०२ द्यूतकरसंवाहकः

द्वितीयोऽङ्कः ।
(प्रविश्य । )
चेटी - अत्ताए अज्जआसआसं सन्देसेण पेसिदम्हि ।
ता जाव पविसिअ अज्जआसआसं गच्छामि ।
(परिक्रम्यावलोक्य च । )
एसा अज्जआ हिअएण किम्पि आलिहन्ती चिट्ठदि ।
ता जाव उपसप्पामि ।
(ततः प्रविशत्यासनस्था सोत्कण्ठा वसन्तसेना मदनिका च । )
वसन्तसेना - हञ्जे, तदो तदो ।
चेटी - अज्जए, ण किम्पि मन्तेसि ।
किं तदो तदो ।
वसन्तसेना - किं मए भणिदम् ।
चेटी - तदो तदो त्ति ।
वसन्तसेना - (सभ्रूक्षेपम् । )
आं, एव्वम् ।
(उपसृत्य । )
प्रथमा चेटी - अज्जए, अत्ता आदिसदि - ऽण्हादा भविअ देवदाणं पूअं णिव्वत्तेहिऽ त्ति ।
वसन्तसेना - हञ्जे, विण्णवेहि अत्तम् - ऽअज्ज ण ण्हाइस्सम् ।
ता बम्हणो ज्जेव पूअं णिव्वत्तेदुऽ त्ति ।
चेटी - जं अज्जआ आणवेदि ।
(इति निष्क्रान्ता । )
मदनिका - अज्जए, सिणेहो पुच्छदि, ण पुरोभाइदा, ता किं णेदम् ।
वसन्तसेना - मदणिए, केरिसिं मं पेक्खसि ।
मदनिका - अज्जआए सुण्णहिअअत्तणेण जाणामि, हिअअगदं कम्पि अज्जआ अहिलसदि त्ति ।
वसन्तसेना - सुट्ठु तुए जाणिदम् ।
परहिअअग्गहणपण्डिआ मदणिआ क्खु तुमम् ।
मदनिका - पिअं मे पिअम् ।
कामो क्खु णाम एसो भअवं ।
अणुगहिदो महूसवो तरुणजणस्स ।
ता कधेदु अज्जआ, किं राआ, राअवल्लहो वा सेवीअदि ।
वसन्तसेना - हञ्जे, रमिदुमिच्छामि, ण सेविदुम् ।
मदनिका - विज्जाविसेसालङ्किदो किं कोवि बम्हणजुआ कामीअदि ।
वसन्तसेना - पूअणीओ मे बम्हणो जणो ।
मदनिका - किं अणेअणअराहिगमणजणिदविहववित्थारो वाणिअजुआ वा कामीअदि ।
वसन्तसेना - हञ्जे, उवारूढसिणेहं पि पणैजणं परिच्चैअ देसन्तरगमणेण वाणिअजणो महन्तं विओअजं दुक्खं उप्पादेदि ।
मदनिका - अज्जए, ण राआ, ण राअवल्लहो, ण बम्हणो, ण वाणिअजणो ।
ता को दाणिं सो भट्टिदारिआए कामीअदि ।
वसन्तसेना - हञ्जे, तुमं मए सह कामदेवाअदणुज्जाणं गदा आसि ।
मदनिका - अज्जए, गदम्हि ।
वसन्तसेना - तह वि मं उदासीणा विअ पुच्छसि ।
मदनिका - जाणिदम् ।
किं सो ज्जेव जेण अज्जआ सरणाअदा अब्भुववण्णा ।
वसन्तसेना - किण्णामहेओ क्खु सो ।
मदनिका - सो क्खु सेट्ठिचत्तरे पडिवसदि ।
वसन्तसेना - ऐ, णामं से पुच्छिदासि ।
मदनिका - सो क्खु अज्जए, सुगहीदणामहेओ अज्जचारुदत्तो णाम ।
वसन्तसेना - (सहर्षम् । )
साहु मदणिए, साहु ।
सुट्ठु तुए जाणिदम् ।
मदनिका - (स्वगतम् । )
एव्वं दाव ।
(प्रकाशम् । )
अज्जए, दलिद्दो क्खु सो सुणीअदि ।
वसन्तसेना - अदो ज्जेव कामीअदि ।
दलिद्दपुरिससङ्कन्तमणा क्खु गणिआ लोए अवअणीआ भोदि ।
मदनिका - अज्जए, किं हीणकुसुमं सहआरपादवं महुअरीओ उण सेवन्ति ।
