०३ सन्धिच्-छेदः

तृतीयोऽङ्कः ।
(ततः प्रविशति चेटः । )
चेटः - सुअणे क्खु भिच्चाणुकम्पके शामिए णिद्धणके वि शोहदे ।
पिशुणे उण दव्वगव्विदे दुक्कले क्खु पलिणामदालुणे ॥१॥
अवि अ ।
शश्शपलक्कबलद्दे ण शक्कि वालिदुं अण्णपशत्तकलत्ते ण शक्कि वालिदुम् ।
जूदपशत्तमणुश्शे ण शक्कि वालिदुं जे वि शहाविअदोशे ण शक्कि वालिदुम् ॥२॥
का वि वेला अज्जचारुदत्तश्श गन्धव्वं शुणिदुं गदश्श ।
अदिक्कमदि अद्धलअणी ।
अज्ज वि ण आअच्छदि ।
ता जाव बाहिलदुआलशालाए गदुअ शुविश्शम् ।
(इति तथा करोति । )
(ततः प्रविशति चारुदत्तो विदूषकश्च । )
चारुदत्तः - अहो अहो, साधु साधु, रेभिलेन गीतम् ।
वीणा हि नामासमुद्रोत्थितं रत्नम् ।
कुतः ।
उत्कण्ठितस्य हृदयानुगुणा वयस्या सङ्केतके चिरयति प्रवरो विनोदः ।
संस्थापना प्रियतमा विरहातुराणां रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥३॥
विदूषकः - भो, एहि ।
गेहं गच्छेम्ह ।
चारुदत्तः - अहो, सुष्ठु भावरेभिलेन गीतम् ।
विदूषकः - मम दाव दुवेहिं ज्जेव्व हस्सं जाअदि ।
इत्थिआए सक्कअं पठन्तीए, मणुस्सेण अ काअलीं गाअन्तेण ।
इत्थिआ दाव सक्कअं पठन्ती, दिण्णणवणस्सा विअ गिट्टी, अहिअं सुसुआअदि ।
मणुस्सो वि काअलीं गाअन्तो, सुक्खसुमणोदामवेट्टिदो बुड्ढपुरोहिदो विअ मन्तं जवन्तो, दिढं मे ण रोअदि ।
चारुदत्तः - वयस्य, सुष्ठु खल्वद्य गीतं भावरेभिलेन ।
न च भवान्परितुष्टः ।
रक्तं च नाम मधुरं च समं स्फुटं च भावान्वितं च ललितं च मनोहरं च ।
किंवा प्रशस्तवचनैर्बहुभिर्मदुक्तैरन्तर्हिता यदि भवेद्वनितेति मन्ये ॥४॥
अपि च ।
तं तस्य स्वरसङ्क्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् ।
हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं यत्सत्यं विरतेऽपि गीतसमये गच्छामि शृण्वन्निव ॥५॥
विदूषकः - भो वअस्स, आवणन्तररच्छाविभाएसु सुहं कुक्करा वि सुत्ता ।
ता गेहं गच्छेम्ह ।
(अग्रतोऽवलोक्य । )
वअस्स, पेक्ख पेक्ख ।
एसो वि अन्धआरस्स विअ अवआसं देन्तो अन्तरिक्खपासादादो ओदरदि भअवं चन्दो ।
चारुदत्तः - सम्यगाह भवान् ।
असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः ।
जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥६॥
विदूषकः - भो, एदं अम्हाणं गेहम् ।
वड्ढमाणअ, वड्ढमाणअ, उग्घाटेहि दुआरअम् ।
चेटः - अज्जमित्तेआह शलशञ्जोए शुणीअदि ।
आगदे अज्जचालुदत्ते ।
ता जाव दुआलअं शे उग्घाटेमि ।
(तथा कृत्वा । )
अज्ज, वन्दामि ।
मित्तेअ, तुमम्पि वन्दामि ।
एत्थ वित्थिण्णे आशणे णिशीदन्तु अज्जा ।
(उभौ नाट्येन प्रविश्योपविशतः । )
विदूषकः - वड्ढमाणअ, रअणिअं सद्दावेहि पादाइं धोइदुम् ।
चारुदत्तः - (सानुकम्पम् । )
अलं सुप्तजनं प्रबोधयितुम् ।
चेटः - अज्जमित्तेअ, अहं पाणिअं गेण्हे ।
तुमं पादाइं धोवेहि ।
विदूषकः - (सक्रोधम् । )
भो वअस्स, एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेण्हेदि ।
मं उण बम्हणं पादाइं धोवावेदि ।
चारुदत्तः - वयस्य मैत्रेय, त्वमुदकं गृहाण ।
वर्धमानकः पादौ प्रक्षालयतु ।
चेटः - अज्जमित्तेअ, देहि उदअम् ।
(विदूषकस्तथा करोति ।
