्ठिचत्वरे, यथा - ऽसार्थवाहस्य चारुदत्तस्यऽ इति ।
(वसन्तसेना मदनिका च मूर्च्छां नाटयतः । )
शर्विलकः - मदनिके, समाश्वसिहि ।
किमिदानीं त्वं विषादस्रस्तसर्वाङ्गी सम्भ्रमभ्रान्तलोचना ।
नीयमानाभुजिष्यात्वं कम्पसे नानुकम्पसे ॥८॥
मदनिका - (समाश्वस्य । )
साहसिअ, ण क्खु तुए मम कारणादो इमं अकज्जं करन्तेण तस्सिं गेहे कोवि वावादिदो परिक्खदो वा ।
शर्विलकः - मदनिके, भीते सुप्ते न शर्विलकः प्रहरति ।
तन्मया न कश्चिद्व्यापादितो नापि परिक्षतः ।
मदनिका - सच्चम् ।
शर्विलकः - सत्यम् ।
वसन्तसेना - (सञ्ज्ञां लब्ध्वा । )
अम्महे, पच्चुवजीविद म्हि ।
मदनिका - पिअम् ।
शर्विलकः - (सेर्ष्यम् । )
मदनिके, किं नाम प्रियमिति ।
त्वत्स्नेहबद्धहृदयो हि करोम्यकार्यं सद्वृत्तपूर्वपुरुषेऽपि कुले प्रसूतः ।
रक्षामि मन्मथविपन्नगुणोऽपि मानं मित्रं च मां व्यपदिशस्यपरं च यासि ॥९॥
(साकूतम् । )
इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥१०॥
अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥११॥
वसन्तसेना - (सस्मितम् । )
अहो, से अत्थाणे आवेओ ।
शर्विलकः - सर्वथा अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥१२॥
स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति ।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥१३॥
सुष्ठु खल्विदमुच्यते - एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः ॥१४॥
अपि च ।
समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागाः ।
स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥१५॥
स्त्रियो नाम चपलाः अन्यं मनुष्यं हृदयेण कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥१६॥
सूक्तं खलु कस्यापि - न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति ।
यवाः प्रकीर्णा न भवन्ति शालयो न वेशजाताः शुचयस्तथाङ्गनाः ॥१७॥
आः दुरात्मन् चारुदत्तहतक, अयं न भवसि ।
(इति कतिचित्पदानि गच्छति । )
मदनिका - (अञ्चले गृहीत्वा । )
ऐ असम्बद्धभासअ, असम्भावणीए कुप्पसि ।
शर्विलकः - कथमसम्भावनीयं नाम ।
मदनिका - एसो क्खु अलङ्कारओ अज्जआकेरओ ।
शर्विलकः - ततः किम् ।
मदनिका - स च तस्स अज्जस्स हत्थे विणिक्खित्तो ।
शर्विलकः - किमर्थम् ।
मदनिका - (कर्णे । )
एव्वं विअ ।
शर्विलकः - (सवैलक्ष्यम् । )
भोः, कष्टम् ।
छायार्थं ग्रीष्मसन्तप्तो यामेवाहं समाश्रितः ।
अजानता मया सैव पत्रैः शाखा वियोजिता ॥१८॥
वसन्तसेना - कधं एसो वि सन्तप्पदि ज्जेव ।
ता अजाणन्तेण एदिणा एव्वं अणुचिट्ठिदम् ।
शर्विलकः - मदनिके, किमिदानीं युक्तम् ।
मदनिका - इत्थं तुमं ज्जेव पण्डिओ ।
शर्विलकः - नैवम् ।
पश्य ।
स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः ।