वसन्तसेना - अदो ज्जेव ताओ महुअरीओ वुच्चन्ति ।
मदनिका - अज्जए, जै सो मणीसिदो ता कीस दाणिं सहसा ण अहिसारीअदि ।
वसन्तसेना - हञ्जे, सहसा अहिसारिअन्तो पच्चुअआरदुब्बलदाए, मा दाव, जणो दुल्लहदंसणो पुणो भविस्सदि ।
मदनिका - किं अदो ज्जेव सो अलङ्कारओ तस्स हत्थे णिक्खित्तो ।
वसन्तसेना - हञ्जे, सुट्ठु दे जाणिदम् ।
(नेपथ्ये । )
अले भट्टा, दशसुवण्णाह लुद्धु जूदकरु पपलीणु पपलीणु ।
ता गेण्ह गेण्ह ।
चिट्ठ चिट्ठ ।
दूलात्पदिट्टो सि ।
(प्रविश्यापटीक्षेपेण सम्भ्रान्तः । )
संवाहकः - हीमाणहे ।
कट्टे एशे जुदिअलभावे ।
णवबन्धणमुक्काए विअ गद्दहीए हा ताडिदो म्हि गद्दहीए ।
अङ्गलाअमुक्काए विअ शत्तीए घडुक्को विअ घादिदो म्हि शत्तीए ॥१॥
लेखअवावडहिअअं शहिअं दट्टूण झत्ति पब्भट्टे ।
एण्हिं मग्गणिवडिदे कं णु क्खु शलणं पपज्जे ॥२॥
ता जाव एदे शहिअजूदिअला अण्णदो मं अण्णेशन्ति, ताव हक्के विप्पडीवेहिं पादेहिं एदं शुण्णदेउलं पविशिअ देवी भविश्शम् ।
(बहुविधं नाट्यं कृत्वा तथा स्थितः । )
(ततः प्रविशति माथुरो द्यूतकरश्च । )
माथुरः - अले भट्टा, दशसुवण्णाह लुद्धु जूदकरु पपलीणु पपलीणु ।
ता गेण्ह गेण्ह ।
चिट्ठ चिट्ठ ।
दूरात्पदिट्टो सि ।
द्यूतकरः - जै वज्जसि पादालं इन्दं शलणं च सम्पदं जासि ।
सहिअं वज्जिअ एक्कं रुद्दो वि ण रक्खिदुं तरै ॥३॥
माथुरः - कहिं कहिं सुसहिअविप्पलम्भआ पलासि ले भअपलिवेविदङ्गआ ।
पदे पदे समविसमं खलन्तआ कुलं जसं अदिकसणं कलेन्तआ ॥४॥
द्यूतकरः - (पदं वीक्ष्य । )
एसो वज्जदि ।
इअं पणट्टा पदवी ।
माथुरः - (आलोक्य सवितर्कम् । )
अले, विप्पदीवु पादु ।
पडिमाशुण्णुदेउलु ।
(विचिन्त्य । )
धुत्तु जूदकरु विप्पदीवेहिं पादेहिं देउलं पविट्ठो ।
द्यूतकरः - ता अणुसरेम्ह ।
माथुरः - एव्वं भोदु ।
(उभौ देवकुलप्रवेशं निरूपयतः ।
दृष्ट्वान्योन्यं सञ्ज्ञाप्य । )
द्यूतकरः - कधं कट्टमयी पडिमा ।
माथुरः - अले, णहु णहु ।
शैलपडिमा ।
(इति बहुविधं चालयति ।
सञ्ज्ञाप्य च । )
एव्वं भोदु ।
एहि ।
जूदं किलेम्ह ।
(इति बहुविधं द्यूतं क्रीडति । )
संवाहकः - (द्यूतेच्छाविकारसंवरणं बहुविधं कृत्वा स्वगतम् । )
अले, कत्ताशद्दे णिण्णाणअश्श हलै हडकं मनुश्शश्श ।
ढक्काशद्दे व्व णडाधिवश्श पब्भट्टलज्जश्श ॥५॥
जाणामि ण कीलिश्शं शुमेलुशिहलपडणशण्णिहं जूअम् ।
तह वि हु कोइलमहुले कत्ताशद्दे मणं हलदि ॥६॥
द्यूतकरः - मम पाठे, मम पाठे ।
माथुरः - ण हु ।
मम पाठे, मम पाठे ।
संवाहकः - (अन्यतः सहसोपसृत्य । )
णं मम पाठे ।
द्यूतकरः - लद्धे गोहे ।
माथुरः - (गृहीत्वा । )
अले पेदण्डा, गहीदो, सि ।
पअच्छ तं दशसुवण्णम् ।
