पद्मप्राभृतकम्

[[पद्मप्राभृतकम् Source: EB]]

[

ओं वेङ्कटेशायनमः
ओं विनायकाय नमः
॥ श्रीरस्त ॥
श्रीशृद्रकविचचितं
पद्मप्राभृतकम्।
(नान्द्यन्ते ततः प्रविशति सूवधारः)
सू- जयति भगवान् स रुद्रः
कोपादथवाप्यनुग्रहाद्येन ।
स्त्रीणां विलासमूर्तिः
कान्ततरवपुः कृतः कामः॥
अपि च-
पुष्पसमुज्ज्वलाः कुरवका नदति परभृतः
कान्तमशोकपुष्पसहितं चलति किसलयम् ।
चूतसुगन्धयश्च पवना भ्रमररुतवहाः
सम्यति काननेषु सधनुर्विचरति मदनः ॥
किञ्चान्यत्-
आतोद्यं पक्षिसंघास्तरुरसमुदिताः कोकिला गन्ति गीतं
वाताचार्यौपदेसादभिनयति लता काननान्तः पुरस्त्री ।
तां वृक्षाः साधयन्ति स्वकुसुमहृषिताः पल्लवाग्रङ्गुलीभिः
श्रीमान्प्राप्तो वसन्तस्तवरितमपगतो हारगौरस्तुषारः ॥
मूलादपि मध्यादपि
विटपादप्यङ्कुरादशोकस्य ।
पिशुनस्थमिव रहस्यं
समन्ततो निष्कसति पुष्पम्॥
अहो अयं -
ससंभ्रमपरभृतरुतः
ससिन्धुवारः सकुन्दसहकारः ।
समदमदनः सपवनः
सयौवनजनप्रियः कालः ॥
(निष्क्रान्तः)
स्थापना

(ततः प्रविशाति विटः)

वि-साधु भोः! रमणीयं खलु तावदिदं शिशिरजराजर्जरस्य संव त्सरविटस्य हिमरसायनोपयोगात्पुनरावृत्तं वसन्तकैशोरकमुपोह्य ते। संप्रति हि-
प्रचलकिसलयाग्रप्रनृत्तद्रुमं
यौवनस्थायते पुल्लवल्ली वनं
तिलकशिरसि केशपाशायते कोकिलः
कुन्दपुष्पे स्थितः स्त्रीकटाक्षायते षट्पदः
क्वचिदचरिविरूढबालस्तनी कन्यकेवोद्गतैः
श्यामलैः कुड्मलैः पद्मिनी शोभते
वरयुवतिरतिश्रमस्विन्नपीनस्तनस्पर्श-
धूर्तायिता वान्ति वासन्तिका वायवः ।
इत्थं च मदनशरसन्तापकर्कशो वलवानयमृतुः यद्देवदत्तासुरतसुप्रतिविहितयौवनोत्सवस्य कर्णौपुत्रस्योन्मुच्यमानबालभावयौवनावतारकोमलां मदनमञ्जरिकां देवसेनाचूतयष्टिमतिलंघयते मदनभ्रमरः। अथवा किमिव कर्णोपुत्रस्यातिक्तमिष्यति। समधुसर्पिष्कं हि परमन्नं सोपदंशमास्वाद्यतरं भवति,अतः शङ्के देवदत्तासुरतमधुपानोपदंशभूतं चण्डालिकाश्रयं बाल भावनिरूपस्कृतोपचारहसितललितरमणीयं दारिकासुन्दरीरतिरसान्तरमपि प्रार्थयत इति ॥
अहो नु खल्वयं लघुरूपोऽपि बलवान् मदनव्याधिः, येनाकशास्त्राधिगतनिष्पन्दबुद्धिः सर्वकलाज्ञानवि वक्षणो व्युत्पन्नयुवतिकामतन्त्रसूत्रधारः कर्णौपुत्तोऽपिनामैतामवस्थामुपनीतः । स हि-
उन्निद्राधिकतान्तताम्रनयनः प्रत्यूषचन्द्राननो
ध्यानश्यानतनुर्विजृंभणपरः सन्तप्तसर्वैन्द्रियः ।
रम्यैश्चन्द्रवसन्मान्तरचनागन्धर्वगन्धादिभिः

यैरेव प्रमुखागतैः सरमते तैरेव सन्तप्यते ॥
अथवा देवसेनामुद्दिश्येति नैतदाश्चर्यम् । कुतः श्लध्यमन्मथमनोरथक्षेत्रं हि सादारिका । अर्हयस्या रूपयौवनलावण्यं कर्णौपुत्र स्योन्मादं जनयितुम् । तस्या हि-
विभ्रान्तेक्षणमक्षतोष्ठरूचकं प्राचीनगण्डं मुखं
प्रत्यग्रोत्पतितस्तनाङ्कुरमुरो बाहू लताकोमलौ ।
अव्यक्तोत्थितरोमरेखमुदरं श्रोणी कुतोऽप्यागता
भावश्चानिभृतस्वभावमधुरः कं नाम नोन्मादयेत्? ॥
(परिक्रम्य)
स इदानीं देवसेनासमुत्थं मदनामयमतिव्यायामकृतज्वरमु द्दिश्य हरतालवृन्तचन्दनोपनीयमानदाह प्रतीकारः तत्समागमाशाकृतप्राणधारणः शयनपरायणः कथंचिद्वर्तते । अद्य तु प्रगहरेव पुष्पाञ्जलिकां नाम देवदत्तायाः परिचारकः सोपचारमुपगभ्य कर्णीपुत्त्र मुक्तवान-
“आर्यपुत्त्त्र विज्ञापयत्यज्जुका देवदत्ता ‘न खलु मे ह्यस्तनेऽहन्यनागमनात् बहुमानमघ्यस्थवामुपगन्तुमर्हत्यार्यपुत्रः । इयं हि मे भागिनिका चण्डालिका किमप्यस्वस्थरूपा तदनुकम्पया पर्युषितास्मि, इयन्तु साम्प्रतमागच्छामि,‘‘इति। ततस्तदुक्तदत्तप्रतिवचनः प्रतिप्रस्थाप्य पुष्पाञ्जालिकं कर्णैपुत्रः सोपग्रहमिव मामुक्तवान्;‘‘सखेशश त्वयापि नाम श्रुतं ‘साम्प्रतमिहागच्छामि’इति। तदेष इदानीमवसरः सुखप्रश्नागमनेन विविक्तविस्त्रं भां देवसेनामवगाह्य सन्ताप कारणमस्याः परिज्ञातुम्। तदेषोऽञ्जालेः । सर्वौपायैरर्हति देवातनां प्रियोऽस्माकं देवसेनासमुत्थं हृदयगतमापुंखनिखातं मदनशरशल्यं समुद्वर्तुम्’‘इति। ततः सास्मतानुयात्रमुक्तो मया’‘भवतु धूर्ताचार्य किमिति त्वया दिवादीपप्रज्वालनं क्रियते । किं नानिज्ञोऽहं युव योरन्योन्यमनोरथमूकदूतकानां नयनसङ्गतकानाम् । अपि च, स एवास्मि मूलदेवसखः शशोऽहं नैनामप्रतार्यागमिऽयामि’’ इत्युक्तवा प्रस्थितोऽस्म । तत् किं नु राजमार्गै सुहृत्प्रश्रसङ्कयामिः कालं क्षग्यता तथा गन्तव्यं यथा देवदत्ताविरहितां चण्डालिकामासदयेयम् ।
(परिक्रम्य)

अहो तु खलु वसुन्धरावधूजम्बूद्रीपवदनकपोलपत्रलेखाया नानाभाण्डसमृद्धाया अवन्तिसुन्दर्या उज्जयिन्याः परा श्रीः । इह् हि-
पुण्य, स्तावद्वेदाभ्यासा
द्विरदरथतुरगनिनदा धनुर्गुणनिः स्वना
दृश्यं श्राव्यं विद्वद्वादा-
श्चतुरुदधिसमुदय फलैः कृता विपणिक्रिया ।
गीतं वाद्यं द्यूतं हास्यं
क्वचिदपि च विटजनकथाः क्वचित्सकलाः कलाः
क्रीडापक्षिक्षुब्धा श्वेमाः
प्रचुरकरवलयरशनस्वना गृहपङ्क्तयः ॥
(परिक्रम्य) अपीदानीमभिमतकार्यनिष्पत्तिसूचकं किञ्चिन्निमित्तं पश्येयम!(विलोक्य) अयं तावत्काव्यव्यसनी कात्यायनगोत्र,शारद्वतीपुत्रः सारस्वतभद्रः स्वगृहद्वारकोष्ठके श्वेतवर्णव्यग्रग्रह्स्तः चिन्तितोपस्यितास्वदिताकारक्रीक्षिरूविकारैरभिनयन्निव चक्रपीडककीडामनुभवति । तत्काममस्मिन्काले प्रवृत प्रति भारस्त्रोतोविधातिनं सुप्रियमपितुहृदमभ्वसूयन्ते कयः किन्तु सरस्वतीलताप्रभवानां वाक्पुष्पकाणां कर्णपूरमकृत्वातिकमितुं वाञ्चिमिवात्मानं मन्ये। यावदेनमुपसर्पामि। (उपेत्य)