पुरुषाणां तु पाण्डित्यं शास्त्रैरेवोपदिश्यते ॥१९॥
मदनिका - सव्विलअ, जै मम वअणं सुणीअदि, ता तस्स ज्जेव महाणुभावस्स पडिणिज्जादेहि ।
शर्विलकः - मदनिके, यद्यसौ राजकुले मां कथयति ।
मदनिका - ण चन्दादो आदवो होदि ।
वसन्तसेना - साहु मदणिए, साहु ।
शर्विलकः - मदनिके, न खलु मम विषादः साहसेऽस्मिन्भयं वा कथयसि हि किमर्थं तस्य साधोर्गुणांस्त्वम् ।
जनयति मम वेदं कुत्सितं कर्म लज्जां नृपतिरिह शठानां मादृशां किं नु कुर्यात् ॥२०॥
तथापि नीतिविरुद्धमेतत् ।
अन्य उपायश्चिन्त्यताम् ।
मदनिका - सो अअं अवरो उवाओ ।
वसन्तसेना - को क्खु अवरो उवाओ हुविस्सदि ।
मदनिका - तस्स ज्जेव अज्जस्स केरओ भविअ एदं अलङ्कारअं अज्जआए उवणेहि ।
शर्विलकः - एवं कृते किं भवति ।
मदनिका - तुमं दाव अचोरो, सो वि अज्जो अरिणो, अज्जआए सकं अलङ्कारअं उवगदं भोदि ।
शर्विलकः - नन्वतिसाहसमेतत् ।
मदनिका - ऐ, उवणेहि ।
अण्णधा अदिसाहसम् ।
वसन्तसेना - साहु मदणिए, साहु ।
अभुजिस्सए विअ मन्तिदम् ।
शर्विलकः - मयाप्ता महती बुद्धिर्भवतीमनुगच्छता ।
निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥२१॥
मदनिका - तेण हि तुमं इमस्सिं कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्ज आए तुह आगमणं णिवेदेमि ।
शर्विलकः - एवं भवतु ।
मदनिका - (उपसृत्य । )
अज्जए, एसो क्खु चारुदत्तस्स सआसादो बम्हणो आअदो ।
वसन्तसेना - हञ्जे, तस्स केरअं त्ति कधं तुमं जाणासि ।
मदनिका - अज्जए, अत्तणकेरअं वि ण जाणामि ।
वसन्तसेना - (स्वगतं सशिरःकम्पं विहस्य । )
जुज्जदि ।
(प्रकाशम् । )
पविसदु ।
मदनिका - जं अज्जआ आणवेदि ।
(उपगम्य । )
पविसदु सव्विलओ ।
शर्विलकः - (उपसृत्य सवैलक्ष्यम् । )
स्वस्ति भवत्यै ।
वसन्तसेना - अज्ज, वन्दामि ।
उवविसदु अज्जो ।
शर्विलकः - सार्थवाहस्त्वां विज्ञापयति - ऽजर्जरत्वाद्गृहस्य दूरक्ष्यमिदं भाण्डम् ।
तद्गृह्यताम्ऽ ।
(इति मदनिकायाः समर्प्य प्रस्थितः । )
वसन्तसेना - अज्ज, ममावि दाव पडिसन्देसं तहिं अज्जो णेदु ।
शर्विलकः - (स्वगतम् । )
कस्तत्र यास्यति ।
(प्रकाशम् । )
कः प्रतिसन्देशः ।
वसन्तसेना - पडिच्छदु अज्जो मदणिअम् ।
शर्विलकः - भवति, न खल्ववगच्छामि ।
वसन्तसेना - अहं अवगच्छामि ।
शर्विलकः - कथमिव ।
वसन्तसेना - अहं अज्जचारुदत्तेण भणिदा - ऽजो इमं अलङ्कारअं समप्पैस्सदि, तस्स तुए मदणिआ दादव्वाऽ ।
ता सो ज्जेव एदं दे देदित्ति एव्वं अज्जेण अवगच्छिदव्वम् ।
शर्विलकः - (स्वगतम् । )
अये, विज्ञातोऽहमनया ।
(प्रकाशम् । )
साधु आर्यचारुदत्त, साधु ।
गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा ।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥२२॥
अपि च ।