संवाहकः - अज्ज दैश्शम् ।
माथुरः - अहुणा पअच्छ ।
संवाहकः - दैश्शम् पशादं कलेहि ।
माथुरः - अले, णं सम्पदं पअच्छ ।
संवाहकः - शिलु पडदि ।
(इति भूमौ पतति । )
(उभौ बहुविधं ताडयतः । )
माथुरः - एसु तुमं हु जूदिअरमण्डलीए बद्धो सि ।
संवाहकः - (उत्थाय सविषादम् । )
कधं जूदिअलमण्डलीए बद्धो म्हि ।
ही, एशे अम्हाणं जूदिअलाणं अलङ्घणीए शमए ।
ता कुदो दैश्शम् ।
माथुरः - अले, गण्डे कुलु कुलु ।
संवाहकः - एव्वं कलेमि ।
(द्यूतकरमुपस्पृश्य । )
अद्धं ते देमि, अद्धं मे मुञ्चदु ।
द्यूतकरः - एव्वं भोदु ।
संवाहकः - (सभिकमुपगम्य । )
अद्धश्श गण्डे कलेमि ।
अद्धं पि मे अज्जो मुञ्चदु ।
माथुरः - को दोसु ।
एव्वं भोदु ।
संवाहकः - (प्रकाशम् । )
अज्ज, अद्धे तुए मुक्के ।
माथुरः - मुक्के ।
संवाहकः - (द्यूतकरं प्रति । )
अद्धे तुए वि मुक्के ।
द्यूतकरः - मुक्के ।
संवाहकः - सम्पदं गमिश्शम् ।
माथुरः - पअच्छ तं दशसुवण्णम्, कहिं गच्छसि ।
संवाहकः - पेक्खध पेक्खध भट्टालआ ।
हा, सम्पदं ज्जेव एक्काह अद्धे गण्डे कडे, अवलाह अद्धे मुक्के ।
तहवि मं अबलं शम्पदं ज्जेव मग्गदि ।
माथुरः - (गृहीत्वा । )
धुत्तु, माथुरु अहं णिउणु ।
एत्थ तुए ण अहं धुत्तिज्जामि ।
ता पअच्छ तं पेदण्डआ, सव्वं सुवण्णं सम्पदम् ।
संवाहकः - कुदो दैश्शम् ।
माथुरः - पिदरु विक्किणिज्ज पअच्छ ।
संवाहकः - कुदो मे पिदा ।
माथुरः - मातरु विक्किणिज्ज पअच्छ ।
संवाहकः - कुदो मे मादा ।
माथुरः - अप्पाणं विक्किणिअ पअच्छ ।
संवाहकः - कलेध पशादम् ।
णेध मं लाजमग्गम् ।
माथुरः - पसरु ।
संवाहकः - एव्वं भोदु ।
(परिक्रामति । )
अज्जा, क्किणिध मं इमश्श शहिअश्श हत्थादो दशेहिं शुवण्णकेहिं ।
(दृष्ट्वा आकाशे । )
किं भणाध - ऽकिं कलैश्शशिऽ त्ति ।
गेहे दे कम्मकले हुविश्शम् ।
कधम् ।
अदैअ पडिवअणं गदे ।
भोदु एव्वम् ।
इमं अण्णं भणैस्सम् ।
(पुनस्तदेव पठति । )
कधम् ।
एशे वि मं अवधीलिअ गदे ।
हा, अज्जचालुदत्तस्स विहवे विहडिदे एशे वड्ढामि मन्दभाए ।
माथुरः - णं देहि ।
संवाहकः - कुदो दैश्शम् ।
(इति पतति । )
(माथुरः कर्षति । )
संवाहकः - अज्जा, पलित्ताअध पलित्ताअध ।
(ततः प्रविशति दर्दुरकः । )
दर्दुरकः - भोः, द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।
न गणयति पराभवं कुतश्चिद्धरति ददाति च नित्यमर्थजातम् ।
नृपतिरिव निकाममायदर्शी विभववता समुपास्यते जनेन ॥७॥
अपि च ।
द्रव्यं लब्धं द्यूतेनैव दारामित्रं द्यूतेनैव ।
दत्तं भुक्तं द्यूतेनैव सर्वं नष्टं द्यूतेनैव ॥८॥
अपि च ।
त्रेता हृतसर्वस्वः पावरपतनाच्च शोषितशरीरः ।