सखे कात्यायन किमिदमाकाशरोमन्थंन क्रियते! किं ब्रवीषि-‘‘स एव मा काव्यपिशाचो वाहयति’‘इति । मा तावत् भोः अंघो पुराणकाव्यपदच्छेदप्रयनचर्मकार किमिदं नष्टगोयूय इव गोपालके’ नवपदान्यन्वेषसे । अथ सखे किं वस्तु परिगृहृ कृतः श्लोकः । किं ब्रवीषि –‘‘ननु खलु इममेव वर्तमानरनणीयं वसन्तसमयमाश्रिम कृतः श्लोकः’‘इति । अथ शक्त्य श्रोतुम्?किं ब्रवीषि “तन्वेषं मितिगतौ वाच्यताम्” इति क्वासौ(विलोक्य) अये अयं-
पुष्पस्पष्टादृहासः समदमधुकरः कोकिलावावदूकः
श्रीमत्स्वेदावतारः प्रसुभगपवनः कर्कशोद्दामकामः ।
बालामप्यप्रगल्भां वरतनुमवशां कामिने संप्रदातुं
कालोऽयं तत्करिष्यत्यनुनयनिपुणं यन्न दूतीसहस्त्रम् ॥
साधु भोः कल्याणं खल्वेतन्निमित्तम् । वयस्य सत्पुत्रलाभ इव यशस्करः श्लोकोऽयमस्तु। वाक्पुरोभगानामभगी भव । अये केनैतद्वसितम! (विलोक्य) अये दर्दरकः पीठमर्दौऽप्यत्र । अंघो! दर्दरक किमत्र हास्यस्थानम्? किं ब्रवीषि-‘‘इदं खलु भवता समुद्राभ्युक्षणं क्रियते यद्वागीश्वरं वागिभरर्चयसि’‘इति । मा तावदलो कज्ञ किं वसन्तंमासो न पुष्पोपहारमर्हति? अपि च न त्वया श्रुतपूर्व–
सूर्य यजन्ति दीपैः समुद्रमद्भिर्वसन्तामपि पुष्पैः ।
अर्चामो भगवन्तं वयमपि वागीश्वरं वाग्भिः ॥ इति ॥
भवतु। दीर्शत पीठमर्दस्वभावः। सेवितोऽत्रभवान् । अपि च वसन्तकालोऽयमच्छलः परभृतप्रलापानाम्। ईटृश एवास्तु भवान्। साधयाम्यहम । (परिक्तम्य विलोक्य)
अये अयमपरो विपुलामात्यः कामदत्ताप्राकृतकाव्यप्रतिष्ठानभूतः वैशिकवृत्याऽधोमुखः प्रस्थितः । आ गृहीतम्- एष देवदत्तासौभग्यसंक्रान्ते मूलदेवे विपुलावमानादात्मानमवधीरितमवगच्छन् प्रणयक्तुद्वः खल्वेष धान्त्रः । भवतु, परिहासप्लवेनैनमवगाहिष्ये । (निर्दिश्य)
भोः सुहृत्कुमुदान्यनवबोधयन् दिवाचन्द्रलीलायातिक्रमतामसिपृच्छामस्तावत्किच्चित्।
कलविज्ञानसम्पन्ना गर्वैकव्रतशालिनी ।
न खल्वत्यन्तधीरा सा खिन्ना ते विपुलामतिः ।
किं ब्रविषि-“गृहीतो वञ्चितकस्यार्थः । किं तवाचार्यौ मूलदेवो न ज्ञायत” इति। मामैवम । देवदत्तासुरतसंक्रान्तस्यापि विपुलगतमेव हृदयम्। किं ब्रवीषि-“तदपि मूलदेवीयं शाठ्यम्” इति। आम। भवान् खलु सत्यार्जवः किमिदानी स्वशिष्यां विपुलां नोपालभते, यया प्रणयकोपानुनयार्थमाधिगतः कर्णौपुत्रः
प्राप्त इव शरत्कालः प्रावृट्कालुषा नदीं प्रसादयितुम् ।
क्षिप्तः कदर्थयित्वा हेमन्ते तालवृन्त इव ॥
किं ब्रवीषि -“कदा कथम्” इति । सखे श्रूयताम् ।
ननु कतिपयाहमिवाद्य मदद्वितीयः कर्णीपुत्रो विपुलामनुनेतुमभिगतः अथ द्वारको,ष्ठकस्थेनानेन क्तोधगधपरिक्षार्थमहमादितः सोपग्रहं कल्पितः । सोऽहं प्रियवचनोपन्यासेनाभिगत श्चौनाम् । सापिचेर्ष्यादोषदूषितलावण्या टृष्ट्वैव मां “कुतोऽयमायास” इत्युक्त्वा पराङ्मुखी संवृत्ता । ततः सपरिहासुमुक्ता मया-
किमुक्ता केन त्वं प्रतिवच इदं कस्य वचसः
तदावृता भूत्वा वद वदनचन्द्रेण वनिते ।
प्रसन्नां त्वां टृष्ट्वा भवति हि मम प्रीतिरतुला
भुजङ्गीव क्रुद्वा भ्रुकुटिरयमुद्वेजयति माम् ॥ इति ।
तदन्नतरं अवन्तिसुन्दर्या सख्याभिहिता-
किं कृत्वा भ्रकुटीतरङ्गविषमं रोषोपरक्तं मुखं
निश्वासज्वरिताधरं प्रियसखं प्राप्तं न संभाषसे ।
सौभग्येन हि शत्रुकर्म कुरुषे स्त्रीगर्वमेधाविनि
मानं मानिनि मुञ्च सर्वमचिरादत्यायंत छिद्यते ॥ इति ।
अथ गुणवती परिषदिति कृत्वा कर्णौपुत्त्त्रोऽप्यभिगतः । सचानया प्रणिपातावनतः सरोषमवधूयाभिहितः-
“कृत्वा विग्रहमागतोऽसि नियतं निर्वासितो वा तया
कान्तालापविनोदने किल वयं वि श्रामभूमिस्तव।
किं नैरश्यनिरुत्सुकस्य मनसः संधुक्षरणैर्मै पुनः
पातेनात्र किमौषधेन कटुना सुस्वागतं गम्यताम्”॥ इति ।
किं ब्रवीषि-“यद्येवं तामेवाविनीतां तावदेनामुपालब्धुं गच्छामि” इति। छन्दतः । तया गृहीतवाक्यो भवानस्तु । साधयापस्तावत् (परिक्रम्य) हा धिक् अपरं मूर्तिमत् गमनविघ्नमुपस्थितम् ॥

एष हि पाणिनिपूर्वको दन्दशूकपुत्त्त्रो दत्तकलशिर्नाम वैयाकरणः प्रतिमुखमेवोपस्थितोऽस्मान् । अपीदानीमविघ्नेनास्य वाग्वागुरमुत्तरेयम् । संरब्धमिवैनं पश्यामि । आम् वादविघट्टितेनानेन भवितव्यम्। तथाहि- अस्य कलहकण्डूबन्धुरा वागीषदपि स्पृष्टा देवकुलघण्टेवानुस्वनति । प्रियगाणिकश्चैष धान्त्रः । तां किल नूपुरसेनाया दुहितरं रशनावतिकां नाम व्यपदिशति । भोः कष्टम् । करभकण्ठावसक्तां वल्लकीमिव शोचमि तां तपस्वि नीं रशनावतिकाम् एष उद्यम्याग्रहस्तमभिमाषत एवास्मान्।
किमाह भवान्-“अपि सुखमशयिष्ठा” इति। का गति भवतु, समाजयिष्याम्येनम् । स्वगतमक्षरकोष्ठागाराय। वयस्य दत्तकलशे संरब्धमिव त्वां पश्यामि । कच्चित् कुशलम् । किं भवानाह-” एषोऽस्मि बलिभुगभग्भिरिव संघातबलिभिः कातन्तिकरैवस्कन्दितः “इति ! हन्त! प्रवृत्तं काकोलूकम्। सखे दिष्टया त्वामलूनपक्षं पश्यामि। किं ब्रवीषि- “काचेदानीँ मम वैयाकरणपारशवेषु कातन्तिकेष्वास्था " इति यथातथास्तु भवतः । साधयाम्यहम् किं ब्रवीषि-” क्व सञ्चिचीर्षुः. तिष्ठतावत्, किमसिदुद्रूषुः” इति। हाधिक्, प्रसीदतु भवान् । नार्हस्यस्मान् एवंविधैः काष्ठप्रहारनिष्ठुरैर्वागशनिभिरभिहन्तुम्। साधु व्यावाहरिकया वाचा वद । अभाजनं हि वयमीदृशानां करभोद्गारदुर्भगानां श्रोत्रविषनिषेकभूतानां वैयाकरणवाग्व्यसनानाम । किं ब्रवीषि- “कथमहमिदानीमनेकवावदूकवदि वृषभविघदृनोपार्जितामनेकधातुशतघ्निं वाचमुत्सृज्य स्त्रीशरीरमिव माधुर्यकोमलां करिष्यामि” इति अहो अनाथः खल्वसि। कुतः-
