०१ अलङ्कारन्यासः

प्रथमोऽङ्कः ।
पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगा श्लेषसंवीतजानोरन्तःप्राणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य ।
आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शम्भोर्वः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥१॥
अपि च ।
पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥२॥
(नान्द्यन्ते । )
सूत्रधारः - अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण ।
एवमहमार्यमिश्रान्प्रणिपत्य विज्ञापयामि - यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः ।
एतत्कविः किल द्विरदेन्द्रगतिश्चकोरनेत्रः परिपूर्णेन्दुमुखः सुविग्रहश्च ।
द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥३॥
अपि च ।
ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा शर्वप्रसादाद्व्यपगततिमिरे चक्षुषी चोपलभ्य ।
राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥४॥
अपि च ।
समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च ।
परवारणबाहुयुद्धलुब्धः क्षितिपालः किल शूद्रको बभूव ॥५॥
अस्यां च तत्कृतौ अवन्तिपुर्यां द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः ।
गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥६॥
तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् ।
खलस्वभावं भवितव्यतां तथा चकार सर्वं किल शूद्रको नृपः ॥७॥
(परिक्रम्यावलोक्य च । )
अये, शून्येयमस्मत्सङ्गीतशाला ।
क्व नु गताः कुशीलवा भविष्यन्ति ।
(विचिन्त्य । )
आं, ज्ञातम् ।
शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥८॥
कृतं च सङ्गीतकं मया ।
अनेन चिरसङ्गीतोपासनेन ग्रीष्मसमये प्रचण्डदिनकरकिरणोच्छुष्कपुष्करबीजमिव प्रचलिततारके क्षुधा ममाक्षिणी खटखटायेते ।
तद्यावद्गृहिणीमाहूय पृच्छामि, अस्ति किञ्चित्प्रातराशो न वेति ।
एषोऽस्मि भोः, कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः ।
अविद अविद भो, चिरसङ्गीदोवासणेण सुक्खपोक्खरणालाइं विअ मे बुभुक्खाए मिलाणाइं अङ्गाइं ।
ता जाव गेहं गदुअ आणामि, अत्थि किम्पि कुटुम्बिणीए उववादिदं ण वेत्ति ।
(परिक्रम्यावलोक्य च । )
एदं तं अम्हाणं गेहम् ।
ता पविसामि ।
(प्रविश्यावलोक्य च । )
हीमाणहे ।
किं णु क्खु अम्हाणं गेहे अण्णं विअ संविहाणअं वट्टदि ।
आआमितण्डुलोदअप्पवाहा रच्छा लोहकडाहपरिवट्टणकसणसारा किदविसेसआ विअ जुअदी अहिअदरं सोहदि भूमी ।
सिणिद्धगन्धेण उद्दीविअन्ती विअ अहिअं बाधेदि मं बुभुक्खा ।
ता किं पुव्वज्जिदं णिहाणं उव्वण्णं भवे ।
आदु अहं ज्जेव बुभुक्खादो अण्णमअं जीअलोअं पेक्खामि ।
णत्थि किल पादरासो अम्हाणं गेहे ।
पाणाधिअं बाधेदि मं बुभुक्खा ।
इध सव्वं णवं संविहाणअं वट्टदि ।
एक्का वण्णअं पीसेदि, अवरा सुमणाइं गुम्फेदि ।
(विचिन्त्य । )
किं णेदम् ।
भोदु ।
कुडुम्बिणिं सद्दाविअ परमत्थं जाणिस्सम् ।
(नेपथ्याभिमुखमवलोक्य । )
अज्जे, इदो दाव ।
नटी - (प्रविश्य । )
अज्ज, इअम्हि ।
सूत्रधारः - अज्जे, साअदं दे ।
नटी - आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति ।
सूत्रधारः - अज्जे, (ऽचिरसङ्गीदोवासणेणऽ इत्यादि पठित्वा । )
अत्थि किं पि अम्हाणं गेहे असिदव्वं ण वेत्ति ।
नटी - अज्ज, सव्वं अत्थि ।
सूत्रधारः - किं किं अत्थि ।
नटी - तं जधा - गुडोदणं घिअं दहीं तण्डुलाइं अज्जेण अत्तव्वं रसाअणं सव्वं अत्थि त्ति ।
एव्वं दे देवा आसासेदु ।
सूत्रधारः - किं अम्हाणं गेहे सव्वं अत्थि ।
आदु परिहससि ।
नटी - (स्वगतम् । )
परिहसिस्सं दाव ।
(प्रकाशम् । )
अज्ज, अत्थि आवणे ।
सूत्रधारः - (सक्रोधम् । )
आः अणज्जे, एव्वं दे आसा छिज्जिस्सदि ।
अभावं अ गमिस्ससि ।
जं दाणिं अहं वरण्डलम्बुओ विअ दूरं उक्खिविअ पाडिदो ।