नर्दितदर्शितमार्गः कटेन विनिपातितो यामि ॥९॥
(अग्रतोऽवलोक्य । )
अयमस्माकं पूर्वसभिको माथुर इत एवाभिवर्तते ।
भवतु ।
अपक्रमितुं न शक्यते ।
तदवगुण्ठयाम्यात्मानम् ।
(बहुविधं नाट्यं कृत्वा स्थितः ।
उत्तरीयं निरीक्ष्य । )
अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलङ्कृतः ।
अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ॥१०॥
अथवा किमयं तपस्वी करिष्यति ।
यो हि पादेनैकेन गगने द्वितीयेन च भूतले ।
तिष्ठाम्युल्लम्बितस्तावद्यावत्तिष्ठति भास्करः ॥११॥
माथुरः - दापय दापय ।
संवाहकः - कुदो दैश्शम् ।
(माथुरः कर्षति । )
दर्दुरकः - अये, किमेतदग्रतः ।
(आकाशे । )
किं भवानाह - ऽअयं द्यूतकरः सभिकेन खलीक्रियते, न कश्चिन्मोचयति ।
ऽइति ।
नन्वयं दर्दुरो मोचयति ।
(उपसृत्य । )
अन्तरमन्तरम् ।
(दृष्ट्वा । )
अये, कथं माथुरो धूर्तः ।
अयमपि तपस्वी संवाहकः ।
यः स्तब्धं दिवसान्तमानतशिरा नास्ते समुल्लम्बितो यस्योद्धर्षणलोष्टकैरपि सदा पृष्ठे न जातः किणः ।
तस्यैतच्च न कुक्कुरैरहरहर्जङ्घान्तरं चर्व्यते तस्यात्यायतकोमलस्य सततं द्यूतप्रसङ्गेन किम् ॥१२॥
भवतु ।
माथुरं तावत्सान्त्वयामि ।
(उपगम्य । )
माथुर, अभिवादये ।
(माथुरः प्रत्यभिवादयते । )
दर्दुरकः - किमेतत् ।
माथुरः - अअं दशसुवण्णं धालेदि ।
दर्दुरकः - ननु कल्यवर्तमेतत् ।
माथुरः - (दर्दुरस्य कक्षतललुण्ठीकृतं पटमाकृष्य । )
भट्टा, पश्शत पश्शत ।
जज्जरपडप्पावुदो अअं पुलिसो दशसुवण्णं कल्लवत्तं भणादि ।
दर्दुरकः - अरे मूर्ख, नन्वहं दशसुवर्णान्कटकरणेन प्रयच्छामि ।
तत्किं यस्यास्ति धनं स किं क्रोडे कृत्वा दर्शयति ।
अरे, दुर्वर्णोऽसि विनष्टोऽसि दशस्वर्णस्य कारणात् ।
पञ्चेन्द्रियसमायुक्तो नरो व्यापाद्यते त्वया ॥१३॥
माथुरः - भट्टा, तुए दशसुवण्णु कल्लवत्तु ।
मए एसु विहवु ।
दर्दुरकः - यद्येवम्, श्रूयतां तर्हि ।
अन्यांस्तावद्दश सुवर्णानस्यैव प्रयच्छ ।
अयमपि द्यूतं शीलयतु ।
माथुरः - तत्किं भोदु ।
दर्दुरकः - यदि जेष्यति तदा दास्यति ।
माथुरः - अह ण जिणादि ।
दर्दुरकः - तदा न दास्यति ।
माथुरः - अह ण जुत्तं जप्पिदुम् ।
एव्वं अक्खन्तो तुमं पयच्छ धुत्तआ ।
अहं पि णाम माथुरु धुत्तु जूदं मित्था आदंसआमि ।
अण्णस्स वि अहं ण बिभेमि ।
धुत्ता, खण्डिअवुत्तो सि तुमम् ।
दर्दुरकः - अरे, कः खण्डितवृत्तः ।
माथुरः - तुमं हु खण्डिअवुत्तो ।
दर्दुरकः - पिता ते खण्डितवृत्तः ।
(संवाहकस्यापक्रमितुं सञ्ज्ञां ददाति । )
माथुरः - गोसाविआपुत्ता, एव्वं ज्जेव जूदं तुए सेविदम् ।
दर्दुरकः - मयैवं द्यूतमासेवितम् ।