स्वैरालपे स्त्रीवयस्योपचारे
कार्यारम्भे लोकवादश्रये च।
कः संश्लेषः कष्टशब्दाक्षराणां
पुष्पापीडे कण्टकानां यथैव ॥
किमाह भवान्-“स्थाने खलु सा पुंश्चली शब्दशीफरमाभाषिता"रूष्टा” इति। तत् केयं पुंश्चलीति? किं ब्रवीषि-" प्रिया नाम केनोच्यते" इति । (विमृश्य) आ विदितम् । रशनावतिक एतच्चार्हति । नातश्च भूयः कष्टतरं- यत्सा प्रचुरचूतपादपान्तरचारिणीवकोकिला स्वभावखरं विल्वपादपमाश्रिता । कष्टं भोः महदिदं परिहासुवस्तु, आस्वादयिष्याम स्तावत् । वयस्य दत्तकलशे एवं स्वभावदक्षिणस्य भवतः कथं कामिनीविरक्तेति परं मे कुतुहलं श्रोतुम। एतदुच्यतां तावद्विस्तरतः । किमाह भवान्-’’ साधु सा पुंश्चली पूर्वैद्युः पर्वकाले वेशकोष्ठकमुपेत्य रिरंसया मां हविर्जुहूषन्तं जिघृक्षतीवोपासीदत् । ततोऽहमेनामवोचम्- वृषलि मा हविर्जुहूषन्तं मा मा स्प्राक्षीः" इति। हन्त! इदं तत् दुष्टगान्धर्वँ नाम । सुकुमारः खलु कामिनीसंपरिप्रहः कलहोऽयमुपचारो नु । मा तावदलोकज्ञ युक्तं नाम त्वया प्रणयोपगतां कामिनीं विरागयितुम्। स्त्रीजनोऽपि त्वया कष्टशब्दनिष्ठुराभिर्व्याकरणविस्फुलिङ्गभिर्वाग्भिरुत्त्त्रासयितव्यो भवति । इदमपि न त्वया श्रुतपूर्वम-
“रत्यर्थिनीँ रहसि यः सुकुमारचित्तां
कान्तां स्वभावमधुराक्षरलालनीयाम् ।
वागर्चिषास्पृशति कर्णविरेचनेन
रक्तां स वादयति वल्लकिमुन्मुकेन” इति ॥
सर्वथा दुष्करकारिणी खलु रशनावतिका, या भक्तमनेन कल्पयति। अथवा तु तस्याश्शापः । वयस्य दत्तकलशे श्रुतं श्रोत्ररसायनम् । स्वस्ति भवते । साधयाम्यहम् । (परिक्रम्य)
इदमपरं मनुष्यकान्तारमुपस्थितम्। एष हि धर्मासनिकपुत्रः पवित्रको नाम प्रच्छन्नपुंश्चलीको (आचौक्षः चौक्षवारित) राजमार्गोऽविदितजनसंस्पर्श परिहरन्निव संगृहीतार्द्रवसनः सङ्कुचितसर्वाङ्गोनासिकाद्वयमङ्गुलद्वियेन पिधाय चत्वरशिवपीठिकामश्रित्य स्थितः हास्यः खल्वेष तपस्वी । यथा तावदयं मत्तकाशिन्या दुहितरं वारुणिकां नाम बन्धकीमनुरक्त इति श्रूयते । तदिदानीं किमयमाकुलो भवति । इदमस्याविनयप्रचारपुस्तकभाण्डभुद्धाट्यते ।
अंघो पवित्रक किमिदमुष्णस्थलीकूर्मलीलया स्थीयते । किं ब्रवीषि-“राजमार्गै सुलभमविदितजनसंस्पर्शँ परिहरामि” इति अंद्यो अविज्ञातजनसंस्पर्शो नाम परिह्रियते भवता । वारुणीजघनपात्रं जाह्‌नवीतीर्थमिव परमपवित्रं ननु ।
किं ब्रवीषि-“नैतदस्ति” इति । किमिदं गोपालकुले तक्रविक्रयः क्रियन्ते। कितवेष्वपि नाम कैतवमारभ्यते । किं ब्रवीषि-“साधुमर्षयतु भवान् निपुणः खलु ते चारः” इति । कस्य चारः? कुतश्चरः? न सूर्यो दीपेनान्धकारं प्रविशति, न हि मे चारकृत्यमस्ति । सहस्रचक्षुषो हि वयमीदृशेषु प्रयोजनेषु । तदपनयशठप्रचारकञ्चुकम् । आकृतिमात्र भद्रको भवान् मिथ्याचारविनीतोह्यसि । अंघो सज्जनसब्रह्मचारिन् विटपारशवचौक्षपिशाचो वेश्याप्रसङ्गश्चेति आचारविरुद्धमेतत् विरुद्धाशनमिव मां प्रति भाति । अपिच, चौक्षोपचारयन्त्रितः तामुपगृह्णन् सन्दंशेन नवमालिकामपचिनोषि । किं ब्रवीषि- “सर्वथा निवृत्तोऽस्मि विभ्रमात्” इति । पायसोपवासमिव क एतत् श्रद्धास्यति । किं ब्रवीषि -“यद्येवं सुप्रसन्नोऽसिशिष्यत्वे निष्पादयतु मा भावान्” इति । दिष्ट्या भवान् सप्तथमारूढः । यदि च विटत्वे कृतो निश्चयः शीघ्रमेव वेशयुवतिप्रणयपरिधभूतमिथ्याचारकञ्चुकमुद्घाट्यताम् । घुष्यतां विटशब्दः । किमाह भवान्- “प्रणतोऽस्मि” इति । हन्तेदानीं दत्तः प्रदेयकः स्वैरमयन्त्रितश्चाचारः । अयमिदानीमाशीर्वादः -
आक्षिप्तस्त्रस्तवस्त्रां प्रशिथिलरशनां मुक्तनीवीं विहस्तां
हस्तव्यत्यासगुप्तस्तनविवरखलीमध्यनाभिप्रदेशाम् ।
लज्जाधीनोपविष्टां नहि नहि विसृजेत्येवमाक्रन्दमानां
शय्यामारोप्यकान्तां सुरतसमदयस्याग्रसस्यं गृहाण ॥
किं ब्रवीषि- “उपस्कारितं श्रेयः, चिकित्सितोऽस्मि” इति । यद्येवमाचार्यदक्षिणेदानीमेष्ठव्या ।
किं ब्रवीषि- “नन्वयमञ्जलिः” इति ।
भो नन्वयमतिव्ययः । भवतु । इदानीँ निष्पन्नशिष्याः स्मोवयम् । भवानिदानीमाचार्यो न शिष्यः । सगर्वं स्वैरमयन्त्रितश्चर साधयाम्यहम् । (परिक्रम्य)

ही ही साधु भोः नानकुसुमसमवायसांपिण्डितेन वसन्तमध्याह्नस्वेदावतारस्पर्शसुभगेन प्रत्युदगम्य प्रतीहारित इवग्हं माल्यापणप्रासादसंबाधाविनिः सृतेन विपणिवायुना नूनमुपस्थितोऽस्मि । (पुष्पवीथीँ विलोक्य) मूर्तिमतीव नानाकुसुमसमवायाङ्गप्रत्यङ्ग वसन्तवधूः । इयं हि -

पद्मोत्फुल्लश्रीमद्वक्त्रां सितकुसुममुकुलदशना नवोत्पललोचना
रक्ताशोकप्रस्पन्दोष्ठी भ्रमररुतमधुरकथिता वरस्तबकस्तनी ।
पुष्पापीडालङ्काराढ्या ग्रथतशुभकुसुमवसना स्त्रगुज्वलमेरबला
पुष्पन्यस्तं नारीरूपं वहति खलु कुसुमविपणिर्वसन्तकुडुम्बिनी ॥