गुणेषु यत्नः पुरुषेण कार्यो न किञ्चिदप्राप्यतमं गुणानाम् ।
गुणप्रकर्षादुडुपेन शम्भोरलङ्घ्यमुल्लङ्घितमुत्तमाङ्गम् ॥२३॥
वसन्तसेना - को एत्थ पवहणिओ ।
(प्रविश्य सप्रवहणः । )
चेटः - अज्जए, सज्जं पवहणम् ।
वसन्तसेना - हञ्जे मअणिए, सुदिट्टं मं करेहि ।
दिण्णासि ।
आरुह पवहणम् ।
सुमरेसि मम् ।
मदनिका - (रुदती । )
परिच्चत्तम्हि अज्जआए ।
(इति पादयोः पतति । )
वसन्तसेना - सम्पदं तुमं ज्जेव वन्दणीआ संवुत्ता ।
ता गच्छ ।
आरुह पवहणम् ।
सुमरेसि मम् ।
शर्विलकः - स्वस्ति भवत्यै ।
मदनिके, सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः ।
यत्र ते दुर्लभं प्राप्तं वधूशब्दावगुण्ठनम् ॥२४॥
(इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः । )
(नेपथ्ये । )
कः कोऽत्र भोः ।
राष्ट्रियः समाज्ञापयति - ऽएष खल्वार्यको गोपालदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः ।
ततः स्वेषु स्वेषु स्थानेष्वप्रमत्तैर्भवद्भिर्भवितव्यम्ऽ ।
शर्विलकः - (आकर्ण्य । )
कथं राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः ।
कलत्रवांश्चास्मि संवृत्तः ।
आः, कष्टम् ।
अथवा द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च ।
सम्प्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्टतमः ॥२५॥
भवतु ।
अवतरामि ।
(इत्यवतरति । )
मदनिका - (सास्रमञ्जलिं बद्ध्वा । )
एव्वं णेदम् ।
ता परं णेदु मं अज्जौत्तो समीवं गुरुअणाणम् ।
शर्विलकः - साधु प्रिये, साधु ।
अस्मच्चित्तसदृशमभिहितम् ।
(चेटमुद्दिश्य । )
भद्र, जानीषे रेभिलस्य सार्थवाहस्योदवसितम् ।
चेटः - अध इं ।
शर्विलकः - तत्र प्रापय प्रियाम् ।
चेटः - जं अज्जो आणवेदि ।
मदनिका - जधा अज्जौत्तो भणादि, अप्पमत्तेण दाव अज्जौत्तेण होदव्वम् ।
(इति निष्क्रान्ता । )
शर्विलकः - अहमिदानीं ज्ञातीन्विटान्स्वभुजविक्रमलब्धवर्णान्राजापमानकुपितांश्च नरेन्द्रभृत्यान् ।
उत्तेजयामि सुहृदः परिमोक्षणाय यौगन्धरायण इवोदयनस्य राज्ञः ॥२६॥
अपि च ।
प्रियसुहृदमकारणे गृहीतं रिपुभिरसाधुभिराहितात्मशङ्कैः ।
सरभसमभिपत्य मोचयामि स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥२७॥
(इति निष्क्रान्तः । )
(प्रविश्य । )
चेटी - अज्जए, दिट्ठिआ वड्ढसि ।
अज्जचारुदत्तस्स सआसादो बम्हणो आअदो ।
वसन्तसेना - अहो, रमणीअदा अज्ज दिवसस्स ।
ता हञ्जे, सादरं बन्धुलेण समं पवेसेहि णम् ।
चेटी - जं अज्जआ आणवेदि ।
(इति निष्क्रान्ता । )
(विदूषको बन्धुलेन सह प्रविशति । )
विदूषकः - ही ही भोः, तवच्चरणकिलेसविणिज्जिदेण रक्खसराआ रावणो पुप्फकेण विमाणेण गच्छदि ।
अहं उण बम्हणो अकिदतवच्चरणकिलेसो वि णरणारीजणेण गच्छामि ।
चेटी - पेक्खदु अज्जो अम्हकेरकं गेहदुआरम् ।