माथुरः - अले संवाहआ, पअच्छ तं दशसुवण्णम् ।
संवाहकः - अज्ज दैश्शम् ।
दाव दैश्शम् ।
(माथुरः कर्षति । )
दर्दुरकः - मूर्ख, परोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खलीकर्तुम् ।
(माथुरः संवाहकमाकृष्य घोणायां मुष्टिप्रहारं ददाति ।
संवाहकः सशोणितं मूर्च्छां नाटयन्भूमौ पतति ।
दर्दुरक उपसृत्यान्तरयति ।
माथुरो दर्दुरं ताडयति ।
दर्दुरो विप्रतीपं ताडयति । )
माथुरः - अले अले दुट्ट छिण्णालिआपुत्तअ, फलम्पि पाविहसि ।
दर्दुरकः - अरे मूर्ख, अहं त्वया मार्गगत एव ताडितः ।
श्वो यदि राजकुले ताडयिष्यसि, तदा द्रक्ष्यसि ।
माथुरः - एसु पेक्खिस्सम् ।
दर्दुरकः - कथं द्रक्ष्यसि ।
माथुरः - (प्रसार्य चक्षुषी । )
एव्वं पेक्खिस्सम् ।
(दर्दुरो माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं सञ्ज्ञां ददाति ।
माथुरोऽक्षिणी निगृह्य भूमौ पतति ।
संवाहकोऽपक्रामति । )
दर्दुरकः - (स्वगतम् । )
प्रधानसभिको माथुरो मया विरोधितः ।
तन्नात्र युज्यते स्थातुम् ।
कथितं च मम प्रियवयस्येन शर्विलकेन, यथा किल - ऽआर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यतिऽ इति ।
सर्वश्चास्मद्विधो जनस्तमनुसरति ।
तदहमपि तत्समीपमेव गच्छामि ।
(इति निष्क्रान्तः । )
संवाहकः - (सत्रासं परिक्रम्य दृष्ट्वा । )
एशे कश्शवि अणपावुदपक्खदुयालके गुहे ।
ता एत्थ पविशिश्शम् ।
(प्रवेशं रूपयित्वा वसन्तसेनामालोक्य । )
अज्जे, शलणागदे म्हि ।
वसन्तसेना - अभअं सरणागदस्स ।
हञ्जे, ढक्केहि पक्खदुआरम् ।
(चेटी तथा करोति । )
वसन्तसेना - कुदो दे भअम् ।
संवाहकः - अज्जे, धणिकादो ।
वसन्तसेना - हञ्जे, सम्पदं अवावुणु पक्खदुआरअम् ।
संवाहकः - (आत्मगतम् । )
कधं धणिकादो तुलिदं शे भअकालणम् ।
शुट्ठु क्खु एवं वुच्चदि ।
जे अत्तबलं जाणिअ भालं तुलिदं वहेइ माणुस्से ।
ताह खलणं ण जायदि ण अ कन्तालगदो विवज्जदि ॥१४॥
एत्थ लक्खिदम्हि ।
माथुरः - (अक्षिणी प्रमृज्य द्यूतकरं प्रति । )
अले, देहि देहि ।
द्यूतकरः - भट्टा, जावदेव अम्हे तद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कन्तो ।
माथुरः - तस्स जूदकलस्स मुट्टिप्पहालेण णासिका भग्गा आसि ।
ता एहि ।
रुहिरपहं अणुसरेम्ह ।
(अनुसृत्य । )
द्यूतकरः - भट्टा, वसन्तसेणागेहं पविट्टो सो ।
माथुरः - भूदाइं सुवण्णाइं ।
द्यूतकरः - लाऔलं गदुअ णिवेदेम्ह ।
माथुरः - एसो धुत्तो अदो णिक्कमिअ अण्णत्त गमिस्सदि ।
ता उअरोधेणेव्व गेण्हेम्ह ।
(वसन्तसेना मदनिकायाः सञ्ज्ञां ददाति । )
मदनिका - कुदो अज्जो ।
को वा अज्जो ।
कस्स वा अज्जो ।