भोः सर्वथा नानकुसुमसमवायगन्धहृदयोऽहं दुष्करं खलु करोमि एनामतिक्रामन् । (परिक्रम्य)
इदमपरं परिहासपत्तनमुपस्थितम् ।, एष हि मृदङ्गवासुलको नाम पुराणनाटकविटः भावजरद्गव" इति गणिकाजनोपपदितद्वितीयनामधेयः सुकुमारगायकस्य आर्यनागदत्तस्योदवसितान्निर्गच्छति । सुष्ठुतावदनेन नीलीकर्मस्नानानुलेपनपरिस्पन्देन जराकौपीन प्रच्छादमनुष्ठितम् । सर्वसखश्चौष धान्त्रः । न शक्यमिममनाभिभाष्यातिक्रमितुम् । परिहसिष्याम्येनम् । (निर्दिश्य) भाव जरद्गव अपि सुभिक्षमनया जरसा । किमाह भवान्-" एष भवतो निवैदात् जरद्भुजङ्ग इव जरात्वचमुत्सृजामि" इति । प्राणैस्सहेति पश्यामः । पुनर्युवैव भावः। सिद्धं हि ते मायया यौवनकर्म । तव हि -
रागोत्पादितयौवनप्रतिनधिच्छन्नव्यलीकं शिरः
सन्दंशापचितोत्तरोष्ठपलितं निर्मुण्डगण्डं मुखम् ।
यत्रेनारचितामृजागुणबलेनानेनचाङगस्य ते
लेपेनेव पुराणजर्जरगृहस्ययोजितं यौवनम् ॥
किं ब्रवीषि -" मदनीयं खलु पुराणमधु" इति । मनोरथ एष भावस्य । सर्वथा त्रिफलगोक्षुरलोहचूर्णसमृद्धिरस्तु भवतः । साधयाम्यहम् । (परिक्रम्य)
अये अयमिदानीँ सहसोपास्थिते मयि द्यूतसभालिन्दनतः शिलास्तंभेनात्मानामावृत्य स्थितः । (विलोक्य) भवतु। विज्ञातम् । शैषिलकोऽयम् । किं नु खल्वस्यास्मद्दर्शनपरिहारेण प्रयोजनम् । किं मालतिकादूतीस्वयंग्रहाविनय आत्मशङ्कामुत्पादयति । भवतु । परिहासप्‌लवेनैनमवगाहिष्ये ।
भो द्विजकुमारक किमिदमात्मप्रच्छादनेन सुहृत्समागमः च्छत्रेण चन्द्रातप इव प्रतिषिध्यते । एष निः सृत्यप्रहसितः । किं ब्रवीषि -" स्वागतं सुहृत्कर्णधाराय" इति । भ्रद्र कुतो मे सुहृत्कर्णधारता योऽयं (हं) त्वस्माद् द्वन्द्वरतिप्रणयसाहसात् बहिष्कृतः । किं ब्रवीषि-“नैतदस्ति” इति । अयि सुरतोँच्छवृत्ते मामैवम् । प्रकाशं खल्वेतत् यथा शैषिलकस्य गृहे शाक्यभिक्षुकी प्रतिवसतीति । साकिल त्वयि उत्पन्नकारमया मालाकारदारिकया मालतिकया त्वत्सकाशं दौत्येनानुप्रेषिता । तस्याश्च त्वया निरुपस्कृतभद्रकं रूपयौवनलावण्यमामिषभूतमुद्दिश्य तदात्वमेवावेक्षितम् । न आयतिकम् । किं ब्रवीषि-“सखे यत्सत्यमनागतसुखाशया प्रत्युपस्थितसुखत्यागो न पुरुषार्थः । न दीपेनाग्निमार्गणं क्रियते” इति । भोः सुष्ठु कृतम् । व़ञ्चितं खलु रहस्यं यदीदं न विस्तरतो ब्रूयाः। विस्तरत इदानीँ श्रोतव्यम् । किमाह भवान्- “क इदानीमविनयप्रञ्चमात्मनः प्रकाशयति। किन्तु समासतः श्रूयताम् । तया हि प्रसभमाक्रान्तयाभिहितोऽहम्-
‘संपातेनातिभूमिँ प्रतरसि शठ हे मान्याः खलु वयं
दौत्येनाभ्यागतायाः चपल न सदृशं यत्तेव्यवसितम् ।
कृछ्राद्द्रुद्धास्मि जाता परगृहवसतिं संप्राप्य विजने
मामैवं हा प्रसीद प्रिय विसृज पुरा कश्चित्प्रविशति ॥ इति’
इति। साधुः भोः अमृदङ्गो नाटकाङ्कस्संवृत्तः । अनेन सुरतसन्धिच्छेदेन ।स्थिरीकृतो वासिष्ठिपुत्रेण विटशब्दः । वयस्य सुभगो भव। साधयाम्यहम। (परिक्रम्य) हन्त! भोः सुरतसर्वातिथिसन्निवेशं वेशमनुप्राप्ताः योऽयम् -
कामावेशः कैतवस्योपदेशो
मायकोशो वञ्चनासन्निवेशः ।
निर्द्रव्याणामप्रसिद्धप्रवेशो
म्मयक्लेशस्सुप्रवेशोऽस्तु वेशः ॥
(परिक्रम्य) क एष मलिनप्रावारावगुण्ठितशरीरः सङ्कुचितसर्वाङ्गो वेश्याङ्गणात् द्रुततरमाभिनिष्क्रामति। अये संभ्रमाद् भ्रष्टं काषायान्तमुपलक्षये । आ! स एष धर्मारण्यनिवासी संखिलको नाम दुष्टशाक्यभिक्षुः । अहो! सारिष्टता बुद्धशासनस्य - यदेवंविंधैरपिवृथामुण्डैरसद्भिक्षुभिरुपहन्यमानं प्रत्यहमाभिपूज्यत एव। अथावा न वायसोच्छिष्टं तीर्थजलमुपहतं भवति । एष तिरस्कृत्यैवात्मानं दृष्ट्वैवास्मानभिप्रस्थितः । भवतु । मम वाक्शरगोचरोऽक्षतो न यास्यति । अभिभाषिष्ये तावत् ॥ (निर्दिश्य)
विहारवेताल क्केदानी मुलूक इव दिवाशङ्कितश्चरसि । किं बब्रीषि- " सांप्रतं विहारादागच्छामि” इति । भूतार्थँ जाने विहारशीलतां भदन्तस्य । धान्त्र क्वेदानीँ वेशवीथीदीर्घिर्कागतो बक इव शङ्कितश्चरसि। ननु सुरतपिण्ङपात मनुष्ठीयते? किं ब्रवीषि -" मातृव्यापत्तिदुः खितां संघदासिकां बुद्धवचनैः पर्यवस्थापयितुमागतोऽस्मि" इति । विनष्टं त्वन्मुखाद् बुद्धवचनं मदभ्रमादिवोपस्पर्शँ पश्यामः । भो कष्टम् -
वेश्याङ्गणंप्रविष्टो मोहाद्भिक्षुयर्दृच्छयावापि ।
न भ्राजते प्रयुक्तो दत्तकसूत्रेष्विवोङ्कारः ॥
किं ब्रवीषि- “मर्षयतु भवान् ननु सर्वसत्त्वेषु प्रसन्नचित्तेन भवितव्यम्” इति । स्थाने नित्यप्रसन्नो भदन्तः तृषणाच्छेदेनपरिनिर्वाणमवाप्स्यसि । एषोऽञ्जलिप्रग्रहं करोति । किं ब्रवीषि-“साधुमुच्येऽयम्” इति। भवतु । अलं वृथा श्रमेण । सर्वथा दुर्लभः खलु ते मोक्षः । किं ब्रवीषि-" गच्छाम्यहमकालभोजनमपि परिहार्यम्" इति। ही ही सर्वँ कृतम् । एतदवशिष्टमस्खलितपञ्चशिक्षापदस्य भिक्षोः । कालभोजनमतिक्तमति । ध्वंसस्व । वृथामुण्डनश्चित्रदुद्रूणापत्रपते । गच्छ,बुद्धोह्यासि । हन्त! ध्वस्त एषं दुरात्मा ।तत् क्व नु खल्विदानीँ दुष्टशाक्यभिक्षुदर्शनोपहतं चक्षुः प्रक्षालयेयम् । (परिक्तम्य)