चेतश्चारुदत्तस्य पादौ प्रक्षाल्यापसरति । )
चारुदत्तः - दीयतां ब्राह्मणस्य पादोदकम् ।
विदूषकः - किं मम पादोदएहिं ।
भूमीए ज्जेव मए ताडिदगद्दहेण विअ पुणोवि लोट्ठिदव्वम् ।
चेटः - अज्जमित्तेअ, बम्हणे क्खु तुमम् ।
विदूषकः - जधा सव्वणागाणं मज्झे डुण्डुहो, तधा सव्वबम्हणाणं मज्झे अहं बम्हणो ।
चेटः - अज्जमित्तेअ, तधा वि धोइश्शम् ।
(तथा कृत्वा । )
अज्जमित्तेअ, एदं तं शुवण्णगण्डअं मम दिवा, तुह लत्तिं च ।
ता गेण्ह ।
(इति दत्त्वा निष्क्रान्तः । )
विदूषकः - (गृहीत्वा । )
अज्ज वि एदं चिट्ठदि ।
किं एत्थ उज्जैणीए चोरो वि णत्थि, जो एदं दासीए पुत्तं णिद्दाचोरं ण अवहरदि ।
भो वअस्स, अब्भन्तरचतुस्सालअं पवेसआमि णम् ।
चारुदत्तः - अलं चतुःशालमिमं प्रवेश्य प्रकाशनारीधृत एष यस्मात् ।
तस्मात्स्वयं धारय विप्र तावद्यावन्न तस्याः खलु भोः समर्प्यते ॥७॥
(निद्रां नाटयन्, ऽतं तस्य स्वरसङ्क्रमम्-ऽ इति पुनः पठति । )
विदूषकः - अवि णिद्दाअदि भवम् ।
चारुदत्तः - अथ किम् ।
इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् ।
अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥८॥
विदूषकः - ता सुवेम्ह ।
(नाट्येन स्वपिति । )
(ततः प्रविशति शर्विलकः । )
शर्विलकः - कृत्वा शरीरपरिणाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गम् ।
गच्छामि भूमिपरिसर्पणघृष्टपार्श्वो निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥९॥
(नभोऽवलोक्य सहर्षम् । )
अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः तथा हि ।
नृपतिपुरुषशङ्कितप्रचारं परगृहदूषणनिश्चितैकवीरम् ।
घनपटलतमोनिरुद्धतारा रजनिरियं जननीव संवृणोति ॥१०॥
वृक्षवाटिकापरिसरे सन्धिं कृत्वा प्रविष्टोऽस्मि मध्यमकम् ।
तद्यावदिदानीं चतुःशालकमपि दूषयामि ।
भोः, कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते विश्वस्तेषु च वञ्चनापरिभवश्चौर्यं न शौर्यं हि तत् ।
स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलिर्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना ॥११॥
तत्कस्मिन्नुद्देशे सन्धिमुत्पादयामि ।
देशः को नु जलावसेकशिथिलो यस्मिन्न शब्दो भवेद्भित्तीनां च न दर्शनान्तरगतः सन्धिः करालो भवेत् ।
क्षारक्षीणतया च लोष्टककृशं जीर्णं क्व हर्म्यं भवेत्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥१२॥
(भित्तिं परामृश्य । )
नित्यादित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षारक्षीणा ।
मूषिकोत्करश्चेह ।
हन्त, सिद्धोऽयमर्थः ।
प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम् ।
अत्र कर्मप्रारम्भे कीदृशमिदानीं सन्धिमुत्पादयामि ।
इह खलु भगवता कनकशक्तिना चतुर्विधः सन्ध्युपायो दर्शितः ।
तद्यथा - पक्वेष्टकानामाकर्षणम्, आमेष्टकानां छेदनम्, पिण्डमयानां सेचनम्, काष्ठमयानां पाटनमिति ।
तदत्र पक्वेष्टक इष्टिकाकर्षणम् ।
तत्र पद्मव्याकोशं भास्करं बालचन्द्रं वापी विस्तीर्णं स्वस्तिकं पूर्णकुम्भम् ।
तत्कस्मिन्देशे दर्शयाम्यात्मशिल्पं दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥१३॥