विदूषकः - (अवलोक्य सविस्मयम् । )
अहो सलिलसित्तमज्जिदकिदहरिदोवलेवणस्स विविहसुअन्धिकुसुमोवहारचित्तलिहिदभूमिभाअस्स गअणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलम्बिदैरावणहत्थब्भमाइदमल्लिआदामगुणालङ्किदस्स समुच्छिददन्तिदन्ततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलन्दोलणाललन्तचञ्चलग्गहत्थेण ऽइदो एहिऽ त्ति बाहरन्तेण विअ मं सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणत्थम्भवेदिआणिक्खित्तसमुल्लसन्तहरिदचूदपल्लवललामफटिहमङ्गलकलसाभिरामोहअपास्सस्स महासुरवक्खत्थलदुब्भेज्जवज्जणिरन्तरपडिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसन्तसेणाभवणदुआरस्स सस्सिरीअदा ।
जं सच्चं मज्झत्थस्स वि जणस्स बलाद्दिट्टिं आआरेदि ।
चेटी - एदु एदु ।
इमं पढमं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्यावलोक्य च । )
ही ही भोः, इधो वि पढमे पओट्ठे ससिसङ्खमुणालसच्छाहाओ विणिहिदचुण्णमुट्ठिपाण्डुराओ विविहरअणपडिबद्धकञ्चणसोबाणसोहिदाओ पासादपन्तिओ ओलम्बिदमुत्तादामेहिं फटिहवादाअणमुहचन्देहिं णिज्झाअन्ती विअ उज्जैणिम् ।
सोत्तिओ विअ सुहोवविट्टो णिद्दाअदि दोवारिओ ।
सदहिणा कलमोदणेण पलोहिदा ण भक्खन्ति वायसा बलिं सुधासवण्णदाए ।
आदियदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं दुदिअं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्यावलोक्य च । )
ही ही भोः, इधो वि दुदिए पओट्ठे पज्जन्तोवणीदजवसबुसकवलसुपुट्टा तेलब्भङ्गिदविसाणा बद्धा पवहणबैल्ला ।
अअं अण्णदरो अवमाणिदो विअ कुलीणो दीहं णीससदि सेरिहो ।
इदो अ अवणीदजुज्झस्स मल्लस्स विअ मद्दीअदि गीवा मेसस्स ।
इदो इदो अवराणं अस्साणं केसकप्पणा करीअदि ।
अअं अवरो पाडच्चरो विअ दिढबद्धो मन्दुराए साहामिओ ।
(अन्यतोऽवलोक्य च । )
इदो अ कूरच्चुअतेल्लमिस्सं पिण्डं हत्थी पडिच्छाबीअदि मेत्थपुरिसेहिं ।
आदिसदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं तैअं पओठ्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्य दृष्ट्वा च । )
ही ही भो, इधो वि तैए पओट्ठे इमाइं दाव कुलौत्तजणोववेसणणिमित्तं विरचिदाइं आसणाइं ।
अद्धवाचिदो पासअपीठे चिट्ठै पोत्थओ ।
एसो अ साहीणमणिमअसारिआसहिदो पासअपीठो ।
इमे अ अवरे मअणसन्धिविग्गहचदुरा विविहवण्णिआविलित्तचित्तफलअग्गहत्था इदो तदो परिब्भमति गणिआ वुड्ढविडा अ ।
आदिसदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं चौट्ठं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्यावलोक्य च । )
ही ही भो, इधो वि चौट्ठे पओट्ठे जुवदिकरताडिदा जलधरा विअ गम्भीरं णदन्ति मुदङ्गा, हीणपुण्णाओ विअ गअणादो तारआओ णिवडन्ति कंसतालआ, महुअरविरुअं विअ महुरं वज्जदि वंसो ।