किं वा वित्तिं अज्जो उवजीअदि ।
कुदो वा भअम् ।
संवाहकः - शुणादु अज्जआ ।
अज्जए, पाडलिउत्ते मे जम्मभूमी ।
गहवैदालके हगे ।
संवाहअश्श वित्तिं उवजीआमि ।
वसन्तसेना - सुउमारा क्खु कला सिक्खिदा अज्जेण ।
संवाहकः - अज्जए, कलेत्ति शिक्खिदा ।
आजीविआ दाणिं संवुत्ता ।
चेटी - अदिणिव्विण्णं अज्जेण पडिवअणं दिण्णम् ।
तदो तदो ।
संवाहकः - तदो अज्जए, एशे णिजगेहे आहिण्डकाणं मुहादो शुणिअ अपुव्वदेशदंशणकुदूहलेण इह आगदे ।
इहवि मए पविशिअ उज्जैणिं एक्के अज्जे शुश्शुशिदे ।
जे तालिशे पिअदंशणे पिअवादी, दैअ ण कित्तेदि, अवकिदं विशुमलेदि ।
किं बहुणा पलन्तेण ।
दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि, शलणागअवच्छले अ ।
चेटी - को दाणिं अज्जआए मणोरहन्तरस्स गुणाइं चोरिअ उज्जैणिं अलङ्करेदि ।
वसन्तसेना - साहु हञ्जे, साहु ।
मए वि एव्वं ज्जेव हिअएण मन्तिदम् ।
चेटी - अज्ज, तदो तदो ।
संवाहकः - अज्जए, शे दाणिं अणुक्कोशकिदेहिं पदाणेहिं ।
वसन्तसेना - किं उवरदविहवो संवुत्तो ।
संवाहकः - अणाचक्खिदे ज्जेव कधं अज्जआए विण्णादम् ।
वसन्तसेना - किं एत्थ जाणीअदि ।
दुल्लहा गुणा विहवा अ ।
अपेएसु तडाएसु बहुदरं उदअं भोदि ।
चेटी - अज्ज, किण्णामधेओ क्खु सो ।
संवाहकः - अज्जे, के दाणिं तश्श भूदलमिअङ्कस्स णामं ण जाणादि ।
शो क्खु शेट्टिचत्तले पडिवशदि ।
शलाहणिज्जणामधेए अज्जचालुदत्ते णाम ।
वसन्तसेना - (सहर्षमासनादवतीर्य । )
अज्जस्स अत्तणकेरकं एदं गेहम् ।
हञ्जे, देहि से आसणम् ।
तालवेण्ठअं गेण्ह ।
परिस्समो अज्जस्स बाधेदि ।
(चेटी तथा करोति । )
संवाहकः - (स्वगतम् । )
कधं अज्जचालुदत्तस्स णामशङ्कीत्तणेण ईदिशे मे आदले ।
शाहु अज्जचालुदत्तो, शाहु ।
पुहवीए तुमं एक्के जीवशि ।
शेषे उण जणे शशदि ।
(इति पादयोर्निपत्य । )
भोदु अज्जए, भोदु ।
आशणे णिशीददु अज्जआ ।
वसन्तसेना - (आसने समुपविश्य । )
अज्ज, कुदो सो धणिओ ।
संवाहकः - शक्कालधणे क्खु शज्जणे काह ण होइ चलाचले धणे ।
जे पूइदुं पि ण जाणादि शे पूआविशेशम्पि जाणादि ॥१५॥
वसन्तसेना - तदो तदो ।
संवाहकः - तदो तेण अज्जेण शवित्ती पलिचालके किदो म्हि ।
चालित्तावशेशे अ तस्सिं जूदोवजीवि म्हि शंवुत्ते ।
तदो भाअधेअविशमदाए दशशुवण्णअं जूदे हालिदम् ।
माथुरः - उच्छादिदो म्हि ।
मुसिदो म्हि ।
संवाहकः - एदे दे शहिअजूदिअला मं अणुशन्धअन्ति ।
शम्पदं शुणिअ अज्जआ पमाणम् ।
वसन्तसेना - मदणिए, वासपादवविसण्ठुलदाए पक्खिणो इदो तदो वि आहिण्डन्ति ।
हञ्जे, ता गच्छ ।
एदाणं सहिअजूदिअराणम्, अअं अज्जो ज्जेव पडिवादेदि त्ति, इमं हत्थाभरणअं तुमं देहि ।