तदत्र पक्वेष्टके पूर्णकुम्भ एव शोभते ।
तमुत्पादयामि ।
अन्यासु भित्तिषु मया निशि पाटितासु क्षारक्षतासु विषमासु च कल्पनासु ।
दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो दोषांश्च मे वदति कर्मणि कौशलं च ॥१४॥
नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः ।
तेन च परितुष्टेन योगरोचना मे दत्ता ।
अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः ।
शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥१५॥
(तथा करोति । )
धिक्कष्टम् ।
प्रमाणसूत्रं मे विस्मृतम् ।
(विचिन्त्य । )
आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति ।
यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य ।
कुतः ।
एतेन मापयति भित्तिषु कर्ममार्गमेतेन मोचयति भूषणसम्प्रयोगान् ।
उद्धाटको भवति यन्त्रदृढे कपाटे दष्टस्य कीटभुजगैः परिवेष्टनं च ॥१६॥
मापयित्वा कर्म समारभे ।
(तथा कृत्वावलोक्य च । )
एकलोष्टावशेषोऽयं सन्धिः ।
धिक्कष्टम् ।
अहिना दष्टोऽस्मि ।
(यज्ञोपवीतेनाङ्गुलीं बद्ध्वा विषवेगं नाटयति ।
चिकित्सां कृत्वा । )
स्वस्थोऽस्मि ।
(पुनः कर्म कृत्वा दृष्ट्वा च । )
अये, ज्वलति प्रदीपः ।
तथा हि ।
शिखा प्रदीपस्य सुवर्णपिञ्जरा महीतले सन्धिमुखेन निर्गता ।
विभाति पर्यन्ततमःसमावृता सुवर्णरेखेव कषे निवेशिता ॥१७॥
(पुनः कर्म कृत्वा । )
समाप्तोऽयं सन्धिः ।
भवतु ।
प्रविशामि ।
अथवा न तावत्प्रविशामि ।
प्रतिपुरुषं निवेशयामि ।
(तथा कृत्वा । )
अये, न कश्चित् ।
नमः कार्तिकेयाय ।
(प्रविश्य दृष्ट्वा च । )
अये, पुरुषद्वयं सुप्तम् ।
भवतु ।
आत्मरक्षार्थं द्वारमुद्धाटयामि ।
कथं जीर्णत्वाद्गृहस्य विरौति कपाटम् ।
तद्यावत्सलिलमन्वेषयामि ।
क्व न खलु सलिलं भविष्यति ।
(इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन्सशङ्कम् । )
मा तावद्भूमौ पतच्छब्दमुत्पादयेत् ।
भवतु ।
एवं तावत् ।
(पृष्ठेन प्रतीक्ष्य कपाटमुद्धाट्य । )
भवतु ।
एवं तावत् ।
इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थसुप्तमिदं द्वयम् ।
(त्रासयित्वा परीक्ष्य च । )
अये, परमार्थसुप्तेनानेन भवितव्यम् ।
तथा हि ।
निःश्वासोऽस्य न शङ्कितः सुविशदस्तुल्यान्तरं वर्तते दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला ।
गात्रं स्रस्तशरीरसन्धिशिथिलं शय्याप्रमाणाधिकं दीपं चापि न मर्षयेदभिमुखं स्याल्लक्ष्यसुप्तं यदि ॥१८॥
(समन्तादवलोक्य । )
अये, कथं मृदङ्गः ।
अयं दर्दुरः ।
अयं पणवः ।
इयमपि वीणा ।
एते वंशाः ।
अमी पुस्तकाः ।
कथं नाट्याचार्यस्य गृहमिदम् ।
अथवा भवनप्रत्ययात्प्रविष्टोऽस्मि ।
तत्किं परमार्थदरिद्रोऽयम्, उत राजभयाच्चौरभयाद्वा भूमिष्ठं द्रव्यं धारयति ।
तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् ।
भवतु ।
बीजं प्रक्षिपामि ।
(तथा कृत्वा । )
निक्षिप्तं बीजं न क्वचित्स्फारीभवति ।
अये, परमार्थदरिद्रोऽयम् ।
भवतु ।
गच्छामि ।
विदूषकः - (उत्स्वप्नायते । )
भो वअस्स, सन्धी विअ दिज्जदि ।
चोरं विअ पेक्खामि ।