इअं अवरा ईसाप्पणअकुविदकामिणी विअ अङ्कारोविदा कररुहपरामरिसेण सारिज्जदि वीणा ।
इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चीअन्ति, णट्टअं पठीअन्ति, ससिङ्गारओ ।
ओवग्गिदा गवक्खेसु वादं गेण्हन्ति सलिलगग्गरीओ ।
आदिसदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं पञ्चमं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्य दृष्ट्वा च । )
ही ही भो, इधो वि पञ्चमे पओट्ठे अअं दलिद्दजणलोहुप्पादणअरो आहरै उवचिदो हिङ्गुतेल्लगन्धो ।
विविहसुरहिधूमुग्गरेहिं णिच्चं सन्ताविज्जमाणं णीससदि विअ महाणसं दुवारमुहेहिं ।
अधिअं उसुसावेदि मं साहिज्जमाणबहुविहभक्खभोअणगन्धो ।
अअं अवरो पडच्चरं विअ पोट्टिं धोअदि रूपिदारओ ।
बहुविहाहारविआरं उवसाहेदि सूवआरो ।
बज्झन्ति मोदआ, पच्चन्ति अपूवआ ।
(आत्मगतम् । )
अवि दाणिं इह वड्ढिअं भुञ्जसु त्ति पादोदअं लहिस्सम् ।
(अन्यतोऽवलोक्य च । )
इदो गन्धव्वच्छरगणेहिं विअ विविहालङ्कारसोहिदेहिं गणिआजणेहिं बन्धुलेहिं अ जं सच्चं सग्गीअदि एदं गेहम् ।
भो, के तुम्हे बन्धुला णाम ।
बन्धुलाः - वयं खलु परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु ।
परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः ॥२८॥
विदूषकः - आदिसदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं छट्ठं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्यावलोक्य च । )
ही ही भो, इधो वि छट्ठे पओट्ठे अमुं दाव सुवण्णरअणाणं कम्मतोरणाइं णीलरअणविणिक्खित्ताइं इन्दाउहट्ठाणं विअ दरिसअन्ति ।
वेदुरिअमोत्तिअपवालअपुप्फराऐन्दणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाइं अण्णोण्णं विचारेन्ति सिप्पिणो ।
बज्झन्ति जादरूवेहिं माणिक्काइं ।
घडिज्जन्ति सुवण्णालङ्कारा ।
रत्तसुत्तेण गत्थीअन्ति मोत्तिआभरणाइं ।
घसीअन्ति धीरं वेदुरिआइं ।
छेदीअन्ति सङ्खआ ।
साणिज्जन्ति पवालआ ।
सुक्खविअन्ति ओल्लविदकुङ्कुमपत्थरा ।
सालीअदि सल्लज्जअम् ।
विस्साणीअदि चन्दणरसो ।
सञ्जोईअन्ति गन्धजुत्तीओ ।
दीअदि गणिआकामुकाणां सकप्पूरं ताम्बोलम् ।
अवलोईअदि सकडक्खअम् ।
पअट्टदि हासो ।
पिबीअदि अ अणवरअं ससिक्कारं मैरा ।
इमे चेडा, इमा चेडिआओ, इमे अवरे अवधीरिदपुत्तदारवित्ता मणुस्सा आसवकरआपीदमदिरेहिं गणिआजणेहिं जे मुक्का ते पिअन्ति ।
आदिसदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं सत्तमं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्यावलोक्य च । )
ही ही भो, इधो वि सत्तमे पओट्ठे सुसिलिट्ठविहङ्गवाडीसुहणिसण्णाइं अण्णोण्णचुम्बणपराइं सुहं अणुभवन्ति पारावदमिहुणाइं ।