नटी - मरिसेदु मरिसेदु अज्जो ।
परिहासो क्खु एसो ।
सूत्रधारः - ता किं उण इदं णवं विअ संविहाणअं वट्टदि ।
एक्का वण्णअं पीसेदि, अवरा सुमणाओ गुम्फेदि, इअं अ पञ्चबण्णकुसुमोवहारसोहिदा भूमी ।
नटी - अज्ज उववासो गहिदो ।
सूत्रधारः - किं णामधेओ अअं उववासो ।
नटी - अहिरूअवदी णाम ।
सूत्रधारः - अज्जे, इहलोइओ आदु पारलोइओ ।
नटी - अज्ज, पारलोइओ ।
सूत्रधारः - (सरोषम् । )
पेक्खन्तु पेक्खन्तु अज्जमिस्सा ।
ममकेरकेण भत्तपरिव्वएण पारलोइओ भत्ता अण्णेसीअदि ।
नटी - अज्ज, पसीद पसीद ।
तुमं ज्जेव जम्मन्तरे भविस्ससि त्ति ।
सूत्रधारः - अअं उववासो केण दे उवदिट्टो ।
नटी - अज्जस्स ज्जेव पिअवअस्सेण जुण्णवुड्ढेण ।
सूत्रधारः - (सकोपम् । )
आः दासीए पुत्ता जूण्णवुड्ढा, कदा णु क्खु तुमं कुविदेण रण्णा पालएण णववहूकेसहत्थं विअ सुअन्धं कप्पिज्जन्तं पेक्खिस्सम् ।
नटी - पसीददु अज्जो ।
अज्जस्स ज्जेव पारलोइओ अअं उववासो ।
(इति पादयोः पतति । )
सूत्रधारः - अज्जे, उट्ठेहि ।
कधेहि एत्थ उववासे केण कज्जम् ।
नटी - अम्हारिसजणजोग्गेण बम्हणेण उवणिमन्तिदेण ।
सूत्रधारः - अदो गच्छदु अज्जा ।
अहम्पि अम्हारिसजणजोग्गं बम्हणं उवणिमन्तेमि ।
नटी - जं अज्जो आणवेदि ।
(इति निष्क्रान्ता । )
सूत्रधारः - (परिक्रम्य । )
हीमाणहे ।
ता कधं मए एव्वं सुसमिद्धाए उज्जैणीए अम्हारिसजणजोग्गो बम्हणो अण्णेसिदव्वो ।
(विलोक्य । )
एसो चारुदत्तस्स मित्तं मित्तेओ इदो जेव्व आअच्छदि ।
भोदु ।
पुच्छिस्सं दाव ।
अज्ज मित्तेअ, अम्हाणं गेहे असिदुं अग्गणी भोदु अज्जो ।
(नेपथ्ये । )
भो, अण्णं बम्हणं उवणिमन्तेदु भवम् ।
वावुडो दाणिं अहम् ।
सूत्रधारः - अज्ज, सम्पण्णं भोअणं णीसवत्तं अ ।
अवि अ दक्खिणा वि दे भविस्सदि ।
(पुनर्नेपथ्ये । )
भो, दाणिं पढमं ज्जेव पच्चादिट्टोसि, ता को दाणिं दे णिब्बन्धो पदे पदे मं अनुबन्धेदुम् ।
सूत्रधारः - पच्चादिट्टोम्हि एदिणा ।
भोदु ।
अण्णं बम्हणं उवणिमन्तेमि ।
(इति निष्क्रान्तः । )
इत्यामुखम् ।
(प्रविश्य प्रावारहस्तः । )
मैत्रेयः - (ऽअण्णं बम्हणंऽ इति पूर्वोक्तं पठित्वा । )
अधवा, मए वि मित्तेएण परस्स आमन्तणआइं पच्छिदव्वाइं ।
हा अवत्थे, तुलीअसि ।
जो णाम अहं तत्तभवदो चारुदत्तस्स रिद्धीए अहोरत्तं पअतणसिद्धेहिं उग्गारसुरहिगन्धेहिं मोदकेहिं ज्जेव असिदो अब्भन्तरचदुस्सालअदुआए उवविट्टो मल्लकसदपरिवुदो चित्तअरो विअ अङ्गुलीहिं छिविअ छिविअ अवणेमि ।
णअरचत्तरवुसहो विअ रोमन्थाअमाणो चिट्ठामि ।
सो दाणिं अहं तस्स दलिद्ददाए जहिं तहिं चरिअ गेहपारावदो विअ आवासणिमित्तं इध आअच्छामि ।
एसो अ अज्जचारुदत्तस्स पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अज्जचारुदत्तस्स उवणेदव्वो त्ति ।
ता जाव अज्जचारुदत्तं पेक्खामि ।
(परिक्रम्यावलोक्य च । )
एसो चारुदत्तो सिद्धीकिददेवकज्जो गिहदेवदाणं बलिं हरेन्तो इदो ज्जेव आअच्छदि ।
(ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च । )
चारुदत्तः - (ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य । )
यासां बलिः सपदि मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः ।
तास्वेव सम्प्रति विरूढतृणाङ्कुरासु बीजाञ्जलिः पतति कीट मुखावलीढः ॥९॥
(इति मन्दं मन्दं परिक्रम्योपविशति । )
विदूषकः - एसो अज्ज चारुदत्तो ।
ता जाव सम्पद उवसप्पामि ।
(उपसृत्य । )
सोत्थि भवदे ।
वड्ढदु भवम् ।
चारुदत्तः - अये, सर्वकालमित्रं मैत्रेयः प्राप्तः ।
सखे, स्वागतम् ।
आस्यताम् ।
विदूषकः - जं भवं आणवेदि ।
(उपविश्य । )
भो वअस्स, एसो दे पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अज्जचारुदत्तस्स तुए उवणेदव्वो त्ति ।
(समर्पयति । )
(चारुदत्तो गृहीत्वा सचिन्तः स्थितः । )
विदूषकः - भो, किं इदं चिन्तीअदि ।