ता गेण्हदु भवं एदं सुवण्णभण्डअम् ।
शर्विलकः - किं न खल्वयमिह मां प्रविष्टं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति ।
तत्किं व्यापादयामि, उत लघुत्वादुत्स्वप्नायते ।
(दृष्ट्वा । )
अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलङ्करणभाण्डम् ।
भवतु ।
गृह्णामि ।
अथवा न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् ।
तद्गच्छामि ।
विदूषकः - भो वअस्स, साबिदोसि गोबम्हणकामाए, जै एदं सुवण्णभण्डअं ण गेह्णसि ।
शर्विलकः - अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च ।
तद्गृह्णामि ।
अथवा ज्वलति प्रदीपः ।
अस्ति च मया प्रदीपनिर्वापणार्थमाग्नेयः कीटो धार्यते ।
तं तावत्प्रवेशयामि ।
तस्यायं देशकालः ।
एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैर्विचरितुम् ।
एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् ।
अथवा मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् ।
अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्ठामि ।
इदानीं करोमि ब्राह्मणस्य प्रणयम् ।
(इति जिघृक्षति । )
विदूषकः - भो वअस्स, सीदलो दे अग्गहत्थो ।
शर्विलकः - धिक्प्रमादः ।
सलिलसम्पर्काच्छीतलो मेऽग्रहस्तः ।
भवतु ।
कक्षयोर्हस्तं प्रक्षिपामि ।
(नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति । )
विदूषकः - गहिदम् ।
शर्विलकः - अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः ।
तद्गृहीतम् ।
विदूषकः - दाणिं विक्किणिदपण्णो विअ वाणिओ, अहं सुहं सुविस्सम् ।
शर्विलकः - महाब्राह्मण, स्वपिहि वर्षशतम् ।
कष्टमेवं मदनिकागणिकार्थे ब्राह्मणकुलं तमसि पातितम् ।
अथवा आत्मा पातितः ।
धिगस्तु खलु दारिद्र्यमनिर्वेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥१९॥
तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि ।
(परिक्रम्यावलोक्य च । )
अये, पदशब्द इव ।
मा नाम रक्षिणः ।
भवतु ।
स्तम्भीभूत्वा तिष्ठामि ।
अथवा ममापि नाम शर्विलकस्य रक्षिणः ।
योऽहं मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने सुप्तासुप्तमनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः ।
माया रूपशरीरवेशरचने वाग्देशभाषान्तरे दीपो रात्रिषु सङ्कटेषु डुडुमो वाजी स्थले नौर्जले ॥२०॥
अपि च ।
भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः ।
शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे बले च सिंहः ॥२१॥
(प्रविश्य । )
रदनिका - हद्धी हद्धी, बाहिरदुआरसालाए पसुत्तो वड्ढमाणओ ।
सोवि एत्थ ण दीसै ।
भोदु ।
अज्जमित्तेअं सद्दावेमि ।
(इति परिक्रामति । )
शर्विलकः - (रदनिकां हन्तुमिच्छति ।
निरूप्य । )
कथं स्त्री ।
भवतु ।
गच्छामि ।
(इति निष्क्रान्तः । )
रदनिका - (गत्वा सत्रासम् । )
हद्धी हद्धी, अम्हाणं गेहे सन्धिं कप्पिअ चोरो णिक्कमति ।
भोदु ।
मित्तेअं गदुअ पबोधेमि ।
(विदूषकमुपगम्य । )
अज्जमित्तेअ, उट्ठेहि उट्ठेहि ।
अम्हाणं गेहे सन्धिं कप्पिअ चोरो णिक्कन्तो ।
विदूषकः - (उत्थाय । )
आः दासीए धीए, किं भणासि - ऽचोरं कप्पिअ सन्धी णिक्कन्तोऽ ।