दहिभत्तपूरिदोदरो बम्हणो विअ सुत्तं पढदि पञ्जरसुओ इअं अवरा सम्माणणालद्धपसरा विअ घरदासी अधिअं कुरुकुराअदि मदणसारिआ ।
अणेअफलरसास्सादपहुट्टकण्ठा कुम्भदासी विअ कूअदि परपुट्ठा ।
आलम्बिदा णागदन्तेसु पञ्जरपरम्पराओ ।
जोधीअन्ति लावआ ।
आलवीअन्ति कविञ्जला ।
पेसीअन्ति पञ्जरकवोदा ।
इदो तदो विविहमणिचित्तलिदो विअ अअं सहरिसं णच्चन्तो रविकिरणसन्तत्तं पक्खुक्खेवेहिं विधुवेदि विअ पासादं घरमोरो ।
(अन्यतोऽवलोक्य । )
इदो पण्डीकिदा विअ चन्दपादा पदगदिं सिक्खन्ता विअ कामिणीणं पच्छादो परिब्भमन्ति राअहंसमिहुणा ।
एदे अवरे वुड्ढमहल्लका विअ इदो तदो सञ्चरन्ति घरसारसा ।
ही ही भो, पसारणअं किदं गणिआए णाणापक्खिसमूहेहिं ।
जं सच्चं क्खु णन्दणवणं विअ मे गणिआघरं पडिभासदि ।
आदिसदु भोदी ।
चेटी - एदु एदु अज्जो ।
इमं अट्टमं पओट्ठं पविसदु अज्जो ।
विदूषकः - (प्रविश्यावलोक्य च । )
भोदि, को एसो पट्टपावारअपाउदो अधिअदरं अच्चब्भुदपुणरुत्तालङ्कारालङ्किदो अङ्गभङ्गेहिं परिक्खलन्तो इदो तदो परिब्भमदि ।
चेटी - अज्ज, एसो अज्जआए भादा भोदि ।
विदूषकः - केत्तिअं तवच्चरणं कदुअ वसन्तसेणाए भादा भोदि ।
अधवा ।
मा दाव जै वि एसो उज्जलो सिणिद्धो अ सुअन्धो अ ।
तह वि मसाणवीधी एजादो विअ चम्पअरुक्खो अणहिगमणीओ लोअस्स ॥२९॥
(अन्यतोऽवलोक्य । )
भोदि, एसा उण का फुल्लपावारअपाउदा उवाणहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि ।
चेटी - अज्ज, एसा क्खु अम्हाणं अज्जआए अत्तिआ ।
विदूषकः - अहो से कवट्ठडाइणीए पोट्टवित्थारो ।
ता किं एदं पवेसिअ महादेवं विअ दुआरसोहा इह घरे णिम्मिदा ।
चेटी - हदास, मा एव्वं उवहस अम्हाणं अत्तिअम् ।
एसा क्खु चाउत्थिएण पीडीअदि ।
विदूषकः - (सपरिहासम् । )
भअवं चाउत्थिअ, एदिणा उवआरेण मं पि बम्हणं आलोएहि ।
चेटी - हदास, मरिस्ससि ।
विदूषकः - (सपरिहासम् । )
दासीए धीए, वरं इदिसो शूणपीणजठरो मुदो ज्जेव ।
सीधुसुरासवमत्तिआ एआवत्थं गदा हि अत्तिआ ।
जै मरै एत्थ अत्तिआ भोदि सिआलसहस्सपज्जत्तिआ ॥३०॥
भोदि, किं तुम्हाणं जाणवत्ता वहन्ति ।
चेटी - अज्ज, णहि णहि ।
विदूषकः - किं वा एत्थ पुच्छीअदि ।
तुम्हाणं क्खु पेम्मणिम्मलजले मअणसमुद्दे त्थणणिअम्बजहणा ज्जेव जाणवत्ता मणहरणा ।
एव्वं वसन्तसेणाए बहुवुत्तन्तं अट्टपओट्ठं भवणं पेक्खिअ जं सच्चं जाणामि, एकत्थं विअ तिविट्ठअं दिट्टम् ।
पसंसिदुं णत्थि मे वाआविहवो ।
किं दाव गणिआघरो, अहवा कुबेरभवणपरिच्छेदो त्ति ।
कहिं तुम्हाणं अज्जआ ।
चेटी - अज्ज, एसा रुक्खवाडिआए चिट्ठदि ।
ता पविसदु अज्जो ।
विदूषकः - (प्रविश्य दृष्ट्वा च । )
ही ही भो, अहो रुक्खवाडिआए सस्सिरीअदा ।
अच्छरीदिकुसुमपत्थारा रोविदाअणेअपादवा, णिरन्तरपादवतलणिम्मिदा जुवदिजहणप्पमाणा पट्टदोला, सुवण्णजूधिआसेहालिआमालईमल्लिआणोमालिआकुरबआअदिमोत्तअप्पहुदिकुसुमेहिं सअं णिवडिदेहिं जं सच्चं लहुकरेदि विअ णन्दणवणस्स सस्सिरीअदम् ।