साधु भोः विटजननयनपावनमुपस्थितम् । एष हिं वसन्तवत्या दुहिता वनराजिका नाम वनराजिकेव रूपवती कुसुमसमाजमिव शरीरे संनिवेश्य यथार्हँ पूजापुरस्कारमुपनीय कामदेवायतनादवतरति । यथा सर्वादरगृहीतपुष्पमण्डनाटोपा तथा शङ्के प्रियजनसकाशं प्रस्थितयानया भवितव्यम्। यावदेनां प्रियवचनोपन्यासेनोपसपर्पामि । (निर्दिश्य) वासु वनाराजिके वसन्तकुसुमाग्रयणं कुर्वन्त्य भवत्या नखल्वतिथिलोपः कृतः । किमाह भवती-“स्वागतमार्याय, अयमञ्जलिः” इति । प्रतिगृहति एष दाक्षिण्यपल्लवः । आपिच,अचिरागतस्तावद्वसन्तम्तवशरीरे संनिविष्टो ननु। किमाह भवती-“कथमिव” इति श्रूयतां तावत्-
वासन्तीकुन्दमिश्रैः कुरवककुसुमैः पूरितः केशहस्तो
लग्नाशोकश्शिखान्तः स्तनतटरचितास्सिन्दुवारोपहारः ।
प्रत्यग्रैश्चूतपुष्पैः प्रचलकिसलयैः कल्पितः कर्णपूरः
पुष्पव्यग्रहस्ते वहसि सुवदने मूर्तिमन्तं वसन्तम् ॥
किं ब्रवीषि-" एष ते प्रदेयकः" इति। भवतु । त्वय्येवतावत्तिष्टतु न्यासः । कालेनोपपादयिष्यामः । सुखं भवत्यै । प्रस्थितोऽस्मि ॥
अये इदमिरीमकामिन्यास्ताम्बूलसेनायगृहम् । नित्यसंनिहितश्चात्र धान्त्रः । किंनु प्रविशामि । (विचार्य) न शक्यमनभिभाष्यातिक्रमितुम् । यावत्प्रविशामि । (प्रविश्य) अस्तिकोऽपि भो सुहृतु गृहे शशं प्रतिपालयति? अये इयं तांबृलसेना अस्मद्बहुमान दविलम्बितत्वरितदविन्यासा सं प्रमाद् भ्रष्टमुत्तरीयमाकर्षन्ती प्रद्वार एव प्रत्युद्गता। अत्युपचारःखल्वेषः । शङ्के, न मां प्रविशन्त मिच्छतीति। तदेषा बहिरेव प्रयोजयितुं निर्गता। यथास्याः प्रत्यग्रसुरतचिह्नन्युपलक्षये सद्यः सुरतभुक्तमुक्तयानया भवितव्यम् । नूनं दिवासुरतसंमर्दमनुभूतवानिरिमः । अहो सुरतलोलुपः खलु धान्त्रः । भवतु । परिहसिष्याम्येनाम् । ताम्बूलसेने किमिदं दाक्षिण्यातिव्ययः क्रियते । कथं सुरतपरिश्रमश्वासविच्छिन्नाक्षरं “स्वागतं प्रियवयस्याय” इत्याह । अविरक्तिके तालवृन्तन्तावादनय । कृतव्यायामा खुल ताम्बूलसेना । चोरि अपि बलं वर्धते ? किं ब्रवीषि-“नखल्ववगच्छामि” इति । एतीत्प्रियजनपरिष्वङ्गसंक्रान्तमालेयकं स्तनतटद्वयम । पृच्छामि तावत् असन्तुष्टे अनवरतनिशाविहारस्येरिमस्यदिवापि नाम त्वया न दोयो विश्रमः । ननु सायंप्रातर्हौमो वर्तते । किं ब्रवीषि- “सदापि नाम परपक्षपरिहासप्रियो भावः । नैतदस्ति” इति । अयि दुर्विदग्धे न त्वया श्रुतपूर्वँ ‘आकारसंवरणमप्याकार एव’ इति। किं ब्रवीषि-“कथं जानीषे” इति ।चोरि कथामेदं न ज्ञास्यामि । यथा-
विखण्ङितविशेषकं मृदितरोचनाबिन्दुकं
कपोलतललग्रकेशमपविद्धकर्णौत्पलम् ।
मुखं व्रणितेपाटलोष्ठमलसायमानेक्षणं
प्रकाशयति ते दिवासुरतलोलुपं कामिनम् ॥
किं ब्रवीषि- “सद्यस्सुप्तोत्थिताहं, किमप्याशङ्कसे” इति । भवतु । संज्ञाप्ताः स्मः । न हि ते सृक्ष्ममपि किञ्चिदग्रह्यं पश्यामि- किन्तु ।
स्वप्नान्ते नखदन्तविक्षतमिदं शङ्के शरीरं तव
प्रीयन्तां पितरः स्वधास्तु सुभगे वासोऽपसव्यं च ते ।
किञ्चान्यत्त्वरया न लक्षितमिदं धिक्तस्य दुः शिल्पिनो
मोहाद्येन तवोभयोश्चणयोः सव्ये कृते पादुके ।
चोरि सहोढाभिगृहीता क्वेदानीँ यास्यसि । एषा हि प्रविश्यान्तर्गृहमुच्चैः प्रहसिता सह रमणेन। (कर्ण दत्वा) एष इरिमो व्याहरति-" ननु भोः धूर्ताचार्य प्रविश्यताम्" इति । सखे कः सुरतर थधुर्ययोर्योक्तृच्छेदं करिष्यति । एवमेवाविरतसुरतोत्सवोऽस्तु । गार्गोपुत्र साधयाम्यहम् । (परिक्रम्य)
अये केयमिदानीँ वाह्यद्वारकोष्ठके देवताभ्यो बलिमुपहरति।
निभृतवदना शोकग्लाना निरञ्जनलोचना
मलिनवसना स्त्रेहाभ (त्य) क्तप्रलम्बधनालका ।
शिथिलवलया पुष्पोत्क्षेपैश्च्युताङ्गुलिवेष्टना
तरुणयुवतिस्तन्वी भूयस्तनुत्वमुपागता ॥
आः सैषा भाण्डीरसेनाया दुहिता कुमुद्वती नाम । भोः कष्टम् अप्रत्यभिज्ञेया खल्वियं तपस्विनी संवृत्ता । तत् कस्येयं वेशवासविरुद्धं विरहयोग्यव्रतं चरति । आ विज्ञातम् । तमेषा मौर्यकुमार चन्द्रोदयमनुरक्तेति श्रूयते । स च सुभगः सामन्तप्रशमनार्थँ दण्डेनोद्यतः । हन्त ! भोः उपपद्यते चन्द्रोदयविरहात् कुमुद्वती निःश्रीका संवृत्‌ति। भोः प्रत्योदेशः खल्वियं कुलवधूनाम् । अपिचैषास्वभवनवलभीपुटस्थं विक्षिप्तबलिप्रणयोपस्थितं स्वागतव्याहारेणाभिनन्दति वायसम् ।
“भ्रदं ते वलभीगवाक्षतिलक श्राद्धोपहारातिथे
जीवन्त्यां मयि कच्चिदेष्यति स मे नित्यप्रवासी प्रियः
यद्यागच्छति गच्छ तावदितरद्वाराश्रितं तोरणं
निःशोका हि समेत्य मे प्रियतमं दास्यामि दध्योदनम्” इति ॥
अहो तु खलु निष्कैतवोऽनुरागः । अनपहासक्षममेतद्द्राजयौतकम् । महिष्यावकुण्ठनभागिनी भवत्वेषा । इतो वयमेकान्तेन गच्छामः । (परिक्रम्य)
अये अयमिदातीँ दक्षिणेन वृक्षवाटिकां भूषणप्रणादात्संभ्रान्तविहगसंकुलः शब्द इव श्रूयते । भवतु। अपावृतद्वारेयं वृक्षवाटिका । यावादवलोकयामि। (विलोक्य) ही ही ! ननु नयनोत्सवः खल्विह वर्तते । तथाहि- पाञ्चालदास्या दुहिता प्रियंगुयष्टिका नाम जधनोत्सको [धो] पपादिताहङ्कारेण यौवननवराज्यकेन विलोभ्यमाना नानाविलासभावहावदाक्षिण्यसमुदितसखजिनपरिवृता कन्दुकक्रीडामनुभवते। यैषा-
प्रबाललोलाङ्गुलिना करेण मानश्शिलं कन्दुकमुद्वहन्ती ।
स्वपल्लवाग्रभिहतैकपुष्पा नतोन्नता नीपलतेव भाति ॥
काममस्यास्सन्दर्शनमेवार्घो लाभः । भवतु । सन्तुष्टस्यापि जनस्य नत्वमृते पर्याप्तिस्ति । अतोऽभिभाषिष्ये तावदेनाम् (उपगम्य)