रदनिका - हदास, अलं परिहासेण ।
किं ण पेक्खणि एणम् ।
विदूषकः - आः दासीए धीए, किं भणासि - ऽदुदिअं विअ दुआरअं उग्घाडिदंऽ त्ति ।
भो वअस्स चारुदत्त, उट्ठेहि उट्ठेहि ।
अम्हाणं गेहे सन्धिं दैअ चोरो णिक्कन्तो ।
चारुदत्तः - भवतु ।
भोः, अलं परिहासेन ।
विदूषकः - भो, ण परिहासो ।
पेक्खदु भवम् ।
चारुदत्तः - कस्मिन्नुद्देशे ।
विदूषकः - भो, एसो ।
चारुदत्तः - (विलोक्य । )
अहो दर्शनीयोऽयं सन्धिः ।
उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे ।
असदृशजनसम्प्रयोगभीरोर्हृदयमिव स्फुटितं महागृहस्य ॥२२॥
कथमस्मिन्नपि कर्मणि कुशलता ।
विदूषकः - भो वअस्स, अअं सन्धी दुवेहिं ज्जेव दिण्णो भवे ।
आदु आगन्तुएण, सिक्खिदुकामेण वा ।
अण्णधा इध उज्जैणीए को अम्हाणं घरविहवं ण जाणादि ।
चारुदत्तः - वैदेश्येन कृतो भवेन्मम गृहे व्यापारमभ्यस्यता नासौ वेदितवान्धनैर्विरहितं विस्रब्धसुप्तं जनम् ।
दृष्ट्वा प्राङ्महतीं निवासरचनामस्माकमाशान्वितः सन्धिच्छेदनखिन्न एव सुचिरं पश्चान्निराशो गतः ॥२३॥
ततः सुहृद्भ्यः किमसौ कथयिष्यति तपस्वी - ऽसार्थवाहसुतस्य गृहं प्रविश्य न किञ्चिन्मया समासादितम्ऽ इति ।
विदूषकः - भो, कधं तं ज्जेव चोरहदअं अणुसोचसि ।
तेण चिन्तिदं महन्तं एदं गेहम् ।
इदो रअणभण्डअं सुवण्णभण्डअं वा णिक्कामिस्सम् ।
(स्मृत्वा सविषादमात्मगतम् । )
कहिं तं सुवण्णभण्डअम् ।
(पुनरनुस्मृत्य प्रकाशम् । )
भो वअस्स, तुमं सव्वकालं भणासि - ऽमुक्खो मित्तेअओ, अपण्डिदो मित्तेअओऽ त्ति ।
सुट्ठु मए किदं तं सुवण्णभण्डअं भवदो हत्थे समप्पअन्तेण ।
अण्णधा दासीए पुत्तेण अवहिदं भवे ।
चारुदत्तः - अलं परिहासेन ।
विदूषकः - भो, जह णाम अहं मुक्खो ता किं परिहासस्स वि देशआलं ण जाणामि ।
चारुदत्तः - कस्यां वेलायाम् ।
विदूषकः - भो, जदा तुमं मए भणिदो सि - ऽशीदलो दे अग्गहत्थोऽ ।
चारुदत्तः - कदाचिदेवमपि स्यात् ।
(सर्वतो निरूप्य सहर्षम् । )
वयस्य, दिष्ट्या ते प्रियं निवेदयामि ।
विदूषकः - किं ण अवहिदम् ।
चारुदत्तः - हृतम् ।
विदूषकः - तधा वि किं पिअम् ।
चारुदत्तः - यदसौ कृतार्थो गतः ।
विदूषकः - णासो क्खु सो ।
चारुदत्तः - कथं न्यासः ।
(मोहमुपगतः । )
विदूषकः - समस्ससदु भवम् ।
जै णासो चोरेण अवहिदो तुमं किं मोहं उवगदो ।
चारुदत्तः - (समाश्वस्य । )
वयस्य, कः श्रद्धास्यति भूतार्थं सर्वो मां तूलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥२४॥
भोः, कष्टम् ।
यदि तावत्कृतान्तेन प्रणयोऽर्थेषु मे कृतः ।
किमिदानीं नृशंसेन चारित्रमपि दूषितम् ॥२५॥
विदूषकः - अहं क्खु अवलविस्सम् - ऽकेण दिण्णम्, केण गहिदम्, को वा सक्खिऽ त्ति ।
चारुदत्तः - अहमिदानीमनृतमभिधास्ये ।
भैक्ष्येणाप्यर्जयिष्यामि पुनर्न्यासप्रतिक्रियाम् ।
अनृतं नाभिधास्यामि चारित्रभ्रंशकारणम् ॥२६॥
रदनिका - ता जाव अज्जाधूदाए गदुअ णिवेदेमि ।
(इति निष्क्रान्ता । )
(प्रविशति चेट्या सह चारुदत्तवधूः । )
वधूः - (ससम्भ्रमम् । )
ऐ, सच्चं अवरिक्खदसरीरो अज्जौत्तो अज्जमित्तेएण सह ।
चेटी - भट्टिणि, सच्चम् ।