चारुदत्तः - वयस्य, सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥१०॥
विदूषकः - भो वअस्स, मरणादो दालिद्दादो वा कदरं दे रोअदि ।
चारुदत्तः - वयस्य, दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम् ।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥११॥
विदूषकः - भो वअस्स, अलं सन्तप्पिदेण ।
पणैजणसङ्कामिदविहवस्स सुरजणपीदसेसस्स पडिवच्चन्दस्स विअ परिक्खओ वि दे अहिअदरं रमणीओ ।
चारुदत्तः - वयस्य, न ममार्थान्प्रति दैन्यम् ।
पश्य ।
एतत्तु मां दहति यद्गृहमस्मदीयम् क्षीणार्थमित्यतिथयः परिवर्जयन्ति ।
संशुष्कसान्द्रमदलेखमिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलम् ॥१२॥
विदूषकः - भो वअस्स, एदे क्खु दासीए पुत्ता अत्थकल्लवत्ता वरडाभीदा विअ गोवालदारआ अरण्णे जहिं जहिं ण खज्जन्ति तहिं तहिं गच्छन्ति ।
चारुदत्तः - वयस्य, सत्यं न मे विभवनाशकृतास्ति चिन्ता भाग्यक्रमेण हि धनानि भवन्ति यान्ति ।
एतत्तु मां दहति नष्टधनाश्रयस्य यत्सौहृदादपि जनाः शिथिलीभवन्ति ॥१३॥
अपि च ।
दरिद्र्याद्ध्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥१४॥
विदूषकः - भो वअस्स, तं ज्जेव अत्थकल्लवत्तअं सुमरिअ अलं सन्तप्पिदेण ।
चारुदत्तः - वयस्य, दारिद्र्यं हि पुरुषस्य निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् ।
वनं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥१५॥
तद्वयस्य, कृतो मया गृहदेवताभ्यो बलिः ।
गच्छ ।
त्वमपि चतुष्पथे मातृभ्यो बलिमुपहर ।
विदूषकः - ण गमिस्सम् ।
चारुदत्तः - किमर्थम् ।
विदूषकः - जदो एव्वं पूइज्जन्ता वि देवदा ण दे पसीदन्ति ।
ता को गुणो देवेसुं अच्चिदेसुं ।
चारुदत्तः - वयस्य, मा मैवम् ।
गृहस्थस्य नित्योऽयं विधिः ।
तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः ।
तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥१६॥
तद्गच्छ ।
मातृभ्यो बलिमुपहर ।
विदूषकः - भो, ण गमिस्सम् ।
अण्णो को वि पौञ्जीअदु ।
मम उण बम्हणस्स सव्वं ज्जेव विपरीदं परिणमदि ।
आदंसगदा विअ छाआ वामादो दक्खिणा दक्खिणादो वामा ।
अण्णं अ एदाए पदोसवेलाए इध राअमग्गे गणिआ विडा चेडा राअवल्लहा अ पुरिसा सञ्चरन्ति ।
ता मण्डूअलुद्धस्स कालसप्पस्स मूसिओ विअ अहिमुहावदिदो वज्झो दाणिं भविस्सम् ।
तुमं इध उवविट्टो किं करिस्ससि ।
चारुदत्तः - भवतु ।
तिष्ठ तावत् ।
अहं समाधिं निर्वर्तयामि ।
(नेपथ्ये । )
तिष्ठ वसन्तसेने, तिष्ठ ।
(ततः प्रविशति विटशकारचेटैरनुगम्यमाना वसन्तसेना । )
विटः - वसन्तसेने, तिष्ठ तिष्ठ ।
किं त्वं भयेन परिवर्तितसौकुमार्या नृत्यप्रयोगविशदौ चरणौ क्षिपन्ती ।
उद्विग्नचञ्चलकटाक्षविसृष्टदृष्टिर्व्याधानुसारचकिता हरिणीव यासि ॥१७॥
शकारः - च्यिष्ठ वशन्तशेणिए, च्यिष्ठ ।
किं याशि धावशि पलाअशि पक्खलन्ती वाशू पशीद ण मलिस्सशि चिट्ठ दाव ।
कामेण दज्झदि हु मे हडके तवश्शी अङ्गाललाशिपडिदे विअ मंशखण्डे ॥१८॥
चेटः - अज्जुके, चिट्ठ चिट्ठ ।
उत्ताशिता गच्छशि अन्तिका मे शम्पुण्णपच्छा विअ गिम्हमोरी ।
ओवग्गदी शामिअभश्टके मे वण्णे गडे कुक्कुडशावके व्व ॥१९॥
विटः - वसन्तसेने, तिष्ठ तिष्ठ ।
किं यासि बालकदलीव विकम्पमाना रक्तांशुकं पवनलोलदशं वहन्ती ।
रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती टङ्कैर्मनःशिलगुहेव विदार्यमाणा ॥२०॥
शकारः - चिट्ठ वशन्तशेणिए, चिट्ठ ।
मम मअणमणङ्गं वड्ढअन्ती णिशि अ शअणके मे णिद्दअं आक्खिवन्ती ।
पशलशि भअभीदा पक्खलन्ती खलन्ती मम वशमणुजादा लावणश्शेव कुन्ती ॥२१॥
विटः - वसन्तसेने, किं त्वं पदैर्मम पदानि विशेषयन्ती व्यालीव यासि पतगेन्द्रभयाभिभूता ।
वेगादहं प्रविसृतः पवनं न रुन्ध्यां त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः ॥२२॥
शकारः - भावे भावे, एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका णिण्णाशा कुलणाशिका अवशिका कामस्स मञ्जूशिका ।
एशा वेशवहू शुवेशणिलआ वेशङ्गणा वेशिआ एशे शे दश णामके मै कले अज्जावि मं णेच्छदि ॥२३॥
विटः - प्रसरसि भयविक्लवा किमर्थं प्रचलितकुण्डलघृष्टगण्डपार्श्वा ।
विटजननखघट्टितेव वीणा जलधरगर्जितभीतसारसीव ॥२४॥
शकारः - झाणज्झणन्तबहुभूशणशद्दमिश्शं किं दोवदी विअ पलाअशि लामभीदा ।
एशे हलामि शहशत्ति जधा हणूमे विश्शावशुश्श बहिणिं विअ तं शुभद्दम् ॥२५॥
चेटः - लामेहि अ लाअवल्लहं तो क्खाहिशि मच्छमंशकम् ।
एदेहिं मच्छमंशकेहिं शुणआ मलअं ण शेवन्ति ॥२६॥
विटः - भवति वसन्तसेने, किं त्वं कटीतटनिवेशितमुद्वहन्ती ताराविचित्ररुचिरं रशनाकलापम् ।
वक्त्रेण निर्मथितचूर्णमनःशिलेन त्रस्ताद्भुतं नगरदैवतवत्प्रयासि ॥२७॥
शकारः - अम्हेहि चण्डं अहिशालिअन्ती वणे शिआली विअ कुक्कुलेहिं ।
पलाशि शिग्घं तुलिदं शवेग्गं शवेण्टणं मे हलअं हलन्ती ॥२८॥
वसन्तसेना - पल्लवआ पल्लवआ, परहुदिए परहुदिए ।
शकारः - (सभयम् । )
भावे भावे, मणुश्शे मणुश्शे ।
विटः - न भेतव्यं न भेतव्यम् ।
वसन्तसेना - माहविए माहविए ।
विटः - (सहासम् । )
मूर्ख, परिजनोऽन्विष्यते ।
शकारः - भावे भावे, इत्थिआं अण्णेशदि ।
विटः - अथ किम् ।
शकारः - इत्थिआणं शदं मालेमि ।
शूले हगे ।
वसन्तसेना - (शून्यमवलोक्य । )
हद्धी हद्धी, कधं परिअणो वि परिब्भट्टो ।
एत्थ मए अप्पा शअं ज्जेव रक्खिदव्वो ।
विटः - अन्विष्यतामन्विष्यताम् ।
शकारः - वशन्तशेणिए, विलव विलव परहुदिअं वा पल्लवअं वा शव्वं एव्व वशन्तमाशम् ।
मए अहिशालिअन्तीं तुमं को पलित्ताइश्शदि ।
किं भीमशेणे जमदग्गिपुत्ते कुन्तीशुदे वा दशकन्धले वा ।
एशे हगे गेण्हिय केशहत्थे दुश्शाशणश्शाणुकिदिं कलेमि ॥२९॥
णं पेक्ख णं पेक्ख ।
अशी शुतिक्खे वलिदे अ मत्थके कप्पेम शीशं उद मालएम वा ।
अलं तवेदेण पलाइदेण मुमुक्खु जे होदि ण शे क्खु जीअदि ॥३०॥
वसन्तसेना - अज्ज, अबला क्खु अहम् ।
विटः - अत एव ध्रियसे ।
शकारः - अदो ज्जेव ण मालीअशि ।
वसन्तसेना - (स्वगतम् । )
कधं अणुणओ वि शे भअं उप्पादेदि ।
भोदु ।
एव्वं दाव ।
(प्रकाशम् । )
अज्ज, इमादो किम्पि अलङ्करणं तक्कीअदि ।
विटः - शान्तम् ।
भवति वसन्तसेने, न पुष्पमोषमर्हत्युद्यानलता ।
तत्कृतमलङ्करणैः ।
वसन्तसेना - ता किं क्खु दाणिम् ।
शकारः - हगे वरपुलिशमणुश्शे वाशुदेवके कामैदव्वे ।
वसन्तसेना - (सक्रोधम् । )
शन्तं शन्तम् ।
अवेहि ।
अणज्जं मन्तेशि ।
शकारः - (सतालिकं विहस्य । )
भावे भावे, पेक्ख दाव ।
मं अन्तलेण शुशिणिद्धा एशा गणिआदालिआ णम् ।
जेण मं भणादि - ऽएहि ।
शन्तेशि ।
किलिन्तेशिऽ त्ति ।
हगे ण गामन्तलं ण णगलन्तलं वा गडे ।
अज्जुके, शवामि भावश्श शीशं अत्तणकेहिं पादेहिं ।
तव ज्जेव पश्चाणुपश्चिआए आहिण्डन्ते शन्ते किलिन्ते म्हि शंवुत्ते ।
विटः - (स्वगतम् । )
अये, कथं शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः ।
(प्रकाशम् । )
वसन्तसेने, वेशवासविरुद्धमभिहितं भवत्या ।
पश्य ।
तरुणजनसहायश्चिन्त्यतां वेशवासो विगणय गणिका त्वं मार्गजाता लतेव ।
वहसि हि धनहार्यं पण्यभूतं शरीरं सममुपचर भद्रे सुप्रियं चाप्रियं च ॥३१॥
अपि च ।
वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा ।
ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वं भज ॥३२॥
वसन्तसेना - गुणो क्खु अणुराअस्स कारणम्, ण उण बलक्कारो ।
शकारः - भावे भावे, एशा गब्भदाशी कामदेवाअदणुज्जाणादो पहुदि ताह दलिद्दचालुदत्ताह अणुलत्ता ण मं कामेदि ।
वामदो तश्श घलम् ।
जधा तव मम अ हत्थादो ण एशा पलिब्भंशदि तधा कलेदु भावे ।
विटः - (स्वगतम् । )
यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः ।
कथं वसन्तसेनार्यचारुदत्तमनुरक्ता ।
सुष्ठु खल्विदमुच्यते - ऽरत्नं रत्नेन सङ्गच्छतेऽ इति ।