(अन्यतोऽवलोक्य । )
इदो अ उदअन्तसूरसमप्पहेहिं कमलरत्तोप्पलेहिं सञ्झाअदि विअ दीहिआ ।
अवि अ ।
एसो असो अवुच्छो णवणिग्गमकुसुमपल्लवो भादि ।
सुभडो व्व समरमज्झे घणलोहिदपङ्कचच्चिक्को ॥३१॥
भोदु ।
ता कहिं तुम्हाणं अज्जआ ।
चेटी - अज्ज, ओणामेहि दिट्टिम् ।
पेक्ख अज्जअम् ।
विदूषकः - (दृष्ट्वा उपसृत्य । )
सोत्थि भोदीए ।
वसन्तसेना - (संस्कृतमाश्रित्य । )
अये, मैत्रेयः ।
(उत्थाय । )
स्वागतम् ।
इदमासनम् ।
अत्रोपविश्यताम् ।
विदूषकः - उपविसदु भोदी ।
(उभावुपविशतः । )
वसन्तसेना - अपि कुशलं सार्थवाहपुत्रस्य ।
विदूषकः - भोदि, कुशलम् ।
वसन्तसेना - आर्य मैत्रेय, अपीदानीं गुणप्रवालं विनयप्रशाखं विश्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं स्वगुणैः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ॥३२॥
विदूषकः - (स्वगतम् । )
सुट्ठु उवलक्खिदं दुट्टविलासिणीए ।
(प्रकाशम् । )
अध इं ।
वसन्तसेना - अये, किमागमनप्रयोजनम् ।
विदूषकः - सुणादु भोदी ।
तत्तभवं चारुदत्तो सीसे अञ्जलिं कदुअ भोदिं विण्णवेदि ।
वसन्तसेना - (अञ्जलिं बद्ध्वा । )
किमाज्ञापयति ।
विदूषकः - मए तं सुवण्णभण्डअं विस्सम्भादो अत्तणकेरकेत्ति कदुअ जूदे हारिदम् ।
सो अ सहिओ राअवत्थहारी ण जाणिअदि कहिं गदो त्ति ।
चेटी - अज्जए, दिट्टिआ वड्ढसि ।
अज्जो जूदिअरो संवुत्तो ।
वसन्तसेना - (स्वगतम् । )
कधम् ।
चोरेण अवहिदं पि सोण्डीरदाए जूदे हारिदं त्ति भणादि ।
अदो ज्जेव कामीअदि ।
विदूषकः - ता तस्स कारणादो गेण्हदु भोदी इमं रअणावलिम् ।
वसन्तसेना - (आत्मगतम् । )
किं दंसेमि तं अलङ्कारअम् ।
(विचिन्त्य । )
अधवा ण दाव ।
विदूषकः - किं दाव ण गेण्हदि भोदी एदं रअणावलिम् ।
वसन्तसेना - (विहस्य सखीमुखं पश्यन्ती । )
मित्तेअ, कधं ण गेण्हिस्सं रअणावलिम् ।
(इति गृहीत्वा पार्श्वे स्थापयति ।
स्वगतम् । )
कधं झीणकुसुमादो वि सहआरपादवादो मअरन्दबिन्दओ णिवडन्ति ।
(प्रकाशम् । )
अज्ज, विण्णवेहि तं जूदिअरं मम वअणेण अज्ज चारुदत्तम् - ऽअहं पि पदोसे अज्जं पेक्खिदुं आअच्छामिऽ त्ति ।
विदूषकः - (स्वगतम् । )
किं अण्णं तहिं गदुअ गेण्हिस्सदि ।
(प्रकाशम् । )
भोदि, भणामि - (स्वगतम् । )
ऽणिअत्तीअदु इमादो गणिआपसङ्गादो, त्ति ।
(इति निष्क्रान्तः । )
वसन्तसेना - हञ्जे, गेण्ह एदं अलङ्कारअम् ।
चारुदत्तं अहिरमिदुं गच्छम्ह ।
चेटी - अज्जए, पेक्ख पेक्ख ।
उण्णमदि अकालदुद्दिणम् ।
वसन्तसेना - उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ॥३३॥
हञ्जे, हारं गेण्हिअ लहुं आअच्छ ।
(इति निष्क्रान्ताः सर्वे । )
मदनिकाशर्विलको नाम चतुर्थोऽङ्कः ।