किं तु जो सो वेस्साजणकेरको अलङ्कारओ सो अवहिदो ।
(वधूर्मोहं नाटयति । )
चेटी - समस्ससदु अज्जाधूदा ।
वधूः - (समाश्वस्य । )
हञ्जे, किं भणासि - ऽअवरिक्खदसरीरो अज्जौत्तोऽ त्ति ।
वरं दाणिं सो सरीरेण परिक्खदो, ण उण चारित्तेण ।
सम्पदं उज्जैणीए जणो एव्वं मन्तैस्सदि - ऽदलिद्ददाए अज्जौत्तेण ज्जेव ईदिसं अकज्जं अणुचिट्ठिदम्ऽ त्ति ।
(ऊर्ध्वमवलोक्य निःश्वस्य च । )
भअवं कअन्त, पोक्खरवत्तपडिदजलबिन्दुचञ्चलेहिं कीलसि दलिद्दपुरिसभाअधेएहिं ।
इअं च मे एक्का मादुघरलद्धा रअणावली चिट्ठदि ।
एदं पिअदिसोण्डीरदाए अज्जौत्तो ण गेण्हिस्सदि ।
हञ्जे, अज्जमित्तेअं दाव सद्दावेहि ।
चेटी - जं अज्जाधूदा आणवेदि ।
(विदूषकमुपगम्य । )
अज्जमित्तेअ, धूदा दे सद्दावेदि ।
विदूषकः - कहिं सा ।
चेटी - एसा चिट्ठदि ।
उवसप्प ।
विदूषकः - (उपसृत्य । )
सोत्थि भोदिए ।
वधूः - अज्ज, वन्दामि ।
अज्ज, पौरत्थिमामुहो होहि ।
विदूषकः - एसो भोदि, पौरत्थिमामुहो संवुत्तो म्हि ।
वधूः - अज्ज, पडिच्छ इमम् ।
विदूषकः - किं ण्णेदम् ।
वधूः - अहं क्खु रअणसट्ठिं उववसिदा आसि ।
तहिं जधाविहवाणुसारेण बम्हणो पडिग्गाहिदव्वो ।
सो अ ण पडिग्गाहिदो, ता तस्य किदे पडिच्छ इमं रअणमालिअम् ।
विदूषकः - (गृहीत्वा । )
सोत्थि ।
गमिस्सम् ।
पिअवअस्सस्स णिवेदेमि ।
वधूः - अज्जमित्तेअ, मा क्खु मं लज्जावेहि ।
(इति निष्क्रान्ता । )
विदूषकः - (सविस्मयम् । )
अहो, से महाणुभावदा ।
चारुदत्तः - अये चिरयति मैत्रेयः ।
मा नाम वैक्लव्यादकार्यं कुर्यात् ।
मैत्रेय, मैत्रेय ।
विदूषकः - (उपसृत्य । )
एसो म्हि ।
गेण्ह एदम् ।
(रत्नावलीं दर्शयति । )
चारुदत्तः - किमेतत् ।
विदूषकः - भो, जं दे सरिसदारसङ्गहस्स फलम् ।
चारुदत्तः - कथम् ।
ब्राह्मणी मामनुकम्पते ।
कष्टम् ।
इदानीमस्मि दरिद्रः ।
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥२७॥
अथवा ।
नाहं दरिद्रः ।
यस्य मम विभवानुगता भार्या सुखदुःखसुहृद्भवान् ।
सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥२८॥
मैत्रेय, गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम् ।
वक्तव्या च सा मद्वचनात् - ऽयत्खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भाद्द्यूते हारितम् ।
तस्य कृते गृह्यतामियं रत्नावलीऽ इति ।
विदूषकः - मा दाव अक्खाइदस्स अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवहिदस्स कारणादो चतुःसमुद्दसारभूदा रअणावली दीअदि ।
चारुदत्तः - वयस्य, मा मैवम् ।
यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥२९॥
तद्वयस्य, अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् ।
वर्धमानक, एताभिरिष्टिकाभिः सन्धिः क्रियतां सुसंहतः शीघ्रम् ।
परिवादबहलदोषान्न यस्य रक्षां परिहरामि ॥३०॥
वयस्य मैत्रेय, भवताप्यकृपणशौण्डीर्यमभिधातव्यम् ।
विदूषकः - भो, दलिद्दो किं अकिविणं मन्तेदि ।
चारुदत्तः - अदरिद्रोऽस्मि सखे, यस्य मम ।
(ऽविभवानुगता भार्याऽ इत्यादि पुनः पठति । )
तद्गच्छतु भवान् ।
अहमपि कृतशौचः सन्ध्यामुपासे ।
(इति निष्क्रान्ताः सर्वे । )
इति सन्धिच्छेदो नाम तृतीयोऽङ्कः ।