तद्गच्छतु ।
किमनेन मूर्खेण ।
(प्रकाशम् । )
काणेलीमातः, वामतस्तस्य सार्थवाहस्य गृहम् ।
शकारः - अध इं ।
वामदो तश्श घलम् ।
वसन्तसेना - (स्वगतम् । )
अम्महे ।
वामदो तश्श गेहं त्ति जं शच्चम्, अवरज्झन्तेण वि दुज्जणेण उवकिदम्, जेण पिअशङ्गमं पाविदम् ।
शकारः - भावे भावे, बलिए क्खु अन्धआले माशलाशिपविट्टा विअ मशिगुडिआ दीशन्दी ज्जेव पणट्टा वशन्तशेणिआ ।
विटः - अहो, बलवानन्धकारः ।
तथाहि ।
आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।
उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ॥३३॥
अपि च ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥३४॥
शकारः - भावे भावे, अण्णेशामि वशन्तशेणिअम् ।
विटः - काणेलीमातः, अस्ति किञ्चिच्चिह्नं यदुपलक्षयसि ।
शकारः - भावे भावे, किं विअ ।
विटः - भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा ।
शकारः - शुणामि मल्लगन्धम्, अन्धआलपूलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दम् ।
विटः - (जनान्तिकम् । )
वसन्तसेने, कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामनीव जलदोदरसन्धिलीना ।
त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि च नूपुराणि ॥३५॥
श्रुतं वसन्तसेने ।
वसन्तसेना - (स्वगतम् । )
सुदं गहिदं अ ।
(नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किञ्चित्परिक्रम्य हस्तेन परामृश्य । )
अम्मो, भित्तिपरामरिससूइदं पक्खदुआरअं क्खु एदम् ।
जाणामि अ सञ्जोएण गेहस्स संवुदं पक्खदुआरअम् ।
चारुदत्तः - वयस्य, समाप्तजपोऽस्मि ।
तत्साम्प्रतं गच्छ ।
मातृभ्यो बलिमुपहर ।
विदूषकः - भो, ण गमिस्सम् ।
चारुदत्तः - धिक्कष्टम् ।
दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः ।
सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते ॥३६॥
अपि च ।
सङ्गं नैव हि कश्चिदस्य कुरुते सम्भाषते नादरात्सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥३७॥
अपि च ।
दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा ।
विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम् ॥३८॥
विदूषकः - (सवैलक्ष्यम् । )
भो वअस्स, जै मए गन्तव्वम्, ता एसा वि मे सहाइणी रदणिआ भोदु ।
चारुदत्तः - रदनिके, मैत्रेयमनुगच्छ ।
चेटी - जं अज्जो आणवेदि ।
विदूषकः - भोदि रदणिए, गेण्ह बलिं पदीवं अ ।
अहं अपावुदं पक्खदुआरअं करेमि ।
(तथा करोति । )
वसन्तसेना - मम अब्भुववत्तिणिमित्तं विअ अवावुदं पक्खदुआरअम् ।
ता जाव पविसामि ।
(दृष्ट्वा । )
हद्धी हद्धी ।
कधं पदीवो ।
(पटान्तेन निर्वाप्य प्रविष्टा । )
चारुदत्तः - मैत्रेय, किमेतत् ।
विदूषकः - अवावुदपक्खदुआरएण पिण्डीभूदेण वादेण णिव्वाविदो पदीवो ।
भोदि रदणिए, णिक्कम तुमं पक्खदुआरएण ।
अहम्पि अब्भन्तरचदुस्सालादो पदीवं पज्जालिअ आअच्छामि ।
(इति निष्क्रान्तः । )
शकारः - भावे भावे, अण्णेशामि वशन्तशेणिअम् ।
विटः - अन्विष्यतामन्विष्यताम् ।
शकारः - (तथा कृत्वा । )
भावे भावे, गहिदा गहिदा ।
विटः - मूर्ख, नन्वहम् ।
शकारः - इदो दाव भविअ एअन्ते भावे चिट्ठदु ।
(पुनरन्विष्य चेटं गृहीत्वा । )
भावे भावे, गहिदा गहिदा ।
चेटः - भट्टके, चेडे हगे ।
शकारः - इदो भावे, इदो चेडे ।
भावे चेडे, चेडे भावे ।
तुम्हे दाव एअन्ते चिट्ठ ।
(पुनरन्विष्य रदनिकां केशेषु गृहीत्वा । )
भावे भावे, शम्पदं गहिदा गहिदा वशन्तशेणिआ ।
अन्धआले पलाअन्ती मल्लगन्धेण शूइदा ।
केशविन्दे पलामिट्टा चाणक्केणेव्व दोवदी ॥३९॥
विटः - एषासि वयसो दर्पात्कुलपुत्रानुसारिणी ।
केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥४०॥
शकारः - एशाशि वाशू शिलशि ग्गहीदा केशेशु बालेशु शिलोलुहेशु ।
अक्कोश विक्कोश लबाहिचण्डं शम्भुं शिवं शङ्कलमीशलं वा ॥४१॥
रदनिका - (सभयम् । )
किं अज्जमिस्सेहिं ववसिदम् ।
विटः - काणेलीमातः, अन्य एवैष स्वरसंयोगः ।
शकारः - भावे भावे, जधा दहिशरपलिलुद्धाए मज्जालीए शलपलिवत्ते होदि, तधा दाशीए धीए शलपलिवत्ते कडे ।
विटः - कथं स्वरपरिवर्तः कृतः ।
अहो चित्रम् ।
अथवा किमत्र चित्रम् ।
इयं रङ्गप्रवेशेन कलानां चोपशिक्षया ।
वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥४२॥
(प्रविश्य । )
विदूषकः - ही ही भोः, पदोसमन्दमारुदेण पसुबन्धोवणीदस्स विअ छागलस्स हिअअम्, फुरफुराअदि पदीवो ।
(उपसृत्य रदनिकां दृष्ट्वा । )
भो रदणिए ।
शकारः - भावे भावे, मणुश्शे मणुश्शे ।
विदूषकः - जुत्तं णेदम्, सरिसं णेदम्, जं अज्जचारुदत्तस्स दलिद्ददाए सम्पदं परपुरिसा गेहं पविशन्ति ।
रदनिका - अज्ज मित्तेअ, पेक्ख मे परिहवम् ।
विदूषकः - किं तव परिहवो ।
आदु अम्हाणम् ।
रदनिका - णं तुम्हाणं ज्जेव ।
विदूषकः - किं एसो बलक्कारो ।
रदनिका - अध इं ।
विदूषकः - सच्चम् ।
रदनिका - सच्चम् ।
विदूषकः - (सक्रोधं दण्डकाष्ठमुद्यम्य । )
मा दाव ।
भो, सके गेहे कुक्कुरो वि दाव चण्डो भोदि, किं उण अहं बम्हणो ।
ता एदिणा अम्हारिसजणभाअधेअकुडिलेण दण्डकट्ठेण दुट्टस्स विअ सुक्खाणवेणुअस्स मत्थअं दे पहारेहिं कुट्टैस्सम् ।
विटः - महाब्राह्मण, मर्षय मर्षय ।
विदूषकः - (विटं दृष्ट्वा । )
ण एत्थ एसो अवरज्झदि ।
(शकारं दृष्ट्वा । )
एसो क्खु एत्थ अवरज्झदि ।
अरे रे राअसालअ सण्ट्ठाणअ दुज्जण दुम्मणुस्स, जुत्तं णेदम् ।
जै वि णाम तत्तभवं अज्जचारुदत्तो दलिद्दो संवुत्तो, ता किं तस्स गुणेहिं ण अलङ्किदा उज्जैणी ।
जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि ।
मा दुग्गदोत्ति परिहवो णत्थि कअन्तस्स दुग्गदो णाम ।
चारित्तेण विहीणो अड्ढो वि अ दुग्गदो होइ ॥४३॥
विटः - (सवैलक्ष्यम् । )
महाब्राह्मण, मर्षय मर्षय ।
अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्पात् ।
पश्य ।
सकामान्विष्यतेऽस्माभिः ।
विदूषकः - किं इअम् ।
विटः - शान्तं पापम् ।
काचित्स्वाधीनयौवना ।
सा नष्टा शङ्कया तस्याः प्राप्तेयं शीलवञ्चना ॥४४॥
सर्वथा इदमनुनयसर्वस्वं गृह्यताम् ।
(इति खड्गमुत्सृज्य कृताञ्जलिः पादयोः पतति । )
विदूषकः - सप्पुरिस, उट्ठेहि उट्ठेहि ।
अआणन्तेण मए तुमं उवालद्धे ।
सम्पदं उण जाणन्तो अणुणेमि ।
विटः - ननु भवानेवात्रानुनेयः ।
तदुत्तिष्ठामि समयतः ।
विदूषकः - भणादु भवम् ।
विटः - यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि ।
विदूषकः - न कधैस्सम् ।
विटः - एष ते प्रणयो विप्र शिरसा धार्यते मया ।
गुणशस्त्रैर्वयं येन शस्त्रवन्तोऽपि निर्जिताः ॥४५॥
शकारः - (सासूयम् । )
किं णिमित्तं उण भावे, एदश्श दुट्टबडुअश्श किविणअञ्जलिं कदुअ पाएशु णिवडिदे ।
विटः - भीतोऽस्मि ।
शकारः - कश्श तुमं भीदे ।
विटः - तस्य चारुदत्तस्य गुणेभ्यः ।
शकारः - के तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पि णत्थि ।
विटः - मा मैवम् ।
सोऽस्मद्विधानां प्रणयैः कृशीकृतो न तेन कश्चिद्विभवैर्विमानितः ।
निदाघकालेष्विव सोदको ह्रदो नृणां स तृष्णामपनीय शुष्कवान् ॥४६॥
शकारः - (सामर्षम् । )
के शे गब्भदासीए पुत्ते ।
शूले विक्कन्ते पण्डवे शेदकेदू पुत्ते लाधाए लावणे इन्ददत्ते ।
आहो कुन्तीए तेण लामेण जादे अश्शथामे धम्मपुत्ते जडाऊ ॥४७॥
विटः - मूर्ख, आर्यचारुदत्तः खल्वसौ ।
दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः ।
सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चान्ये ॥४८॥
तदितो गच्छामः ।
शकारः - अगेण्हिअ वशन्तशेणिअम् ।
विटः - नष्टा वसन्तसेना ।
शकारः - कथं विअ ।
विटः - अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य ।
स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥४९॥
शकारः - अगेण्हिअ वशन्तशेणिअं ण गमिश्शम् ।
विटः - एतदपि न श्रुतं त्वया ।
आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदिदं नास्ति गम्यताम् ॥५०॥
शकारः - यदि गच्छशि, गच्छ तुमम् ।
हगे ण गमिश्शम् ।
विटः - एवम् ।
गच्छामि ।
(इति निष्क्रान्तः । )
शकारः - गडे क्खु भावे अभावम् ।
(विदूषकमुद्दिश्य । )
अले काकपदशीशमश्तका दुट्टबडुका, उवविश उवविश ।
विदूषकः - उववेसिदा ज्जेव अम्हे ।
शकारः - केण ।
विदूषकः - कअन्तेण ।
शकारः - उट्ठेहि उट्ठेहि ।
विदूषकः - उट्ठिस्सामो ।
शकारः - कदा ।
विदूषकः - जदा पुणो वि देव्वं अणुऊलं भविस्सदि ।
शकारः - अले, लोद लोद ।
विदूषकः - रोदाविदा ज्जेव अम्हे ।
शकारः - केण ।
विदूषकः - दुग्गदीए ।
शकारः - अले, हश हश ।
विदूषकः - हसिस्सामो ।
शकारः - कदा ।
विदूषकः - पुणो वि ऋद्धीए अज्जचारुदत्तस्स ।
शकारः - अले दुट्टबडुका, भणेशि मम वअणेण तं दलिद्दचालुदत्तकम् - ऽएशा शशुवण्णा शहिलण्णा णवणाडअदंशणुट्ठिदा शुत्तदालि व्व वशन्तशेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविट्ठा ।
ता जै मम हत्थे शअं ज्जेव पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विना लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविश्शदि ।
आदु अणिज्जादमाणाह मलणन्तिके वेले हुविश्शदि ।
अवि अ पेक्ख ।
कश्चालुका गोच्छडडित्तवेण्टा शाके अ शुक्खे तलिदे हु मंशे ।
भत्ते अ हेमन्तिअलत्तिशिद्धे लीणे अ वेले ण हु होदि पूदी ॥५१॥
शोश्तकं भणेशि, लश्तकं भणेशि ।
तधा भणेशि जधा हगे अत्तणकेलिकाए पाशादबालग्गकवोदवालिआए उवविट्ठे शुणामि ।
अण्णधा जदि भणेशि, ता कवालपविट्ठकवित्थगुडिअं विअ मश्तअं दे मडमडाइश्शम् ।
विदूषकः - भणिस्सम् ।
शकारः - (अपवार्य । )
चेडे, गडे शच्चकं ज्जेव भावे ।
चेटः - अध इं ।
शकारः - ता शिग्घं अवक्कमम्ह ।
चेटः - ता गेण्हदु भट्टके अशिम् ।
शकारः - तव ज्जेव हत्थे चिट्ठदु ।
चेटः - एशे भट्टालके ।
गेण्हदु णं भट्टके अशिम् ।
शकारः - (विपरीतं गृहीत्वा । )
णिव्वक्कलं मूलकपेशिवण्णं खन्धेण घेत्तूण अ कोशशुत्तम् ।
कुक्केहि कुक्कीहि अ बुक्कअन्ते जधा शिआले शलणं पलामि ॥५२॥
(परिक्रम्य निष्क्रान्तौ । )
विदूषकः - भोदि रदणिए, ण क्खु दे अअं अवमाणो तत्तभवदो चारुदत्तस्स णिवेदैदव्वो ।
दोग्गच्चपीडिअस्स मण्णे दिउणदरा पीडा हुविस्सदि ।
रदनिका - अज्ज मित्तेअ, रदणिआ क्खु अहं सञ्जदमुही ।
विदूषकः - एवं ण्णेदम् ।
चारुदत्तः - (वसन्तसेनामुद्दिश्य । )
रदनिके, मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः ।
ततः प्रवेश्यतामभ्यन्तरमयम् ।
अनेन प्रावारकेण छादयैनम् ।
(इति प्रावारकं प्रयच्छति । )
वसन्तसेना - (स्वगतम् । )
कधं परिअणोत्ति मं अवगच्छदि ।
(प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम् । )
अम्हहे, जादीकुसुमवासिदो पावारओ ।
अणुदासीणं से ज्जोव्वणं पडिभासेदि ।
(अपवारितकेन प्रावृणोति । )
चारुदत्तः - ननु रदनिके, रोहसेनं गृहीत्वाभ्यन्तरं प्रविश ।
वसन्तसेना - (स्वगतम् । )
मन्दभाइणी क्खु अहं तुम्हे अब्भन्तरस्स ।
चारुदत्तः - ननु रदनिके, प्रतिवचनमपि नास्ति ।
कष्टम् ।
यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।
तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥५३॥
(रदनिकामुपसृत्य । )
विदूषकः - भो, इअं सा रदणिआ ।
चारुदत्तः - इयं सा रदनिका ।
इयमपरा का ।
अविज्ञातावसक्तेन दूषिता मम वाससा ।
वसन्तसेना - (स्वगतम् । )
णं भूसिदा ।
चारुदत्तः - छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥५४॥
अथवा, न युक्तं परकलत्रदर्शनम् ।
विदूषकः - भो, अलं परकलत्रदंसणसङ्काए ।
एसा वसन्तसेणा कामदेवाअदनुज्जाणादो पहुदि भवन्तमणुरत्ता ।
चारुदत्तः - इयं वसन्तसेना ।
(स्वगतम् । )
यया मे जनितः कामः क्षीणे विभवविस्तरे ।
क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥५५॥
विदूषकः - भो वअस्स, एसो क्खु राअसालो भणादि ।
चारुदत्तः - किम् ।
विदूषकः - एषा ससुवण्णा सहिलण्णा णवणाडअदंसणुट्ठिदा सुत्तधालि व्व वसन्तसेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविट्ठा ।
वसन्तसेना - (स्वगतम् । )
बलक्काराणुणीअमाणेत्ति जं सच्चम्, अलङ्किदम्हि एदेहिं अक्खरेहिं ।
विदूषकः - ता जै मम हत्थे सअं ज्जेव पट्टाविअ एणं समप्पेसि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि ।
अण्णधा मलणन्तिके वेले हुविस्सदि ।
चारुदत्तः - (सावज्ञम् । )
अज्ञोऽसौ ।
(स्वगतम् । )
अये, कथं देवतोपस्थानयोग्या युवतिरियम् ।
तेन खलु तस्यां वेलायाम् ।
प्रविश गृहमिति प्रतोद्यमाना न चलति भाग्यकृतां दशामवेक्ष्य ।
पुरुषपरिचयेन च प्रगल्भं न वदति यद्यपि भाषते बहूनि ॥५६॥
(प्रकाशम् । )
भवति वसन्तसेने, अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि ।
शिरसा भवतीमनुनयामि ।
वसन्तसेना - एदिणा अणुचिदभूमिआरोहणेण अवरज्झा अज्जं सीसेण पणमिअ पसादेमि ।
विदूषकः - भो, दुवेवि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोण्णं सीसेण सीसं समाअदा ।
अहं पि इमिणा करहजाणुसरिसेण सीसेण दुवेवि तुम्हे पसादेमि ।
(इत्युत्तिष्ठति । )
चारुदत्तः - भवतु ।
तिष्ठतु प्रणयः ।
वसन्तसेना - (स्वगतम् । )
चदुरो मधुरो अ अअं उवण्णासो ।
ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवसिदुम् ।
भोदु ।
एव्वं दाव भणिस्सम् ।
(प्रकाशम् । )
अज्ज, जै एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलङ्कारअं अज्जस्स गेहे णिक्खिविदुम् ।
अलङ्कारस्स णिमित्तं एदे पावा अणुसरन्ति ।
चारुदत्तः - अयोग्यमिदं न्यासस्य गृहम् ।
वसन्तसेना - अज्ज, अलीअम् ।
पुरुसेसु णासा णिक्खिविअन्ति, ण उण गेहेसु ।
चारुदत्तः - मैत्रेय, गृह्यतामयमलङ्कारः ।
वसन्तसेना - अणुग्गहिदम्हि ।
(इत्यलङ्कारमर्पयति । )
विदूषकः - (गृहीत्वा । )
सोत्थि भोदिए ।
चारुदत्तः - धिङ् मूर्ख, न्यासः खल्वयम् ।
विदूषकः - (अपवार्य । )
जै एव्वं ता चोरेहिं हरिज्जौ ।
चारुदत्तः - अचिरेणैव कालेन ।
विदूषकः - एसो से अम्हाणं विण्णासो ।
चारुदत्तः - निर्यातयिष्ये ।
वसन्तसेना - अज्ज, इच्छे अहम्, इमिणा अज्जेण अणुगच्छिज्जन्ती सकं गेहं गन्तुम् ।
चारुदत्तः - मैत्रेय, अनुगच्छ तत्रभवतीम् ।
विदूषकः - तुमं ज्जेव एदं कलहंसगामिणीं अणुगच्छन्तो राअहंसो विअ सोहसि ।
अहं उण बम्हणो जहिं जहिं जणेहिं चौप्पहोवणीदो उवहारो कुक्कुरेहिं विअ खज्जमाणो विवज्जिस्सम् ।
चारुदत्तः - एवं भवतु ।
स्वयमेवानुगच्छामि तत्रभवतीम् ।
तद्राजमार्गविश्वासयोग्याः प्रज्वाल्यन्तां प्रदीपिकाः ।
विदूषकः - वड्ढमाणअ, पज्जालेहि पदीविआओ ।
चेटः - (जनान्तिकम् । )
अले, तेल्लेण विणा पदीविआओ पज्जालीअन्ति ।
विदूषकः - (जनान्तिकम् । )
ही, ताओ क्खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता ।
चारुदत्तः - मैत्रेय, भवतु ।
कृतं प्रदीपिकाभिः ।
पश्य ।
उदयति हि शशाङ्कः कामिनीगण्डपाण्डुर्ग्रहगणपरिवारो राजमार्गप्रदीपः ।
तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥५७॥
(सानुरागम् । )
भवति वसन्तसेने, इदं भवत्या गृहम् ।
प्रविशतु भवती ।
(वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता । )
चारुदत्तः - वयस्य, गता वसन्तसेना ।
तदेहि ।
गृहमेव गच्छावः ।
राजमार्गो हि शून्योऽयं रक्षिणः सञ्चरन्ति च ।
वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥५८॥
(परिक्रम्य । )
इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानकेनापि दिवा ।
विदूषकः - जधा भवं आणवेदि ।
(इति निष्क्रान्तौ । )
इति मृच्छकटिकेऽलङ्कारन्यासो नाम प्रथमोऽङ्कः ।