वासु प्रियङ्गुयष्टिके किमिदं कन्दुकक्रीडाव्याजेन नृत्तकौशलंप्रत्यादिश्यते सखीजनस्य । कथं स्थितमात्रदत्तप्रतिवचना क्रीडत्येव । यथा कन्दुकोत्पातान् गणयन्त्यस्याः परिचारिकाः, शङ्के पणितमनया सखीभिस्सहोपनिबद्धमिति। अहो पणितप्रीतिः । सर्वथा नतोन्नतावर्तनोत्पतनापसर्पणप्रधावनचित्रप्रचारमनोहरं यदृच्छया दृश्यमासदितं खल्वस्माभिः । किं बहुना । शङ्के, परिवर्तनानिवर्तनोद्वर्तनपर्याध्मातवसनान्तरप्रवेशकुतूहलो वायुरप्येनामभिकामोऽनुभ्रमतीतियत्सत्यं स्वभावदुर्बलत्वादेकपाणिग्रह्यस्य यौवनपीठपयोधरभारनमितस्य बिभेम्यहमस्या मध्यविसंवादनस्य । न शक्ष्याम्येनामुपेक्षितुम अभिभाषिष्ये तावत् । अयि यौवनोन्मत्ते स्वसौकुमार्याविरुद्धः खल्वयमारम्भः क्रियते । विरम तावत् । अये त्वां खलु ब्रवीमि कथमुपारोहत्येवास्याः प्रहर्ष । हन्त ! इदानीमाशास्ये-
प्रेँखोलत्कुण्डलाया बलवदनिभृते कन्द्रुकोन्मादितायाः
चञ्चद्बाहुद्वयायाः प्रविकचविसृतोद्गीर्णपुष्पालकायाः ।
आवर्तोद्भ्रान्तवेगप्रणयविलसितक्षुब्धकाञ्चीगुणाया
मध्यस्यावल्गमानस्तनभरनमितस्यास्य ते क्षेममस्तु ।
एषा पूर्णँ शतमिति व्यवास्थिता । वासु प्रियङ्गुयष्टिके सखीजनपणितविजयेन दिष्ट्या वर्धसे । किं ब्रवीषि-“स्वागतमार्याय हन्त ! विजयार्थँ गृह्यताम” इति । वासु त्वद्दर्शनमेवानर्घो लाभः स्मर्तव्याः स्मः । साधयामो वयम् ॥ (परिक्तम्य)
अये इदमपरं सुहृद्विनोदनायतनमुपस्थितम् । इदं हि चन्द्रधरकामिन्या नागरिकाया दुहितुः शोणदास्य गृहम् । एष प्रविशामि । न शक्यमनभिभाष्यातिक्रमितुम्। (प्रविष्टकेनावलोक्य) अये इयं शोणदासी किमपि चिन्तयन्ती द्वारकोष्ठक एवोपविष्टा । तत्किमिदानीनिर्मुक्तभूषणतया विविक्तशरीरलावण्या मलिनप्रावारार्धसंवृतशरीरारक्तचन्दानानुलिप्तललाटा सितदुकूलपट्टिकावेष्टितशीर्षाऽवनतवदनचन्द्रमण्डलाऽङ्काधिरूढां वल्लकीमीषत्कररुहैरवघदृयन्ती काकलीमन्दमधुरेणस्वरेण कैशिकाश्रयपाकूजन्ती तिष्ठति । उत्कण्ठितयाऽनया भविताव्यम् । कैशिकाश्रयं हि गानं पर्यायशब्दो रुदितस्य । किं नु खल्विदं अश्रुतपूर्वे मया चन्द्रोदयादेवप्रणयकलहकृतव्याहरणमनया (योः)
प्रियनिरोधात्पश्चात्तापगृहीतयाऽनया भवितव्यमः भवतु । परिहसिष्याम्येनाम् । वासु शोणदासि किमिदं, वेशतापसीवेषः परिगृह्यते ? वासु न खल्वयमपराद्धश्चन्द्रधरः ? कथं तेऽश्रुमोक्षः प्रतिवचनम्। निगृह्यतां बाष्पः । कथ्यतां तावत्, किं ब्रवीषि- “मानैकग्राहकुशलेन व्यापादितास्मि सखीजनेन” इति । ननु सर्वजनाधिका ते सखी शोणदासीँ त्वाप्युत्थापयति ? किं ब्रवीषि- “तस्या एव दुर्मन्त्रितैरापदमिमामुद्वहामि” इति । अपण्डिता खल्वसि । ननु सा त्वयैवं वक्तव्या-
प्रायश्शीतापराद्धा क्षणमपि न पुनर्दूति मानक्षमाहं
तुष्टेदानीमनार्यै भव मदनतुलां मामिहारोप्य घोराम् ।
मानैकग्राहवाक्यैरनुनयविधुरैस्तावकैस्तकृतं मे
पाणिभ्यां येन संप्रत्यनुचितशिथिलां मेखलामुद्वहामि ॥ इति ।

किं ब्रवीषि-“पराजित इदानीँ मदनेन मानः । किन्तु स एव तु सौभग्यकृतावलेपस्ते वयस्यः स्तब्ध " इति । ततः किमिदानीँ नाभिसार्यते ? सुन्दरि अलमलं व्रीलया ।
निश्वस्याधोमुखी किं विचरसि मनसा बाष्पपर्याकुलाक्षी
शैथिल्याद्भूषणानां स्वयमपि सुभगे साध्ववेक्षस्व भावत् ।
हित्वा कूलस्थवाक्यान्यनुनय रमणं किं वृथा धीरहस्तैः
संरूढस्यातिमूढे प्रणयसमुदस्यातिमानोऽवमानः ॥
किं ब्रवीषि- “स्त्रिया नाम पुरुषोऽनुनेयः ,ननु शौण्डिर्यम्” इति । मा तावत् । अतिमनस्विनि किं न गङ्गा सागरमभियाति ? अलमलं व्रीलया । अथवा सकामास्तु भवती । अहं चन्द्रधरमेवानुनयामि । किं बहुना । अद्यैव ते चिरविरहसमारोपितस्य मदनग्निहोत्रस्य पुनराधानां करोमि। कथमनवासितबाष्पयैव स्मितमनया । इदं खलु वर्षर्तुज्योत्स्न्नादर्शनम् । सुन्दरि अलमलं रुदितेन । प्रत्युपस्थितं कल्‌याणम । किं ब्रवीषि-“सत्यप्रतिज्ञेनेदार्नी भावेन भवितव्यम्” इति । प्रभाते ज्ञास्यसि । कथमुपरतो बाष्पः । साधयाम्यहम (परिक्रम्य)
अहो इदमपरं श्रृङ्गरप्रकरणमुपस्थितम् । एष हि नागरिकादुहिता गणिका मगधसुन्दरी नाम शरदमलशशिसदृशवदना असितमृदुकुञ्चितस्न्निग्धसुरभिशिरसिरुहा विकसितकुवलयदललोललोचनयुगा विद्रुमचारुतराताभ्राधरसंपर्कपरिपाटलदशनमयूश्वा कुन्दकुसुमकुलधवलसमसहितशिखरदतीपीनकपोलम्तनोरुजधनचक्रा बाह्यद्वारकवाटार्द्धसंवृतशरीरा दक्षिणहस्ताङ्गुलिद्वयेन तिरस्करिण्येकदेशमवलम्बमाना वामचरणकमलैकदेशेन भूतले तालमभिसंयोज्य रक्तस्वरमधुरतारसंयुक्तामसंकीर्णवर्णा मवधुष्टालङ्कारालङ्कृतां श्रोत्रमनोहरां षड्जग्रमाश्रयां वल्लभां नाम चतुष्पदां आकूजमाना नेत्र भूक्षेपैः संकल्पितान् भावानभिनयन्ती कस्यापि सुभगस्यागमनं प्रतीक्षमाणा तिष्ठति । भोः को नु खल्वयं महेन्द्र इव सुरतज्ञायाहूयते । भवतु । पृच्छाम्येनाम् । भवति वेशमेघविद्युल्लते पृच्छामस्तावत् -
शुक्लसितान्तरक्ता सापाङ्गावेक्षिणी विकसितेयम् ।
धन्यस्य कस्य हेतोश्चन्द्रमुखि बहिर्मुखी दृष्टि ॥
हा धिक् वित्रस्तमृगपोतिकेव सन्त्रस्तया दृष्ट्या मां निरीक्षते । प्रत्यागताचित्तयानया भवितव्यम् । कीं ब्रवीषि-” मामैवम्। बह्मचारिणी खल्वहं वसन्तमुपवसामि" इति । श्रद्धेयमेतत् । अयमिदानीँ सरसदन्तक्षतोऽधरोऽष्ठः किमिति वक्ष्यति ?
किं ब्रवीषि-“सावशेषतुषारपरूषस्य वसन्तवायोः पदान्येतानि” इति । भवतु तावत् । संज्ञप्ताः स्मः ।
दन्तपदजर्जरोष्ठी यथा च नियमं त्वमात्मनो वदसि ।
सुव्यक्तमव्रतघ्नं चुंबितचान्द्रायणं चरसि ॥
एषा संवृत्य कवाटेन मुखं प्रहसिता । तपोवृद्धिरस्तु भवत्यै । साधयाम्यहम् । (परिक्रम्य)
भोः एष कथंचिद् वेशयुवतिप्रलापश्रृंखलामुन्मुच्य प्राप्तोऽस्मि देवदत्ताया गृहम् । अपीदानीँ देवदत्ता गता स्यात् । किंनु खलु पृच्छेयम् । (विलोक्य) आ अयं तावद्‌वृक्षवाटिकापक्षद्वारेणातिक्रामति भावगन्धर्वदत्तस्य नाटिकाचार्यस्यान्तेवासी दर्दुरको नाम नाटेरकः । यावदेनं पृच्छामि । (निर्दिश्य) अंघो दर्दुरक कुतस्त्वमागच्छसि ? अपि जानीँषे किं देवदत्ताकरोतीति । किमाह भवान्-“गता खलु देवदत्ता सुखप्रश्नार्थमार्यमूलदेवं द्रष्टुम् । अहन्तु देवसेनां द्रष्टुमाचार्यैण प्रोषितोस्मि” इति । अथ केन कारणेन ? किं ब्रवीषि-" कुमुद्वतीभूमिकाप्रकरणपत्रमुपनयेति" इति । अथोपनीँतं, पत्रकं गृहीतं च तया ?
किं ब्रवीषि-" आचार्यगौरवात् प्रतिगृहीतं तत्पत्रकं तया पार्श्वस्थायास्तु सख्या हस्ते न्यस्तम् । अपि च कुमुद्वत्यै नमस्कृत्त्योक्तवती-" अस्वस्था तावदस्मि’ इति"इति। हन्त ! प्रसिद्धतर्काः स्मः । एतदस्याः कामैकतानतां सूचयति । अंघो दर्दुरक किमिदं पत्रकेऽभिलिखितम् ? किं ब्रवीषि-" वाचयस्व" इति । (गृहीत्वा वाचयति )
कान्तं कन्दर्पपुष्पं स्तनतटशशिनं रागवृक्षप्रवालं
शय्यायुद्धाभिघातं सुरतरथरणश्रान्तधुर्यप्रतोदम् ।
उन्मेषं विभ्रमाणां करजपदमयं गुह्यसंम्भोगचिह्नं
रागाक्रान्ता वहन्तां जघननिपतितं कर्कशाः स्त्रीकिशोर्यः ॥
साधु भोः कर्कशस्त्रीकिशोरीप्रतारणायभिप्रस्थितस्य मे महदिदं मङ्गलमर्थसिद्धिं सूचयति । अंघो दर्दुरक अपि जानीषे कुत्रस्था देवसेनेति । किं ब्रवीषि -" वृक्षवाटिकां गता" इति । हन्त ! मदनकर्मान्तभूमौ वर्तते । साधु । गच्छतु भवान् । प्रविशामस्तावत् (प्रविश्य) अये इयमियं देवसेना-
कृशा विवर्णा परिपाण्डुनिष्प्रभा
प्रभातदोषोपहतेव चन्द्रिका ।
वहत्यसाधारणगूढवेदनं
मानोमयं व्याधि मदारुणौषधम् ॥
आ यथैवं सर्वगुह्यधारिण्या स्नेहातिसृष्टसखीभावया प्रियवादनिकया नाम परिचारिकया सह परिवर्जितान्यजना वायुं पर्युपास्ते । भवतु । एतदप्यस्वा एकतानतां सूचयति । सर्वाऽपि विविक्तकाम । कामी भवती । अस्माद्विषयगतेयम् । यावदेनामुपसर्पामि । (उपेत्य)
वासु देवसेने विस्त्रम्भालापविच्छेदकारिणो न खलु वयमसूययितव्याः । किं ब्रवीषि-‘‘स्वागतं भवाय। अभिवादयामि" इति । भवतु । प्रतिगृहीतस्समुदाचारः । अलमलं प्रत्युत्यानयन्त्रणया । किमाह भवती- “उपविश, इदमासनम्” इति । बाढमुपविष्टोस्मि । वासु किमिदं बन्धुजनसन्तापः क्रियते ? को नामायमचक्षुर्ग्रह्यो गूढवेदनः स्वयंग्राह्यः प्राक् केवलो व्याधिः । किं ब्रवीषि- “न खलु किञ्चित्” इति । अयि पण्डितमानिनि अलमस्मान् विक्षिप्य ।सदापि नाम त्वमस्माकं बालक्रीडनकान्वेषणादिषु प्रणयवती । अपिच, सएवाहं मूलदेवसखः शशः । तदुच्यतां सद्भावः । किमाश्रयोऽयं सन्तापः ? तव हि -
अव्याधिग्लानमङ्गं करतलकमलापाश्रितं गण्डपार्श्वँ
दृष्टिर्घ्यानैकताना जलमिव हृदयं जृंभणा वर्णभेदः ।
निश्वासायासकर्ता न च न रतिकरस्तापनस्चोन्द्रियाणा
मेकद्रव्याभिलाषी प्रीतनव इव ते चोरि कोऽय विकारः ॥
कथं निश्वसितमनया । हन्त सन्धुक्षितो मदनाग्निः । भवतु । इदानीमात्मगतं भावमस्या ज्ञास्यामः । यदि वयमपात्रीभृता विस्त्रंभाणा मरोगास्तु भवती । साधयाम्यहम् । किंब्रवीषि -" चपलः खलु भावः" इति । हन्त! प्रतिज्ञातम् । एषापि मर्म वक्ष्यति । वासु कुतो मे धृति स्तवेदृशेन शरीरोदन्तेन । अपि च, दीर्घसूत्रता नाम कार्यान्तरमत्पादयति । तदुच्यतां सन्तापकारणम् । किं ब्रवीषि - “न खलु मे भावं प्रति गुह्यमस्ति । अयन्तु वसन्तस्वभावः- यन्मे गुरुजनयन्त्रणया निभृतस्यापि मनसः किमप्यकारणेनौत्सुक्यमुत्पादयति” इति । साधु भोः नायं व्याधिव्यपदेशः चोरि एतदपि जानीषे साधु युवती खलु देवसेना संवृत्तेति। वासु यद्येवं अलमलमनुबन्धेन । ऋतुपरिणामेन स्वस्था भविष्यसि । कथं ब्रीलितमनया । प्रियवादिनिके किमिदं तालपत्रकेऽभिलिखितम् ? किं ब्रवीषि-“नाटकभूमिका " इति । पश्यामस्तावत् । (गृहीत्वा वाचयति)-
“कुमुद्वतीप्रकरणे शूर्पकसक्तां राजदारिकां धात्री रहस्युपालभते ।

" उन्मत्ते नैव तावत्स्तनविषममुरो नोद्गता रोमराजिः
न व्युत्पन्नासि च त्वं व्यपनययुवतीदोहलं दुर्विदग्धे ।
व्युत्पन्नाभिः सरवीभिः सततमविनयग्रन्थमध्याप्यसे त्वं
केनेदं बालपक्वे मनसिजकदनं कर्तुमभ्युद्यतासि’ ॥
किमाह देवसेना-“एतत्तावन्मयैव न श्रुतमस्ति” इति । हन्त ! एष उद्गीर्णः स्वभावः । इत्थमहमपि कामयामीत्युक्तं भवति । किमाह देवसेना-“हलग्राही भावः” इति । वासु अलमलमस्मान् विक्षिप्य । मेघावगूढमपि चन्द्रमसं कुमुद्वतीप्रबोधः सुचयति । गच्छ पुरुषद्वेषिणिः आपन्नेदानीमसि ॥
नैवाहं कामयामीत्यसकृदाभिहितं यत्त्वया गूढभावे
सा त्वं तन्वीस्वभावत्कथय तनुतरा चोरि केनासि जाता ।
हस्तप्रत्यस्तगण्डे प्रशिथिलवलये भिन्ननिः श्वासवक्त्रे
व्याधिक्लिष्टो जनोऽयं किमिदमतिशठे वाह्यते धीरहस्तः ॥
किमाह प्रियवादिनका-” सति प्रवृत्ते कामतन्त्रप्रकरणे दिष्ट्येदानीमस्मत्स्वामिनी पुरुषविशेषमनुरक्ता, न पृथग्जनम्” इति । तत्क स्यायमवन्तिनगर्याँ पुरुषविशेषशब्दः प्रचरति ? किमाह भवती “कस्य तावत्त्वयाभ्युपगम्यते” इति । कस्यान्यस्य, ननु कर्णोपुत्रस्य । स हि -
कुले प्रसूतः श्रुतवानविस्मितः
स्मिताभिभाषी चतुरो विमत्सरः ।
प्रियंवदो रूपवयोगुणान्वितः
शरीरवान् काम इवाधनुर्धरः ॥
किं अधोमुस्वी देवसेना संवृत्ता । अलमलमनिभृते दुकूलदशान्तोद्वेष्टनेन । कथ्यतां तावत् । किमभाजनीभविष्यामः ? कथं समौनमेवास्ते । अथवा लज्जा नाम विलासयौतकं प्रमदाजनस्य, विशेषतश्चाप्रौढकामिनीनाम् । तदेषा कथमिव स्वयं वक्ष्यति । तत्कामं पुरुषविशेष इत्यसाधारण एव शब्दः कर्णौपुत्रे प्रतिवसति । तथापि नाम त्वलब्धगांभीयौ धृतिमुपयात एनां व्याहारयामि । वासु देवसेन किमस्माकं पररहस्यश्रवणेन । उदासीनाः खलु वयम् । तदामन्त्रये भवतीम् । कर्णौपुत्रोऽपि पाटलीपुत्रविरहात् स्वजनदर्शनोत्सुको भृशमस्वस्थः । स एषोऽद्य श्वो वा प्रस्थास्यते । पुनर्द्रष्टस्मि भवतीम् । किन्तु स्वस्थरूपया त्वया भवितव्यम् । स्मर्तव्याः स्मो वयम् । (इत्युत्थाय प्रस्थितः । सत्वरं निवृत्त्य) अये केनैतदुक्तं “हन्त व्यापन्नेदानीम्” इति । आ देवसेना कथं रोदिति । वासु किमिदम् । अलमलं रूदितेन । भवतु । गृहीतम् । दिष्ट्या पात्रगतो मनोरथः । कर्णोपुत्रस्यापि त्वन्मय एव व्याधिः । तदितरेतरस्यौषधत्वेन कल्पयितव्यम् । किं ब्रवीषि-“किमुच्चैः कथयसि, दुःखशीलः खलु भावः” इति । अलमलंयन्त्रणया-
दक्षात्मजाः सुन्दरि योगताराः
किं नैकजाताः शशिनं भजन्ते ।
आरुह्यते वा सहकारवृक्षः
किं नैकमूलैन लता द्वयेन ॥
किं ब्रवीषि-“तथेदानीँ संप्रधार्यतां यथोभयं रक्ष्यते” इति । अथ किम। संप्रधारितमेवैतत् । श्वः किल ते भगिनी यथोचितमाचार्यगृहं नृत्तवारेण यास्यति । ततो लब्धान्तराविस्त्रंभा सुभगेसुखप्रश्रव्याहारव्याजेन त्वं वा तत्र यास्यसि स वेहागामेष्यति । किमियं विमर्शडाला वाह्यते ? किमाह प्रियवादिनिका -“न ममेहार्यपुत्रस्यागमनं रोचते-यथात्रभवत्यास्तत्र गमनम् । गणिकाजनो नाम पैशुन्यप्राभृत एषा जातिः । तस्मादहमेव यथोचितं योजयिष्यमि- यथा नृत्तवारात्प्रस्थिताद्य देवदत्ता स्वयमेव मम स्वामिनीँ सुखप्रश्राभिगमनेनार्यमूलदेवसकाशमनुनेष्यति” इति । साधु प्रियवादिनिके इदानीँ खलु यथार्थनामता । उचितं चास्यास्तत्र गमनम् । किन्तु स्वस्थरुपयानया भवितव्यम् । किमाह देवसेना - “ननु भावदर्शनात्स्थैवाहम” इति । प्रियं मे । कृतं मदनकर्म । कर्णोपुत्रप्राणधारणार्थँ किञ्चित्स्मरणीयं दातुमर्हसि । किं ब्रवीषि -“किं दास्यामि” इति । किं नाम विचार्यते । इदं खलु-
ईषल्लीलाभिदष्टं स्तनतटमृदितं पत्रलेखानुविद्धं
खिन्नं निश्वासवातैर्मलयतरुरसक्लिष्टकिंजल्कवर्णम् ।
प्रातर्निर्माल्यभूतं सुरतसमुदयप्राभृतं प्रेषयास्मै
पझ्मं पझ्मवदाते करतलयुगलभ्रमणक्लिष्टनालम् ॥
कथं कटाक्षपातेनैतदनुज्ञातमनया । हन्त! प्रतिगृहीतं प्राभृतं सुरतसत्यंकारस्य । यावादनेनौषधेन कर्णोपुत्रं सज्जवियामि (गृहीत्वोत्थाय रिथ्त्वा) प्रस्थितोऽस्मि । सुखं भवत्यै । सुभगे गृह्यतामाशीः -
भयद्रुतमसूचितप्रचलमेखलानू पुरं
सशङ्कशिथिलोपगूहमवमुक्तनीवीपथम् ।
स्वयं समभिवाहयत्वयमुदात्तरागायुधः
तब प्रथमचोरिकासुरतसाहंस मन्मथः ॥
(इति निष्क्तान्तो विटः )
इति श्रीशूद्रकविरचितः पद्मप्राभृतकं नाम भाणः
समाप्तः
शुभम्

]