(इति हस्तात्कटकमाकृष्य चेट्याः प्रयच्छति । )
चेटी - (गृहीत्वा । )
जं अज्जआ आणवेदि ।
(इति निष्क्रान्ता । )
माथुरः - उच्छादिदो म्हि ।
मुसिदो म्हि ।
चेटी - जधा एदे उद्धं पेक्खन्ति, दीहं णीससन्ति, अहिलहन्ति अ दुआरणिहिदलोअणा, तधा तक्केमि, एदे दे सहिअजूदिअरा हुविस्सन्ति ।
(उपगम्य । )
अज्ज, वन्दामि ।
माथुरः - सुहं तुए होदु ।
चेटी - अज्ज, कदमो तुम्हाणं सहिओ ।
माथुरः - कस्स तुहुं तणुमज्झे अहरेण रददट्ठदुव्विणीदेण ।
जम्पसि मणोहलवअणं आलोअन्ती कडक्खेण ॥१६॥
णत्थि मम विहवो ।
अण्णत्त व्वज ।
चेटी - जै ईदिसाइं णं मन्तेसि, ता ण होसि जूदिअरो ।
अत्थि कोवि तुम्हाणं धारओ ।
माथुरः - अत्थि ।
दशसुवण्णं धालेदि ।
किं तस्स ।
चेटी - तस्स कारणादो अज्जआ इमं हत्थाभरणं पडिवादेदि ।
णहि णहि ।
सो ज्जेव पडिवादेदि ।
माथुरः - (सहर्षं गृहीत्वा । )
अले, भणेशि तं कुलपुत्तम् - ऽभूदं तुए गण्डे ।
आअच्छ ।
पुणो जूदं रमअऽ ।
(इति निष्क्रान्तौ । )
चेटी - (वसन्तसेनामुपसृत्य । )
अज्जए, पडितुट्टा गदा सहिअजूदिअरा ।
वसन्तसेना - ता गच्छदु ।
अज्ज बन्धुअणो समस्ससदु ।
संवाहकः - अज्जए, जै एव्वं ता इअं कला पलिअणहत्थगदा कलीअदु ।
वसन्तसेना - अज्ज, जस्स कारणादो इअं कला सिक्खीअदि, सो ज्जेव अज्जेण सुस्सूसिदपुरुव्वो सुस्सूसिदव्वो ।
संवाहकः - (स्वगतम् । )
अज्जआए णिउअं पच्चादिट्टो म्हि ।
कधं पच्चुवकलिश्शम् ।
(प्रकाशम् । )
अज्जए, अहं एदिणा जूदिअलावमाणेण शक्कशमणके हुविश्शम् ।
ता शंवाहके जूदिअले शक्कशमणके शंवुत्तेत्ति शुमलिदव्वा अज्जआए एदे अक्खलु ।
वसन्तसेना - अज्ज, अलं साहसेण ।
संवाहकः - अज्जए, कले णिच्चए ।
(इति परिक्रम्य । )
जूदेण तं कदं मे जं वीहत्थं जणश्श शव्वश्श ।
एणहिं पाअडशीशे णलिन्दमग्गेण विहलिश्शम् ॥१७॥
(नेपथ्ये कलकलः । )
संवाहकः - (आकर्ण्य । )
अले, किं ण्णेदम् ।
(आकाशे । )
किं भणाध - ऽएशे क्खु वशन्तशेणआए खुण्टमोडके णाम दुट्टहत्थी विअलेदिऽ त्ति ।
अहो, अज्जआए गन्धगअं पेक्खिश्शं गदुअ ।
अह वा किं मम एदिणा ।
जधाववशिदं अणुचिट्ठिश्शम् ।
(इति निष्क्रान्तः । )
(ततः प्रविशत्यपटीक्षेपेण प्रहृष्टो विकटोज्ज्वलवेशः कर्णपूरकः । )
कर्णपूरकः - कहिं कहिं अज्जआ ।
चेटी - दुम्मणुस्स, किं ते उव्वेअकारणम्, जं अग्गदो वट्ठिदं अज्जअं ण पेक्खसि ।
कर्णपूरकः - (दृष्ट्वा । )
अज्जए, वन्दामि ।
वसन्तसेना - कण्णऊरअ, परितुट्टमुहो लक्खीअसि ।
ता किं ण्णेदम् ।
कर्णपूरकः - (सविस्मयम् । )
अज्जए, वञ्चिदासि, जाए अज्ज कण्णऊरअस्स परक्कमो ण दिट्टो ।
वसन्तसेना - कण्णऊरअ, किं किम् ।
कर्णपूरकः - सुणादु अज्जआ ।
जो सो अज्जआए खुण्टमोडओ णाम दुट्टहत्थी, सो आलाणत्थम्भं भञ्जिअ महमेत्थं वावादिअ महन्तं सङ्खोहं करन्तो राअमग्गं ओदिण्णो ।
तदो एत्थन्तरे उग्घुट्टं जणेण - ऽअवणेध वालअजणं तुरिदं आरुहध वुक्खपासादम् ।
किं ण हु पेक्खध पुरदो दुट्टो हत्थी इदो एहि ॥१८॥
अवि अ ।
विचलै णेउरजुअलं छिज्जन्ति अ मेहला मणिक्खैआ ।
वलआ अ सुन्दरदरा रअणङ्कुरजालपडिबद्धाऽ ॥१९॥
तदो तेण दुट्टहत्थिणा कलचलणरदणेहिं फुल्लणलिणिं विअ णअरिं उज्जैणिं अवगाहमाणेण, समासादिदो परिव्वाजओ ।
तच्च परिब्भट्टदण्डकुण्डिआभाअणं सीअरेहिं सिञ्चिअ दन्तन्तरे क्खित्तं पेक्खिअ पुणोवि उग्घुट्टं जणेण - ऽहा, परिव्वाजओ वावादीअदिऽ त्ति ।
वसन्तसेना - (ससम्भ्रमम् । )
अहो पमादो, अहो पमादो ।
कर्णपूरकः - अलं सम्भमेण ।
सुणादु दाव अज्जआ ।
तदो विच्छिण्णविसण्ठुलसिङ्खलाकलावअं उव्वहन्तं दन्तन्तरपरिग्गहिदं परिव्वाजअं उव्वहन्तं तं पेक्खिअ कण्णऊरएण मए, णहि णहि, अज्जआए अण्णपिण्डौट्टेण दासेण, वामचलणेण जूदलेक्खअं उग्घुसिअ उग्घुसिअ तुरिदं आवणादो लोहदण्दं गेण्हिअ आआरिदो सो दुट्टहत्थी ।
वसन्तसेना - तदो तदो ।
कर्णपूरकः - आहणिऊण सरोसं तं हत्थिं विञ्झसैलसिहराभम् ।
मोआविओ मए सो दन्तन्तरसण्ठिओ परिव्वाजओ ॥२०॥
वसन्तसेना - सुट्ठु दे किदम् ।
तदो तदो ।
कर्णपूरकः - तदो अज्जए, ऽसाहु रे कण्णऊरअ, साहुऽ त्ति एत्तिअमेत्तं भणन्ती, विसमभरक्कन्ता विअ णावा, एक्कदो पल्हत्था सअला उज्जैणी आसि ।
तदो अज्जए, एक्केण सुण्णाइं आहरणट्ठाणाइं परामुसिअ उद्धं पेक्खिअ दीहं णीससिअ अअं पावारओ मम उवरि क्खित्तो ।
वसन्तसेना - कण्णऊरअ, जाणीहि दाव किं एसो जादीकुसुमवासिदो पावारओ ण वेत्ति ।
कर्णपूरकः - अज्जए, मदगन्धेण सुट्ठु तं गन्धं ण जाणामि ।
वसन्तसेना - णामं पि दाव पेक्ख ।
कर्णपूरकः - इमं णामं अज्जआ एव्व वाएदु ।
(इति प्रावारकमुपनयति । )
वसन्तसेना - अज्जचारुदत्तस्स ।
(इति वाचयित्वा सस्पृहं गृहीत्वा प्रावृणोति । )
चेटी - कण्णऊरअ, सोहदि अज्जआए पावारओ ।
कर्णपूरकः - आं, सोहदि अज्जआए पावारओ ।
वसन्तसेना - कण्णऊरअ, इदं दे पारितोसिअम् ।
(इत्याभरणं प्रयच्छति । )
कर्णपूरकः - (शिरसा गृहीत्वा प्रणम्य च । )
सम्पदं सुट्ठु सोहदि अज्जआए पावारओ ।
वसन्तसेना - कण्णऊरअ, एदाए वेलाए कहिं अज्जचारुदत्तो ।
कर्णपूरकः - एदेण ज्जेव मग्गेण पवुत्तो गन्तुं गेहम् ।
वसन्तसेना - हञ्जे, उवरिदणं अलिन्दअं आरुहिअ अज्जचारुदत्तं पेक्खेम्ह ।
(इति निष्क्रान्ताः सर्वे । )
इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः ।