कर्पूरमञ्जरी

[[कर्पूरमञ्जरी Source: EB]]

[

KĀVYAMĀLĀ. 4.

<MISSING_FIG href="../books_images/U-IMG-1729381138Screenshot2024-10-20045944.png"/>

THE

KARPŪRAMAÑJARĪ

(With the Commentary of Vāsudeva)

AND

THE B

Ā

LABH

Ā

RATA

OF

R

Ā

JAŚEKHARA.

_________________

EDITED BY

MAH

Ā

MAHOP

Ā

DHY

Ā

YA PAṆDIT DURG

Ā

PRAS

Ā

DA

AND

K

Ā

SIN

Ā

TH P

Ā

DURANG PARAB.

_________________

Second Revised Edition,

<MISSING_FIG href="../books_images/U-IMG-1729381329Screenshot2024-10-20050042.png"/>

PRINTED AND PUBLISHED

BY

TUK

Ā

R

Ā

M J

Ā

VAJĪ

PROPRIETOR OF JAVAJI DADAJI’S “NIRNAYA-SAGARA’ PRESS.

BOMBAY.

_________________

1900.

काव्यमाला. ४.

<MISSING_FIG href="../books_images/U-IMG-1729381015Screenshot2024-10-20045944.png"/>

श्रीराजशेखरविरचिता

कर्पूरमञ्जरी

वासुदेवकृतया टीकया समेता ।

बालभारतं च ।

<MISSING_FIG href="../books_images/U-IMG-1729380957Screenshot2024-10-20050118.png"/>

जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय-

पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व-

पाण्डुरङ्गात्मजकाशिनाथशर्मणा च

संशोधितम्।

द्वितीयं संस्करणम् ।

<MISSING_FIG href="../books_images/U-IMG-1729380894Screenshot2024-10-20050158.png"/>

तच्च

मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा

प्राकाश्यं नीतम्।

<MISSING_FIG href="../books_images/U-IMG-1729380894Screenshot2024-10-20050158.png"/>

१९००

<MISSING_FIG href="../books_images/U-IMG-1729380894Screenshot2024-10-20050158.png"/>

(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपतेरेवाधिकारः ।)

<MISSING_FIG href="../books_images/U-IMG-1729380894Screenshot2024-10-20050158.png"/>

राजशेखरः ।

<MISSING_FIG href="../books_images/U-IMG-1729382052Screenshot2024-10-20050158.png"/>

माधवकृतशंकरविजय–भोजकृतसरस्वतीकण्ठाभरण–क्षेमेन्द्रकृतौचित्यविचारचचर्चा-सुवृत्ततिलक-कविकण्ठाभरण–सोमदेवकृतयशस्तिलकचम्पू–शार्ङ्गधरपद्धति–आरोहकभगदत्तजह्लणसंगृहीतसूक्तिमुक्तावलि-हरिकविसंगृहीतसुभाषितहारावलि-वल्लभदेवसंगृहीतसुभाषितावलि–राजशेखरकृतबालरामायण-बालभारत-कर्पूरमञ्जरी-विद्धशालभञ्जिकादि-संस्कृतग्रन्थेषु, तथा विल्सनपण्डितकृत ‘हिन्दू थीएटर’–भट्टमोक्षमुल्लरकृत ‘इण्डिया, व्हॉट् इट् क्यान् टीच् अस्’–वेबरपण्डितकृत ‘हिस्टरी ऑफ् इण्डियन् संस्कृत लिटरेचर’– अनेक पण्डितसंकलित ‘इण्डियन् आण्टिक्केरी’– डॉक्टरपीटर्सनरिपोर्ट-डॉक्टरभाण्डारकररिपोर्टादिइङ्ग्लिशभाषानिबद्धेषु ग्रन्थेषु च लिखितं राजशेखरविषयं सम्यग्विलोक्य विस्तरभिया चात्र तत्सर्वं परित्यज्य तन्निर्गलितार्थ एव संक्षेपेण लिख्यते.
तत्र शंकरविजये ‘तन्नोदितः कश्चन राजशेखरः’ इति द्वितीयसर्गप्रारम्भे, ‘एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम्। केरलक्षितिपतिर्हि दिदृक्षुः प्राहिणोत्सचिवमादृतभिक्षुः॥’ ‘तेन पृष्टकुशलः क्षितिपालः स्वेन सृष्टमथ शुात्रवकालः। हाटकायुतसमर्पणपूर्वं नाटकत्रयमवोचदपूर्वम्॥’ इति पञ्चमसर्गे, ‘कविताकुशलोऽथ केरलक्ष्माकमनः कश्चन राजशेखराख्यः। मुनिवर्यममुं मुदा वितेने निजकोटीरनिघृष्टपन्नखाग्रम्॥ प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः’ इत्यादि चतुर्दशसर्गे च राजशेखरकथा वर्तते. नाटकत्रयनामानि तु शंकरविजये न सन्ति. एतेन नाटकत्रयकर्ता केरलक्षितिपालो राजशेखरः सप्तमशतकप्रारम्भसमुद्भूतशंकराचार्यसमकालीन आसीदिति स्फुटमेव प्रतीयते. किं तु भोजप्रबन्धादिवच्छंकरविजयस्यापि समयादिनिर्णयविषये विश्वासानर्हत्वान्नैतच्छ्रद्धेयम्. न चास्य शंकरविजयस्य कर्ता पण्डितशिरोमणिः सायनमाधवाचार्यः. अयं च कश्चिदन्य एव नवकालिदासापरपर्यायो माधव इति भाति.

राजशेखरकृतेषु बालरामायणादिषु महेन्द्रपालस्य वर्णनमस्ति. तत्र ‘इण्डियन् आण्टिक्केरी’ नामकमासिकपुस्तकस्य पञ्चदशे भागे ११२ मिते पृष्ठे ‘ॐस्वस्तिश्रीमहोदयसमावासितानेकगोहस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्— परमभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवः श्रावस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिबालयिकाविषयसंबद्धपानीयकग्रामसमुपगतान्सर्वानेव यथास्थाननियुक्तान्प्रतिवासिनश्च समाज्ञापयति—संवत्सर १००५०५ माघसुदि१० निबद्धम्’ इति महेन्द्रपालस्य दानपत्रं मुद्रितमस्ति. अत्र पृथक्पृथग्लिखितानामङ्गानां संकलने जाता १५५मिता संख्या. अयमेव श्रीहर्षवर्धनसंवत्सरः. तत्र च ६०६ वर्षेषु योजितेषु जातः ७६१ मितः ख्रिस्तसंवत्सरः. ‘अयमेव पूर्वलिखितदानपत्त्रसमयः’ इति फ्लीटपण्डितः. एतदनुरोधेनैव सुभाषितावल्युपोद्धाते राजशेखरसमयो लिखितः किं त्वत्र श्रीहर्षवर्धनसंवत्सरादिकल्पनं युक्तिरहितमिति७६१ मितख्रिस्तसंवत्सरो राजशेखरोबभूवेत्यपि संदि-

ग्धमेव. दानपत्त्रं त्वेतद्राजशेखरवर्णितमहेन्द्रपालस्यैवास्ति, यतोऽस्मिन्दानपत्त्रे महोदयस्य नाम वर्तते. राजशेखरकृतबालभारतप्रस्तावनायां च’ कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः’ इत्याद्यस्ति. महोदयमिति कान्यकुब्ज(कनौज)स्य नामान्तरम्. ‘कान्यकुब्जं महोदयम्’ ‘कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत्’ इति हैमनाममालायाम्, ‘महोदयः कान्यकुब्जे’ इति विश्वप्रकाशमेदिनिकोषयोश्च वर्तते. बालरामायणे दशमेऽङ्गेऽपि ‘**लक्ष्मणः—**इदं पुनस्ततोऽपि मन्दाकिनीपरिक्षिप्तं महोदयं नाम नगरं दृश्यते। **रामः—**शश्वत्सुधामवसुधामहितं द्विषद्भिर्नो गाहितं भवति गाधिपुरं पुरस्तात्। वैदेहि देहि शफरीसदृशं दृशं तदस्मिन्नितम्बिनि नितम्बवहद्युसिन्धौ॥ ८८ ॥ इदं द्वयं सर्वमहापवित्रं परस्परालंकरणैकहेतुः। पुरं च हे जानकि कान्यकुब्जं सरिच्च गौरीपतिमौलिमाला॥८९॥’ इत्याद्यस्ति. एतेन राजशेखरकविः कान्यकुब्जमहीपतेर्महेन्द्रपालस्य सभायामासीदिति ज्ञायते. बाणभट्ट-भवभूति-वाक्पतिराज-श्रीहर्षाद‌योऽन्येऽपि बहवो महाकवयः कान्यकुब्जनरपतीनां हर्षवर्धनयशोवर्मप्रभृतीनां सभासु स्वस्वसमय आसन्.

राजशेखरो दशमे शतके बभूवेति भाण्डारकरपण्डितः, एवमेव वेबरपण्डितः, एकादशशतकसमाप्तौ द्वादशशतकप्रारम्भे वेति विल्सनपण्डितः, बालरामायणकर्ता राजशेखरश्चतुर्दशशतक आसीदिति च भट्टमोक्षमुल्लरनामा वदति.
वस्तुतस्तु राजशेखरकविः ८८४ मितख्रिस्तसंवत्सरादनन्तरम् ९५९ संवत्सरात्पूर्वं मध्ये वर्तमानेषु ७५ वर्षेषु बभूव.यतः ८८४ मितसंवत्सरपर्यन्तं कश्मीरान्पालयितुरवन्तिवर्मणः समकालीनयोरानन्दवर्धनरत्नाकरयो राजशेखरकृतौ स्तुतिश्लोकौसूक्तिमुक्तावलि-सुभाषितहारावल्योर्विशिष्टकविप्रशंसाप्रकरणे लभ्येते. तत्कर्ता कश्चिदन्यो राजशेखर इत्यपि न वक्तुं युक्तम्, यतो बालरामायणवर्णितानामकालजलद-तरल-सुरानन्दकवीनां राजशेखरपूर्वपुरुषाणां नातिप्रसिद्धानामपि देशकुलनामग्रहणपूर्वकं वर्णनश्लोकास्तत्रैव विद्यन्ते, तन्मध्य एव रत्नाकरानन्दवर्धनयोरपि वर्णनमस्ति. तेन सर्वेषां श्लोकानां कर्ता एक एव राजशेखरः अथ च ८८१ मिते शके ९५९ मिते वा ख्रिस्ताब्दे जैनसोमदेवेन यशस्तिलकचम्पूः प्रणीता. तत्र तृतीय आश्वासे माघादिकविनामसु राजशेखरस्यापि नाम वर्तते. तस्मात्तत्कालात्प्राचीनो राजशेखरः. न च प्रबन्धकोषकर्तुर्जैनराजशेखरसूरेस्तत्र नामास्तीति वक्तव्यम्. प्रबन्धकोषस्य १३४७ मिते संवत्सरे निर्माणाद्राजशेखरसूरेर्यशस्तिलककर्तुरर्वाचीनत्वात्.
राजशेखरो ब्राह्मणः क्षत्रियो वासीदिति संदिग्धमेव. यतो बालरामायणादिषु ‘उपाध्यायः’ ‘गुरुः’ इत्यादि पदैरात्मानं विशिनष्टि, तेन तस्य ब्राह्मणत्वं स्फुटं प्रतीयते, क्षत्रियस्याध्यापनादिष्वनधिकारात्. राज्ञां शेखरो राजशेखर इति तु समासो नोचितः. राजा चन्द्रः शेखरो यस्य स इत्युचितः समासः. यतः कर्पूरमञ्जरीप्रस्तावनायाम् ‘रजनीवल्लभशिखण्डः’ इति राजशेखरनाम्नः पर्यायशब्दो वर्तते. रजनीवल्लभश्चन्द्रः शिखण्डः शेखरो यस्य इति तदर्थः. अथ च कर्पूरमञ्जरीप्रस्तावनायामेव ‘चाहमानकुलमौलिमालिका

राजशेखरकवीन्द्रगेहिनी’ इत्याद्यस्ति. चाहमानकुलं ‘चौहाण’ इति प्रसिद्धं क्षत्रियकुलम्. यस्मिन्हम्मीरपृथ्वीराजादयः क्षितिपाला अभूवन्. तत्कुलप्रसूता च कथमस्मिन्युगे ब्राह्मणस्य भार्या भवितुमर्हति? तस्माद्राजशेखरः क्षत्रिय आसीदिति कथमपि नातीवानुचितं भाति.

राजशेखरो महाराष्ट्रदेशोत्पन्नश्चेदिदेशोत्पन्नो वेत्यत्रापि संदेह एव. यतो बालरामायणप्रस्तावनायां स्वप्रपितामहमकालजलदं महाराष्ट्रचूडामणिं वदति. सूक्तिमुक्तावल्यादिस्थकविवर्णनश्लोकेषु स्वपूर्वपुरुषं सुरानन्दं चेदिमण्डलमण्डनं च वदति. भाति चायं वेदिदेशोद्भवः, चेदिदेशमहीपतीनां करचुलीनामेव विद्धशालभञ्जिकादिषु प्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णनश्लोकेषु टिप्पण्यां स्फुटीभविष्यति. बिह्लणकविर्यथा स्वदेशं कश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि स्वदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये.
दशरूपकावलोक-सरस्वतीकण्ठाभरण-क्षीरस्वामिकृतामरकोषटीका-मुकुटकृतामरकोष- टीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन- काव्यप्रकाश-साहित्यदर्पण-शार्ङ्गधरपद्धति-सूक्तिमुक्तावलि-सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखरश्लोकाः, श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था अस्मन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मीरदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत् (राजतरङ्गिणी ४।४८८). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्, यतः क्षीरस्वामिकृतामरकोषटीकायां ‘श्रीभोजः’ इति नाम बहुषु स्थलेषु वर्तते. भोजश्चैकादशशतकमध्यभाग आसीत्. तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी कथमष्टमशतकोत्तरार्धसमुद्भूतस्य जयापीडनृपतेरध्यापको भवितुमर्हति? तस्मात्क्षीरोपाध्यायात्क्षीरस्वामीभिन्न एव.
बालरामायणम्, बालभारतम् (प्रचण्डपाण्डवम्), कर्पूरमञ्जरी, विद्धशालभञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव, बालभारतस्य केवलमङ्कद्वयम्, नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका, वासुदेव-धर्म-दास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते. बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्मा-अकालजलद-तरल-सुरानन्द-कविराजानाम्, कर्पूरमञ्जर्यां च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटिसानां कवीनां नामानि सन्ति. तेषु शंकरवर्मापराजितौ राजशेखरसमकालीनौ, अकालजलद-तरल-सुरानन्द-कविराजा राजशेखरस्य पूर्वपुरुषाः तेषु कविराजो राघवपाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूति-हाक-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिर्महेन्द्रपालः स्वशिष्यत्वेन वर्णितः बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोर्महीपालदेवस्यापि वर्णनमस्ति. निर्भयराजोऽवि राजशे-

खरस्य शिष्य एवासीत्. ‘बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः’ इति कर्पूरमञ्जरीप्रस्तावनायाम्, ‘विभ्रमराजस्य तथोपाध्यायः’ इति कामराजसंमतः पाठः. निर्भयराज इति महेन्द्रपालस्यैव नामान्तरमिति केचित्. महीपालदेवश्च चण्डकौशिकप्रस्तावनायामार्यक्षेमीश्वरेणापि वर्णितः.

‘कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहतः प्रौढान्ध्रीस्तनपीडितः प्रणयिनीभ्रूभङ्गवित्रासितः। लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं संप्रति राजशेखरकविर्वाराणसीं वाञ्छति॥’ अयं श्लोक औचित्यविचारचर्चायाम्, ‘दातुर्वारिधरस्य-‘इत्यादि श्लोकाः सुभाषितावल्याम्, ‘भासो रामिलसौमिलौ’ इत्याद्याः श्लोकाः शार्ङ्गधरपद्धतौ, ‘अकालजलदेन्दोः सा’ इत्याद्या बहवः श्लोकाः सूक्तिमुक्तावलि-सुभाषितहारावल्योराजशेखरनाम्नासमुद्धृताः सन्ति. ते च प्रसिद्धेषु राजशेखरग्रन्थेषु न प्राप्यन्ते. तस्मात्सन्त्यन्येऽपि केचन राजशेखरकृता ग्रन्था इति ज्ञायते. ‘विद्धि नः षट्प्रबन्धान्’ इति च बालरामायणप्रस्तावनायां स्वयमेव राजशेखरो वदति. अस्य कवेः शार्दूलविक्रीडितच्छन्दोनिबद्धाः श्लोका अतिसमीचीनाः सन्ति. ‘शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः। शिखरीव परं वक्रैःसोल्लेखैरुच्चशेखरः॥’ इति सुवृत्ततिलके क्षेमेन्द्रः. ‘आगस्कारिणि कैटभप्रमथने तत्ताडनार्थं रुषा नाभीपङ्कजमस्त्रतां गमयितुं जाते प्रयत्ने श्रियः। स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षणादब्रह्मण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः॥ अयं श्लोकः सूक्तिमुक्तावलौ राजशेखरान्तेवासिनाम्ना समुद्धृतः तेन राजशेखरस्य कश्चन शिष्योऽपि कविरासीत्.

सूक्तिमुक्तावलि-सुभाषितहारावलि-शार्ङ्गधरपद्धतिषु राजशेखरकृताः प्राचीनकविप्रशंसाश्लोकाः केचन समुपलभ्यते, ते सर्वेऽप्यत्युपयुक्तत्वादत्र कविनामक्रमेण समुद्ध्रियन्ते—

अकालजलदेन्दोः सा हृद्या वचनचन्द्रिका।

नित्यं कविचकोरैर्या पीयते न च हीयते॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

अकालजलदकवी राजशेखरस्य प्रपितामह आसीत्. ‘अकालजलदस्य प्रणप्तुः’ इति विद्धशालभञ्जिकाप्रस्तावनायाम्, ‘स मूर्तोयत्रासीद्गुणगण इवाकालजलदः सुरानन्द सोऽपि श्रवणपुटपेयेन वचसा। न चान्ये गण्यन्ते तरलकविराजप्रभृतयो महाभागस्त स्मिन्नयमजनि यायावरकुले॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थेदौर्दुकिः (दौहिकिः) शीलवतीसूनुरुपाध्यायश्रीराजशेखरः’ इति च बालरामायणप्रस्ताव नायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युपलब्धः, केवलं ‘भेकैः कोटर शायिभिः’ इत्यादिश्लोकः शार्ङ्गधरपद्धत्यादिषु लभ्यते.

ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना।

आनन्दवर्धनः

कस्य नासीदानन्दवर्धनः॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवन्तिवर्मनृपतिसमकालीनोऽयमानन्दवर्धनाचार्यः प्रसिद्ध एव.

अकालजलदश्लोकैश्चित्रमात्मकृतैरिव।

जातः कादम्बरीरामो नाटके प्रवरः कविः॥

                 (सूक्तिमुक्तावलिः.)

सरस्वतीव

कार्णाटी

विजयाङ्का जयत्यसौ।

या वैदर्भगिरां वासः कालिदासादनन्तरम्॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

‘एकोऽभून्नलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे। अर्वाञ्चोयदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया॥’ एतच्श्लोककर्त्रीकदाचिदियमेव विजयाङ्का कर्णाटी स्यात्.

एकोऽपि जीयते हन्त

कालिदासो

न केनचित्।

शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

जानकीहरणं कर्तुं रघुवंशे स्थिते सति।

कविः

कुमारदास

श्च रावणश्च यदि क्षमः॥

(सूक्तिमुक्तावलिः.)

काव्यमालाप्रथमगुच्छके औचित्यविचारचर्चायां १४४ पृष्ठे कुमारदासनामोपरि टिप्पणं विलोकनीयम्.

दूरादपि सतां चित्ते लिखित्वाश्चर्यमञ्जरीम्।

कुलशेखरवर्मा

भ्यां (?) चकाराश्चर्यमञ्जरीम्॥

(सूक्तिमुक्तावलिः.)

आश्चर्यमञ्जरी कश्चन ग्रन्थः. ‘पाणिनिप्रत्याहारो वा महाप्राणसमाश्लिष्टो झषालिङ्गितश्च समुद्रः, इत्याश्चर्यमञ्जरी’ इत्यमरकोषटीकायां वारिवर्गे झषपदव्याख्याने मुकुटः. केरलोत्पत्ति-केरलविशेषमाहात्म्यनामकग्रन्थाभ्यां समुद्धृते कस्मिंश्चन लेखे केरलदेशक्षितिपालः कुलशेखरः ३३२ मिते ख्रिस्तसंवत्सरे आसीदिति दर्शितम्’ इति बामन-शिवराम-आपटेप्रणीतायां राजशेखरवर्णनपुस्तिकायां १३ पृष्ठे टिप्पण्यां द्रष्टव्यम्.

कुलशेखरनृपतिकृता मुकुन्दमाला प्रसिद्धैव. कुलशेखर एव राजशेखर इति मिथ्यैव केरलीयानां प्रवादः, यतो राजशेखरेणात्र कुलशेखरो वर्णितः.

आदौ

गणपतिं

वन्दे महामोदविधायिनम्।

विद्याधरमणेर्यस्य पूज्यते कण्ठगर्जितम्॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

‘महामदविधायिनम्’ इति पुस्तकान्तरपाठः.

हुता शिखिनि

गौणाढ्या

स्तोकशेषापि सा कथा।

सुरलीढेन्दुलेखेव लोके पूज्यतमाभवत्॥

(सुभाषितहारावलिः.)

गुणाढ्यप्रणीता बृहत्कथा षड्लक्षमिताग्नौदग्धा, केवलमेकलक्षमितावशिष्टा, इति कथासरित्सागरेऽष्टमतरङ्गेकथा द्रष्टव्या.

अनुप्रासिनि संदर्भे

गोनन्दन

समः कुतः।

यथार्थनामतैवास्य यद्वाग्वदति चारुताम्॥

(सूक्तिमुक्तावलिः.)

यायावरकुलश्रेणेर्हारयष्टेश्च मण्डनम्।

सुवर्णबन्धरुचि

स्तरल

स्तरलो यथा॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः)

तरलो हारमध्यमणिरपि. अयमपि कवी राजशेखरस्य पूर्वपुरुषः पूर्वमकालजलदश्लोकटिप्पणे लिखितं बालरामायणप्रस्तावनापद्यंविलोकनीयम्. राजशेखरोऽप्यात्मानं यायावरकुलोत्पन्नमेव स्वग्रन्थेषु वर्णयति.

कर्तुं

त्रिलोचना

दन्यः कः पार्थविजयं क्षमः।

तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम्॥

(सुभाषितहारावलिः.)

त्रयोऽग्नय

स्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः।

त्रयो

दण्डि

प्रबन्धाश्च त्रिषु लोकेषु विश्श्रुताः॥

(शार्ङ्गधरपद्धतिः, सुभाषितहारावलिः.)

दशकुमारचरितम्, काव्यादर्शश्चेति प्रबन्धद्वयमेव लभ्यते. मल्लिकामारुतकर्ता तूद्दण्डापरनामा रङ्गनाथकविः, न तु दण्डी. कलापरिच्छेद-च्छन्दोविचित्यादयः सन्त्यन्येऽपि दण्डिकृता ग्रन्था इति काव्यादर्शाज्ज्ञायते. कविरयं सप्तमशतकप्रारम्भसमुद्भूतः.

सरस्वतीपवित्राणां जातिस्तत्र न कारणम्।

व्यासस्पर्धी कुलालोऽभूद्य

द्द्रोणो

भारते कविः॥

 (शार्ङ्गधरपद्धतिः.)

पुस्तकान्तरे ‘न देहिनाम्’ इति पाठः.

द्विसंधाने निपुणतां स तां चक्रे

धनंजयः

यया जातं फलं तस्य सतां चक्रे धनं जयः॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

वसुदेवश्रीदेवीसूनुर्द्विसंधानकाव्यकर्तायं धनंजयमहाकविर्जैन आसीत्. राघवपाण्डवीयमपि द्विसंधानकाव्यस्य नामान्तरम्. कविराजकृतं प्रसिद्धं मुद्रितं च राघवपाण्डवीयकाव्यं भिन्नम्.

स्वस्ति

पाणिनये

तस्मै यस्य रुद्रप्रसादतः।

आदौ व्याकरणं काव्यमनु जाम्बवतीजयम्॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

‘पयःपृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः, इति जाम्बवतीविजयवाक्यम्’, स पार्षदैरम्बरमापुपूरे, इति जाम्बवत्यां पाणिनिः’ इत्यादि जाम्बवतीजयकाव्यपद्यैकदेशा मुकुटेनामरकोषटीकायामुदाहृताः सन्ति. ‘तथाहि पाणिनेः पातालविजये महाकाव्ये—संध्यावधूं गृह्यकरेण’ इत्यादि काव्यालंकारटीकायां नमिसाधुना चोदाहृतम्. तेन जाम्बवतीजयस्य पातालविजयमित्यपि नामान्तरं भाति. सुभाषितावलि-सदुक्तिकर्णामृतादिषु बहवः पाणिनिश्लोकाः प्राप्यन्ते. ‘स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः। चमत्कारैकसाराभिरुद्यानस्येव जातिभिः॥’ इति सुवृत्ततिलकस्थक्षेमेन्द्र श्लोकेनोपजातिच्छन्दोनिबद्धाः पाणिनिश्लोका अत्युत्तमाः सन्तीति ज्ञायते. य एव व्याकरणसूत्रकर्ता सएव जाम्बवतीजयकाव्यस्य कर्तेत्यस्माद्राजशेखरश्लोकात्स्फुटं प्रतीयते. तस्मात्पाणिनिद्वयकल्पनं व्यर्थमेव.

प्रद्युम्ना

न्नापरस्येह नाटके पटवो गिरः।

प्रद्युम्नान्नापरस्येह पौष्पा अपि शराः खराः॥

(सूक्तिमुक्तावलिः.)

सहर्षचरितारब्धाद्भुतकादम्बरीकथा।

बाणस्य

वाण्यनार्येव स्वच्छन्दा भ्रमति क्षितौ॥

बाणेन

हृदि लग्नेन यन्मन्दोऽपि पदक्रमः।

प्रायः कविकुरङ्गाणां चापलं तत्र कारणम्॥

(सूक्तिमुक्तावलिः.)

सूक्तीनां स्मरकेलीनांकलानां च विलासभूः।

प्रभुदेवी

कविर्लाटी गतापि हृदि तिष्ठति॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

कृत्स्नप्रबोधकृद्वाणी भा रवेरिव

भारवेः

माघेनेव

च माघेन कम्पः कस्य न जायते॥

(सुभाषितहारावलिः.)

भास

नाटकचक्रेऽपि च्छेकैः क्षिप्ते परीक्षितुम्।

स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः॥

 (सूक्तिमुक्तावलिः.)

केषांचन नाटकानां कर्ता भासकविः कालिदासात्प्राचीनः. यतो मालविकाग्निमित्रप्रस्तावनायां भासकवेर्नाम वर्तते. ‘सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः। सपताकैर्यशो लेभे भासो देवकुलैरिव॥’ इति हर्षचरितप्रारम्भे बाणभट्टः ‘पेया सुरा प्रियतमामुखमीक्षणीयं ग्राह्यः स्वभावललितो विकटश्च वेषः। येनेदमीदृशमदृश्यत मोक्षवर्त्मदीर्घायुरस्तु भगवान्स पिनाकपाणिः॥’ इति यशस्तिलकचन्प्वां भासकवेः श्लोकः. अन्येऽपि भासकवेः श्लोकाः सुभाषितावल्यादिषु प्राप्यन्ते. तत्कृतो ग्रन्थस्तु नाद्याप्येकोऽप्युपलब्धः. किंतु स्वप्नवासवदत्तनाटकस्य ‘संचितपक्ष्मकपाटं—’ इत्याद्येकार्या श्रीमदभिनवगुप्तेन ध्वन्यालोकलोचनस्य तृतीयोद्द्योत उदाहृतास्ति.

कालञ्जरपतिश्चक्रे

भीमटः

पञ्चनाटकीम्।

प्राप प्रबन्धराजत्वं तेषु स्वप्नदशाननम्॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

‘कलिञ्जरपतिः’ इति पुस्तकान्तरपाठः. कालञ्जरगिरिः प्रयागनगराद्वायुकोणे द्वादशयोजनान्तरे वर्तते. तदुपलक्षितदेशाधिपतिरयं भीमटः. ‘दृष्टे चन्द्रमसि’ इत्यादिश्लोकः सूक्तिमुक्तावलौ भीमटनाम्नासमुद्धृतोऽस्ति.

अहो प्रभावो वाग्देव्या

यन्मातङ्गदिवाकरः

श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः॥

(शार्ङ्गधरपद्धतिः.)

पुस्तकान्तरे ‘यच्चाण्डालदिवाकरः’ इति पाठः.

दर्पंकविभुजंगानां गता श्रवणगोचरम्।

विषविद्येव मायूरी

मायूरी

वाङ् निकृन्तति॥

 (सूक्तिमुक्तावलिः.)

मायूरा

जसमो जज्ञे नान्यः करचुलिः कविः।

उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः॥

 (सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

हैहयवंशोद्भवाः करचुलि(कलचुरि)नामानः केचन क्षत्रिया अद्यापि ‘रीमा’ (रेंवा)राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी तेषां राजधान्यासीत्, ‘यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च चित्रभानुः। तामेष पाति कृतवीर्ययशोवतंसां माहिष्मतीं कलचुरेः कुलराजधानीम्॥’ इति बालरामायणम् (३।३५). मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगराद्दक्षिणदिशि पञ्चषड्योजनान्तरे नर्मदादक्षिणतटेऽधुना ‘महेश्वर’ इति नाम्नाप्रसिद्धा इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि कलचुरिराजधान्यासीत्. ‘सीतास्वयंवरनिदानधनुर्धरेण दग्धात्पुरत्रितयतो विभुना भवेन। खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरीं प्रशास्ति॥’ इत्यपि बालरामायणम् (३।३८). ‘त्रिपुरी चेदिनगरी’ इति हैमनाममाला (४।४१). राजशेखरकृतविद्धशालभञ्जिकाकथानायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामासीत्, ‘करचुलितिलको वर्तते चक्रवर्ती’ इति, ‘स्वस्तिश्रीमत्त्रिपुर्यां तुहिनकरसुतावीचिवाचालितायाम्’ इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते. तुहिनकरसुता सोमोद्भवा नर्मदा सा च त्रिपुरी इदानीं ‘तेवुर’ इति नाम्ना प्रसिद्धा जबलपुरसमीपे वर्तते इति दक्षिणदेशेतिहासपुस्तके (३७पृष्ठे) पण्डितवरभाण्डारकरः करचुलिवंशोद्भवोऽयं मायूराजकविश्चेदिदेश एवोत्पन्नः स्यात्. ‘गण्डूषाशोषिताब्धिप्रकटजलधरोत्फालजातस्मितानां हेलाकृष्टार्कचन्द्राभिनवकृतमहाकुण्डलाभोगभाजाम्। पीनोरःस्थापिताशाद्विरदमदमषीमांसलस्थासकानां दूरं यातस्य वत्स स्मरति दशशिरास्त्वच्छिशुक्रीडितानाम्॥’ इत्याद्याःकेचन श्लोका मायूराजनान्ना समुद्धृताः सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोकनेन च मायूराजः कस्यचिद्रामायणकथानुकूलनाटकस्य कर्तासीदिति ज्ञायते.

(वक्रोक्त्या

मेण्ठराज

स्य वहन्त्या सृणिरूपताम्।

आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः॥)

मेण्ठो हस्तिपकः;(पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृहीतनामा कश्मीरदेशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमादित्यसमकालीनो भर्तृमेण्ठः कविः.

अयं श्लोकः सूक्तिमुक्तावलिसुभाषितहारावल्यो राजशेखरश्लोकबहिर्भूतस्तत्समीप एव तिष्ठति. भाति चायमपि राजशेखरस्यैवेत्यतोऽत्र गृहीतः.

मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे।

इतीव स कृतो धात्रा कवि

रत्नाकरो

ऽपरः॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

हरविजयकाव्यकर्ता नवमशतकोत्तरभागे कश्मीरदेशे समुत्पन्नो रत्नाकरमहाकविः प्रसिद्ध एव.

तौ शूद्रककथाकारौ रम्यौ

रामिलसौमिलौ

काव्यं ययोर्द्वयोरासीदर्धनारीश्वरोपमम्॥

(सुभाषितहारावलिः.)

सौमिलस्य नाम मालविकाग्निमित्रप्रस्तावनायां वर्तते. तेन कालिदासात्सौमिलस्तस्मादपि शूद्रकः प्राचीनः. ‘सव्याधेः कृशता’ इत्यादि श्लोकः शार्ङ्गधरपद्धतौरामिलसौमिलयोर्नाम्ना समुद्धृतः. ‘परपुरुषादिव सवितुः’ इत्यादि रामिलश्लोकः सुभाषितावलावप्यस्ति.

यथार्थता कथं नाम्निमा

भूद्वररुचे

रिह।

व्यधत्त कण्ठाभरणं यः सदा रोहणप्रियः॥

(सूक्तिमुक्तावलिः.)

कात्यायनापरनामा वररुचिः प्रसिद्ध एव. तत्कृतो व्याकरणवार्तिकपाठः प्राकृतसूत्राणि च सर्वत्र सुलभान्येव. सुभाषितावल्यादिषु बहवो वररुचिकृताः श्लोकाः समुपलभ्यन्ते, तस्मात्किमपि काव्यमपि वररुचिना कृतमेव.

के

वैकटनितम्बेन

गिरां गुम्फेन रञ्जिताः।

निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

स्थिता माध्वीकपाकत्वान्निसर्गमधुरापि हि।

किमपि स्वदते वाणी केषांचिद्यपि

शांकरी

(सूक्तिमुक्तावलिः)

अत्र बालरामायणप्रस्तावनायां गृहीतनामा स्वसमकालीनः कृष्णशंकरवर्मा राजशेखरस्य विवक्षितः, न तु शंकराचार्यः कश्चिदन्यो वा शंकर इति भाति.

शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते।

शीलाभट्टारिका

वाचि बाणोक्तिषु च सा यदि॥

(सूक्तिमुक्तावलिः, शार्ङ्गधरपद्धतिः.)

पृथिव्यां ग्रथिता गाथा

सातवाहन

भूभुजा।

व्यधुर्धृतेस्तु विस्तारमहो चित्रपरम्परा॥

(सूक्तिमुक्तावलिः.)

पार्थस्य मनसि स्थानं लेभे खलु सुभद्रया।

कवीनां च वचोवृत्तिचातुर्येण

सुभद्र

या॥

(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.)

‘दुग्धं च यत्तदनु’ इत्यादि श्लोकः सुभद्राकृतः सुभाषितावलौ वर्तते.

नदीनां मेकलसुता नृपाणां

रणविग्रहः

कवीनां च

सुरानन्द

श्चेदिमण्डलमण्डनम्॥

(सूक्तिमुक्तावलिः.)

मेकलसुता नर्मदा. सुरानन्दो राजशेखरस्य पूर्वपुरुष इत्यकालजलदवर्णनश्लोकटिप्पणसमुद्धृते बालरामायणप्रस्तावनापद्ये द्रष्टव्यम्. चेदिदेशो डाहलापरपर्यायः. ‘त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते’ इति हैमनाममाला (४।२२). ‘डाहलाश्चेदयश्चैद्याः’ इति त्रिकाण्डशेषे भूमिवर्गः. ‘नीत्वा गङ्गाधरमधरतां डाहलाधीशधाम्नि’ इति विक्रमाङ्कदेवचरितम् (१८।९५).

भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि-

र्माधो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः।

दण्डी बाणदिवाकरा गणपतिः कान्तश्च रत्नाकरः

सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी॥

 (शार्ङ्गधरपद्धतिः.)

एषु कविषु साहसाङ्क-स्कन्धयोर्विषये न किमपि ज्ञायते. कान्त इति तु रत्नाकरविशेषणम्.

अस्य संपूर्णलेखस्य निष्कर्षस्त्वयम्—यन्महाराष्ट्रचेदिदेशयोरन्यतरोद्भवः कान्यकुब्जमहीपालस्य महेन्द्रपालस्याश्रितो ब्राह्मणः क्षत्रियो वा राजशेखरकविः ८८४ ख्रिस्तसंवत्सरादनन्तरं ९५९ संवत्सरात्पूर्वं चासीत्, राजशेखरस्य विस्तरेण वर्णनं तु पुण्यपत्तनस्थार्यभूषणयन्त्रालये मुद्रितायां फर्ग्युसनपाठशालाध्यक्षेण एम्. ए.-पदमण्डितेन शिवरामसूनुवामनपण्डितेन प्रणीतायाम् ‘राजशेखर, हिज् लाइफ् ऍण्ड राय्टिङ्गस्’ इति नामाङ्कितायां पुस्तिकायां द्रष्टव्यम्. इत्यलं बहुभिः पिष्टस्य मुहुः पेषणेन.

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1729388573Screenshot2024-10-20045944.png"/>

महाकविश्रीराजशेखरकृता

कर्पूरमञ्जरी।

वासुदेवकृतया टीकया समेता।

<MISSING_FIG href="../books_images/U-IMG-1729388603Screenshot2024-10-20050158.png"/>

प्रथमं जवनिकान्तरम्।

भद्दंभोदु सरस्सईअ कइणो णन्दन्तु वासाइणो

अण्णाणं वि परं पअट्टदु वरा वाणी छइल्लप्पिआ।

वच्छोमी तह माअही फुरदु णो सा किं च पञ्चालिआ

रीदीयो विलिहन्तु कव्वकुसला जोह्णां चओरा विअ॥ १॥

__________________

दशास्योद्यदास्यच्छिदं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम्।

गणेशं च गण्डोल्लसद्भृङ्गसङ्गं हरोच्चाङ्गसङ्गांश्च गङ्गातरङ्गान्॥

तातं प्रभाकरं नत्वा मातरं गोमतीमपि।

कर्पूरमञ्जरीटीका वासुदेवेन तन्यते॥

कर्पूरमञ्जर्याख्यस्राट1कारम्भे सूत्रधार आशीरूपां नान्दीं पठति—

भद्दमिति

भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः

अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया।

वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका

रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव॥

अत्र च व्यासादय इत्यादौ सरस्वत्या इत्येतत्प्रभृति षष्ठ्यन्तत्वोपक्रमभङ्गाभासेऽपि भवत्वित्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः शङ्कयः। तेन रीतिर्नाम शब्दगुणः। यथोक्तं सरस्वतीकण्ठाभरणे—‘उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते’ इति। सरस्वत्याः सततं भद्रभाजनत्वादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव। अत एवान्येषामपीत्यग्र आशंसनम्। ‘भवेत्तद्भिन्नवचनं यद्भिन्नवचनोपमम्’ इत्युक्तत्वाज्ज्योत्स्नामित्युपमाने भिन्नवचनतादोषो न शङ्कयः। ‘यद्भिन्नलिङ्गमित्युक्तं तद्भिन्नवचनं भवेत्। उपमादूषणं तन्न यत्रोद्वेगो न धीमंताम्॥’ इति वृद्धैः, ‘न लिङ्गवचने भिन्ने न हीनाधिक-

तापि वा। उपमादूषणायालं यत्रोद्वेगो न धीमताम्॥’ इति दण्डिना चोक्तत्वात्, अत्र चाल्पीयस्या अपि ज्योत्स्नाया अतितृप्तिजनकत्वेन लोकोत्तरत्वस्य ‘पदैकदेशरचनावर्णेष्वपि रसादयः’ इति काव्यप्रकाशकृदुक्तेरेकवचनेन व्यञ्जनादुद्वेग्गभावो वेदितव्यः। विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम्। रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ताः सन्तीति ध्वनितम्। तदिदं वस्तुना वस्तु व्यज्यते। काव्यकुशला इति तादृशानामेव सभ्यत्वमत्र सूचितम्। तल्लक्षणं भरते—‘सभ्यास्तु विबुधैर्ज्ञेया ये दिदृक्षान्विता जनाः। मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः। अगर्वा रससारज्ञास्तौर्यत्रितयकोविदाः॥ असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः। अमन्दरसनिष्यन्दिहृदया भूषणोज्ज्वलाः॥ सुवेषा भोगिनो नानाभाषाचारविशारदाः। स्वस्वोचितस्थाननिष्ठास्तत्प्रशंसापरायणाः॥’ इति। चकोरोपमानेन विवेचनकर्तृत्वप्रार्थना व्यङ्गया। सोऽयमलंकारेण वस्तुध्वनिः। विदग्धप्रियेति षष्ठीतत्पुरुषं कृत्वा वाण्या विशेषणम्। यद्वा वैदर्भ्यादीनाम्। अस्मिन्पक्षे कर्मधारयमाश्रित्य वैदर्भ्यादीनां कामिनीरूपत्वं व्यङ्ग्यम्। सोऽयं वस्तुनालंकारध्वनिः। वैदर्भ्याद्यारीतयः शब्दालंकाराः। तल्लक्षणं कण्ठाभरणे—‘तत्रासमासा निःशेषसमग्रगुणगुम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते॥ पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी। समस्तपञ्चषपदामोजःकान्तिविवर्जिताम्। मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥’ इति। रीतिसामान्यलक्षणं च तत्रैव—‘वैदर्भ्यादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः। रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरिष्यते’॥ इति। गौडी लाटीनामेतत्संकरजत्वात्तिसृणामेवोपादानम्। चकोरा इवेत्युपमालंकारः। सा यथा—‘साधर्म्यमुपमा भेदे’ इति काव्यप्रकाशे। वामनेनाप्युक्तम्—‘उपमानोपमेययोर्गुणलेशतः साम्यमुपमा’ इति।दण्डिनाप्युक्तम्—‘यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते। उपमा नाम सा तस्याः प्रपञ्चोऽयं निदर्श्यते॥’ इति । भद्दं भोदु इत्यादौ छेकानुप्रासः। कइणो इत्यादौ वृत्त्यनुप्रासः। स यथा तत्रैव—‘वर्णवृत्तिरनुप्रासश्छेकवृत्तिगतो द्विधा। सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः॥’ इति। इयं च वैदर्भी रीतिः। ओजःप्रसादश्लेषसमाधिमाधुर्यसौकुमार्यौदार्यार्थव्यक्तिप्रभृतिबन्धगुणानामर्थगुणानां च विद्यमानत्वात्। एतेषां विवरणं न कृतम्, ग्रन्थगौरवभयात्। एवमन्येऽपि कैशिक्यादयः शब्दालंकारा ज्ञेयाः। ‘ध्वनिमत्ता तु गाम्भीर्यम्’ इत्युक्तत्वाद्गाम्भीर्यादयो गुणाश्च। केचित्तु रीत्यादीनामपि गुणत्वं मन्यन्ते। अत्र च ‘रतिर्देवादिविषया’ इत्युक्तत्वात्सरस्वत्यादिविषया रतिरुक्ता। विदग्धप्रियेत्येतेन विदर्भदेशोत्पन्ननायिकाबोधकेन वैदर्भ्यादिशब्देन च समासोक्त्या रीतेर्नायिकात्वारोपात्, काव्यकुशलपदेन च तेषां नायकत्वारोपात्, शृङ्गारो ध्वन्यते। स्थाय्यादि स्वयमूह्यम्। इदं च शार्दूलविक्रीडितम्—‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति। ‘वर्णविन्यासयोगः। पद्यादौ वाद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयम्’ इत्युक्तेर्गणादिविचारः क्रियते—तत्र ‘मो भूमिस्त्रिगुरुः श्रियं दिशति’ इत्युक्तत्वाद्गणशुद्धिरत्रास्ति। ‘सुखभयमरणक्लेशदुःखान्यवर्गः’ इत्युक्तेर्वर्णशुद्धिः। ‘देवतावाचकाः शब्दा ये च भद्रा-

अवि अ।

अकलिअपरिरम्भविब्भमाइँ अजणिअचुम्बणडम्बराइँ दूरम्।

अघडिअघणताडणाइँ णिच्चं णमह अणङ्गरईणमोहणाइँ॥ २ ॥

_______________________

दिवाचकाः। ते सर्वे नैव निन्द्याःस्युर्लिपितो गणतोऽपि च॥’ इत्यभिधानात्। ‘मगणनगणदुइमित्त होइ भगणयगणहोइ भिच्च। उदासीण जत दुअगणअ अवसिट्टदुइ अरिणिच्च॥’ ‘मित्त्रान्मित्त्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडाम्’ इत्यरिसंज्ञकस्य सगणस्य मित्त्रसंज्ञान्मगणादुत्तरपठितस्य बन्धुपीडाप्रदत्वं न मन्तव्यम्। नान्दीलक्षणे ‘शब्दतो वार्थतो वापि मनाक्काव्यार्थसूचनम्’ इत्युक्ते स्तदप्युच्यते—सरखत्याः स्त्रीरत्नस्य कर्पूरमञ्जर्याः। ‘सरस्वती स्यात्स्त्रीरत्ने नद्यां नद्यन्तरे गवि’ इत्यजयः। विविधं वस्त्वभिनवमा समन्तादस्यति क्षिपति दर्शयितुमिति व्यासौ भैरवानन्दः। तदीयोद्योगिनः कवयो विद्वांसः कलाकुशलाः। वरा उत्कृष्टा वाणी यस्यां सा कर्पूरमञ्जरीसदृशी कान्ता। विदर्भमगधपञ्चालदेशीयरीतिषु कं सुखं यासां ता नानाविलासिन्यः काव्याभिज्ञा रसिका इति। ‘हरोत्तमाङ्गस्थितवस्तुवर्णनैः’ इत्युक्तेर्ज्योत्स्नापदेन शिवशिरःस्थितचन्द्रकलास्मारणम्। भद्दमिति भद्रशब्दे ‘सर्वत्र लवराम्’ इति सूत्रेण रलोपे ‘शेषादेशयोर्द्वित्वमनादौ’ इति दस्य द्वित्वे ‘अत ओ सोः’ इति सोरोकारादेशे प्राप्ते ‘नपुंसके सोर्बिन्दुः’ इत्यनुस्वारः। एवमग्रेऽपि प्राकृतप्रक्रिया ज्ञेया। क्वचिद्विशेषं वक्ष्यामः। छइल्लवच्छोमीशब्दौ ‘दाढादयो बहुलम्’ इति विदग्धवैदर्भीशब्दयोः साधू। जोह्णामिति ज्योत्स्नाशब्दे ‘अधो मनयाम्’ इति नलोपे प्राप्ते ‘ह्नस्नष्टगक्ष्णश्नह्णः’ इति स्नस्य ह्णादेशेः ‘उपरि लोपः’ इति तलोपे ‘अधामनयाम्’ इति यलोपः॥

अवि एति।

अपि च।

अकलितपरिरम्भविभ्रमाण्यजनितचुम्बनडम्बराणि दूरम्।

अगणितघनताडनानि नित्यं नमतानङ्गरत्योर्मोहनानि॥

दूरमत्यर्थं ताडनानि चन्द्रकलोद्बोधनार्थानि ‘अङ्गुष्ठे चरणे च गुल्फनिलये’ इत्यादिना पञ्चसायकाद्युक्तानि। ताडनपदेन नखक्षतादीन्यप्युक्तानि। मोहनानि सुरतानि। अत्र संभोगशृङ्गार उक्तः। चुम्बनताडनपदाभ्यां तज्ज्ञानं लक्ष्यते। तेषां क्रियमाणत्वादेव। परिरम्भादिभेदास्त्वनतिप्रयोजनत्वान्न लिखिताः। अनङ्गरत्योरिति काव्यलिङ्गेन नमतेति पदद्योत्यं सभ्यानामतिरसिकत्वं व्यङ्ग्यम्। सुरतानामतिशयितत्वं च मोहनानीति बहुवचनेनोत्तानकरणादयः सर्वे सुरतबन्धाः सूचिताः। सत्स्वपि परिरम्भादिषु तज्ज्ञानानुत्पत्तेर्विशेषोक्तिः। सा यथा काव्यप्रकाशे— ‘विशेषोक्तिरखण्डेषु कारणेषु फलावचः’ इति। काव्यार्थसूचनेऽनङ्गरतिरूपयोश्चन्द्रपालकर्पूरमञ्जर्योर्नायकयोर्मोहनानीति ज्ञेयम्॥

अवि अ।

ससिहण्डमण्डणाणं समोहणासाणँसुरअणपिआणम्।

गिरिसगिरिन्दसुआणं संघाडी वो सुहं देउ॥ ३॥

अविअ।

ईसारोसप्पसादप्पणदिसु बहुसो सग्गगङ्गाजलेहिं

आ मूलं पूरिदाए तुहिणअरअलारुप्पसिप्पीअ रुद्दो।

जोह्णामुत्ताहलिल्लं णदमउलिणिहित्तग्गहत्थेहि दोहिँ

अग्धं सिग्धं व देन्तो जअइ गिरिसुआपाअपङ्केरुहाणम्॥ ४॥

अवि अ। ससीति।

शशिखण्डमण्डनयोः समोहनाशयोः सुरगणप्रिययोः।

गिरिशगिरीन्द्रसुतयोः संघटना वः सुखं ददातु॥

मोहने सुरते आशया सहितयोः। मोहस्य नाशेन सहितयोर्वा। जगन्मोहयतीति मोहनोऽनङ्गस्तस्याशेन व्याप्त्या सहितयोर्वा। ‘अशूङ् व्याप्तौ’ एतस्माद्धञ्। मोहनस्यासेन क्षेपेण सहितयोर्वा। शिवेन तस्य जितत्वात्। ‘शषोः सः’ इति सादेशे सर्वत्र सकार एव। अनेन सदा स्त्रीसंगमेऽपि कामजयित्वादन्येभ्योऽतिशयित्वाव्द्यतिरेकालंकारो व्यङ्ग्यः। ‘महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा’ इत्यादौ देव्याश्चन्द्रचूडत्वं प्रसिद्धम्। मण्डनपदेन विरुद्धवेषस्याप्यलंकारकारित्वसूचनाव्द्यतिरेकालंकार एव व्यङ्ग्यः॥

अवि एति।

ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै-

रा मूलं पूरितया तुहिनकरकलारूप्यशुक्त्यारुद्रः।

ज्योत्स्नामुक्ताफलाढ्यं नतमौलिनिहिताभ्यामग्रहस्ताभ्यां द्वाभ्या-

मर्ध्यंशीघ्रमिवददज्जयति गिरिसुतापादपङ्केरुहयोः॥

बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थंक्रियमाणासु प्रणतिषु नतमौलिनिःक्षिप्ताग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशुक्त्या शीघ्रमर्घमिव ददद्रुद्रो जयतीत्यन्वयः। चन्द्रकलायाः शुक्तित्वम्। अन्योऽपि भक्तो जलपूरितया रूप्यशुक्त्या मुक्तायुक्तं प्रणामपूर्वं हस्ताभ्यामर्घंददातीत्यर्थश्लेषः। बहुश इति तस्या मानिनीत्वं व्यङ्ग्यम्। स्वर्गगङ्गेति भावित्वमभिप्रत्युक्तम्। शीघ्रमिति मानवृद्धिभयं व्यङ्ग्यम्। देवीपादयोश्चन्द्रकला संबन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दीपकत्वान्मदनावेशेन मानभङ्ग इति शङ्कया। अत्र रूपकम्—‘उपमैव तिरोभूतभेदा रूपकमिष्यते’ इति तल्लक्षणात्। अर्घ्य-

(नान्द्यन्ते)

सूत्रधारः—(परिक्रम्य नेपथ्याभिमुखमवलोक्य।) किं उण णट्टपअट्टो विअ दि अम्हाणं कुसीलवाणं परिजणो। जदो एक्का पत्तोच्चिआइं सिअ-

______________________________________

युत्प्रेक्षा—‘अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा। अन्यथोत्प्रेक्ष्यते यत्तु तामुविदुर्बुधाः॥’ इत्युक्तत्वात्। परोत्कर्षाक्षमेर्ष्या स्याद्दौर्जन्यान्मन्युतोऽपि वा’ रसकलिकायामुक्तत्वान्मन्दाकिनीरूपसपत्न्यामीर्ष्या ज्ञेया गौर्याः। इयं च स्वाधी का। सा यथा तत्रैव—‘स्वाधीनपतिका सा तु यां न मुञ्चति वल्लभः’ इति। ऽप्यवान्तरनायिकाभेदोऽस्या योजनीयः। ‘दाढादयो बहुलम्’ इति शुक्तिशब्दस्य सिप्पीत्यादेशः। तदुक्तम्—‘अधोवैदूर्यशुक्तीनां वधूभ्रमितशब्दयोः। हेट्ठवेरिल्लअंसिप्पी’ इति। हलिल्लेति ‘आल्विल्लोल्लालवर्तेता मतुपः’ इति मतुप इल्लः। ‘सेवदिषु वा’ इति निहितेत्यत्र वा द्वित्वम्॥
नान्द्यन्ते सूत्रधार इति कविवचनम्। एवमग्रेऽपि मध्ये मध्ये कविवचनं संस्कृतं ज्ञेयम्। नान्दीलक्षणं तु—‘आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः। नान्दीति कथ्यते’ इत्यादि भरते। नाट्यप्रदीपेऽपि—‘नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः। यस्मादलं सज्जनसिन्धुहंसी तस्मादलं सा कथितेह नान्दी॥’’ इयं च मङ्गलार्था—‘यन्नाट्यवत्पुनः पूर्वरङ्गं विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते॥ उत्थापकाः प्रकुर्वन्ति सन्ति भूयांसि यद्यपि। तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये॥’ इत्युक्तत्वात्। सा चेहाष्टपदी कृता—‘नाट्यपूर्वकृता नान्दी त्वाशीर्वचनसंयुता। अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता। नान्दी पदैर्द्वादशभिरष्टभिर्वाप्यलंकृता॥’ इति भरतोक्तेः। पदानि चात्र श्लोकचरणरूपाणि—‘श्लोकपादं पदं केचित्सुप्तिङन्तमथापरे। परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे॥’ इति नाट्यप्रदीपेऽभिहितत्वात्। अवान्तरवाक्यपक्षे षट्पदेयं द्रष्टव्या। सा चेयं सूत्रधारप्रयोज्या—‘सूत्रधारः पठेन्नान्दीं मध्यमं तालमाश्रितः।’ इति भरतोक्तेः। ईदृशीं नान्दीं पठित्वा सूत्रधारे गते पश्चात्सूत्रधारः स्थापकाख्योऽपरः प्रविशतीति शेषः। उक्तं च दशरूपके— ‘पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः॥’ इति। भावप्रकाशेऽपि—‘इत्थं रङ्गं विधायादौ सूत्रधारे विनिर्गते। तद्वन्नटः प्रविश्यान्यः सूत्रधारगुणाकृतिः॥’ इति। पूर्वरङ्गशब्दार्थस्तूक्तो वृद्धेः—‘पूर्वंरज्यत इति पूर्वरङ्गो नाट्यशाला। तात्थ्यात्प्रथमप्रयोग इति।’ अन्यत्राप्युक्तः—‘सभापतिः सभा सभ्या गायका वाचका अपि। अतो रङ्ग इति ज्ञेयः पूर्ववत्परिकल्प्यते। तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते॥’ इति। सूत्रधारव्युत्पत्तिः संगीतसर्वस्वे—‘नर्तनीयकथासत्रं प्रथमं येन सुच्यते। रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते॥’ इति। लक्षणं चास्य मातृगुप्ताचार्यैरुक्तम्—‘चतुरातोद्यनिष्णातोऽनेकभूषासमावृतः। मानाभाषणतत्वज्ञो नीतिशास्त्रार्थतत्त्ववित्॥ वेश्योपचारचतुरः पौरुषेयविचक्षणः। तत्तद्गीतानुगानैककलातालाक्धारणः॥

आइंउच्चिणेदि। इअरा कुसुमावलीओ गुम्फेदि। अण्णा पडिसीसआइंपडिसारेदि। कावि क्खु वण्णिआओ पट्टए वट्टेदि। एस वंसे ठाविदो ट्ठाणो। इअं वीणा पडिसारीअदि। इमे तिण्णि मिअङ्गा सज्जीअन्ति। एस कांसतालाणं पक्खालणुज्जलाणं हल्लबोलो। एदं धुआगीदमालवीअदि। ता किंवि कुडुम्बं हक्कारिअ पुच्छिस्सम्। (नेपथ्याभिमुखमवलोक्य संज्ञापयति।)

_____________________________________

अवधार्य प्रयोक्ता च योक्तॄणामुपदेशकः। एवं गुणगणोपेतः सूत्रधारः स उच्यते॥’ इति। द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते—‘स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः।’ इति। सूत्रधार इत्यस्याग्रेकचिद्वयङ्गोऽस्ति। सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थः। तेन सूत्रधारो वदतीति द्वितीयपदस्यार्थः। एवमग्रेऽपि ज्ञेयम्। नेपथ्याभिमुखमिति। ‘नेपथ्यं स्याज्जवनिका रङ्गभूमिप्रसाधनम्।’ इत्य जयः।

किं उणेति।

किं पुनर्नृत्यप्रवृत्त इव दृश्यतेऽस्माकं कुशीलवानां परिजनः।

जदो इति।

यत एका पात्रोचितानि सिचयान्युच्चिनोति। इतरा कुसुमावलीर्गुम्फति। अन्या प्रतिशीर्षकाणि प्रसारयति।

प्रतिशीर्षकाणि नाट्यलोचने—‘अमात्यकञ्चुकिश्रेष्ठिविदूषकपुरोधसाम्। वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत्॥’ इति।

कापि खलु वर्णिकाः पट्टेवर्तयति।

चित्रफलकानि चित्रयतीत्यर्थः।

एष वंशे स्थापितो ध्वानः।

वंशो वेणुवाद्यम्।

इयं वीणा प्रतिसार्यते। इमे त्रयो मृदङ्गाः सृज्यन्ते।

त्रैविध्यं च भरते—‘मायूरी अर्धमायूरी कूर्मरथी चेति त्रिधा।’ इति।

एष कांस्यतालानां प्रक्षालनोज्ज्वलानां हलहलः।

‘हल्लबोल’ इति देशी।

एतद्धुवागीतमालप्यते।

उक्तं च भरते—‘प्रावेशिकी आक्षेपिणी क्रामिकी उत्थापिनी प्रासादिकी इति पञ्च ध्रुवाः।’ इति।

तत्किमपि कुटुम्बमाकार्य पृच्छामि।

नेपथ्येति। संज्ञापनमाह्वानसंकेतकरणम्।

(ततः प्रविशति पारिपार्श्वकः।)

**पारिपार्श्वकः—**आणवेदु भावो।

सूत्रधारः—(विचिन्त्य।) किं उण णट्टपअट्टा विअ दीसध।

**पारिपार्श्वकः—**भाव, सट्टअं णच्चिदव्वम्।

** सूत्रधारः—**को उण तस्स कई।

पारिपार्श्वकः—

भाव कहिज्जदु एदं को भणई रअणिवल्लहसिहण्डो।

रहुउलचूडामणिणो महेन्दपालस्स को अ गुरु॥ ५॥

सूत्रधारः—(विचिन्त्य।) पह्णोत्तरं क्खु एदम्। (प्रकाशम्।) राअसेहरो।

_________________

तत इति। पारिपार्श्वकलक्षणं च ‘तस्यानुचरः पारिपार्श्वकः’ इति साहित्यदर्पणे।

आणवेदु इति।

आज्ञापयतु भावः।

‘भाव इत्युच्यते विद्वान्’ इति भावलक्षणम्।

सूत्रधारः—

किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे।

पारिपार्श्वकः—

भाव, साटकं नर्तितव्यम्।

सट्टकमिति। तल्लक्षणं च भावप्रकाशे—‘सैव प्रवेशकेनापि विष्कम्भेण विना कृता। अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा॥ प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत्।

सूत्रधारः—

कः पुनस्तस्य कविः।

पारिपार्श्वकः—

भाव कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः।

रघुकुलचूडामणेर्महेन्द्रपालस्य कश्च गुरुः॥

राजशेखरकविनाम्नः पर्यायो रजनीत्यादिः।

**सूत्रधारः—**विचिन्तनं स्वगतपर्यायः। ‘अश्राव्यं स्वगतं मतम्’ इति तल्लक्षणम्।

पह्णेति।

प्रश्नोत्तरं खल्वेतत्।

मया पृष्टेऽनेनेदृशमुक्तं चेदत्रोत्तरमस्तीत्यर्थः।

**पारिपार्श्वकः—**सो एदस्स कई।

**सूत्रधारः—**किं सट्टअम्।

पारिपार्श्वकः—(स्मृत्वा।) कधिदं ज्जेव्व छइल्लेहिं।

सो सट्टओ त्ति भणई दूरं जो णाडिआइँ अणुहरइ।

किं उण एत्थ पवेअसविक्कम्भाईंं ण केवलं होन्ति॥ ६॥

सूत्रधारः—(विचिन्त्य।) ता किं त्ति सक्कअं परिहरिअ पाउअबन्धे अट्टो कई।

**पारिपार्श्वकः—**सव्वभासाचउरेण तेण भणिदं जेव्व। जधा—

अत्थणिएसा ते च्चिअ सद्दा ते च्चेअ परिणमन्ताईं ।

उत्तिविसेसो कव्वो भासा जा होइ सा होदु॥ ७॥

प्रकाशमिति। ‘सर्वश्राव्यं प्रकाशं स्यात्’ इति तल्लक्षणम्। राएति।

राजशेखरः।

काक्का वदति—

स एतस्य कविः।

‘गोत्रं नाम च बध्नीयात्’ इत्युक्तेः कविनामोक्तिः।

किं साटकम्।

कधिदमिति।

कथितमेव विदग्धैः।

तत्साटकमिति भण्यते दूरं यो नाटिका अनुहरति।

किं पुनरत्र प्रवेशकविष्कम्भकौ न केवलं भवतः॥

दूरमत्यर्थम्। तल्लक्षणं सुधाकरे—‘यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम्। अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः॥’ इति। ‘तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः। अमुख्यपात्ररचितः संक्षेपैकप्रयोजनः॥’ तद्भेदा अपि तत्रैव—‘द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः। शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा॥’

ता किमिति।

तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः।

पारिपार्श्वकः—

पर्यभाषात्वतरेण तेन भणितमेव। यथा—

अवि अ।

परसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो।
पुरुसमहिलाणँजेत्तिअभिहन्तरं तेत्तिअमिमाणम्॥८॥

सूत्रधारः — ता अप्पा किं ण वण्णिदो तेण।
पारिपार्श्वकः — सुणु। वण्णिदो ज्जेव्व तक्कालकइणं मज्झम्मि मिअङ्कले हाकहाआरेण अवराइएण। जधा—

बालकई कइराओ भिअराअस्स तह उवज्झाओ।
इअ जस्स परम्परए अप्पा माहप्पमारूढो॥९॥

_____________________

अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि।
उक्तिविशेषः काव्यं भाषा या भवति सा भवतु॥

परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम्। तदुक्तं प्राकृतसंजीविन्याम्— ‘प्राकृतस्य तु सर्वमेव संस्कृतं योनिः’ इति। दण्डिना चोक्तम्— ‘तद्भवस्तत्समो देशीत्यनेकःप्राकृतक्रमः।’ इति। उक्तिविशेष इति ‘तददोषौ शब्दार्थौ’ इत्यादिना काव्यप्रकाशे नानाभेदभिन्नं काव्यमुपक्षिप्तम्। भाषाविशेषानादरश्चोक्तः। कण्ठाभरणे— ‘संस्कृतेनैव कोऽप्यर्थःप्राकृतेनैव चापरः। इत्यादिना ‘सर्वाभिरपि कश्चन’ इत्यन्तेन।

अवि एति।
अपि च।

परुषाः संस्कृतगुम्फाः प्राकृतगुम्फोऽपि भवति सुकुमारः \।
पुरुषमहिलानां यावदिहान्तरं तेषु तावत्॥

महिलाःकामिन्यः।
** सूत्रधारः—**
तदात्मा किं न वर्णितस्तेन।

** पारिपार्श्वकः—**
शृणु। वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन। यथा—

बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः।
इत्येतस्य परम्परया आत्मा माहात्म्यमारूढः॥

यदा तु ‘इति यस्य जयैः परम्परामाहात्म्यमारूढम्’ इति पाठस्तदा जयैरुत्कर्षैः। आरूढमिति भावे क्तः। इयं च कारणमाला। सा यथा — ‘यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य

सो अस्स कई सिरिराअसेहरो तिहुअणं पि धवलेन्ति।
हरिणङ्कपालिसिद्धिए णिक्कलङ्का गुणा जस्स॥१०॥

** सूत्रधारः—** ता केण समादिट्ठा पउञ्जध।

** पारिपार्श्वकः—**

चाउहाणकुलमौलिमालिआ राअसेहरक इन्दरोहिणी।
भत्तुणो किदिमवन्तिसुन्दरी सा पउञ्जइदुमेदमिच्छदि॥११॥

किं च।

चन्दपालधरणीहरिणङ्को चक्कवट्टिपअलाहणिमित्तम्।
एत्थ सट्टअवरे रससोत्ते कुन्तलाहिवसुदं परिणेदि॥१२॥

हेतुता। तदा कारणमाला स्यात्’ इति। परिकरोऽप्यत्र। स यथा —‘विशेषणैर्यत्साकूतैरुक्तः परिकरस्तु सः’ इति। द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेष्वारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परमकाष्ठापन्नत्वं व्यङ्ग्यम्।

सो इति।

स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति।
हरिणाङ्कप्रति(पङ्क्ति)सिद्धया निष्कलङ्का गुणा यस्य॥

प्रतिकूलतया सिद्धिस्तत्कार्य कारित्वम्। त्रिभुवनमिति निष्कलङ्का इति च व्यतिरेकः। ‘उपमानाद्यदन्यस्य व्यतिरेकः स एव सः।’ इति काव्यप्रकाशे। अन्यस्य व्यतिरेको विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः। ’ विस्तरादुत संक्षेपाद्विदधीत प्ररोचनाम्’ इत्युक्तत्वात् ‘प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया। चेतनास्तु कथानाथकविसभ्य नटाः स्मृताः॥अचेतनौ देशकालौ कालो मधुशरन्मुखः।’ इत्युक्तेश्च कविप्रशंसा कृता। नटप्रशंसा किं पुनरित्यादिना सूचिता।
** सूत्रधारः—**
तत्केन समादिष्टाः प्रयुङ्ग्ध्वम्।

** पारिपार्श्वकः—**

चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी।
भर्तुः कृतिमवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति॥

कवेर्भार्या प्रयोजिका।

** किं चेति।**

चण्डपालधरणीहरिणाङ्कश्चक्रवर्तिपदलाभनिमित्तम्।
अत्र साटकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति॥

ता भाव, एहि। अणन्तरकरणिज्जं संपादेम्ह। जदो महाराअदेईणं भूमिअं घेत्तूण अज्जो अज्जघडिणिआ अ जवणिअन्तरे वट्टदि।

(इति परिक्रम्य निष्क्रान्ती।)
प्रस्तावना।

(ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः। सर्वे परिक्रम्य यथोचितमुपविशन्ति।)

** राजा —** देवि दक्खिणावहणरिन्दणन्दिणि, वडावीअसि इमिणा वसन्तारम्भेण। जदो

बिम्बोट्ठे बहलं देति मअणं णो गन्धतेल्लाविला
वेणीओ विरअन्ति देति ण तहा अङ्गम्मि कुप्पासअम्।

जं बाला मुहकुङ्कुमस्मिवि घणे वट्टन्ति ठिल्लाअरा
तं मणे सिसिरं विणिज्जिअ बला पत्तो वसन्तूसओ॥१३॥

रसाः शृङ्गारादयो जलं च। स्रोतः प्रवाहः। सायकलक्षणं त्वभ्यधायि। अत्र रूपकश्लेषानुप्रासः। अनेन कथानायकप्रशंसा साटकस्वरूपप्रशंसा च कृता। उक्तं हि —‘वाद्याकलापः प्रथमं कलाविधिरनन्तरः। वाद्याशून्या न दृश्यन्ते व्यवहाराः कथंचन॥ वाद्याकलापस्तु कवेरभीष्टार्थप्रकाशनम्।’ इति।

** ता इति।**
तद्भाव, एहि। अनन्तरकरणीयं संपादयावः। यतो महाराजदेव्योर्भूमिकां गृहीत्वा आर्य आर्यभार्या च जवनिकान्तरे वर्तते।

** तत इति।** एषामन्यतमेनार्थं पात्रावाक्षिप्य सूत्रधृक्। प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपचयेत्॥’ इति दशरूपके उक्तत्वात्। ‘गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः। स्यान्नर्मसचिवस्तस्य कुपितस्त्रीप्रसादकः॥इत्युक्त्वा ‘पीठमर्दो विश्चैव विदूषक इति त्रिधा।’ इति तद्भेदांश्चोक्त्वा ‘क्रीडाप्रायो विदूषकः। स्ववपुर्वेपभाषाभिर्हस्यकारी स्वकर्मकृत्।’ इति विदूषकलक्षणमभिहितं शृङ्गारतिलके।

** राजेति।**
देवि दक्षिणापथनरेन्द्रनन्दिनि, वर्धसेऽनेन वसन्तारम्भेण।

** जदो इति।**
यतः।

बिम्बोष्ठे बहलं न ददति मदनं नो गन्धतैलाविला
वेणीर्विरचयन्ति ददति न तथाङ्गेऽपि कूर्पासकम्।

देवी — देव, अहं वि तुज्झ पडिवड्ढाविआ भविस्सम्। जधा—

छोल्लन्ति दन्तरअणाइँ गदे तुसारे
ईसीसि चन्दणरसस्मिमणः कुणन्ति।

एह्णिंसुवन्ति घरमज्झमसालिआसु
पाअन्तपुञ्जिअपडं मिहुणाइँ पेच्छ॥ १४॥

यद्बाला मुखकुङ्कुमेऽपि घने वर्तन्ते शिथिलादरा-
स्तन्मन्ये शिशिरं विनिर्जित्य बलात्प्राप्तो वसन्तोत्सवः॥


कूर्पासकं चोलिका। ‘बाला स्यात्षोदशाब्दा’ इति बालालक्षणम्

अनेन तासां विलासवत्त्वं व्यङ्गथम्

बाला इत्यस्यावृत्तेरर्थदीपकम्। ‘अनेकशब्दोपादानात्क्रियैवैकात्र दीप्यते

’ इति दण्डिनोक्तम्

अत्र च देन्ति देन्ति इति कथितपदत्वं काव्यदोषो न शङ्कनीयः

विरअन्तीत्येतेन च्छेकानुप्रासनिर्वाहकत्वेन गुणत्वात्

तल्लक्षणं च ‘सोऽनेकस्य सकृत्पूर्वः’ इति काव्यप्रकाशे

अस्यार्थः— अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पूर्वं यस्य स च्छेकानुप्रास इति

न चाव्यवधानेन पूर्वतायामेव स इति वाच्यम्

‘ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी

दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्

’ इत्यादावप्यकारमकाराकाराकारपकाराकारव्यवधानेन तदनुदाहरणत्वापातात्

यद्वैकस्य देन्तिपदस्य दानविशेषार्थान्तरसंक्रामितवाच्यत्वाददोष इति युक्तमुत्पश्यामः

देवी—

देव, अहमपि तव प्रतिवधिका भविष्यामि।
प्रतिवर्धयतीति प्रतिवर्धिका। वसन्तवर्णिकेत्यर्थः।

जधेति।

यथा—

स्फुरन्ति दन्तरत्नानि गते तुषारे
ईषदीषच्चन्दनरसे मनः कुर्वन्ति।

इदानीं खपन्ति गृहमध्यमशालिकासु
पादान्तपुञ्जितपटं मिथुनानि प्रेक्षस्व॥

मध्यमशालिकास्वित्यनेनान्तर्गृहस्वापस्त्यक्त इत्युक्तम्। पादान्तेत्यादिना पटानपेक्षोक्ता। स्फुरन्तीत्यनेनोष्ठानां हाससहत्वमुक्तम्। यथा शृङ्गारतिलके— ‘किंचिद्विकसितैर्गण्डैः किंचिद्विस्फुरितेक्षणैः। किंचिल्लक्ष्यद्विजैः सोऽयमुत्तमानां भवेद्यथा॥’ इति। मिथुनानीति विरहासहत्वं व्यङ्गम्।

(नेपथ्ये।)

**वैतालिकः—**जअ पुव्वदिअङ्गणाभुअङ्ग चम्पाचम्पककण्णऊर लीलाणिज्जिअराढादेस विक्कमक्कन्तकामरूअ हरिकेलीकेलिआरअ अवमाणिअजच्चसुवण्णवण्ण सव्वङ्गसुन्दरत्तणरमणिज्ज, सुहाअ दे होदु सुरहिसमारम्भो। इह हि

पण्डीणं गण्डवालीपुलअणचवला कञ्चिबालावलीणं
माणं दो हण्डअन्ता रइरहसकला लोलचोलप्पिआणम्।

काण्णाडणं कुणन्ता चिउरतरलणं कुन्तलीणं पिएसुं
गुम्फन्ता णेहगण्ठि मलअसिहरिणो सीअला वान्ति वाआ॥१९॥

** जयेति।**

जय पूर्वदिगङ्गनाभुजङ्ग चम्पाचम्पककर्णपूर लीलानिर्जितराढादेश विक्रमाक्रान्तकामरूप हरिकेलीकेलिकारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरत्वरमणीय, सुखाय ते भवतु सुरभिसमारम्भः।

भुजंगःकामुकः। ‘राढागाढत्व’ ‘चङ्गत्व’ इति वा पाठः। ‘अवमानित कर्णसुवर्णदान’ इति वा पाठः। राज्ञः सर्वाः संबुद्धयः। चम्पाराढाकामरूपहरिकेल्याख्या देशाः। कामस्य रूपमिति न व्याख्या। प्रक्रमभङ्गापत्तेः। चङ्गत्वं नानाकलाकौशलवम्। आद्योः संबुद्ध्योरूपकम्। हरिकेली कामिनीवेत्यर्थश्लेषः। सुरभिर्वसन्तः।

इह हि

पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालावलीनां
मानं द्विः खण्डयन्तो रतिरभसकरा लोलचोलाङ्गनानाम्।

कार्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेषु
गुम्फन्तः स्नेहग्रन्थिं मलयशिखरिणः शीतला वान्ति वाताः॥

पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः। पुलकनं पुलककरणम्। तरलनं तरलवत्वकरणम्। एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम्। एतेन तत्तद्देशाधिपत्यं राज्ञो व्यङ्ग्यम्। अन्यथा विपक्षदेशवर्णनं रोषावहत्वादनौचितीमेव व्रजेत्। णेहेति ‘स्नेहेति वा इत्यनेन विप्रकर्षाभावपक्षे ‘उपरि लोपः’ इत्यनेन सलोपः। लक्ष्यवशाल्लक्षणप्रवृत्तेरङ्गीकारात्, परमपि ‘अधोमनयाम्’ इति प्राप्तं नलोपं बाधित्वा ‘ह्रस्रक्णक्ष्णस्त्रां ह्रः’ इति ह्रादेशः। ‘द्वेर्दो’ इति द्विशब्दस्य दोआदेशः। अत्र कारकहेत्वलंकारः। ‘हेतुश्च सूक्ष्मलेशौच वाचामुत्तमभूषणम्। कारकज्ञापकौहेतु तौ चानेकविधौ यथा॥’ इति दण्डिनोक्तत्वात्।

(अत्रैव।)

द्वितीयः—

जादं कुङ्कुमपङ्कलीढमरठीगण्डप्पहं चम्पअं
थोआवट्टिदुद्धमुद्धकलिआ पप्फुल्लिआ मल्लिआ।

मूले सामलमग्गलग्गभसलं लक्खिज्जए किंसुअं
पिज्जन्तं भसलेहिँदोहिँविदिसामासु लग्गेहिँव॥१६॥

** राजा—**पिए विब्भमलेहए, एक्को अहं वड्ढावओ तुज्झ, एक्का तुमं वड्ढाविआ मज्झ। किं उण दुवे वि अह्मेबड्ढाविआ कञ्चणचण्डरअणचण्डेहिं बन्दीहिं। ता विब्भममरट्टपअट्टाविअं तरट्टीणम्, णट्टावअं मलअमारुदन्दोलिदलदाणच्चणीणम्, चारुपवञ्चितपञ्चमं कलअण्ठिकण्ठकन्दलेसु, कन्दलिअकन्दप्पकोअण्डदण्डखण्डिचण्डिमम्, सिणिद्धबन्धुं वसुंधरापुरंधीए। विसारिअ पसइप्पमाणे अच्छिणी महुच्छवं जहिच्छं पेच्छदु देवी।

————————

जादमिति।

जातं कुङ्कुमपङ्कलीढमहाराष्ट्रीगण्डप्रभं चम्पकं
स्तोकावर्तितदुग्धमुग्धकलिका प्रोत्फुल्ला मल्लिका।

मूले श्यामलमग्रलग्नभ्रमरं लक्ष्यते किंशुकं
पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव॥

मरठीति दंष्ट्रादिः। थेो इति ‘स्तस्य थः’ इति थः। स्तोकपदमत्यन्तसादृश्यार्थम्। मुग्धःसुन्दरी। ‘मुग्धः सुन्दरमूढयोः’ इत्यभिधानात्। महाराष्ट्रीपदं गौरत्वातिशयकथनार्थम्। स्वभावतस्तद्गण्डानां गौरत्वात्। भसलो भ्रमरः। अत्र रूपकस्वभावोक्तयुत्प्रेक्षाः। स्वभावोक्तिर्दण्डिनोक्ता— ‘नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा॥’ इति।

राजा—

** **प्रिये विभ्रमलेखे, एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम। किं पुनर्द्वावप्यावां वर्धापितौ काञ्चनचण्डरत्नचण्डाभ्यां बन्दिभ्याम्। तद्विभ्रमगर्वप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलतानर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलकण्ठीकण्ठकन्दलेषु, कन्दलितकंदर्पकोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुंधरापुरंध्र्या। विस्तार्य प्रसृतिप्रमाणे अक्षिणी मधूत्सवं यथेच्छं प्रेक्षतां देवी।

** देवी —** जधा किल णिवेदिदं बन्दीहिं। पअट्टा जेब मलआणिला। तथाहि।

लङ्कातोरणमालिआतरलिणो कुम्भुब्भवस्सासमे
मन्दन्दोलिदचन्दणद्दुमलदाकप्पूरसंपक्किणो।

कङ्कोली कुलकम्पिणो फणिलदाणिप्पट्टणट्टावआ
चण्डं चुम्बिअतम्बवण्णिसलिला वाअन्ति चित्ताणिला॥१७॥

वर्धापनं वर्णनम्। विभ्रमेत्यादि मधूत्सवविशेषणानि। तरट्टीति दंष्ट्रादित्वात्। णट्टावअमिति वयोऽनुसारेण। तारुण्यं हि विभ्रमनिदानम्। अथवा यथायं कामिनीनां विभ्रमजनकस्तथा वसन्तोत्सवोऽपि। कामुकान्हि विलोक्य कामिन्यो विभ्रमसमुद्रमग्नाभवन्ति। अर्थत उपमानम्। तेन विभक्तित्वं न दोषः। एतेन स्वस्य कामुकता व्यङ्ग्या। ‘क्रोधः स्मितं च कुसुमाभरणादियाच्ञातद्वर्जनं च सहसैव विमण्डनं च। आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणस्थितगतेन स विभ्रमः स्यात्॥इति विभ्रमलक्षणम्। ‘तल्लास्यं ताण्डवं चैव छलितं शम्बया सह। हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते॥’ इति षड्भेदमपि नृत्यं गृह्यते। पञ्चमः स्वरः। कलकण्ठी कोकिला \। चार्वित्यादौ विशेषणद्वयं बहुव्रीहिः। विस्तार्थत्यादिना विस्तारिताख्यो दृग्विकार उक्तः। तदुक्तम्—‘आयतं विस्फुरत्तारं विस्फारितमुदाहृतम्।’ इति। एतेनादरातिशयो व्यङ्ग्यः। अत्र हेतुरूपके। नर्तकमित्यादौ समाधिः। ‘अन्यधर्मस्ततोऽन्यत्र लोकसौमानुरोधिना। सम्यगाधीयते यत्र स समाधिः स्मृतो यथा॥’ इति दण्डी।

देवी—

यथा किल निवेदितं बन्दिभ्याम्।
सत्यमेवोक्तमित्यर्थः।
प्रवृत्ता एव मलयानिलाः। तथाहि।

लङ्कातोरणमालिकातरलिनः कुम्भोद्भवस्याश्रमे
मन्दान्दोलितचन्दनद्रुमलताकर्पूरसंपर्कणः।

कङ्कोलीकुलकम्पिनः फणिलता निष्पष्टनर्तका—
श्चण्डं चुम्बितताम्रपर्णीसलिला वान्ति चैत्रानिलाः॥

कङ्कोली वृक्षविशेषः। फणिलताःफणिरूपालताः। लताविशेषा (ताम्बूलवल्ल्यः) वा। निष्पष्टं निःशेषं नितरां वा। महाराष्ट्रभाषायाम् ‘निप्पट’ इति प्रसिद्धम्। एतेन मान्द्यादिकमुक्तं वायोः। अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय ऊह्याः। ते यथा कण्ठाभरणे— ‘प्रसिद्धार्थपदत्वं यत्स प्रसादोऽभिधीयते। या पृथक्पदता वाक्ये तन्माधुर्य मिति स्मृतम्॥

अवि अ।

माणं मुञ्चध देह वल्लहजणे दिट्ठिं तरङ्गुत्तरं
तारुणं दिअहाइँपञ्च दह वा पीणत्थणत्थम्भणम्।

इत्थं कोइलमञ्जुसिञ्जणमिसादेअस्स पञ्चेसुणो
दिण्णा चित्तमहूसवेण भुअणे आण्ण व सव्वंकसा॥१८॥

** विदूषकः—** भो, तुह्माणं सव्वाणं मज्झे अहमेक्को कालक्खरिओ। जस्स मे ससुरस ससुरो पण्डिअघरे पुत्थिआइंवहन्तो आसी।

** चेटी —** (विहस्य।) तदो आगदं दे अण्णएण पण्डित्तणम्।

** विदूषकः —** (सक्रोधम्।) आः दासीए धीए भविस्सकुट्टणि णिल्लक्खणे अविअक्खणे, ईरिसो हं मुक्खो जो तुए वि उअहसिज्जामि।

——————————————

अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम्। यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम्॥’ इति। एवमग्रेऽपि गुणा द्रष्टव्याः। अत्रानुप्राससमाध्यर्थश्लेषाः।

अपि च।

मानं मुञ्च ददत वल्लभजने दृष्टि तरङ्गोत्तरां
तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम्।

इत्थं कोकिलमञ्जुशिञ्जनमिषाद्देवस्य पञ्चेषो —
दत्ता चैत्रमहोत्सवेन भुवने आज्ञेव सर्वंकषा॥

मानलक्षणं शृङ्गारतिलके— ‘स मानो नायिका यस्मिन्नीर्ष्यया नायकं प्रति। धत्ते विकारमन्यस्त्रीसङ्गदोषवशाद्यथा॥’ इति। तरङ्गितेति तदाख्यो दृग्विकार उक्तः। ‘कल्लोला इव यत्कान्तिविच्छर्दस्तत्तरङ्गितम्।’ इति तल्लक्षणम्। चैत्रे मधूत्सवश्चैत्रमधूत्सवः। सर्वंकषेति तत्र कामुकरहितत्वं व्यङ्ग्यम्। अत्र विप्रलम्भशृङ्गारः। कोकिलरवादयो विभावाः। दृग्विकारादयोऽनुभावा द्रष्टव्याः। निर्वेदादयो व्यभिचारिणश्च।

** विदूषकः—**

भोः, युष्माकं सर्वेषां मध्येऽहमेकः कालाक्षरिकः। यस्य मे श्वशुरस्य श्वशुरः पण्डितगृहे पुस्तकानि वहन्नासीत्।

कालाक्षराणि वेतीति कालाक्षरिकः पण्डितः।

** चेटी—**
तत आगतं ते अन्वयेन पाण्डित्यम्।

वंशक्रमागतमित्यर्थः।

अण्णं च हे परपुत्तविट्टालिणि रच्छालोट्टणि भमरटेण्टे टेण्टाकराले कोससहापहारिणि दुट्ठसंघडिदे, अहवा हत्थकङ्कणे कि दष्पणेण पेक्खीआदि।

** विचक्षणा—** (विभाव्य ) एव्वं णेदम्‌। तुरज्ञस्स सिग्धत्तणे कि साक्खिणो पुच्छीअन्ति \। ता वण्णअ वसन्तम्‌।

** विदूषकः—** तुमं उण पञ्जरगदासारिअ व्व कुरुकुराअन्ती चिट्ठसि, ण किं पि जाणेसि। ता पिअवअस्सस्स देवीए अ पुरदो पढिस्सम्‌। जदो ण कत्थूरिआ कुग्गामे वणे वा विक्किणीअदि, ण सुवण्णं कसवट्टिअं विणा सिलापट्टए कसीअदि।

राजा— पिअवअस्स, ता पढ़ \। सुणीअदु।

** विदूषकः—**
आः दस्याः पुत्रि भविष्यत्कुट्टनि निर्लक्षणे अविचक्षणे, ईदृशोऽहं मूर्खो यस्त्वयाप्युपहस्ये।

प्राकृत आत्मनेपदपरसमैपदव्यत्ययः। धीए इति दंष्ट्रादिः।

अन्यच्च हे परपुत्रविट्टलिनि रथ्यालुण्ठिनि श्रमरटेण्टे टेण्ठाकराले कोषशतापहारिणि दुष्टसंघटिते, अथवा हस्तकङ्कणं किं दर्पणेन दृश्यते।

इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः। विट्टलिनी भ्रंशिका। परपुरुषलम्पटेत्यर्थः। भ्रमरटेण्टा कुचेष्टावती। टेण्टाकराला व्यर्थप्रलापिनी। एते देशीशब्दाः। कोषाः शपथास्तेषां शतेन वर्तनशीला। मिथ्याशपथकारिणीत्यर्थः।

** विचक्षणा—**

** **एवमेतत्‌। तरंगस्य शीघ्रत्वे किं साक्षिणः प्रच्छ्यन्ते तद्वर्णय वसन्तम्‌।

** विदूषकः—**

** **त्वं पुनः पञ्जरगता शारिकेव कुरुकुरायमाणा तिष्ठसि, न किमपि जानासि। तत्प्रियवयस्यस्य देव्याश्च पुरतः पठिष्यामि। यतो न कस्तूरिका कुग्रामि बने वा विक्रीयते, न सुवर्णं कषपट्टिकाम्विना शिलापट्टके कष्यते।

ईदृशकवित्वाश्रयणायोग्याया अज्ञायास्तव सविधे न पठिष्यामीति भावः।

** राजा—**
प्रियवयस्य, तत्पठ। श्रूयताम्‌।
** अस्माभिरिति शेषः।**

(विदूषकः पठति।)

फुल्लक्कुरं कलमकूरसमं वहन्ति
जे सिन्दुवारविडवा मह वल्लभा दे।

जे गालिअस्स महिसीदहिणो सरिच्छा
ते किं च मुद्धविअइल्लपसूणपुञ्जा॥१९॥

** विचक्षणा —** णिअकन्तारञ्जणजोग्गं दे वअणम्।

** विदूषकः—** ता उआरवअणे, तुमंपढ।

** देवी—** (किंचित्स्मित्वा।) सहि विअक्खणे, अह्माणं पुरदो तुमं गाढं कइत्तणेण उत्ताणा होसि। ता पढ संपदं अज्जउत्तस्स पुरदो सअं कदं किंपि कव्वम्। जदो तं कव्वंजं सहाए पढीअदि, तं सुवण्णं जं कसवट्टए णिवट्टेदि, सा घरिणी जा पिअं रञ्जोदि, सो पुत्तो जो कुलं उज्जलेदि।

फुल्लेति।

पुष्पोत्करं कलमकूरसमं वहन्ति
येसिन्दुवारविटपा मलभा।

ये गालितस्य महिषीदध्नः सदृक्षा-
स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः॥

कूर ओदनः। विचकिलास्तरुभेदाः। मम वल्लभा इत्यनेन स्वस्य कामकलाकुशलत्वं व्यङ्ग्यम्।

** विचक्षणा—**
निजकान्तारञ्जनयोग्यं ते वचनम्।

स्वबुद्धिमेव केवलमाश्रित्य रञ्जयसीति भावः।

** विदूषकः —**
तदुदारवचने, त्वं पठ।

** देवी—**
सखि विचक्षणे, अस्माकं पुरतस्त्वं गाढं कवित्वेनोत्ताना भवसि।

अतिगर्वायस इति भावः।

तत्पठ सांप्रतमार्यपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम्। यतस्तत्काव्यं यत्सभायां पठ्यते, तत्सुवर्णं यत्कषपट्टिकायां निवर्तते, सा गृहिणी या पतिं रञ्जयति, स पुत्रो यः कुलमुज्ज्वलयति।

‘सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने’ इत्युक्तेरार्यपुत्रस्येत्युक्तम्।

** विचक्षणा —** जं देवी आणवेदि। (पठति।)

जे लङ्कागिरिमेहलाहिँखलिदा संभोअखिण्णोरई-
फारप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम्।

ते एह्णिंमलआणिला विरहिणीणीसाससंपक्किणो
जादा झत्ति सिसुत्तणेवि वहला तारुण्णपुण्णा विअ॥२०॥

** राजा —** सच्चं विअक्खणा विअक्खणा चदुरत्तणेण उत्तीणम्। ता किं अण्णम्। इणं विकिई।

** देवी —** (विहस्य \।) कइचूडामणित्तणेण ट्ठिदा एसा।

** विदूषकः—** (सक्रोधम्।) ता उज्जुअं ज्जेव्वकिं ण भणीअदि देवीए, अच्चुत्तमा विक्खणा कव्वम्मि, अच्चहमो कविञ्जलचबह्मणोति त्ति।

————————————

** विचक्षणा—**
यद्देव्याज्ञापयति।

जे इति।

ये लङ्कागिरिमेखलायां स्खलिताः संभोगखिन्नोरगी-
स्फारोत्फुलफणावलीकवलने प्राप्ता दरिद्रत्वम्।

तइदानीं मलयानिला विरहिणीनिःश्वाससंपार्किणो
जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव॥

अयं श्लोकः कविनिषद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपर्कत्वेन वस्तुना प्राप्तैश्वर्याःकिं किं न कुर्वत इति वस्तु व्यज्यत इत्युदाहरणविषयत्वेनोदाहृतः काव्यप्रकाशे [चतुर्थोल्लासे]।सत्या अप्युत्प्रेक्षाया व्यञ्जनेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदाहरणम्। अत्र हेतूत्प्रेक्षासमाविविभावनाः। विभावनादण्डिनोक्ता—‘प्रसिद्धहेतुव्यावृत्त्या यत्किंचित्कारणान्तरम्। यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना॥’ इति।

** राजा—**
सत्यं विचक्षणा विचक्षणा चतुरत्वेनोक्तीनाम्। तत्किमन्यत्। कवीनामपि कविः।

** देवी—**
कविचूडामणित्वेन स्थितैषा।

** विदूषकः—**
तदृज्वेव किं न भण्यते देव्या, अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपिञ्जलब्राह्मण इति।

** विचक्षणा—** अज्ज, मा कुप्प। कव्वं जेव्व कइत्तणं पिसुणोइ। जदो णिअकन्तारञ्जणजोग्गं णिजोदरभरित्तणम्। णिन्दणिज्जे वि अत्थे सुउमारा दे वाणी, लम्बत्थणीए विअ एक्कावल्ली, तुन्दिलाए विअ कञ्चुलिआ, ठेराए विअ कडक्खविक्खेवो, कट्टिदकेसाए विअ मालदीकुसुममाला, काणाए विअ कज्जलसलाआ, ण सुट्ठुदरं भादि रमणिज्जा।

** विदूषकः—** तुज्झ उण रमणिज्जे वि अत्थे ण सुन्दरा सद्दावल्ली। कणअकडित्तए विअलोहकिङ्किणीमाला, पडिवट्टे विअ टसरविरअणा, गोरङ्गीए विअ चन्दणचच्चा, ण चारुत्तणमवलम्बेदि। तहा वि तुमं वण्णी असि।

** विचक्षणा—** अज्ज, मा कुप्प। का तुम्हेहिं सह पडिसद्धा। जदोतुमं णराओ विअ णिरक्खरो वि रअणतुलाए णिउञ्जीअसि। अहं उण तुले व्वलद्धक्खरा विणि सुवण्णलवे विणिउञ्जीआमि।

—————————————

** विचक्षणा—**
आर्य, मा कुप्य। काव्यमेव कवित्वं पिशुनयति। यतो निजकान्तारञ्जनयोग्यं निजोदरंभरित्वम्। निन्दनीयेऽप्यर्थे मुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दिलाया इव कञ्चुलिका, स्थविराया इव कटाक्षविक्षेपः, कर्तितकेशाया इव मालतीकुसुममाला, काणाया इव कज्जलशलाका, न सुष्ठुतरं भाति रमणीया।

ते वाणी न भातीत्यर्थः।
** विदूषकः—**
तव पुना रमणीयेऽप्यर्थे न सुन्दरा शब्दावली। कनककटिसूत्र इव लोहकिंकिणीमाला, प्रतिपट्ट इव त्रसरविरचना, गौराङ्ग्याइव चन्दनचर्चा, न चारुत्वमवलम्बते। तथापि त्वं वर्ण्यसे।

प्रतिपट्टः पट्टसूत्रम्। चन्दनचर्चायाः स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागालाभादसौन्दर्यम्। अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकविः, त्वं स्वर्थसौन्दर्येऽप्यसुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः।

विचक्षणा—

** **आर्य, मा कुप्य। का युष्माभिः सह प्रतिस्पर्धा। यतस्त्वं नाराच इव निरक्षरोऽपि रनतुलायां नियुज्यसे। अहं पुनस्तुलेव लब्धाक्षरापि न सुवर्णभाण्डे(लवे) विनियुज्ये।

** विदूषकः—** एवं मह भणन्तीए तुह वामं दक्खिणं अ जुहिट्ठिरजेट्ठभाअरणामहेअं अङ्गजुअलं उप्पाडइस्सम्।

** विचक्षणा —** अहं वि उत्तराफग्गुणीपुरस्सरणक्खत्तणामहेअं अङ्गं तुह झत्ति खण्डिस्सम्।

** राजा—**वअस्स, मा एव्वं भण। कइत्तणे ट्ठिदा एसा।

** विदूषकः—**(सक्रोधम्।) उज्जुअं एव्व ता किं ण भणइ, अह्माणं चेडिआ हरिअन्दणन्दिजन्दकोट्टिसहालप्पहुदीणं पि पुरदो सुकइ त्ति।

** राजा —** एव्वं ण्णेदम्।

( विदूषकः सक्रोधं परिक्रामति।)

विचक्षणा— तहिं गच्छ जहिं मे पढमा साडिआ गदा।

______________________________

नाराचो लोहशलाका। नाराचस्य हि रत्नतुलावेधनमुपयोगः। तुलायास्तु सुवर्णभाण्डे न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम्।

** विदूषकः—**
एवं मम भणन्त्यास्तव वामं दक्षिणं च युधिष्ठिरज्येष्ठभ्रातृनामधेयमङ्गयुगलमुत्पाटयिष्यामि।

कर्णरूपमित्यर्थः। भाअरेति ‘अते आरःसुपि’ इत्यारादेशं बाधित्वा ‘पितृभ्रातृयातृणामरः’ इत्यरः।

** विचक्षणा—**
अहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तत्र झटिति खण्डयिष्यामि।

हस्ताभिधमित्यर्थः।

** राजा —**
वयस्य, मैवंभण। कवित्वे स्थितैपा।

** विदूषकः—**
ऋज्वेव तत्किं न भण्यते, अस्माकं चेटिका हरिचन्द्रनन्दिचन्द्रकोटिशहालप्रभृतीनामपि पुरतः सुकविरिति।

परातिगन्तु(?मिति शेषः।

** राजा—**
एवमेतत्।

** विचक्षणा—**
तत्र गच्छ यत्र मे प्रथमा शाटिका गता।

** विदूषकः—** (वलितग्रीवम्।) तुअं उण तहिं गच्छ जहिं मे मादाए पढमा दन्तावली गदा। ईदिसस्स राअउलस्स भद्दं भोदु, जहिं चेडिआ बम्भणेण समं समसीसिआए दीसदि। महरा पञ्चगव्वं च एकस्सिं भण्डए कीरदि, कच्चं माणिक्कं च समं आहरणे पउञ्जीअदि।

** चेटी—** इह राअउले तं ते भोदु कण्ठट्ठिदं जं भअवं तिलोअणो सीसे समुव्वहदि। तेण च ते मुहं चूरीअदु जेण असोअतरू दोहदं लहदि।

** विदूषकः —** आः दासीए पुत्ति टेण्टाकराले कोससअवट्टणि रच्छालोट्टणि, एव्वं मं भणसि। ता मह महबह्मणस्स भणिदेण तं तुमं लहसु जं फग्गुणसमए सोहञ्जणो जणादो लहदि। जं पामराहिन्तो बइल्लो लहदि।

** विदूषकः—**
त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रयमा दन्तावली गता।
कर्णवीटिकेत्यर्थः।

** ईदिसस्सेति।**
ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीपिकया दृश्यते।
समशीर्षिका प्रतिस्पर्धा।

** मइरेति।**
मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते।

** विचक्षणा—**
इह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षेसमुद्वहति।
अर्धचन्द्र इत्यर्थः।

** तेणेति।**
तेन च ते मुखं चूर्ण्यतां येनाशोकतरुर्दोहदं लभते।
पादप्रहारेणेत्यर्थः। ’ पादाहतः प्रमदया विकसत्यशोकः’ इति प्रसिद्धिः।

** विदूषकः—**
‘आःदासीए’ इत्यादि व्याख्यातम् (१७ पृष्ठे)।

** एव्वमिति।**
एवं मां भणसि। तन्मम महाब्राह्मणस्य भणितेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो जनाल्लभते। यत्पामरेभ्यो बलीवर्दो लभते।

फाल्गुनसमय इति धूलीप्रक्षेपादिकम्। बलीवर्द इति नासाछेदमित्यर्थः।

** विचक्षणा—** अहं उण तुह एव्वं भणन्तस्स णेउरस्स विअ पाअलग्गस्स पाएण मुहं चूरइस्सम्। अण्णं च उत्तरासाढापुरस्सरणक्खत्तणामहेअं अङ्गजुअलं उप्पाडिअ घाल्लिस्सम्।

** विदूषकः–** (सक्रोधं परिक्रामन्। जवनिकान्तरे किंचिदुच्चैः। ) ईरिसं राअउलं दूरे बन्दीअदि जहिं दासी ब्रह्मणेण समं पडिसिद्धिं करेदि। ता अज्जपहुदि णिअगेहणीए वसुंधराणामहेआए बह्मणीए चलणसुस्सूअओ भविअ गेहे जेव्व चिट्ठिस्सम् ।

(सर्वे हसन्ति।)

** देवी—** अज्जउत्त, कीदिसी कविञ्जलेण विणा गोट्ठी, कीदिसी णअणञ्जणेणविणा पाहणलच्छी।

(आकाशे।)

ण हु हु आगमिस्सम्। अण्णो को वि पिअवअस्सो अण्णसीअदु। अहवा एसा दुट्ठदासी लम्बकुचा टप्परकण्णी पडिसीसअं देइअ मह ट्ठाणे

** विचक्षणा—**
अहं पुनस्तवैवं भणतो नृपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि।
नृपुरदृष्टान्तेन व्यर्थप्रापित्वमस्योक्तम्।

** अण्णं चेति।**
अन्यच्च, उत्तराषाढापुरःसरनक्षत्रनामधेयमङ्गयुगलमुत्पाट्यक्षेप्स्यामि।

श्रवणसंज्ञकमित्यर्थः। घाल्लिस्सं इति देशी। ‘अन्यच्च ते पवननिष्क्रमणोत्क्रमणविवरस्थानमङ्गं खण्डयित्वा क्षेप्स्यामि’ इति क्वचित्कः पाठः।

** जवनिकान्तर इति।** ‘अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी’ इति तलक्षणम्।

** ईरिसमिति।**
ईदृशं राजकुलं दूरे वन्द्यतां यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धां करोति। तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुभूषुर्भुत्वा गेह एव स्थास्यामि।

** देवी—**
आर्यपुत्र, कीदृशी कपिञ्जलेन विना गोष्टी, कीदृशी नयनाञ्जनेन विना प्रसाधनलक्ष्मीः।

उवहसणत्थं करीअदु। अहमेक्को मुदो तुह्माणं सव्वाणं मज्झे, तुह्मेउण वरससअं जीअध।

** विचक्षणा—** मा अणुबन्धेहि। अणुणअकक्कसो क्खु कविञ्जबह्मणो सलिलसित्तो विअ सणगुणगण्ठी चिरं गाढअरो भोदि। णं दंसणीअं दीसदु।

** राजा —** (समन्तादवलोक्य।)

गाअन्तगोवअवहूपदपेङ्खिआसु
दोलासु विब्भमवदीसु णिसण्णदिट्ठी।

जं जादि खञ्जिदतुरङ्गरहो दिणेसो
तेणेव्व होन्ति दिअहा अइदीहदीहा॥ २१॥

————————————

णेति।

न खलु न खल्वागमिष्यामि। अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम्। अथवैषा दुष्टदासी लम्बकुचा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थान उपहसनार्थं क्रियताम्। अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वर्षशतं जीवत।

टप्परो वंशपात्रम्। ‘टोपला’ इति भाषायाम्। तद्वत्कर्णौ यस्याः। प्रतिशीर्षकलक्षणमुक्तम्। मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः।

** विचक्षणा—**
मानुबभीत। अनुनयकर्कशः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुणग्रन्थिश्विरं गाढतरो भवति। ननु दर्शनीयं दृश्यताम्।

** राजा—**

गायद्गोपवधूपदप्रेङ्खितासु
दोलासु विभ्रमवतीषु निपण्णदृष्टिः।

यद्याति खञ्जिततुरङ्गरथो दिनेश-
स्तेनैव भवन्ति दिवसा अतिदीर्घदीर्घाः॥

पदैश्चरणैः। प्रेङ्खितास्वान्दोलितासु। गोष्ठीभिर्विनातिदीर्घा दिवसा आलस्यमावाहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति ध्वन्यते, तेन प्रकृतसंगतिः। अत्र हेत्वतिशयोक्तिपर्यायोक्त्युत्प्रेक्षाः। अतिशयोक्तिपर्यायोक्ती दण्डिनोक्ते—‘विवक्षायां विशेषस्य लोकसीमातिवर्तिनी। असावतिशयोक्तिः स्यादलंकरोत्तमा यथा॥’ इति। ‘अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये। यत्प्रकारान्तराख्यानं पर्यायोक्तस्तदिष्यते॥’ इति।

(प्रविश्यापटीक्षेपेण)

** विदूषकः—** आसणमासणम्।

** राजा—** किं तेण।

** विदूषकः—** भैरवाणन्दो आअच्छदि।

** देवी—** किं सो, जो जणवअणादो अच्चब्भुदसिद्धी सुणीअदि।

** विदूषकः—** अध इं।

** राजा—** पवेसअ।

(विदूषको निष्क्रम्य तेनैव सह प्रविशति।)

** भैरवानन्दः—** (किंचिन्मदमभिनीय पठति।)

मन्तो णतन्तो ण अ किं पि जाणं झाणं च णो किं पि गुरुप्पसादा।

मज्जं पिआमो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा॥२२॥

———————————

** प्रविश्येति।** अपटी जवनिका।

** विदूषकः—**
आसनमासनम्।
दीयतामिति शेषः।

** राजा—**
किं तेन।
प्रयोजनमिति शेषः।

** विदूषकः—**
भैरवानन्द आगच्छति।

** देवी—**
किं सः, यो जनवचनादत्यद्भुतसिद्धिः श्रूयते।

** विदूषकः —**
अथ किम्।

** राजा—**
प्रवेशय।

** मन्तो इति।**

मन्त्रो न तन्त्रंन च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात्।

मद्यं पिबामो महिलां रमयामो मोक्षं च यामः कुलमार्गलग्नाः॥

अवि अ।

रण्डा चण्डा दिक्खिदा धम्मदारा
मज्जं मंसं पिज्जए खज्जए अ।

भिक्खा भोज्जं चम्मखण्डं च सेज्जा
कोलो धम्म कस्स णो भादि रम्मो॥२३॥

किं च।

मुत्तिं भणन्ति हरिबह्ममुहाहिदेआ
झाणेण वेअपठणेणकदुक्किआए।

एक्केणकेवलमुमादइएण दिट्ठो
मोक्खो समं सुरअकेलिसुरारसेहिं॥२४॥

** राजा —** एदं आसणम्। उपविसदु भैरवाणन्दो।

मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते। अत्र विरोधाभासः। स यथा दण्डिना प्रोक्तः—‘विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम्। विशेषदर्शनायेव स विरोधःस्मृतो यथा॥‘इति।

** अवि एति।**

अपि च।

रण्डा चण्डा दीक्षिता धर्मदारा
मद्यं मांसं पीयते खाद्यते च।

भिक्षा भोज्यं चर्मखण्डं च शय्या
कौलो धर्मः कस्य नो भाति रम्यः॥

किं चेति।

मुक्तिं भणन्ति हरिब्रह्ममुखादिदेवा
ध्यानेन वेदपठनेन ऋतुक्रियाभिः।

एकेन केवलमुमादयितेन दृष्टो
मोक्षः समं सुरतकेलिसुरारसैः॥

हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः। अत्र व्यतिरेकः।

** राजा—**
इदमासनम्। उपविशतु भैरवानन्दः।

** भैरवानन्दः–** (उपविश्य।) किं कादव्वम्।

** राजा—** कहिं वि विसए अच्चरिअं दट्ठुमिच्छामि।

** भैरवानन्दः—**

दंसेमि तं पि ससिणं वसुहावतिण्णं
थम्भोमि तस्यवि रविस्स रहं णहद्धे।

आणेमि जक्खरसिद्धगणङ्गणाओ
तं णत्थि भूमिवलए मह जं ण सज्जम्॥२९॥

ताण भण किं करीअदु।

** राजा —**वअस्स, तुए कहिं पि अपुव्वंदिट्ठं महिलारअणम्।

** भैरवानन्दः—**
किं कर्तव्यम्।
किमीप्सितं ते मया कर्तव्यमित्यर्थः।

** राजा—**
कस्मिन्नपि विषये आश्चर्यं द्रष्टुमिच्छामि।

अनेन कारणाख्यमङ्गमुक्तम्। ‘प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत्।’ इत्युक्त्वात्।

** भैरवानन्दः —**

दर्शयामि तमपि शशिनं वसुधावतीर्णं
स्तभ्नामि तस्यापि रवे रथं नभोऽर्धे।

आनयामि यक्षसुरसिद्धगणाङ्गना-
स्तन्नास्ति भूमिवलये मम यन्न साध्यम्॥

एतेनावमर्शसंध्यङ्गो व्यवसाय उक्तः। तत्रावमर्शलक्षणं दशरूपके— ‘क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात्। गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः॥‘इति। व्यवसायलक्षणमपि तत्रैव— ‘व्यवसायःस्वशक्त्युक्तिः’ इति।

** ता इति।**
तद्भण किं क्रियताम्।

** राजा—**
वयस्य, त्वया कुत्राप्यपूर्वं दृष्टं महिलारत्नम्।

** विदूषकः—** दिट्ठंदाव।
** राजा—** कहेहि।
** विदूषकः —** अस्थि एत्थ दक्खिणाव हे वच्छोमं णाम णअरम्। तहिं मए एक्कं कण्णारअणं दिट्ठम्। तमिहाणीअदु।
** भैरवानन्दः —** आणीअदि।
** राजा—** ओदारीअदु पुण्णिमाहरिणको धरणीअले।

(भैरवानन्दो ध्यानं नाटयति। )

(ततः प्रविशति पटाक्षेपेण नायिका। सर्वे आलोकयन्ति। )

** राजा —** अहह, अच्चरिअं अच्चरिअम्।

जं धोअञ्जणसोणलोअणजुअं लग्गालअग्गं मुहं
हत्थालम्बिदकेसपल्लवचए दोल्लन्ति जं बिन्दुणो।

** विदूषकः —**
दृष्टं तावत्।

** राजा—**
कथय।

** विदूषकः—**
अस्त्यत्र दक्षिणापथे वैदर्भं नाम नगरम्। तत्र मयैकं कन्यारत्नं दृष्टम्। तदिहानीयताम्।

कन्यारत्नमुत्कृष्टा कन्या। ‘जातौजातौयदुत्कृष्टं तद्रत्नमभिधीयते’ इत्युक्तत्वात्।

** भैरवानन्दः—**
आनीयते।

** राजा—**
अवतार्यतां पूर्णिमाहरणाङ्को धरणितले।

पूर्णिमाचन्द्रवदाह्लादकारि स्त्रीरत्नमानीयतामित्यर्थः। दृष्टान्तालकारः। नायिका कर्पूरमञ्जरी।

** राजा—**
अहह, आश्चर्यमाश्चर्यम्।

यद्धौताञ्जनशोणलोचनयुगं लग्नालकाग्रंमुखं
हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्बिन्दवः।

जं एक्कं सिचअञ्चलं णिवसिदं तं हृाणकेलिट्ठिदा
आणीदा इअमब्भुदेक्कजणणी जोईसरेणामुणा॥२६॥

अवि अ।

एक्केण पाणिलिणेण णिवेसअन्ती
वत्थञ्चलं घणथणत्थलसंसमाणम्।

चित्ते लिहिज्जदि ण कस्स वि संजमन्ती
अण्णेण चङ्कमणदो चलिदं कडिल्लम्॥ २७॥

विदूषकः—

ह्णाणावमुक्काहरणोच्चआए तरङ्गभङ्गक्खदमण्डणाए।
उल्लंसुउल्लासिथणूलआए सुन्देरसव्वस्समिमीअ दिट्ठी॥२८॥

—————————————————

यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता
आनीतेयमदुतैकजननी योगीश्वरेणामुना॥

धौताञ्जनमत एव शोणमित्यर्थः। सिचयस्य वस्त्रस्याञ्चलं पल्लवं तन्निवसितं पृथग्भूतम्। स्रवज्जलमित्यर्थः। अत्र स्वभावोक्तिः।

अवि एति।
अपि च।

एकेन पाणिनलिनेन निवेशयन्ती
वस्त्राञ्चलं घनस्तनस्थलसमानम्।

चित्रे लिख्यते न कस्यापि संयच्छन्ती
अन्येन चङ्कमणतश्चलितं कटिवस्त्रम्॥

कडिल्लमिति देशी। अथ ‘तस्येदम्’ इत्यस्मिन्नर्थे ‘उल्ल इल्लस्तु तद्भवे’ इतील्लः। अपि शब्दश्चार्थे, अन्येनेत्यनन्तरं पठितव्यः। चित्रलिखितेव कामुकमनसि लगतीत्यर्थः। अत्र प्रलयाख्यः सात्त्विको भावः। स यथा रसकलिकायाम्—‘प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः।’ इति। स एव चानुभावः। चिन्तादयो व्यभिचारिणः। यौवनादय आलम्बनगुणा विभावाः। अभिलाषाख्या शृङ्गारावस्था।

** विदूषकः—**

स्नानावमुक्ताभरणोच्चयायास्तरङ्गभङ्गक्षतमण्डनायाः।
आर्द्रांशुकोल्लासितनुलतायाः सौन्दर्यसर्वस्वमस्या दृष्टिः॥

नायिका—

(सर्वानवलोक्य। स्वगतम्) एसो महाराओ को वि इमिणा गम्भीरमहुरेण सोहासमुदाएण जाणिज्जदि। एसा वि एदस्स महादेवी तक्कीअदि। अद्धणारीसरस्स विअ अकहिआ वि गोरी। एसो को वि जोईसरो। एस उण परिअणो। (विचिन्त्य।) ता किं ति एदस्स महिलासहिदस्स विदिट्ठी मं बहु मण्णेदि। ( इति त्रस्तं वीक्षते।)

** राजा —** (विदूषकमपवार्य।) एदाए

जं मुक्का सवणन्तरेण तरला तिक्खां कडक्खच्छडा
शिङ्गाधिट्ठिअकेअअग्गिमदलद्दोणीसरिच्छच्छई।

—————————————

दृष्टिरत्र तटस्थः। अन्यत्पूर्ववत्। अत्र रूपमुक्तम्। तद्यथा सुधाकरे— ‘अङ्गान्यभूषितान्येव प्रक्षेपाद्यैविभूषणैः। येन भूषितवद्भान्ति तद्रूपमिह कथ्यते॥’ इति। मृदव नामाङ्गमप्युक्तम्—‘दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्।’ इति तलक्षणम्। ‘सुश्लिष्टसृष्टिबन्धो यस्तत्सौन्दर्यमितीर्यते।’ इति सौन्दर्यलक्षणम्।

** नायिका— एसो इति।**
एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभासमुदायेन ज्ञायते। एषाप्यस्य महादेवी तर्क्यते \। अर्धनारीश्वरस्येवाकथितापि गौरी। एषकोऽपि योगीश्वरः। एष पुनः परिजनः। तत्किमित्येतस्य महिलासहितस्यापि दृष्टिर्मां बहु मन्यते।

त्रस्तमिति क्रियाविशेषणम्। अनेन कातराख्यं दर्शनमुक्तम्। ‘सभयान्वेषणपरं यत्तत्कातरमुच्यते।’ इति तल्लक्षणम्।

** राजा—अपवार्येति।** अपवारणेन जनान्तिकमुच्यते। अत एवोक्तं दशरूपके— ‘त्रिपताककरेणान्यानपवार्यान्तरा कथाम्। अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्॥’ इति। त्रिपताका तु संगीतरत्नाकरे — ‘तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठको भवेत्। पताकः संहताकारः प्रसारित कराङ्गुलिः॥स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः।’ इति।

एदाए इति।
एतस्याः

यन्मुक्ता श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा
शृङ्गाधिष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः।

तं कप्पूररसेण णं धवलिदो ज्योह्णाअ णं ह्णाविदो
मुत्ताणं घणरेणुण व्व छुरिदो जादो ह्मि एत्थन्तरे॥२९॥

** विदूषकः—** अहो से रूअरेहा।

मण्णे मज्झं तिवलिवलिअं डिम्भमुट्ठीअ गेह्णं
णो बाहूहिं रमणफलअं वेट्ठिदुं जादि दोहिं।

णेत्तच्छेत्तं तरुणिपसईदिज्जमाणोवमाणं
ता पच्चक्खं मह विलिहिदुं जादि एसा ण चित्ते॥ ३०॥

_________________

तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो
मुक्तानां घनरेणुनेव च्छुरितो जातोऽस्म्यत्रान्तरे॥

द्रोणीपदं नेत्रयोरत्यन्तविपुलताकथनार्थम्। अत्र हेत्वतिशयोत्प्रेक्षाविरोधाभासाः। तीक्ष्णकटाक्षनाटनेऽत्यन्तनिर्वृतेर्विरोधः। सितकृष्णौ कटाक्षावुक्तौ। तरलेति तरलिताख्यो दृग्विकार उक्तः। ‘तरलं तदिति प्राहुलंलितारकनीनिकम्।’ इति। श्रवणान्तर इति ‘यत्रं तिर्यगुदञ्चितम्’ इति त्र्यसाख्यः। एतेषु वेद्येषु केषुचिद्रसाभासो ज्ञेयः। नायिकाया असर्पिरसोदयाभावात्। ‘एकस्यैवानुरागश्चेदथवा तिर्यगाश्रितः। पोषितो बहुभक्तिश्चेद्रसाभासस्त्रिधा मतः॥’ इत्युक्तत्वात्। अत्र संप्रयोगः। रत्याख्यः स्थायिभावः। सर्वत्रालम्बनं नायिका नायकश्च। यौवनादिरालम्बनगुणः। विलासादिका चेष्टा। अलंकृतिर्वस्त्राद्या। वसन्तस्तटस्थः। एते आलम्बनोद्दीपनविभावाः। पूर्वोक्ता दृग्विकारा अनुभावाः। रोमाञ्चादयः सात्त्विका ज्ञेयाः। हर्षादयो व्यभिचारिणः। चक्षुः प्रीत्यादयस्तटस्थाः। भरतस्तु—‘तात्कालिको विकारः स्याद्दयितालोकनादिषु। आदरादीक्षणं चैव चक्षुःप्रीतिरुदीर्यते॥’ इति। रसादिलक्षणानि त्वनतिप्रयोजनत्वाद्गौरवाच्च नोच्यन्ते। एवं विभावादयः सर्वत्र ज्ञेयाः॥

** विदूषकः—**
अहो अस्या रूपरेखा।

मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्टया ग्राह्यं
नो बाहुभ्यां रमणफलकं वेष्टितुं याति द्वाभ्याम्।

नेत्रक्षेत्रं तरुणीप्रसृतिदीयमानोपमानं
तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते॥

रमणफलकं जघनपरिसरः। नेत्रक्षेत्रं चक्षुःपरिसरः। चित्ते विलिखितुं धारयितुं। शक्नोमीत्यर्थः। डिम्भो बालः। क्षेत्रशब्देन नानादृग्विकारास्पदत्वं व्यङ्ग्यम्। अत्र रूपलावण्यसौन्दर्याण्युक्तानि। लावण्यं तु ‘मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा।

कधं ह्णाणधोविदविलेवणा समुत्तारितविहूसणा वि रमणिज्जा।अहवा।

जे रूअमुक्का वि विहूसयन्ति ताणं अलंकारवसेण सोहा।
णिसग्गचङ्गस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं॥३१॥

** राजा —** एदाए दाव एव्वम्।

लावण्णं णवजच्चकञ्चणणिहं णेत्ताण दीहत्तणं
कण्णेहिं खडिदं कओलफलआ दोखण्डचन्दोवमा।

एसा पञ्चसरेण सज्जिदधणूदण्डेण रक्खिज्जए
जेणं सोसणमोहणप्पहुदिणो विज्झन्ति मं मग्गणा॥३२॥

प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते॥’ इति। उपमालंकारः। शृङ्गारस्य दीप्तत्वात् ‘कान्तिर्दीप्तरसत्वं स्यात्’ इति कान्तिर्वाक्यार्थगुण उक्तः। गाम्भीर्यंच। विभावादिकं तु पूर्ववदेव॥

कथं स्नानधौतविलेपना समुत्तारितविभूषणापि रमणीया। अथवा।

या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा।
निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः॥

यासां सौन्दर्यं नास्ति तासामलंकारेण शोभा। यस्य तु मनुष्यस्य नैसर्गिकं सौन्दर्यं तस्यालंकारैः कान्तिरुन्मीलति। न त्वसत्येव जायत इत्यर्थः। अत्र समाधिः। यथा काव्यप्रकाशे — ‘समाधिः सुकरं कार्यं कारणान्तरयोगतः॥

** राजा—**
एतस्यास्तावदेवम्।
वर्तत इति शेषः।

लावण्यं नवजात्यकाञ्चननिभं नेत्रयोर्दीर्घत्वं
कर्णाभ्यां स्खलितं कपोलफलकौद्विखण्डचन्द्रोपमौ।

एषा पञ्चशरेण सज्जितधनुर्दण्डेन रक्ष्यते
येन शोषणमोहनप्रभृतयो विध्यन्ति मां मार्गणाः॥

द्विधाभूतचन्द्रशकलद्वयनिभाविति द्विखण्डेत्यस्यार्थः। यथोद्यानवाटिकारक्षकस्तत्पुष्पफलादिजिघृक्षया तद्द्रष्टारं हन्ति तथेति वस्तुनोपमा व्यज्यते। शोषणेनान्ये गात्रजा मोहनेनान्या मानसाश्च विकारा उपलक्षिताः। मोहस्तु रसकलिकायाम्— ‘मोहस्तु मूर्छनं भीतिर्दुःखवेगानुचिन्तनैः। तत्राज्ञानभ्रमापात घूर्णनादर्शनादयः॥’ इति॥

** विदूषकः—** (विहस्य।) जाणे रत्थाए लोट्टदि से सोहारअणम्।

** राजा—** ( विहस्य।) पिअवअस्स, कधेमि दे।

अङ्गं चङ्गं णिअगुणगणालंकिदं कामिणीणं
पच्छाअन्ती उण तणुसिरिं भादि णेवच्छलच्छी।

इत्थं जाणं अवअवगदा कावि सुन्दर मुद्दा
मण्णे ताणं वलइदधणू णिच्चभिच्चो अणङ्गो॥३३॥

अवि अ। एदाए

तहारमणवित्थरो जह ण ठाइ कञ्चीलदा
तहा अ थणतुङ्गमा जह ण एइ णाहिं मुहम्।

तहा णअणबंहिमा जह ण किंपि कण्णुप्पलं
तहा अ मुहमुज्जलं दुससिणी जहा पुण्णिमा॥३४॥

_________________

विदूषकः—

जाने रध्यायां लुठत्यस्याः शोभारत्नम्।
रथ्यामध्यस्थितरत्नवदखिलजनरञ्जकमित्यर्थः।

** राजा—**
प्रियवयस्य, कथयामि ते।

अङ्गं चङ्गं निजगुणगणालंकृतं कामिनीनां
प्रच्छादयन्ती पुनस्तनुश्रियं भाति नेपथ्यलक्ष्मीः।

इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा
मन्ये तासां वलयितधनुर्नित्यभृत्योऽनङ्गः॥

अवयवगतेति सर्वाङ्गव्यापि सौन्दर्यमुक्तम्। नित्यभृत्य इति। भृत्यो यथा भर्त्राज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्यं कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशीकरोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते। अत्र सारः। स यथा काव्यप्रकाशे— ‘उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः।’ इति॥

अपि च। एतस्याः

तथा रमणविस्तरो यथा न तिष्ठति काञ्चीलता
तथा च स्तनतुङ्गिमा यथा नैति नाभि मुखम्।

तथा नयनबंहिमा यथा न किमपि कर्णोत्पलं
तथा च मुखमुज्ज्वलं द्विशशिनी यथा पूर्णिमा॥

** देवी—** अज्ज कञ्जिजल, पुच्छिअ आण का एसा त्ति।

** विदूषकः—**(तां प्रति।) एहि मुद्धमुहि, उअविसिअ णिवेदेहि का तुमं त्ति।

** राजा—** आसणमिमीए।

** विदूषकः—** एदं मे उत्तरीअं आअणम्।

(विदूषकनायिके वस्त्रदानोपवेशने नाटयतः। )

** विदूषकः—**भोदि, संपदं कहिज्जदु।

** नायिका—**अत्थि एत्थ वच्छोमं णाम णअरं कुन्तलेसु। तहिं सअलजणवल्लहोवल्लहराओ णाम राआ।

** देवी—** (स्वगतम्।) जो मह माउसिआए पई होई।

न किमपीति न शोभावहमित्यर्थः। क्वचित् ‘वुट्ठिमा’ इति पाठः। क्वचिच्च ‘वट्टिमा’ इति। तदुभयमप्यप्रमाणम्। ‘वृद्धवृत्तशब्दाभ्याम्’ इति वृः क्वचिददृष्टत्वात्। द्विशशिनीति ‘नद्यृतश्च’ इति न कप्। अनित्यत्वात्। अद्भुतोपमया वपुषः परमाह्लादकत्वंध्वन्यते। चरणत्रयेऽतिशयोक्तिहेतू। चतुर्थे तूपमायाः कृतत्वात्प्रक्रमभङ्गः ‘तहा अ मुहमुज्जलं जह ण उज्जलं कञ्चणम्’ इति पठित्वा समाधेयः॥

देवी—
आर्य कपिञ्जल, पृष्ट्वा जानीहि कैषेति।

विदूषकः—
एहि मुग्धमुखि, उपविश्य निवेदय का त्वमिति।

तो नायिकाम्। मुग्धं सुन्दरम्।

राजा—
आसनमस्यै।

विदूषकः—
एतन्म उत्तरीयमासनम्।

विदूषकः—
भवति, सांप्रतं कथ्यताम्।

नायिकाः—
अस्त्यत्र विदर्भं नाम नगरं कुन्तलेषु। तत्र सकलजनवल्लभो वल्लभराजो नाम राजा।

देवी—
यो मम मातृष्वसुः पतिर्भवति।

नायिका — तस्स घरिणी ससिप्पहा णाम।
देवी — (स्वगतम्। ) सा वि मे माउस्सिआ।
नायिका — तेहिं अहं उपण्णेत्ति।
देवी — (स्वगतम्) ण हु ससिप्पहागब्भुप्पत्तिमन्तरेण ईदिसी रूअरेहा होदि। णहु वेडुलिअभूमिगब्भुप्पत्तिमन्तरेण वेडुलिअमणिसलाआ णिप्पज्जई। (प्रकाशम्।) णं तुमं कप्पूरमञ्जरी।

(नायिका सलज्जमधोमुखी तिष्ठति।)

देवी — एहि बहिणिए, आलिङ्गेसु मम्। ( इति परिष्वजते।)
कर्पूरमञ्जरी — अज्जे, कप्पूरमञ्जरीए एसो पढमो पणामो।
**देवी—**अज्ज भैरवाणन्द, तुह प्पसादेण अपुव्वं संविहाणअं अणुहविदं कप्पूरमञ्जरीदंसणेण। ता चिट्ठदु दाव एसा पञ्चदसदिअहाइं। पच्छा झाणविमाणेण णइस्सध।

————————————

नायिका —
तस्य गृहिणी शशिप्रभा नाम।
देवी—
सापि मे मातृष्वसा।
नायिका —
ताभ्यामुत्पन्नेति।
देवी—
न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा भवति। न खलु वैदूर्यभूमिगर्भोत्पत्तिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते। ननु त्वं कर्पूरमञ्जरी।
देवी—
एहि भगिनिके, आलिङ्गय माम्।
कर्पूरमञ्जरी —
आर्ये, कर्पूरमञ्जर्या एष प्रथमः प्रणामः।
प्रथम इत्येतावन्तं कालमदृष्टत्वात्प्रणामस्य प्राथम्यमुक्तम्।
देवी—
आर्य भैरवानन्द, तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन। तत्तिष्ठतु तावदेषा पञ्चदशदिवसानि। पश्चाद्ध्यानविमानेन नेष्यथ।

भैरवानन्दः — जं भणादि देई।
विदूषकः — (राजानमुद्दिश्य। ) भो वअस्स, अहो परं दुए वि बाहिरा एत्थ। जदो एदाणं मिलिदं कुटुम्बं वट्टदि। जदो इमीए दुओ वि बहिणिआओ \। भैरवाणन्दो उण एदाणं संजोअअरो अच्चिदो मण्णिदो अ। एसा वि महीअलसरस्सई अ कुट्टणी देहन्तरेण देवी जेव्व।
देवी — विअक्खणे, णिअजेट्ठबहिणिअं सुलक्खणं भणिअ भैरवाणन्दस्स हिअअट्ठिआ सपज्जा कादव्वा।
विचक्षणा — जं देवी आणवेदि।
देवी — (राजानं प्रति) अज्जउत्त, पेसिहि मम्, जेण अहं बहिणाए एदावत्थाए णेवच्छलच्छीलीलाणिमिच्चं अन्तेउरं गमिस्सम्।

संविधानकमुपचारः। ध्यानलब्धं विमानं ध्यानविमानम्। नेष्यथेति पूजायां बहुवचनम्।
भैरवानन्दः —
यद्भणति देवी।
विदूषकः—
भो वयस्य, आवां परं द्वावपि बाह्यावत्र। यत एतासां मिलितं कुटुम्बकं वर्तते। यत इमे द्वे अपि भगिन्यौ। भैरवानन्दः पुनरेतयोः संयोगकरोऽर्चितो मानितश्च। एषापि महीतलसरस्वती च कुट्टनी देहान्तरेण देव्येव।

यथा राज्ञी पूजिता तथेयमपीति सोल्लुण्ठम्।
देवी—
विचक्षणे, निजज्येष्ठभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या कर्तव्या।
हृदयस्थितेत वार्थः। तदा यथाभिलषितमित्यर्थः।
विचक्षणा—
यद्देव्याज्ञापयति।
देवी—
आर्यपुत्र, प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्तमन्तःपुरं गमिष्यामि।

राजा — जुज्जदि चम्पअलदाए कत्थूरिआकप्पूरेहिं आलवालपरिपूरणम्।

(नेपथ्ये)

वैतालिकयोरेकः — सुहाअ संझा भोदु देवस्स।

एवं वासरजीवपिण्डसरिसं चण्डंसुणो मण्डलं
को जाणादि कहिं पि संपदि गदं एतम्मि कालन्तरे।
जादा किं च इअं पि दीहविरहा सोएण णाहे गदे
मुच्छामुद्दिदलोअणे व्व णलिणी मीलन्तपङ्केरुहा॥३५॥

द्वितीयः—

उग्घाडीअन्ति लीलामणिमअवलहीचित्तभित्तीणिवेसा
पल्लङ्का किंकरीहिं रिदुसमअसुहा वित्थरिज्जन्ति झत्ति।
सेरन्धीलोलहत्थङ्गुलिचलणवसा पट्टनादो पउट्टो
हुंकारो मण्डपेसुंविलसदि महुरो रुट्ठतुट्ठङ्गणाणम्॥३६॥

राजा—
युज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम्।
अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः। समासोक्तिरत्र। सा यथा काव्यप्रकाशे — ‘परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः’ इति।
वैतालिकः—
सुखाय संध्या भवतु देवस्य।

एतद्वासरजीवपिण्डसदृशं चण्डांशोर्मण्डलं
को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे।
जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते
मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा॥

दिवसस्य प्राणतुल्यमिति वासरेत्याद्यर्थः। कालान्तरे सायंसमये। अत्रोत्प्रेक्षा। भवद्दर्शनात्संजातमदना कर्पूरमञ्जरीति समासोक्तिश्च। नायिकाधर्माणां नलिन्यामारोपितत्वात्समाधिरपि॥
द्वितीयः—

उद्घाट्यन्ते लीलामणिमयवलभीचित्रभित्तिनिवेशाः
पर्यङ्काः किंकरीभिः ऋतुसमयसुखा विस्तार्यन्ते झटिति।
सैरन्ध्रीलोलहस्ताङ्गुलिचलनवशात्पट्टनादः प्रवृत्तो
हुंकारो मण्डपेषु विलसति मधुरो रुष्टतुष्टाङ्गनानाम्॥

राजा — अह्मेवि संझं वन्दिदुं गमिस्सामो।

(इति निष्क्रान्ताः सर्वे।)
इति प्रथमं जवनिकान्तरम्।

———————

लीलार्थं मणिमय्यो वलभ्यश्च चित्रभित्तिनिवेशाश्चेति विग्रहः। चित्रभित्तिनिवेशाश्चित्रगृहाः। ते उद्घाट्यन्ते। अभिसारिकाद्यभिसारणार्थम्। किंकरीभिर्दासीभिः। ऋतुः प्रस्तुतो वसन्तः। सैरन्ध्री प्रसाधिका। पट्टो मृदङ्गः। हस्तेत्येतावतैव सिद्धेऽर्थेऽङ्गुलिपदं तासां वाद्यवादनकौशलसूचनाय। [ आद्यपदेनाभिसारिकाद्या उपक्षिप्ता नायिकाः।] रुष्टतुष्टेत्यनेन कलहान्तरितास्ता इति ध्वनितम्॥
राजा—
वयमपि संध्यां वन्दितुं गमिष्यामः।

इति श्रीमद्विद्वद्वृन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरीप्रकाशे प्रथमं जवनिकान्तरं समाप्तम्।

द्वितीयं जवनिकान्तरम्।
(ततः प्रविशति राजा प्रतीहारी च। )

प्रतीहारी — (परिक्रामितकेन।) इदो इदो महाराओ।
राजा — (कतिचित्पदानि गत्वा। तामनुसंधाय।) तहिं खु अवसरेॉ

ण ट्ठाणाहिं तिलन्तरं वि चलिदा सुत्था णिअम्बत्थली
थोउव्वेल्लवलीतरङ्गमुअरं कण्ठो तिरच्छि ट्ठिदो।
वेणीए उण आणणेन्दुवलणे लद्धं थणालिङ्गणं
जादा तीअ चलव्विहा तणुलदा णिज्झाअअन्तीअमम् ॥ १ ॥

प्रतीहारी — (स्वगतम्।) कथं अज्ज वि सो ज्जेव्व तालीपत्तसंचओ, ताओ व्विअ अक्खरपन्तीओ। ता वसन्तवण्णणेण सिढिलआमि से तग्गदं

——————

प्रतीहारी —
इत इतो महाराजः।
आयात्विति शेषः।
राजा—
गत्वेत्यनन्तरमाह स्मेति शेषः।
तस्मिन्खल्ववसरे

न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली
स्तोकोद्वेल्लद्वलीतरङ्गमुदरं कण्ठस्तिर्यविस्थतः।
वेण्या पुनराननेन्दुवलने लब्धं स्तनालिङ्गनं
जातास्तस्याश्चतुर्विधा तनुलता निध्याययन्त्या माम् ॥

अत्र स्मृतिः। तल्लक्षणं साहित्यदर्पणे — ‘सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत्। स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते॥’ परिकरोऽलंकारः। तल्लक्षणभुक्तं वृद्धैः —— ’ विशेषणसाभिप्रायत्वे परिकरः’ इति। अत्र च स्थलीतरङ्गादिविशेषणानां तथात्वमूह्यम्। रूपकं चात्र। तल्लक्षणमुक्तं मम्मटेन — ’ तद्रूपकमभेदो य उपमानोपमेययोः।’ इति। न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य गरिमातिशयो ध्वन्यते। वलीतरङ्गमित्यनेन स्वच्छतातिशयो व्यज्यते। तनुलतेत्यनेन च कार्यचापल्यशैत्यादिलतागुणवत्त्वं वपुषो ध्वन्यते।
प्रतीहारी —
कथमद्यापि स एव ताडीपत्त्रसंचयः, ता एवाक्षरपङ्क्तयः। तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम्।

हिअआवेअम्। (प्रकाशम्।) दिट्टिंदेउ महाराओ ईसीसि जरठाअमाणे कुसुमाअरम्मि।

मूलाहिन्तो परहुअवहूकण्ठमुद्दं दलन्ता
देन्तादीहं महुरिमगुणं जप्पिए छप्पआणम्।
संचारन्ता विरहिसुणवं पञ्चमं किंच राअं
राउम्मत्ता रइकुलघरा वासरा वित्थरन्ति॥२॥

राजा — (तदेवाकर्ण्य सानुरागम्।)

अत्थाणीजणलोअणाण बहला लावण्डकल्लोलिणी
लीलाविब्भमहासवासणअरी सोहग्गपालिट्ठिआ।

————————————

आवेगशब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते।
दिट्टिमिति।
दृष्टिं ददातु महाराज ईषदीषज्जरठायमाणे कुसुमाकरे।
कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः। कुसुमानामाकरः समूहो यस्मिन्निति वा। कुसुमैराकर इति वा। ‘आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते।’ इति विश्वः।
मूलेति।

मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दन्तो
ददतो दीर्घं मधुरिमगुणं जल्पिते षट्पदानाम्।
संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं
रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते॥

परभृतवध्वः कोकिलस्त्रियः। परभृता वध्व इवेति वा। पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्गयः। मधुरिमैव गुणः। मधुरिम्णा गुणविशेष इति वा। तेन दुःसहत्वे च तेषां तस्य भावादिति भावः (?)। ’ पुष्पसाधारणे काले पिकः कूजति पञ्चमम्।’ किंचि मिति पञ्चममित्यस्य विशेषणम्। किंचिद्रागो यस्यां क्रियायामिति यथा भवति तथोक्रियाविशेषणं वा। रतयः संभोगास्तेषां कुलं समूहस्तस्य गृहाः स्थानानीत्यर्थः। यद्वा रतिकुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि। तजनकत्वादित्याशयः।
राजा—

आस्थानीजनलोचनानां बहला लावण्यकल्लोलिनी
लीलाविभ्रमहासवासनगरी सौभाग्यपारस्थिता।

णेत्तेन्दीवरदीहिआ मह पुणो सिङ्गारसंजीअणी
संजादा अह मम्महेण धणुहे तिक्खो सरो पुङ्खिदो॥३॥

प्रती व)

दंसणक्खणादो पहुदि कुरङ्गच्छी
चित्ते चिहुट्टदि ण खुट्टदि सा गुणेसु
सेज्जासुलोट्टदि विसप्पदि दिम्मुहेषु।

बोल्लम्मि वट्टदि पअट्टदि कव्वबन्धे
झाणेण तुट्टदि चिरं तरुणी तरट्टी॥४॥

अवि अ।

जे तीअ तिक्खचलचक्खुतिहाअदिट्ठा
ते कामचन्दमहुपञ्चममारणिज्जा।

———————————

नेत्रेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी
संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुङ्खितः॥

लावण्यकल्लोलिनीत्यनेन प्रतिक्षणं सौन्दर्यातिशयवृद्धिर्व्यज्यते। वासनगरीत्यनेन क्षणमपि तद्विच्छेदाभावो ध्वन्यते। तीक्ष्ण इत्यनेन पूर्वमपि शरसंधानमासीदेव, इदानीं त्वतिदुःसहं तदेतादृशशरविस्तारणा द्योत्यते।

** सोन्मादमिति।** उन्मादलक्षणं शृङ्गारतिलके — ’ श्रासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि। व्यापारो जायते यत्र स उन्मादः स्मृतो यथा॥’ इति। साहित्यदर्पणेऽपि — ‘चित्तस्य भ्रम उन्मादः कामशोकभयादिभिः। अस्थानहासरुदितगीतप्रलपनादिकृत्॥’ इति।
दंसणेति।
दर्शनक्षणात्प्रभृति कुरङ्गाक्षी

चित्ते लगति न क्षीयते सा गुणेषु
शय्यायां लुठति विसर्पति दिङ्मुखेषु।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्यानेन त्रुट्यति चिरं तरुणी चलाक्षी॥

अपि च।

ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा-
स्ते कामचन्द्रंमधुपञ्चममारणीयाः।

जेसुं पुणो णिवडिदा सअला वि दिट्ठी
वट्टन्ति ते तिलजलञ्जलिदाणजोग्गा॥५॥

( सस्मरणमिव।) अवि अ।

अग्गम्मि भिङ्गसरणी णअणाण तीए
मज्झे पुणो कढिददुद्धतरङ्गमाला।
पच्छा अ से सरदि तंसणिरीक्खिदेसु
आअण्णमण्डलिअचावधरो अणङ्गो॥६॥

(विचिन्त्य।) कथं चिरअदि पिअवअस्सो।

(प्रविश्य विदूषको विचक्षणा च परिक्रामतः।)

विदूषकः – अइ विअक्खणे, सव्वं सच्चं एदम्।
विचक्षणा — सव्वंसच्चअरम्।
विदूषकः — णाहं पत्तिज्जामि, जदो परिहाससीला क्खु तुमम्।

—————

येषु पुनर्निपतिता सकलापि दृष्टि-
र्वर्तन्ते ते तिलजलाञ्जलिदानयोग्याः॥

मधुर्वसन्तः। स्मृतिलक्षणमुक्तम्।

अपि च।

अग्रे भृङ्गसरणिर्नयनयोस्तस्या
मध्ये पुनः क्वथितदुग्धतरङ्गमाला।
पश्चाच्च तस्याः सरति तिर्यङ्निरीक्षितेषु
आकर्णमण्डलितचापधरोऽनङ्गः॥

तद्वक्रनिरीक्षणादनु मदनकृतवि मनस्कतावश्य भवतीति भावः। अयं च कविनिबद्धवक्तृप्रौढोक्तिसिद्धो ध्वनिः।
कथं चिरयति प्रियवयस्यः।
विदूषकः —
अयि विचक्षणे, सर्वं सत्यमिदम्।
विचक्षणा—
सर्वंसत्यतरम्।
विदूषकः—

नाहं प्रत्येमि, यतः परिहासशीला खलु त्वम्।
कदाचिदयमपि परिहास एव भवेदिति भावः।

विचक्षणा — अज्ज, मा एव्वं भण। अण्णो वक्करुत्तिकालो, अण्णो कज्जविआरकाल।
विदूषकः — (पुरोऽवलोक्य) एसो पिअवअस्सो हंसो विअ विमुक्कमाणसो, करी विअ मअक्खामो, मुणालदण्डो विअ घणघम्ममिलाणो, दिणदीओ विअ विअलिअच्छाओ, पभादपुण्णिमाचन्दो विअ पण्डुरपरिक्खीणो चिट्ठदि।
उभे – (परिक्रम्य।) जअदु जअदु महाराओ।
राजा — वअस्स, कथं उण विअक्खणाए मिलिदो सि।
विदूषकः– अज्ज विअक्खणा मए सह संधिं कादुंआअदा। किदसंधीए इमीए सह मन्तअन्तस्स एत्तिआ वेला लग्गा।
राजा — संधिकरणस्स किं फलम्।

——————

विचक्षणा—

आर्य, मैवं भण। अन्यो वक्रोक्तिकालः, अन्यः कार्यविचारकालः। तथा च नेद सर्वमसत्यमिति भावः।

एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घनघर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरिक्षीणस्तिष्ठति।

विमुक्तमानस उद्विग्नमनाः। हसपक्षे विमुक्त त्यक्तमानसं सरो येनेत्यर्थः। हंसोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते। पाण्डुरश्च परिक्षीणश्चेत्यर्थः।
उभे—
जयतु जयतु महाराजः।
राजा —
वयस्य, कथं पुनर्विचक्षणया मिलितोऽसि।
विदूषकः—
अद्य विचक्षणा मया सह संधिं कर्तुमागता। कृतसंध्यैतया सह मन्त्रयमाणस्यैतावती वेला लग्ना।
राजा—
संधिकरणस्य किं फलम्।

विदूषकः — एसा अहिमदजणपेसिदा लेहहत्य णं विअक्खणा आअदा।
राजा — (गन्धं सूचयित्वा ) केदईकुसुमगन्धो वअ आआदि।
विचक्षणा — केदईदललेहो एव्वएसो मह ह ये।
राजा — महुसमए कि केदईकुसुमम्।
विचक्षणा — भैरवानन्ददिण्णमन्तप्पहावेण इवीभवशुज्जाणे केदईलदाए एक्को दाव प्पसवो दंसिदो। तस्सताए देवीए दलसंपुदेहिअज्ज हिन्दोलअप्पभञ्जणीए चउत्थीए हरवल्लहा देवी अच्चिदा। अण्णं च इलसंपुडजुअलं उण कणिट्टबहिणीआए कप्परमञ्जरीए प्पसादीकिदम्। नीए वि एक्केण दलसंपुडेण भअवदीगोरी ज्जेव्व अच्चिदा। अण्ण च।

केदईकुसुमपत्तसंपुडंपाहुडं तुअ सहीअ पेसिदम्।
एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लच्छिदम् ॥७॥

(इति लेखमर्पयति।)

विदूषकः—
एप्राभिमतजनप्रेपिता लेखहस्ता ननु विचक्षणा आगता।
इदमेव संधिफलमित्याशयः।
राजा—
केतकीकुसुमगन्ध इवायाति।
विचक्षणा—
केतकीदललेख एवैष मम हस्तं।
तस्यैष गन्ध इत्याशयः।
राजा—
मधुसमये किं केतकीकुसुमम्।
विचक्षणा—
भैरवावन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दर्शितः। तस्य तया देव्या दलसंपुटैरद्य हिन्दोलकप्रभञ्जन्यां चतुर्थ्यां हरवल्लभा देवी अर्चिता। अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमञ्जर्यै प्रसादीकृतम्। तयाप्येकेन दलसंपुटेन भगवती गौर्येवार्चिता। अन्यच्च।

केतकीकुसुमपत्रसंपुटं प्राभृतं तव संख्या प्रेषितम्।
एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम्॥

राजा — (प्रसार्य वाचयति।)

हंसिं कुङ्कुमपङ्कपिञ्जरतणुं काऊण जं वञ्चिदो
तब्भत्ता किल चक्कवाअघरिणी एसत्ति मण्णन्तओ।
एदंतं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं
एक्कत्थोवि ण जासि जेण विसअं दिट्ठीतिहाअस्स वि॥८॥

(द्वित्रिर्वाचयित्वा।) एदाइंताइंमअणरसाअणक्खराइं।

विचक्षणा — दुदीओ उण मए पिअसहीए अवस्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ। तं वाचेदु महाराओ।
राजा — ( वाचयति।)

सह दिअहणिसाइंदीहरा सासदण्डा
सह मणिवलएहिं वाहधारा गलन्ति।
सुहअ तुअ विओए तेअ उव्वेअणीए
सह अ तणुलदाए दुब्बला जीविदासा॥९॥

राजा—

हंसीं कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित-
स्तद्भर्ता किल चक्रवाकगृहिण्येपेति मन्यमानः।
एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षकं
एकस्थोऽपि न यासि येन विषयं दृष्टिविभागस्यापि॥

एतानि तानि मदनरसायनाक्षराणि।
विचक्षणा—
द्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोऽत्र। तं वाचयतु महाराजः।
राजा —

सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः
सह मणिवलयैर्बाष्पधारा गलन्ति।
सुभग तव वियोगे तस्या उद्वेगिन्या
सह च तनुलतया दुर्बला जीविताशा॥

श्वासदण्डा इत्यनेन निःश्वासप्राचुर्यंव्यज्यते। इयं च सहोक्तिः। तल्लक्षणमुक्तं वृद्धैः — ’ सहभावकथनं सहोक्तिः’ इति।

विचक्षणा — एत्थ ज्जेव्व एदाए अवस्थाए मह जेट्ठबहिणिआए सुलक्खणाए उग्गाविआए भविअ सिलोओ किदो, तं महाराओ सुणादु।

( पठति।)

णीसासा हारलट्ठीसरिसपसरणा चन्दणं फोडकारी
चन्दो देहस्स दाहो सुमरणसरिसी हाससोहा मुहम्मि।
अङ्गाणं पण्डुभाओ दिअहससिकलाकोमलो किं च तीए
णिच्चंबाहप्पवाहा तुह सुहअ किदे होन्ति कुल्लाहिं तुल्ला॥१०॥

राजा — (निःश्वस्य।) किं भणीअदि। सुकइत्तणे तुह ज्जेट्ठबहिणिआ क्खु एसा।
विदूषकः — एसा विअक्खणा महीअलसरस्सई। एदाए जेट्ठबहिणिआ तिहुअणसरस्सई। ता एदाहिं समं पाडिसिद्धं ण करिस्सम्। किं उण पिअवअस्सपुरदो मअणावत्थं अत्तणो उचिदेहिं अक्खरेहिं णिवेदेमि।

——————————

विचक्षणा—
इहैवैतस्या अवस्थाया मम ज्येष्ठभगिन्या सुलक्षणया आदेशकारिण्या भूत्वा श्लोकः कृतः, तं महाराजः शृणोतु।
णीसासेति—

निःश्वासा हारयष्टिसदृशप्रसरणाश्चन्दनः स्फोटकारी
चन्द्रो देहस्य दाहः स्मरणसदृशी हासशोभा मुखे।
अङ्गानां पाण्डुभावो दिवसशशिकला कोमलः किं च तस्या
नित्यं बाष्पप्रवाहास्तव सुभग कृते भवन्ति कुल्याभिस्तुल्याः॥

स्मरणसदृशी तदभिव्यञ्जिकेत्यर्थः। दिवसशशिकलासाम्येन निष्प्रभत्वमङ्गानामभिव्यज्यते।
राजा—
किं भण्यते। सुकवित्वे तव ज्येष्ठभगिनिका खल्वेषा।
विदूषकः—
एषा विचक्षणा महीतलसरस्वती। एतस्या ज्येष्ठभगिनिका त्रिभुवनसरस्वती। तदेताभ्यां समं प्रतिस्पर्धा न करिष्यामि। किं पुनः प्रियवयस्यपुरतो

राजा— पढ। एदं पि सुणीअदि।
विदूषकः—

परं जोह्णा उह्णागरलसरिसो चन्दणरसो
खदक्खारो हारो रअणिपवणा देहतवणा।
मुणाल बाणाली जलदि अ जलद्दा तणुलदा
वरिट्ठा जं दिट्ठा कमलवअणा सा सुणअणा॥११॥

**राजा —**वअस्स, तुमं पि थोएण चन्दणरसेण समालहिस्ससि। ता कहेहि तग्गदं किंपि वृत्तन्तम्। अध अन्तेउरं णइअ देवीए किं कदं तीस।
विदूषकः — विअक्खणे, किं कदं कहेहि।
विचक्षणा — देव, मण्डिदा टिक्किदा भूसिदा तोसिदा अ।

——————————

मदनावस्थामित्यनन्तरं तस्या इति शेषः।
राजा—
पठ। एतदपि श्रूयते।
विदूषकः—

परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः
क्षतक्षारो हारो रजनिपवना देहतपनाः।
मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता
वरिष्ठ यद्दृष्टा कमलवदना सा सुनयना॥

क्षते क्षार इवेत्यर्थः। तस्यात्यन्तदुःसहत्वात्। रजनिपवना इत्यनेन तेषामतिशीतलत्वं व्यङ्ग्यम्। देहे तपना इवेत्यर्थः। अत्यन्तदाहकत्वात्। बाणालीवेत्यर्थः। अत्यन्तखेदप्रदत्वात्। अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः। छेकलाटानुप्रासादयश्च शब्दालंकारा ऊह्याः। तल्लक्षणं चोक्तं प्राक्।
राजा—
वयस्य, त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे। तत्कथय तद्गतं किमपि वृत्तान्तम्। अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः।
विदूषकः —
विचक्षणे, किं कृतं कथय।
विचक्षणा—
देव, मण्डिता तिलकिता भूषिता तोषिता च।

राजा — कथं विअ।
विचक्षणा—
घणमुव्वट्टिदमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तिस्सा \।
राजा—
रोसाअणं कुडं ता कञ्चणमअबालिआरूवम्॥१२॥
विचक्षणा—
मरगअमञ्जीरजुअं चरणे से लम्भिआ वअस्साहिं।
राजा—
भमिअमहोमुहपङ्कअजुअलं ता भमरमालाए॥१३॥
विचक्षणा—
राअसुअपिच्छणीलं पट्टंसुअजुअलअं णिअसिदा सा।
राजा—
कथमिव।
विचक्षणा—
घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तस्याः।
राजा—
उज्ज्वलीकृतं तत्काञ्चनमयबालिकारूपम्॥
रोसाअणमित्युज्ज्वलार्थे देशी। काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानीं पीततरेण कुङ्कुमेनोद्वर्तनाच्छोभातिशयो जात इति भावः।
विचक्षणा—
मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः।
राजा—
भ्रमितमधोमुखपङ्कजयुगलं तद्भ्रमरमालया॥
अस्याश्चरणौ मरकतमञ्जीरयुगं मरकतनूपुरयुगलं लम्भितौ प्रापितौ। तत्संबद्धौ कृताविति यावत्। भ्रमितेत्यादिना तच्चरणयुगलस्य पङ्कजयुगेन मञ्जीरयुगलस्य च भ्रमर मालया साम्यं प्रकटितम्।
विचक्षणा—

राजा—
कअलीकन्दलिआ ता खरपर्वणविलोल्लिअदलग्गा॥१४॥
विचक्षणा—
तीए णिअम्बफलए णिवेसिआ पञ्चराअमणिकञ्ची।
राजा—
कञ्चणसेलसिलाए ता बरिही कारिओ णच्चम्॥१५॥
विचक्षणा—
दिण्णा वलआवलिओ करकमलपट्ठणालजुअलम्मि \।
राजा—
ता भण कधं ण सोहइ विपरीअं मअणतूणीरम्॥१६॥
विचक्षणा—
कण्ठम्मि तीअ ठविदो छम्मामिअमोत्तिआण वरहारो।
राजा —
सेवइ ता पन्तीहिं मुहअन्दं तारआणिअरो॥१७॥

———————

राजा—
कदलीकन्दली तत्खरपवनविलोलितदलाग्रा॥
एतावता तदूर्वाः कदलीकन्दल्या वसनम्य च तद्दानां साम्यमुक्तम् \।
विचक्षणा—
तस्या नितम्बफलकेनिवेशिता पञ्चरागमणिकाञ्ची।
राजा—
काञ्चनशैलशिलायां तद्वहीं कारितो नृत्यम्॥
अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं काव्याश्च बर्हिसाम्यं प्रकाशितम्।
विचक्षणा—
दत्ता वलयावल्यः करकमलप्रकोष्ठनालयुगे।
राजा—
तद्भण कथं न शोभते विपरीतं मदनतूणीरम्॥
विचक्षणा—
कण्ठे तस्याः स्थापितः षाण्मासिकमौक्तिकानां वरहारः।
राजा—
सेवते तत्पङ्क्तिभिर्मुखचन्द्रं तारकानिकरः॥

विचक्षणा—
उभएसु वि सवणेसुं णिवेसिअं रअणकुण्डलजुअं से।
राजा—
ता वणमम्महरहो दोहिँ वि चकेहिँ चङ्कमिदो॥१८॥
विचक्षणा—
जच्चञ्जणणिदपसाहणाइँ जादाइँ तीअ णअणाइं।
राजा—
उप्पुङ्खिअ णवकुवलअसिलीमुहे पञ्चबाणस्स॥१९॥
विचक्षणा—
कुडिलालआणँ माला ललाडफलअग्गसङ्गिणी रइदा।
राजा—
ता ससिबिम्बस्सोवरि वट्टइ मज्झम्मि किसणसारङ्गो॥२०॥

————————

तारकानिकरः पङ्क्तिभिः श्रेणीभिः कृत्वा मुखचन्द्रं सेवते तदित्यन्वयः। तथा च मुक्ताहारस्य तारकानिकरोपमा व्यज्यते।
विचक्षणा—
उभयोरपि श्रवणयोर्निवेशितं रत्नकुण्डलयुगं तस्याः।
राजा—
तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां चङ्कमितः॥
चङ्कमितो युक्त इत्यर्थः। अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते।
विचक्षणा—
जात्याञ्जनजनितप्रसाधने जाते तस्या नयने।
राजा—
उत्पुङ्खितौ नवकुवलयशिलीमुखौ पञ्चबाणस्य॥
अत्रापि नयनयोर्नवकुवलयसाम्यमञ्जनस्य च भ्रमरसाम्यं ज्ञाप्यते। शिलीमुखाविव शिलीमुखाविति रूपकेण च कामिविह्वलत्वविधानसामर्थ्यं स्मरशरधर्मस्तत्राभिव्यज्यते। तीक्ष्णत्वं च नेत्रयोर्व्यङ्ग्यम्। उत्पुङ्खितौ सजितौ।
विचक्षणा—
कुटिलालकानां माला ललाटफलकाग्रसङ्गिनी रचिता।
राजा—
तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्णसारङ्गः॥
अतिविम्बसाम्यंवदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम्।

विचक्षणा—
घणसारतारणअणाइ गूढकुसुमोच्चओ चिउरभारो।
राजा—
ससिराहुमल्लजुज्झं विअ दंसिअमेणणअणाए॥२१॥
विचक्षणा—
इअ देवीअ जहिच्छं पसाहणेहिं प्पसाहिदा कुमरी।
राजा—
ता केलिकाणणमही विहूसिआ सुरहिलच्छीए॥२२॥
विदूषकः — देव, एदं परमत्थं विण्णवीअदि।

जेस्सा दिट्ठी तरलधवला कज्जलं तीअ जोग्गं
जा वित्थिण्णत्थणकलसिणी रेहए तीअ हारो।
चक्काआरे रमणफलहे को वि कञ्चीमरट्टो
जिस्सा तिस्सा उण वि भणिमो भूसणं दूसणं अ॥२३॥

——————

विचक्षणा—
घनसारतारनयनाया गूढकुसुमोच्चयश्चिक्रुरभारः।
राजा—
शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम्॥
कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम्। मल्लयुद्वमित्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्वन्यते।
विचक्षणा—
इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी।
राजा—
तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या॥
केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम्। तत्साम्यं कुमार्या वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम्।
विदूषकः—
देव, एतत्परमार्थं विज्ञायते।

यस्या दृष्टिस्तरलधवला कज्जलं तस्या योग्यं
या विस्तीर्णस्तनकलशिनी शोभते तस्या हारः।

राजा — ( पुनस्तामनुसंधाय।)

तिवलिवलिअणाहीबाहुमूलेसु लग्गं
थणकलसणिअम्बाडम्बरेसूस्ससन्तम्।
जलणिबिडमिमीए सिक्खणं ह्णाणपोत्तं
पिसुणदि तणुलट्ठीचङ्गिमं लङ्गिमं अ॥२४॥

विदूषकः — (सक्रोधमिव।) भो, मए सव्वालंकारसहिदा वण्णिदा। तुमं उण जलविलुत्तप्पसाहणं जेव्व सुमरसि। ता किं ण सुदं देवेण।

णिसग्गचङ्गस्स वि माणुसस्ससोहा समुम्मीलदि भूसणेहिं।
मणीणँ जच्चाणँवि कञ्चणेहिं विहूसणे सज्जदि कावि लच्छी ॥२५॥

——————

चक्राकारे रमणफलके कोऽपि काञ्च्याडम्बरो
यस्यास्तस्याः पुनरपि भणामो भूषणं दूषणं च॥

यद्येतादृशं दृष्ट्यादि कान्तायास्तिष्ठति तदा भूपणाभावेऽपि शोभाविशेषः स्वाभाविकोऽवभाषत एवेति नातिप्रयोजनवत्त्वाद्भूषणमपि दूषणमिव भवतीति दूषणभूषणयोः प्रयोजनाभावत्वेन साम्यम्। अथवा दूषणं भूषणमिव भवति। अयमर्थः — एतादृशदृष्ट्यादिमत्या असमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति। शोभाहतिकरत्वाभावात्। अत एव कविचूडामणिना भगवता कालिदासेनापि वर्णितम् — " किमिव हि मधुराणांमण्डनं नाकृतीनाम्’ इति।
राजा—

त्रिवलिवलितनाभीबाहुमूलेषुलग्नं
स्तनकलशनितम्बाडम्बरेपृच्छ्वसत्।
जलनिबिडमेतस्याःलक्षणं स्नानवस्त्रं
पिशुनयति तनुयष्टिङ्गिमानं तारुण्यं च॥

लङ्गिमं तारुण्यमिति देशी।
विदूषकः—
भोः, मया सर्वालंकारसहिता वर्णिता। त्वं पुनर्जल विलुप्तप्रसाधनामेव स्मरसि। तत्किं न श्रुतं देवेन।

निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः।
मणीनां जात्यानामपि काञ्चनैर्विभूषणे सज्जति कापि लक्ष्मीः॥

राजा—

मुद्धाणँणाम हिअआइँ हरन्ति हन्त
णेवच्छकप्पणगुणेण णिअम्बिणीओ।
छेआ पुणो पकिदिचङ्गिमहारणिज्जा
दक्खारसो ण महुरिज्जइ सक्कराए॥२६॥

विचक्षणा — जधा देवेणादिट्ठम्।

थोआणं थणआणँकण्णकलिआलङ्घीणँ अच्छीणँ वा
भूचन्दस्स मुहस्स कन्तिसरिआसोत्तस्स गत्तस्स अ।
को णेवच्छकलाअ कीरदि गुणो जं तं वि सव्वंपिअं
संजुत्तं सुणु तत्थ कारणमिणं रूढीअ का खण्डणा ॥२७॥

राजा — (विदूषकमुद्दिश्य।) सुपञ्जल कविञ्जल, एस सिक्खावीअसि।
राजा —

मुग्धानां नाम हृदयानि हरन्ति हन्त
नेपथ्यकल्पनगुणेन नितम्बिन्यः।
छेकाः पुनः प्रकृतिचङ्गिमभावनीया
द्राक्षारसो न मधुरीयति शर्करया॥

येषां हृदयानि नेपथ्यकल्पनगुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवेत्याशयः। ये पुनः प्रकृत्या स्वभावेन यश्चङ्गिमा सौन्दर्यं यासां नितम्बिनीनां ता भावयन्ति त एव विदग्धा इति भावः। द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करासाम्यं भूषणानामुपदर्शितम्।

विचक्षणा—
यथा देवेनादिष्टम्।

स्थूलानां स्तनानां कर्णकलिकालङ्घिनोरक्ष्णोर्वा
भूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च।
को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्वं प्रियं
संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना॥

रूढिर्योगमपहरतीति यथा रुद्धेर्योगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भावः।
राजा—
सुप्राञ्जल कपिञ्जल, एप शिक्ष्यसे।

किं कज्जं कित्तिमेण व्विरअणविहिणा सो णडीणं विडम्बो
तं चङ्गं जं णिअङ्कं जणमणहरणं तेण सीमन्तिणीओ \।
जस्सिं सव्वङ्गसङ्गो सउलगुणगणो सो अदम्भो अलम्भो
तस्सिं णेच्छन्ति काले परमसुहअरे किं पि णेवच्छलच्छीम्॥२८॥

विचक्षणा — देव, एदं विण्णवीअदि—ण केवलं देवीए णिओएण तिस्सा अणुगर्दाह्मि। तारामेत्तीए वि सहित्तणं पत्ता कप्पूरमञ्जरीए। तेण तक्कज्जसज्जा अहं पुणो वि ओलग्गाविअ भविअ णिवेदइस्सम् \।

——————————

सुप्राञ्जलः सुमरलः। तथा च चातुर्यलेशोऽपि तव नास्तीति भावः।

कि कार्यं कृत्रिमेण विरचनविधिना स नटीनां विडम्ब-
स्वच्चङ्गं यन्निजाङ्गं जनमनोहरणं तेन सीमन्तिन्यः।
यस्मिन्सर्वाङ्गसङ्गः सकलगुणगणः सोऽदम्भोऽलभ्य-
स्तस्मिन्नेच्छन्ति काले परमसुखकरे कामपि नेपथ्यलक्ष्मीम्॥

कृत्रिम भूपाभिर्नटीनामेवापाततः सौन्दर्यमुद्रसति न पुनः सीमन्तिनीनामित्यर्थः। यच्चाङ्ग समीचीनं तदेव निजाम स्वस्याङ्गमाह्लादकमित्याहादकत्वविशिष्टाङ्गेऽङ्गमात्रवाचकाङ्गपदवाच्य संक्रमादयमर्थान्तरसंक्रमितवाच्यो लक्षणामुलो वनिः। तेन स्वाभाविकाङ्गसौन्दर्येणैव सीमन्तिन्यः कुलाङ्गना जनमनोहरणं भवन्तीत्यर्थः। यद्यपि जनमनोहरणमिति भिन्नलिङ्गवचन पद न सीमन्तिन्य इति पदस्य विशेषणत्वमर्हति तथापि वस्तुपदायाहारेण योज्यम्। तस्य चाजगृहित्वान्न दोष इति येयम्। अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोमयत्र संवयते। तथा च यन्निजाङ्ग स्वाभाविकाङ्ग चट्टं तदेव जनमनोहरणं भवतीत्यर्थः। यदा पूर्वत्रैव संबध्यते तदा च तेन वाभाविकाङ्गचङ्गत्वेनैव सीमन्तिन्यो भवन्ति। तासामुत्तमसीमन्तिनीत्वं भवतीत्यर्थः। तथा च सीमन्तिनी पदवाच्यस्यैवोत्तमत्वविशिष्टे तस्मिन्संक्रमादत्राप्यर्थान्तर सक्रमितवाच्यो ध्वनिः। यस्मिन्काले सकलः संपूर्णो गुणानां गणः समृहः सर्वाङ्गसङ्गः सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्योऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्यलक्ष्मीं नेच्छन्ति। विदग्धा इति शेषः। निजाङ्गमित्येकवचनेनैकमपि स्वाभाविकसुन्दरमङ्गंलोकहृदयहरणसमर्थ किमुत सर्वाङ्गाणीतिध्वन्यते। अत्र च नटीसीमन्तिन्योर्व्यतिरेकालंकारो व्यङ्ग्यः। छेकवृत्त्यनुप्रासालंकारावप्यत्र बोध्यौ।तल्लक्षणं प्रागेवोक्तम्।
विचक्षणा—
देव, एतद्विज्ञाप्यते न केवलं देव्या नियोगेन तस्याअनुगतास्मि। तारामैत्र्यापि सखीत्वं प्राप्ता कर्पूरमञ्जर्याः। तेन तत्कार्यासक्ताहं पुनरपि सेवकीभूय निवेदयिष्यामि।

तिस्सा दाब परिक्खणत्थ णिहिदो हत्थो थणुत्थङ्गदो
डाहुड्डामरिदो सहीहि बहुसो हेलाअ कड्ढिज्जदि।
किं तेणावि इमं णिसामअ गिरं संतोसिणिं तासिणि
हत्थच्छत्तणिवारिदेन्दुकिरणा बोल्लेइ सा जामिणीम्॥२९॥

कज्जमेसं कविञ्जलो णिवेदइस्सदि। तं च देवेण तधा कादव्वम्। ( इति परिक्रम्य निष्कान्ता।)
राजा — वअम्स, किं उण तं कज्जसेसम्।
**विदूषकः —**अज्ज हिन्दोलणचउत्थी। तहिं देवीए गौरीं कदुअ कप्पूरमञ्जरीं हिन्दोलए आरोहइदव्वा। ता मग्गपुञ्जट्ठिदेण देवेण कप्पूरमञ्जरीहिन्दोलन्ती दट्ठव्वा। एदं तं कज्जसेमम्। (विचिन्त्य ) ता अदिणिउणा वि छलिदा देवी।पाइआ जुण्णमज्जारिआ दुद्धं त्ति तक्कम्।

——————

तस्यास्तावत्परीक्षणाय निहितो हस्तः स्तनोत्सङ्गतो
दाहोड्डामरितःसखीभिर्बहुशो हेलयाकृष्यते।
किं तेनापीमां निशामय गिरं संतोषिणीं त्रासिनीं
हस्तच्छत्रनिवारितेन्द्रकिरणातिवाहयति सा यामिनीम॥

हेलयावज्ञया कृष्यते। तयेति शेषः। ससंबन्धिविरहातिभाजनत्वेन। त्रासिनीमिति चेतादृशदुःराहृवियोगपीडितापि स्वहस्तेनैवेन्दुकरान्निवारयतीति तेपां हस्तस्पर्शेऽशङ्कनीयमपि मरणादिकं संभाव्यत इति त्रागकरत्वम्। अथवा बलात्कारेण यथेन्दुकिरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्करमिति नामकारणं ज्ञेयम्। यद्वा हस्तच्छत्रेत्यनेन हम्नस्य संपूर्णशरीरे चन्द्रकर स्पर्श निवारकत्वासंभवाद्वस्तानवच्छन्नप्रदेशे शशिकर स्पर्शावयभावस्तत्कारणं वेदितव्यः। अनेन विधानं नाम मुखसंध्यगमुक्तम्। तल्लक्षणं दशरूपके—‘विधानं सुखदुःखकृत्’ इति। अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः। लक्षणं तूक्तम्।
कार्यशेषंकपिञ्जलो निवेदयिष्यति। तच्च देवेन तथा कर्तव्यम्।
कपिञ्जलो विदूषकः।
राजा—
वयस्य, किं पुनस्तत्कार्यशेषम्।
विदूषकः—
अद्य हिन्दोलनचतुर्थी। तत्र देव्या गौरीं कृत्वा कर्पूरमञ्जरीं हिन्दोलके आरोहयितव्या। तन्मरकतपुञ्जस्थितेन देवेन कर्पूरमञ्जरी हिन्दोलन्ती द्रष्ट—

राजा — को अण्णो तुह्माहिन्तो मह कज्जसज्जो। को अण्णो चन्दाहिन्तो समुद्दवड्ढणणिट्ठो।

(इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः। )

विदूषकः – इअं उत्तुङ्गफलिहमणिवेदिआ। ता इह उपविसदु पिअवअस्सो।

( राजा तथा करोति।)

विदूषकः — (हस्तमुद्यम्य ) भोदीसदुपुण्णिमाअन्दो।
राजा — ( विलोक्य) अए, दोलारूढाए मह वल्लहाए वअणं पुण्णिमाचन्दोत्ति णिद्दिससि। ( समन्तादवलोक्य।)

विच्छाअन्तो णअररमणीमण्डलम्साणणाइं
पच्छालन्तो गगणकुहरं कन्तिजोह्णाजलेण।
पेच्छन्तीणं हिअअणिहिदं णिद्दलन्तो अ दप्पं
दोलालीलासरलतरलो दीसए से मुहेन्दू॥३०॥

व्या। एतत्तत्कार्यशेषम्। तदतिनिपुणापि च्छलिता देवी। पायिता जीर्णमार्जारिका दुग्धमिति तत्रम्।
मरकतपुतः प्रासादविशेषः।
राजा—
कोऽन्यो युष्मत्तो मम कार्यमज्जः। कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्ठः।
विदूषकः—
इयमुत्तुङ्गस्फटिकमणिवेदिका। तदिहोपविशतु प्रियवयस्यः।
विदूषकः—
भोः, दृश्यतां पूर्णिमाचन्द्रः।
राजा—
अए, दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशसि।

विच्छाययन्नगररमणीमण्डलस्याननानि
प्रक्षालयन्गगनकुहरं कान्तिज्योत्स्नाजलेन।
प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्पं
दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः॥

अवि अ।

उच्चेहिं गोउरेहिं धवलधअवडाडम्बरिल्लावलीहिं
घण्टाहिं विन्दुरिल्लासुरतरुणिविमाणाणुरूअं वहन्ती।
पाआरं लङ्घअन्ती कुणइ रअवसादुण्णमन्ती णमन्ती
एन्ती जन्ती अ दोला जणमणहरणं कट्टणुक्कट्ठणेहिं॥३१॥

अवि अ।

रणन्तमणिणेउरं झणझणन्तहारच्छडं
कलक्कणिदकिङ्किणीमुहरमेहलाडम्बरम्।
विलोलवलआवलीजणिदमत्रुमिञ्जारवं
णकस्समणमोहणं मसिमुहीअ हिन्दोलणम्॥३२॥

विच्छाययन्विगतच्छायानि कुर्वन्। म्लानी कुर्वन्नित्यर्थः। कान्तिरेव ज्योत्स्ना चन्द्रिका तस्या जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रकाशयन्। जलेन क्षालनमुचितमेवेति भावः। सरलतरल इल्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः। अत्र रूपकच्छेकावृत्त्यनुप्रासरूपाः शब्दार्थालंकारा विभाव्याः \। स्पटमन्यत्।

अपि च।

उच्चेषु गोपुरेषु धवलध्वजपटा डम्बरबहलावली
घण्टाभिर्विद्राणमुरतमणिविमानानुरूपं वहन्ती।
प्राकारं लङ्घयन्ती करोति यवशादन्नमन्ती नमन्ती
आयान्ती यान्ती च दोला जनमनोहरणं कर्मणोत्कर्षणैः॥

धवलध्वजपटाडम्बराणां बहला आवल्यो येषु तादृशेषु गोपुरेपु पुरद्वारेषु घण्टाभिरुपलक्षितं विद्राणं वेगेन गच्छयत्सुरतरुणिविमानं देवाङ्गनाविमानं तदनुरूपं तत्तुल्यं प्राकारं वहन्ती विभ्राणा। कर्षणोत्कर्षणैः रयवशालङ्घयन्ती। सरलगमनादुन्नमन्ती ऊर्ध्व गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरणं न करोति। अपि तु सर्वस्य विधत्त इति काकर्थः। इयं च दोलाख रूपवर्णना जातिः। तलक्षणं काव्यादर्श दण्डिनोक्तम्- ‘नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा॥’ इति। उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः।

अपि च।

रणन्मणिनूपुरं झणझणायमानहारच्छटं
कलक्कणितकिङ्किणीमुखरमेखलाडम्बरम्।

विदूषकः — भो, सुत्तआरो तुमम्। अहं उण वित्तिआरो भविअ वित्थरेण वण्णेमि।

उवरिट्ठिअथणपब्भारपीडिअं चरणपङ्कजजुअं से।
पुक्कारइ व्व मअणं रणन्तमणिणेउररवेण॥३३॥
हिन्दोलणलीलाललाणलम्पडं चक्कचक्कलं रमणम्।
किलकिलइ व्व सहरिसं कञ्चीमणिकिङ्किणिरवेण॥३४॥
दोलन्दोलणलीलासरन्तसरिआछलेण से हारो।
वित्थारइ व्व कुसुमाउहणरवइणोइ कित्तिवल्लीओ॥३५॥

———————————

विलोलवल्यावलीजनितमञ्जुशिञ्जारवं
न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम्॥

शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न। मनो मानसं मोहयति तदेतादृशं न। अपि तु सर्वस्यापीति काकुः। किंभूतम्। रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नूपुरे यत्र तत्। झणझणायमाना हारच्छटा यत्र। इत्यादीनामान्दोलनविशेषणत्वम्। अथवा क्रियाविशेषणानि। यद्वा शशिमुख्या रणन्नूपुरादिकस्य मनोमोहनं नेति प्रत्येकमेव विधिः। तदा दोलनांशे प्रत्यक्षमन्याशे स्मरणम्। ‘रण शब्दे’। झणझणायमानमित्यादि शब्दानुकरणम्। अत्राप्यनुप्रासजात्याद्याः शब्दार्थालंकारा ज्ञेयाः।
विदूषकः—
भोः, सूत्रकारस्वम्। अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि।
सूचताद्धि सूत्रलं भवतीति भावः। अत एव तल्लक्षणमुक्तमभियुक्तैः — ‘अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥’ इति।

उपरिस्थितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः।
पूत्कारयतीव मदनं रणन्मणिनूपुररवेण॥

एतन्मणिनूपुररवश्रवण समकालमेव कामिनां मदनकृता मनोविह्वलता भवतीति भावः। अत्रापि जात्युत्प्रेक्षे अलंकारौ।

हिन्दोलनलीलाललनलम्पटं चक्रवर्तुलं रमणम्।
किलकिलायतीव सहर्ष काञ्चीमणिकिङ्किणिरवेण॥

अत्रापि किलकिलायतीति शब्दानुकरणम्। रमणं जघनम्।

दोलान्दोलनलीलासरत्सरिकाछलेनास्या हारः।
विस्तारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः॥

सरिका मुक्तापतिः। अत्रोत्प्रेक्षालंकारः।

संमुहपवणपणोल्लिअवरिल्ल दरदाविआइँ अङ्गाइँ।
हक्कारिऊण मअणं पासम्मि णिवेसअन्ति व्व॥३६॥
ताडङ्कजुअं गण्डेसु बहलघुसिणेसु घडणलीलाहिं।
देइ व्व दोलदोलणरेहाओ गणणकोडेण॥३७॥
णअणाइँ पसइसरिसाइँ झत्ति फुलाइँ कोदुहल्लेण।
अप्पेन्तिअ व्वकुवलअसिलीमुहे पञ्चवाणस्स ॥३८॥
दोलारअविच्छेओ कहं वि मा होउ इत्ति पडइव्व।
मुट्ठमि वेणिदण्डो मम्महचम्मट्टिआअन्तो॥३९॥
इअ एआइँ विलासुज्जलाइँ दोलाप्पवञ्चचरिआईं।
कस्स ण लिहेइ चित्ते णिउणो कन्दप्पचित्तअरो॥४०॥

संमुखपत्रनप्रेरितोपरिवस्त्रे दरदर्शितान्यङ्गानि।
आकार्य मदनं पार्श्वेनिवेशयन्तीव॥

अत्रापि स एवालंकारः।

ताटङ्कयुगं गण्डयोर्बहलघुमृणयोर्घटनलीलाभिः।
ददातीवदोलान्दोलनरेखा गणनकौतुकेन॥

अत्राप्युत्प्रेक्षालंकारः।

नयने प्रसृतिसदृशे झटिति फुले कौतूहलेन।
अर्पयत इव कुवलयशिलीमुखे पञ्चवाणस्य ॥

कुवलये एव शिलीमुखी शरौ। कुमुमशरत्वात्तस्येति भावः। रूपकमुत्प्रेक्षा चालंकारः। तल्लक्षण तु पूर्वोक्तमेव।

दोलारसविच्छेदः कथमपि मा भवत्विति पततीव।
पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः॥

अत्रापि रूपकोत्प्रेक्षे ।

इत्येतानि विलासोज्ज्वलानि दोलाप्रपञ्चचरितानि।
कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः॥

इत्यमुना प्रकारेणैतानि दोलाप्रपञ्च चरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति। अपि तु सर्वस्यापीत्यर्थः। किंभूतानि। विलासा उज्ज्वलाः यो येषु तानि। विलास उज्ज्वलश्च येषु तानीति वा। ‘शृङ्गारः शुचिरुज्ज्वलः ’ इति कोषात्। अत्र रूपकम्।

राजा—(सविषादम्।) कधमवइण्णा कप्पूरमञ्जरी। रित्ता दोला, रित्तं अ मज्झ चित्तम्, रित्ताइंदंसणुस्सुआइंमज्झ णअणाइं।

विदूषकः—ता विज्जुल्लेहा विअ खणदिट्ठणट्ठा।

राजा—मा एव्वं भण। हरिअन्दपुरी विअ दिट्ठा पणट्ठा अ। (स्मृतिनाटितकेन।)

मञ्जिट्ठी ओट्ठमुद्दा णवघडणसुवण्णुज्जला अङ्गलट्ठी

दिट्ठी बालेन्दुलेहाधवलिमजइणी कुन्तला कज्जलाहा ।

इत्थं वण्णाणँरेहा विहरइ हरिणीचञ्चलच्छी अ एसा

कन्दप्पो दीहदप्पी जुअजणजअणे पुण्णलक्खो व्वि भादि ॥४१॥

——————

राजा—

कथमवतीर्णा कर्पूरमञ्जरी। रिक्ता दोला, रिक्तं च मम चित्तम्, रिक्तानि दर्शनोत्सुकानि मम नयनानि।

विदूषकः—

तद्विद्युलेखेव क्षणदृष्टनष्टा।

राजा—

मैवं भण। हरिश्चन्द्रपुरीव दृष्टा प्रणष्टा च।

स्मृतीति। स्मृतिलक्षणमुक्तं प्राक्।

मञ्जिट्टीति।

माञ्जिष्ठीओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टि-

र्दृष्टिर्बालेन्दुरेखाधवलिमजयिनी कुन्तलाः कज्जलाभाः ।

इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैपा

कंदर्पो दीर्घदर्पी युवजनजये पूर्णलक्ष इव भाति ॥

माञ्जिष्ठीत्यनेन मञ्जिष्ठनिष्ठरक्ततातिशयवत्त्वमोष्ठमुद्रायां ध्वन्यते। नवा घटना यस्येति बहुव्रीहिः। तथा च तादृशस्वर्णनिरूपितचाकचक्यातिशयवत्त्वमङ्गेषु व्यज्यते। यष्टिरूपकेण च तन्निष्ठाधिककृशत्वमङ्गेषु द्योत्यते। इन्दुरेखेत्यनेन चाकलङ्कित्वं ज्ञाप्यते। कज्जलाभा इत्यनेन कज्जलनिष्ठनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते। अथवा कज्जलेआभा येषामिति विपर्यासोपमा। तल्लक्षणं काव्यादर्शे दण्डिनोक्तम्—‘सा प्रसिद्धिवपपर्यासाद्विपर्यासोपमेष्यते।’ इति। इत्थमनिर्वचनीयाः। रेखापदेन चोच्चारणगतातिशयविशेषो लक्ष्यते। दीर्घो दर्पोऽस्यास्तीति दीर्घदर्पी’। अनेन च लक्ष्यस्वाधीनीकरणे क्लेशलेशस्याप्यभावाद्गर्वकणोऽपि न क्षीण इति भावः। पूर्णलक्ष्यत्वं स्वाधीनं यावल्लक्ष्यत्वमेव। अत्रापि रूपकोपमोत्प्रेक्षानुप्रासलक्षणाः शब्दार्थालंकारा ज्ञेयाः।

विदूषकः—एदं तं मरगअपुञ्जम्। इह उवविसिअ पिअवअस्सो पडिवालेदु तम्। संझावि संणिहिदा वट्ठदि।

(उभौ तथा कुरुतः।)

राजा—अदिसिसिरं पि हिमाणिं संदावदाइणिंअणुहवामि।

विदूषकः—ता लच्छीसहअरो खणं चिट्ठदु देवो, जाव अहं सिसिरोपआरसामग्गिंसंपादेमि। (इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च।) किं उण एसा विअक्खणा इदो णिअडा आअच्छदि।

राजा—संणिहिदो संकेअकालो कहिदो मन्तीहिं पि। (स्मृत्वा। मदनाकूतमभिनीय।)

किसलअकरचरणा वि हु कुवलअणअणा मिअङ्कवअणा वि।

अहह णवचम्पअङ्गी तह व्वि तावेइ अच्चरिअम् ॥ ४२ ॥

——————

विदूषकः—

एतत्तन्मरकतपुञ्जम्। इहोपविश्य प्रियवयस्यः प्रतिपालयतु ताम्। संध्यापि संनिहिता वर्तते।

वयस्येति संबुद्धिश्च। ‘विदूषकेन वक्तव्यो वयस्येति च भूपतिः।’ इत्युक्तेः।

राजा—

अतिशिशिरामपि हिमानीं संतापदायिनीमनुभवामि।

‘हिमानी हिमसंहतिः’ इति त्रिकाण्डी।

विदूषकः—

तल्लक्ष्मीसहचरः क्षणं तिष्ठतु देवः, यावदहं शिशिरोपचारसामग्रीं संपादयामि। किं पुनरेषा विचक्षणा इतो निकटा आगच्छति।

तल्लक्ष्मीः तत्कान्तिः। तन्मात्रसहाय इत्यर्थः।

राजा—

संनिहितः संकेतकालः कथितो मन्त्रिभ्यामपि।

किसलयकरचरणापि खलु कुवलयनयना मृडाङ्कवदनापि।

अहह नवचम्पकाङ्गि तथापि तापयत्याश्चर्यम् ॥

अत्रापि च्छेकानुप्रासविभावनारूपकाहेतुसंकररूपाः शब्दार्थालंकारा ऊत्याः। विभावनालक्षणमुक्तमभियुक्तैः— ‘कारणाभावेऽपि कार्योपक्षेपो विभावना’ इति। अहेतुलक्षणमप्युक्तम्—‘कारणे सत्यपि कार्याभावोऽहेतुः’ इति। अस्यैव संज्ञा विशेषोक्तिरिति काव्यप्रकाशे। संकरलक्षणमप्युक्तम्—‘स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपद्मेन वालंकाराणामेकत्रावस्थानं संकरः’ इति।

विदूषकः—(सम्यगवलोक्य।) अए, विअक्खणा सिसिरोवआरसामग्गीसहिदहत्था आअदा।

(ततः प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा।)

विचक्षणा—(परिक्रम्य।) अहो, पिअसहीए महन्तो क्खु विरहदाहज्जरो।

विदूषकः—(उपसृत्य।) भोदि, किं एदम्।

विचक्षणा—सिसिरोवआरसामंग्गी।

विदूषकः—कस्सकदे।

विचक्षणा—पिअसहीए कदे।

विदूषकः—ता मह वि अद्धं देहि।

विचक्षणा—किं णिमिच्चम्।

विदूषकः—महाराअस्स कदे।

——————

विदूषकः

अये, विचक्षणा शिशिरोपचारसामग्रीसहितहस्तागता।

‘नासूचितस्य पात्रस्य प्रवेशः’ इति पूर्वमेव विदूषकमुखेन सूचनम्।

विचक्षणा

अहो, प्रियसख्या महान्खलु विरहदाहज्वरः।

विदूषकः—

भवति, किमेतत्।

विचक्षणा—

शिशिरोपचारसामग्री।

विदूषकः—

कस्य कृते।

विचक्षणा—

प्रियसख्याः कृते।

विदूषकः—

तन्ममाप्यर्धं देहि।

विचक्षणा—

किं निमित्तम्।

विदूषकः—

महाराजस्य कृते।

विचक्षणा—किं उण कारणं तस्स।

विदूषकः—कप्पूरमञ्जरिए वि किम्।

विचक्षणा—किं ण जाणासि महाराअस्स दंसणम्।

विदूषकः—तुमं वि किं ण जाणासि महाराअस्स कप्पूरमञ्जरीए दंसणम्।

(इत्युभौ इसतः ।)

विचक्षणा—ता कहिं महाराओ।

विदूषकः—तुह वअणेण मरगअपुञ्जेचिट्ठदि।

विचक्षणा—ता महाराएण सह मरगअपुञ्जदुआरे चिट्ठ खणम्, जेण उहअदंसणे जादे सिसिरोवआरसामग्गीए जलञ्जली दिज्जदि।

——————

विचक्षणा—

किं पुनः कारणं तस्य।

विदूषकः—

कर्पूरमञ्जर्या अपि किम्।

कारणमिति पूर्वतनाध्याहारः।

विचक्षणा—

किं न जानासि महाराजस्य दर्शनम्।

विदूषकः—

त्वमपि किं न जानासि महाराजस्य कर्पूरमञ्जर्या दर्शनम्।

विचक्षणा—

तत्कुत्र महाराजः।

विदूषकः—

तव वचनेन मरकतपुञ्जे तिष्ठति।

विचक्षणा—

तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ठ क्षणम्, येनोभयदर्शने जाते शिशिरोपचारसामग्र्याजलाञ्जलिर्दीयते।

विदूषकः—(तामपहत्य।) तहिं गच्छ जहिं णागच्छसि। (इति क्षिपति।) (पुनस्तांप्रति।) ता कीस दुआरदेसे होदव्वम्।

विचक्षणा—देवीए आदेसेण कप्पूरमञ्जरी समाअच्छदि।

विदूषकः—को तीए आदेसो।

विचक्षणा—तहिं देवीए बालतरुणो तिण्णि आरोविदा।

विदूषकः—को को।

विचक्षणा—कुरबअतिलआसोआ।

विदूषकः—ता किं तेहिं।

विचक्षणा—भणिदा सा देवीए जधा—

कुरबअतिलआंसोआ आलिङ्गणदंसणाग्गचअणहआ ।

विअसन्ति कामिणीणं ता ताणं देहि दोहलअम्॥४३॥

——————

विदूषकः—

तत्र गच्छ यतो नागच्छसि। तत्किं द्वारदेशे भवितव्यम्।

विचक्षणा—

देव्या आदेशेन कर्पूरमञ्जरी समागच्छति

विदूषकः—

किं तस्या आदेशः।

विचक्षणा—

तत्र देव्या बालतरवस्त्रय आरोपिताः।

विदूषकः—

कः कः।

विचक्षणा—

कुरबकतिलकाशोकाः।

विदूषकः—

तत्किंतैः।

विचक्षणा—

भणिता सा देव्या यथा—

कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः।

विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ॥

एह्णिंतं संपादइस्सदि।

विदूषकः—ता मरगअपुञ्जादो पिअवअस्सं आणीअ तमालविडबन्तरिदं ठाविअ एदं पच्चक्खं करइस्सम्। (तथा नाटयित्वा। राजानं प्रति।) भो भो, उट्ठिअ पेक्ख णिअहिअअसमुद्दचन्दलेहम्।

(राजा तथा करोति।)

(ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमञ्जरी।)

कर्पूरमञ्जरी—कहिं उण विअक्खणा।

विचक्षणा—(तामुपसृत्य।) सहि, करीअदु देवीए समादिट्ठम्।

राजा—वअस्स, किं उण तम्।

——————

यद्यस्मात्कारणात्कामिनीनामालिङ्गनदर्शनाप्रचरणहताः सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फुल्ला भवन्ति तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम्। यद्वा तदिदमिति तच्छब्देन पूर्वोक्तालिङ्गनादि परामृश्य योज्यम्, तदा न यत्पदाध्याहारः। कुरबकादित्रयस्य कामिन्यालिङ्गनादित्रयेणैव विकासो वर्ण्यत इति कविसंप्रदायः। तथोक्तम्—‘पादाहतः प्रमदयाविकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः। आलिङ्गितः कुरवकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥’ इति। ‘आलिङ्गनेनैव मृगायताक्ष्याः प्रफुल्लतां वैतिलकः प्रयाति। अशोकशाखी पुनरङ्गिपातैर्वेकशाली विरलो हि लोके ॥’ इति च। अत्रापि च्छेकानुप्रासः।

इदानीं तत्संपादयिष्यति।

विदूषकः—

तन्मरकतपुञ्जात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतत्प्रत्यक्षं कारयिष्यामि। भो भोः, उत्थाय प्रेक्षस्वनिजहृदयसमुद्रचन्द्रलेखाम्।

निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कर्पूरमञ्जरी ताम्।

कर्पूरमञ्जरी—

क्व पुनर्विचक्षणा।

विचक्षणा—

सखि, क्रियतां देव्या समादिष्टम्।

कुरबकादीनां दोहददानमित्यर्थः।

राजा—

वयस्य, किं पुनस्तत्।

विदूषकः—तमालविडबन्तरिदो जाण।

(राजा तथा करोति।)

विचक्षणा—एस कुरबअतरू।

(कर्पूरमञ्जरी तमालिङ्गति।)

राजा—

णवकुरबअरुक्खो कुम्भथोरत्थणीए

रहसविरइदेण ण्णिब्भरालिङ्गणेण ।

तह कुसुमसमिद्धिं लम्भिदो सुन्दरीए

जह भसलकुलाणं तत्थ जत्ता पउत्ता ॥ ४४ ॥

विदूषकः—भो, पेक्ख पेक्ख महिन्दजालम्। जेण

बालो वि कुरबअतरू तरुणीए गाढमुवगूढो ।

सहसत्ति फुल्लुणिअरं मदनसरं विअ समुग्गिरइ ॥ ४५ ॥

——————

विदूषकः—

तमालविटपान्तरितो जानीहि।

विचक्षणा—

एष कुरबकतरुः।

राजा—

नवकुरबकवृक्षकुम्भस्थूलस्तन्या

रभसविरचितेन निर्भरालिङ्गनेन।

तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या

यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता॥

जातेति यावत्। अथ च तत्रेति तत इत्यर्थे। तत्र ततो यात्रा नमनागमन समाप्तमित्यर्थः। सर्वदा तत्रैव तिष्ठन्तीति भावः। यद्वा असमाप्तेति नञ्प्रश्लेषः। तत्रेति विषयसप्तमी। तथा च तद्विषये यात्रा वृक्षान्तरात्तत्रागमनं तन्न समाप्तमित्यर्थः। अनेन कुसुमभूमा, तत्र च सौरभातिशयो ध्वन्यते। अत्रापि च्छेकानुप्रासरूपकोपमासंकरा अलंकाराः।

विदूषकः—

भोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम्। येन

बालोऽपि कुरबकतरुस्तरुण्या गाढमुपगूढः।

सहसेति पुष्पनिकरं मदनशरमिव समुद्गिरति ॥

राजा—ईदिसो ज्जेव्व दोहलअस्स प्पभावो।

विचक्षणा—अह एसो तिलअद्दुमो।

(कर्पूरमञ्जरी चिरं तिर्यगवलोकयति।)

राजा—

तिक्खाणं तरलाणँ कज्जलकलासंवग्गिदाणं पि से

पासे पञ्चसरं सिलीमुहधरं णिच्चंकुणन्ताणँअ ।

णेत्ताणं तिलअद्दुमे णिवडिदा धाडी मिअच्छीअ जं

तं सो मञ्जरिपुञ्जदन्तुरसिरो रोमञ्चिदो व्व द्विदो ॥ ४६ ॥

विचक्षणा—एसो असोअसाही।

(कर्पूरमञ्जरी चरणताडनं नाटयति।)

राजा—

ईदृश एव दोहदस्य प्रभावः।

विचक्षणा—

अथैष तिलकद्रुमः।

राजा—

तीक्ष्णयोस्तरलयोःकज्जलकलासंवल्गितयोरप्यस्याः

पार्श्वे पञ्चशरं शिलीमुखधरं नित्यं कुर्वतोश्च।

नेत्रयोस्तिलकद्रुमे निपतिता धाटी मृगाक्ष्या य-

त्तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥

तीक्ष्णयोर्दीर्घकृशाग्रयोः, कज्जलकला सूक्ष्मं कज्जलं तत्संवल्गितयोस्तत्संबद्धयोः, पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा कुर्वतोः, मृगाक्ष्या नेत्रयोर्धाटी रचनाव्यापारविशेषस्तिलकद्रुमे यद्यस्मात्कारणात्पतितस्तस्मात्स तिलकतरुर्मञ्जरीणां पुञ्जः समूहस्तेन दन्तुरं साङ्कुरं शिरोऽग्रंयस्य सः। अत एव रोमाञ्चित इव संजातरोमाञ्च इव वर्तत इत्यर्थः। शिलीमुखधरं पञ्चशरं पार्श्वे नित्यं कुर्वतोरित्यनेन कंदर्पबाणसाम्यं नेत्रयोर्व्यञ्जितम्। तेन च कामिखिन्नतासंपादकत्वं काममार्गणधर्मोऽनयोर्व्यज्यते। अत्रापि च्छेकवृत्त्यनुप्रासोपमोत्प्रेक्षासंकरालंकारा ध्येयाः।

विचक्षणा—

एषोऽशोकशाखी।

राजा—

असोअतरुताडणं रणिदणेउरेणङ्घिणा

कदं च मिअलञ्छणच्छविमुहीअ हेलुल्लसम् ।

सिहासु सअलासु वि त्थबअमण्डणाडम्बरं

ठिदं च गअणङ्गणं जणणिरिक्खणिज्जं खणम् ॥ ४७ ॥

विदूषकः—भो वअस्स, जं सअं ण कदं दोहलअदाणं देवीए जाणेसि तत्थ किं कारणम्।

राजा—तुमं जाणेसि।

विदूषकः—भणामि जइ देवो ण कुप्पदि।

राजा—को एत्थ रोसावसरो। भण उम्मुद्दिआए जीहाए।

राजा—

अशोकतरुताडनं रणितनूपुरेणाङ्घ्रिणा

कृतं च मृगलाञ्छनच्छविमुख्या हेलोल्लासम्।

शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं

स्थितं च गगनाङ्गणं जननिरीक्षणीय क्षणम् ॥

मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः। मृगलाञ्छनस्य च्छविर्यस्मिंस्तत्तादृशं मुखं यस्या इति वा। तादृश्या कर्पूरमञ्जर्या। चद्वयेनोभयमपि समकालमेवोइभवदिति द्योत्यते। अत्रापि च्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः।

विदूषकः—

भो वयस्य, यत्स्वयं न कृतं दोहदकदानं देव्या जानासि तत्र किं कारणम्।

राजा—

त्वं जानासि।

विदूषकः—

भणामि यदि देवो न कुप्यति।

राजा—

कोऽत्र रोषावसरः। भणोन्मुद्रितया जिह्वया।

विदूषकः—

इह जइ वि कामिणीणं सुन्देरं धरइ अवअवाणँसिरी।

अहिदेवदे व्व णिवसइ तह वि हु तारुण्णए लच्छी ॥ ४८ ॥

राजा— सुणिदो दे अहिप्पाओ। किं उण किं पि भणामो।

बालाअ होन्ति कोऊहलेण एमेअ चबलचित्ताओ।

दरलसिअथणीसु पुणो णिवसइ मअरद्धअरहस्सम् ॥ ४९ ॥

विदूषकः— तरुणो वि रूअरेहारहस्सेण फुल्लन्ति। ण उण रइरहस्सं जाणन्ति।

(नेपथ्ये।)

वैतालिकः—सुहसंझा भोदु देवस्स।

लोआणं लोअणेहिं सह कमलवणं अद्धणिद्दंकुणन्तो

मुञ्चन्तो तिक्खभावं सह अ सरभसं माणिणीमाणसेहिं।

विदूषकः—

इह यद्यपि कामिनीनां सौन्दर्यं धारयत्यवयवानां श्रीः।

अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥

अत्रापि व्यतिरेकोपमे।

राजा—

श्रुतस्तेऽभिप्रायः। कि पुनः किमपि भणामः।

बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः।

दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥

विदूषकः—

तरवोऽपि रूपरेखारहस्येन विकसन्ति। न पुना रतिरहस्यं जानन्ति।

यतस्तरुणीकुचसंस्पर्शेन विनापि विकसन्तीति भावः।

वैतालिकः—

सुखसंध्या भवतु देवस्य।

लोकानांलोचनैः सह कमलवनमर्धनिद्रं कुर्व-

न्मुञ्चंस्तीक्ष्णभावं सह. च सरभसं मानिनीमानसैः।

मञ्जिट्ठारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो

जादो अत्थाचलत्थी उवह दिणमणी पक्कणारङ्गपिङ्गो ॥ ५० ॥

राजा—भो वअस्स, संणिहिदो संझासमओ वट्टदि।

विदूषकः—संकेअकालो कहिदो बन्दीहिं।

कर्पूरमञ्जरी—सहि विअक्खणे, गमिस्सं दाव। विआलो संवुत्तो वट्टदि।

विचक्षणा—एवं कीरदु।

(इति परिक्रम्य निष्क्रान्ताः सर्वे।)

इति द्वितीयं जवनिकान्तरम्।

——————

मञ्जिष्ठारक्तसूत्रच्छविकिरणचयश्चक्रवाकैकमित्त्रं

जातोऽस्ताचलार्थी पश्यत दिनमणिः पक्कनारङ्गपिङ्गः ॥

उवहेति देशी पश्यतेत्यस्मिन्नर्थे। अत्रापि स्वभावोक्त्युपमादयः।

राजा—

भो वयस्य, संनिहितः संध्यासमयो वर्तते।

विदूषकः—

संकेतकालः कथितो बन्दिभिः।

कर्पूरमञ्जरी—

सखि विचक्षणे, गमिष्यामि तावत्। विकालः संवृत्तो वर्तते।

विचक्षणा—

एवं क्रियताम्।

इति श्रीमद्विद्वद्वृन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोर- किरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरीप्रकाशे

द्वितीयं जवनिकान्तरं समाप्तम्।

तृतीयं जवनिकान्तरम्।

(ततः प्रविशति राजा विदूषकश्च।)

राजा—(तामनुसंधाय।)

दूरे किज्जदु चम्पअस्स कलिआ कज्जं हरिद्दाअ किं

उत्तत्तेण अ कञ्चणेण गणना का णाम जच्चेण वि।

लावण्णस्स णवुग्गदेन्दुमहुरच्छाअस्स तिस्सा पुरो

पच्चग्गेहिंवि केसरस्स कुसुमक्केरेहिं किं कारणम्॥१॥

अवि अ।

मरगअमणिजुठ्ठाहारलट्ठि व्व तारा

भमरकवलिअद्धा मालईमालिए व्व।

रहसवलिअकण्ठी तीअ दिट्ठीवरिट्ठा

सवणपहणिविट्ठा माणसं मे पविट्ठा॥२॥

विदूषकः—भो वअस्स, किं तुमं भज्जाजिदो विअ किंपि किंपि कुरुकुराअन्तो चिट्ठसि।

——————

दूरेति।

दूरे क्रियतां चम्पकस्य कलिका कार्यं हरिद्रायाः किं

उत्तप्तेन च काञ्चनेन गणना का नाम जात्येनापि।

लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः

प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम्

तस्या लावण्यस्येति संबन्धः। अत्राक्षेपोपमे। आक्षेपलक्षणमुक्तं वृद्वैः—‘प्रतिषेधपुरःसरोक्तिराक्षेपः।’ काव्यादर्शेऽपि— ‘प्रतिषेधोक्तिराक्षेपः’ इति।

अपि च।

मरकतमणिजुष्टा हारयष्टिरिव तारा

भ्रमरकवलितार्धा मालतीमालिकेव।

रभसवलितकण्ठी तस्या दृष्टिर्वरिष्ठा

श्रवणपथनिविष्टा मानसं मे प्रविष्टा

तारैव भ्रमरस्तेन कवलितमर्धंयस्या इति वा। अत्रापि रूपकोत्प्रेक्षे।

विदूषकः—भो वयस्य, किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि।

राजा—वअस्स, सिविणअं दिट्ठमणुसंघेमि।

विदूषकः—ता कहेतु पिअवअस्सो।

राजा—

जाणे पङ्करुहाणणा सिविणए मंकेलिसज्जागदं

कन्दोट्टेण तडित्ति ताडिदुमणा हत्थन्तरे संठिदा ।

ता कोडेण मए वि झत्ति धरिदा ठिल्लं वरिल्लञ्चले

तं मोत्तूण गदं अ तीअ सहसा णट्ठा अ णिद्दा वि मे ॥ ३ ॥

विदूषकः—(स्वगतम्।) भोदु। एवं दाव। (प्रकाशम्।) भो वअस्स, अज्ज मए वि सिविणं दिट्ठम्।

राजा—(सप्रत्याशम्।) ता कहिज्जदु कीरिसं तं सिविणअम्।

विदूषकः—अज्ज जाणे सिविणए सुरसरिआसोत्ते सुत्तो ह्मि। ता हरसिरसोवरि दिण्णलीलाचलणाए गङ्गाए पक्खालिदोह्मि तोएण।

राजा—

वयस्य, स्वप्नं दृष्टमनुसंदधामि।

विदूषकः—

तत्कथयतु प्रियवयस्यः।

राजा—

जाने पङ्करुहानना स्वप्नेमां केलिशय्यागत-

मिन्दीवरेण तटिति ताडितुमना हस्तान्तंरे संस्थिता ।

तत्कौतूहलेन मयापि झटिति धृता शिथिलं वस्त्राञ्चले

तन्मोचयित्वा गतं च तया सहसा नष्टा च निद्रापि मे ॥

कन्दोट्टमिन्दीवरमिति, ठिल्लं शिथिलमिति च देशी।

विदूषकः—

भवतु। एवं तावत्। भो वयस्य, अद्य मयापि स्वप्नो दृष्टः।

राजा—

तत्कथ्यतां कीदृशः स स्वप्नः।

विदूषकः—

अद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि। तद्धरशिरस उपरि दत्तलीलाचरणाया गङ्गायाः प्रक्षालितोऽस्मि तोयेन।

राजा—तदो तदो।

विदूषकः—तदो सरअसमअवरिसिणा जलहरेण जहिच्छं पीदोह्मि।

राजा—अच्छरिअं अच्छरिअम्। तदो तदो।

विदूषकः—तदो सत्तिणखत्तगदे भअवइ मत्तण्डे तम्मवण्णीणईसंगदं समुद्दंगदो महामेहो। जाणे अहं वि मेहगब्भट्ठिदो गच्छेमि।

राजा—तदो तदो।

विदूषकः—तदो सो तहिं थूलजलबिन्दूहिं वरिसिदुंपउत्तो। अहं च रअणाअरसुत्तीहिं मुत्ताणामहेआहिं संपुडं समुग्घाडिअ जलबिन्दूहिं समं पीदोह्मि। ताणं च दसमासप्पमाणं मोत्ताहलं भविअ गब्भेठिदो।

राजा—तदो तदो।

राजा—

ततस्ततः।

विदूषकः—

ततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि।

राजा—

आश्चर्यमाश्चर्यम्। ततस्ततः।

विदूषकः—

ततः स्वातिनक्षत्रगते भगवति मार्तण्डे ताम्रपर्णीनदीसंगतं समुद्रं गतो महामेघः। जानेऽहमपि मेघगर्भस्थितो गच्छामि।

राजा—

ततस्ततः।

विदूषकः—

ततोऽसौ तत्र स्थूलजलबिन्दुमिवावतुभिर्मुक्तानामधेयाभिः संपुटं समुद्धाव्य जलबिन्दुभिः समं पीतोऽस्मि। तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भेस्थितः।

राजा—

ततस्ततः।

विदूषकः—

तदो चउस्सट्ठिसु सुत्तिसु ट्ठिदो घणम्बुबिन्दू जिअवंसरोअणो।

सुवत्तुलं णित्तलमच्छमुज्जलं कमेण पत्तो णवमुत्तिअत्तणम् ॥ ४ ॥

राजा—तदो तदो।

विदूषकः—तदो सोहमत्ताणं ताणं सुत्तीणं गब्भगअं मुत्ताहलत्तणेण मण्णेमि।

राजा—तदो तदो।

विदूषकः—तदो परिणदे काले समुद्दाहिंतो कङ्द्दृदाओ ताओ मुत्तीओ, फाडिदाओ अ। अहं चतुस्सट्ठिमुक्तहलत्तणं गदो ट्ठिदो। किणिदो अ एक्केण सेट्ठिणा सुवण्णलक्खं देइअ।

राजा—अहो विचित्तदा सिविणअस्स। तदो तदो।

विदूषकः—तदो तेण आणिअ वेधआरएहिं वेधाविआइंमोत्तिआइं। मम वि ईसीसि वेअणा समुप्पण्णा।

विदूषकः—

ततश्चतुःषष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुर्जितवंशरोचनः।

सुवर्तुलं निस्तलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् ॥

राजा—

ततस्ततः।

विदूषकः—

ततः सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये।

राजा—

ततस्ततः।

विदूषकः—

ततः परिणते काले समुद्रात्कर्षितास्ताः शुक्तयः, विदारिताश्च। अहं चतुःषष्टिमुक्ताफलत्वं गतः स्थितः। क्रीतश्चैकेन श्रेष्ठिना सुवर्णलक्षं दत्त्वा।

राजा—अहो विचित्रता स्वप्नस्य। ततस्ततः।

विदूषकः—ततस्तेनानीय वेधकारैर्वेधितानि मौक्तिकानि। ममापीषदीषद्वेदना समुत्पन्ना।

राजा—

तदो तदो।

विदूषकः—

तदो

तेणावि मुत्ताहलमण्डलेण एक्केक्कदाए दसमासिएण।
एक्कावली गण्ठिकमेण गुत्थाजा संठिदा कोटिसुवण्णमुल्ला॥५॥

राजा—

तदो तदो।

विदूषकः—

तदो तं करण्डिभाए कयुअ सागरदत्तो णाम वाणिओ गदोपञ्चालाधिपस्स सिरिवज्जाउहस्स णअरं कण्णउज्जंणाम। तर्हिच सा विक्कीणीदा कोटिए सुवण्णस्स।

राजा—

तदो तदो।

विदूषकः—

तदो अ

दट्ठूणथोरत्थणतुङ्गिमाणं एक्कावलीए तह चङ्गिमाणम्‌।
सा तेण दिण्णा दहआइ कण्ठे रज्जन्ति छेआ समसंगमम्मि॥६॥

राजा—

ततस्ततः।

विदूषकः—

ततः

तेनापि मुक्ताफलमण्डलेनैकेकतया दशमापिकेण।
एकावली ग्रन्थिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या॥

राजा—

ततस्ततः।

विदूषकः—

ततस्तां करण्डिकायां कृत्वासागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्रीवज्रायुधस्य नगरं कान्यकुब्जंनाम।तत्र च सा विक्रीता कोट्यासुवर्णस्य।

राजा—

ततस्ततः।

विदृषकः—

ततश्च

अवि अ।

णहवहलिदजोह्णाणिब्भरे रत्तिमज्झे
कुसुमसरपहारत्ताससंमीलिदाणम्‌।
णिहुवणपरिरम्भेणिब्भरुत्तुङ्गपीण-
त्थणकलसणिवेसा पीडिदोहं विबुद्धो॥ ७॥

राजा—(किंचिद्विहस्य, विचिन्य च।)

सिविणअमिअं असच्चं तं दिट्ठंमेणुसंधमाणस्स।
पडिसिविणएण तस्स वि णिआरणं तुह अहिप्पाओ॥८॥

विदूषकः—भइट्ठोठक्कुरो, क्खुहाकिलन्तो बह्मणो, अविणीदहिअआ बालरण्डा, विरहिदोअ माणुसो मणोरहमोदएहिंअत्ताणं विडम्बेदि। अवि अ वअस्स, पुच्छेमि कस्स उण एसो प्पहाओ।

——————

दृष्ट्वास्थूलस्तनतुङ्गिमानमेकावल्यस्तथा चङ्गिमानम्‌।
सा तेन दत्ता दयितायाः कण्टे रज्यन्ति च्छेका समसंगमे॥

कण्ठदानाच्चैकावलीस्तनसंगमो भविष्यतीति भावः। छेका विदग्धाः।
अपि च।

नभोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये
कुसुमशरप्रहारत्राससंमीलितयोः।
निधुवनपरिरम्भेनिर्भरोतुङ्गपीन-
स्तनकलशनिवेशात्पीडितोऽहं विबुद्धः॥

राजा—

स्वप्नमिममसत्यं तद्दृष्टंममानुसंदधतः।
प्रतिस्वप्नेन तस्यापि निवारणं तवाभिप्रायः॥

न तु वस्तुतः स्वप्नो दृष्टइति भावः।
विदूषकः—

भ्रष्टो राजा, क्षुधाक्लान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्चमानुषो मनोरथमोदकैरात्मानं विडम्बयति।अपि च वयस्य, पृच्छामि कस्य पुनरेष प्रभावः।
भ्रष्टः। राज्यादिति शेषः। ठक्कुरो राजा। अविनीतहृदया पुरुषसंसर्गाभिलाषिचित्ता। विरहितो विरहयुक्तः।

राजा—पेम्मस्स।

विदूषकः—भो, देवीगदे पणअप्परूढे वि पेम्मे किं ति कप्पूरमञ्जरीं सव्वङ्गवित्थारिअलोअणो पिअन्तो विअ अवलोकेसि। किं तदो वि परिहीअप्पमाणगुणा देवी।

राजा—मा एव्वं भण।

कीए वि संघडइ कस्स वि पेम्मगण्ठी

एमेव्व तत्थ ण हु कारणमत्थि रूअम् ।

चङ्गत्तणं उण महिज्जदि जं तहिं पि

ता दिज्जए पिसुणलोअमुहेसु मुद्दा ॥ ९ ॥

विदूषकः—भो, किं उण एदं पेम्म पेम्मत्ति भणन्ति।

राजा—अण्णोण्णमिलिदस्स मिहुणस्स मअरद्धअसासणे परूढं पणअगण्ठिं पेम्मेत्ति छइल्ला भणन्ति।

राजा—

प्रेम्णः।

विदूषकः—

भोः, देवीगते प्रणयप्ररूढेऽपि प्रेम्णि किमिति कर्पूरमञ्जरीं सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि। किं ततोऽपि परिहीणप्रमाणगुणा देवी।

परीहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा।

राजा—

मैवं भण।

कयाचित्संघटते कस्यापि प्रेमग्रन्थि-

रेवमेव तत्र न खलु कारणमस्ति रूपम् ।

चङ्गत्वं पुनर्मृग्यते यत्तत्रापि

तद्दीयते पिशुनलोकमुखेषु मुद्रा ॥

प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं किं तु तत्स्वभावादेव भवति। तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते। किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकालायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः। अत्राप्यर्थान्तरन्यासानुप्रासादयः।

विदूषकः—

भोः, किं पुनरेतत्प्रेम प्रेमेति भणन्ति।

विदूषकः—

कीदिसो सो।

राजा—

जस्सिं विकप्पघडणाइकलङ्कमुक्को
अत्ताणअस्स सरलत्तणमेइ भावो।
एक्कक्कअस्स पसरन्तरसप्पवाहो
सिङ्गारवड्ढिअमणोभवदिण्णसारो॥१०॥

विदूषकः—

कथं विअ सो लक्खीअदि।

राजा—

जाणं सहावपसरन्तसलोलदिट्ठी-
पेरन्तलुण्ठिअमणाणँपरप्परेण।

   —————

राजा—

अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्ररूढं प्रणयग्रन्थिं प्रेमेति विदग्धा भणन्ति।

विदूषकः—

कीदृशः सः।

राजा—

यस्मिन्विकल्पघटनादिकलङ्कमुक्तः
आत्मनः सरलत्वमेति भावः।
एकैकस्य प्रसरद्रसप्रवाहः
शृङ्गारवर्धितमनोभवदत्तसारः॥

यस्मिन्प्रेम्णि विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भावश्चित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति। कीदृशः। एकैकस्यप्रसरन्रसप्रवाहोयत्र। पुनः कीदृक्। शृङ्गारेणवर्धितो यो मनोभवस्तेन दत्तः सारो यत्र। अत्रापि स्वभावोक्त्यादयःशब्दाथोलंकारा ऊह्याः।

विदूषकः—

कथमिव सलक्ष्यते।

राजा—

ययोः स्वभावप्रसरत्सलोलदृष्टि-
पर्यन्तलुण्ठितमनसोः परस्परेण

वड्ढन्तमम्महविइण्णरसप्पसारो
ताणं पआसइ लहुं विअ चित्तभावो॥११॥

अवि अ।

अन्तो णिविट्ठमणविब्भमडम्बरोजो
सो भण्णए मअणमण्डणमेत्थ पेम्मम्‌।
दुल्लक्खअंपि पअडेइ जणो जअम्मि
तं जाणिमो सुबहुलं मअणिन्दजालम्‌॥१२॥

विदूषकः—

जइचित्तगदं पेम्ममणुराजअमुप्पादेदि, ता किं कज्जदि मण्डणाडम्बरविडम्बणाए।

राजा—

वअस्स, सच्चमिणम्‌।

किं मेहलावलअणेउरसेहरेहिं
कि चङ्गिमाअकिमु मण्डणडम्बरेहिं।

वर्धमानमन्मधवितीर्णरसप्रसार-
स्तयोः प्रकाशते लघुरिव चित्तभावः॥

स्वभावतः प्रसरन्त्यःसलोला या दृष्ट्यस्तासां प्रान्तैर्लुण्ठितं मनो ययोः। लण्ठितमित्यनेन तदेकरसता ध्वन्यते।
अपि च।

अन्तर्निविष्टमनोविभ्रमडम्बरोयः
स भण्यते मदनमण्डनमत्र प्रेम।
दुर्लक्ष्ममपि प्रकटयति जनो जगति
तज्जानीमः सुबहुलं मदनेन्द्रजालम्‌॥

विदुषकः—

यदि चित्तगतं प्रेमानुरागमुत्पादयति, तत्किं क्रियते मण्डनाडम्बरविडम्बनया।

राजा—

वयस्य, सत्यमिदम्‌।

किं मेखलावलयनूपुरशेखरैः
किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः।

तं अण्णमत्थि इह किंपि णिअम्बिणीओ
जेणं लहन्ति सुहअत्तणमञ्जरीओ॥१३॥

अवि अ।

किं गेअणट्टविहिणा किमु वारुणीए
धूवेण कि अगुरुणा किमु कुङ्कुमेण।
मिट्ठत्तणे महिअलम्मिण किं वि अण्णं
रुच्चीअ अत्थिसरिसं पुण माणुसस्स॥१४॥

अवि अ।

जा चक्ववट्टिघरिणी जणगेहिणी वा
पेम्मम्मि ताण ण तिलवि विसेसलाभो।
जाणे सिरीा जइकिज्जदि को वि भावो
माणिक्कभूसणणिअंसणकुङ्कुमेहिं॥१५॥

अवि अ।

किं लोअणेहिं तरलेहिं किमाणणेण
चन्दोबमेण थणएहिंकिमुण्णएहिं।

———————

तदन्यदस्तीह किमपि नितम्बिन्यो
येन लभन्ते सुभगत्वमञ्जरीः॥

अपिच।

किं गेयनृत्यविधिना किमु वारुण्या
धूपेन किमगुरुणा किमु कुङ्कुमेन।
मधुरत्वे महीतले न किमप्यन्य-
द्रुचेरस्ति सदृशं पुनर्मानुषस्य॥

अपिच।

या चक्रवर्तिगृहिणी जनगेहिनी वा
प्रेम्णि तयोर्नतिलमान्नमपि विशेषलाभः।
जाने श्रिया यदि क्रियते कोऽपि भावो
माणिक्यभूषणनिवसनकुङ्कुमैः॥

तं किं पि अण्णमिह भूवलए णिमित्तं
जेणाङ्गणाअ हिअआउ ण ओसरन्ति॥१६॥

विदूषकः—एव्वं णेदम्‌। किं पुण अण्णं पि मेकधेसु, जं कुमारत्तणे माणुसस्स अमणोज्जमेतस्सिं वि तरुणत्तणे चङ्गत्तणं वड्ढदि।
राजा–

णूणं दुवे इह पवाअइणोजअम्मि
जे देहणिम्मवणजोव्वणदाणदक्खा।
एक्को घडेदि पढमंकुमरीणमङ्ग-
मुक्कारिऊण पअडेइपुणो दुदीओ॥१७॥

अपि च।

किं कोचनैस्तरलैःकिमाननेन
चन्द्रोपमेन स्तनैः किमुन्नतैः।
तत्किमप्यन्यमिह भूवलूये निमित्तं
येनाङ्गना हृदयान्नापसरन्ति॥

यूनामिति शेषः।

विदूषकः—
एवमेतत्‌। किं पुनस्यदपि मे कथय, यत्कुमारत्वेमानुपस्यामनोज्ञमेतस्मिन्नपि तारुण्ये चङ्गत्वंवर्धते।
अमनोज्ञमङ्गादिकमिति शेषः। एतस्मिन्नमनोज्ञे। अपिर्भिन्नक्रमस्तारुण्य इत्यनन्तरं द्रष्टव्यः। यद्वा एतस्मिन्निति तारुण्य इत्यस्यैव विशेषणम्‌। एतस्मिन्नप्येतादृशोत्कर्षवत्वपीत्यर्थः। तदा न भिन्नक्रमोऽपिः।
राजा—

नूनं द्वाविह प्रजापती जगति
यौदेहनिर्मणयौवनदानदक्षौ।
एको घटयति प्रथमं कुमरीणामङ्ग-
मुत्कीर्य, प्रकटयति पुनर्द्वितीयः॥

अत्रोत्कीर्य प्रकटयतीत्यनेन निर्माणकर्तृचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते। तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः।

तेण अ।

रणिअवलअकञ्चीणेउरावासलच्छी
मरगअमणिमारा गोरिआ हारलट्ठी।
हिअअहरणमन्तं जोव्वणंकामिणीणं
जअदि मअणकण्डं छट्ठअंबड्ढअं अ॥ १८॥

तहा अ।

अङ्गं लावण्णपुण्णं सवणपरिसरे लोअणा हारतारा
वच्छं थोरत्थणिल्लंतिवलिवलइअं मुट्ठिगेह्णंअ मञ्झम्।
चक्काआरो णिअम्बो तरुणिमसमए कि णु अण्णेण कज्जं
पञ्चेहिं जेव्वबालामअणजअमहाबैजअन्तीअ होन्ति॥१९ ॥

(नेपथ्ये।)

सहि कुरङ्गिए, इमिणा सिसिरोवआरेण णलिणि व्व कामं किलिम्मामि।
तेन च।

रणितवलयकाञ्चीनूपुरावासलक्ष्मी-
र्मरकतमणिमाला गैरिका हासयष्टिः।
हृदयहरणमन्न॑ यौवनं कामिनीनां
जयति मदनकाण्डः षष्ठको बलिष्ठश्च॥

जयतीति सर्वत्र काञ्च्यादावन्वेति। न च काञ्च्यादीनां वहुत्वान्मदनकाण्डः पष्ठकोऽयमित्येतदनन्वयि स्यादिति वाच्यम्‌। सर्वसमुदाये षष्ठमदनकाण्डत्वविधाने दोषाभावात्‌। अथवा यौवनविशेषणम्‌। बलिष्ठजयतिपदाभ्यां चान्यकाण्डापेक्षयास्य व्यतिरेको ध्वन्यते। यतो बलिष्ठोऽत एव जयतीति हेतुहेतुमद्भावेनान्वयः। अन्योऽपि यो बलिष्ठःसजयतीत्येतदुचितमेवेति भावः।
तथा च।

अङ्गं लावण्यपूर्णं श्रवणपरिसरे लोचने हारतारे
वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यंच मध्यम्‌।
चक्राकारो नितम्बस्तरुणिमसमये कि न्वन्येन कार्यं
पञ्चभिरेव बाला मदनजयमहावैजयन्त्यो भवन्ति॥

हारे हरणशीलेतारे ययोस्ते।

विस व्व बिसकन्दली विसहर व्व हारच्छडा
वअस्समिव अत्तणो किरह तालविन्ताणिलो।
तहा अ करणिग्गअं जलइ जन्तधाराजलं
ण चन्दणमहोसहं हरइ देहदाहं अ मे॥२०॥

विदूषकः—

सुं पिभवअस्सेण। भरिआ कण्णा पीऊसगण्डूसेहिं। ना कि अजि उपेक्खीअदि घणघम्मेण किलिमन्ती मुणालिआ, गाढकड़ुणदुःसहेण सलिलेण सिदश्चिजन्ती केलिकुड्डूमत्थली, छम्माप्तिअमोत्तिआएं झद्ठित्ति फुडन्ती एक्रावलिआ, गण्टठिवण्णकेआलिआ छुण्ठिजन्ती गन्धहरिणेण। ता सच्च दे सिविणअं संपण्णम्‌। एहि, पविसम्ह। उट्ठिज्जदु मजरद्धअपताआ। पअट्ठदु कण्टकुहरम्मि पश्चमहुंकाराणां रिञ्छोली। थकन्तु बाहप्पवाहा। मन्रिजन्तु णीसासप्पसरा। लहदु लावण्ण पुण णवभावम्‌। ता एदि। खिडक्किआदुआरेण पविसम्ह।

(इति प्रविशतः।)
(नेपथ्ये।)

सनि कुरङ्गि, अनेन शिदिरोपचरेण नदिनीव कामं कराम्यामि।
शिक्षिरोपचारः शीतलोपचारः, रिशिरषैसमीपागमनं च।

विषमिव विसकन्दलीविपघर इव हारच्छटा
वयस्थमिवात्मनः किरति तालवन्तानिकः।
तथा च करनिर्मतं जहति यन्त्रधाराजलं
न चन्दनमहौपबंहरति देहदाहं च मे॥

तालवृन्तानिल आत्मनो वयस्यं सखायं शिखिनमिव किरतीत्यर्थः।

विदूषकः—

श्रुतं प्रियवयस्येन। भृतौ कर्णौ पीयूपगण्डूपेः। तत्किमद्याप्युपेक्ष्यते घनघर्मेण क्लाम्यन्ती मृणालिका, गाढक्कथितदुःसहेन सलिलेनसिच्यमाना केलिकुङ्कुमम्थली, षण्मासिकमौक्तिकानां झटिति स्फुटन्येकावली, ग्रन्थिपर्णकेदारिका लुण्ठ्यमाना गन्धहरिणेन। तसत्यंते सप्नंसंपन्नम्‌। एहि, प्रविशावः। उत्थाप्यतां मकरध्वजपताका। प्रवर्ततां कण्ठकुहरे पञचमहुंकाराणां रचना। स्तोकीक्रियन्तां बाष्पप्रवाहाः। मन्थरीक्रियन्तां निःश्वासप्रसरा;। लभतां लव्यं पुनर्नवभावम्‌। तदेहि, खिडक्किकाद्वारेण प्रविशावः।

(ततः प्रविशति नायिका कुरङ्गिका च।)

नायिका—

(ससाध्वसंस्वगतम्‌ ) अम्मो, किं एसो सहसा गअणङ्गणादो अवइण्णो पुण्णिमाहरिणङ्गो। कि वा तुट्ठेण णीलकण्ठेण णिअदेहं लम्भिदोमणोहओ। किंवा हिअअस्स दुज्जणोणअणाणं सज्जणो जणो मंसंभावेदि। (प्रकाशम्‌।) सदि कुरङ्गिए, इन्दजालं विअ पेक्खामि।

विदूषकः—

(रजानं इस्ते गहीत्वा )) भोदि, सच्चं इन्दजारं संपण्णम्‌।

(नायिका लज्जते।)

कुरङ्गिका

सदि कप्पूरमञ्जरि, अब्भुट्ठाणेण संभावेहि भट्टारअम्‌।

(नायिका उत्थातुमिच्छति।)

राजा—

(हस्तेन गृहीत्वा।)

उट्ठिऊण थणभारभङ्गुरं मा मिअङ्कसुहिभञ्जमज्झअम्‌।

तुज्झ ईरिसणिवेसदंसणे लोअणाण मअणो पसीददु ॥ २१॥

अपि च।

जिण्णा पुरो ण हरिदा दलिआ हलिद्दा
रोसाणिअंण कणकं ण च चम्पआइं।

————————

नायिका—

अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः। किं वा तुष्टेन नीककण्ठेन निजदेहंलम्भितो मनोभवः। किं वा हृदयस्य दुर्जनो नयनानां सज्जनो जनो मां संभावयति \। सखि कुरङ्गिके, इन्द्रजालभिव पश्यामि।
तुष्टेन रत्यादिस्तुत्यातुष्टेनेत्यर्थः। ‘किंवारूष्टेन’इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः। तथापि रत्यादिस्तुया रोषरदितेनेयर्थः। अथवा नाकारप्रश्लेषः। किं तु रुष्टेन कुद्धेन नीलकण्ठेन पुनः शरीरमुत्पाय पुनर्दाहेनाधिकतरपीडादानाय पुनः खदेहं प्रापितो मनोभव इत्यर्थः।

विदृषकः—

भवति, सलयमिन्द्रजारं संपन्नम्‌।

कुरङ्गिका—

सखिकर्पूरमञ्जरि, अभ्युत्थानेन संभावय भट्टारकम्‌।

राजा—

उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखिभञ्जय मध्यम्‌।
तवेदृशनिवेशदर्शनाल्लोचनयोर्मदनः प्रसीदतु ॥

ताइं सुवण्णकुसुमेहिं विलोअणाइं
अच्चेमि जेहिं हरिणच्छि तुमं सि दिट्ठा ॥ २२ ॥

** विदूषकः** — गब्भघरवासेण सेअसलिलसित्तगत्ता संभूदा तत्थभोदी कप्पूरमञ्जरी। ता इमं सिचअञ्चलेण वीजइस्सं दाव । ( तथा कुर्वन्।) हा हा, कधं वरिल्लपवणेण णिव्वण्णो पदीवो। (विचिन्त्य स्वगतम्।) भोदु। लीलोज्जाणं ज्जेव्व गच्छह्म। (प्रकाशम् ) भो, अन्धआरणच्चिदं वट्टदि। ता णिक्कामा सुरङ्गामुहेण ज्जेव्व पमदुज्जाणं दाव।

(सर्वे निष्क्रमणं नाटयन्ति।)

** राजा** — (कर्पूरमञ्जरीं करे धृत्वा।)

मज्झ हत्थादिपाणिपल्लवा ईस संचरणबन्धुरा भव।
जं चिराय कलहंसमण्डली भोदु केलिगमणम्मि दुब्भगा ॥ २३ ॥

     (स्पर्शमुखमभिनीय।)  

जे णवस्सतिउसस्स कण्टआ जे कदम्बमउलस्स केसरा।
अज्ज तुज्झ करफंससङ्गिणो ते हुअन्ति मह अङ्गणिज्जिदा ॥ २४ ॥

अपि च।

यस्याः पुरो न हरिता दलिता हरिद्रा
उज्ज्वलीकृतं न कनकं न च चम्पकानि।

तानि सुवर्णकुसुमैर्विलोचने

अर्चयामि याभ्यां हरिणाक्षि त्वमसि दृष्टा ॥

** विदूषकः**— गर्भगृहवासेन स्वेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूरमञ्जरी। तदिमां सिचयाञ्चलेन वीजयिष्यामि तावत्। हा हा, कथं वस्त्राञ्चलपवनेन निर्वाणः प्रदीपः। भवतु। लीलोद्यानमेव गच्छामः। भोः, अन्धकारनृत्यं वर्तते। तन्निष्क्रमामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत्।

राजा

मम हस्तस्थितपाणिपल्लवा ईषत्संचरणबन्धुरा भव।
यच्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा ॥

** वैतालिकः—** सुहणिबन्धणो होदु देवस्स चन्दुज्जोओ।

भूगोले तिमिराणुबन्धमलिणे भूमीरुहे व्व ट्ठिदे
संजादा णवभुज्जपिञ्जरमुही जोह्णाअ पुव्वादिसा।

मुञ्चन्तो मुचुकुन्दकेसरसिरीसोहाणु आरे करे
चन्दो देक्खकलाक्कमेण अ गदोसंपुण्णबिम्बत्तणम्॥ २९॥

अवि अ।

अकुङ्कुममचन्दणं दहदिहाहूमण्डणं
अकङ्कणमकुण्डलं भुअणमण्डलीभूसणम्।

असोसणममोहणं मअरलञ्छणस्साउहं
मिअङ्ककिरणावली णहअलम्भि पुञ्जिज्जइ॥ २६॥

ये नवस्य त्रपुसस्य कण्टका ये कदम्बमुकुलस्य केसराः।
अद्य तव करस्पर्शसङ्गिनस्ते भवन्ति ममाङ्गनिर्जिताः॥

कार्ये कारणवदुपचाराद्देहजन्यरोमाश्च निर्जिता इत्यर्थः।

वैतालिकः—

सुखनिबन्धनो भवतु देवस्य चन्द्रोद्द्योतः।

भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते
संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा।

मुञ्चन्मुचुकुन्द केसरश्रीशोभानुकारान्करां—
श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णविम्बत्वम्॥

तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमीरुह इव स्थिते। चन्द्रोदयानन्तरं यथा वृक्षमात्रमेव नीलमीक्ष्यते तथा श्यामे भूगोले स्थिते सतीत्यर्थः। ‘भूमीघरे’ इति वा पाठः। तत्र भूमिगृहे इत्यर्थः। एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः।

अपि च।

अकुङ्कुममचन्दनं दशदिशावधूमण्डनं
अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम्।

अशोषणममोहनं मकरलाञ्छनस्यायुधं
मृगाङ्गकिरणावली नभस्तले पुञ्जीभवति॥

** विदूषकः —** भो, कणअचण्डेण वण्णिदा चन्दुज्जोअलच्छी। ता संपदं माणिक्कचण्डस्सावसरो।

(नेपथ्ये।)

द्वितीयो वैतालिकः—

दज्झन्तागुरुधूपवट्टिकलिआ दीअन्तदीउज्जला
लम्बिज्जन्तविचित्तमोत्तिअलदा मुज्झन्तपारावदा।

सज्जिज्जन्तमणोज्जकेलिसअणा जप्पन्तदूईसआ
सज्जुच्छङ्गवलन्तमाणिणिजणा वट्टन्ति लीलाधरा॥ २७॥

अवि अ।

देन्ता कप्पूरपूरच्छुरणमिव दिसासुन्दरीणं मुहेसु
स्लक्खं जो किरन्तो भुअणजणमणाणन्दणं चन्दणं व्व।

जिण्णं कंदष्पकन्दं तिहुअणकलणाकन्दलिल्लं कुणन्तो
जादा एणङ्कपादा सअलजलहरम्मुक्कधाराणुआरा॥ २८॥

अकुङ्कुममित्यनेन नवोद्गतायास्तस्याः पीतत्वं ध्यन्यते। अचन्दनमित्यनेन चन्दनाधिकशातलता द्योत्यते। दशशब्देन चैकवधूमात्रशोभाकरमण्डनान्तरवैलक्षण्यं द्योत्यते। अकङ्कणमित्यादिना भूषणान्तरवैचित्र्यमस्या अभिव्यज्यते। अशोषणमित्यादिनायुधवैलक्षण्यं चास्या द्योत्यते।

विदूषकः—

भोः, कनकचण्डेन वर्णिता चन्द्रोद्द्योतलक्ष्मीः। तत्सांप्रतं माणिक्यचण्डस्यावसरः।

द्वितीयो वैतालिकः—

दह्यमानागुरुपवर्तिकलिका दीयमानदीपोज्ज्वला
लम्ब्यमानविचित्रमौक्तिकलता मुच्यमानपारावताः।

सज्जीक्रियमाणमनोज्ञकेलिशयना जल्पद्दूतीशताः
शय्योत्सङ्गवलन्मानिनीजना वर्तन्ते लीलागृहाः॥

दह्यमाना अगुरुधूपवर्तय एव कलिका येषु। यद्वा दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम्। तदा दह्यमानागुरुधूपाश्च ते वर्तिकलिकाभिर्दीयमानदीपोज्ज्वलाश्चेत्यर्थः। अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला इत्यर्थः। तदा शोभाधिक्यं व्यज्यते।

विदूषकः—

दिसवहुतंसोसरहंसो।

णिहुअणकन्दो पसरइ चन्दो॥ २९॥

कुरङ्गिका—

ससहररइअमरट्टो माणिणिमाणघरट्टो \।
वचम्पअकोदण्डो मअणो जअइ पअण्डो॥ ३०॥

(कर्पूरमञ्जरीं प्रति।) पिअसहि, तुए कदं चन्दवण्णणं महाराअस्स पुरदो पढिस्सम्।

(कर्पूरमञ्जरी लज्जते। कुरङ्गिका पठति।)

मण्डले ससहरस्स गोरए दन्तपञ्जरविलासचोरए।
भादि लञ्छणमिओ फुरन्तओ केलिको इलतुलं धरन्तओ॥ ३१॥

———————————

अपि च।

ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु
श्लक्ष्णां ज्योत्स्ना किरन्तो भुवनजनमन आनन्दनं चन्दनमित्र।

जीर्णेंकंदर्पकन्दं त्रिभुवनकलनाकन्दलितं कुर्वन्तो
जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः॥

श्लक्ष्णांकोमलां ज्योत्स्नां किरन्त इति संबन्धः। तादृशास्ते कीदृशा इव कर्पूरपूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः। दिशासुन्दरीणामित्युभयत्र संबध्यते। त्रिभुवनेति। विनाकामं कस्यापि सृष्टेरभावात्। कन्दलयन्तः पल्लवयन्तः। इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम्। जलधरोन्मुक्तधारासाम्येन मेघाप्रतिहतत्वं तेषु द्योत्यते।

विदूषकः—

दिग्वधूत्तंसो नभःसरोहंसः।
निधुवनकन्दः प्रसरति चन्द्रः॥

हंस इत्यनेन धवलिमातिशयो योत्यते।

कुरङ्गिका—

शशधररचितगर्वो मानिनीमानघरट्टः।
नवचम्पककोदण्डो मदनो जयति प्रचण्डः॥

घरःट्टःपेषणकर्ता।
प्रियसखित्वया कृत चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि।

** राजा —** अहो कप्पूरमञ्जरीए अहिणवत्थदंसणम्, रमणीओ सद्दो, उत्तिविचित्तदा, रसणिस्सन्दो अ। (तां प्रति।)

मा कहिं पि वअणेण विब्भमो होउ इत्ति तुह णूणमिन्दुणा।
लञ्छणच्छलमसीविसेसओ पेक्ख बिम्बफलए णिए किदो॥ ३२॥

किं च।

पण्डुरेण जइ रज्जए मुहं कोमलङ्गि खडिआरसेण दे।
दिज्जए उण कपोलकज्जलं ता लहेदि ससिणो विडम्बणम्॥ ३३॥

(चन्द्रमुद्दिश्य।)

मुक्कसङ्क हरिणङ्ककिं तुमं सुन्दरीपरिसरेण हिण्डसि।
गोरगण्डपरिपण्डुरत्तणं पेच्छ दिण्णममुणा मुहेण दे॥ ३४॥

मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे।
भाति लाञ्छनमृगः स्फुरन्केलिकोकिलतुलां धारयन्॥

राजा—

अहो कर्पूरमञ्जर्या अभिनवार्थदर्शनम्, रमणीयः शब्दः, उक्तिविचित्रता, रसनिष्पन्दश्च।

मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना।
लाञ्छनच्छलमपीविशेषकः पश्य बिम्बफलके निजे कृतः॥

किं च।

पाण्डुरेण यदि रज्यते मुखं कोमलाङ्गि खटिकारसेन ते।
दीयतेपुनः कपोलकज्जलं तदा लभते शशिनो विडम्बनम्॥

मुक्तशङ्क हरिणाङ्क किं त्वं सुन्दरीपरिसरेण हिण्डसे।
गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते॥

अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म। तादृशसुन्दरीसविधे त्वं किं कुतो न परिभ्रमसि। अत्यनुचितं करोषीति भावः। अत एव साभिप्रायं संबोधनमाह— मुक्तशङ्केति। एतादृशं वस्तु यतः प्राप्तं तत्र भक्तिर्नास्तीति किमुच्यते, शङ्कांपि लोकलज्जापि ते नास्तीति महदाश्चर्यमिति भावः। यद्वा यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तन्निकटाटनेन विशेषान्तरप्राप्तिरपि संभाव्यते। तदपि त्वं नाचरसीति महानज्ञस्त्वमिति भावः।

(नेपथ्ये महान्कलकलः। सर्व आकर्णयन्ति।)

राजा — किं उण एस कोलाहलो।

कर्पूरमञ्जरी—(ससाध्वसम्।) पिअसहि, एदमवगमिअ आअच्छ।

(कुरङ्गका निष्क्रम्य प्रविशति।)

**विदूषकः —**देवीए पिअवअस्सस्स वञ्चणा किदेत्ति तक्केमि।

** कुरङ्गिका—**पिअसहि, भट्टारअस्स वञ्चणं अदुअ तुए सह संगमं जाणिअआअच्छदि देवी। तेण कुज्जवामणकिरातवरिसवरसोविदल्लाणं एस हलहल्लो।

** कर्पूरमञ्जरी—**(सभयम् ) ता मं पेसदु महाराओ जेणाहमिमिणा सुरङ्गामुहेण ज्जेव्व पविसिअ रक्खाघरअं गच्छेमि। जह देवी महाराएण सह संगमं ण जाणादि।

(इति निष्क्रान्ताः सर्वे)
इति तृतीयं जवनिकान्तरम्।

राजा—
किं पुनरेष कोलाहलः।

कर्पूरमञ्जरी —
प्रियसखि, एतदवगम्यागच्छ।

एतत्कलकलविषयवस्तु।

विदूषकः—
देव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि।

** कुरङ्गिका —**
प्रियसखि, भट्टारकस्य वञ्चनां कृत्वा त्वया सह संगमं ज्ञात्वागच्छति देवी। तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः।

** कर्पूरमञ्जरी—**
तन्मां प्रेषयतु महाराजो येनाहमनेन सुरुङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि। यथा देवी महाराजेन सह संगमं न जानाति।

इति श्रीमद्विद्वद्वृन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेव विरचिते कर्पूरमञ्जरीप्रकाशे तृतीयं जवनिकान्तरं समाप्तम्।

चतुर्थ जवनिकान्तरम्।

(ततः प्रविशति राजा विदूषकश्च।)

राजा— अहो,गाढअरो गिम्हो, पवणो अपअण्डो। ता कधं णु सहिदव्वो। जदो।

इह कुसुमसरेकगोअराणं इदमुभअं वि सुदुःसहं ति मणे।
जर करालिदो अ कालो तह अ जणेण पिएण विप्पलम्भो॥ १॥

** विदूषकः —** एक्के दाव मम्महस्स वाहणिज्जा, अण्णे दाव सोसणिज्जा। अह्मारिसो उण णो ण कामस्स वाहणिज्जो ण तावस्स सोसणिज्जो।

(नेपथ्ये।)

ता किं ण खु दे मूलुप्पाडि अचूडिआविअलं सीसं करिस्सम्।

राजा — (विहस्य।) वअस्स, लीलावणसच्छन्दचारिणा केलिसुएण किं भणिदम्।

विदूषकः — (सक्रोधम्।) आ दासीए उत्त, सूलाअरणजोग्गो सि।

राजा—
अहो, गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः। तत्कथं नु सोढव्यः। यतः।

इह कुसुमशरैकगोचराणामिदमुभयमपि सुदुःसहमिति मन्ये।
जरठरविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः॥

विदूषकः—
एके तावन्मदनस्य बाधनीयाः, अन्ये तावच्छोषणीयाः। अस्मादृशः पुनर्जना न कामस्य बाधनीयो न तापस्य शोषणीयः।

नेपथ्ये—
तत्किं न खलु ते मूलोत्पाटितचूलिका विकलं शीर्षं करिष्ये।

राजा—
वयस्य, लीलावूनस्वच्छन्दचारिणा केलिशुकेन किं भणितम्।

विदूषकः—
आः दास्याः पुत्र, शूलाकरणयोग्योऽसि।

(नेपथ्ये।)

सव्वं तुह्मारिसाहिन्तो संभाविज्जदि, जइ मे ण होन्ति पक्खावलीओ।

राजा — ( विलोक्य) कहं उड्डीणो ज्जेव्व। (विदूषकं प्रति।)

णिसा तलिनवित्थरा तह दिणेसु वड्ढत्तणं
ससी लहदि खण्डणं तह अ चण्डबिम्बो रई।

णिदाहदिअसेसु विष्फुरदि जस्स एव्वं क्कमो
कहं ण स विही तो खुरसिहाइंखण्डिज्जदि॥ २॥

किं च णिउणं सेवणिज्जो जइ सुहसंगमो भोदि। जदो।

मज्झण्णे सिरिखण्डपङ्ककलणा आ संझमोल्लंसुअं
लीलामज्जणमा पदोससमअं साअं सुरा सीअला।

गिम्हे पच्छिमजामिणी णिहुवणं जं किं पि पञ्चेसुणो
एदे पञ्च सिलीमुहा विजइणो सेसा सरा जज्जरा॥ ३॥

नेपथ्ये—
सर्वं युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः।

राजा—
कथमुड्डीन एव।

निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं
शशी लभते खण्डनं तथा च चण्डबिम्बो रविः।

निदाघदिवसेषु विस्फुरति यस्यैवं क्रमः
कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते॥

किं च निपुणं सेवनीयो यदि शुभसंगमो भवति।

शुभः संगमो यस्य। तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः। शुभः संगमो यस्मिन्निति वा।
यतः।

मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमार्द्राशुकं
लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला।

ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो-
रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः॥

विदूषकः—मा एव्वं भण।

पण्डुच्छविच्छुरिदणाअलदादलाणं
साहारतेल्लपरिपेसलपोफलाणम्।

कप्पूरपंसुपरिवासिदचन्दणाणं
भद्दं णिदाहदिअसाणँवअस्स भोदु॥ ४॥

**राजा —**एदं पुण एत्थ रमणिज्जम्।

सपञ्चमतरङ्गिणो सवणसीअला वेणुणो
समं सिसिरवारिणा वअणसीला वारुणी

सचन्दणघणत्थणी सअणसीअला कामिणी
णिदाहदिअसोसहं सहअसीअलं कस्सवि॥ ५॥

ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं शेषाः शरा जर्जरा इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात्। यद्वा पञ्चैवेषवो मदनस्य तथापि कालभेदेनान्यानन्यानुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः।

विदूषकः—
मैवं भण।

पाण्डुच्छविच्छुरितनागलतादलानां
सहकारतैलपरिपेशलपूगफलानाम्।

कर्पूरपांसुपरिवासितचन्दनानां
भद्रं निदाघदिवसानां वयस्य भवतु॥

पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि। तथा च यत एत एतादृशा अत एषां भद्रं भवत्वित्यर्थः।

राजा—
इदं पुनरत्र रमणीयम्।

सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः
समं शिशिरवारिणा वदनशीतला वारुणी।

सचन्दनघनस्तनी शयनशीतला कामिनी
निदाघदिवसौषधं सहजशीतलं कस्यापि॥

अवि अ।

लीलुत्तंसो सिरीसं सिहिणपरिसरे सिन्दुवाराणँहारो
अङ्गे ओल्लं वरिल्लं रमणपणइणी मेहला उप्पलेहिं।

दोसुंदोकन्दलीसुंणवबिसवलआ कामवेज्जो मणोज्जो
तावातङ्कक्खमाणं महुसमअ गदे एस वेसोबलाणम्॥ ६॥

विदूषकः — अहं उण भणामि —

मज्झण्णलह्लघणचन्दनपङ्किलाणं
साअं णिसेविदणिरन्तरमज्जणाणम्।

सामासु वीअणअवारिकणुक्खिदाणं
दासत्तणं कुणइ पञ्चसरोबलाणम्॥ ७॥

राजा — ( स्मरणमभिनीय।)

पञ्चङ्गं णवरूअभङ्गिघडणा रम्मे जणे संगमो
जाणं ताण खणं व्व झत्ति दिअहा वट्टन्ति दीहा अपि।

कस्यापीत्यपिर्वार्थः। शीतल यद्वस्तु तन्निदाघदिवसौषधम्। तापशमनायेति शेषः। कस्य वा न भवति। अपि तु सर्वस्यापि भवतीति काकुः।

अपि च।

लीलोत्तंसः शिरीषंस्तनपरिसरे सिन्दुवाराणां हारः
अङ्गे आर्द्रं वस्त्रं रमणप्रणयिनी मेखलोत्पलैः।

द्वयोर्दोःकन्दल्योर्नवबिसवलयाकामवैद्यो मनोज्ञ-
स्तापातङ्कक्षमाणां मधुसमये गते एषवेपोऽबलानाम्॥

तापसंबन्धिन्यातङ्के क्षमाः समर्थाः। तद्युक्ता इति यावत्। अबलानां कामिनीनाम्, बलरहितानां च।

विदूषकः—
अहं पुनर्भणामि—

मध्याह्नश्लक्ष्णघनचन्दनपङ्किलानां
सायं निषेवितनिरन्तरमज्जनानाम्।

श्यामासु व्यजनजवारिकणोक्षितानां
दासत्वं करोति पञ्चशरोऽबलानाम्॥

जाणं ते अ मणम्मि देन्ति ण रइंचित्तस्स संदाविणो
ताणं जान्ति जअम्मि दीहरतमा मासोवमा वासरा ॥ ८ ॥

(विदूषकं प्रति।) वअस्स, अस्थि तग्गदा कावि वत्ता।

** विदूषकः —** अस्थि। सुणादु पिअवअस्सो। कधेमि सुहासिदं दे। जदो पहुदि कप्पूरमञ्जरी रक्खाभवणादो सुरङ्गादुआरे देवीए दिट्ठा, तदो पहुदितं सुरङ्गादुआरं देवीए बहलसिलासंचरण णीरन्धं कदुअ पिहिदम्। अणङ्गसेणा कलिङ्गसेणा कामसेणा वसन्तसेणा विब्भमसेणेति पञ्च सेणाणामघेआओ चामरधारणीओ फारप्फुरक्किदकरवालहत्थपाइक्कसहस्सेण सह कारामन्दिरस्स रक्खाणिमित्तं पुव्वदिसि णिउत्ताओ।

अणङ्गलेहा चित्तलेहा चन्दलेहा मिअङ्कलेहा विब्भमलेहेत्ति लेहाणामधेआओ पञ्च सेरन्धीओ पुङ्खिदसिलीमुहणूहत्थेण णिविडणिवद्धतूणीरदुद्धरेण धाणुक्कसहस्सेण समं दक्खिणाए दिसाए णिवेसिदाओ।

———————————————————————

राजा—

प्रत्यङ्गं नवरूपभङ्गिघटना रम्ये जने संगमो
येषां तेषां क्षणमिवझटिति दिवसा वर्तन्ते दीर्घा अपि।

येषां ते च मनसि ददति न रतिं चित्तस्य संतापिन-
स्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥

वयस्य, अस्ति तद्गता कापि वार्ता।

** विदूषकः—**
अस्ति। शृणोतु प्रियवयस्यः। कथयामि सुभाषितं ते। यतः प्रभृतिकर्पूरमञ्जरी रक्षाभवनात्सुरङ्गाद्वारे देव्या दृष्टा, ततः प्रभृति तत्सुरङ्गाद्वारं देव्या बहुलशिलासंचयेन नीरन्ध्रंकृत्वा पिहितम्। अनङ्गसेना कलिङ्गसेना कामसेना वसन्तसेना विभ्रमसेनेति पञ्च सेनानामधेयाश्चामरधारिण्यः स्फारस्फुरत्करवालहस्तपदातिसहस्रेण सह कारामन्दिरस्य रक्षानिमित्तं पूर्वदिशि नियुक्ताः।

अनङ्गलेखा चित्रलेखा चन्द्रलेखा मृगाङ्कलेखा विभ्रमलेखेति लेखानामधेयाः पञ्च सैरन्ध्र्यपुङ्खितशिलीमुखधनुर्हस्तेन निबिडनिबद्धतूणीरदुर्धरेण धानुष्कसहस्रेण समं दक्षिणस्यां दिशि निवेशिताः।

कुन्दमाला चन्दणमाला कुवलअमाला कञ्चणमाला बउलमाला मङ्गलमाला माणिक्कमालेति सत्त मालेत्तिणामधेआओ णवणिसिदकुन्तहत्थपाइक्कसहस्सेण समं तम्बूलकरङ्कवाहिणीओ पच्छिमाए दिसाए णिवेसिदाओ।

अणङ्गकेली पुक्करकेली कंदप्पकेली सुन्दरकेली कन्दोट्टकेलीति पञ्च केलीत्तिणामधेआओ मज्जणकारिणीओ फलअखग्गकम्पविदुरिल्लेण पाइक्कसहस्सेण समं उत्तरदिसाए आणत्ताओ।

ताणं वि उण उवरि मदिरावदी केलिवदी कल्लोलवदी तरङ्गवदी अणङ्गवदीति पञ्च वदत्तिणामधेआओ परिचारिआकुमारीओ कणअचित्तदण्डहत्थाओ सुहासिअपाढिआओ बन्दीणामधेआओ सेणाए अद्धक्खीकदा ओत्ति।

राजा — अहो देवीए सामग्गी अन्तेउरोचिदा।

** विदूषकः —** भो वअस्स, एसा देवीए सारङ्गिआणाम सही किं णिवेदिदुं पेसिदा।

कुन्दमाला चन्दनमाला कुवलयमाला काञ्चनमाला बकुलमाला मङ्गलमाला माणिक्यमालेति सप्त मालेतिनामधेया नवनिशितकुन्तहस्तपदातिसहस्रेणसमं ताम्बूलकरङ्कवाहिन्यः पश्चिमायां दिशि निवेशिताः।

अनङ्गकेलिः पुष्करकेलिः कंदर्पकेलिः सुन्दरकेलिः उत्पलकेलिरिति पञ्चकेलीतिनामधेया मज्जनकारिण्यः फलकखड्ङ्गकम्पभीषणेन पदातिसहस्रेण सम मुत्तरदिश्याज्ञप्ताः।

तासामपि पुनरुपरि मदिरावती केलिवती कल्लोलवती तरङ्गवती अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः कनकचित्रदण्डहस्ताः सुभाषितपाठिका बन्दीनामधेयाः सेनाया अध्यक्षीकृता इति।

राजा—
अहो देव्याः सामग्र्यन्तःपुरोचिता।

विदूषकः—
भो वयस्य, एषा देव्या सारङ्गिकानाम सखी किमपि निवेदितुं प्रेषिता

(ततः प्रविशति सारङ्गिका।)

** सारङ्गिका—** जअदु जअदु भट्टा। देव, देवी विण्णवेदि—अज्ज चतुत्थदिअहे भविअवडसाइत्तीमहसवोवअरणाइंकेलिविमाणप्पासादमारुहिअ पेक्खिदव्वाइं त्ति।

राजा — जं देवी आणवेदि।

(चेटी निष्क्रान्ता। उभौ प्रासादाधिरोहण नाटयतः। )

(ततः प्रविशति चर्चरी।)

विदूषकः—

मोत्ताहलिल्लाहरणुच्चआओ लासावसाणे चलिअंसुआओ।
सिञ्चन्ति अण्णोण्णमिमीअ पेक्ख जन्ताजलेहिं मणिभाजनेहिं॥ ९॥

इदो अ।

परिब्भमन्तीअ विचित्तबन्धं इमाइ दोसोलह णच्चणीओ।
खेलन्ति तालाणुगदप्पदाओ तुहङ्गणे दीसह दण्डरासो॥ १०॥

समांससीसा समबाहुहत्था रेहाविसुद्धा अपरा अ देन्ति।
पन्तीहिं दोहिं लअतालबन्धं परष्परं साहिमुहा हुवन्ति॥ ११॥

** सारङ्गिका—**
जयतु जयतु भर्ता। देव, देवी विज्ञापयति— अद्य चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति।

राजा—
यद्देव्याज्ञापयति।

** विदूषकः—**

मुक्ताफलाभरणोच्चया लास्यावसाने चलितांशुकाः
सिञ्चन्त्यन्योन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः॥

लास्यावसाने इमा अन्योन्यं सिश्चन्तीति संबन्धः।

इतश्च।

परिभ्रमन्त्यो विचित्रबन्धं इमा द्विषोडश नर्तक्यः।
खेलन्ति तालानुगतपदास्तवाङ्गणे दृश्यते दण्डरासः॥

समांसशीषःसमबाहुहस्ता रेखाविशुद्धा अपराश्च ददति।
पङ्क्तिभ्यां द्वाभ्यां लयतालबन्धं परस्परं साभिमुखा भवन्ति॥

मोत्तूण अण्णा मणिवारआइंजन्तेहिं धारासलिलं खिवन्ति।
पडन्ति ताआ अ पिआणमङ्गे मणोहुओ वारुणबाणकप्पा॥ १२॥

इमा मसीकज्जलकालकाआ तिक्कण्डचावा अ विलासिणीओ।
पुलिन्दरूवेण जणस्स हासं समोरपिच्छाहरणा कुणन्ति॥ १३॥

हत्थे महामंसबलीधराओ हुंकारफेक्काररवा रउद्दा।
णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणन्ति॥ १४॥

कावि वादिदकरालहुडुक्का रम्ममद्दलरएण मिअच्छी।
भूलदाहिं पडिवाडिचलाहिं चेदिकम्मकरणम्मि पअट्टा॥ १५॥

किङ्किणीकदरणज्झणसद्दा कण्ठगीदलअजन्तिदताला।
जोगिणीवलअणच्चणकेलिं तालणेउररअं विरअन्ति॥ १६॥

कोउहल्लबसचञ्चलवेसा वेणुवादणपरा अवराओ।
कालवेसवसहासिदलोआ ओसरन्ति पणमन्ति हसन्ति॥ १७॥

(प्रविश्य।)

** सारङ्गिका—** (पुरोऽवलोक्य) एसो महाराओ पुणो मरगअपुञ्जं जेव्व गदो। कदलीघरं अ अणुप्पइट्टो। ता अग्गदो गदुअ देवीविण्णाविअं वि-

मुक्त्वा अन्या मणिवारणानि यन्त्रैर्धारासलिलं क्षिपन्ति।
पतन्ति ताश्च प्रियाणामङ्गे मनोभुवो वारुणबाणकल्पाः॥

इमा मषीकज्जलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः।
पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति॥

हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररवा रौद्राः।
निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति॥

कापि वादितकरालहुडुक्का रम्यमर्दलरवेण मृगाक्षी।
भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता॥

किङ्किणीकृतरणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः।
योगिनीवलयनर्तनकेलिं तालनूपुररवंविरचयन्ति॥

कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः।
कालवेषवशहासितलोका अपसरन्ति प्रणमन्ति हसन्ति॥

ण्णवेमि। (उपसृत्य।) जअदु जअदु देवो। देवी एवं विण्णवेदि जधा संझासमए जूअं मए परिणदव्वा।

विदूषकः— भो, किं एदं अकालकोहण्डपडणम्।

राजा — सारङ्गिए, सव्वं वित्थरेण कधेहि।

** सारङ्गिका—** एवं विण्णवीअदि, अणन्तरातिक्कन्तचउद्दसीदिअहे देवीए पोम्मराअमणिमई गोरी कदुअ भैरवाणन्देण पडिट्ठाविदा।सअं दिक्खा गहिदा। तदो ताए विण्णत्तो जोगीसरो गुरुदक्खिणाणिमित्तम्। भणिदं च तेण जइ अवस्सं गुरुदक्खिणा दादव्वा ता एसा दीदु महाराअस्स। तदो देवीए विण्णत्तं जं आदिसदि भअवं। पुणो वि उल्लबिदं तेण। अस्थि एत्थ लाटदेसे चण्डसेणो णाम राजा। तस्स दुहिदा घणसारमञ्जरी णाम। सा देवण्णेहिं आदिट्ठा एसा चक्कवट्टिघरिणी भविस्सदि त्ति। तदो महाराअस्स परिणदव्वा। तेण गुरुद-

———————————

** सारङ्गिका—**
एषमहाराजः पुनर्मरकतपुञ्जमेव गतः। कदलीगृहं चानुप्रविष्टः। तदग्रतो गत्वा देवीविज्ञापितं विज्ञापयामि। जयतु जयतु देवः। देवीदं विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्याः।

विदूषकः—
भोः, किमेतदकालकूष्माण्डपतनम्।

राजा—
सारङ्गिके, सर्वं विस्तरेण कथय।

** सारङ्गिका—**
एवं विज्ञाप्यते, अनन्तरातिक्रान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयी गौरी कृत्वा भैरवानन्देन प्रतिष्ठापिता। स्वयं च दीक्षा गृहीता। ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानिमित्तम्। भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजस्य। ततो देव्या विज्ञप्तं यदादिशति भगवान्। पुनरप्युल्लपितं तेन। अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा। तस्य दुहिता घनसारमञ्जरी नाम। सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति। ततो महाराजस्य परिणेतव्या। तेन गुरुदक्षिणा दत्ता भवति

क्खिणा दिण्णा भोदि। भट्टा वि चक्कवट्टी किदो भोदि। तदो देवीए विहसिअ भणिअं जं आदिसदि भअवं। अहं च विण्णविदुंपेसिदा गुरुस्स गुरुदक्खिणाणिमित्तम्।

विदूषकः—(विहस्य।) एदं तं संविधाणअं सीसे सप्पो देसन्तरे वेज्जो। इह अज्ज विवाह लाटदेसे घणसारमञ्जरी।

** राजा—** किं ते भैरवाणन्दस्स प्पहाओ ण पच्चक्खो। ( तां प्रति।) कहिं संपदं भैरवाणन्दो ।

** सारङ्गिका—** देवीकारिदपमदुज्जाणस्स मज्झट्ठिदवडतरुमूले चामुण्डाअदणे भैरवान्दो देवी अ आगमिस्सदि। ता अज्ज दक्खिणाविहिदोकोऊहलपरो विवाहो। ता इह ज्जेव्व देवेण ठादव्वम्। (इति परिक्रम्य निष्क्रान्ता। )

** राजा—** वअस्स, सव्वं एवं भैरवाणन्दस्स विजम्भिदं त्ति तक्केमि।

** विदूषकः—** एव्वं णेदम्। ण हु मअलञ्छणमन्तरेण अण्णो मिअङ्कमणिपुत्तलिअं पस्सवएदि। ण हु सरअसमीरमन्तरेण सेहालिआकुसुमुक्करंविकासेदि।

———————————

भर्तापि चक्रवर्ती कृतो भवति। ततो देव्या विहस्य भणितं यदादिशति भगवान्। अहं च विज्ञापयितुं प्रेषिता गुरोर्गुरुदक्षिणानिमित्तम्।

** विदूषकः—**
एतत्तत्संविधानकं शीर्षे सर्पो देशान्तरे वैद्यः। इहाद्य विवाहो लाटदेशे घनसारमञ्जरी।

** राजा—**
किं ते भैरवानन्दस्य प्रभावो न प्रत्यक्षः। कुत्र सांप्रतं भैरवानन्दः।

** सारङ्गिका—**
देवीकारितप्रमदोद्यानस्य मध्यस्थितवटतरुमूले चामुण्डायतने भैरवानन्दो देवी चागमिष्यति। तदद्य दक्षिणाविहितः कौतूहलपरो विवाहः। तदिहैवदेवेन स्थातव्यम्।

** राजा——**
वयस्य, सर्वमेतद्भैरवानन्दस्य विजृम्भितमिति तर्कयामि।

(ततः प्रविशति भैरवानन्दः।)

** भैरवानन्दः—** इअं सा वडतरुमूले णिब्भिण्णस्स सुरङ्गादुआरस्स पिहाणं चामुण्डा। (हस्तेन प्रणम्य पठति।)

कप्पन्तकेलिभवणे कालस्स पुराणरुहिरसुरम्।
जअदि पिअन्ती चण्डी पम्मेट्ठिकवालचसएण॥ १८॥

(प्रविश्योप्रविश्य।) अज्जवि ण णिग्गच्छदि सुरङ्गादुआरेण कप्पूरमञ्जरी।

(ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी।)

**कर्पूरमञ्जरी—**भअवं, पणमिज्जसि।

**भैरवानन्दः—**उइदं वरं लहेसु। इह ज्जेव्व उवविससु।

( कर्पूरमञ्जरी तथा करोति।)

भैरवानन्दः—(स्वगतम्।) अज्ज वि ण आअच्छदि देवी।

( प्रविश्य।)

** राज्ञी—** (परिक्रम्यावलोक्य च।) इअं भअवदी चामुण्डा। (प्रणम्यावलोक्य च।) अए, इअं कप्पूरमञ्जरी। ता किं णेदम्। (भैरवानन्दं प्रति।)

** विदूषकः—**
एवमेतत्। न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तलीं प्रस्वेदयति। न खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति।

भैरवानन्दः—
इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधानं चामुण्डा।

कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम्।
जयति पिन्ती चण्डी परमेष्ठिकपालचषकेण॥

अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी।

कर्पूरमञ्जरी—
भगवन्, प्रणम्यसे।

भैरवानन्दः—
उचितं वरं लभस्व। इहैवोपविश।

भैरवानन्दः—
अद्यापि नागच्छति देवी।

इदं विण्णवीअदि, णिअभवणे कदुअ विवाहसामग्गिंआअदह्मि। तदो तं गेह्णिअ आगमिस्सम्।

**भैरवानन्दः—**वच्छे, एवं करीअदु।

(राज्ञी व्यावृत्य परिक्रामति।)

** भैरवानन्दः—**

(विहस्य। स्वगतम्।) इअं कर्प्पूरमञ्जरीठाणं अण्णेसिदुं गदा। (प्रकाशम्।) पुत्ति कप्पूरमञ्जरि, सुरङ्गादुआरेण ज्जेव्व तुरितपदं गदुअ सट्ठाणेचिट्ठ। देवीआगमणे पुणो आगन्तव्वम्।

(कर्पूरमञ्जरी तथा करोति।)

देवी— एदं रक्खागेहम्। (प्रविश्यावलोक्य च।) अए, इअं कप्पूरमञ्जरी। सा का वि सरिच्छा मए दिट्ठा। वच्छे कप्पूरमञ्जरि, कीरिसं दे सरीरम्। (आकाशे।) किं भणसि मह सरीरे वे अणा।

राज्ञी—
इयं भगवती चामुण्डा। अये, इयं कर्पूरमञ्जरी। तत्किमिदम्। इदं विज्ञाप्यते, निजभवने कृत्वा विवाहसामग्रीमागतास्मि। ततस्तां गृहीत्वागमिष्यामि।

भैरवानन्दः—
वत्से, एवं क्रियताम्।

** भैरवानन्दः—**
इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं गता। पुत्रि कर्पूरमञ्जरि, सुरङ्गाद्वारेणैव त्वरिपदं गत्वा स्वस्थाने तिष्ठ। देव्यागमने पुनरागन्तव्यम्।

** देवी—**
इयं रक्षागृहम्। अये, इयं कर्पूरमञ्जरी। सा कापि सदृशा मया दृष्टा। वत्से कर्पूरमञ्जरि, कीदृशं ते शरीरम्।

** आकाश इति।** ‘किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत्। श्रुत्वेवानुक्तमपि चेत्तत्स्यादाकाशभाषितम्॥’ इति भरतः।

किं भणसि मम शरीरे वेदना।

** राज्ञी—** (स्वगतम्।) ता पुणो तहिं गमिस्सम्। (प्रविश्य पार्श्वतोऽवलोक्य च) हला सहीओ, विवाहोकरणाइंलहु गेह्णिअ आअच्छध। (इति परिक्रामति।)

(प्रविश्य कर्पूरमञ्जरी तथैवास्ते।)

राज्ञी— (पुरोऽवलोक्य।) इअं कप्पूरमञ्जरी।

भैरवानन्दः— वच्छे विब्भमलेहे, आणीदाइं विवाहोवअरणाइं।

देवी— आणीदाइं। किं उण घणसारमञ्जरीसमुचिदाइंआहरणाइंविसुमरिदाइं। ता पुणो गमिस्सम्।

भैरवानन्दः — एवं करीअदु।

( देवी नाटितकेन निष्क्रामति।)

**भैरवानन्दः —**पुत्ति कप्पूरमञ्जरि, तह ज्जेव्व करीअदु।

( कर्पूरमञ्जरी निष्क्रान्ता।)

राज्ञी—
तत्पुनस्तत्र गमिष्यामि। हला सख्यः, विवाहोपकरणानि लघु गृहीत्वागच्छत।

राज्ञी—
इयं कर्पूरमञ्जरी।

भैरवानन्दः—
वत्से विभ्रमलेखे, आनीतानि विवाहोपकरणानि।

देवी—
आनीतानि। किं पुनर्घनसारमञ्जरीसमुचितान्याभरणानि विस्मृतानि। तत्पुनर्गमिष्यामि।

भैरवानन्दः—
एवं क्रियताम्।

भैरवानन्दः—
पुत्रिकर्पूरमञ्जर, तथैव क्रियताम्।

** राज्ञी —** (रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा) अए, सारिच्छएण विडम्बिदह्मि। (खगतम्।) झाणविमाणेण णिव्विग्घपरिसप्पिणा तामाणेदि महाजोई। (प्रकाशम्।) सहीओ, जं जं णिवेदिदं तं तं गेह्णिअआअच्छध। (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य।) अहो सारिच्छअम्।

भैरवानन्दः– देवि, उवविस। महाराओ वि आअदो ज्जेव्व वट्टदि।

(ततः प्रविशति राजा विदूषकः कुरङ्गिका च।)

** भैरवानन्दः —** आसणं महाराअस्स।

(सर्वे यथोचितमुपविशन्ति। )

** राजा—** (नायिकां प्रति।) एसा सरीरिणी मअरद्धअपालिद्धिआ। देहान्तरेण संठिदा सिङ्गाररसलच्छीव। दिअससंचारिणी पुण्णिमाअन्दचन्दिआ। अवि अ पगुणगुणमाणिक्कमञ्जूसा। रअणमई अञ्जणसलाआ। तधा अ एसा रअणकुसुमणिप्पण्णा महुलच्छी। किं च।

** राज्ञी—**
अये, सादृश्येन विडम्बितास्मि। ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामानयातिमहायोगी। सख्यः, यद्यन्निवेदितं तत्तद्गृहीत्वागच्छत। अहो सादृश्यम्।

** भैरवानन्दः—**
देवि, उपविश। महाराजोऽप्यागत एव वर्तते।

** भैरवानन्दः —**
आसनं महाराजस्य।

** राजा—**
एषा शरीरिणी मकरध्वजपापर्द्धिका2। देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव। दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका। अपि च प्रगुणगुणमाणिक्यमञ्जूषा। रत्नमय्यञ्जनशलाका। तथा चैषा रत्नकुसुमनिष्पन्ना मधुलक्ष्मीः। किं च।

भुअणजअवडाआ रूअसोहा इमीए
जह जह णअणाणं गोअरे जस्स जादि।

वसइ मअरकेदू तस्स चित्ते विचित्तो
वलइदधणुदण्डो पुङ्खिदेहिं सरेहिं॥ १९॥

** विदूषकः —** (जनान्तिकम्।) सच्चं कदं तुए आभाणकम्। तडं गदाए वि णौकाए ण विससीदव्वम्। ता तुह्णींचिट्ठ।

राज्ञी — (कुरङ्गिकां प्रति।) तुमं महाराअस्स णेवच्छं कुरु। सारङ्गिआ घणसारमञ्जरी करेदु।

(इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः।)

** भैरवानन्दः —** उवज्झाओ हक्कारीअदु।

** राज्ञी —** अज्जउत्त, एसो उवज्झाओ अज्जकविञ्जलओ चिट्ठदि। ता करेदुअग्गिआरिअम्।

भुवनजयपताका रूपशोभास्या
यथा यथा नयनयोर्गोचरं यस्य याति।

वसति मकरकेतुस्तस्य चित्ते विचित्रो
वलयितधनुर्दण्डः पुङ्खितैः शरैः॥

** विदूषकः—**

सत्यं कृतं त्वयाभाणकम्। तटं गताया अपि नौकाया न विश्वसितव्यम। तत्तूष्णीं तिष्ठ।

** राज्ञी —**
त्वंमहाराजस्य नेपथ्यं कुरु। सारङ्गिका घनसारमञ्जर्याः करोतु।

** भैरवानन्दः—**
उपाध्याय आकार्यताम्।

** राज्ञी—**
आर्यपुत्र, एषउपाध्याय आर्यकपिञ्जलस्तिष्ठति। तत्करोत्वग्र्याचार्यकम्।

** विदूषकः —** एस सज्जोह्मि। भो वअस्स, उत्तरीए गण्ठिं दाइस्सम्। दाव हत्थेण हत्थं गेह्णकप्पूरमञ्जरीए।

** राज्ञी —** (सचमत्कारम्) कुदो कप्पूरमञ्जरी।

** भैरवानन्दः—**(तं तस्या भावमुपलभ्य विदूषकं प्रति।) तुमं सुट्ठुतरं भुल्लोसि। जदो कप्पूरमञ्जरीए घणसारमञ्जरीति णामन्तरं जाणासि।

** राजा —** (करमादाय।)

जे कण्टआ तिउसमुद्धफलाणँ सन्ति
जे के अईकुसुम गब्भदलावलीसु।

फंसेण णूणमिह मज्झ सरीरअस्स
ते सुन्दरीअ बहला पुलअङ्कुराओ॥ २०॥

** विदूषकः —** भो वअस्स, भामरीओ दिज्जदु\। हुअवहे लाजञ्जलीओ खिवीअदु \।

** विदूषकः—**
एष सज्जोऽस्मि। भो वयस्य, उत्तरीये ग्रन्थि दास्यामि। तावद्धस्तेन हस्तं गृहाण कर्पूरमञ्जर्याः।

** राज्ञी—**
कुतः कर्पूरमञ्जरी।

** भैरवानन्दः—**
त्वं सुष्ठुतरं भ्रान्तोऽसि। यतः कर्पूरमञ्जर्या घनसारमञ्जरीति नामान्तर जानासि।

** राजा—**

ये कण्ठकास्त्रपुसमुग्धफलानां सन्ति
ये केतकीकुसुमगर्भदलावीषु।

स्पर्शेन नूनमिह मम शरीरस्य
ते सुन्दर्या बहलाः पुलकाङ्कुराः।

** विदूषकः—**
भो वयस्य, भ्रामर्यो दीयन्ताम्। हुतवहे लाजाञ्जलयः क्षिप्यन्ताम्।

(राजा भ्रमणं नाटयति। नायिका धूमेन व्यावृतमुखी तिष्ठति। राजा परिणयति।राज्ञी सपरिवारा निष्क्रान्ता।)

** भैरवानन्दः —** विवाहे दक्खिणा दिज्जदु आचारिअस्स।

** राजा —** दिज्जदु। वअस्स, गामसअं ते दिण्णम्।

** विदूषकः —** सोत्थि हो। ( इति नृत्यति।)

** भैरवानन्दः –** महाराअ, किं ते पुणो वि पिअं कुणोमि।

** राजा —** जोईसर, किमवरं पिअं वट्टदि। जदो

कुन्तलेसरसुआकरफंसप्फारसौक्खसिढिलीकिदसग्गो।
पालएमि वसुहातलरज्जं चक्कवट्टिपअवीरमणिज्जम्॥ २१॥

** भैरवानन्दः —**
विवाहे दक्षिणा दीयत आचार्यस्य।

** राजा—**
दीयते। वयस्य, ग्रामशतं ते दत्तम्।

** विदूषकः—**

स्वस्ति भवतु।

** भैरवानन्दः—**

महाराज, किं ते पुनरपि प्रियं करोमि।

** राजा—**
योगीश्वर, किमपरं प्रियं वर्तते। यतः

कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः।
पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम्॥

तहावीदं होदु दाव।

सत्थो णन्ददु सज्जणाणँसअलो वग्गो खलाणं पुणो
णिच्चंखिज्जदुहोदु बह्मणजणो सच्चासिहो सव्वदा।

मेहो मुञ्चदु संचिदं वि सलिलं सस्सोचिअ भूअले
लोओ लोहपरम्मुहोणुदिअहं धम्मे मई भोदु अ॥ २२॥

(इति निष्क्रान्ताःसर्वे।)

——————————————

इति चतुर्थ जवनिकान्तरम्।

तथापीदं भवतु तावत्।

सार्थो नन्दतु सज्जनानां सकलो वर्गः खलानां पुन-
र्नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा।

मेघो मुञ्चतु संचितमपि सलिलं सस्योचितं भूतले
लोको लोभपराङ्मुखोऽनुदिवसं धर्मे मतिर्भवतु च॥

इति श्रीमद्विद्वद्वृन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशः प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरीप्रकाशे चतुर्थं जवनिकान्तरं समाप्तम्।

समाप्तोऽयं ग्रन्थः।

—————————————

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1727540393Screenshot(101"/>.png)

महाकविश्रीराजशेखरप्रणीतं

बालभारतम्।

<MISSING_FIG href="../books_images/U-IMG-1727540238Screenshot(99"/>.png)

प्रथमोऽङ्कः।

नमः शिवाय संसारसरोजस्य रजस्विनः।
विकासाश्चर्यसूर्याय संकोचसकलेन्दुवे॥१॥

अपि च।

ये सीमन्तितगात्र भस्मरजसो ये कुम्भकद्वेषिणो
ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः।

ये कुप्यगिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः
शंभोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः॥२॥

(नान्द्यन्ते)

** सूत्रधारः—** (परिक्रम्य विचिन्त्य च।) अहो किमपि कमनीया कवेरात्सन्याशीः।

आद्यः कन्दो वेदविद्यालतानां जैह्व्यंचक्षुर्निर्निमेषं कवीनाम्।
यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्तिर्मेदेवता संनिधत्ताम्॥ ३॥

व्यासो वैखानसवृषा सत्यः सत्यवतीसुतः।
भारतींभारतकविर्देयाद्द्वैपायनो मम॥४॥

(विमृश्य च।) अहो मसृणोद्धता सरस्वती यायावरस्य। यदाह—

ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे
हेसन्तः शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः।

यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं
माद्यन्तिं स्वयमेव तत्सुमनसो याच्ञा परं दैन्यभूः॥५॥

(पुरोऽवलोक्य च। ) कथमेते महोदयमहानगरलीलावतंसा3 विद्वांसः सामाजिकाः। तदेवं विज्ञापयामि। ( अञ्जलिं बद्ध्वा।)

सा शुक्तिर्मधुपानकेलिचषकं वेणीविभूषामणिः
सीतायाः स च कुम्भसंभवमुनेः प्राप्ता च सैकावली।

पर्यङ्कः स च विद्रुमद्रुममयस्तद्रामसिंहासनं
चिह्नं यस्य यशोनिधिर्विजयतां सोऽयं रघोरन्वयः॥६॥

तत्र च।

नमितरलमौलिः4 पाकलो5 मेकलानां
रणकलितकलिङ्गः केलितट् केरलेन्दोः।

अजनि जितकुलूतः कुन्तलानां कुठारो
हठहृतरमठश्रीः श्रीमहीपालदेवः6॥७॥

तेन च रघुवंशमुक्तामणिना आर्यावर्तमहाराजाधिराजेन श्रीनिर्भयनरेन्द्रनन्दनेनाधिकृताः सभासदः, सर्वानेष वो गुणाकरः सप्रश्रयं विज्ञापयति—विदितमेतत्तु भवताम्, यदुत नाट्याचार्येण रङ्गविद्याधरेण प्रतिज्ञातम् —

राजशेखरकवेर्महात्मनो बालभारतमिदं हि नाटकम्।
योऽभिनेष्यति रसैर्निरन्तरं मत्सुतां स परिणेष्यति क्षितौ॥८॥

(आकाशे।) तत्रभवन्तः, किं बूथ —इदं हि तद्बालभारतं यस्य हि प्रचण्डपाण्डवमिति नामान्तरम्। (अञ्जलिं बद्ध्वा) यदादिशन्ति परिषदग्रेसराः। (किंचित्सलज्जम्।) भवदनुचराः पञ्च भ्रातरो वयम् पञ्चापि नाम समर्थास्तदभिनयने,

किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः। ते च तदभिनेतुमिच्छन्ति, न च ते शक्नुवन्ति। तन्निमित्तं च महदस्मभिः सह वैरं वर्तते। (आकाशे।) किं ब्रूथ – एक विषयाभिलाषो हि वैरकन्दं कन्दलयति। भवद्भिः कुलान्तकरं वैरं तेषाम्। यतो दुर्बुद्धयस्ते, सुबुद्धयो भवन्तः। उक्तं हि तेनैव महासुमन्त्रिपुत्रेण —

श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्ष्टि।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः॥ ९॥

(अञ्जलिं बद्ध्वा।) सुगृहीतमार्यवचनम्। बद्धो वाससो ग्रन्थिः। यदित्थमामनन्ति—

अनूचानो हि यद्ब्रूते सा स्वयंभूः सरस्वती।
तदार्षं

न मृषार्थं स्यात्सा दृष्टिर्विदुषां दृढा॥ १०॥

अपि च।

आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि-
स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः।

वर्ण्यं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः॥ ११॥

तत्रैवंविधो दैवज्ञानां प्रवादः—

बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमेण्ठताम्।
स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखरः॥ १२॥

(आकाशे।) किं बूथ — तत्प्रस्तूयतामिति। यदादिशन्ति गुरवः।

(नेपथ्ये गीयते।)

हरचूडामणिरिन्दुस्त्रिजगद्दीपश्च दिनकरो देवः।
मासान्तसंगताविह लोकस्य हिताय वर्तेते॥ १३॥

** सूत्रधारः —** (आकर्ण्य) कथमुपक्रान्तमेव कुशीलवैः। यद्वाल्मीकि व्यासयोः प्रावेशिकी ध्रुवा गीयते। (विचिन्त्य।) ध्रुवा हि नाठ्यस्य प्रथमे प्राणाः। यतः।

प्रथयति पात्रविशेषान्सामाजिकजनमनांसि रञ्जयति।
अनुसंदधाति च रसान्नाट्यविधाने ध्रुवा गीतिः॥१४॥

तद्भवतु। अहमप्यनन्तरकरणीयाय सज्जो भवामि। ( इति निष्कान्तः।)

प्रस्तावना।

(ततः प्रविशति वाल्मीकिर्व्यासश्च।)

व्यासः— (सपादोपग्रहम्।) भगवन् अद्भुतसंभव, एष व्यासः पाराशर्योऽभिवादयते।

वाल्मीकिः—(पृष्ठे पाणिं निधाय।) वत्स सात्यवतेय, स्वप्रबन्धपरिसमाप्त्या वर्धस्व।

व्यासः — परमनुगृहीतोऽस्मि। (अवलिं बद्ध्वा।)

योगीन्द्रश्छन्दसां द्रष्टा रामायणमहाकविः।
वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः॥१५॥

वाल्मीकिः— अष्टादशपुराणसारसंग्रहकारिन् कियान्वर्तते नवेतिहासो भारतम्।

व्यासः — पुनः पुनरविनयोद्धाटनेन मा लज्जयतु मामुपाध्यायः। के वयं नाम रामायणमहाकवेः पुरतः।

ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे
येषां वेदवदादृता स्मृतिमयी वाग्लोकयात्राविधौ।

स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यत्र ये
व्युत्पत्त्या परया रसोपनिषदां रामायणस्यास्य ते॥१६॥

किं च भगवन्प्रथमकवे,

यदुक्तिमुद्रासुहृदर्थवीथी कथारसो यच्चुलुकैश्चुलुम्प्यः।
तथामृतस्यन्दि च यद्वचांसि रामायणं तत्कवितॄन्पुनाति॥१७॥

वाल्मीकिः — वत्स कृष्णद्वैपायन, कस्य पुनः कवेर्वाचो भारतस्य षोडशीमपि कलां कलयन्ति। यतः।

धर्मे7 चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥१८॥

किं च।

दन्तोलूखलिभिः शिलोञ्छिभिरिदं कन्दाशनैः फेनपैः
पर्णप्राशनिभिर्मिताम्बुकबलैः काले च पक्वाशिभिः।

नीवारप्रसृतिंपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः
सेव्यं भव्यमनोभिरर्थपतिभिस्तद्वै महाभारतम्॥ १९॥

किंतु श्रुतमस्माभिर्यदुतातिविरसे काव्यकष्ठेऽभिनिविष्टोऽसि।

** व्यासः —** इदमुपाध्यायपादेभ्यो विज्ञाप्यते—

विनायको यः शिवयोरपत्यमर्धंपुमानर्थमिभश्चदेवः।
स वर्तते भारतसंहितायां वृतस्तपोभिर्मम लेखकोऽत्र॥ २०॥

तेन च च्छलयितुमहमुपक्रान्तः —यदुत बाढमहं ते लिपिकारः, किं पुनर्येन न रहसा लिखेयं तेन यदि [न] संदृभसे तत्ते विघ्नः स्यात्। ततो मयापि प्रतिच्छलितः — ओमित्यस्तु। किं पुनर्भवता भावयता लिखितव्यमिति। अतः काव्यकष्टेऽभिनिविष्टोऽस्मि।

वाल्मीकिः— कियान्वर्तते नवेतिहासः।

** व्यासः —** संपन्नः। किं तूपाध्यायपादैः स्वयंवराय पाण्डवप्रवेशं यावदाकर्णित एव।

** वाल्मीकिः —**तदेहि। प्राप्तां सायंतनीं संध्यामुपास्महे। ततः श्रावयि(श्रो)ष्यामि। संप्रति हि

अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः।
जलनिधिमकरैरुदीक्ष्यते द्राङ्नवरुधिरारुणमांसपिण्डलोभात्॥ २१॥

अपि च।

निर्यद्वासरजीवपिण्डकरणिं कुर्वन्कवोष्णैः करै-
र्मञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचलं चुम्बति।

किं च स्तोकतमःकलापकलनाश्यामायमानं मना-
ग्धूमश्यामपुराणचित्ररचनारूपं जगज्जायते॥ २२॥

(इति परिक्रम्य निष्कान्तौ।)
विष्क्रम्भकः।

(ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च।)

सहदेवः — इत इतः।

(सर्वे परिक्रामन्ति।)

** युधिष्ठिरः —** वत्स सोदर वृकोदर, परपुरंजय धनंजय, मण्डितपाण्डवकुल नकुल, द्विषद्दुःसह सहदेव, इह हि महाराजसमाजे न जाने कमवलम्बष्यते राधावेधकीर्तिवैजयन्ती8
** भीमः—** (विहस्य।)

आर्यो वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः
किं ब्रूमोऽस्य किरीटिनो न घटते द्रोणेन यस्योपमा।

माद्रीनन्दनयोर्नरेन्द्र विनयच्छन्नं हि वीरव्रतं
न तास तवास्ति यस्य पुरतो राधां परो विध्यति॥ २३॥

** अर्जुनः—**

दुर्नमं यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम्।
दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा॥ २४॥

** नकुलः—** निखिलनरेन्द्रवृन्दाधिष्ठितान्मञ्चसंचयानपास्य मुनिप्रायविप्रजनपरिगृहीतं मञ्चमारोहामो वयमपि विप्रवेषधारिण एव।

(सर्वे समारुह्ययथोचितमुपविशन्ति।)
(नेपथ्ये।)

इदो9 इदो कुमारधिट्ठजुण्णो भट्टिआरिआ अ।

युधिष्ठिरः — प्राप्तैवैषा स्वयंवरयित्री।

(ततः प्रविशति सधृष्टद्युम्नाःद्रौपदी बन्दी सखी च। )
(परिक्रामितकेन)

** धृष्टद्युम्नः —**(एकतोऽवलोक्य।) कथं तातद्रुपदमनुग्रहीतुं महर्षयोऽपि स्वयंवरयात्रामञ्चमध्यासते। तदेतानभ्यर्हयामि। (सप्रश्रयमञ्जलिं बद्ध्वा।)

स्वस्त्यापस्तम्ब तुभ्यं त्वमसि ननु मुने कस्य नो माननीय-
स्त्वां बन्दे याज्ञवल्क्य द्विजसदसि कवे त्वां स्तुवे भारतस्य।

विश्वामित्रः पवित्रं जगति विजयते काममत्रे नमस्ते
विश्वप्रष्ठे वसिष्ठे कृतनतिरपरान्स्तौमि हर्षान्महर्षीन्॥ २५॥

( द्रौपदी प्रणमति।)

** धृष्टद्युम्नः —** (अन्यतोऽवलोक्य।)

लक्ष्मीसंवननैर्भुजैर्नृपतयः स्वस्त्यस्तु वः स्वागतं
नन्वेते गृहमेधिनां धुरि वयं यद्यूयमभ्यागताः।

दृष्टः केन भवादृशां पुनरियान्पूज्यः समाजो जग-
त्युत्कण्ठा भवतां च संप्रति पुरः सेयं स्थिता द्रौपदी॥ २६॥

** सखी —** इदो10 इति च्छाया..") इदो भट्टिदारिआ। जम्याहिवाहिणो, वासमाधिसेदुम्।

** युधिष्ठिरः—**(सस्पृहमवलोक्य स्वगतम्।) हंहो लोचनचकोरौ, युवामप्या तृप्तेः पिबतं द्रौपदीवदनेन्दुचन्द्रिकाम्।

कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः
सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि।

तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती
शीतांशोरधिदेवतेव गलिता व्योम्नि11द्रुतं गच्छतः॥ २७॥

भीमः — ( द्रौपदी संभाषणमनुसंधाय। स्वगतम्।)

श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्।

धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन॥ २८॥

** अर्जुनः —**(स्वगतम्।) हृदय, कारय चक्षुषी पारणम्। पुरतो द्रौपदी। अस्याः खलु वयो विशेषोचितमधुना संभाव्यते।

शारीद्यूतकलाकुतूहलिमनश्छेकोक्तिशिक्षारति-
र्नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम्।

प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना-
क्स्तोकारोहिणि, यौवने मृगदृशां कोऽप्येष रम्यः क्रमः॥२९॥

** नकुलः—** (स्वगतम्।) नेत्रे, यथाशक्ति विस्तारं भजेथाम्।

स्मितपरिचयावृत्तिर्वाचामपाङ्गतरङ्गितं
नयनरचितं पादन्यासो नितम्बभरालसः।

अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके
वहतु मदनः शोभामात्रं धनुर्ननु संप्रति॥३०॥

** सहदेवः —** (स्वगतम्।) क्षणं चक्षुषी, निमेषदोषमपाकुरुतम्। इदमग्रेहृदयलेह्यममानुष्यं लावण्यम्।

तरङ्गय दृशौ मनाक्स्थगय दिङ्मुखान्युत्पलैः
करौ वलय जायतां सरसिजाकरो जङ्गमः।

विहस्य पुनरुक्ततां सुतनु लम्भयैकावली-
मुदञ्चय मुखं भवत्वयमकाण्डचन्द्रोदयः॥३१॥

** बन्दी —**( तारस्वरमास्थाय।)

सकलभुवनरक्षास्रस्ततन्द्रा नरेन्द्राः
शृणुत गिरमुदारामादराच्छ्रावयामि।

हि सदसि राधां यः शरव्यीकरोति
स्मरविजयपताका द्रौपदी तत्कलत्रम्॥३२॥

** सखी—** कथं12 विभ्रमताण्डवितभ्रमञ्जरीभ्रमरपङ्किलाञ्छितेन नयनोत्पलस्वण्डेन घूर्णमानं पिबदिव द्रौपदीवदनलावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम्।

** बन्दी —** अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम्। यतः।

न्यस्तं ताण्डवितभ्रु चक्षुरमुना कण्ठो लुठत्पञ्चमः
संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः।

मिथ्यासौ स्मयते स्थितो भणितिभिः किं चैष वैपञ्चिको
यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः॥३३॥

कथमहंपूर्विकया सर्व एव धनुरारोपयितुं संरभन्ते।

** धृष्ठद्युम्नः—** हंहो कंदर्पचण्ड, निवार्यतामियमहमहमिका महीपालानाम्‌।

** वन्दी—**(किंचिदुच्चैः )

सर्वे कार्मुककर्मठाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः
सर्वे मानमदोद्धताः श्रणुत मे वन्दं वचो बन्दिनः।

दुर्धर्षंधनुरच्युतस्य पणितं तच्वाध्यवस्यत्वसौ
यस्य स्थाम महर्द्धि तद्धिततमं ब्रीडा यश्चःखण्डिनी ॥ ३४ ॥

(सर्वे परिक्रामितकेन।)

** बन्दी—** (द्रौपदीं प्रति।)

शंभोर्मूर्ध्निगतागतानि कुरुते या चन्दरकेखाङ्किते
तस्याः शांतनवोऽयमुज्वलयशाः खर्गापगायाः सुतः।

वन्दित्वैतमुदग्रभार्गवशरशश्रेणीबणालंकृतं
भीष्मं सुभ्रु ततः स्वयंवरनृपान्प्रत्येकमालोकय ॥ ३९ ॥

** सखी—** द्रुपदनन्दिनि, गङ्गातनयः शान्तनव एषः। तद्गुरुत्वेन प्रणमतु।

** द्रौपदी—** यः किल कुमारत्रह्मचारी \। नमो नमः पाण्डवकौरवपितामहाय।

(सर्वे परिक्रामितकेन।)

** बन्दी—** (स्वगतम्‌ ) अयं भगवतो भीष्मादनूनगरिमा द्रोणाचार्यः।

(प्रकाश द्रौपदीं प्रति।)

सदारिवप्ररिष्योऽयमवधिः सर्वधन्विनाम्‌।
आकर्णपलितः सुभ्रुद्रोणाचार्यः प्रणम्यताम्‌ ॥ ६१ ॥

** द्रौपदी—**यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः।

** बन्दी—**निनदोःस्तम्भसंभावनागर्वखर्वितविवेकान्नृपतीनवलोक्य किमाह भारद्वाजः—

शिष्योऽस्मिभार्गवमुनेः कुरुपाण्डवानां
कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि।

हे भूभुजो जयवपूंषि धनूंषि धत्त
मुक्त्वार्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥३७॥

** द्रौपदी —** नमो नमस्ते द्रोणाय कलशोद्भवाय।

(सर्वे परिक्रामितकेन।)

** बन्दी—**

दूरोदश्चिमरीचिरलत्नरचनाचित्रं तनुत्रं तनो-
रुत्कृत्य त्रिदशेश्वराय ददतो यस्य स्मितं चक्षुषा।

पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा
सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुतः॥३८॥

(विचिन्त्य।) अहो महाप्रभावं भार्गवं धनुः। यदमुना मम चतुर्ज्ञानमुन्मीलितम्। येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव पश्यामि।

** सखी—** सखि, दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः।

** द्रौपदी —** यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः।

** बन्दी —** (विहस्य स्वगतम्।) अहो महात्मनामपि कैतवानुगृहीता वृत्तयः। यदेषः

दुर्नमं दहनसंभवं धनुः संशये न च सतां प्रवृत्तयः।
अङ्गराज इति चिन्तयन्निमां भाषते व्रज पुरः कुरूद्वहः॥३९॥

(सर्वे परिक्रामितकेन। )

** स एव –** (प्रकाशम्।)

यौवराज्याभिषेकार्होवीरो दुर्योधनानुजः।
दुःशासनो महावेष एष मञ्चं विमुञ्चति॥४०॥

** सखी —** यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः कनिष्ठो दुर्योधननरेन्द्रस्य।

** धृष्टद्युम्नः —** (स्वगतम्।) यथार्थनामा दुःशासन एवायम्।

चापं प्रति त्रिचतुराणि पदानि दत्त्वा
कृष्णाहठग्रहनिमित्तविषण्णचेताः।

दुःशासनो नृपतिचक्रविमुक्ततार-
हुंकारलज्जितमनाः शनकैः प्रयाति॥४१॥

** द्रोपदी—** अपि नाम चण्डचरित एषः।

बन्दी — (निरूप्य।) नमो नमो विष्णुकोदण्डपणबन्धाय। (स्वगतम्।)

द्रौपदीं परिणयन्तमर्जुनं विद्धराधमवलोक्य मायया।
दोर्बलं विफलमात्मनो विदन्व्रीडयैष विनतो निवर्तते॥ ४२॥

(परिक्रामितकेन।)

** बन्दी—**

गान्धाराधिपतेः पुत्रः सुबलस्य बलीयसः।
मातुलः कुरुराजस्य राजते नृपतिर्गुणैः॥ ४३॥

** द्रौपदी —** यो द्यूतकैतवविचक्षणः श्रूयते।

** सखी —** आम्। एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस्य पुनः रक्षिता। (?)

** बन्दी —**

यात्राकृतोऽस्य चतुरङ्गचमूसमुत्थे
पांसूत्करे वियति सर्पति वीतरन्ध्रे।

दिङ्नागनागपतिकेशवकच्छपाना-
मूर्ध्वंक्षणाद्भवति भूवलयस्य भारः॥ ४४॥

(स्वगतम्।)

धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत्।
तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम्॥ ४५॥

(पुनरवलोक्य विहस्य च।) कथं विमुक्तराधावेधाभिमानस्य स्वयंवरवदुत्तीर्णं स्कन्धाद्धनुः।

(सर्वे परिक्रामितकेन।)

बन्दी—

सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो जयद्रथः।
सिन्धुपारोत्तमहयः सिन्धुरप्रतिमो बले॥ ४६॥

अपि च।

अस्याहवे दलितंदाडिमबीजलौल्या-
न्मुक्ताफलेषु करिणां रुधिरारुणेषु।

व्योम्मः शुकान्निपततस्तरसा निरीक्ष्य
नाकस्त्रियो बहु हसन्ति सहस्ततालम्॥४७॥

** द्रौपदी —** यो दुर्योधनभगिनीपतिः।

** धृष्टद्युम्नः—**

कथं धनुरारोपणपणं प्रत्ययमुदास्ते।

** बन्दी —**

दुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराजसंनिधौ।
कौतुकागमनमात्मनो वदन्खासनाच्चलति नो जयद्रथः॥४८॥

(परिक्रामितकेन।)

बन्दी —

दुर्योधनो नृपकिरीटविटङ्करत्न-
रश्मिच्छटाच्छुरितपादयुगाङ्गुलीकः।

लाचलच्चमरनर्तितकर्णपूरः
शूरः शरासनविदां प्रथमोऽयमास्ते॥४९॥

अस्य च

पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति-
र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्रणामाञ्जलेः।

ते प्रत्यग्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः
कङ्कालव्रतमप्सुभिश्च मुदितैः कापालिकैर्वीक्षिताः॥५०॥

** द्रौपदी —** यः खण्डपरशुचूडामणेः13कुलालंकरणम्।

** सखी—**आं सखि, स एवैषः।

** द्रौपदी —** अस्तीदम्। किं पुनः समुद्दीपितजतुभवनत्वेन विषाशनदातृत्वेन च च्छलप्रहारी एषः।

** बन्दी —** किमाह महाराजदुर्योधनः।

निर्दिशन्तु निजबाहुविक्रमं शार्ङ्गनाम्मि धनुषीह प्रार्थिवाः।
साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति॥११॥

(विचिन्त्य स्वगतम्।) कथमभिमानाङ्गीकरणेन परिहार एषः। ( परिक्रामित केन प्रकाशम्।) स एष भगवतो वासुदेवस्यापि वन्दनीयो बलभद्रः।

किं किं किं चुचु चुम्बनैर्म म मुधा वक्त्राम्बुजस्याग्रतो
दे दे देहिपि पि प्रिये सु सु सुरां पात्रे त्रि रे रेवति।

मा मा मा वि बिलम्बनं कु कु कुरु प्रेम्णा हली याचते
यस्येत्थं मदंघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः॥ ५२॥

अपि च।

नीलाम्बरं नलिनदाम च यस्य भूषा
यत्प्रीतिकारि मधुरं मधु रेवती च।

लीलार्धदृष्टधनुरत्र ही सहेलं
शारैः स एष खलु खेलति खेलगामी॥ १३॥

** द्रौपदी —** यः किलैरावणवारण इव सदा मदस्वच्छन्दः।

** बन्दी —** किमाह कामपालः—

रेवतीं त्रिभुवनैकसुन्दरीं न प्रकोपयति रोहिणीसुतः।
तेननैष विदधाति कौतुकी दृक्त्रिभागमपि कृष्णकार्मुके॥ ५४॥

(पुनः।)

** बन्दी —**

यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे
निर्जित्योर्जितशार्ङ्गनिर्गतशरश्रेणीभिरुद्दामभिः।

शच्या बाञ्छितमौलिबन्धरचनैः पुष्पैः सदा सुन्दरां-
श्चक्रे नन्दनपारिजातकतरून्विश्वंभरासाक्षिणः॥ १५॥

वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां
किमपरमसुराणां मन्थिता सोऽयमास्ते।

कृतसुरपरितोषः षोडशस्त्रीसहस्र-
प्रणिहितपरिरम्भस्यास्पदं पद्मनाभः॥ १६॥

द्रौपदी — यस्यं किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकलत्रम्। यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य।

** बन्दी —** किमाह देवो वासुदेवः।

यस्मिन्मदस्य मदनस्य च भूर्ममार्यो
यस्मिन्नमी च यदुवंशभुवः कुमाराः।

नन्वत्र सोऽहममुना कमलावतार-
स्त्रीचक्रकेलिचतुरश्चरितेन लज्जे॥ १७॥

(परिक्रामितकेन।)

** बन्दी—**

वल्गच्चाणूरचूर्णीकरणसहभुवः पूतनापूत्कृतानां
कर्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः।

यस्यासन्दानदर्पप्रबलकुवलयापीडपीडाप्रगल्भाः
क्रीडाडिम्भस्य लीलोद्धृतधरणिधराः केलयः कालियारेः॥ १८॥

तस्यैष शम्बरमहासुरसुन्दरीणां
सिन्दूरमण्डनहरेण पराक्रमेण।

शश्वत्प्रकामकमनीयजनोपमानं
प्रत्यक्षपञ्चविशिखस्तनयः पुरस्तात्॥ ५९॥

** द्रौपदी —** यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाजयपताकां निर्विलम्बमवलम्बते।

** बन्दी —** धृष्टद्युम्नआर्य,

उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम्।
शार्ङ्गिणा भगवता ससंभ्रमं भ्रूविटङ्कघटनेन वार्यते॥ ६०॥

(परिक्रामितकेन।)

** बन्दी –** कथं सात्यकिः,

धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः।
प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः॥ ६१॥

अपि च।

यः सत्यस्य निधिः श्रियां च सरणिः साम्नां च धाम्नां चयो
यो दाता च दयालुरेव च पदं कीर्तेश्च नीतेश्चयः।

तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः
पात्रापात्रविवेचनं न यदभूत्सर्वखदानेष्वपि॥६२॥

** द्रौपदी —** यो यादवकुमारोऽपि भूत्वा अनास्वादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम्।

** बन्दी —**

यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घ्यते।
इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः॥१३॥

(परिक्रामितकेन।)

शिशुपाल महीपालो मेकलानां कुलोद्भवः।
अयं सजयनिर्घोषो दमघोषसुतः परः॥१४॥

पाणिप्रस्थैर्बकुलसुमनःसौरभं यो मिमीते
दंपत्योर्यः सुरतसमरे सौख्यसंख्यां करोति।

यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः
शक्तः स्तोतुं यदि स निखिलान्यस्य कीर्त्यद्भुतानि॥११॥

** द्रौपदी—**यो निर्जितसुरासुरः।

** बन्दी—**

दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति।
दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना॥६६॥

(परिक्रामितकेन।)

सत्यसंधो जरासंधः क्रान्तदिग्वलयो बलैः।
अत्रैष राजते राजा मागधो मगधस्तुतः॥१७॥

अस्यासमं समरकर्म दिदृक्षमाणै-
र्दोषद्वयं फणिभिरापि चमूरजस्तः।

यत्कूणितेक्षणतया न कबन्धनृत्तं
दृष्टं श्रुतो न च महाभटसिंहनादः॥१८॥

** द्रौपदी—** यों जननीजनितदेहखण्डयुगलो जरया राक्षस्या संघितइति जरासंधो भूपतिः।

बन्दी —

अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः।
अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः॥ ६९॥

(परिक्रामितकेन।)

** बन्दी —** कथमेते राजानो युगपदुत्थिताश्चापमारोपयितुं विडम्बिताश्च। तथाहि।

जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं
निष्ठ्यूता रमठेश्वरस्य वदनात्कीलालकल्लोलिनी।

जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं
कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के॥ ७०॥

बन्दी — (सविषादम्।)

हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं
हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं च हा।

दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो
राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी॥ ७१॥

** धृष्टद्युम्न्नः—**

वैकुण्ठकार्मुकहठाक्रमणैककुण्ठे
दोर्दण्डखण्डनविखण्डितराजचक्रे।

द्राग्द्रौपदी नमितकण्ठविलोठिहार-
विश्लिष्टयष्टिगणनागुणनां करोति॥ ७२॥

** सखी —** किं पुनरेष भरितभुवनः कोलाहलो विपुलः।

** बन्दी —** ( अवलोक्य सहर्षम्।)

धृष्टद्युम्ने विषण्णे हसति मुरजिति द्रौपदीचित्तनिन्द्ये
कोदण्डप्रौढिगाढग्लपितगुरुबले चात्र राज्ञां समाजे।

प्रेङ्खकृष्णाजिनानां करकरकजुषां14 बल्कलव्याकुलानां
विप्राणां कोऽपि मध्यादवतरति युवा कार्मुके दतदृष्टिः॥ ७३॥

अपि च।

व्रीडानतेषु वदनेषु च भूपतीनां
संचारयन्विकचपङ्कजचारु चक्षुः।

अभ्येति मत्तगजखेलगतिः स एष
साभ्यर्थनं मुनिजनेन निषिध्यमानः॥७४॥

** अर्जुनः—** (कतिचित्पदानि दत्त्वा। चतुर्दिशमवलोक्य।)

एतत्कृष्णस्य शार्ङ्गं ननु धनुरतनुप्राणदोर्दण्डचण्डै-
र्दूराद्भूपप्रकाण्डैः सपदि परिहृतं शिञ्जिनीसञ्जनेषु।

मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भुजायन्त्रयोगे
प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा॥७५॥

(सरभसं परिक्रम्य धनुरारोपणं नाटयन्।)

मद्बाहुयन्त्रयुगयन्त्रितमाततज्यं
न स्याद्धनुः कथमिदं हि रथाङ्गपाणेः।

बुध्नाटनिर्यदि न याति च भूमिपृष्ठ-
मा शेषमा च कमठाधिपमभ्युपेयात्॥७६॥

** भीमः—** वत्स नकुल, भिदुरा भूमिरिति मा कदाचन कदर्थितकोदण्डकोटिः स्यात्किरीटी। तत्तस्याधस्ताद्धस्तं दार्ढ्याय निदधे। ( इति तथा करोति।)

** नकुलः—**

धत्से जर्जरतां न मेदिनि मुधा मा शेष शङ्कां कृथा-
स्तुभ्यं कूर्मपते नमस्त्यज भयं दिक्कुञ्जराः स्वस्ति वः।

यज्जिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयैवाटनिं
धत्ते पाणितलं तलेऽस्य धनुषो वामं हिडिम्बापतिः॥७७॥

(अर्जुन आरोपयति।)

** सखी —** भगवति मिथुनसंघटनैकदेवते, कुण्ठितनिःशेषनरेन्द्रचक्रमेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम्।

(अर्जुनो बाणमोक्षं नाटयति।)

बन्दी—

आकर्णाश्चितचापमण्डलमुचा बाणेन यत्रोदर-
च्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना।

( द्रौपदीमवलोक्य।)

तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः
कामेन द्रुपदात्मजाहृदि हठान्न्यस्ताश्च पञ्चेषवः॥७८॥

** सखी—** आश्चर्यमाश्चर्यम्। असलिलात्कुवलयोत्पत्तिरकुसुमं कुसुमकोदण्डकाण्डममन्त्रतन्त्रं मनोमोहनमिन्द्रजालमस्या दृष्टिर्विप्रवीरवदने निष्पतन्ती न विरमति।

** अर्जुनः—** कथं राधावेधानन्तरमियमस्मासु स्निह्यति। यतः।

जैत्रं तन्त्रं कुसुमधनुषः प्रेमसर्वस्वदूताः
सत्यंकाराः प्रणयविततेस्तुष्टये पुष्टियोगाः।

विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा-
मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः॥७९॥

** बन्दी —** हा हा धिक्कष्टम्।

ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै-
र्यदुत जनकशोकस्यैकहेतुः कुमारी।

अकलितकुलशीलोऽप्येष यत्कोऽपि धन्वी
द्रुपददुहितुरस्या वाञ्छति स्वामिभावम्॥८०॥

** अर्जुनः —** हंहो बन्दिवृन्दारक, किमत्र कुलान्वेषणेन। किं वा मे शीलपर्यालोचनया। धनुरारोपणपणपरिणेया द्रौपदी।

(नेपथ्ये।)

हंहो ब्राह्मण, त्वामेवं समुदिता नृपतयो भाषन्ते—

सायकश्च त्वया मुक्तो यन्त्रं वा तेन चाहतम्।
तन्मा वृथा विकत्थस्व न राधां विद्धवानसि॥८१॥

(पुनःसाक्षेपम्।)

रे रे ब्राह्मण मुञ्च विप्लवममुंश्रुत्यर्थवीथीं स्मर
क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थितः।

तच्चेन्नाद्रिय से स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां
तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः॥ ८२॥

** अर्जुनः—** (तान्प्रति।)

कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवब्रताय15
त्यक्ताभ्यासः कुरुपतिरयं श्रीसमुत्थैर्विलासैः।

भोः कर्णाद्याः शृणुत तदिमां ब्राह्मणस्यास्य वाणीं
राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्वविद्धम्॥ ८३॥

** सखी—** सखि, इतस्तरलितहारहारिवक्षः उन्मुक्तचक्रमुच्चण्डस्थितचित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहि तसंघट्टपट्टिशमसंख्यशङ्कुसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरेन्द्राणाम्।

** बन्दी —**

संघट्टोत्पिष्टचूडाच्युतमणिकणिकाकर्बुरैर्बाहुदण्डै-
स्तूणोत्कीर्णास्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते।

अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं
बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः॥ ८४॥

(नेपथ्ये।)

देवस्य द्युमणेः कुले नृपतयो ये चात्र चूडामणेः
श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि।

विप्रश्चीवरवान्सहायरहितः कोऽप्येष वः पश्यतां
राधावेधकरो हठेन हरते कीर्त्या समं द्रौपदीम्॥ ८१॥

** भीमः —** वत्स धनंजय, त्वं कराकलितद्रौपदीक एव मामनुवर्तस्व। अहं राजचक्रस्य पुरतो भवामि। ( तथा करोति।)

** नकुलः—** आर्य, इमं तालतरुमायुधीकुरु।

(भीमस्तथा करोति।)

** बन्दी —**

उत्पाटितमहातालः क्लृप्तचण्डगदाधरः।
विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः॥ ८६॥

** अर्जुनः—** ( राजकमवलोक्य। )

अहमिह विप्रः प्रोतराधारहस्य-
स्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र।

कलयथ यदि दोष्णश्चापदण्डप्रचण्डां-
स्त्यजत रथगजस्थास्तत्पुरस्योपकण्ठम्॥ ८७॥

** बन्दी —** (विचिन्त्य।)

वीर्यंं वचसि विप्राणां क्षत्रियाणां भुजद्वये।
इदमत्यन्तमाश्चर्यं भुजवीर्या हि यद्द्विजाः॥ ८८॥

(अर्जुनस्तदेव पठति।)
(नेपथ्ये।)

साधु ब्राह्मण, साधु \। क्षत्त्रमागमनुवर्तसे।

** भीमः–** यद्येवम्

प्रसर्पतु रणाङ्गणे रुधिरकेलिकल्लोलि
भवन्तु फलिता इव द्विरदमुण्डखण्डैर्दिशः।

नृमांसकवलान्तरेष्वपि च साग्निलेखैर्मुखैः
कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः॥ ८९॥

( इति निष्क्रान्ताः सर्वे।)

इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके
राधावेधो नाम प्रथमोऽङ्कः।

द्वितीयोऽङ्कः।

(ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च।)

विदुरः—

आ देवाद्दिव्यपङ्केरुहसदनजुषोऽस्मिन्महाराजवंशे
विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्रप्रसूतेः।

हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा-
मिन्दोरन्यस्य दृष्टो यदि किल कल्याप्यास्तृताङ्कः कलङ्कः॥ १॥

तत्रैव गोत्रे संप्रति तु —

वाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका
लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान्।

शैलूषैः कितवैरनेककपटश्रेणीमहानाटकं
द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थितः॥ २॥

** पुरुषः—** आर्य धर्मावतार विदुर, किं पुनरेवं भण्यते। यतो दूतमहत्तरा एवं मन्त्रयन्ति —

रणन्मणिनूपुरा16 रणरणद्धारच्छटाः
क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः।

भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं
प्रसन्नदिनस्वामिन इह जयन्ति द्यूतेन ये॥ ३॥

** विदुरः —**तिमिंगिलगिलन्यायोऽयं शृङ्गयति नात्र जीयते। (विचिन्त्य।)

श्रीनिर्वासनडिण्डिमो घनरवः सद्म स्थितं च्छद्मनां
सत्योत्सारणघोषणा तत इतो लज्जा निवापाञ्जलिः।

द्वारं दुर्यशसां पराभवपदं गोष्ठी गरिष्ठापदां
द्यूतं दुर्नयवारिधिर्निपततां कस्तत्र हस्तग्रहः॥ ४॥

** पुरुषः—** आर्य धर्मावतार विदुर, किं पुनरिदं सखेदं मन्त्र्यते।

** विदुरः —** चण्डातक, शृणु यन्मन्त्र्यते। (पुनस्तदेव पठति।)

** चण्डातकः—** अभिन्नोभ्रातृषु स्वच्छचित्तो मित्त्रेषु, स्निग्धो बन्धुषु,

निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराजयुधिष्ठिरः। तत्किमिति तत्रैष कौरवेन्द्रस्य विशेषपरिस्पन्दः।

विदुरः — किमुच्यते—

युधिष्ठिरो17 धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥ ५॥

(विचिन्त्य।) कौरवपतिस्तस्य प्रत्युदाहरणम्।

दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी॥ ६॥

यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनिकर्णकुरुपतिप्रेरितेन धृतराष्ट्रेण युधिष्ठिरोऽभिहितः — ’ यदुत वत्स युधिष्ठिर, दुर्योधनकारिते सदसि भ्रातृतं प्रवर्तयितव्यम्’ इति।

** चण्डातकः—** ततस्तेन किं प्रतिपन्नम्।

** विदुरः —**यत्पाशसंयतो वन्यः करी प्रतिपद्यते। तथा चाभिहित तेन—

राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः।
आहूतो न निवर्तेय द्यूताय च रणाय च॥ ७॥

** पुरुषः—** अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलवं समर्प्य च संप्रेषितोऽस्मि सभामध्यम्। तदार्य, कथयस्व किं कारणं दुर्योधनस्य दुर्जयत्वे।

** विदुरः —** श्रुतो मया कुब्यान्तरितेन शकुनिना सह मन्त्रयमाणं दुर्योधनः—

तत्रोत्सर्पिणिराजसूयसमये राज्ञः पृथाजन्मनो
द्वीपेशैर्विनयान्वितैरुपचितं चित्रैर्महाप्राभूतैः।

प्रत्यक्षीकृतवान्यदस्मि विभवं कोषाधिकारे स्थित-
स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते॥ ८॥

—————————————————————

अपि च गान्धाराधिपते मातुल,

मायामये मयसभाधितले महाम्बु
त्यक्त्वा ततो व्रजति मय्यनभिज्ञभावात्।

यत्कृष्णया विहसितं सह फाल्गुनेन
तन्मे मनः कुसुमलावमिदं लुनाति॥ ९॥

(नेपथ्ये।)

देवश्चन्द्रकुलप्रतापतिलकः षाङ्गुण्यवाचस्पति-
र्वीरो निर्मलकीर्तिनिर्जरगिरिर्भूखण्डविद्याधरः।

कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः
पाण्डोः पाण्डुयशस्करो विजयते पृथ्वीं पृथानन्दनः॥ १०॥

** चण्डातकः—** युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः।

(पुनर्नेपथ्ये।)

नाले18 शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः
शश्वत्खङ्गभुजंगचन्दनतरौ कीडोपधाने श्रियः।

आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे चिरं
श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति॥ ११॥

** चण्डातकः —** एष दुर्योधनमागधः कलकण्ठो नाम।

विदुरः— संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम्। एते च भीष्मद्रोणकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च प्रविशति। तदावामपि प्रविशावः।

( इति निष्क्रान्तौ।)

विष्कम्भकः।

(ततः प्रविशति युधिष्ठिरो भीमसेनश्च दुर्योधनः शकुनिश्च, तयोश्च ताम्बूलकरङ्कवाहिन्यौसुनन्दा सुरेखे च।)

** युधिष्ठिरः —**

विवर्तयक्षाञ्शकुने शारक्रीडां प्रवर्तय।
धृतराष्ट्रस्य पाण्डोश्च ममाज्ञामौलिमञ्चति॥ १२॥

किं च।

राजसूयक्रतोर्यज्वा पाण्डवोऽयं युधिष्ठिरः।
आहूतो न निवर्तेय द्यूताय च रणाय च॥१३॥

** शकुनिः —** ( दक्षिणं बाहुमुद्यम्य। )

हंहोहस्त कृतास्त्र दानसलिलप्रक्षालित स्वस्ति ते
लोकेष्वक्षविचक्षणश्च शकुनिः स्वाङ्गेऽपि भक्तस्त्वयि।

वीरे माननिधौ पराक्रमधने तद्भागिनेये मम
श्रीः पार्थप्रथमादपास्य भवता कार्या हि दुर्योधने॥१४॥

** दुर्योधनः—** तदार्य, पणः क्रियताम्।

** युधिष्ठिरः—**

हारोऽयं केरलस्त्रीविहसितशुचिभिः पङ्क्तिभिर्मौक्तिकानां

शुक्रेणैकाकृतीनां19 कृतसकलसभागर्भचन्द्रोदयश्रीः।

भ्रातृद्यूते पणो मे रजनिचरपतेरर्जितो राजसूये
यस्यैतन्मध्यरत्नं छुरयति ककुभः कौङ्कुमीभिः प्रभाभिः॥१९॥

** भीमः —** भवतस्तु कः पणः।

** दुर्योधनः—**

राजावलीक्रमायातो राजकोषः पणो मम।
शकुन्तलाद्याभरणैर्यः पुनाति च पाति च॥१६॥

(उभौ क्रीडतः।)

शकुनिः— जितं जितं महाराजदुर्योधनेन। हो युधिष्ठिर, हारितो हारः।

(दुर्योधनः सुरेखायाः कण्ठे परिधत्ते।)

** सुनन्दा—**(हसन्ती।) हंहो महाराज दुर्योधन, युधिष्ठिरकण्ठनिवेशिनमीदृशं हारं समर्थस्मादृशजनयोग्यं यत्करोषि तन्न रोहिणीवल्लभ कुलोचितमनुतिष्ठसि।

** भीमः —** साधु सुनन्दे, साधु। उचितमभिहितम्।

** सुरेखा—** अयि उड्डामरशीले, द्यूतजितेऽपि यन्त्रणा।

** शकुनिः—** (स्वगतम्।) प्रतिभावती सुरेखा। ( युधिष्ठिरं प्रति प्रकाशम्।) अपरः पणः क्रियताम्।

** युधिष्ठिरः—**संपादिता तातधृतराष्ट्रस्याज्ञा। तदास्ताम्।

** शकुनिः—**(विहस्य ।) दुर्योधने क्रीडति कथं धर्मराजो विरमति। नन्वधुनैव प्रतिज्ञातम् —‘आहूतो न निवर्तेय द्यूताय च रणाय च’।

** युधिष्ठिरः—** (सुनन्दामालोक्य सस्मरणम्।) यद्येवम्

कुर्वन्त्यो नयनैरपाङ्गतरलैर्दीर्घायुषं मन्मथं
तन्वन्त्यो हृदि रागिणां रतिमहावल्लीविलासाङ्कुरम्।

न्यस्यन्त्यो मदिरामदस्य च हठात्कांचिन्मनोहारिता-
मङ्गैर्मुग्धमधूकपाण्डुभिरिमा वाराङ्गना मे पणः॥१७॥

** भीमः —** भवतस्तु कः पणः।

** दुर्योधनः—**

सुधावीचीमुचां वाग्भिर्विभ्रमावल्गिकुण्डलः।
ममापि वारनारीणां स्मरस्मेरो गणः पणः॥१८॥

(उभौ क्रीडतः।)

** शकुनिः —** जितं जितं महाराजदुर्योधनेन।

** दुर्योधनः—** सुरेखे, त्वमेतासां सुनन्दाप्रभृतीनामधिष्ठात्री भव।

** सुरेखा —** यत्कुरुपतिराज्ञापयति। (प्रणमति।)

** सुनन्दा —** धर्मनन्दनो यदि पुनर्जयन्नस्ति सुरेखाप्रभृतीनां तदहमप्यधिष्ठात्री आसिष्ये।

** शकुनिः —** अपरः पणः क्रियताम्।

** युधिष्ठिरः—**

निरर्गलविनिर्गलद्गुलगुला करालैर्गलै-
मी तडति ताडितोडुमरडिण्डिमोड्डामराः।

मदाचमनचञ्चुरप्रचुरचञ्चरीकोच्चयाः
पणः परिणतिक्षणक्षततटान्तरा दन्तिनः॥१९॥

** भीमः—** भवतस्तु कः पणः।

(दुर्योधनस्तदेव पठति। उभौ क्रीडतः।)

** शकुनिः —** जिता दन्तिनः।

** दुर्योधनः—** (नेपथ्यं प्रति।) दुःशासन, द्यूतदन्तिनां प्रणेता त्वं भव

(नेपथ्ये।)

यदादिशत्यार्यदुर्योधनः।

** शकुनिः—** अपरः पणः क्रियताम्।

** युधिष्ठिरः—**

झणज्झणितकिङ्किणीमुखरकंधरासंधिभि-
र्युतास्तरुणतित्तिरिच्छदमनोहरैर्वाजिभिः।

द्रुणाङ्कघनपट्टिशत्रिशिखखङ्गिनः स्तम्भिनो
रथा प्रचलकाञ्चनध्वजमहापताकाः पणः॥२०॥

(उभौ क्रीडतः।)

** शकुनिः —** हारिता रथाः।

** दुर्योधनः —** ( नेपथ्यं प्रति।) सखे अङ्गराज, त्वं रथानां नेता भव।

(नेपथ्ये।)

यदादिशति कौरवेश्वरः।

** शकुनिः—** अपरः पणः क्रियताम्।

** युधिष्ठिरः—**

महीधरधरासु ये सनिनदं पतद्भिः खुरै-
र्लिखन्ति च पठन्ति च स्फुटतरं टकारानिव।

विरोचनहयावलीकुलभुवां स तेषामयं
पणः पवनरंहसां मम तुरंगमाणां गणः॥२१॥

(उभौ क्रीडतः।)

** शकुनिः —** जितं जितं महाराजदुर्योधनेन।

** दुर्योधनः—** मातुल, त्वमेषां तुरंगमाणां भर्ता भव।

** शकुनिः —** यदाह महाराजः। ( राजानमुद्दिश्य।)

किं वाजिभिः किमु गजैः किमथो रथैर्वा
सापत्नकं न धृतये धरणी पणोऽस्तु।

एकातपत्रमिदमद्य चिराय राज्यं
धर्मात्मजो भजतु वा धृतराष्ट्रजो वा॥२२॥

** युधिष्ठिरः —** यद्येवम्

ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा
दुष्यन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये।

श्रीमाञ्शंतनुरग्रिमः स च सतां गङ्गाकलत्रेण य-
स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे पणः॥२३॥

** भीमः —** भवतस्तु कः पणः।

(दुर्योधनस्तदेव पठति।)

(नेपथ्ये।)

राजन्युधिष्ठिर नराधिप कौरवेन्द्र
वंशे युवां भगवतो भवशेखरस्य।

द्यूतं न युष्मदुचितं ननु चिन्त्यतां च
कैः क्षत्रियैर्वसुमती पणिता पुराणैः॥२४॥

** युधिष्ठिरः —** भोः सभासदः, कथं किल राजसूययज्वा प्रतिज्ञातमर्थंकदर्थयति।

** दुर्योधनः –** हंहो सभ्याः, अक्षधर्मा अपि न निषिध्यन्ते।

(उभौ क्रीडतः।)

** शकुनिः —**जितं जितं महाराजदुर्योधनेन।

** दुर्योधनः –** स्वयमहमस्य राज्यार्धस्याधिष्ठाता।

** शकुनिः —** अपरः पणः क्रियताम्।

** युधिष्ठिरः —** किं नामावशिष्टं अत्पणीक्रियते।

** शकुनिः –** किं नामापहारितं शरीरे तिष्ठति। शरीरधना हि राजानः।

** युधिष्ठिरः—** यद्येवम्

निर्यान्ति यस्य वदनाद्वितथा न वाचो
यो राजसूयविधिनिर्धूतपापपङ्कः।

सोढा न चानुजमहाविरहस्य योऽस्मि-
न्सोऽयं स्वयं तव पणः प्रथमः पृथासूः॥ २५॥

** भीमः —** (स्वगतम्।) कथमात्मापि पणीकृतः। अहो सत्यसंधता आर्ययुधिष्ठिरस्य। (प्रकाशम्।) भवतस्तु कः पणः।

** दुर्योधनः—**

हेलानमन्नृपकिरीटबिटक्ककोटि-
क्रेंकारिरत्नचितकाञ्चनपादपीठः।

वैतालिकैः स्तुतसमस्तजयोत्सवश्रीः
सोऽयं स्वयं प्रतिपणस्तव कौरवेन्द्रः॥ २६॥

(उभौक्रीडतः। )

** शकुनिः —** जितं जितं महाराजदुर्योधनेन।

** युधिष्ठिरः —** जितोऽस्मि। तन्नियोजय कृत्ये।

** शकुनिः —** पुनरपरः पणः क्रियताम्।

** युधिष्ठिरः —** कः पुनरपरः पणः।

** शकुनिः —**भ्रातरः।

** युधिष्ठिरः—**

यो मन्थानकरः क्रतौ निजकुलप्राकारबन्धश्च यो
दोर्भ्यां यः प्रसभं व्यधत्त च जरासंधस्य संधिच्छिदाम्।

सोऽयं दृप्तहिडिम्बडिम्बविजयी वीरस्त्रिलोकाद्भुतं
भीमो भीमपराक्रमः पृथुगदाव्यग्राग्रपाणिः पणः॥२७॥

** भीमः—** भवतस्तु कः पणः।

** दुर्योधनः—**

संकर्षणान्निजतनूज्ज्वलकीर्तिराशेः
सार्धं मयाधिगतदिव्यमहारहस्यः।

त्वत्सोदरस्य मम सोदर एष वीरो
दुःशासनः प्रतिपणोऽस्य वृकोदरस्य॥२८॥

(उभौ क्रीडतः।)

** शकुनिः —** जितं जितं कौरवराजेन। अपरः पणः क्रियताम्।

** युधिष्ठिरः—**

कर्णप्रावरणैः सहैकचरणानश्चाननैः किंनरां-
स्त्र्यक्षैस्तुल्यशिखान्वलीमुखमुखैर्यक्षांश्च रक्षांसि च।

निर्जित्या कनकाद्रितो जनपदान्यो राजसूयक्रतौ
सम्राजं कृतवान्युधिष्ठिरमलं सोऽयं किरीटी पणः॥२९॥

** भीमः—** भवतस्तु कः पणः।

यो भार्गवाद्भगवतोऽर्जितचापवेदो
द्रोणेन तुल्यगरिमा मम धर्ममित्त्रम्।

स प्रीणितार्थिजनवाग्भिररिक्तकर्णः
कर्णः स्वयं प्रतिपणोऽस्य धनंजयस्य॥२०॥

(उभौ क्रीडतः।)

** शकुनिः —** जितं जितं कौरवराजेन। तदपरः पणः क्रियताम्।

** युधिष्ठिरः—**

सौहार्दात्प्रणयादथ प्रथिमतः स्नेहातिरेकाच्च वा
यो देवेन रथाङ्गिनापि समरं हित्वा करं लम्भितः।

पाश्चात्यक्षितिपालनिर्मलयशः प्रस्तार हारान्हर-
न्सोऽयं मे नकुलः कुलैकतिलको युद्धप्रवीणः पणः॥३१॥

** भीमः —** भवतस्तु कः पणः।

** दुर्योधनः—**

नकुलस्यापि ते भ्रातुर्भ्राता प्रतिपणो मम।
बिभ्रत्कीर्तिमहानावि विकर्णः कर्णधारताम्॥३२॥

(उभौ क्रीडतः।)

** शकुनिः —**जितं जितं महाराजदुर्योधनेन। तदपरः पणः क्रियताम्।

युधिष्ठिरः—

हेलालोडितपाण्ड्यकेरलबलो यः सिंहलांल्लङ्घय-
न्प्राक्संक्षुभ्य विभीषणेन तरसा दूरात्करं लम्भितः।

नित्यं रावणनिर्जितामरहृतैर्यः संभृतो भूषणैः
सौम्यश्रीः सहदेव एष स पणः क्षत्त्रैकचूडामणिः॥ ३३॥

** भीमः —**भवतस्तु कः पणः।

** दुर्योधनः —** अनिर्जितो भ्राता विकर्ण एष मम पणः।

(उभौ क्रीडतः। )

** शकुनिः —** जितं जितं महाराजाधिराजेन। तदपरः पणः क्रियताम्।

** युधिष्ठिरः —** किं नामा [प] हारितम्। कः पुनरपरः पणः क्रियताम्।

** शकुनिः —** धर्मदारा द्रौपदी।

** युधिष्ठिरः—**

संभूता द्रुपदाध्वरे हुतभुजः पाण्डोर्नृपस्य स्नुषा
राधावेधमहापणेन विजिता राज्ञां पुरः पश्यताम्।

भूभृन्मौलिमणीन्द्रदीधितिजलैर्या स्नातपादाम्बुजा
सा देवी विनयाभिमानवसतिः कृष्णा वितृष्णा पणः॥ ३४॥

** भीमः—** भवतस्तु कः पणः।

** दुर्योधनः—**

ज्येष्ठत्वात्पाण्डुपूज्यस्य धृतराष्ट्रस्य या स्नुषा।
सा देवी देवरवती मम भानुमती पणः॥ ३५॥

** सुनन्दा —** (स्वगतम्। एष स ज्येष्ठाभिः कनिष्ठानां विनिमयः।

(उभौ क्रीडतः। )

** शकुनिः—** जितं जितं महाराजदुर्योधनेन।

** दुर्योधनः —**दुःशासन, आनीयतां द्यूतदासी द्रौपदी।

(नेपथ्ये।)

यदाविशति पाण्डवकौरवेश्वरः।
** दुर्योधनः—** अपरः पणः क्रियताम्।

** युधिष्ठिरः —न मे पणान्तरमस्तीति प्रतिभाति।
** दुर्योधनः—

वर्षाणि द्वादशारण्ये सह तिष्ठन्तु निष्ठया।
अज्ञातचर्यया वर्षमावयोर्युधि जीयते॥३६॥

( युधिष्ठिरस्तदेवानुवदति। उभौ क्रीडतः। )

** शकुनिः —**जितं जितं महाराजदुर्योधनेन।

(नेपथ्ये।)

पञ्चानां या कलत्रं द्रुपदमखविधावद्भुतं जन्म यस्याः
पूता या राजसूयावभृथपरिगमे मन्त्रपूतैः पयोभिः।

तामेतां द्यूतदासींकुरुपतिनियमं मूर्ध्नि कृत्वा मयान्तः
केशेष्वाकृष्यमाणां शृणुत नृपतयो यस्य शक्तिः स पातु॥३७॥

** दुर्योधनः —** कथमयं संपादितमदाज्ञः सद्रौपदीको वत्सो दुःशासनः प्राप्तः।

(ततः प्रविशति यथानिर्दिष्टा द्रौपदी दुःशासनश्च। दुःशासनस्तदेव पठति।)

** सुनन्दा —** (सहसोपसृत्य हस्तामोटं नाटयन्ती।) दुःशासन, मुञ्च मुञ्च पाञ्चालीकेशपाशम्।

** दुःशासनः—** ( तामपनुद्य समन्तादवलोक्य विहस्य च।)

यन्मुक्तः स्फारतारध्वनिभरितसभाकुञ्जगर्भः सरोषं
हुंकारः कातराणां तरलितहृदयः फाल्गुनस्याग्रजेन।

कुर्वद्भिर्हारवल्लीनहननिबिडिताञ्जूटकूटान्नृपैस्त-
न्यस्ताः खङ्गेषु रत्नत्सरुषु सरभसं संप्रहाराय हस्ताः॥३८॥

सुनन्दा — (पुनः पाणिमोटनं नाटयित्वा।)

अम्बाचुम्बितपल्लवानां20 बहुना स्नेहेन धृष्टद्युम्नो
येषां पुष्कलवेणिबन्धनकरः स आस्ते रात्रिंदिनम्।

चण्डं पाण्डवगेहिन्याश्चिकुरे रे कर्षता त्वया
किं दुःशासनदुःसहाः कवलिता हाला हलाग्राङ्कुराः॥३९॥

** द्रौपदी—** वत्स दुःशासन, मुञ्च मुञ्च केशपाशम्। कथमेकवस्त्रा भूत्वा गुरुनरेन्द्रपुरतः संचरिष्ये।

दुःशासनः

(विहस्य।) नन्वपनयाम्येकवस्त्रतां कोटवीकरणेन21। (बहुवस्त्रतापनयनं नाटयन्।)

यावन्नैकं द्रुपददुहितुः कृष्यते वस्त्रमस्या-
स्तत्स्थानेऽन्यद्भवति पिदधत्तावदङ्गं ततश्च।

खिन्नं चैतन्मम करतलं वाससां चैष राशि-
स्तन्मन्येऽसौ त्रिभुवनमनोमोहिनीं वेत्ति विद्याम्॥४०॥

** द्रौपदी —** भो दुःशासन, मम किमपतिव्रताजनोचितं करोषि।

** दुःशासनः –** अये पाञ्चालि, पञ्चानां कलत्रं भूत्वा किमपि ब्रीडसे।
(साक्षेपम्।)

हे द्रौपदि त्वमसि का पतिव्रतानां
किं दृष्टपञ्चपुरुषा वनिता कलत्रम्।

दुर्योधनस्य तदिमं भज वाममूरु-
मास्फालितं मुकुलिताङ्गुलिना करेण॥४१॥

** द्रौपदी —** (तदनादृत्याञ्जलिंबद्ध्वा) हंहो सभासद्मस्थिता गुरवो नरेन्द्राश्च, द्रौपदी निर्णयं पृच्छति।

(नेपथ्ये।)

द्रौपदि, विकर्णस्त्वामाह — ‘कीदृशो निर्णयः’।

** द्रौपदी —** किमहं प्रथमं हारिता द्यूते आत्मा वा धर्मनन्दनेन।

(नेपथ्ये।)

प्रजावति, तवायमभिप्रायः—

यद्यहं हारिता पूर्वंभवामि द्यूतकिंकरी।
आत्मा वा हारितः पूर्वंतदा नास्मि च हारिता॥४२॥

** दुःशासनः—** अरे रे अकर्णविकर्ण, सभामध्यमध्यासीने भुवनपतावार्यदुर्योधने किमित्थं प्रलपसि।

(प्रविश्य।)

** विकर्णः —** ( साक्षेपम्।)

द्यूतं क्षत्रकुलव्रतं न स भवेज्जेतुः पणः स्वामिनः
संरम्भः किमकाण्ड एव भवता सद्वर्त्म यत्त्यज्यते।

भो दुःशासन कः क्रमो द्रुपदजाकेशाम्बराकर्षणे
दुर्वृत्तं क्षमते न कस्यचिदयं भ्राता विकर्णस्तव॥४३॥

** दुर्योधनः—**(सभ्रुकुटीबन्धम्।) अरे रे धार्तराष्ट्रबटो, वाचाटोऽसि।

** विकर्णः —** तदद्यप्रभृति

न्यायवादी विकर्णोऽत्र भवद्भ्योयो यद्यहं बहिः।
तद्यूयं शतमेकोनं षट् च संप्रति पाण्डवाः॥४४॥

** दुर्योधनः —** तदतिमुह्यतस्तव कतरः पन्थाः।

** विकर्णः —**

यां मे बलः स बलवान्दलितप्रलम्बां
शिष्येषु सत्स्वपि महत्सु गदामदत्त।

सा मे यदादिशति हस्ततलावतीर्णा
दुर्वृत्तखण्डनविधौ मम सोऽत्र पन्थाः॥४५॥

(समन्तादवलोक्य।)

क्षत्त्रैकत्रासचिन्ताकुलमनसि नभः सिन्धुपुत्रे पवित्रे
द्रोणे द्राक्श्मश्रु शुभ्रं वलयति शकुनौ शिक्षयत्यक्षशिक्षाम्।

कर्णे कर्णान्तिकस्थे हसति कुरुपतौ दृष्टयः पाण्डवानां
द्रष्टुं दुःशासनं च क्षितिपतितिलकं यान्ति धर्मात्मजं च॥४६॥

(दुःशासनः’हे द्रौपदि’ (२।४१ ) इत्यादि पठति।)

** विकर्णः —** (विचिन्त्य।) अहो उचितकारिता पाण्डवानाम्।

आकर्ण्य कौरव कुमारबलं प्रचण्ड-
मत्युल्लसन्ति गुरुरोषकषायताराः।

द्राग्दृष्टयो नृपतिसंसदि पाण्डवानां
दृष्ट्वा युधिष्ठिरमुखं पुनरापतन्ति॥४७॥

(पुनरवलोक्य) अहो किमपि महारम्भः सभासदां क्षोभः।

च्योतच्चूडामणीनां चलनझणझणत्कारिहारच्छटानां
प्रेङ्खोलत्कङ्कणालीकलकलमुखरैर्दोर्भिरुड्डामराणाम्।

निःश्वासैः साट्टहासं किमिदमिदमितो वेल्लितभ्रूलतानां
संक्षोभो भूपतीनां विततमपि सभागर्भरन्ध्रंरुणद्धि॥४८॥

(पुरोऽवलोक्य।) अहो कौरवपतेराज्ञा। अहो सत्यता महीपतीनाम्।

अस्मिन्महासदसि कौरवपाण्डवीये
क्षोभं गते द्रुपदजाचिकुराञ्चनाभिः।

दुर्योधनेन भृकुटी कुटिलीकृता च
जाताश्च भूमिपतयो लिखिता इवैते॥४९॥

( सरभसं युधिष्ठिरमुपसृत्य।) आर्य युधिष्ठिर, प्रतिष्ठस्व वनवासाय। द्यूतहारितमनुष्ठीयताम्।

(सर्वे समुत्तिन्ति।)

** द्रौपदी —** रे रे दुर्योधन,

एष22 मे कचकर्षणापरिभवः आमुक्तबन्धक्रम-
स्तत्सत्यमेव चञ्चरीकरमणीया केशपाशच्छटा।

नखाग्राङ्कुशकोटिपाटितमहादुःशासनोरः स्थली-
रक्तोल्लेखिकरेण निश्चितमिदं भीमेन या बध्यते॥१०॥

** भीमः—** रे रे दुर्योधन, भीमसेनस्य शृणु प्रतिज्ञाम्।

येनेयं याज्ञसेनी नृपसदसि हठात्केशहस्ते गृहीता
यश्चास्याः कोटवीत्वं बत विदधदितो वाससां राशिकारः।

सोऽहं तेनैव शेषारुणनयनपुटः पाणिनोत्पाटितेन
त्वां हन्ता हन्त वक्षस्तटभुवि रटतो दुष्टदुःशासनस्य॥५१॥

अपि च रे रे दुर्योधन,

नखक्रकचपाटनत्रुटितकीकसाद्वक्षसः
शिरासरणिभिर्मृधे रुधिरमुत्फलत्फेनिलम्।

महाञ्जलिमयं रुषा हृदि निवेश्य दौःशासने
युधिष्ठिरसहोदरः शृणु वृकोदरः पास्यति॥१२॥

किं चैकस्मिन्नपराद्धेऽपि तत्सहचारिणोऽप्यपराद्धारः। ततश्च।

द्रोणादुपार्जितधनुर्निंगमप्रकर्षा-
त्सर्वानपि स्थितवतो वयसि प्रकाशे।

भ्रातृञ्शतं तव हनिष्यति भीमसेनः
काले गदप्रहरणो रणकर्मशौण्डः॥१३॥

ततश्च।

दोर्दण्डमण्डलितचण्डगदाप्रहारै-
रामूलतस्तदिति त्रुटितोरुसंधेः।

दुर्योधनस्य विकटां मुकुटाग्रपीठीं
द्राग्लोठयिष्यति रणे चरणेन भीमः॥५४॥

** शकुनिः—** निर्गच्छत वनवासाय। को हि द्यूतजितानामुद्विजते मौस्वर्येण।

( इति निष्क्रान्ताः सर्वे। )
इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके
द्वितीयोऽङ्कः।

कर्पूरमञ्जरीस्थश्लोकानां सूची ।

<MISSING_FIG href="../books_images/U-IMG-1727793840Screenshot(99"/>.png)

अकलि अपरिरम्भविब्भ किं मेहलावलअणेउरसे
अकुङ्कुममचन्दणं दहदि किसलअकरचरणावि
अग्गम्मि भिङ्गसरणी … कीए वि संघडइ कस्स
अङ्गं चङ्गंणिअगुणगणा कुडिलालआणँ माला
अङ्गं लावण्णपुण्णं सवण कुन्तलेसरसु आकरफं
अत्थणिएसा ते च्चिअ कुरबअतिलआसोआ…
अत्थाणी जणलो अणाण केदईकुसुमपत्तसंपुढं.
अन्तो णिधिट्ठमणविब्भ कोउहल्लवसचञ्चलवेसा
असोअतरुताडणं रणिद गाअन्तगोवअवहूपदपे
इअ एआई विलासुज्जलाइँ घणमुव्वट्ठदमङ्गं कुङ्कुम
इअ देवीअ जहिच्छं… घणसारतारणअणाइ गू
इमा मसीकज्जलकालका चन्दपालधरणीहरिणङ्को
इहकुसुमसरेक्कगोअराणं चाउहाणकुलमौलिमा
इह जइ वि कामिणीणं चित्ते चिहुट्टदि ण खुट्टदि
ईसा सप्पसादप्पणदिसु छोल्लन्ति दन्तरअणाइँ गदे
उग्घाडीअन्ति लीलामणि जच्चञ्जणजणिदपसाहणाइँ
उच्चेहिं गोउरेहिं धवल जं धोअञ्जणसोणलोअ
उट्ठिऊण थणभारभङ्गुरं जं मुक्का सवणन्तरेण…
उभएसु वि सवणेसुं जंस्सि विकप्पघडणाइक
उवरिट्ठिअथणपब्भारपी जा चक्क वट्टघरिणी ज
एक्केण पाणिण लिणेण जाणं सहावपसरन्तस
एदं वासरजीवपिण्डसरिसं जाणे पङ्करुहाणणा
कण्ठम्मि तीअ ठविदो … जादं कुङ्कुमपङ्कलीढमर
कप्पन्तकेलिभवणे जिण्णा पुरो ण हरिदा
कावि वादिदकरालहुडु जे कण्टआ तिउसमुद्ध
किं लोअणेहिं तरलेहिं जे णवस्य तिउसस्स …
किं कज्जंकित्तिमेण… जे तीअ तिक्खचलचक्खु
किङ्किणीकदरणज्झणसद्दा जे रूअमुक्का वि विहूस
किं गेअणट्टविहिणा…. जे लङ्कागिरिमेहलाहिँ
जेस्सा दिट्ठी तरलधवला परुसा सक्कअबन्धा पाउ
णअणाइँपसइस रिसाइँ फुल्लक्कुरं कलमकूरसमं…
ण ट्ठाणाहिं तिलन्तरं वि बालकई कइराओ णिब्भ
णवकुरबअरुक्खो कुम्भ बालाअ होन्ति कोऊहलेण
णहवहलिदजोह्णाणिब्भरे बालो वि कुरबअतरू
णिसग्गचङ्गस्स वि माणु० बिम्बोट्ठे बहलं ण देन्ति
णिसा तलिनवित्थरा तह भद्दं भोदु सरस्सईअ…
णीसासा हारलट्ठिसरिस भाव कहिज्जदु एदं को
णूणं दुवे इह पवाअइणो भुअणजअवडाआ रूअ
तदो चउस्सट्ठिसु सुत्तिसु भूगोले तिमिराणुबन्धम
तहारमणवित्थरो जह मज्झण्णलह्लघणचन्दन
ताडङ्कजुअं गण्डेसु बह मज्झण्णं सिरिखण्डपङ्क
तिक्खाणं तरलाणँकज्ज मज्झ हत्थठिदपाणिप
तिवलिवलिअणाहीबाहु मञ्जिट्ठि ओट्ठमुद्दा णवघ
तिस्सा दाव परिक्ख मण्डले ससहरस्स गोरए
तीए णिभम्बफलए णिवे० मण्णे मज्झं तिवलिवलिअं
तेणावि मुत्ताहलमण्डलेण मन्तो ण तन्तो ण अ किं
थोआणं थणआणँ कण्ण मरगअमञ्जीरजुअं चरणे
दंसेमि तं पि ससिणं… मरगअमणिजुट्ठा हारलट्ठि
दज्झन्ता गुरुधूपवट्टिक मा कहिं पिवअणेण…
दट्ठूण थोरत्थणतुङ्गिमाणं माणं मुञ्चध देह वल्लह…
दिण्णा वलआवलिओ मुक्कसङ्क हरिणङ्क किं तुमं
दिसवहुतंसो णसरहंसो मुत्तिं भणन्ति हरिबह्ममु
दूरे किज्जदु चम्पअस्स मुद्धाणँ णामहिअआइँ
देन्ता कप्पूरपूरच्छुरण मूलाहिन्तो परहुअवहूक
दोलन्दोलणलीलासरन्तस मोत्ताहलिल्लाहरणुच्चआओ
दोलारअविच्छेओ कहं मोत्तूण अण्णा मणिवार
पञ्चङ्गंणवरूअभङ्गिघडणा रणन्तमणिणेउरं झणझण
पण्डीणंगण्डवालीपुलअण रणिअवलअकञ्चीणेउरा
पण्डुच्छविच्छुरिदणाअल रण्डा चण्डा दिक्खिदा
पण्डुरेण जइ रज्जए मुहं राअसुअपिच्छणीलं पट्टं
परं जोह्वाउह्वागरलसरि लङ्कातोरणमा लिआतर
परिब्भमन्तीअ विचित्तव
लावण्णं णवजच्चकञ्चण ससहररइअमरोट्ट माणि
लीलुत्तंसो सिरीसं सि ससिहण्डमण्डणाणं समोह
लोआणं लोअणेहिं सह सह दिअहणिसाइं दीहरा
विच्छाअन्तो णअररम॰ सिविणअमिअं असच्चं त
विस व्व बिसकन्दली सो अस्स कई सिरिराअ०
सत्थो णन्ददु सज्जणाणँ सो सट्टओ त्ति भणई दूरं
सपञ्चमतरङ्गिणो सवण हंसि कुङ्कुमपङ्कपिञ्जरतणुं
समांससीसा समबाहुहत्था हत्थे महामंसबलीधराओ
संमुहपवणपणोल्लिअवरि हिन्दोलणलीलाललालम्पडं
ह्णाणावमुक्काहरणोच्चआए

बालभारतस्थ श्लोकानां सूची ।

<MISSING_FIG href="../books_images/U-IMG-1727877489Screenshot(99"/>.png)

अनूचानो हि यद्ब्रूते सा जातं कीकसभङ्गतः शक
अम्बाचुम्बितपल्लवानां ब जैत्रं तन्त्रं कुसुमधनुषः…
अयमहमिह विप्रः प्रोत ज्येष्ठत्वात्पाण्डुपूज्यस्य धृत
अयमहिमरुचिर्भजन्प्रतीचीं झणज्झणितकिङ्किणीमुखरकं
अस्मिन्महासदसि कौरव तत्रोत्सर्पिणि राजसूयसमये
अस्य वैष्णवमिदं महाधनुः तरङ्गय दृशौ मनाक्स्थगय
अस्यासमं समरकर्म दिदृ तस्यैष शम्बरमहासुरसु…
अस्याहवे दलित दाडिम दक्षिणं करमुपैति वामतो
आकर्णाञ्चितचापमण्डल दन्तोलूखलिभिः शिलोञ्छि
आकर्ण्य कौरव कुमारबलं दुःशलागुणगणेन रञ्जितो…
आ देवाद्दिव्यपङ्केरुहसदन दुर्नमं यदि मुरारिकार्मुकं
आद्यः कन्दो वेदविद्याल दुर्नमं दहनसंभवं धनुः
आपन्नार्तिहरः पराक्रमधनः दुर्योधनो नृपकिरीट वि
आर्यो वेत्ति निजां न विक्र दुर्योधनो मन्युमयो महा
उत्पाटितमहातालः क्लृप्त दूरोदञ्चिमरीचिरत्नरचनाचि
उद्यतः क्रतुकृशानुजन्मनः देवश्चन्द्रकुलप्रतापतिलकः
एतत्कृष्णस्य शार्ङ्गं ननु … देवस्य द्युमणेः कुले नृप
एष मे कचकर्षणापरिभवः दोर्दण्डमण्डलितचण्डगदा
ऐलः प्राक्स पुरूरवाः प्रभु द्यूतं क्षत्रकुलव्रतं न स….
कण्ठे मौक्तिकदाम गण्डत द्यूतं क्षत्रकुलव्रतं न स….
कर्णप्रावरणैः सहैकचरणा द्रोणादुपार्जितधनुर्निंगमप्र
कस्य द्रोणो धनुषि न गुरुः द्रौपदीं परिणयन्तमर्जुनं …
किं वाजिभिः किमु गजैः धत्से जर्जरतां न मेदिनि
किं किं किं चुचु चुम्बनै धनुर्विद्यारहस्येषु शिष्योऽयं
कुर्वन्त्यो नयनैरपाङ्गतरलै धर्मे चार्थे च कामे च मोक्षे
क्षत्त्रैकत्रासचिन्ताकुलमनसि धारितं द्रुपदजास्वयं वरे
गान्धाराधिपतेः पुत्रः सुब धृष्टद्युम्ने विषण्णे हसति मु
चापं प्रति त्रिचतुराणि प ध्रुवमिदमुपदिष्टं कैश्चिदा
च्योतञ्चूडामणीनां चलनज्ञ नकुलस्यापि ते भ्रातुर्भ्राता
नखक्रकचपाटनत्रुटितकीक
नमः शिवाय संसारसरो राजशेखर कवेर्महात्मनो
नमितमुरलमौलिः पाकलो ये सीमन्तितगात्र भस्मरज
नाले शौर्यमहोत्पलस्य वि योगीन्द्रश्छन्दसां द्रष्टा रा
निरर्गलविनिर्गलद्गुलगुलाक यो भार्गवाद्भगवतोऽर्जितचा
निर्दिशन्तु निजबाहुविक्रमं यो मन्थानकरः क्रतौ निज
निर्यद्वासरजीव पिण्डकरणिं यौवराज्याभिषेकार्हो वीरो
निर्यान्ति यस्य वदनाद्वि रणन्मणिनूपुरा रणरणद्धा
नीलाम्बरं नलिनदाम च राजन्युधिष्टिर नराधिप …
न्यस्तं ताण्डवितभ्रु चक्षुर राजशेखरकवेर्महात्मनो
न्यायवादी विकर्णोऽत्र राजसूयक्रतोर्यज्वा पाण्डवो
पञ्चानां या कलत्रं द्रुपदम राजसूयक्रतोर्यज्वा पाण्डुपु
पाणिप्रस्थैर्बकुलसुमनःसौरभं राजावलीक्रमायातो राज
पादो वाससि सान्द्रकुङ्कुम रे रे ब्राह्मण मुञ्च विप्लवम
प्रथयति पात्रविशेषान्सामा रेवतीं त्रिभुवनैकसुन्दरीं न
प्रसर्पतु रणाङ्गणे रुधिरकेलि लक्ष्मीसंवननैर्भुजैर्नृपतयः
बभूव वल्मीकभवः पुरा वर्षाणि द्वादशारण्ये सह
ब्रह्मभ्यः शिवमस्तु वस्तु वल्गच्चाणूरचूर्णीकरणसहभु
मद्बाहुयन्त्रयुगयन्त्रितमातत वाच्यं यत्र दुरुक्तयः कुच
महीधरधरासु ये सनिनदं विनायको यः शिवयोरप
मायामये मयसभाधितले विवर्तयाक्षाञ्शकुने शार
यः पीयूषभुजां पुरः प्रह वीर्यं वचसि विप्राणां क्ष
यः सत्यस्य निधिः श्रियां वृषतुरगकरीन्द्रस्यन्दनाद्या
यदुक्तिमुद्रासुहृदर्थवीथी वैकुण्ठकार्मुहठाक्रमणै…
यद्यहं हारिता पूर्वं भवामि व्यासो वैखानसवृषा सत्यः
यन्मुक्तः स्फारतारध्वनि व्रीडानतेषु वदनेषु च….
यस्मिन्मदस्य मदनस्य… शंभोर्मूर्ध्नि गतागतानि कुरुते
यागकुण्डशिखिगर्भसंभवं शारीद्यूतकलाकुतूहलि मन
यात्राकृतोऽस्य चतुरङ्गच शिशुपालमहीपालो मेक
यां मे बलः स बलवान्दलि शिष्योऽस्मि भार्गवमुनेः
यवन्नैकं द्रुपददुहितुः कृ श्रियः प्रसूते विपदो रुणद्धि
युधिष्ठिरो धर्ममयो महा श्रीनिर्वासतडिण्डिमो घन
येनेयं याज्ञसेनी नृपसदसि श्रोणीबन्धस्त्यजति तनुतां
संकलभुवनरक्षास्त्रस्ततन्द्रा
संकर्षणान्निजतनूज्वलकी० सौहार्दात्प्रणादथ प्रथिमतः
संघट्टोपिष्टचूडाच्युतमणि० स्मितपरिचयावृ
सत्यसंधो जरासंधः क्रान्त० स्वस्त्यापस्तम्ब तुभ्य त्वमः
सदाशिवप्रशिष्योऽयमवधिः० हंहो हस्त कृतास्त्र दानस०
संभूता द्रुपदाध्वरे हुतभुजः० हरचूडामणिरिन्दुस्त्रिजगद्दी०
सर्वे कार्मुककर्मठाः क्षिति० हा मन्त्रं शकुनेः कुलक्षयकरं
सायकश्च त्वया मुक्तो यन्त्रं० हारोऽयं केरलस्त्रीविहसित०
सा शुक्तिर्मधुपानकेलिचष० हे द्रौपदि त्वमसि कात्र
सिन्धुयन्त्रितयात्रोऽयं सि० हेलानमन्नृपकिरीटविटङ्क
सुधावीचीमुचां वाग्भिर्वि० हेलालोडितपाण्ड्यकेरलब०

[TABLE]

Registered according to det XXVof is
(All rights reserved by the Publisher)

[TABLE]

समरपुंगवदीक्षितः, तदीयो यात्राप्रबन्धश्च।
<MISSING_FIG href="../books_images/U-IMG-1727588069Screenshot(99"/>.png)

अतिरात्रयज्वा वाधूलकुलजलधिकौस्तुभः कनकाठपाठबिरुदाङ्कः श्रीसमरपुंगवदीक्षितनामायं कविः षोडश्याः ख्रिस्तशताब्द्या(१५७४ ख्रिस्ताब्दात् परम्) अन्ते दक्षिणदेशे बटनाभिधाननाम्नि नगरे श्रीवेङ्कटेशादनन्तम्मायां जन्म लेभे इति तदीये यात्राप्रबन्धे लिखितया ग्रन्थनायकजननकालिकया ग्रहस्थित्या, द्वितीयाश्वासे ‘सौभागिनेयः’ स तदा शोभायै श्रुतिसंपदाम। असेवत शिवाकल्पकल्पमापय्यदीक्षितम्॥’ इत्यादिना कृतेन तदात्वएव वर्तमानस्य सुप्रसिद्धस्य विद्वद्वरेण्यस्य श्रीरङ्गराजाध्वरेस्तनूद्भवस्य चित्रमीमांसाद्यनेकनिबन्धरचयितुः श्रीमदप्पयदीक्षितस्य वर्णनेन च सुस्पष्टमभ्युपगम्यते।

सा ग्रहस्थितिर्यथा—

‘अथा’ युपतकेसारण्याहमभान मप गत
कलावति तुलाधरोदयमुपेयुषिस्वामिनि।

स्वम्रूद्वजुषिवाक्पतौमकरभाजि मित्रात्मजे
शुभैकजनजंदिनेसुतमसूतशातोदरी॥

सिंहिकातनुभुवा सह योगः सांप्रत मृगपतेरजनीति।
स्पर्धमान इव पुत्रमुदार प्रत्यपद्यत स पुरुषसिंहः॥’ इति।

श्रीमदप्पयदीक्षितस्य समुद्भवमयस्तु संस्कृतचन्द्रिकायाः पृष्ठे खण्डे तदीयजीवनचरितोपन्यासेऽम्मन्प्रियगृहत्प्रवरैः श्रीमांद्भर्विद्यावाचस्पतिभिः श्रीमदप्पाशास्त्रिभिर्बहुभिः प्रमाणैः श्रीमद्दीक्षितवशोद्भवेः श्रीवैद्यनाथशास्त्रिभिः प्रेषितस्तत्स्थितिसूचकश्लोकैश्च १५५४ ख्रिस्ताब्दो निर्णति एव। उपरितना ग्रहस्थितिरप्पयदीक्षितजन्मनो विंशतेर्वर्षेभ्यः परमासीदिति नातिरोहित ग्रहस्थितिविदाम्। एतावता पर्यवसितं यत्किल कविरयं १५७४ ख्रिस्ताब्दात्पर वभूवेति।

कवेरस्य अनन्ताम्मा श्रीवेङ्कटेशश्चपितरौ। द्राविडजातीय एवायं भवेदिति तदीयबिरुदावल्या तन्नाम्ना चानुमीयते।

ग्रन्थोऽय समरपुगवदीक्षितेन स्वस्य ज्येष्ठभ्रातुस्तीर्थयात्रामधिकृत्य विरचित इति दक्षिणेषु तीर्थयात्राप्रबन्धनानाप्यस्य प्रसिद्धिः।

ग्रन्थस्यास्य पुस्तकमेकमभ्यर्धसप्तमाश्वासपर्यन्तं स्वर्गवासिभिः श्रीकाशीनाथपरबमहोदयैः प्रेषितम्। अध्यर्धसप्तमाश्वासात् समाप्तिपर्यन्तं मद्रपुरस्थराजकीयपुस्तकालयात् श्रीमतां रावबहादुरपदविभूषितानां श्रीरङ्गाचार्यमहोदयानामनुज्ञया श्रीवरदाचार्यमहोदयैः प्रेषितमिति तयोः कृतज्ञाः स्मः। शेमुषीदोषादक्षरयोजकदोषाद्वा यदत्र स्खलितं स्यात्तत्क्षाम्यं श्रीमद्भिरिति शम्।

केदारनाथवासुदेवशर्माणी

काव्यमाला संपादकौ।

यात्राप्रबन्धस्य विषयक्रमः

<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1727538754Screenshot(99"/>.png)
प्रथम आश्वासे (पृ. १ — १७ पृ.)

मंङ्गलाचरणादिकम्, वटवनाभिधानाया राजधान्या वर्णनम्, तत्रत्यधर्मशिवयोगिनः स्वस्रासह ग्रन्थकर्तृजनकस्य श्रीवेङ्कटेशस्य परिणयः। तस्याः पुत्रप्राप्त्यर्थं शिवाराधनम्, विमुक्तिकासारस्नानम् सूर्यस्तुतिः कात्यायनीदर्शनम्, कात्यायनीस्तुतिः, द्विपास्यदर्शनम्, द्विपाभ्यस्तुतिः, नान्दकेश्वरस्तुतिः शिवस्तुतिः, गौरीस्तुतिश्च। तत्प्रसादात् गर्भधारणं चित्येते विषयाः।

द्वितीय आश्वासे (पृ. १७ – २७ पृ.)

पुत्रोत्पत्ति, पुत्रस्य विद्याभ्यासादिकम् पाणिग्रहणम्, सोदर्याभ्यां समरपुंगवसूर्यनारायणास्यासह श्रीमदप्पयदीक्षितसविधे विद्याभ्यासश्चेत्येते विषयाः।

तृतीय आश्वासे (पृ. २८ — ४९ पृ. )

वसन्तवणनम्, तीर्थयात्रार्थ प्रस्थानम्, प्रथम काञ्चिपुरीगमनम्, काञ्चीपुरीवर्णनम्, एकाम्रेश्वरवर्णनम्, एकाम्रेश्वरस्तुतिः कामाक्षास्तुतिः, विष्णुदर्शनम् विष्णुस्तुतिश्चेत्येते विषयाः।

चतुर्थ आश्वासे (पृ. ४९ — ६५ पृ.)

सूर्योदयवर्णनम्, उद्यानवर्णनम्, सूर्यास्तमनवर्णनम्, चन्द्रोदयवर्णनम्, प्रसङ्गवशादृतीप्रेषणम्, सभोगवर्णनम्, चेत्येते विषयाः।

पश्चम आश्वासे (पृ. ६५ — ८० पृ.)

कावेरीवर्णनम्, सेतुवर्णनम्, सेतुस्तुतिः, गन्धमादनपर्वतीयशिवस्तुतिः, पाण्ड्यदेशगमनम्, तत्र हालास्यपुरेमीनाक्षीस्तुतिः, शिवस्तुति, ग्रन्थनायकस्य द्वितीय उद्वाहश्चेत्येते विषयाः।

षष्ठ आश्वासे (पृ. ८० — १०६ पृ.)

ग्रीष्मवर्णनम्, गयातीर्थगमनोपक्रमः, मध्येमार्गं स्वामिकार्तिकस्तुतिः, माकनृपावलोकनम्, वेङ्कटेशदर्शनम्, कालहस्तिपतिशिवस्तुतिः अम्बिकास्तुतिः, श्रीपर्वतगमनम्, अहोबलपतिदर्शनम्, पुनश्चण्डीस्तुतिश्चेत्येते विषयाः।

सप्तम आश्वासे (पृ. १०६ – १२३ पृ.)

गोकर्णगमनम्, कतिपयनदीवर्णनम्, तदनुषक्तकतिपयपुर्यादिवर्णनम् मधुरापुरीस्थ मुकुन्दस्तुतिः, गङ्गास्तुतिश्चेत्येते विषयाः।

अष्टम आश्वासे (१२३ – १४० पृ.)

केदारेश्वरदर्शनम्, बदर्याश्रमविलोकनम्, कामरूपकामाक्षीस्तुतिः, कपिलाश्रमदर्शनम्, नीलगिरिगमनम्, तत्र जगन्नाथस्तुतिः, ततो गयाक्षेत्रगमनम् ततश्चविविधतीर्थावगाहनानन्तर विन्ध्येश्वरीस्तुतिः प्रयागे स्त्रोतस्विनात्रिकसमागमस्तुतिः, साकेलगमनम्, तत्र रामभद्रस्तुतिश्चेत्येते विषयाः।

नवम आश्वासे (पृ. १४० - १५१ पृ.)

वाराणसीगमनम्, वाराणसीस्तुतिः, विश्वेशस्तुतिः, ईश्वरीस्तुतिः, ग्रन्थसमाप्तिश्चेत्येविषयाः।

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1727539376Screenshot(100"/>.png)
श्रीसमरपुंगवदीक्षितविरचितो

यात्राप्रबन्धः।

!#23.png)

प्रथम आश्वासः।

श्रियं स पुष्णातु वृषध्वजो मे जिगीषतो यस्य पुरानुपूर्वीम्।
चक्रीभवद्भूधरचापसङ्गी बाणोऽपि चक्री भवति स्म जैत्रः॥ १॥

पौलोम्यर्पितपादुका चरणयोः पाणिस्फुरद्वेत्रया
भारत्या पुरतो निवारितजना पद्माकरालम्बिनी।

प्रक्रान्तस्तुतिरद्रिराजतनया प्राचीनवाचां गणै-
रायान्ती पतिमन्दिरं निजगृहादन्तर्मम द्योतताम्॥ २॥

वामस्तनवलदाननमन्यकुचादानतरलहस्ताग्रम्।
आत्म जमवलोकयतोः शिवयोरेकः स्मिताङ्कुरो जयति॥ ३॥

बिरलीभवद्विलोकनतरलीकृत गोपभीरुचैतन्यम्।
करलीलया मुखार्पितमुरलीवादनपरं महः सेवे॥ ४॥

आनन्दायास्तु कालिन्दी पुरः स्तान्मे सरखती।
निद्ब्रुतां जह्रुतनया रंहसा राशिमंहसाम्॥ ५॥

काचीमुखानि परमावधिकाशिकानि
पुण्यस्थलानि कतिचित्क्षितिभूषणानि।

चारूणि योजयितुमग्रजसत्कथायां
कुर्वे मतिं गुणतताविव मौक्तिकानि॥ ६॥

देशिकस्य कृपया हि देहिनामापतन्ति पुरुषार्थसंपदः।
तत्कथारसनिमज्जनं बिना मत्कृतेरनघता कथं भवेत्॥

कल्याणनिधिमाचार्यकटाक्षं किमिति स्तुमः।
ईश्वराणां प्रसादोऽपि यस्यावसरमीक्षते॥८॥

कालिदासकविमुख्यभारतीपारणाकृतिन एवपण्डिताः।
भाषिते मम भजेयुरादरं स्वादुसेविन इवाम्लवस्तुनि॥९॥

फाणिताञ्चितपयः सहोदरे गद्यपद्यमयकाव्यगुम्फने।
चापलं किमपि मे रसज्ञया स्वानुरूपमनयानुभूयते॥१०॥

पद्येषु बाहुल्यमिह प्रबन्धे मितानि गद्यानि तु तावतापि।
अस्त्येव लक्ष्मानुगमो रसज्ञैर्विच्छित्तिभेदाः परमीक्षणीयाः॥११॥

महाकविसरस्वती मधुरकाव्यनिर्वर्तने
प्रसन्नपदलिप्सया परमुखानि नापेक्षते।

अलंकृतिविधौ मणेरधिगमाय कि गाहते
भुवं त्रिदशधाम वा भुजगराजसीमन्तिनी॥१२॥

अस्ति समस्तविध्यण्डरञ्जनोच्चण्डताण्डवोदञ्चितचरणकंजनखमयूखशशाङ्कोदयसंकोचितभद्रकालीमुखनालीकस्य भ्रमणाटोपपर्यस्तजटाजूटगभस्तिझाटघटनाम्रेडिततडित्पुञ्जपिञ्जरिम्णो डामरडमरुडात्कारप्रतिरवपूरितामरालयस्य भ्रमरालकानुरागसृमरापाङ्गभृङ्गास्वादितवदनारविन्दसौन्दर्यमकरन्दस्य चिरंतननर्तकशिखामणेरानर्तकभूमिरभूमिरापदामनेक लोकाशयविभक्तरागाभिनिवेशविलासिनीकुचपीठमर्दकपीठमर्दकविटविदूषकजना वटवनाभिधाना राजधानी।

यस्यां वचःस्वादिमभिक्षुरिक्षुर्यानप्रशंसाकृत एव हंसाः।
वन्दी मुखस्येन्दुरणूदरीणामिन्दीवरश्रीर्नयनांशुबन्दी॥१३॥

तत्र जयति विचित्रतरचरित्रातिशयसपत्राकृतात्रिमुखतपोधनानुभाव स्वभावविमलमनीषादर्शदर्शनीयषड्दर्शनीरहस्यः प्रशस्यतरं प्रदेशनयशोदेशिकान्तेवसदरविन्देशसुतमन्दारजलदचिन्तामणिः शैवागमजैवातृकोदय शैवालिनीपतिर्नैष्ठिकाचारप्रतिष्ठापन गरिष्ठापदानो मन्मथविजयकर्मण्यप

व्यत्यासं व्याससूनोर्विनिमयममराचार्यवर्यस्य वीप्सां
पाराशर्यस्य मैत्रावरुणिगुणनिकां धर्मसूनोर्विभाषाम्।

प्रत्यादेशं दधीचेः सनकपरिणतिं नामभेदं मृकण्डो-
स्तण्डोः पर्यायमत्रेर्यमकमिह सुधीधुर्यमाहुर्यमार्याः॥१४॥

कलानिधेरस्य विधोरिव श्रीः कापि स्वसा काञ्चनपेशलाङ्गी
श्रीवेङ्कटेशव्यपदेशभाजो वरस्य जाया हृदयंगमासीत्॥१५॥

अस्याः किल रमणीमणेरपरगृहिणीसमाजदुरवापा गुणकलापास्तरुणिमारम्भ एव जजृम्भिरे।

तस्याश्चङ्क्रमणे विलम्बनमभूत्तन्व्या न दीनावने
तारल्यं दृशि नेन्द्रियेषु तनुता मध्ये न नित्योत्सवे।

वामत्वं भ्रुवि न प्रियानुसरणव्यापारलीलाविधौ
काठिन्यं च कुचे न चेतसि कचे नाभाषणे वक्रिमा॥१६॥

एनां भरद्वाजकुलैकभूषामनन्तमाख्यामधिगम्य योषाम्।
वाधूलवंशप्रभवोऽनुरूप सुधीमणिः सोऽयमवाप शोभाम्॥१७॥

निरतिशयानुकूल्यनिष्ठागरिष्ठयोररुन्धतीवसिष्ठयोरिव परस्परानुभूतिसुभगभावबन्धमेदुरमनुपलम्भं सरणिगोचरं विप्रलम्भरसोदयम,लघुविस्रम्भभरनिवारितरहस्यार्थनिगृहनम, निवेदितोपपादितहिताहितविधिप्रतिकारमखिलगृहमेधिपरिषदं ननुकरणीयसांगत्यमनयोरजायतानुकूलदांपत्यम्।

नारीललाम्नश्चरितैरुदारैर्दूरीकृतस्वर्गसुखाभिलाषः।
प्रज्ञाधिभूरेष पिनाकपाणेराज्ञा धिया कर्म समाचचार॥१८॥

एष पुनरशेषधर्माचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेक्षणया प्रतिक्षणमापादितमनः सभाजनः सदनवर्तनमेव सकलपुरुषार्थमवधारयन्कदापि न वाराणसीप्रभृतिसेवासु भावमाबबन्ध।

सेयमविमुक्तरूपा श्रीपर्वतनिर्विशेषवक्षोजा।
पुष्करमुखी न कस्यै बभूव कान्तस्य कामनासिद्ध्यै॥१९॥

तस्य च सुमेधसः प्रबोधतरङ्गिणीपतिकुरङ्गलाञ्छने बाञ्छितवरप्रदानसंतानशाखिनि मन्दाकिनीतरङ्गमालतीदामशेखरे सागरमेखलाश-

ताङ्गसंचारकारिणि वारिधरमेचकांशुवास्तव्यकन्धरे सिन्धुरधूर्वहाजिननिर्व्यूढचेलकर्मणि सहधर्मिणीविवर्तभेदशरीरार्धमनोहरे वनेरुह भवादिशस्तचरितस्तोमशालिनि केलीविटावलेपनिर्वापणनिरीक्षणे सरीसृपाभरणधारिणि वरीयसि महसि गरीयसी भक्तिरभूत्।

वेधः शौरी मुकुटचरणौ वीक्षितुं यस्य नालं
प्राप्तो युद्धे यदुपकरणीभावमेष प्रपञ्चः।

यस्मिन्विश्वाधिक इति पदं याति विश्रान्तिमुद्रां
कण्ठेकालः स खलु भुवने कस्य न स्यादुपास्यः॥२०॥

मानं यस्य निवेदिताक्षिकमलो माहानुभाव्ये पुमा-
न्दातृत्वे वपुरर्धलाभसुखिता दाक्षायणी साक्षिणी।

त्रातो दण्डधरामृकण्डुतनभूर्द्रष्टा दयागौरवे
सेव्यश्चन्द्रशिखामणिः स हि कृतश्रेयोभिलाषैर्जनैः॥२१॥

संप्रदायसुगमं निगमानां तं प्रपद्य तरुणेन्दुकिरीटम्।
देवतान्तरगिरापि दरिद्रां भावयन्स जगती प्रजहर्ष॥२२॥

तस्य च सदनान्तरे हृदन्तरालविहरदीशानमुकुटभूषामणीकृतसोदर्यप्रीतिपरवशेव सरसिजालया चिरमुवास। कुमारिकावलोकनकुतूहलसमागतः कलशतरङ्गिणीपतिरिव तदीयशृङ्गिणीनां परिणाहमेदुरेषु परमूधःप्रकरेषु बिरेजे पयोतिरेकः। तस्य तपस्विजनभागधेयस्य दयाविधेयमतेरधिनिकेतनमत्यादरोपनीतं अभिजातगुणकरम्बितव्यञ्जनं परम्पराञ्चितमतिबहुलहैयंगबीनधारानुषङ्गसुरभिलं करनखंपचस्पर्शकमनीयभावसंभृतममृतरसातिञ्चामिमाधुरीविशेष संपन्नम,नैषमुस्त्यशाल्यमवनीमस्वभुजो बुभुजिरे।

भूसुरेषु गृहे तस्य भुञ्जानेषु न केवलम्।
असंख्यानमभूत्तेषामवस्थान दिनेष्वपि॥२३॥

महीसुरातिथ्यमहोत्सवेषु समेधमाने श्रमगौरवेऽपि।
प्रभातपद्मप्रतिमं प्रियायामुखं स पश्यन्मुमुदे मनीषी॥२४॥

श्रतुविरिहान्नदानविभवैरपि कुन्दलितै-
रनुदिवसोऽवक्तृप्तापिवुभावलितृप्तिविधेः।

न खलु निकाममस्य हुतशेषमभूदमृतं
विघसपदाभिधेयमपि भोजनशेषमहो॥२५॥

उपासनामुक्तिरकृत्रिमेव प्रसूय कांचित्प्रथमं कुमारीम्।
पुत्रोदये प्रत्ययजन्मनीव कुटुम्बिनी तस्य विलम्बते स्म॥२६॥

अथ कदाचिदपरिणतमणिसमूहामिव रोहणमहीधरतटीम्, अजनितपटीरसालामिव मलयशैलमेखलाम्, अपरिफुल्लरुचिरपल्लवामिव सुरविपिनवल्लरीम्, अनङ्कुरितपतङ्गकिरणजालामिव प्रभातवेलाम्, अनधिगतकनकारविन्दामिव मन्दाकिनीम्, अनासादितसुधांशुबिम्बामिव जम्भारिककुभम्, अनवक्लृप्तभाव्यनिर्वर्तनामिव यजनभावनाम्, अविभातव्यङ्ग्यमिव काव्यभङ्गीम्, अघटितसुखप्रकाशामिव ब्रह्मविद्याम्, अनासादितसमीरसारथिमिव वितानवेदिम्, अनुपनततनयजननामसितनयनामवेक्ष्य हृदयसरणिधृतव्यथः परिणीरिदमभाणीत्॥

आह्लादावहमञ्जनं नयनयोरङ्गे सुधालेपनं
धैर्यंचेतसि खेदनामनि गदे तत्तादृशं भेषजम्॥

क्रीडापोतमिह प्रसूतिजलधौ गेहे प्रकाशोदयं
पुण्यैरायतलोचनेपरिणतैः पुत्रं लभन्ते जनाः॥२७॥

उरोरुहादुद्गमितैः पयोभिरापूर्य केल्या निजमास्यगर्भम्।
फूत्कृत्य मातुर्वदने हसन्तं तनूभवं पश्यति कोऽपि धन्यः॥२८॥

सप्तद्वीपवसुंधराधिपतिना संक्रन्दनेनाथवा
पाथोजातभवेन कैटभजिता पश्यन्निटालेन वा॥

पुंसा केनचिदन्तरेण भुवने पुत्राभिधानं धनं
शक्या किं द्रविणान्तरैर्निरसितुं सा संपदि न्यूनता॥२९॥

किंबहुना।

बाघुलवाचंयमशैलवर्यात्संभूय संतानलता प्रवृद्धा।
नबाङ्कुरोद्भेदविलम्बिनीयंन सांप्रतं मे हृदयं धिनोति॥३०॥

श्रीनाथमपि मे निकेतनं बालकेन रहितं न भासते।
कंसशासन भुजान्तरं यथा कौस्तुभेन मणिना विनाकृतम्॥३१॥

रङ्गवल्लिरचनादि भवत्या प्रस्तुतं किमपि पाणितलेन।
अन्यथा विरचयन्पृथुको मे हा कदा भवतु लोचनलेह्यः॥३२॥

अथवा हरिणाक्षि चिन्तया कृतयैतहिं कृतं दुरन्तया।
विभुरेव विधास्यति प्रियं मदिराक्षीमयवामविग्रहः॥३३॥

अद्यप्रभृति समाराध्यतां कुमारावतरणाय वटवनीनिकेतनो भगवान्वृषभकेतनः।

मृकण्डुनाम्ने मुनिपुंगवाय दीर्घायुषं दत्तवतस्तनूजम्।
सपर्यया यस्य रमाकुटुम्बी साम्बेन लेभे सह शम्बरारिम्॥३४॥

इति प्रियतमादेशमिन्दीवरविलोचना।
निशम्य परिजग्राह नियमाचरणक्रियाम्॥ ३५॥

तथा हि। अहरहरियमवगाहनाय निर्गत्य निवासभवनादवनीं विलासमुकुरशेमुषीगोचरमरविन्दं करनिष्यन्दमानमकरन्दं सलिलदानमन्दीकृतभसलपान्थकुलपरिश्रान्तिगौरवं सरसबिसभङ्गभोजनमभाजितं विशदद्विजपरिषदनुवेलपरिशीलितं तरलतरपवनकीर्णं तामरसपरागपालिकाम्रेडितमज्जनागतं नागरमत्तकाशिनीकुचकलशकुङ्कुमाङ्गरागमम्भोजं सौधविम्बोकलालसकलशजलधिकन्यकाजघनमेखलाकलापकलकलानुसारिसारसनिनादमेदुरम्, अन्तरङ्गमिव तरङ्गिणीपतेः, प्राणसहायमिव मानसस्य, सोदर्यमिव पृथूदकस्य, पृथक्करणभेदमिव पुष्करस्य, विलासविशेषमिव प्रभासस्य, बिम्बान्तरमिव पम्पायाः, सगन्धमिव स्यमन्तपञ्चकस्य, सामन्तमिव बिन्दुसरसः, दुरन्तदुरितधोरणीनिवारणनिपुणशीकरासारमाससाद विमुक्तिकासारम्।

ब्यालेन्द्रनिर्धार्यगभीरभावो विभाव्यते यः परिणाहशाली।
त्रासादगस्त्यप्रभवात्कुतोऽपि तरङ्गमालीव निलीनमूर्तिः॥३६॥

पयोमृणालीप्रमुखेन वर्तनं वितन्वती भूतिविलेपनिर्मला।
अनेहसो यापनकर्म यत्र सा तनोति हंसाबलिरात्मचिन्तया॥३७॥

अस्तातपं क्षितिरुहैरधिगम्य तीरं
यस्याध्वनीनसुदृशो दिनयौवनेषु।

कान्तोपनीतमधिपत्रपुटंनलिन्या
कह्लारकैरवसुगन्धि पयः पिबन्ति॥३८॥

अथ तथात्वभवैरघसंहतिग्रहनिवारणयन्त्रगणैरिव।
उपनतावृतिरूर्मिकदम्बकैरकृत तत्र निमज्जनमङ्गना॥३९॥

कल्लोलगतिभिरुल्लोलमम्बुजनिकुरुम्बमपहाय समुच्चरन्ती षट्चरणपङ्क्तिरखिलजनपावनजलावगाहनसुकृतभयपलायमाना कुमारोदयविघातदुरक्षरावलिरिव मृगेक्षणायास्तत्क्षणमलक्ष्यत।

कृतेऽपि कैवल्यसरोबगाहे पश्चादभूद्बन्धविधिर्ममेति।
पयःकणव्याजविमुक्तवाष्पां स्नातोत्थिता सा कबरीं बभार॥४०॥

अनन्तरं सा हरिचन्दनाद्यैरर्कं समभ्यर्च्य तटेसरस्याः।
धरातलस्थापितजानुहस्तास्तुत्यानया स्यूतमुखी ववन्दे॥४१॥

त्रय्यात्मा त्रिगुणमयस्त्रिमूर्तिरूपः सृष्टिस्थित्यवधिकरो जगत्त्रयस्य।
कालेषु त्रिषु विधिकल्पितोपचारस्तापानां सृजतु शमं रविस्त्रयाणाम्॥४२॥

यत्सत्ताव्यपगमयोरिहाखिलार्थप्रत्यक्षीकृतिपटिमा पटुत्वलाभः।
भक्त्या मत्परिकलितेयमस्तु तस्यै देवाय त्रिभुवनचक्षुषे नमस्या॥४३॥

घस्रान्ते घनतिमिरोदयापदेशादाकाशे निपतति सत्यवाप्तमोहान्।
काल्ये तत्करनिकरैरुदस्य लोकान्भास्वन्तं भजत पुनः प्रबोधयन्तम्॥४४॥

नैराश्यादसुषु निजप्रवासरूढादालेढुंकमलकरोदरार्पितानि।
व्याधूय भ्रमरविषाणि यः कराग्रैःप्रत्यूषे रमयति पद्मिनीस्तमीडे॥४५॥

भारत्या धृतिमुषि भासि केऽपि लीनाः श्रीनीविद्रुहि महसीतरे निमग्नाः।
सक्तोऽयं जन इह तेजसि त्रिवेदी सीमन्तारुणमणिमण्डनायमाने॥४६॥

आलीभिरवनीदेवकेलीसहचरी ततः।
कालीनिकेतनं भक्तिव्यालीढहृदया ययौ॥४७॥

तत्र च नृशंसतरकंसहृदन्तरालसंताडनपाटलीकृतपदारविन्दां मधुकैटभतमिस्रहारिविधुपाटवविशेषदानविशदपक्षविभावरीं सैरिभदानवावलेपसरसिजावसादतुषारधारां शुम्भनिशुम्भदनुजकुम्भिनीधरविभेदनदम्भोलिके-

लिकां निरवधिभुजप्रतापदीपशलभीकृतरक्तबीजपुरोगमदैत्यावलिमलोकतकात्यायनीम्।

निद्रा हरेरमरशक्तिनिकायमूर्ति-
रङ्गादगेन्द्रजनुषः कृतमन्निधाना।

दुर्गेति पद्मनिलयेति सरस्वतीति
शब्दैरनन्यविषयैरनुभृयते या॥१८॥

प्रणिपत्य भगवतीं परमाणुमध्यमेयमित्यवादीत्। ‘अविमृश्यकारिणी हरिणीदृशां प्रकृतिः’ इति निरपवाद एष निखिलजनवादः।

विश्वत्रयाशयविमोहनताण्डवेन
केलीसखेन कृतविग्रहया भवत्या।

विघ्ने विभाविनि तदात्वविकारजन्ये
प्रस्तावि……. महो बत साहसेन॥४९॥

महिषदनुजेन्द्रमस्तकनृत्तभवा देवि निपुणता किं ते।
नटनायकेन साकं नाट्यविधाने ततान वैयात्यम्॥५०॥

अनन्तरमियमहरन्तंविहरमाणखण्डपरशुताण्डवावलोकनं समयसमञ्जसादरोद्घाटयोर्मुञ्चिकेशकार्कोटयोराविष्कृतं नमस्कृतिरदसीयसंप्रदायपरम्परान्तेवासिनमनघचरितानुबन्धभासिनं धर्मशिवदेशिकाभिधानमखिलनिर्ममजनप्रधानं प्राणंसीत्।

पन्नग इव भयम “भक्तिं भगवानिवेश्वरः साक्षात्।
स्त्रीणां पितेव विनयं दर्शनमात्रेण यः स्मरविजेता॥५१॥

तदनु तदनुमदगजगतिरवनिसुरयुवतिरियमचलपतिदुहितृसखभवनमुखसदनविहितरतिमुवनतपरिषदं भिलषितफलबितरणसुरविपिनतरुमुरुकरटतटं गलितमदलहरिपरिमलमिलदलिनिकरमुखं रमतिबिमलबमथुसमुदयकपटनटदुडुपटलबिहितं गगनपथमिभवदनमभजत।

क्रीडाविधौयः कलधौतशैले रन्ध्राणि दन्ताहतिभिस्तनोति।
पौरस्त्यविश्लेषितसंधिबन्धदार्ढ्याय शंङ्कुनिवदातुकामः॥५२॥

द्विस्त्रेधा वक्त्रमम्भोरुहपरिहसनारम्भलोलं प्रवाल-
ब्रीलानिर्माणलीलाचतुरमपि करांस्त्रिश्चतुर्धा वहन्ती।

उत्तुङ्गे पश्चिमाङ्गे मरकतसुषमागर्हिणो बर्हिणस्य
क्रीडामाम्रेडयन्ती ततिरिह महसां कापि भेजे कृशाङ्ग्या॥ ५३॥

तदनु सुतनुरियं परिजनकरापवर्जितभाजनसलिलकृतचरणनिर्णेजना निटिललोचनभवनकक्ष्यान्तरमुपेत्य दाक्षायणी यवाधिरोहणविधिपूततरमतितुङ्गशृङ्गभासुरमपरमिव रजतभूधरं महोक्षाधिराजमद्राक्षीत्।

यदीयनासाविवरोपरूढप्रौढानिलावर्तजुषो भजन्ते।
वातूलवेगाकुलतूलरीतिं सेवागतब्रह्मविमानहंसाः॥ ५४॥

क्लृप्तानतिर्गिरिशशाक्वरयोरथाग्रे
भक्त्या प्रदक्षिणपरिक्रमणानि सापि।

सातन्वती तनयसंभवकारणानि
विद्योतते स्म सुकृतानि विचिन्वतीव॥ ५५॥

अथाभिधानान्तरमन्नकारेरन्तःपुरद्वारि कृताधिकारम्।
नाथं गणानां सुयशा सनाथं ननाम सा नन्दिनमानताङ्गी॥ ५६॥

अजोऽहमीशोऽहमहं मुरारिर्विज्ञापनीयो विभवे त्वयेति।
याच्ञावचो यं प्रति देवतानामुदेति सेवार्थमुपागतानाम्॥ ५७॥

अथ तदानीम्

उर्व्यां न्यस्यापसव्यं चरणसरसिजं सव्यमुत्क्षिप्य कुर्व-
न्पाणिं तस्योपरिष्टात्परिकलिततिरोबाहुविक्षेपशालि।

त्वङ्गद्गङ्गातरङ्गं तरलतरजटाजूटरिङ्खन्मृगाङ्कं
भ्राम्यद्भूषाभुजंगं पयसिरुहदृशादर्शि नृत्यन्नटेशः॥ ५८॥

दृष्ट्वा च तमष्टमूर्तिमादराविष्टमतिरवनतशिरःस्पृष्टभूतला हरिणशादृष्टिरभितुष्टाव।

पञ्चायुधालंम्बनवामभागं पायादिदं वस्तु भवाभिधानम्।
वस्त्रे यदीये बलशासनाद्यांदिवौकसवित्रदशामयन्ते॥ ५९॥

सोऽयं मदीयाशयरङ्गमध्ये सायंनटस्ताण्डवमातनोतु।
पदारविन्दाभरणे यदीये दधाति नीलोपलतां मुरारिः॥६०॥

……………………शीकरकणैरार्द्रा न चेज्जित्वर-
स्फीतालीकदृगर्चिषा कथमसौचान्द्री कला जीविता।

तत्तादृक्षफणीन्द्रपक्ष्मलविषज्वालावलिं वा भवा-
न्सोढा किं शिव कालकूटकलनापाण्डित्यमालम्ब्यते॥६१॥

अस्याङ्घ्रिरम्भोजममुष्य बन्धुं समुद्यतं चण्डकरं च जित्वा।
तन्नन्दनं दण्डधरं जघान व्यथावहो विक्रमिणा विरोधः॥६२॥

चेतः कदाचिदपि मुञ्चनमुञ्चकेश-
कार्कोटकव्रतिमनः कमलोदयार्कम्।

चञ्चन्नखांशुशशिमुद्रितभद्रकाली-
वक्त्राम्बुजं वटवनेशितुरङ्घ्रिपद्मम्॥६३॥

अनन्तरमसौ निरन्तरपरिष्क्रियमाणपश्यदलीकवामपार्श्वांकलधौतभूधरावलम्बिनीमिव कादम्बिनीमगराजनन्दनामभिवन्द्य वसुंधरासुरचकोरलोचना वाचमेवमवोचत।

निखिलचराचरपटलीनिर्माण महेन्द्रजालशीलस्य।
चण्डि शशिखण्डमौलेर्भवतीं शिखिपिञ्छमालिकां मन्ये॥६४॥

छायेव चण्डधाम्ना ज्योत्स्नाकलिकासुधाकरेणेव।
मणिना प्रभेव मातर्दीव्यसि मिलितादरेन्द्रचूडेन॥६५॥

तीव्रतपःस्फारदिने गतया पार्श्वस्थितिं गिरीशस्य।
हरकोपातपपीडा चित्तभुवः कालिके त्वया जह्रे॥६६॥

प्रेङ्खदपाङ्गितबाणा बेल्लद्भूवल्लिकार्मुकोपेता।
सेनेव चित्तयोरहृत विभोरङ्गमम्बिके भवती॥६७॥

शिखरितनये भवत्या स्वीकृतमविचार्य पशुपतेरर्धम्।
शिरसि तदूढसपत्नीचरणाहतिरम्बन खलु सहनीया॥६८॥

दुरक्षराणि द्रुहिणार्पितानि संमार्जयन्तीव सरोरुहाक्षी।
भूतिंतदा पूजकलोकदत्तां हस्तेन फाले स्वयमाततान॥६९॥

आबद्धखेलनमथो निगमाटवीषु
रूपश्रिया हिमरुचेरपि लोभनीयम्।

रंहोनिवारितरतीशगजावलेपं
सिंहोदरी शिवमसेवत देवसिंहम्॥७०॥

समाचरितनमस्या मनस्येवमकरोत्सा।

गङ्गानीरतरङ्गहारिशिरसे गेहीकृतच्छन्द से
संध्यानर्तनसाक्षिलेखसदसेसत्यां नटच्चेतसे।

तत्तादृग्गरलान्धसे निटिलदृग्दग्धाङ्गजातैधसे
सिद्धश्रेणिशिखादृताङ्घ्रिरजसे सेयं नतिस्तेजसे॥७१॥

अथ कमपि सा जटालं हीरच्छायालमिन्दुचूडालम्।
श्रितवटमूलमविद्या जृम्भणमूलभेषजं भेजे॥७२॥

नानाशाखाबिवृतमहिमा नाटितश्रान्तहर्षो
मौनालम्बी प्रविततजटामण्डलोदारपार्श्वः।

न्यग्रोधोऽयं विलसति वियन्निम्नगासङ्गिमूर्धा
प्रत्यासत्तेरिव पशुपतेः प्राप्य सारूप्यलक्ष्मीम्॥७३॥

विश्वोन्मेषप्रभृतिरचनां व्यापरीतं धुरीणै-
राद्यैर्विद्यागुरुभिरभितो भूषितान्तेवसद्भिः।

धन्यामाशामभिमुखतया तन्वती कुम्भयोने-
रीशस्याव्यादिह वटतले भद्रपीठासिका माम्॥७४॥

अध्यासीना वटतरुतलं हासदिग्धारुणोष्ठी
शार्दूलस्य त्वचमधिकटि श्लाघनीयां वसाना।

बद्धैणाङ्काशिरसि दधती पाणिना बोधमुद्रा
कण्ठे श्यामा जयति करुणा कापि पश्यन्निटाला॥७५॥

अङ्कस्थायाः किमपि वलता हैमवत्याः कुचाग्रे
व्याचक्षाणं मदननिगमान्वामहस्ताम्बुजेन।

अन्येनार्थानकृतकगिरामञ्चता बोधमुद्रा-
मेक्षे साक्षादखिलजगतामीशमाद्यं गुरूणाम्॥७६॥

साक्षात्कृत्य श्रवणमननोपासनाभिर्भवन्तं
द्रक्ष्यन्त्यन्यत्किमिह यमिनस्तावकीनोपदेशैः।

चिन्तारूढां शिव तव चिदानन्दसत्तादिरूपा-
माकाशाख्यामखिलजननीमद्रिजामन्तरेण॥ ७७॥

मोहातीतस्त्वमिह भगवन्मूर्तिमास्थाय तां तां
वेलालङ्घिव्यवहृतिरतो मूढवन्नानटीषि।

आत्मत्राणं भवजलनिधेरात्मनैव प्रणेतुं
वाटेमूले वमसि यदि भाति ते कापि लीला॥७८॥

दूरीकर्तुं प्रभवति तवोपासनैव प्रजाना-
मनोराशीनिति पशुपतेवक्ति वाणी पुराणी।

ध्वस्ताहंयुद्रुहिणवदनस्त्वं वटद्रोरधस्ता-
दातः किंवा सृजसिभगवन्नीदृशीमात्मचिन्ताम्॥ ७९॥

शान्तेरेकं सदनममृतासारशीतं प्रकृत्या
हन्तेदानीं भवति भवतो रूपमालोकनीयम्।

ब्रह्माण्डानां प्रसभकवलीकारकाले तु तस्मि-
न्द्रष्टुं दृष्ट्या त्रिनयन भवानेव शक्तो भवन्तम्॥ ८०॥

बिम्बोष्ठीनामिव बहुविधाकृतपारिप्लवाना-
मात्मायत्तीकरणघुटिकापङ्क्तिमाम्नायवाचाम्।

पाणेरस्य प्रसवकलिकां पल्लवस्य स्मरारे
स्तौमि ज्योतीरसमणिकृतां तावकीमक्षमालाम्॥ ८१॥

पाणिच्छायाततिमिररुणा स्फाटिकीनाक्षमाला
बीजश्रेणी परिणतिमती दाडिमस्येयमास्ते।

चिन्मुद्रैषा शिव तव समादाय तत्रैकमेकं
हस्तोपान्तस्थितशुकमुखेष्वर्पयन्तीव भाति॥ ८२॥

प्रज्ञाबल्लीपरिणतिकृते भक्तिबीजब्रजानां
पुष्यन्तीव व्रतिजनमनोभूमिषु न्यासलीलाम्।

अर्थान्दातुं समभिलषितानाददानेव मह्यं
भावत्कीयं त्रिभुवनगुरो भासते बोधमुद्रा॥८३॥

पाठीनाङ्कप्रमथनविधिप्रेष्ठ गीर्वाणमध्ये
सद्योजातं सकलनिगमाः संगिरन्ते भवन्तम्।

सत्यप्येवं कथमिव पुनः साधवस्त्वामजातं
निश्चित्यैकं निरवधिभवक्लेशभीत्या भजन्ते॥८४॥

दारान्बन्धूनपि तनुभुवस्तावकीनैर्वचोभिः
सन्तस्त्यवत्वा सकलमपरावृत्तयः क्वापि यान्ति।

कृत्वा कण्ठे गरलमलघुव्याहृतोदारसूक्तै-
र्विन्दन्त्येते न खलु भवतो विप्रलम्भं पुरारे॥८५॥

विश्वस्य वेषविवृताममितां विरक्तिं
पार्श्वं तपस्विजनता भजते गुरोस्ते।

त्वं दक्षिणाभिमुखतामुपदेशकाले
पुष्णासि चेत्पुररिपो किमियं विधत्ताम्॥८६॥

विलसति वटमूले व्यञ्जितज्ञानमुद्रा-
मतिशय रमणायामासिकामादधाना।

अनिशमुपदिशन्ती योगिनामागमार्था-
न्दरहिमकरचूडा देवता सावतान्माम्॥८७॥

ओमित्यक्षरलक्ष्यमैन्दवकलामाबिभ्रतं मौलिना
नद्या कल्पित शेखरं मरकतच्छायां दधानं गले।

क्लिकारार्थविंद शिलीमुखपदन्यस्तारविन्देक्षणं
वासःस्थानकृताजिनं यतिमनः सौधस्थमीशं भजे॥८८॥

कमपि जटालंकरणं मुक्तेर्वटमूलमणितटालंकरणम्।
श्रयत महासमयानं जनकं निगमागमेतिहासमयानाम्॥८९॥

नियतवचांरुद्राक्षस्रगलंकरणो गुणास्तचारुद्राक्षः।
आर्तसमाजपवटभागवतुगुरुर्यस्य हिमसमा जपवटभा॥९०॥

महती काचिन्मुद्रा करगतरुद्राक्षमालिकाचिन्मुद्रा।
निगमादिव्याख्यानस्वातन्त्र्यवती पुनातु दिव्याख्या नः॥९१॥

पुररिपवे भसितेन स्फुरता लिप्ताय वासवेभसितेन।
घटजन्माशास्याय क्रियतां प्रणतिर्महत्तराशास्याय॥९२॥

शान्त्या परमो दान्तः स गुरुर्जगतां चकास्ति परमोदान्तः।
शाम्यति तापः स्मारं स्मारं चरतां यमर्दितापस्मारम्॥९३॥

अञ्चितहासाननया रक्षन्त्या जानजनिजिहासाननया।
अस्मि भृशं पावन्या धन्या कृपया जटास्तशम्पावन्या ॥९४॥

पावनपादपरागः फलघटनघृताक्षकल्पपादपरागः।
इह महसामतिरेकः क्रीडति हृतनम्रतापसामतिरेकः॥९५॥

स्मरभेदि प्रकटाक्षस्रगुपेतकरः प्रसादकटाक्ष।
जगदधिकं पाति शयस्थायि वागुण्डिकोऽनुकम्पातिशयः॥९६ ॥

जननरुजातापघनश्रेणिशरण्यः सुधाभिजानापघन।
स्वदते मायातीतः शिव एव वरोरुचित्तमायातीतः॥९७॥

एष महीयानवतात्त्रिपुरंजिग्ये यतो महीयानवतः।
यस्य च पञ्चाक्षरतस्तरति भयं विषयमप्रपञ्चाक्षरतः ॥९८॥

मिलदुमया देवतया जितमधिकमदृक्कथालया देवतया।
सृजति च सेवनमस्या द्युमदामखिलापि धृतरमेव नमस्या॥५९॥

इति संभावयामास नुतिगुम्फामृतैरियम्।
दक्षिणाभिमुखं दीनरक्षणे रसिकं महः॥१००॥

चण्डेशमानस्य ततस्तदग्रे चकार तन्वी करतालशब्दान्।
विवासयन्तीव वृषाङ्कभक्तिशालिद्रुहो दुष्कृतपक्षिसङ्घान्॥१०१॥

सामण्डपे शैलभुवो मुहूर्तमतिष्ठदीशानमनुस्मरन्ती।
पुरारिसंसेवनपुण्यभारैरासादितैः स्पन्दितुमक्षमेव॥१०२॥

तदनु मदनाभियातिसदनादधिगम्य निजनिकेतनमनुमेयमध्यमा सकलभूतसमुदायामोदसमर्पणं कोविदमतिमात्रविशदगोत्रैकमण्डनमकुण्ठतरवृषप्रचारमात्मनेतरमपरमिवताराधिपशेखरमाराधयामास।

इत्यादिनियमव्रातविध्याहितमहोत्सवा।
दिनानि कतिचित्साध्वी निनाय निमिषं यथा॥१०३॥

अथ कदाचिदखिलजनतापातिरेकसमापादनदुरितपरिणतेरिव परिक्षीणतामुपेयुषि वासरायुषि, नवकुसुमसंभृतकमलिनीपरिरम्भजन्मनो दुष्कृतस्येव निष्कृतिं विधातुमाचरति चरमसिन्धुसलिलावगाहनमरविन्दिनीपतौ, रविपतनवेगदूरापसृतनीरवाराकरोदरकुरुविन्दकिरणसंदोह इव वरुणहरिदन्तरालमुपरुन्धति संध्यारागे, संध्यानलकीलचुम्बितव्योमाटवीधूम इव धरणीमण्डलमवकुण्ठयति तिमिरषण्डभावितेजः प्ररोहपटल इव समुन्मीलति दीपिकाजाले, नटनकेलीविहितोद्यमरजनीनर्तकविमुक्तपुष्पाञ्जलिनिकर इव गगनमञ्चति तारकापुञ्जे, सकलदिक्चक्रवालसमाक्रमशीलतमिस्रकोपादिव पाटलवपुषि विजृम्भमाणे विभावरीकुटुम्बिनी बहुलान्धकारपरिपन्थिविजयवीततन्द्रस्य चन्द्रमसो यशवृन्द इव भुवनमानन्दयति मरीचिकन्दले प्रयातैकयामायां त्रियामायामासादितनिद्रारसानुभूतौ परिणेतरि तदीयपदसदेश एव पतिदेवतेयमाशयनिवेशितपश्यदलीकचरणा सुष्वाप।

द्विगुणीकृत दोर्लतोपधाना तरुणी स्थण्डिल एव सा शयाना।
निजनेतर निद्रयोपगूढे विधानेव रूपं तदा व्यलासीत्॥१०४॥

ततस्त्रियामासमये तरुण्याः पुण्येन साकं परिपाकभाजि।
अगेन्द्रकन्यापरिणीरमुष्याः स्वप्ने स्वयं लोचनगोचरोऽभूत्॥१०५॥

उच्चावचानां जगतामुपरि स्थितिमानपि।
भद्रासनवरं किंचिदध्यासीनः सहोमया॥१०६॥

मौलिमन्विच्छतो वक्त्रान्मरालस्य परिच्युतम्।
मृणालवलयं तत्र मृगाङ्कच्छद्मना वहन्॥१०७॥

संबिभ्रदलिके किंचिञ्चञ्चदग्निशिखाङ्कुरम्।
वतंसेन्दुसुधालोभवलज्जिह्वमिवेक्षणम्॥१०८॥

कात्यायनीमुस्वाम्भोजनेत्रोत्पलविकासिकैः।
आलोकैः प्रकटीकुर्वन्नक्ष्णोरर्केन्दुरूपताम्॥१०९॥

सहजक्ष्वेलसौहार्दादधिगत्य गलान्तरम्।
निःसरन्तीमिव सुधां दधानः स्मितचन्द्रिकाम्॥११०॥

केली परवशां मूर्ध्नि गङ्गामसहमानया।
कण्ठे गाढमिव श्लिष्टः कलिन्दगिरिकन्यया॥१११॥

कस्तूरिकाभिरालिप्य कंधरामितराङ्गके।
परागैरिव कार्पूरैः परिक्लृप्तानुलेपनः॥११२॥

मनोवागपरिच्छेद्यमहिम्निस्वस्य तादृशे।
विश्वविस्रम्भणायेव तन्वन्परशुधारणम्॥११३॥

द्वीपिचर्माम्बरालोकत्रासेन मुकुटीविधोः।
निष्क्रान्तमिव सारङ्गमुद्ग्रीवं धारयन्करे॥११४॥

आगतं गिरिजोत्सङ्गादङ्के कृत्वा षडाननम्।
कराकृष्टजटाजूटखण्डेन्दुमुपलालयन्॥११५॥

विततार विभूषणाहिमौलेर्मणिमादाय मृडस्तदा नताङ्ग्यै।
सुरनाथदिशे सुमेरुपार्श्वादहरारम्भ इवारविन्दबन्धुम्॥११६॥

तादात्विकीभिः प्रमदातिरेकतरङ्गिणीवीचिपरम्पराभिः।
नीतेव कुत्रापि सुमध्यमाया निद्रा सहैव क्षपया व्यरंसीत्॥११७॥

तथा हि।

भूषामणिं दत्तवतः पुरारेश्चूडामणौ स्वार्पणशङ्कयेव।
शनैर्गलत्यम्बरतो जहास प्राचीदिशा पाण्डुरिमापदेशात्॥११८॥

धनकज्जलकर्दमापदेशान्मलिना मन्दिरदीपवर्तिरासीत्।
प्रमथाधिपतिं विहाय देवं प्रतिभेव श्रितदेवतान्तराणाम्॥११९॥

दिशि सांध्यरागमपदिश्य हरेः समये समेधयति वह्णिशिखाम्।
भयसंवृताः प्रतिदिशं सपदि व्यघटन्त संतमसगन्धगजाः॥१२०॥

अभ्यस्य ताराकपटाक्षराणां पङ्क्तिं विहायःफलकाधिरूढाम्।
वर्णान्तरन्यासकृते ममार्ज कालाभिधानः किल कोऽपि बालः॥१२१॥

क्षणदायां प्रयातायामपि तस्वा मृगीदृशः।
सा दिनारम्भवेलैव क्षणदा समवर्तत॥१२२॥

अनन्तरमरविन्दलोचना सरयमुत्थाय समाचरिततीर्थाभिषेचनविधिरपर्णासखवितीर्णमणिसदृक्षतामिव परीक्षितुं प्रभातसमयवणिजा विभावितमम्बरमणिं प्रणिपत्य कृतकर्तव्यकलापा स्वापावसरविलोकितशोभनोदन्तभाषणैः प्राणबन्धुमानन्दयामास।

प्रासादमासेदुषि नीलकन्धरे दुरन्तसंतापभिदाधुरंधरे।
दधार गर्भे तनयं धरेव सा करीरमत्युन्नतवंशवृद्धये॥ १२३॥

इति श्रीसमरपुंगवस्य कृतौ यात्राप्रबन्धचम्पूकाव्ये प्रथम आश्वासः।

___________________

द्वितीय आवासः।

दिनेषु यातेषु ततोऽमितेषु पचेलिमे तादृशि भागधाये।
वामालका व्यक्तमुवाह गर्भं निधानमम्भोनिधिमेखलेव॥ १॥

सा कृशाङ्गी शरीरेण शरकाण्डविपाण्डुना।
अत्यशेत दिशं प्राचीमत्यासन्नविधूदयाम्॥ २॥

आह्लादकारिण्यखिलप्रजानां जैवातृके जग्मुषि गर्भसीमाम्।
प्रत्यग्रलोध्रप्रसवाभिराममवाप सा रूपमपश्चिमेव24॥ ३॥

उदरे किमप्यमृतमुत्पलेक्षणा तपसार्जितं तनयनाम बिभ्रती।
अतिसौहितीमधिगतेव भोजने बिभरांबभूव विगतादरं मनः॥ ४॥

धृत्वान्ववायाभरणा स्वगर्भे दधौ न सा प्रागिव मण्डनानि।
आसक्तिरर्थेषु शरीरभाजां विशिष्टवस्त्वन्तरलम्भनान्ता॥ ५॥

हन्त मध्यमपरिष्करणार्हंवंशरलवर भूषितमासीत्।
इत्यसोढवादिवाजनि तस्याः श्यामिकाञ्चितमुखं स्तनयुग्मम्॥ ६॥

कुलाङ्कुरादर्शनखेदजन्मा बामभ्रुवो वक्त्रविवर्णभावः।
गर्भोदयामोदभुवः प्रसादाद्भीतो नु भेजे कुचभूधराग्रम्॥ ७

साधयिन्खेदमिथ्यात्वमर्दयन्मध्यशून्यताम्।
अर्भको गर्भगस्तस्या निर्ममे संमदाद्वयम्॥ ८॥

कार्श्यंजहौ गर्भगते कुमारे वलग्नमस्या इति किं विचित्रम् \।
समृद्धिमाधातुमकिंचनेषु संतानशाखीव स हि प्रवीणः॥ ९॥

अल्पानामपि च महत्त्वमाशु दातुं सर्वेषां प्रकटयितुं च सूक्ष्ममर्थम्।
निष्णातं पृथुकमवोचदस्य योगात्तन्मध्यो धृतमहिमप्रकाश भावः॥ १०॥

वामभ्रुवो मध्यवलित्रयाभ्यां किं व्यत्ययेन स्वगुणौ दधाते।
आद्यं यदत्राजनि दर्शनीयं परं तु वीक्षापदवीमहासीत्॥ ११॥

विद्यानिधाने सविधं विभूषयति तादृशे।
अतिहर्षादिव जहौ नाभिरस्या गंभीरताम्॥ १२॥

भक्तिमात्मनि विधास्यतः शिशोः पालनाय परमभ्रगङ्गया।
स्थापितेव यमुना तदन्तिके रोमराजिरकुचन्मृगीदृशः॥ १३॥

विरलाभरणं विपाण्डुवक्त्रंत्रिवलीभङ्गदरिद्रमध्यभागम् \।
मलिनीकृतचूचुकं मृगाक्ष्या वपुरासेचनकं बभूव भर्तुः॥ १४॥

जठरविहरमाणमाणवगुणानुसारिः परमाणुमध्यमाया बभूवुरध्यवसायाः।

व्याहर्तुं मृदुलाक्षरामपि गिरं वैक्लव्यमुद्रावती
साटोपं विवरीतुमैहत वधूः सर्वाणि शास्त्राण्यपि।

रूढाशक्तिभरापि चत्वरगतिक्रीडासु वाराणसी-
पूर्वाणि स्पृहयांचकार चरितुं पुण्यानि तीर्थान्यहो॥ १५॥

पाणिभार किमपि प्रसवापचाये
ग्लानिं द्वितीयकुसुमग्रहणेऽपि यस्याः।

सा बिल्वपत्रनिकरैः स्वकरोपनीतै-
रीशानपूजनमियेष मुहुर्विधातुम्॥ १६॥

किमङ्गरागेषु परिष्क्रियासु वा तवेष्टमालीति धवेन सा रहः।
कृतानुयोगा निजगाद काङ्क्षितौ विभूतिरुद्राक्षमणी विलासिनी॥ १७॥

प्रियमभिलषितोपहारशीलं निजहृदये नितरामधत्त साध्वी।
उदरविहरदर्भकोपलम्भव्यतिकरलोभवशाद्दिव प्रविष्टम्॥ १८॥

अथाध्युषित केसरिण्यहिमभासि मेषं गते
कलावति तुलाधरोदयमुपेयुषि स्वामिनि।

स्वतुङ्गजुषि वाक्पतौ मकरभाजि मित्रात्मजे
शुभैकजनने दिने सुतमसूत शातोदरी॥१९॥

सिंहिकातनुभुवा सह योगः सांप्रतं मृगपतेरजनीति।
स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुषसिंहः॥२०॥

तस्योदये दातुरवाप लाभं बुधो न तत्पुष्यति विस्मयं नः।
स्वयं कुजन्मापि धनाधिनाथो भूत्वा स रामामधिगम्य रेमे॥२१॥

विशङ्क्यपृथुकात्ततो निजनिकारमास्तां तदा
कविः स्वभवने हरिं शरणमेतु तेजोनिधिः।

अजाश्रयणतत्परो भवतु स द्विजाधीश्वरः
कुलीरसदनान्तरं कथमसौ जगाहे गुरुः ॥ २२ ॥

निजहृदयकण्टकायमानकुमतमण्डलीसमुद्धरणं निपुणविद्वदवतरणामोदसमासादितप्रसादशालिनीनामाशाविलासिनीनां मुखसरोजनिःसृतो निश्वासविसर इव सहजतुषारसौरभासारतुन्दिलो मन्दमन्दमस्पन्दत गन्धवाहः।

अथारविन्दोपममायताक्षं सुताननं सुन्दरमीक्षमाणा।
तपांसि सर्वाणि तदात्वहर्षे प्रसूरपर्याप्ततमानि मेने॥२३॥

क्षणमीक्षणमुद्रणां तदानीं न विमुञ्चन्नयमर्भको व्यलासीत्।
निजसूतिविलम्बखेदिताया वदनं मातुरवेक्षितुं विलक्षः॥२४॥

सुकुमारपाटलकरं निजोदरादुदितं वितीर्णजनलोचनोत्सवम्।
अरुणं तमङ्कभुवि पङ्कजेक्षणा दधती पुरंदरदिशेव सा बभौ॥२५॥

निहिताः पुरतो निविष्टदीपाः शुभयष्टीरपदिश्य सूतिगेहे।
अभजन्फणिनो नु रत्नचूडा हरभूषाहिमणेरमुं विवर्तम्॥२६॥

अथ तदानीमङ्कुरित इव मङ्गलावेदनकुतूहलमन्थरेतरपुरंध्रिकुलसंजल्पितैः, पल्लवित इव नानाविधदानविस्तारैः, कोरकित इव विविधराजयोगविभाजकसैद्धान्तिकलोकसूक्तावलिभिः, फलित इव द्विजाशीर्वचोभिर्विशेषैरशेषमपि बन्धुजनमानन्दमनयत तनयोत्सवः।

गुरुरादरादथ कुमारमैक्षत प्रमथाधिनाथमिव बालताजुषम्।
रुरुटङ्कसंवहनरूढवासनाकृतमुष्टिबन्धविलसत्कराम्बुजम्॥२७॥

प्रागेव कण्ठनिनदैः श्रवणाभिरामै -
रावेदितामथ विलोचनलोभनीयैः।

आम्रेडितामवयवैरथ भाग्यवत्तां
निर्धार्य तस्य जनको नितरां ननन्द॥२८॥

स क्षोणीविबुधो मन्त्रै रक्षोनिरसनक्षमैः।
पूतजन्मभृतस्तस्य जातकर्मविधिं व्यधात्॥२९॥

असौ पुनरवनीसुरकुमारको मुहुः समाराधयिष्यति मामिति हृष्यन्मना इव दमुना हविर्ग्रहणकर्मणि तत्क्षणं प्रदक्षिणावर्तशिखः प्रणनर्त।

तस्य वाधूलसंतानतपःसमुदयाकृतेः।
धर्माभिधानकरणात्पितृभ्यां दर्शितौचिती॥३०॥

नयनायुधनर्मगेहमेतत्परिपाल्यं भवतीति शार्ङ्गिणेव।
वहति स्म निवेदितं स धीरो हृदि पञ्चायुधभीषणं मनोज्ञम्॥३१॥

अमृतं नभःसरित एव सूनवे दिशति स्म सा धृतमुरोजकुम्भयोः।
स विहाय वारि सकलं कथं भवेत्परथा तदेकभजने कृतादरः॥३२॥

साधुसंघटित मुष्टिबन्धनं प्रत्यहाञ्चितपयोव्रतक्रियम्।
आत्म सूनुमसकृत्प्रसूर्मुदा पश्यति स्म शिशुभावदीक्षितम्॥३३॥

कलिना मलिनीकृतां पदाभ्यामवनीं स्प्रष्टुमवेक्षितुं च दृष्ट्या।
घृणया मुहुरुद्यताङ्घ्रिरासीदपि चोत्तानशयः स पूतजन्मा॥३४॥

कुत्रापि धामनि कुलार्दिसुतासनाथे
दृष्टिं मुहुस्तरलतारहितां निधातुम्।
अभ्यस्यतेव पटुताममुना व्यलोकि
निष्पन्दपक्ष्मनयनेन निशि प्रदीपः॥३५॥

मातृवल्लिकुचमञ्जरीभृतां माकरन्दलहरीं धयंधयम्।
पाणिपङ्कजवनीषु योषितां खेलनं व्यधित बालषट्पदः॥ ३६॥

जनकः कृतजानुयानकेलिं तनयं वीक्ष्य तमादरोत्तरङ्गः।
चतुरश्चरणानिधाय घान्न्यांविहरन्तं वृषमेव मन्वते स्म॥३७॥

जानुद्वयीचक्रमणक्रमेषु रत्नस्थलीलक्षितमात्मबिम्बम्।
हस्तेन संताडयति स्म सोऽयमात्मीयसाम्यासह एव बुद्ध्या॥३८॥

पञ्चषाण्यथ पदानि निधातुं प्रस्खलच्चरणपल्लवमेषः।
प्रा[र]भन्नपरमस्फुटनीयद्वर्णवल्गुतरमप्यभिधातुम्॥३९॥

अजनि खुरलीकेलिस्तीर्थाभिधावनकर्मणि
त्रिचतुरपदन्यासक्रीडैव तस्य गृहाङ्गणे।

फणितिरभवन्नान्दी स्पष्टेतराक्ष[र]मञ्जुला
विबुधहृदयग्राहिव्याहारनाटकनिर्मितौ॥४०॥

तन्वीपयोधरपयः कणिका निपत्य
तस्याभिरूप्यजलधेर्मुखशुक्तिकायाम्।

मुग्धद्विजाङ्कुरततिव्यपदेशशालि-
मुक्तात्मना परिणतिं किल बिभ्रते स्म॥४१॥

तस्यालकप्रकरकुण्डलपद्मराग-
मन्दस्मितद्युतिभिरुन्मिषतां त्रिवेणीम्।

पित्रोरजस्रमविगाह्य मनोविषादं
तत्याज संसृतिपथभ्रमणोपजातम्॥४२॥

अयं पुनरवनिनिलिम्पशावकः शुभसमयनिर्व्यूढचूडामङ्गलो निरङ्कुशविहारकेलिनिर्माणतरलमानसं समानवयः सनाथमाणवमनः सभाजनं खेलनापहृतगृहोपकरणायासितवामालकाजनं वचनसीम्नातिलङ्घितकुतूहलं कौमारमभजत।

सध्रीचीनकुमारकैरभिवृतश्छात्रायमाणैः स्वयं
शास्त्रव्याकरणाभिनीतिमकरोदारोपिताचार्यकः।

काशीति त्रिदशापगेति कलयन्विश्वेश इत्यप्यसौ
केल्यामाकलयति स्म पांसुषु पुरीं शैबालिनीदेवताम्॥४३॥

क्रीडां विधाय पृथुकैर्गृहमापतन्तं
क्लान्तं क्षमातलर जो भरदूषिताङ्गम्।

आरोप्य वक्षसि कुमारममुं करेण
स्विन्नं तदीयवदनं जननी ममार्ज॥४४॥

हरस्तुतीनां गुरुकीर्तितानामनूक्तिभिः प्रीणितया जनन्या।
प्रदिष्टमिष्टं लभते स्म बालः सहैव गण्डस्थलचुम्बनेन॥४५॥

कुशाग्रबोधो गुरुणा ततः सकृत्प्रकाशितां वर्णपरम्परामसौ।
मनोऽप्यनाविष्कृतमस्य किंचिन्महीसुराग्रेसरसूनुरग्रहीत्॥४६॥

पुनः पुनर्भूमितले स बालो वर्णावलीविन्यसनं व्यतानीत्।
विधाय शङ्के बहुधा परीक्षां पञ्चाक्षरीसंग्रहणं प्रणेतुम्॥४७॥

अन्वितानि शुभस्पर्शैरन्तरूष्माञ्चितान्यपि।
व्यञ्जनानि बटोजिह्वा सस्वरं समसेवत॥४८॥

तदनु निटिलेक्षणाभिधामुपदेक्ष्यमाणमन्त्राधिदेवतामिव विभावयितुं कुबेरदिशामासेदुषि वासराधिपतौ भूसुरापत्यमिदमध्यापयितुमिव कलाकलापमह्नाय संगृह्णति द्विजाधिराजे निजापचितिमागामिनीमिव परिग्रहीतुमाविष्कृतप्रकाशातिरेकेषु कविगुरुपुरोगेषु समागते च शिवतातिदिने जनक एष कृपानिधिरेनमुपानयत।

स निर्मलात्मा गुरुणा समाहितं त्रयीनिदानं तदवाप्य वाङ्मयम्।
अशोभत स्वैरमभीशुमालिना शशीव संचारितमंशुमण्डलम्॥४९॥

स यज्ञसूत्रच्छलतस्त्रयीमधान्मुखस्फुरन्मात्रसमावृतक्षमाम्।
पराभिचारप्रतिपादनाविलां मृषेतरोक्तिं च मृगत्वचो मिषात्॥५०॥

तत्तादृशीं गामिव तातदत्तां पातुं नियन्तुं च स बालवर्णी।
पाणौ दधाति स्म पलाशदण्डं मौञ्जींकटीसीमनि मेखलां च॥५१॥

शशिपाण्डरेण समिदग्निभस्मना विहितास्त्रिपुण्ड्रविततीरयं प्रति।
प्रथमागमे गिरिशभक्तिसंपदो रचिता इवाप(ह)रत रङ्गवल्लिकाः ॥ ५२॥

कल्लोलिताद्भजनकर्मविलम्बनेन
कोपादिव प्रकटगुम्फितशोणभावे।

संप्रीणयन्निव मुहुश्चरणारविन्दे
पित्रोरवन्दत कृती प्रवदन्निजाख्याम्॥५३॥

उपसंग्रहणच्छलादसौ युगलेनात्मकरारविन्दयोः।
स्वकृते वहुतीर्थचारिणी किमु पित्रोः समवाहयत्पदे॥५४॥

द्राघिष्ठमायुस्तनये निधातुं प्रकाममिच्छाभरितेन पित्रा।
अस्य प्लुतालंकृतिमौलि नाम प्रायुज्यत प्रत्यभिवादनेषु॥५५॥

समाश्रितस्वाङ्गिसरोजनावं कुमारमेनं गुरुकर्णधारः।
प्राचीनवाणी कुहनापयोधेः पारं मितैरेव दिनैरनैषीत्॥५६॥

वाक्यैर्विवृण्वती भावं वल्गुस्वरपदक्रमैः।
कण्ठमेतस्य सुदृढं कान्तेव श्रुतिरग्रहीत्॥५७॥

अपि च, अस्य निपुणदेशिकोपदेशं सलिलविमलीकृतमतिरहिराजवचनं कुटजाटवीनवजीमूतमालिकां साहित्यवाहिनीपतिशीतद्युतिं कौमारिलवचोरसालं कुसुमाकरश्रियं निगमान्तकुमुदिनीधवदिवसान्तसमयं लक्ष्मीमक्षचरणपक्षराजीवतापनरोचिश्छटां प्रौढिमाढौकत।

कविवाचस्पतिबुधाः कलयापि न तत्समाः।
मूढता मुहुरेतेषामापतत्यनियन्त्रणा॥५८॥

निःसीमपश्यन्निटिलानुभावप्रकाशनं प्रत्युपकारयन्ती।
स्वशीलिनः संततमस्य मोदं वेदादिविद्याविततिर्व्यतानीत्॥५९॥

अस्य पुनरभ्यस्यतः कलां गुरुतर्कनिवासजनुषमुरुतरक्लेशमसहमान इव शनैः शनैरपसरति शैशवे सकलकलाधिकारसहकारिबालतापनोदपरिणतं क्रोधमपनेतुकाम इव कामरिपुचरणपरिचरणोपकरणानां करणानामतिनिपुणिमानमुपपादयन्नवतरुणिमा वपुरसोढकुसुमायुधमसेवत।

स्वभजनोचितवस्तुविवेचनं समभिलष्य किमस्य विलोचने।
श्रवणयोरवकर्णितशास्त्रयोः सविधभूमिमभूषयतामुभे॥६०॥

कलितस्पृहमेव कालकण्ठस्थितिपर्याप्ततमावकाशभावे।
अदसीयहृदन्तरालमासीत्परिणाहातिशयप्रणीतशोमम्॥६१॥

बालोऽयमाजानुविलम्बिबाहुरालोकि लोकैरतिरूपशाली।
आराधनैः प्रीणनमात्मशत्रोः कर्तुं क्षितौ काम इवावतीर्णः॥६२॥

तदनु द्विजकन्याया धन्यायाः सदृशैर्गुणैः।
संतानसंपदे तेन पाणिमग्राहयत्पिता॥६३॥

पार्श्वभूषा भवानीव पद्मेव हृदयंगमा।
सरस्वतीव सा मुख्या भर्तुरासीत्पतिव्रता॥६४॥

अजायत तयाक्रान्तममुष्य हृदयं तथा।
यथान्तरं न विन्देरन्नीषदप्यन्ययोषितः॥६५॥

शुभलक्षणशोभिन्या भावनापरिशुद्धया।
पुरंध्र्यासोऽरुचद्वेदः पूर्वमीमांसया यथा॥६६॥

अहो महसुरभुवो महाभागस्य भागधेयपरिपाकः, यदेष मदनगजराजमदभेषजे रजोभरविजृम्भमाणमातरिश्वनि विषयमृगतृष्णिकाजलविभावनोष्णसमये तमोविकारसंपादननिशावतारसंपदि कुपथावगाहघटनहरिन्मोहगौरवे पटुतरविवेकिशाखिपाटनविधानहस्तिनि तत्तादृशि वयसि वर्तमानोऽपि भगवति मृगाङ्कशेखरे समनोनदीललामनि सुदतीमयार्धविग्रहे महती भक्तिरजनि।

चन्द्रमसि चन्दनतरौ सुदृगाश्लेषे सुधांशुभूषे च।
स्त्रियति न कस्य चेतः कठोरसंताप कन्दलीहरणे॥६७॥

अनूढभसितो मन्त्रैरशीलितषडक्षरः।
अपूजितपुरारातिरभुङ्क्तन कदाप्यसौ॥६८॥

आगामिनामङ्गजवैरिमेघे हृदम्बरालम्बिनि हर्षवृष्ट्यै।
पौषैकहेतुं पुलकाङ्कुराणामभूषयद्गात्रमसौ विभूत्या॥६९॥

नदीं महोक्षं शिशिरांशुरेखां वाताशनेन्द्रं यजनं च भूतैः।
वाञ्छन्स पञ्चाक्षरमन्त्रलक्ष्यादाचष्ट तद्वाचि पदादिवर्णान्॥७०॥

शंभोरजस्रंजलगन्धपुष्पैराप्लावनालेपनमण्डनानि।
आत्मीयतापत्रितयापनीतिं विधातुकामः स कथं व्यतानीत्॥७१॥

अन्नमर्पितमगात्मजापतेरस्तुतं प्रतिनिलिम्पभोजनम्।
अद्भुतं तवनिवेदितं त्वभूदोदनोऽयममुनैव सेवितः॥७२॥

सरिद्वतंसस्य जलाभिषेको बालेन्दुमौलेः प्रसवोपहारः।
स्यात्किं मुदे तस्य कृते मयेति समादि (घि) दम्भादकरोत्स चिन्ताम्॥७३॥

भक्तेषु प्रमथपतेः पदार्थनायां पर्याप्तं बलिसुतमेष मन्यते स्म।
पौलोमीपरिवृढमुत्सवावलोके व्यालेन्दुं विविधगुणप्रशंसनेषु॥७४॥

चेतोनिविष्टस्य सितांशुमौलेः परिच्युतं मौलिपदात्स्वगर्भे।
प्रालेयधामानमदच्छ (श्छ) लेन प्रासूत धन्या भवनं कु (क) लानाम्॥७५॥

अनिशं गिरिशातिवादशीलं परमेष्ठी किममुं प्रणेतुकामः।
अपदिश्य घटीभवादिसर्गान्पठिमाभ्यासविधिं परं वितेने॥७६॥

किमेष नन्दी शिवधर्मवक्ता किं वा कुमारः श्रितनीलकण्ठः।
आहो मुरारिः कृतदृष्टिरीशे पार्थोऽथवा पाशुपताभिमानी॥७७॥

एवमुत्प्रैक्ष्यत जनैरेधमानकुतूहलैः।
बाल एव परां कोटिं शिवभक्तेः श्रयन्नयम्॥७८॥

अपि सकलार्थविदोऽभूदर्थत्रयमेव चिन्तनीयं मनसि।

मोहोच्चाटनमूलिका तनुभृतां मुक्त्यङ्गना कारणा
दूती भाग्यवतामधर्मकलमस्तोमावसादस्थली।

लीलाताण्डवशालिका पशुपतेर्लक्ष्मीमणीपेटिका
कस्मिञ्जन्मनि लोचनातिथिदशां गाहेत वाराणसी॥७९॥

कैवल्यामृतकन्दलीं वसुमतीकान्ताप्रसूनस्रजं
मौलिक्षौमपटींहरस्य हिमवन्मातङ्गशुण्डालताम्।

स्वर्गारोहणमार्गमौक्तिकशिलासोपानपारम्परीं
भाग्यैरभ्यधिका जना भगवतीं पश्यन्ति भागीरथीम्॥८०॥

सुखनिधिमपहृत्य मायया स्वयमतिसंनिहितोऽप्यलक्षितः।
सुकृतिभिरधिकाशि गृह्यते श्रुतिकथितः स हि तस्कराग्रणीः॥८१॥

अकथयच्च सच्छात्रान्।

तीर्थावगाहस्थितिकल्पनायामचविधौ वा यदि वोऽभिलाषः।
नदीषु गङ्गां नगरीषु काशीं देवेषु विश्वेश्वरमाश्रयध्वम्॥८२॥

जिज्ञासवे श्रुतिशिरोनिकरान्प्रवक्तु-
मादौ यदक्षरमुपाददते महान्तः।

श्रोत्रे तदेव विनिवेद्य जनान्भवाब्धे-
रुत्तारयन्तमुपधावत विश्वबन्धुम्॥८३॥

अधिकाशि देशिकानामवतंसमणिं तमेव सेवध्वम्।
यो रहसि किंचिदक्षरमुपदिश्य जनान्करोति सर्वज्ञान्॥८४॥

अथ भक्तिवशादमुष्य काशीं प्रति यातुं स्पृहयालुचेतसोऽपि।
अभवज्जनकाङ्घ्रिपद्मसेवानियमातिक्रमभीतिरन्तरायः॥८५॥

असौ पुनरात्मपितरावेव महीधरापत्यकुसुमास्त्रशासिनौ तदधिवासवसुमतीमेव सुरस्रवन्तीमनुचिन्तयन्यथोदितसमयविधेयनियतकार्यपरायणमनाः सूर्यनारायणसमरपुंगवाभिधानाभ्यामसमानविनयधुर्याभ्यां सोदर्याभ्यामश्रान्तरचितचरणारविन्दपरिचरणो निरवधिस्नेहपरिवाही जनकविहिताभिलषितकर्मा सहधर्मिणीप्रणीतसमधिकानुरोधविधिरतिमहान्तमन्वभूदानन्दम्।

सौभागिनेयः स तदा शोभायै श्रुतिसंपदाम्।
असेवत शिवाकल्पकल्पमप्पय्यदीक्षितम्॥८६॥

पुस्तककरा बुधावलिररुचद्वयाख्याकृतः पुरो यस्य।
पटुवाङ्मुखप्रवाहप्लवनावष्टब्धपोतफलकेव॥८७॥

निन्दति मकरन्दरसं न्यक्कुरुते शर्करां पयो जयति।
मोचामदमाचामति वाचामधिपस्य वैखरी यस्य॥८८॥

यन्मुखविगलद्वाङ्मुखसुरपुरतटिनीजडीकृता विदुषाम्।
फणितिर्दन्तपटाभ्यामजीघटद्गाढमात्मसंवरणम्॥८९॥

वादिमतपुण्ड्रवाटीनिष्पीडननर्मयुक्तियन्त्रेण।
भुवि यः सृजन्नजृम्भयदवदातं ख्यातिफाणितव्रातम्॥९०॥

यस्य च मनीषिणामग्रगण्यस्य शिविकाग्रसीमनि वैतालिकवदननिःसृतां सरस्वतीं शश्वदेवमश्रौष॒म्।

दुरभ्यस्त विद्यालवेनापि केचिद्दुरन्तामहन्तामयन्तां कृतं तैः।
प्रशस्ते कवित्वे समस्तेऽपि शास्त्रे भवत्यप्पयज्वावतंसात्कृती कः॥९१॥

रे रे मुञ्चत धावनानि विमताः सेवध्वमाङ्घ्रिद्वयी
मप्पय्याध्वरिणो घटेत भवतामेतत्प्रसादस्तदा।

तुष्यन्त्यक्षिगतेष्वपि प्रपतनात्सन्तः समृद्धागसः
काकस्यानतिकारिणो हि दयते किं नो रघूणां प्रभुः॥९२॥

यश्च सकलविपश्चिदावलिधुरंधरो वसुंधरोल्लङ्घनजङ्घालशोभापिचण्डिलैर्यशोमण्डलैरजगर्हदभिनवकेतकबर्हम्, अवनीवलयानन्दंसंदायकविलासकैर्गुणविलासैरजिह्रिपदम्भोजदुर्हृदम्, तिवेलकलितसपर्यापरिचर्याभिप्रीणदगराजकन्यकाप्रणयिनम्, अचलगुहाविहरदिभरिपुगर्जितोर्जितप्रणादैवोदविनोदैरततक्षदहितविबुधदाक्ष्यम्,अनवरतायातयाचप्रियंकरणैर्वितरणैरचकम्पदशेषदातृयशःस्तम्भम्, अङ्घ्रिपङ्केरुहसेवाहेवाकमण्डलितान्पण्डितानललङ्घं दागमसागरसागरसंघम्, अनवद्यविद्याविशेषभूषणमञ्जूषया मनीषयाचचर्वदमरगुरुगर्वम्,

यस्याजस्रमुदित्वरेण हविषाक्रान्ते दिशामन्तरे
तस्तम्भे कुमुदस्मयेन चकृशे ताराधिपच्छायया।

सस्रंसे शरकाण्डपाण्डुरतया मम्ले मरालश्रिया
बभ्रंशे बिसकान्तिभिर्विजगले डिण्डीरखण्डांशुभिः॥९३॥

यत्कीर्तिप्रकरद्विपस्य विहृतिस्थानं जगन्मण्डलं
घण्टे चण्डमयूखशीतकिरणावालानमद्रीश्वरः।

कक्ष्या व्योमतरङ्गिणी वमथवस्तारागणाः सप्तधा
निर्मुक्ता मदवारिनिर्झरपरवाहाः पयोराशयः॥९४॥

कर्णः श्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयशातकुम्भ-
स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्तिं प्रशस्याम्।

रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते-
र्विद्याकल्पद्रुमस्य स्वयमिव कलयञ्जातरूपालवालम्॥९५॥

नीलकण्ठमतनिर्वहणोत्कादुक्तिवृष्टिमुपलभ्य तद्भ्रात्।
ईशयोग्यमयमाशयभूमौ बोधशालिभरमेघयति स्म॥९६॥

अहो विबुधवर्गाय सकलाः सकला अपि।
दिशन्ननिशमेताभिर्द्विजाधिपतिरैधत॥९७॥

इति श्रीसमरपुंगवस्य कृतौ चम्पूकाव्ये द्वितीय आश्वासः।

तृतीय आश्वासः।

शक्तिमस्याभिरूपस्य सकलागमशोधने।
पटीयसीमिवामृष्यन्प्रादुरास मधुस्तदा॥१॥

मध्येवनं भूरिदिनोपजातमौनव्रतानां कलकण्ठयूनाम्।
समग्रवाग्वैभवसंप्रदायसंसिद्धिहेतुः समयो जजृम्भे॥२॥

दिनान्यभूवन्नवशीधुनापि विना जनानां मदसाधनानि।
कंदर्पबाहाविजयाङ्कगीतसंदर्भनिष्णातशिलीमुखानि॥३॥

मधौ मिलत्संपदि क्लृप्तभावा सीदद्विभूतिं शिशिरं धरित्री।
शनैः शनैर्यद्विजहौ वधूनां साधारणीनां प्रकृतिः किलेदम्॥४॥

वियन्महोदन्वति दक्षिणाशाव्यापारभाजस्तरणेर्निवृत्तिम्।
तदात्ववातानुगुणां ततान सांयात्रिकः किं समयाभिधानः॥५॥

शीम्माजडिम्मःशिशिरेण दत्तामात्माकृतेः संकुचितामवस्थाम्।
दिनानुपूर्वी त्यजति स्म जाते सुखैकहेतौसुभगे वसन्ते॥६॥

स्वीकर्तुमुर्वीं शिशिरर्तुभूपे विजृम्भमाणे भृशविस्तृताभिः।
गते तु तस्मिन्क्षणदाभिधाभिर्निमीलितं नीलपटीकुटीभिः॥७॥
प्रादुर्भवन्ती बहिरब्जिनीनां संवर्तिकासंहतिराबभासे।
नीहारवर्षात्ययनिर्णयाय प्रसारिता पाणिपरम्परेव॥८॥

मनो वशीकुर्वति माधवेन व्यक्तीकृते कोकिलवंशनादे।
वल्ली मुधा बल्लवसुन्दरीणां पटैरिवाभ्रश्यत पाण्डुपर्णैः॥९॥

तपोनभस्वत्प्रभवेन क्लृप्तां त्रासेन नीहारसमावृतिं वा।
वसन्तविश्लेषवलक्षपातां जहौ जरत्पत्रमिषेण वल्ली॥१०॥

समं पुराणच्छदनैर्लतानामणूदरीणामतिधैर्यभारम्।
बालानिले मुष्णति पल्लवेषु बभूव चित्तेषु च रागबन्धः॥११॥

समीरणं चापलक्लृप्तपाण्डुपर्णांशुकाकर्षणपारवश्यम्।
बल्ली वलत्पल्लवपाणिनेव निवारयन्ती नितरां चकाशे॥१२॥

आरामसीमामधिजग्मुषे नु दातुं वसन्ताय गणैस्तरूणाम्।
प्रबालकौसुम्भपटोपहारसनाथशाखाग्रंकरैर्बभूवे॥१३॥

पर्यायतः पाटलमञ्जरीषु चरन्त्यलीनां पटली चकाशे।
तत्तन्मधुस्वादिमतारतम्यविवेचनायै विहितोद्यमेव॥१४॥

अनङ्गबाणावलिरध्वनीनवान्तेषु शोकज्वलनाकुलेषु।
निपातजातं किल नीलिमानं निलीनलोलम्बनिभाद्बभार॥१५॥

माकन्दवाटीषु मधुव्रतानां कुलं वितेने कलकूजितानि।
पिकावलेरञ्चितपञ्चमायास्तानार्पणायेव धृताभिलाषम्॥१६॥

गलन्मरन्दप्रमदाश्रु गीतमाकर्णयन्कौकिलमाम्रशाखी।
शाखाञ्चलेनानिलचञ्चलेन श्लाघाचलन्मौलिरिव व्यलासीत्॥१७॥

क्रोशन्तमिन्दिन्दिरघोषलक्ष्यात्पिकारवालोलितया प्रसाद्य।
समीरपोतं सहकारवाटी धन्या मधुस्तन्यरसैरपुष्णात्॥१८॥

सकिङ्किणीकः कलचञ्चरीकैः प्रसूनधूलीपरिधूसराङ्गः।
अङ्कानुपारुह्य दिगङ्गनानां बालानिलः साधु बबन्ध लीलाम्॥१९॥

वने वने वल्गुगिरां पिकानां कलस्वनाकर्णनकौतुकं वा।
परागपालीषु परिभ्रमो वा मरुद्विहारेऽजनि मान्द्यहेतुः॥२०॥

पिकद्विजं च स्पृहणीयवाचं मत्तद्विरेफं च मधुः पुपोष।
सतो गुणानप्यसतोऽपि दोषाञ्जात्या विहीनो न विवेक्तुमीष्टे॥२१॥

वसन्तलक्ष्म्या वनकेलिभाजो लाक्षारसार्द्राः पदपङ्क्तयो वा।
छिन्नस्य वा किंशुककैतवेन शीतस्य रेजुः सरसैकदेशाः॥२२॥

पान्थप्रियालस्य भरैकहेतोरपि प्रियालस्य गुणानभिज्ञाः।
उत्तानचित्ता भृशमुत्पलाक्ष्यो गानैर्विकासं घटयांबभूवुः॥२३॥

दृष्ट्या वधूनां तिलकद्रुमस्य स्वच्छन्दमासीत्सुमनोविलासः।
सचेतनानां किमु शम्बरारिशरावलीजर्जरिताशयानाम्॥२४॥

निश्वासवातेन नितम्बिनीनामुद्भावितोपस्कृति सिन्दुवारम्।
अलंचकार श्रवणं यदासां कृतज्ञभावानुगुणः किलेदम्॥२५॥

सनर्महासाङ्कुरचन्द्रिकाणामणूदरीणामनुकुर्वतेव।
नमेरुणाभूयत सस्मितेन जनस्य चित्तेन तु विस्मितेन॥२६॥

स्वस्मिन्वधूभिः सुदृढोपगूढे विटान्प्रहर्तुं विहिताभ्यसूयान्।
अस्त्रावनिं नूनमनन्यजाय कदम्बकं कौरवकं व्यतानीत्॥२७॥

कङ्केलिसालः कमलेक्षणानामङ्घ्रेःप्रणीताभिहतेर्निपीताम्।
वमन्प्रवालान्व्यपदिश्य लाक्षां स्पष्टं वितेने निजपादपत्वम्॥२८॥

तत्तादृशं भाजनमङ्गनानां हस्ताम्बुजस्पर्शनगौरवस्य।
तत्पादघातैकपदं प्रसूनैस्तरुं जहासेव रसालसालः॥२९॥

अलिद्विजैरादरणीयनादव्याजेन क्लृप्तस्मरवेदपाठैः।
मन्ये न वन्यां मदिरानुषङ्गकलङ्किता गन्धफली सिषेवे॥३०॥

मधुश्रियः काञ्चनकर्णिकेव मनोभुवो हैममिवातपत्रम्।
आलोकि लोकैरबलाजनोक्तिकार्यस्मितालंकृति कर्णिकारम्॥३१॥

नीलालकावक्त्रनिपीतशेषहालारसापादितहासशाली।
मदोदयभ्रान्तमधुव्रताक्षः शाखी जनस्याजनि कामपालः।\। ३२॥

सेतुं प्रति प्रतिष्ठासा शिष्टसूनोरथोदिता।
काशीगतिकलाधीतैरादौ प्रणवतामधात्॥३३॥

ग्रहैरशेषैः कलितानुकूल्ये लग्ने पितृभ्यां रचिताभ्यनुज्ञः।
मान्यैः कृतस्वस्त्ययनो मनीषी प्रातिष्ठत प्रेक्षितसन्निमित्तः॥३४॥

तमनु प्रस्थिता धन्या तादृशप्रेमशालिनी।
व्यद्योतत मनोवृत्तिः पित्रोरिव सहायिता॥३५॥

कथाभिधानैः सुहृदामुदारैरसंभृताध्वश्रमसंपदेषः।
आवासमद्वैतरसालनेतुराकल्पमुर्व्याः पुरमभ्ययासीत्॥३६॥

अथ तस्य नयनपथमासीदति शुनासीरवसतिरपि भूषितमहीतला, समधिगतदक्षिणपथापि सर्वोत्तरस्वभावा, पावनतरानुभावापि पल्लवेषु कृतस्थितिः, अयोध्यापि भोगवती, विशालापि मथुरा, महोदयापि द्वारवती, वाराणसीव वरणोपवेष्टिता, वस्वोकसारेव धनदोपशोभिनी, वारवधूटिकेव वशीकृतधूर्तावतंसा, कंसारिमूर्तिरिव कमलाकरोपगूढा, रूपकपरम्परेव रुचिरविधिविराजिता, संगीतविद्येव सारङ्गनाटिकावती, पार्थसमृद्धिरिव पाञ्चालिकाञ्चिता काञ्चीपरी।

स्पर्धां विधाय प्रभुणा गिरीणां संवर्धमानो दिवि यत्र सालः।
विचिन्त्य विन्ध्याचलशासिशक्तिं तिष्ठन्निवाभाति भियार्धमार्गे॥३७॥

आनन्दामृतनिधिमर्धचन्द्रमुद्रं भोगेन स्फुटमभिवेष्ट्य सालनाम्ना ।
पूर्वार्धंभुजगपतेरिव स्थितस्य प्रोत्तुङ्गं विलसति गोपुरं यदीयम्॥३८॥

यद्गोपुरं निशि समुच्छ्रितशृङ्गसीम-
विश्रान्तशीतकिरणच्छुरितं दधाति।
पद्मारानस्फटिकपात्रपतज्जलौघ-
संप्लाव्यमानकमलासचिवाङ्घ्रिलीलाम्॥३९॥

महीयसा गोपुरमन्दरेण प्रमथ्य सिन्धुं परिखाभिधानम्।
आसादितस्येव नवामृतस्य तृप्यन्ति यत्र स्थितिमादधानाः॥४०॥

प्रतप्तजाम्बूनदपेशलाभिः पराजिता यत्प्रमदातनूभिः।
सौदामिनी साध्वसपारवश्याश्रान्ततारल्यमहो जिहीते॥४१॥

कुचाञ्चले लोचनकोणभागे कचान्धकारेऽपि च कामिनीनाम्।
जागर्ति यत्राहितसंनिधानात्पिनाकिनो भीतमना मनोभूः॥४२॥

शश्वत्प्रतोलीसरणीपुकामं परम्परा भ्राम्यति यत्र यूनाम्।
शातोदरीलोकदरावलोकसंमोहनास्त्राहतिविह्वलेव॥४३॥

प्रविश्यतां विपश्चितामपश्चिमोऽयमाश्चर्यवीतमतिरेतदवादीत्—‘अशेषजननयनयोग्यममुष्याः किमपि सौभाग्यम्, यदवलोकनलोलुपतया भृशमनेकपशैलराजशिखरमरविन्दलोचनोऽपि भगवान्प्रतिदिवसमधिवसति।

वाणीसहचरस्यास्य वाजिमेधाध्वरक्षितौ।
गोपुरावलिकूटेन भाति यूपपरम्परा॥४४॥

अस्याः प्रभावेण जनस्य वाणी मन्दापि घाटीमधिगन्तुमीष्टे।
विधेः प्रियोदाहरणं किलात्र सा मन्थरा वेगवती भवन्ती॥४५॥

प्रसार्य नानाविधपण्यजातं प्रातः क्षपायामुपसंहरन्ति।
इयं पुरारेरनुयाति लीलां प्रपञ्चसर्गप्रलयैकशीलाम्॥४६॥

शरीरिणोऽस्या मणिसालगर्भप्रवेशनिष्क्रान्तिशतापदेशात्।
विवोढुमह्नाय विमुक्तिकन्यामाकृष्यजन्मान्यनुभुञ्जते किम्॥४७॥

कल्याणसंतानतरुं कयापि श्लिष्टं जगन्मङ्गलकल्पवल्ल्या।
आसीनमस्या वरणालवाले फलार्थिनः केऽपि भजन्ति धन्याः’॥४८

तत्पूर्वतीर्थयानोऽपि तत्र भूसुरनन्दनः।
समवर्तत निर्व्यूढसर्वतीर्थावगाहनः॥४९॥

अथ वेदशिरोनिष्ठानपि तीर्थतटीजुषः।
अनङ्गीकृत कन्दर्पानपि सत्याञ्चितेक्षणान्॥५०॥

अपि माधुकरीं वृत्तिमञ्चतो भ्रमवर्जितान्।
अपि निःसामकारुण्यानक्षनिग्रहनिर्दयान्॥५१॥

शाम्यद्विषयसंचारानपि प्रव्रजनाश्रयान्।
राजहंससमारब्धसेवानप्यजडाशयान्॥५२॥

रुषमंहसि विद्यासु लोभमात्मनि रागिताम्।
अज्ञत्वमन्यनिन्दासुयतोऽपि जितषड्रिपून् \।\। ५३॥

शर्वरीसमयारम्भानिव संभृततारकान्।
भीमसेनभुजाटोपानिव दण्डितकीचकान्॥५४॥

अनल्पभसितालेपविलसद्विग्रहाञ्छुचीन्।
प्रावृट्प्रशमिताटाट्यान्वरहंसधुरंधरान्॥५५॥

असमुत्तम्भितप्रांशूनधौतविमलात्मनः।
अखातगम्भीरतरानहिमाक्रान्तशीतलान्॥५६॥

कदम्बमुकुलाकारैः कुण्टकैरुपशोभितान्।
………………………………………तेरिव॥५७॥

तत्र कुत्रचन स्थास्नूनवनीपावनाकृतीन्।
कर्मन्दिनः प्रणम्यैष गाहते स्म महोन्नतिम्॥५८॥

भृतकल्याणगुणानपि परकनकरुचित्यजोऽपि सर्वज्ञान्।
अपिना…………………..भवानपि महोराशीन्॥५९॥

शैवालापसमग्रान्भ्रमरहितान्प्रकृतिसमधुरांजीवान्
बिमलान्तरङ्गवार्तान्प्राप्तानिव पुण्यकासारान्॥६०॥

उन्मत्तपत्रपुष्पैरुत्पादितविभ्रमादनङ्गरिपोः।
आदातुमीहमानानावृतमानन्दमिव च सर्वस्वम्॥६१॥

सकलागममधुदिवसाञ्श्रीकण्ठासक्तकंसवैरिभुजान्।
नवभूति श्रीदगृहान्पुरुषानभजत्परत्र सुधीः॥६२॥

आर्यसेवी सनिध्यातुमगादेकाम्रनायकम्।
वर्धते सुकृतश्रद्धावार्धकं वरिवस्यताम्॥६३॥

ततः क्रमेण समतिक्रम्य कतिचिदेष कक्ष्यान्तराणि साक्षादकृत। कृतकेतरादरः स्वयंवरवल्लभ इति श्रुतिपल्लवाधराभिः, अगदंकार इति भवरुजातङ्कवाहिभिः, आहितुण्डिक इति कालकुण्डलिना, वाडवशिखीति वार….महार्णवेन, कूटपाकल इति कुसुमेषुदन्तिना, पुरंदरायुधमिति जलंधराचलेन, करुणापयोधिरिति शरणाभिलाषिभिः, एकस्वभावमपि बहुधा विभावितम्, आत्मविवर्त जगदभ्यागारिकम्, अखिलविध्यण्डमण्डलीखण्डनवैतण्डकम्, अतिकरालकाकोलमुष्टिं धयबन्धकविलासिनीं कपोलमकरिकाभरणं पश्यतोहरम्, अहरवधिनटनविभ्रमालंकर्मीणम्, अद्भुतगरिमकार्मणविविधकेलिनिर्माणम्, चलतनयानयनपरमानन्दनाडिंधमरूपधेयम्, आपीडपदनिवेशितसगरकुलभागधेयम्, असहायरसालतरविहारिणम्, आरग्वधमालभारिणं त्रिपुरवैरिणम्

विध्यादिविहितान्वेषं निध्याय महसां निधिम्।
अद्रिकन्याकुचाभोगमुद्रितं मोदते स्म सः॥६४॥

अभिवन्द्य तमखिलभुवनवन्दनीयचरणारविन्दमकृत्रिमवचःप्रशस्तापदानमस्तौषीत्।

हन्त च्छन्दःपारिजाताग्रभाजो माद्यन्मायामाक्षिकोत्सारपूर्वम्।
यस्यास्वादं कर्तुमार्या यतन्ते माध्वीकं तद्भाति माकन्दमूले॥६५॥

त्रसदद्रिसुतादृढोपगूहप्रमदाद्वैतपदाधिकारदात्रीम्।
वलयाङ्क निधेहि मूर्ध्नि कम्पां धृतया किं फलमभ्रगङ्गया ते॥६६॥

व्यर्थः पिधातुमजिनादिविरागचिह्नैः
स्त्रीवश्यतां त्रिपुरंशासन ते श्रमोऽयम्।

गात्रं तवैव कमनीयकुचाङ्कमस्या
विख्यापने विजयडिण्डिमतां दधाति॥६७॥

सत्यं जितोऽसि मदनेन यतः सकम्पं
काञ्चीपदे कलयसि स्थितिमङ्गजारे।

साहाय्यनिर्वहणसस्पृहकामकोटिः
शक्तिः किलैकसहकारवतोऽभिषङ्गे॥६८॥

संपत्त्यै समिदुच्चयस्य परशुं भद्रं भरानीतये
पाकाय ज्वलनं जलाय तटिनीं पत्रोपक्लृप्त्यैवटम्।

माकन्दं च फलाय मन्मथरिपो संगृह्णति त्वय्यभू-
त्कामाक्ष्या विकलेतरः परिकरो नित्यान्नविश्राणने॥६९॥

भावना मे महादेव……………………………।
नौस्तम्भलग्ना काकीवनान्यत्र लभते गतिम्॥७०॥

अपि च।

भगवति शंभावनया शिवया सह शीलिते भृशं भावनया।
तदधिगमोदस्तस्य क्लेशात्पुंसो भवेत्प्रमोदस्तस्य॥७१॥

…..देव्या पारेकम्पं क्ष…या दयास्पदे व्यापारे।
परिचितमधिकाञ्चितया पश्यदलीकं भजेयमधिकाञ्चि तया॥७२॥

वरमेकरसालपतिः श्रुतिरमुमेव स्फुटाधिकरसा लपति।
वपुरसमा तारमतेः स्वीकृत्यामुष्य विश्वमाता रमते॥७३॥

सुरभिरमाकन्दस्य स्फूर्जति मूले निविश्य माकन्दस्य।
प्रमथेशो भाति शये भृतमृगपरशुर्जिताब्जशोभातिशये॥७४॥

नाथशरीरं भायान्नगभुवि मृदितं नटत्परीरम्भायाम्।
भीत्या कम्पारयतः प्लावयितुं भुवनगोलकं पारयतः॥७५॥

परिचितवेदान्तानां प्रणिहितमनसामुमाधवे दान्तानाम्।
अलघुभवाटव्यसनं विरचयतां क्वेन्द्रवेशवाटव्यसनम्॥७६॥

दक्षसभावस्कन्दे पटुरवतु शिवो निरूढभावः स्कन्दे।
स्त्री कृतकरणीयस्य स्मृतिभवचेतोविशल्यकरणी यस्य॥७७॥

तमुपासे वासवतः परममरादपि च सारसे वासवतः।
अस्त्रितसारसनाभिं कमपि करासक्तकृष्णसारसनाभिम्॥७८॥

अतिरेकं दर्पस्य क्षपितवदक्ष्णा निजेन कन्दर्पस्य।
प्रशमितसन्नमदेनः स्मरत ज्योतिर्हृदावसन्नमदेन॥७९॥

पृथुकटकैलासस्य प्रसवसुगन्धैः पतिः स कैलासस्य।
भाति भवानीकान्तस्त्रिपुरान्धकमुख्यदानवानीकान्तः॥८०॥

पटुरनुसायं नटने समतां सिंहस्य रंहसा यन्नटने।
मां भजमानं दयतां पशुपतिरातङ्कभाजमानन्दयताम्॥८१॥

सरसिजधामादिशते पदजुषि विद्यां पृथग्विधामादिशते।
विभवे विप्रसवाय प्रणतिरियं ध्वस्तविधिजविप्रसवाय॥८२॥

अधिफणिहारमरालः पतिरवतु कृपासरोविहारमरालः।
अघतटिनीरच्छा यं प्लवमेत्य तरन्ति गाङ्गनीरच्छायम्॥८३॥

वलदहिदाम वसानं त्वचमीडे देवदुर्हृदामवसानम्।
जगदतिसंधामाद्यन्नलिनशरप्लोषलालसं धामाद्यम्॥८४॥

पुरता मम नाथो रणदमितविपक्षराजमानसमुदयम्।
………………………………………………………….॥८५॥

मतिभृङ्गि महेशाङ्घ्रिसारसं दोहलालसे।
आश्रयानन्दमाध्वीकसार संदोहलालसे \।\। ८६॥

शंभोरवतु मामेकसहकारतलासिका।
ऋते गिरिभुवं तेन सह का रतलासिका॥८७॥

सोऽव्याद्वहन्सुरोत्तंसमकरन्दरसं पदे।
दिशन्नरिं ध्वजारूढमकरं दरसंपदे॥८८॥

वेदविदध्वान्तस्य व्यतिकरमबलादिसौहृदध्वान्तस्य।
प्रमदाम्भोजहितेन प्रत्ययरविणाम्बिकाविभो जहि तेन॥८९॥

तं भजे बुभुजे येन तरसा गरलं घनम्।
यत्परैः सुकरं भद्रेतरं सागरलङ्घनम्॥९०॥

राजतेजा गरादी नः सविता नयशोधनः।
राजते जागरादीनः सवितानयशोधनः॥९९॥

उषितः समया रसालसालं स्वमुपासीदति या रसालसालम् ।
गिरिजां मुहुराहिताङ्कपालीप्रणयः स्तौति गिरा हितां कपाली॥९२॥

अद्वितीयाम्रमूलासिकालालसं नृत्तलीलारसोल्लासिकालालसम् ।
मामकी दुर्भनोभावनागाहतेः श्रीगिरीशं भिया भावना गाहते॥९३॥

अमितविभव सर्वदैव तेषु त्रिजगति ते भव सर्वदैवतेषु ।
नतिरतिरसभावितायमानैः स्फुटमिह धीरसभावितायमानैः॥९४॥

फणाभृति तवेश दोर्णवपटीरसाला सिका-
रते नटतिकम्पितार्णवपटी रसा लासिका ।

सतींप्रणयसंपदा समधिका मनङ्गाहतेः
स्मरान्तकं तवान्तरं समधिकामनं गाहते॥९५॥

इह खलु तामरसाक्षीमयवामतनो त्वमानतामरसाक्षी ।
इयमनुकम्पालय ते नतिरीश नमस्यतोऽधिकं पालयते॥९६॥

गिरिश गभीरं हस्तस्फुरदायुधमत्र केऽपि भीरंहस्तः ।
सविधिकरोटीकं ते वपुः स्मरन्तो जगद्गुरो टीकन्ते॥९७॥

लघु फलमाशासानश्चरतु जनो नेदमाप्तुमाशा सा नः ।
त्वयि शशिकोटीरमणे भक्तिं याचेम कामकोटीरमणे॥९८॥

प्रतिदिवसं सारस्य प्रकटितविपरीतस्थितेः संसारस्य (?) ।
इह सपदि व्याहारः शिव इति हरतेऽघमस्तदिव्याहारः॥९९॥

अमित रसारम्भणतः श्राव्यं शिवनाम वेदसारं भणतः ।
स्यान्मम कालापनयः स तु किल कल्याणसाधकालापनयः॥१००॥

अविहितकृदकाण्डे दण्डितोऽभून्मनोभू-
रकरुणममुनेति स्पर्धमानेव गौरी ।

स्वकुचवलयमुद्राशालि गात्रं पुरारे-
रकृत मदनजैत्रस्तम्भमेकाम्रंमूले॥१०१॥

प्रणयकलहाशान्त्यै पादमूले विनम्रा-
दभिचलति कपर्दादभ्रगङ्गातरङ्गे।

पुनरुपगतकम्पापूरमोहेन देव्या
दृढतरमुपगूढं ध्यायतैकाम्रनाथम्॥१०२॥

कुवलयदामकोमलवधूमयवामतनौ
भवतु भवे भवे मम भवेऽतिभवेऽभिरतिः।

न तु भवने धने परिजने मदनेभमद-
प्रदचरितासु तासु वनितासु सुतादिषु वा॥१०३॥

काञ्चीनगर्यामालोक्य कामकोटेः किमुन्नतिम्।
रुद्रकोटिमधिष्ठाय रोचते मदनान्तकः॥१०४॥

इति स्तुवन्हिमकरमौलिसंनिधेर्जगत्प्रसूचरणसमीपमभ्यगात्।
अलिर्यथा नवहरिचन्दनान्तिकादुदञ्चितध्वनिरुपकल्पवल्लिकाम्॥१०५॥

अपिचैकभागमधिजग्मुषी विभोरतितृष्णयेव परभागमाश्रिता।
स्तनयोर्मनोजवसतामुपेयुषी परदेवता पथि सुधी दृशोरभूत्॥१०६॥

असौपुनरसदृशप्रतिपत्तिमेदुरः प्रणिपत्य मातरमवाङ्मनसगोचरगुणामाचिकुरचरणारविन्दमनुसंदधानो विसृमरानन्दवीचिरिदमवोचत।

सर्वात्मना स्तवे तव जननि जगत्यां न मादृशो निपुणः।
निवहोऽपि नित्यवाचां भागत्यागेन भणति यद्रूपम्॥१०७॥

शम्बरवैरिकृपाणी शैलतनूजे तवासिता वेणी।
उन्मदयौवनकुञ्जरशुण्डालतिका शुभाय मे भूयात्॥१०८॥

जननि तव मौलिचन्द्रो भिन्द्यान्मम बहलमान्तरं तिमिरम्।
वेणीविधुंतुदेन ग्रस्तमिवार्धं न दृश्यते यस्य॥१०९॥

कान्तिविशेषाधीतिं कलयितुमन्ते वसन्नपि शशाङ्कः।
वहति न ते वदनरुचिं भवति हि भाग्यानुसारिणी सिद्धिः॥११०॥

वदनश्रियो विधात्रा विधृतस्य विधुच्छलातपत्रस्य।
मृगमदतिलकमिषेण च्छायावलयं चकास्ति तव फाले॥१११॥

उत्तेजितः किमुत्पलबाणो मदनेन भालशाणेऽस्मिन्।
भाति यदियं भवानि त्वद्भ्रूरूपेण तद्रजोरेखा॥११२॥

अधिकमसितोत्पलादपि धरणीधरपुत्रि तावकं नयनम्।
कर्णाश्रयेण कान्तिमदाद्यं यत्तदतिपीडनेन परम्॥११३॥

विषयमरुमार्गसीमाविभ्रमसंजातसंज्वरानस्मान्।
अम्ब कृपारसपूरैरभिषिञ्चापाङ्गसारणीमुक्तैः॥११४॥

निध्याय किं भवत्या नासाचाम्पेयमन्तरालगतम्।
नयनमधुव्रतमिथुनं न कदापि मिथः समागमं भजते॥११५॥

कान्तिसुधया करम्बितमाननचषकं तवाधिवासयितुम्।
नासामणिच्छलेन न्यस्तं किमु मल्लिकामुकुलम्॥११६॥

विरसा विद्रुमवल्ली तुल्या न भवेत्त्वदोष्ठबिम्बेन।
यदमृतसेवनलोभादीशो धत्ते बहूनि वक्त्राणि॥११७॥

अवतु तव स्मितकलिका शिखरिकुलाधीशकन्यके मातः।
प्रणयकलहप्रसक्तिषु यदवधिरीशस्य भवति चाटूक्तिः॥११८॥

सरघोपचितरसे वा सारे वा कालकूटसोदर्ये।
मधुरिमधियं विमुञ्चति गिरिशः प्रस्तौषि यदि गिरमपर्णे॥११९॥

वितता भवत्कपोले विलसति ताटङ्कमौक्तिकच्छाया।
अधिकतया श्रुतिगलिता हरचरितकथासुधारसझरीव॥१२०॥

न नमय वदनसुधाकरममृतं निपतिष्यतीति सव्याजम्।
गिरिशेन केलिकलहे मुहुरुन्नमितं नुमो भवच्चिबुकम्॥१२१॥

त्वत्कण्ठदत्तभङ्गः शङ्खो भीत्या समेत्य हरिदीशम्।
भजते ततोऽपि भङ्गान्क्वापि न शर्मास्ति कुटिलहृदयानाम्॥१२२॥

कण्ठसमुदञ्चितं तव कलरुतमपहृत्य सांप्रतं गिरिजे।
प्रकटयति जनसमक्षं प्रायो हस्ताग्रताडिता वीणा॥१२३॥

नखर सुमनोलसत्करकिसलयमम्ब तव भुजलतायुगलम्।
आलिङ्गति सहकारं निटिलदृगभिधानमिति किलौपयिकम्॥१२४॥

आर्तान्क्षुधा पदाम्बुजसक्त्तानस्मान्समीक्ष्य वात्सल्यात्।
धृतया स्तन्यसमृद्ध्या भवति किमम्ब तव पीनता कुचयोः॥ १२५॥

मुखचन्द्रामृतलहरी मुक्तादामच्छलात्क्षरन्ती ते।
कुचगिरिमृगमदकलिला नाभिसरो विशति रोमराजिमिषात्॥ १२६॥

ज्यारोपणाय मध्ये धनुषो निहितस्य मारवीरेण।
अटनीनिपीडनोदितमवटं त्वन्नाभिरिति वदन्ति जनाः॥ १२७॥

उच्छ्रायशालिनोर्भरमुरसिजयोः सोढुमप्रवीणतया।
ताम्यति तवावलग्नं सह्या न ह्यन्यसंपदल्पानाम्॥ १२८॥

वसतो वृषाङ्कभीत्या भवदीयश्रोणिपर्वतनितम्बे।
रशनामिषेण रक्षावरणो मदनस्य वर्तते मातः॥ १२९॥

मन्ये त्वदूरुकाण्डौ मन्मथतारुण्यवारणेन्द्रकरौ।
कथमिह घटतेऽपरधाकदलीस्तम्भाभिषङ्गलम्पटता॥ १३०॥

समरव्यतिकरसमये पश्चाद्भवतो भृशं निषङ्गस्य।
दर्पहरणेन तावज्जङ्घाकाण्डस्य जननि का श्लाघा॥ १३१॥

संपल्लवास्त्वदङ्गेः सक्ता वल्लीषु किसलयव्याजात्।
यत्पल्लवा इतीदं नाम्नो नामैकदेशतो ग्रहणम्॥ १३२॥

प्रकृतिकठोरपदावलिरेषा नुतिरेव मत्समारब्धा।
भवति भवदङ्घ्रिपल्लवशोणिमहेतुरिति शोभते वादः॥ १३३॥

जननि त्वदङ्घ्रिचङ्क्त्रमलीलालेशापहारसंदेहात्।
प्रायेण निगलबन्धं नरपतयः कारयन्ति नागानाम्॥ १३४॥

श्रुतिशतशिरोविहारश्रमपरिखिन्नेव चरणरेणुस्ते।
सुरवरशेखर सुमनोमकरन्दस्यन्दगाहनं तनुते॥ १३५॥

असितकचमायतेक्षणमुल्लसितस्मितमुदारकुचभारम्।
घनजघनमरुणचरणं कलये कामाक्षि तावकं रूपम्॥ १३६॥

सुधाभजनविधायिनोऽपि सपदि समुदेति सौहिती न पुनरम्बागुणकदम्बामृतझरीनिषेवणधुरीणमानसस्य। पुनरपि भूसुरधुरंधरस्तदनुबन्धिनीमेव भारतीमभिधातुमारभत।

कस्मिन्मुहूर्ते करपल्लवेन तवाददे काञ्चनदर्विकेयम्।
यस्य प्रसादादयमिन्दुमौलिरैश्वर्यमव्याहतमम्बभुङ्क्ते॥१३७॥

धामास्य कैलासगिरिः करस्थो हेमाचलस्त्वं दयितान्नपूर्णा।
धत्तेहरो भिक्षुकतां तथापि लुब्धः समागच्छति केन तृप्तिम्॥१३८॥

गिरीशहेरम्बकुमारवाहप्रस्तावशिष्टैरचलेन्द्रकन्ये।
धान्यैरपि प्रस्थमितैः कथं वा जगत्त्रयीपोषणमातनोषि॥१३९॥

कम्पामपास्य ग्रथितोद्गमानां चञ्चूपुटग्रस्तबिसाङ्कुराणाम्।
उद्ग्रीवमोघेन मालिकानामाकर्ण्यमानाभरणस्वनानि॥१४०॥

मृदुप्रकृत्योर्मणिनिर्मितायां पदाब्जयोरर्पितयोः पदव्याम्।
तद्बिम्बदम्भाद्दयमानधात्रीप्रारब्धपद्मास्तरणक्रियाणि॥१४१॥

कुचामृतास्वादकुतूहलेन हस्तावकृष्टांशुकपल्लवाभ्याम्।
अभीष्टवस्त्वन्तरदानपूर्वमाख्यातसान्त्वानि कुमारकाभ्याम्॥१४२॥

अनुद्रवच्छेकमृगीनिवृत्त्यै वितन्वतो हुंकृतिमाननेन्दोः।
साचीकृतप्रेङ्खितवेणिकास्तश्वासानिलाकृष्टमधुव्रतानि॥१४३॥

मध्याय मन्देतरकम्पशालिपयोधरद्वन्द्वभरार्दिताय।
अनार्यशङ्काकुलितेन भर्त्रा प्रतिक्षणं प्रार्थितमङ्गलानि॥१४४॥

अचिन्त्यमानस्फटिकाङ्गणोर्वीपुष्पोपहारस्खलनव्यथानि।
वेगोपयात्तानुचरीप्रणीतवेणीगलन्माल्यनिबन्धनानि॥१४५॥

अभीक्ष्णमक्ष्णोः श्रवणारविन्दपरागपर्याकुलभावभाजोः।
प्रसादनाय प्रणयोत्तरङ्गंपिनाकिना दत्तमुखानिलानि॥१४६॥

अद्वैतचूतप्रसवासवेषु पदे पदे प्रस्तुतमज्जनाभिः।
कम्पातरङ्गानिलकन्दलीभिराचान्तधर्माम्बुकणावलीनि॥१४७॥

अजस्रमभ्यागतमण्डलाय प्रत्यग्रमन्नं प्रतिपादयन्त्याः।
आ मण्डपादा च महानसात्ते कामाक्षि नः पान्तु गतागतानि॥१४८॥

किं च।

मध्ये बीपवनस्य मचलद्गीर्वाणतरुवनीपवनस्य।
शीलितमोहनगानां जननीं भज भञ्जनाय मोहनगानाम्॥१४९॥

पुरहरगिरिजातरसा चेतसि येषां चकास्ति गिरिजा तरसा।
अतिसरसं पद्यं ते रचयन्ति यशांसि तेषु संपद्यन्ते॥१५०॥

इयमुपनीताम्रतरावभिके सक्ता जपावनी ताम्रतरा।
मामिह पाकं पायान्नियतविधिं तन्वती कृपा कम्पायाम्॥१५१॥

बहुशो भाविता नासाशिखरन्यस्तलोचनैः।
बहुशोभाविताना सा भवानी परिपातु नः॥१५२॥

घनसारसगन्धेन वदनेन स्मितेन च।
वनसारसगन्धेन ललितां ललितां भजे॥१५३॥

अपत्यमगराजस्य भजमानसभाजनम्।
चन्द्रशेखरचाटूनां भज मानस भाजनम्॥१५४॥

कलत्रमैशं दृग्भासा सन्नतामरसं सदा।
सेवे श्रितं पदोपान्तसंनतामरसं सदा॥१५५॥

त्रातोऽस्मि देव्या बन्धूककलिकोपमदेहया।
गङ्गाधरे कृतप्रेम कलिकोपमदेहया॥१५६॥

जनन्या गिरिशोद्गाढोत्कलिकालसमानया।
वयं धन्या वतंसेन्दुकलिकालसमानया॥१५७॥

अम्बा तपोवनीभूतकम्पाकान्तारमालिका।
सेव्या शिवस्मृतौ वीतकम्पा कान्ता रमालिका॥१५८॥

शिवा स्पृहावती कम्पावाहिनीपवनालये।
भासते सुमनोभारवाहिनीपवनालये॥१५९॥

काशते वलयाङ्कस्य कमनी यतमानसा।
कान्तिसौभाग्यशीलैः किं कमनीयतमा न सा॥१६०॥

समरच्छिनदैतेयसारवद्विपदन्तया।
देव्या जितं कृतोपास्तिसारयद्विपदन्तया॥१३१॥

अत्र गौर्यांसदारब्धयागवासरसार्थया।
भूयते गीयते लोके या गवा सरसार्थया॥१६२॥

भजतः स्युरिमां विद्यां काञ्चीदा मोदराशयः।
साधु जानाति यन्मातः काञ्चीदामोदराशयः॥१६३॥

धत्ते मुदा श्रियं गौरी तामसीमदमन्थरा।
अस्याश्च प्रकृतिर्दूरे तामसी मदमन्थरा॥१६४॥

कलयामीन्दुकलया भूषितां तटभूषिताम्।
कम्पायाः सोर्मि कम्पाया देवतां शश्वदेव ताम्॥१६५॥

कुन्दराजन्नवरदा वरदानविशारदा।
शारदाविनुता पातु तापातुरमिमं शिवा॥१६६॥

जननी जननीतीनां गिरिजा गिरि जाग्रती।
महता महताटोपं तनुतां तनुतां शुचः॥१६७॥

रमणीयतमा शंभुरमणीयमुपासिता।
कम्पातीरं गता नाधेः कं पातीरंमदाधिकात्॥१६८॥

धरा धरार्तिकृत्पयोधराधरास्तपल्लवा।
परा परापनीतितत्परा पराकरोत्यघम्॥१६९॥

अमेयविभवे भवे सहृदया दयाघनमना मनाक्सभजने।
जने धृतसुमा समाधिसुगमागमालिमहिता हितास्ति जननी॥१७०

रयशालिकुचा लिकुचापजये वचसैव सुधा वसुधाधरभूः।
कलसारसना रसना भुवि मे तनुतां नटनं नटनर्मसखी॥१७१॥

मुदितामुदितारुणबिम्बनिभामगजामगजानुविधेयगतिम्।
अधिकाञ्चि घनाभवने भवने रतिभाजमिहाकलये कलये॥१७२॥

महिताहितया जगतां त्रयीपथिकपालिकपालिजुषा मयि।
करुणयारुणया क्रियतां नमत्सुरगवीक्षणवीक्षणनाटिका॥१७३॥

आर्तिभागशनदानवासनाशालिनी जनितदानवासना।
तादृशी जयति तापसी मया सेविता कृतिरतापसीमया॥१७४॥

श्रये महस्तरुणिमसंपदा मनाङ्मदारुणं दृशि वशिनामदारुणम्।
तनुप्रभाततिपरिभूतनिर्दलज्जपावनं विनतसमाजपावनम्॥१७५॥

शिवयागमेषु लसमानवार्तया निजशीलवागलसमानवर्तिया।
स्वगुणोदयत्सकलभावलीलया जगती कृतारिकलभावलीलया॥ १७६

सेवन्ते नतिमिह हारमालिकायै शर्वस्य स्तनधृतहारमालिकायै।
तारल्यप्रकटिततादृशान्तरङ्गा वागीशादिमवनिता दृशां तरङ्गाः॥ १७७

हितोपसंपन्नवनीपकानना वितापसंपन्नवनीपकानना।
श्रिता भवानी तरसा लसन्निधौ सदा भवानीतरसालसंनिधौ॥ १७८

अव्याजनिर्मलतरैर्नखरांशुपूरैः कम्पानदीप्रमदभिन्नगजेशयानाम्।
कमकरोति मनसा भवतीमिदं मे कं पानदीप्रमदभिन्नगजे शयानाम्॥ १७९

सहेतिमस्तच्छविपल्लवेषु शयेषु लूनाच्छविपल्लवेषु।
त्वामम्ब सिन्दूरविभासमानां ध्यायन्ति मध्येरवि भासमानाम्॥१८०॥

सति स्मरहरन्यस्तायतमानस भावने।
पाहि मामजहत्सेवायतमानसभावने॥१८९॥

अम्ब यस्य भवल्लाम्यकलनादरसंभवः।
स वेद तव संगीतकलनादरसं भवः॥९८२॥

अधिमस्तकमेशेन सह सारसमध्यगाम्।
अम्बिके भवतींपश्यन्सहसा रसमध्यगाम्॥१८३॥

त्वत्कृपा भुवने पुंसां कामाक्षि करसाधिका।
त्वां विनानन्दलहरी का माक्षिकरसाधिका॥१८४॥

करोषि देवि दानैस्ते करवैभवनाटनम्।
कदा ते किंकरीभूय करवै भवनाटनम्॥१८५॥

नाके वलन्ते नादान्तमनसः परमेश्वरि।
ना केवलं ते नादान्तदीपिकायास्तु चिन्तकः॥१८६॥

भगवति कामाक्षि पतिप्रणयिनि भजते श्रियं न कामाक्षिपति।
तव हि कटाक्षतरङ्गः करुणोर्मिनटीविशङ्कटाक्षतरङ्गः॥१८७॥

स्थितिमधिकं पारम्ये कलयसि मातः स्थले च कम्पारम्ये।
सिध्यति तव पदवीक्षणतः सिध्यति पुंसामजादिपदवी क्षणतः॥१८८॥

जगदुदयस्थेमहतीः कर्तुं काशीपुरालयस्थे महतीः।
अतुलं चारित्रेऽधा रूपं निगमान्तसौधचारि त्रेधा॥१८९॥

द्विषति पुरामारभसे रुषमधिमौलि धृतजलधिरामारभसे।
त्वमिव परा का रमिता तस्य शिवे दक्षिणेतराकारमिता॥१९०॥

इह पिबतः स्तन्यं ते कस्य न वाचः सुधाभृतस्तन्यन्ते।
अम्ब तदाशु भवत्या प्रदीयतामस्य सर्वदा शुभवत्या॥१२१॥

शुभमनसा कमनेन द्युपतिसुताया गुहेन साकमनेन।
स्तनरसदायजुषो मे समयं गमय स्तुते सदा यजुषोमे॥१९२॥

कार्या देवि चिकित्सा कुक्षिरुजः का दयापदे विचिकित्सा।
स्तन्यरसायनमस्ते तमसि प्रदिशाङ्घ्रिसारसाय नमस्ते॥१९३॥

चिदुदधिराकारजने त्रिभुवनमातः कृतस्मराकारजने।
तव नुतिवाचा रचये प्रपदनमजहत्प्रियोत्सवाचारचये॥१९४॥

अञ्चितशंकरवाणि त्वत्पदसेवां दिवानिशं करवाणि।
मम न गिराजनि योगं वद वचनं ते वदन्ति राजनियोगम्॥१९५॥

श्रितपतिमानसदेशे शश्वत्काञ्च्यांभवद्विमानसदेशे।
भवतु शिवा सानुमति स्निग्धे तव देवि मन्निवासानुमतिः॥१९६॥

इति विनिहितबुद्धिरीश्वरायां भवनमिवाद्रिपतेरसावयासीत्।
निजहृदयनिरूढकामकोटे रुचिततरा वरदोपकण्ठयात्रा॥१९७॥

पार्श्व युग्मगता यस्य प्रसूते गोपुरद्वयी।
अन्तरस्थितशैलेभबन्धनस्तम्भविभ्रमम्॥१९८॥

कथं मनोविस्मयकारि तद्भवेदनन्तरं तत्र यदग्रणीः सताम्।
समाहितानन्तसरोवगाहनः स पुण्यकोट्या लभते स्म संनिधिम्॥ १९९

अथ सुमतिरयमधिरूढशिखरिकूटभागमवलोकयति स्म विस्मयविधायि बिनयगौरवावर्जिताभिरापगावेगसङ्गिवेतसविडम्बिनीभिरुत्तमाङ्गपरंपराभिरन्योन्यनमनकर्माणि निर्मिमाणैरापाण्डरोर्ध्वपुण्ड्रमरीचिनिबिडशरीरतया श्वेतद्वीपविहरणोचितं परिणतिविशेषमिव गार्हमानैः सत्वसमृद्धिमन्तरमान्तीं बहिरिव विभावयद्भिरतिवेलबोधजलधिपूरावगाहमिलित-

मिव बहलफेनपटलमाबिभ्राणैरधिकण्ठमाशये च नलिनाक्षगुणमण्डितैः सारसविहंगमैरिव समाचर्यमाणलक्ष्मणाभिमतैः कमलाकरैरिव कमनीयजलजचक्राङ्गशालिभिरम्बरकुटुम्बिभिरिव प्रकटामृताभिलाषैरञ्जलिसनाथमौलिभिरस्तोकविसृमरस्तवैः परमभागवतसूरिभिराबध्यमानसेवानुवृत्तिमुभयपार्श्वस्थितपरिजनकरावलम्बितैरनवरतं विजृम्भमाणपतनोत्पतनं कर्मभिरलघुनिर्मलांशुडामरैश्चामरैः स्वकरुणारससुधापयोधिवीचिनिचयैरिव समाचरितविजनोपचारमनधिगतवेपथुभिरपनिमेषचापलमात्मीयरूपं संपदमनुभवद्भिरिव दीपिकाप्ररोहैरवभासितभूषणप्रपञ्चं काञ्चीमध्यमण्डलमाखण्डलनीलमिव लक्ष्यमाणमेकेन पाणिना वारणविरोधियादोनिषूदनाय पत्याहमविनियुक्तेति कन्दलितादिव मन्दाक्षभरादधोमुखी कौमोदकीमवष्टभ्य तिष्ठन्तमिदमेव मदावलभयविदारणमित्यभयमुद्रानुबन्धिना करान्तरेण सुदर्शनमिव प्रदर्शयन्तं शुण्डालवरनिवेदितं पुण्डरीकमुकुलमिव समञ्चितं पाञ्चजन्यमापाटलाङ्गुलीदलशोभावगुण्ठितमचिरखण्डितग्राहरुधिराङ्गमिव रथाङ्गमपि हस्तारविन्दयुगलेन संदधानमध्युषितनिकषमध्यामपि कनकरेखामलंकृतगगनाङ्गणामपि तरुणारुणकिरणधोरणीमम्बुदकृतावलम्बामपि शम्पालतामधिक्षिपन्त्या वक्षोनिविष्टया लक्ष्म्या समाश्लिष्टवपुषमभिनवबन्धूकरोचिषि दन्तवाससि चन्द्रिकाशकलपेशलं स्वीकृतवपैकदेशमिव हसितलेशमुद्वहन्तं पुन्नागमपि भुवनमण्डलीतिलकं पूतचारित्रमपि भुजङ्गभोगभुजं हरिमपि प्रथमानकरिहार्दगरिमाणमसमानमहिमशेवधिं निरवधिविभूतिमनिमेषपतिम्।

अङ्गत्विषामञ्जनमेचकानां व्याजेन विस्तारयति स्फुटं यः।
कठोरवक्षःस्थलकेलिभाजो लक्ष्म्या नवेन्दीवरपत्रशय्याम्॥२००॥

वेदाकरा नीलमणेस्त्रिलोकीविभूषणानामपि भूषणस्य।
अलंक्रिया यस्य किरीटमुख्यैरनुग्रहः केवलमेव तेषाम्॥२०९॥

आपादचूडाभरणेषु लक्ष्मीराभाति यस्य प्रतिविम्बिताङ्गी।
आक्रम्य हृन्मध्यमपूर्णकामा समभुवानेव तनुं समस्ताम्॥२०२॥

यद्भूषणेषु हरिनीलमलीमसेव
मुक्ताफलाम्भसि निमज्जति दृग्रमायाः।

शोणोपलातपमुपैति जडीकृतेव
तप्तेव याति हरिदश्मतमालवीथीम्॥२०३॥

यत्कौस्तुभप्रतिभटोपलसंग्रहेच्छु-
रुद्धृत्य पूर्वजलधेर्मणिमम्बरस्य।

नक्तंदिवस्फुरणहीनममुं विचिन्त्य
वेधा निरस्यति मुहुश्चरमाम्बुराशौ॥२०४॥

स्वबिम्बमन्तर्मणिराजमीक्ष्य जायान्तराशङ्किहृदः प्रियायाः।
क्षणं समुद्यत्किलिकिञ्चितानां यः पात्रतामेति दृगञ्चलानाम्॥२०५॥

उद्दामबाहुभरमुद्धृतकण्टकस्य
यस्योपधाय सुखसुप्तिजुषस्त्रिलोक्याः।

क्षौमोत्तरीयमिव निःश्वसितप्रणुन्न-
मास्ते महश्चटुलमङ्गदमौक्तिकानाम्॥२०६॥

यस्य वरदस्य हस्तो रंहस्तो हृतपराग्रहस्तोमः।
कटकं बिभर्ति मानोत्कटकञ्जमुखीविनोदसंघटकम्॥२०७॥

शावककृष्टिपुरोगतिजगदभयत्यागदृष्टकौशलयोः।
सव्यापसव्यकरयोर्घटते मणिकङ्कणार्पणं यस्य॥२०८॥

अन्तर्बहिरपि शुचयः कटकजुषो यस्य वृत्तकमनीयाः।
हृद्गतपरस्वरूपा मुक्तामणयो विभान्ति मुनय इव॥२०९॥

कटककुरुविन्दकान्तिस्थगितान्मणिदाममण्डलाद्यस्य।
करपल्लवः क्षणार्धंहारग्रहणाय हन्त संदिग्धे॥२९०॥

सरसि विहृत्य वधूभिः संतरतो यस्य निर्जरेभस्य।
कटकहरिन्मणिकान्तिः सृजति कराकृष्टकमलिनीशङ्काम्॥२११॥

मध्येरणं कटकमौक्तिकधामगौरी
यन्नन्दकः परिपतन्नरिकन्धरांसु।

वैमानिकायतदृशां वरणागतानां
सूते वरार्पितसुरद्रुममाल्यशङ्काम्॥२१२॥

रणे बलाकृष्टसुरारिलक्ष्मीवेणीव सा दीव्यति यत्कृपाणी।
तद्वान्तजातीकुसुमानुकारं तन्वन्ति यत्कङ्कणमौक्तिकानि॥२१३॥

यद्दिव्याभरणोच्चयस्य महिमश्लाघाविधाने तथा
हर्षात्कम्पयते फणादशशतीमाशीविषग्रामणीः।

पर्यस्येत यथा धृतश्चिरमदः प्रत्युप्तरत्नाङ्कुर-
प्रौढालोकनिरर्थकीकृतमणीवृन्दातिभारश्रमः॥२१४॥

तदनु दनुशासनाय विनयोपहृतमौल्यानतिरसौ कल्याणिनेयः कौतुकविकसितेक्षणो नवनवाक्षराणि कतिचिदेवमस्राक्षीत्।

काचिन्नीला भासा करुणा विकसद्द्रुमावनीलाभा सा।
कृतरचनाम्नायततेः स्थितये लोकस्य वरदनाम्नायतते॥२१५॥

स्फुरदपदानवलोऽपः सिन्धोरवगाह्य क्लृप्तदानवलोपः।
नितरामायामी नः श्रियमनवद्यां तनोतु मायामीनः॥२१६॥

अरिजलजगदाधारं दूरं वचसामशेषजगदाधारम्।
स्वीकृतकच्छपदेहं सेवेऽहं (तं) कृताब्धिकच्छपदेहम्॥२१७॥

बाहुषु सुरसालाभः प्रलयजलान्तःप्रणीतसुरसालाभः।
किटिरुरुनासावंशः पूर्णो भावः परस्य नासावंशः॥२१८॥

अघमभितापं चास्यन्नमतां वक्त्रेण भास्वता पञ्चास्यम्।
सृजदरिवक्षो दमितं भजत महस्तदसृगभिनवक्षोदमितम्॥२१९॥

निजपदराजीवेन न्यक्कृतदैतेयशेखराजीवेन।
कलितमहामहिमानः कल्पयतां शर्म घनमहा महिमा नः॥२२०॥

विरचितपरशुभरणया त्रिसप्तवारावनीपरशुभरणया।
संहृतकृतवीर्यजया श्रीपतिकलया भवाम कृतवीर्यजयाः॥२२१॥

पशुपतिचापलतायाः पाटयिता जयति पदमचापलतायाः।
यः किल साकेतपतिः स्वयंमटवीमाप पितरि साके तपति॥२२२॥

आदृतहालाहलया हतमुष्टिक मुख्यदुष्टहालाहलया।
श्रयत हरिज्यायस्या श्रेयःकलया सशस्तिरिज्या यस्याः॥२२३॥

धाम्नोवंशस्तस्य प्रकाशतां बिभ्रदारवं शस्तस्य।
अतिसुकुमारमयन्तं मधुमयतां गोपसतितमा रमयन्तम्॥२२४॥

मुरलीं वादयमाना मोदं पशुपालनोत्सवादद्यमाना।
सदृशी तापिञ्छेन स्फुरति कृपा शिरसि भूषिता पिञ्छेन॥२२५॥

हरिमभिजातोदन्तं वन्दे कृतबाणबहुभुजातोदं तम्।
वक्षसि परमा यस्य क्रीडति लक्ष्मीरपोढपरमायस्य॥२२६॥

अधिगतकल्यन्तेषु म्लेच्छेषु सृजत्सु वृषमकल्यं तेषु।
नटितभुजातरवारि ज्योतिरूपासे भयोपजातरवारि॥२२७॥

सार्थयन्वरदाभिख्यां साधून्पुष्यत्ययं वरैः।
सत्यव्रताधिका………………………………….॥२२८॥

क्रन्दति करुणमिभेन्द्रे क्व वैनतेयः क्व वैनतेय इति।
उक्त्यासह फणिशयनादुच्चलतस्ते स पातु संरम्भः ॥२२९॥

श्रीचाटुवाणीश्रवणान्तरेऽपि गर्जैव भेजे करिणः श्रुतिं ते।
आपन्नरक्षाध्वरदीक्षितानां पुंसां न भोगाभिनिवेशयोगः॥२३०॥

मधुपानुबन्धमनिशं मदान्धतां रसनाविपर्यसनमप्यचिन्तयन्।
अतिभक्तिमेव करिणस्त्वमग्रहीर्गुण…..ता खलु गुणो महीयसाम् २३१

रमेश कारुण्यरसाम्बुराशेः समुज्जिहानो भवतः सवेगम्।
चक्रारुणो नक्रतमिस्रहारी बभार पद्मिन्यनुकूलभावम् \।\। २३२॥

भवत्सायुज्यलाभेऽपि भवादतिशयान्तरम्।
भजते स्म न वेतण्डो भवन्मुक्तैकसंश्रयः॥२३३॥

यस्ते कटाक्षविधिरार्तिमिते गजेन्द्रे
यश्चास्य पीडनविधायिनि शिंशुमारे।
त्तत्तादृशोर्वरदराज तयोरिवामी-
माद्यं निधेहि मयि मद्वृजिने ‘द्वितीयम्॥२३४॥

अजाश्वमेघाध्वरकल्पशाखिनः पचेलिमं तत्फलमच्युताकृति।
अहो बताभिष्टुवतोऽपि सौहिती मनीषिणां मौलिमणेरवर्धत॥२३५॥

इति समरपुंगवस्य कृतौ चम्पूकाव्ये तृतीय आश्वासः।

________________

चतुर्थ आश्वासः।

अन्तर्वाणिरसौ गेहमरुणस्तु नभोन्तरम्।
तौ विष्णुपदसंसेवातत्परौ लब्धुमैच्छताम्॥१॥

तथा हि। तरलतत्कान्तिसंपद्विडम्बितजाम्बूनदकुम्भमम्भोजसचिवबिम्बमम्बरसौधशिखरमालम्बत।

मुक्तारुचो मूर्धनि हर्म्यकेतोरासक्तमम्भोरुहबन्धुबिम्बम्।
तस्याः पुरोऽराजत दण्डशालि हिरण्मयच्छत्रमिवाबभासे॥२॥

प्रादुर्भूतं प्राग्दिशा विप्रयोगादाबिभ्राणो हन्त संतापभारम्।
काले तस्मिन्कामुकः पद्मिनीनामन्यैर्भेजे दुर्निरीक्ष्यामवस्थाम्॥३॥

भूत्वा मृदुः पुरा पश्चात्तव्रोयाति दिनेश्वरः।
प्रायो वसुसमृद्धानां प्रकृतिः किल भिद्यते॥४॥

अपहत्य कुलान्यभीशुमाली जगदन्धंकरणानि शार्वराणाम्।
प्रकटीक्रियमाणभीमभावः प्रतिपेदे परदुःसहं प्रतापम्॥५॥

विभज्य विश्वंभरया नदीभिराशागणैरप्यनुभूयमानः।
जज्ञे वियत्प्रान्तरयानजन्मा तापातिरेकस्तरणेरसह्यः॥६॥

उपगच्छति येन साकमुच्चैरुदया (द्रौ ) जगदुष्णधाम्नि तस्मिन्।
अखिलात्मनि तापमश्नुवाने तदभूत्तप्तमिहास्ति किं विचित्रम्॥७॥

अहह ततिरशेषदेहभाजामपि पुरतः स्थितिमीक्षितुं तदानीम्।
अभजत भृशमक्षमामवस्थां त्रिभुवनचक्षुषि दर्शितप्रकोपे॥८॥

निरतिशयतापनिर्वापणायेव कमलकुवलयकह्लारविपिनानि किमपि परिममर्श तरणिकरनिकरः। किमुत बहुदूरसरणिसंचरणारचितसंज्वरघनाः पञ्चजनाः। तत्क्षणं च नगरमक्षान्तुमिहिरसंतापतया सेव्यमानकदलीगृहान्तरमभिनन्द्यमानशशिकान्तमणिवेदिकमधिरुह्यमाणसरसकुसुमास्तरणमभ्यस्य-

मानकर्पूरालेपनमारभ्यमाणधारागृहासिकमासाद्यमानकासारखेलनमुद्भाव्यमानगन्धोदकयन्त्रशीकरासारमुद्भूयमान

लामज्जकव्यजनमुपयुज्यमाननवनालिकेरसलिलपरिचीयमानपाटीरपङ्कमेदुरवधूटीकुचाचलमजायत।

कुचमण्डलमालिलिङ्ग कण्ठं जगृहे वक्त्रसरोरुहं चुचुम्बे।
स्पृशति स्म नितम्बमारुरोह प्रमदानां जघनं श्रमाम्बुपूरः॥९॥

तालवृन्तपवनादभिकानामुत्तरीयमरुदब्जमुखीनाम्।
प्रीतयेऽजनि ततोऽपि विसर्पन्वक्त्रसीमनि तदास्यसमीरः॥१०॥

पयोधरोत्सारितकञ्चुकानां प्रासादवातायनसेविनीनाम्।
स्त्रीणां जहार श्रममब्जगन्धी सशीकरो वेगवतीसमीरः॥११॥

वीचीकणैः पौरबिलासिनीनां व्यत्यस्तवक्रश्रमवारिलेशः।
स्वसौरभक्रीतशिरोजगन्धः क्षीरापगागन्धवहश्चचार॥१२॥

प्रतिसौधगबाक्षलक्षितप्रमदावक्त्रशता पुरी बभौ।
मिहिरज्वरवारणोदयन्मृगलक्ष्मावलिभूषितेव सा॥१३॥

तदनु निर्गत्य सरोजनेत्रसदनादतनुशासनसमाराधनाय नवकुसुमनिचयमवचिचीषुरयमवतरति स्म विविधतरुकोटरक्रोडपरिक्रीडमानचिक्रोडं पतनदलितनालिकेरफलपरिग्रहव्यग्रशाबकपरिषदाबध्यमाननियुद्धकोलाहलं विटपितलनिषण्णविटजनोत्सङ्गनिद्राणपुष्पलावीपरिष्कृतं दिवसकरभीतशीतलतानिरातङ्कवसतिं गजतुरङ्गसंदोहमन्दुरां चारुतरवीरुन्नटिनीनिवहनर्तनानर्तमहीं प्रमदोपगूढमिव मन्मथारूढहृदयं बहिरिद्धकण्ठकं च विन्ध्यमिव नमेरुविरचितामोदं व्याप्तनभस्थलं च पथिकशरीरमिव प्रियालोपहृतशोभं प्रत्यग्रलोध्रपाण्डरं च पतिंवरापरिगृहीतमिव भासुरमधूकमालिकाभूषितं प्रथमानमङ्गलं च राशिमण्डलमिव मन्दारमण्डितपुष्पवदलंकृतं च स्वर्लोकराज्यमिव सहस्राक्षसमन्वितं संभावितरम्भाविलासं च पार्थिवसदनमिव पृथुलसालबलयितं कोशपरिपूरितं च दैत्यारिरूपमिव भद्रश्रियाञ्चितं धात्रीनिषेवितं च सज्जनशीलमिव समधिकद्विजपक्षपातमाश्रितसंतापहरं च बल्लकीवाद्यमिय रुचिरप्रबालशोभितमभिरूप्यककुभ्रं च ‘फणिराजशयनमिव

कृष्णलाभासितं सदाभोगसहितं च गणिकासनाथमपि विमलस्वभावमविरतजपानुबन्धमपि बहुतरारिष्टं जातिविशिष्टमपि नकुलचरितान्वितं सरलोदितच्छायमपि कुरबकसमग्रं सुकवीरशोभास्पदमपि साध्वसदृगन्तरं प्रकटितस्पर्शनमपि नवनीपकाभिराममुत्फुल्लचिरिबिल्वमुल्लासहरितमल्लिकमुन्निद्रपुन्नागमुन्मुद्रणातिमुक्तमुद्भिन्नकर्णिकारमुन्मषशोभिकेसरमुज्जृम्भमाणचम्पकमुद्विकासवासन्तिकमभिजातहसितकेतकमारब्धविदलनारग्वधमतितन्त्रमुचुकुन्दमावृन्तविकचमाकन्दमाकलितजागराशोकमवबोधशालिनवमालिकं निखिलजननयननिर्माणफलमुन्मीलयता तारतम्यातिशयेन खाण्डवमपि निकर्षताण्डवस्य वृन्दावनमपि मन्दाक्षसंपदो नन्दनमपि भूरिनिन्दनविधेरशोकवनिकामपि निराकरणकर्मणो मधुवनमपि पृथुघृणावतरणस्य चैत्ररथमपि महात्रासपरिणतेः पात्रीकुर्वाणमलिपटलजेगीयमानसरसर्तुसाधिमास्पदं परभृतकदम्बपापठ्यमानपञ्चशरबिरुदप्रपञ्चं शुकशारिकानिकरजोघुष्यमाणपुराणपुरुषहृद्यावदानमुद्यानम्।

पिकनिनदमयीं नयन्प्रियोक्तिं प्रसवरसप्रमदाश्रुबिन्दुवर्षी।
उपवनपवनस्तदाभिधावन्परिरभते स्म तमानतं सगन्धः॥१४॥

तत्र पुनरत्रभवानशेषसुमनोविकासहेतुरसौ वसन्त इव समन्ततो विटपिवाटीषु पर्यटन्भवितव्यशिवपदाम्बुजसंपर्कं बहुमानसंमदादिव विस्मयमानमभिजातकुसुममाददानो जयविशिस्वसंग्रहणशीलमकराङ्कविलासभूयिष्ठतनुरिदमाचष्ट।

मधुव्रतक्षोदसहं म्रदीयः सदोपभोगेऽपि ससौरभीकम्।
पुष्पं प्रसूते भुवि कस्तरूणामग्रेसरं केसरमन्तरेण॥१५॥

संदृष्टा किमु कापि हानिरियता चाम्पेयलोलम्बयो-
रस्राक्षीन्न परस्परं यदुभयोरम्भोजभूः सौहृदम्।

क्ष्मापालैरुपलाल्यते न शिरसा किं चम्पकः कोरको
भृङ्गः किं कमलाकरेषु न मुहुः प्राप्नोति लीलासिकाम्॥१६॥

ललिता त्वं’‘‘‘लतावलीषु जाते सुकुमारः समयेषु माधवोऽपि।
प्रणयेद्यदि संगतिं भवत्या स भवेत्सर्वगुणाकरस्तदानीम्॥१७॥

हे कर्णिकार मुहुरीश्वरवल्लभत्वं
संतप्तहेमसमता च तवेति हृद्यम्।

आमोदभारमलिमानसलोभनीय-
माविष्करोषि न यदत्र परं व्यथा मे॥१८॥

भजतश्चपलोदये विकासं रजसा दूषयति स्वसेविनोऽपि।
प्रमथेशपदार्चने निषेधो भवतः केतक युक्तमेव मन्ये॥१९॥

कर्पूरस्य पदे चिताग्निभसितं क्षौमस्य नागत्वचं
प्रासादस्य परेतभूमिमुरगं प्रत्यग्रमुक्तावलेः।

दिव्याहारभरस्य किंच गरलं देवेन संतन्वता
स्थाने काञ्चन पारिजातकुसुम स्थाने भवद्धारणम्॥२०॥

प्रमथाधिपार्चनायै बिल्व भवत्पत्रभङ्गरचनैव।
मूलमनघेन पुंसा मुक्तिवधूपत्त्रभङ्गरचनायाम्॥२१॥

श्रीखण्डसालजगतीविदितानुभाव
तत्तादृशीं सहनतां तव किं वदामः।

कामं यतः कठिनदारणदार्यमाण-
देहोऽपि गन्धनिवहेन जनान्धिनोषि॥२२॥

पौष्पैः कल्पयसे रसैर्मधुलिहां वृन्दस्य संतर्पणं
छायासंपदमातनोषि जनतासंतापनिर्वापिकाम्।

पुष्णासि स्वयमङ्कुरैः शुभगिरां पुंस्कोकिलानां कुलं
धात्र्यामत्र तवैव चूतविटपिन्धन्या महाभ्युन्नतिः॥२३॥

उद्यानादथ मज्जनाय सुमना मध्याह्नहृद्येतर -
च्छायानायकसंज्वरप्रशमनोपायादुपायात्सरः।

पाथोजावलिशीधुहृष्टमधुपव्रातप्रणादक्रिया-
संगीतोत्तरनृत्तकौशलमिलद्भृङ्गालि रङ्गस्थलम्॥२४॥

अधिगत्य च कासारमयमित्यभाषत।

नीरजानि जलनीलिकाभरैः साकमेव सततं बकैः सह।
मण्डलीमपि च मानसौकसां पुष्यंति स्फुटमसौ जलाशयः॥२५॥

ग्राहाब्जिनीकण्टकपङ्कराशीनन्तर्दुरन्तानपि संदधानः।
बहिर्गतैरम्बुजराजहंसैर्बध्नाति विस्रम्भमयं तटाकः॥२६॥

हे पद्माकर मा विषीद जगतीचेतः प्रियंभावुको
धत्ते यत्त्वयि चन्द्रमा विमुखतां तस्यैव तल्लाघवम्।

सौहित्यप्रतिपादने तव पुनः शक्ताः परिष्कुर्वते
पृथ्वीमध्यममी पराकृततमोदर्पा रवेर्भानवः॥२७॥

अनन्तरमसावनियन्त्रणस्नेहपरवशानुचरो निजकरविलुलितोदकमवगाह्य कमलाकरमवचितसरोजपरिष्कृताग्रहस्तः समुत्तीर्य वारितो निषेवितदिवसबन्धुरयमवनिसुरधुरंधरो मन्दिराय मन्दमन्दमम्पन्दत।

गत्वोपकार्यां कलितेशपूजः स भुक्तवान्भूसुरभुक्तशेषम्।
ब्रह्मोद्यपाठं प्रतिपद्यते म्म सुचर्ययार्याः समयं नयन्ते॥२८॥

तथाहि।

एष दुर्हृदनुरोधहेतुकं भेदमात्मपतिना समं गतः।
आपदामहह भाजनीभवन्पुरुषो भजति भूयसीं व्यथाम्॥ २९॥

ईशवासरमणेरदर्शनादेधमानघनमोहशार्वरः।
संनिकृष्टमपि शश्वदात्मनो हर्षशेवधिमसौ न पश्यति॥३०॥

बोधचन्द्रमसि पूर्णविग्रहे मोहराहुमुषिताकृतौ सति।
स्नानदानयजनादिकान्यसौ मोचनावधि मुदानुतिष्ठति॥३१॥

आ रसातलतलादयं विधोरा च वासभवनाद्गतागतैः।
खिद्यमानहृदयो गवेषते स्फारविश्रमसुखास्पदं पदम्॥३२॥

आधिवीचिमदनादिसंसृतिव्याधिभेषजविशेषवेदिनम्।
शर्मदं शरणमेयुषामयं ब्रह्मनिष्ठभिषजं प्रपद्यते॥३३॥

देशिकोक्तिदृढकुञ्चिकाकृते गाढविभ्रमकवाटपाटने।
आगमान्तवसुमन्दिरान्तरादर्थमिष्टमनघोऽयमृच्छति॥३४॥

पण्डितः पटुविचारशस्त्रिकाव्यस्तकोशमयवल्कसंहतेः।
सारमाकलयते जगद्धनक्ष्मारुहात्किमपि नित्यनिर्मलम्॥३५॥

मानतर्कमयवारिधारया क्षालितेषु गगनादिपांसुषु।
अन्तरङ्गफलकान्तरे सुधीरीशताद्रविणमीक्षते निजम्॥३६॥

पारदुर्विधसुखप्रकाशके तत्त्वबोधतनयोदये सति।
अस्वकर्मकरणाधिकारिता नानटीति न कदाचिदप्यहो॥३७॥

विश्वकण्टकिफलं विशुद्धया वेदनच्छुरिकया विदारयन्।
आन्तरं रसममुष्य निर्ममः सर्वथा निरुपमं समश्नुते॥३८॥

विप्रयोगसमये स्वमायया विक्रियाशतमुपैति पूरुषः।
हन्त मुक्तिरमणीमवाप्य तामेष निर्विकृतिरेव तिष्ठति॥३९॥

मुक्तिसंगतिमहोत्सवो मुनेरीदृशोऽयमिति केन वर्ण्यते।
चेतसा सह यतो निवर्तते श्रेणिरागमशिरोगिरामपि॥४०॥

अपि च।

चित्तेन वृत्त्या विषयेण संगान्मातृप्रमामेयदशां प्रपन्नः।
आत्मैक एव प्रतिभासते चेदतः किमन्तर्मुखतास्ति भिन्ना॥४१॥

निःसन्धिबन्धं निगमान्तवाचः परप्रतीचोरभिदां वदन्ति।
सा च स्वरूपानतिरेकिणी चेदहंप्रतीतेरपरो न योगः॥४२॥

अजादिकीटान्तमनर्थजातमध्यस्तमेवात्मनि बोधरूपे।
स एव चेदस्ति भवेन्निवृत्तिरतः परं किं पुनरस्ति साध्यम्॥४३॥

इतीदृशीभागमदेशिकाभ्यामधीयमानामवबोधनावम्।
द्रढीयसीमेत्य तपोभिरेकः पारं परं याति भवाम्बुराशेः॥४४॥

किं च।

विना मृडप्रपतनं विगमो न हि जन्मनाम्।
भास्वतो दर्शनमृते प्रशमस्तमसामिव॥४५॥

आधिक्यमस्माज्जगतोऽधिगन्तुं विश्वाधिकोक्तेर्विषयं प्रपद्ये।
कालग्रहग्राहमयापनुत्त्यै कृतान्तशिक्षाकृतिनं प्रपद्ये॥४६॥

शृङ्गारभूजृम्भणवारणाम प्रसूनकोदण्डरिपुं प्रपद्ये।
विनेतुमार्ति विषयाध्वजन्यां वटद्रुमाधोवसतिं प्रपद्ये॥४७॥

मोहातिरेकस्मयमोषणाय पादार्दितापस्मरणं प्रपद्ये।
कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशुं प्रपद्ये॥४८॥

विशुद्धविज्ञानविकासहेतोः प्रबोधमुद्राभरितं प्रपद्ये।
तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये॥४९॥

वैमल्यसंपादनवाञ्छयाहं मन्दाकिनीमाल्यधरं प्रपद्ये।
प्रसादलाभं परमीहमानो मुग्धस्मितोल्लासिमुखं प्रपद्ये॥५०॥

व्यथामशेषां व्यपनेतुकामो नाम्ना मृडं नाथमहं प्रपद्ये।
……………………………………………………………॥५१॥

सर्वज्ञतासारभूतं प्रपद्ये निःसीमसौहित्यनिधिं प्रपद्ये।
अनादिबोधायतनं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये॥५२॥

हरं प्रपद्येऽहमलुप्तशक्तिममेयसामर्थ्यमहं प्रपद्ये।
शिवं प्रपद्ये जनकं विधातुरीशं हृषीकेशगुरुं प्रपद्ये॥५३॥

इति प्रपत्तिमीशस्य तन्वते तत्त्वदर्शिनः।
तत्क्रतुन्यायरसिकास्तत्तादृशफलाप्तये॥५४॥

तदनु तदनुवर्णितशास्त्रसमाकर्णनादिव विरक्तभावमापाद्यमानः कमपि शमप्रकर्षमुपदर्शयन्नरुणसारथिरवततार चरमगिरिशिखरम्।

अस्ताद्रिशृङ्गादतिमात्रतुङ्गादात्माधिनाथं पतयालुमब्धौ।
द्रष्टुं नलिन्यो धृतभीतिभारा न्यमीलयन्नीरजलोचनानि॥५५॥

नभस्तमालद्रुमपल्लबाभा नव्या बभौ सान्ध्यमयूखरेखा।
अम्भोषिनिर्मज्जदभीशुमालिरथाग्रकौसुम्भपताकिकेव॥५६॥

दिवसकरविप्रयोगतनीयसीनामाशाविलासिनीनामसितजलदानुकारिणी वेणिकाधोरणीव तमिस्रपङ्क्तिरदृश्यत।

प्रतिवेश्म तमिस्रेण बन्दीकृत्य नियन्त्रिताः।
प्रभा इव पतंगस्य दीपरेखा दिदीपिरे॥५७॥

सपदि गगनपथादपसरताबास(र)करेण सरभतानुसारयोद्भटत्तमः प्रतिभटविलोपनाय विस्तारितानि परिष्करणमुक्ताफलानीव तारकापटलानि ददृशिरे।

तमिस्रकस्तूरिकयानुलिप्ता प्रदीपचाम्पेयकृतावतंसा।
वाटी हरिद्वासकसज्जकानां बबन्ध चन्द्रागमनप्रतीक्षाम्॥५८॥

अत्रान्तरे सिन्धुरवापदेशादानन्दयन्सर्वदिगन्तराणि।
ध्वान्ताभ्यमित्रीणतुषारतेजः प्रयाणभेरिध्वनिराविरासीत्॥५९॥

आगत्य संकोचभृतः सरोजादिन्दीवरं यावदलिस्ततोऽपि।
मौनस्पृशो यातुमियेष तावदिन्दुस्तदुद्बोधकरोजजृम्भे॥६०॥

विगतसकलाशाविकासकर्मणि परिहृतविषयानुभावे संमीलितसरोजचक्षुषि, तेजः किमपि दीपाकारमन्तरनुसंधाने कालकर्मन्दिनि पृथुलतमःपटलभेदमुपपादयन्प्रबोध इव सुधाकरो भगवान्प्रादुरभूत्।

द्यौरिन्दुनाधूतपुरस्तमिस्रा पश्चाच्च रिङ्खत्तिमिरा बभासे।
हृतोत्तरीया हृदयेश्वरेण तन्वी नितम्बस्तिमिताम्बरेव॥६१॥

संध्यारुणं प्रागथ सान्धकारं पश्चान्नभः प्लावितमिन्दुभासा।
रेजे विराजत्क्रमजृम्भमाणरजस्तमःसत्वमिवान्तरङ्गम्॥६२॥

प्रह्लादने महसि तत्र सतिप्ररूढे
वाराकराम्बुलहरी ववृधे यथेष्टम्।

चन्द्रोपलाः सरसतामधुरुत्पलानि
चक्रुः स्मितं किमुत यानि सचेतनानि॥६३॥

न चेत्पुराणौ पुरुषौ नताङ्गीवशंवदोरःस्थलवामभागौ।
तादात्विकं तावपि न क्षमेतां कामोद्यमं का गणना परेषाम्॥६४॥

काञ्च्यांतदा कामकलाजनीति किमद्भुतं तत्र कृतान्तशत्रोः।
तथा स्मरदग्धवतोऽपि देहे संदृश्यते शैलसुतास्तनाङ्कः॥६५॥

तथाहि।

विलासिनी काचन विप्रयुक्ता संतापिताङ्गी नवचन्द्रिकाभिः।
विगर्हणापूर्वमिदं विषण्णा जगाद चन्द्रस्मरन्धवाहान्॥६६॥

कोदण्डदण्डः कुरुनन्दनेन मुक्तो रुषा मूर्ध्नि शशाङ्कमौलेः।
हिमद्युते यत्त्वयि नापपात मद्दुष्कृतानां महिमा स एषः॥६७॥

पान्थावलीभञ्जनसंचितेन दोषेण दोषाकरता तवेन्दो।
आलोकिते त्वय्यत एव चक्रैराशास्यते चण्डकरावलोकः॥६८॥

क्षपाकरक्ष्वेल विभावये त्वां हालाहलादप्यतिमात्रघोरम्।
स कण्ठ एव स्तिमितः स्मरारेरुपागमस्त्वं पुनरुत्तमाङ्गम्॥६९॥

धिग्धिक्त्रिलोकीजनगर्हणीयां चारित्रमुद्रां तव शम्बरारे।
भवन्तमेकं परिहृत्य के वा धनुर्भृतः स्त्रीषु पराक्रमन्ते॥७०॥

मुग्धासु चेतोभव मादृशीषु मुहुर्भवान्यत्प्रकटीकरोति।
क्रुद्धे पुरद्रोहिणि पौरुषं तत्क्ववा विनिद्रातुमगात्तदानीम्॥७१॥

आखेटमध्वन्यवधूमृगेषु प्रपञ्चयन्पञ्चशरः किरातः।
पिकालिगीतिप्रचुरो वसन्ते महीं मरुद्वागुरया निरुन्द्धे॥७२॥

संभ्राम्यदिन्दिन्दिरचक्रनेमिसीमन्तिताशेषदिगन्तसीमा।
महीतलान्धंकरणः परागैर्मथ्नाति पान्थानतनोः शताङ्गः॥७३॥

तत्तादृशा दक्षिणतागुणेन विभावयन्विश्वसनीयभावम्।
मरुन्नवोऽयं बत मादृशीषु प्रभञ्जनत्वं प्रकटीकरोति॥७४॥

मध्येनितम्बं मलयाचलस्य स्पृष्टो नु दावाग्निशिखाकलापैः।
विषोर्मिलव्यालमुखच्युतो वा मन्दानिलः सौति ममाङ्गताम्॥७५॥

उष्णः स्वभावादनिलार्भकोऽयमुपाधितः शीतलतां दधाति।
आलिङ्गनादस्य कथं घटेत पत्रावशोषः परथा लतानाम्॥७६॥

उष्णच्छिदामुष्णनिषेवणेन भिषग्जनाः प्राहुरिति प्रतीताः।
कुम्भीनसा घोरविषोष्णशान्त्यै पिबन्ति बालानिलमुग्रवीर्यम्॥७७॥

हराक्षिकीलाभिहता रतीशप्राणानिला एव परं धरायाम्।
पटीरशैलानिलकैतवेन पान्थावलीप्लोषकृतो वलन्ते॥७८॥

स्वयं जगत्प्राणतया स्वधाम वियोगिनीविग्रहचक्रवालम्।
नभस्वतो निर्दहतः कृशानुरवाप्तजन्माभवदाश्रयाशः॥७९॥

शितो यतः शैत्यमतो बिभर्ति नवः समीरो न तु शीतभावात्।
अस्याबलेहं सृजतामहीनां भिन्ना रसज्ञाः परमत्र मानम्॥८०॥

पटीरशैलेन्द्रफणाधरेभ्यो जनावलीजीवितमोषविद्याम्।
अभ्यस्यता चेदमुना गृहीता निद्रापि नैष प्रसरेद्विषादः॥८१॥

अयं भुजङ्गावलिपीतशेषः समीरपोतः स्वविकासहेतोः।
वियोगिनीजीवितमारुतानामसंशयं संग्रहणं तनोति॥८२॥

निरागसामध्वगसुन्दरीणामुद्वेगदानादुपजातरोषाः।
स्वच्छन्दमन्तः श्वसनं निरुध्य मन्ये निगृह्णन्ति महानुभावाः॥८३

जगत्त्रयोपद्रवशातनाय पीताम्बुराशिः प्रथमो मुनीनाम्।
बालानिलाब्धिं च पिबेदवेलं न चेदयं नागविलीढशेषः॥८४॥

अगस्त्यदिङ्मारुतमापतन्तं वृष्टेग्वग्राहमुशन्ति वृद्धाः।
अहो भवत्यस्यसमागमेऽपि वियोगिनीलोचनवारिवृष्टिः॥८५॥

और्वंपयोधेरवलेपशान्त्यै समीरणस्यापि च सर्पजालम्।
विधिर्विदध्यान्न यदीयमुर्वी कथं न जायेत कथावशेषा॥८६॥

श्रीरामविश्लेषविषण्णसीताप्राणप्रतिष्ठापनवीततन्द्रः।
स्त्रीणामसुग्रासपटोः समीरादतो हनुमान्कथमाविरासीत॥८७॥

विना जगत्प्राण भवन्तमेषा विश्वत्रयी न श्वसितुं क्षमेत।
ईदृग्विधेऽपि त्वयि खेदहेतौ वियोगिनीभिर्वद किं विधेयम्॥८८॥

धर्मच्युतस्योचितमाशुगम्य तीक्ष्णाकृतेर्देहिवधैकरम्यम्।
आविः सुधर्माश्रयणस्य ते तु दाक्षिण्यधन्याशुग तद्विगेयम्॥८९॥

भवन्तमाहुः प्रथमेशमूर्तिं पदार्थशुद्धेः परमं च हेतुम्।
सदागतिं चात्र समीर किं ते युक्तं वियुक्ता युवतीर्निहन्तुम्॥९०।

प्ररूढमन्तः पथिकाङ्गनानां वियोगशोकानलविस्फुलिङ्गम्।
किं मञ्जरीगर्भरजः करीषैः समीर संवर्धयतः फलं ते॥९१॥

घृणा न ते दक्षिणगन्धवाह तवावतारे तरवोऽपि धात्र्याम्।
वितन्वते व्यक्तशरीरकम्पाः प्रवालपाणिप्रविधूननानि॥९२॥

त्वामश्नुतां वाचि तपोधनानामाशीविषाणामपि वक्त्रसीम्नि।
विषाभिवृद्धिर्विदिता नभस्वन्नतो जगत्धामतिदारुणोऽसि॥९३॥

सङ्घेभृशं क्रोशति षट्पदानां कु ( हू ) रवाधायिषु कोकिलेषु।
अपह्नुवानो धृतिमध्वगानां भवान्विविङ्क्ते पवमान बाल्यम्॥९४॥

आः क्रूरकर्मासि फणाभृतोऽपि धरातलेऽम्मिन्स हि तीव्रदंशैः।
प्राणानिलानापिबति प्रजानां भवान्पुनः स्पर्शनलीलयैव॥९५॥

अये समीरानिशमध्वनीनवधूवधैः पातकमर्जितं ते।
वल्लीप्रवालव्यपदेशतप्तभल्लाग्रपातैरपि किं प्रशाम्येत्॥९६॥

भृगुप्रपातं बहुतीर्थसेवां दिने दिने दीप्तशिखिप्रवेशम्।
करोषि मन्दानिल कामतस्त्वं कुर्वन्मुहुः पान्थकुटुम्बहिंसाम्॥९७॥

मान्द्यैकभृमे मलयाद्रिवात मासद्वयीमात्रमवस्थितिं ते।
अचिन्तयन्हन्त कथं तनोषि पदेपदे स्त्रीवधपातकानि॥९८॥

प्राक्सेतुबन्धावसरे कपीन्द्रैरुन्मूलितश्चेन्मलयः समूलम्।
नृशंस मन्दानिल निर्दयं त्वां पश्यन्ति किं पान्थविलासवत्यः॥९९॥

मन्दं समागत्य ममांशुकाममालम्बसे स्वेदमपाकरोषि।
अङ्घ्रौ पतस्याहितचापलस्त्वं पराङ्गनास्पर्शभयं न किं ते॥१००॥

मामञ्जनेति स्पृश मा समीर वियोगिनी व्यक्तमनञ्जनाहम्।
कन्या नृपस्यान्यकरग्रहार्हाः स्पृष्ट्रा त्वया किं फलमाप्तमासीत्॥१०१॥

कृतावतारो हृदि गन्धवाह कन्दर्पनाराचगवाक्षिते मे।
प्राणान्गृहाणाशु यतो भवेयमभीकविश्लेषकथानभिज्ञा॥१०२॥

मय्येव संनह्यसि मन्दवात कान्ते मदीये करुणां दधासि।
मृद्रासि चेन्मामिव निर्दयं तं स किं समायास्यति नान्तिकं मे॥१०३॥

रणे शताङ्गम्य रयातिरेको जैत्रश्रियं चापभृतः प्रसूते।
मन्दं रथं त्वामधिरुह्य मारो मन्ये महेशेन पराजितोऽभूत्॥१०४॥

भवन्तमालम्ब्य रथीभवन्तं सखा रतेः शर्वजिगीषुरासीत्।
प्राप्ते रणे तं प्रतिपाद्य तस्मै चक्रे त्वया स्वाशुगतानुरूपम्॥१०५॥

यदा रतीशं भगवानजैपीत्तदाप्रभृत्येव समीर भीत्या।
दिवानिशं भ्राम्यसि दिङ्मुखेषु तथापि ते शाम्यति नैष दर्पः॥१०६॥

आयासि शीघ्रं हरिदन्तरेभ्यः शनैस्तु चण्डांशुर्भुवो दिगन्तात्।
कामारिभीतिः खलु तत्र हेतुः सा चेन्न हन्याज्जगतीमकाण्डे॥१०७॥

मा मा मरुन्माणव वल्गनानि प्रकाममन्दप्रकृते विधेहि।
पदे पदे त्वन्मभञ्जनाय जाग्रत्यमी जातरुषो भुजङ्गाः॥१०८॥

तदनु मदनपीडां सोढुमक्षमतया तया हरिणशावेक्षणया प्रियतमाय संप्रेषिता सखी समेत्य तमित्यभाषत—

सन्त्येव कान्तेषु समश्नुवाना रागातिरेकं ललना जगत्याम्।
नालोकितो न श्रुतिमागतो वा तस्या मृगाक्ष्यास्त्वयि भावबन्धः॥१०९॥

आस्वाद्य शश्वन्मधुनोऽपि हृद्यां गुणावलिं ते कुटिलायताक्षी।
नितान्ततृप्ता नियतं सखीनामाहारवार्तामपि सा धुनीते॥११०॥

दूरीकृतस्त्वद्विरहार्तिभारादुदित्वरोरुश्वसितैरिवाम्याः।
इन्दीवराक्ष्या वदनारविन्दे संदृश्यते जातु न मन्दहासः॥१११

मनोभुवो धूममयैरिवास्त्रैरुत्पादितादूष्मलबाष्पपूरात्।
भीतेव तस्या भृशमायताक्ष्या निद्रा दृशोर्नैव पदं निधत्ते॥११२॥

पराङ्मुखी चन्दनपङ्कलेपवीटीक्रियामाल्यविभूषणेषु।
बाला विधत्ते भवदोष्ठबिम्बसुधारसास्वादकृते तपस्याम्॥११३॥

दूतिकावर्धितस्नेहदीपितं मदनानलम्।
कामी निर्वापयामास कान्ताश्लेषसुखामृतैः॥११४॥

आलीहितोक्तिनिकरादनुदूतिकाना-
माभाषणादनु मनोभवशासनाच्च।

अम्लानमानकलिकामपरो विलासी
संप्रीणयन्प्रियतमामिदमाबभाषे॥११५॥

पाठीनकेतुपरदेवतया त्वया कि-
माज्ञापिते कबरिकारचनादिकृत्ये।

शंसामुना परिजनेन समुल्लङ्घे
पङ्केरुहाक्षि तव केन बभूव कोपः॥११६॥

यः शैशवात्प्रभृति पाणितले निवेश्य
संवर्धितोऽजनि मया दयिते स कीरः।

आख्याति वाक्यमहितं त्वयि रोषवत्या-
मित्यद्भुतं न विरुणद्धि यदात्मजोऽपि॥११७॥

बाले मया न गणिता भवदादृतेन
ये मीनकेतनसमीरकिशोरमुख्याः।

आसीत्ततोऽपि मम भीतिरहो भवत्यां
वैमुख्यभाजि विषमो विधिदुर्विपाकः॥११८॥

मन्तुस्पृशो रचयितुं मम शिक्षणानि
स्वातन्त्र्यमस्ति तव जीवितनायिकायाः।

कन्दर्पगन्धवहकैरविणीविटानां
का वा कृशाङ्गि मम निग्रहणे प्रसक्तिः॥११९॥

आगः समीक्षणकृतस्तव चेदमर्षः
शोणारे विरचय स्वयमेव शिक्षाम्।

मां विप्रयोगिजनमारणवीततन्द्र-
कन्दर्पपातकिकरे न समर्पयेथाः॥१२०॥

पादारावन्दतलताडनबाहुयन्त्र-
निक्षेपतुङ्गकुचदुर्गनिवेशितानाम्।

कामं त्वया कनकगौरि समाहिताना-
मर्हो भवामि मयि चेदपराधशङ्का॥१२१॥

प्रारभ्य पञ्चषदिनानि तव प्रसाद -
मभ्यर्थयन्रतिपतेरधिदेवतायाः।

ध्यानाशनव्रजनजागरणादि कुर्वे
प्रीतिर्न ते तदपि यत्स ममैव दोषः॥१२२॥

शातोदरि भ्रुकुटिजैत्रधनुर्लताया
भङ्गेकृतेऽपि सति कोपनया भवत्या।

अश्रान्तमाशुगभरेण विचित्रकर्मा
मर्माणि हन्त मम कृन्तति पञ्चबाणः॥१२३॥

विश्वत्रयोदरभुवां विशिखव्रजानां
शश्वद्व्ययं रचयतो मयि शम्बरारेः।

नाणीयसा भुजमदेन नताङ्गि शङ्के
वेणीलताविरहिता तव मालिकाभिः॥१२४॥

क्रीडाचकोरशिशवोऽपि कृशाङ्गि नून-
मेते परं वयमिव त्वयि सापराधाः।

मन्दस्मितामृतमरीचिकरैरमीषां
तृप्तिं यदा रचयसे न तृषातुराणाम्॥१२५॥

तत्तादृशैः कुरवकीभवनं तपोभिः
प्राप्यं न मेरुपदवीमपि दृरभूताम्।

हित्वा चकोरनयने भवतीमिदानी-
मभ्यर्थये तिलकभावमशोकतां च॥१२६॥

प्राणेश्वरस्य पटुचाटुकृतः कुचाद्रि-
कस्तूरिकाभिरनुलिप्य भुजान्तरालम्।

वेलातिलङ्घनचणप्रणयाभिरामा
रामा ददौ रपट मुखवीटिकां च॥१२७॥

शक्रकोपशकलावलीसदृग्वीटिका’’’’ तिम’‘‘‘ला बभौ।
चक्रतुः प्रकटरागमेदुरस्वस्वमानसनिवेशनं मिथः॥१२८॥

पाणिना प्रसवसङ्गिनीमलिश्रेणिकामिव निगृह्य वेणिकाम्\।
सुभ्रुवो मुखसरोरुहासवं सेवते स्म सृमरादरो विटः॥१२९॥

पाटलोष्ठपरिचुम्बने दृढं मेलनामधिगता मिथस्तयोः।
चारुताभरसमुद्गकश्रियं व्यानशे वदनमण्डलद्वयी॥१३०॥

आत्मनेतुरनुरागसंपदः श्लाघनं विदधतीव संमदात्।
गाढपीडितरदच्छदामुना कामिनी व्यधित मौलिधूननम्॥१३१॥

अन्वकारि पुलकैरणूदरीबाहुनद्धपरिणेतृसंवृतैः।
निर्भरस्तननिपीडनोद्गता शम्बरारिशरशल्यमण्डली॥१३२॥

मय्यमुष्य नितरां पचेलिमं मा स्म सौहृदमितश्चलत्विति।
स्वस्तनाग्रमणिकीलयोर्युगं सा हृदि प्रियतमस्य संदधे॥१३३॥

अस्पृशत्करयुगेन कामिनः पश्चिमाङ्गमुपगूहने वधूः।
न्यस्तमस्य हृदि मत्कुचाञ्चलं निःसरेद्ध्रुवमिहति किं धिया॥१३४॥

चित्तजार्चनचिरात्ययैनसो भञ्जनाय भृगुपातसाहसम्।
कर्तुमेष किमु कामुको हठादध्यरुक्षदबलाकुचाचलम्॥१३५॥

या पुरा विरहिणी स्मराशुगैराप खेदमतिकोमलैरपि।
मा बभूव वनितारतार्भटी(?) निर्दयप्रियविमर्दनक्षमा॥१३६॥

निर्विशङ्कनस्वसंनिवेशनः पाणिरोधरहितोष्ठचुम्बनः।
स्वस्तिकोज्झितकुचोपगूहनः स्वैरलब्धरशनावमर्शनः॥१३७॥

विप्रलम्भविहितानुतापयोः संप्रहृष्टमनसोः समागमात्।
तत्क्षणं तरुणयोस्तयोरभूल्लङ्घिताशयपथो रतोत्सवः॥१३८॥

तदानीं च तरुणिममदानीतरभसमुत्प्लुत्य केलीतल्पतलादुद्वेलमेखलाडम्बरविभाव्यमानसंरम्भा निजनर्मसचिवस्य समरविशेषसंनाहमसहमानेव तमधो निपातयन्ती तव कितव दर्पातिरेकमुत्पाटयामीति तर्जयन्तीव परिहृतार्जवगुणां भ्रूबल्लीमादधाना दशनदष्टाधरोष्ठपल्लवमाविष्क्रियमाणकण्ठग्रहणचण्डि मातिशया मानद, सपदि मारयामि भवन्तमिति सविकारमुदीरयन्ती श्रवणावतंसकुसुमपरिमलाकृष्टमधुकरकुलवाचालतया स्वबन्धुभिरिव दीयमानबन्धभेदोपदेशा साटोपविधीयमानं च पेटाभिघातमायतवितायमानं निःश्वासपवनपरिवीतमाहितं नवपिष्टातपांसुमुष्टिभिरपनीयमानं निरवधिस्वेदमतिनिशितनखरायुधवितीर्यमाणनानाविधमर्मवेदमाश्चर्यगरिमनिश्चलविलोकनोद्ग्रीवपरिसरगतप्रदीपजातं किमपि विपरीतमदनरणरतिमुररीचकार शातोदरी।

तस्मिन्विलांसी तनुंभूनियुद्धे पराजयं प्राप्तमिवातिमात्रम्।
हस्तारविन्देन नितम्बभारमास्फालयामास मृगेक्षणायाः॥१३९॥

संतुष्यता तादृशसाहसिक्यान्मीनध्वजेनेव कृता मृगाक्ष्याः।
पर्यस्तधम्मिल्लपरिच्युतानां बभूव वृष्टिः प्रसवावलीनाम्॥१४०॥

कुचौकराभ्यां कुलशैलतुङ्गौ जग्राह कान्तो जलजेक्षणायाः।
प्रतायमानादनयोः प्रकम्पान्मध्यव्यथा मा भवतादितीव॥१४१॥

सा मेखलामङ्गलवाद्यघोषैः कण्ठोदयत्काकुनिनादगीतैः।
वक्षोजनृत्तैरपि वारिजाक्षी चित्तेशयं दैवतमारराध॥१४२॥

अस्या भृशं पौरुषमास्थितायाः प्रपेदिरे विक्लवतां प्रतीकाः।
भीरोरनीका’‘‘‘बसे प्रकामं शैथिल्यमङ्गानि खलु श्रयन्ते॥१४३॥

श्रान्ता पुनः सामिनिमीलिताक्षी कान्ता पपातोरसि कामुकस्य।
क्रीडासमाबद्धवियातभावव्रीडादिवामुष्य तनुं विशन्ती॥१४४॥

संभोगान्ते किमपि सुमनश्चापनाडिंधमेन
प्रत्युप्तायाः प्रियतमहृदि स्त्रीमणेः स्थैर्यसिद्धयै।

गाढोत्पीडावलयितकुचोद्वान्तकाश्मीरलक्ष्या-
त्प्रायो रेजे बलवदभितो घट्टिता हेमरेखा॥१४५॥

चुम्बनोद्गमितवीटिकापृषद्दूषितप्रियदृगुत्थिता वधूः।
गात्रकामकरवालवल्लरीमाहवप्रकटितामथावृणोत्॥१४६॥

इति किल परमात्मनः सुखाब्धेर्विषयसमीरविसारितैस्तरङ्गैः।
जगदिदमभिषिच्यमानमासीदमितभवज्वरवेदनानभिज्ञम्॥१४७॥

बाधूलवंशधर्वहस्तु वावदूको निर्वर्तितसांध्यकृत्यसंतानप्रस्तुतनियमादरप्रवाहनिर्मज्जदखिलविषयाभिलाषोऽपि मानसपथनीतमकरकेतुशासनः सुखमशेत। तदनु दिगङ्गनादृढसमालिङ्गनचन्द्रिकाङ्गरागः प्रकटकलङ्ककैतवादतिचिरोपभोगपरिश्रान्तिगरिमविश्रान्ततनुलतां हृदन्तरेण विभावरीं दधानो दरनिमीलदानीलसरोजलोचनमारभ्यमाणनिद्रारसानुभूतिरियमुत्पलिनीति तदुपगूहनविधायिनीं करसंहतिमात्मनः शनैरुपसंहरन्प्रचुरविहारखेदपरिम्लानमूर्तिरपराद्रिनिकेतशयनमजिहीत तुहिनदीधितिः।

गगनमणिसौधशिखरादभिसरति दिशं निशाकरे चरमाम्।
प्राप कुलिशायुधाशा परिपाण्डुदशां वियोगविवशेव॥१४८॥

शीर्णपाण्डुरिमजीर्णपलाशा रूढसांध्यरुचिपल्लवपङ्क्तिः।
पूर्वदिग्व्रततिरम्बरलक्ष्मीभूषणं तपनगुच्छमपुष्णात्॥१४९॥

आत्मनश्चिरमसंनिधिहेतोर्वैकृतं किमपि वारिधिनेमेः।
चिन्तयन्निव शनैरुपतस्थे लोकबन्धुरथ मध्यमलोकम्॥१५०॥

नभोमणिप्राङ्गणनर्मभाजस्ताराभिधाः केचन राजदाराः।
आलोकमार्गादरविन्दबन्धोरपासरन्नध्युषितोदयाद्रेः॥१५१॥

दिशो दशानन्दयितुं विधाय तिरस्कृतिं ध्वान्ततिरस्करिण्याः।
महा’‘‘‘त्मा महसां स राशिराकाशरङ्गस्थलमाससाद॥१५२॥

अर्कोदयात्प्रागधिगत्य बोधं प्राज्ञस्तु स प्रातरुपास्य संध्याम्।
पिनाकिसेवां प्रणयन्ननैषीन्निशात्रयं निम्तुलसत्ववृत्तिः॥१५३॥

इति समरपुङ्गवस्य कृतौ चम्पूकाव्ये चतुर्थ आश्वासः।

_______________

पञ्चम आश्वासः।

निष्काञ्चिरैक्षिष्ट स निम्नगां तां पयस्विनीं पाण्डरफेनजालाम्।
सुपर्वधेनोः सुतवत्सलायाः स्तनान्तरात्सद्य इव प्रवृत्ताम्॥१॥

शैवालपालिम्तटसीम्नि यस्यानिलीयते वीचिनिरस्यमाना।
क्लृप्तावगाहेन गणेन नृणां प्रक्षालिता पातकधोरणीव॥२॥

सविलासविवर्तनेषु शश्वद्विवृतावर्तगभीरनाभिगर्तम्।
दधती चलमीदृष्टि गात्रं भजते रागवतीव या पयोधिम्॥३॥

पार्श्वद्वयप्रभवसारणिकासहस्र-
निःसार्यमाणलहरीकतया नितान्तम्।

आसादितापि कृशता विदधाति यस्याः
सस्यावलीकलनकीर्तिमुखेन शोभाम्॥४॥

अघमर्षणमन्त्रसंततेरयमावर्तनमाचरन्सुधीः।
अदसीयजलान्तरावसत्कलिभीत्येव कदर्थितश्चिरम्॥५॥

सलिलैरखिले तस्याः कलितेनित्यकर्मणि।
आदिष्टतपनो भासा प्रातिष्ठत स धार्मिकः॥६॥

श्रीनन्दिशैलद्विपदानधारां हारावलीमर्णवमेखलायाः।
पुण्याम्बुपूरामथ भूसुरेन्द्रः पिनाकिनीं प्रापदसौ प्रपन्नाम्॥७॥

उरुभिस्तटकेतकैरुदन्वन्महिषी दीव्यति या मनोज्ञसूनैः।
कलधौतपिधानखड्गहस्तैरभिगुप्तेव महाभटैरभीक्ष्णम्॥८॥

अतिसंनिहितोच्छ्रयावभङ्गे निपुणामाहितनीचतुङ्गभावाम्।
अनुगच्छति या महीपतीनामनघां नीतिमदर्शितान्तरङ्गाम्॥९॥

तत्र च पवित्रतरपाथसि प्रणीतमज्जनविधिरेष सज्जन शिरोमणिः सरोगणविमुक्तसारणीपूरनिर्वर्त्यमानशालिनिचयसंवर्धनक्रियं कुशसमिदाहृतिकुतूहलवशादग्रहारशतविनिर्गतैरवनिनिलिम्पमाणवककदम्बकैः ससंभ्रमविडम्ब्यमानसंप्लवनरंहसा शम्बरकुलेन मुहुरलंक्रियमाणजाङ्गलमहीभागमागमजलधिपारगधीरजनमेधाभिनूतचण्डीशकुण्डलमतिलङ्घ्यतुण्डीरमण्डलं पातालभुवनमिव फणिराजसमधिष्ठितं विपिनान्तरालमिव व्याघ्रपदलाञ्छितं कलशाब्धिहृदयमिव कैटभद्वेषिनिद्रागृहाञ्चितं विपुलगिरिदुर्गमिव विमतभवभीतिसंज्वरचण्डरीतिहरमहिण्डत पुण्डरीकपुरम्।

प्राकारपद्मे परिखासरस्यामुन्मेषवत्युज्वलशृङ्गपत्त्रे।
यत्रामितानन्दमयं महान्तः शिलीमुखाः सीधुरसं पिबन्ति॥१०॥

तत्र च धरणीसुराग्रणीरनर्गलश्रद्धासमाहिततीर्थावगाहनः सकौतुकमाक्रान्तचि (वि)त्सभान्तरो यवनिकापनयनक्षणलक्ष्यमाणतेजःपुञ्जसंछादितदशदिशावकाशतया वारिदघटाविनिःसृतममृतकर सहस्रमपहसन्तं निपुणतरविनिहितेक्षणनिरूप्यमाणनिखिलप्रतीकतया मणिभवनमध्यदेशप्रविष्टमिव दृश्यमानमरुणसुतशिक्षणविधावपवृत्तदाक्षिण्यमपि दक्षिणं चरणमधो निधाय तिष्ठन्तमाटोपगरिष्ठविक्षेपभाविनीं त्रिभुवनविपत्तिमभिशङ्क्यसरयमुपसर्पता सव्यकरपल्लवेन कलितविनिवारणमिव किंचिदाकुञ्चितमितरपदसरोजमुद्यम्य नृत्यन्तमेकहस्ततलविन्यस्तेन सरभसपरिभ्रान्ति संदीप्तहेतिना पवमानसचिवेना….. रि (नि) विष्टदेहतया विलसदष्टापदसालवेष्टितं कैलासशैलमिव भासमान मियदेव नर्तनलयानुगुणमित्यन्यपाणिसंतन्यमानमतिलटहडमरुडात्कारक

न्दलं परिच्छेदयतेव परं परशयसरसिजेन विरचिताभीतिमुद्राभिनीतिमादिनटमद्राक्षीत्।

अवस्थिते मय्यपि गर्भदासे भागीरथी किं भवतैव धार्या।
जगत्पते स्थापय तामिहेति मन्ये स नम्रीकृतमौलिरासीत्॥११॥

आकर्णनव्रजनतीर्थवरावगाह-
निर्माल्यगन्धनिवहग्रहणावलोकैः।

अन्येन्द्रियावलिमवेक्ष्य भृशं कृतार्था-
मस्तौदमुष्य मृडमक्षमयेव जिह्वा॥१२॥

संनिधौ मम समस्तदेहिनां नृत्तमेव निखिलार्थसाधकम्।
तत्कलैवमिति किं नु दर्शयन्पुण्डरीकपुरनाथ नृत्यसि॥१३॥

नालीकसंभवमुखामरनायकानां
सत्यादिलोकपतिभावसमृद्धिलाभम्।

प्राञ्चस्त्वदेकपरतन्त्रमुदाहरन्ति
तेषां पुनः किमभिलप्य तनोषि नाट्यम्॥१४॥

अमितद्रुहिणाण्डमण्डलीनामधिनेतुः स्वगताणिमादिभूतेः।
घटते खलु कामुकस्य गौर्यास्तव संसन्नताण्डवानुबन्धः॥१५॥

साक्षिणोऽपि जगतां तव शम्भो दर्शनाय विचरन्प्रतितीर्थम्।
अङ्कगात्मजगवेषणशीलं हन्त लोकमनुयामि विमूढः॥१६॥

तावकीनपदतामरसार्चामावसानमसकृद्विदधानः।
श्रीसदाशिव कदा नु मुदाहं वासरान्क्षणमिव व्यपनेष्ये॥१७॥

असौ विद्यानिधेरस्य पार्श्वस्थितपतञ्जलेः।
ह्रिया किमियतीं कृत्वा स्तुतिं तूष्णीकतामयात्॥१८॥

अथ बुधपुङ्गवः सह्यगिरिशङ्कुसंदानितां बन्धरशनामिव सिन्धुराजपटमण्डपस्य विधिवनचरप्रसारितां व्यापादनबागुरामिव पातकभरश्वापदपरंपरायाः सैकतनितम्बसङ्गिनीं मेखलामिव जगतीमृगीदृशो निरतिशयसलिलकेलिनिरङ्कुशचौलीविशङ्कटवक्षोजजघनविक्षोभजातवेदनामिव प्रतिमुहरूर्मिपवनापदेशेन विनिःश्वसन्तीं बहुदूरगमनखेदालसामिव पदे पदे तरङ्गकरेण

तटभूमिमवलम्बमानां कलिविजयकर्मविहितोद्यमस्य धर्मक्षमापतेः कटकसंनिवेशैरिव कलशाम्बुराशिकल्लोलपाण्डरैरमरनिकेतनप्रासादमण्डलैरविरहिततीरदेशां लासिकामिव रभसविभावितभ्रमीसहस्रशालिनीं नारायणीमिव नवकुवलयश्यामलां कौमुदीमिव कुमुदवनामोदनीं वनमालिमूर्तिमिव वारिजसमञ्चितां पञ्चशरवैजयन्तीमिव पाठीनपरिशोभितां विलासवतीमिव विधृतफेनधवलचारुचन्दनामगाहत कवेरनन्दनाम्25

स्पर्धावती बाढमिवाभ्रनद्या सहस्रधा चोलभुवि स्रवन्ती।
समन्ततः संवसथानुपेत्य पुष्णाति पुत्रानिव या सवित्री॥१९॥

कदापि नैवात्र पदं करोतु दुर्भिक्षतादोषकथापि चेति।
प्रवाहवाहापरिवेष्टनेन बध्नाति चोलक्षितिपालनं या॥२०॥

रोधोवनीपिकरुतश्रवणैर्निकामं
सक्तेव या क्वचन संहृतलौल्यमास्ते।

अन्यत्र तादृशविलम्बनजन्यमब्धे-
राशङ्क्यरोषमिव हन्त रयात्प्रयाति॥२१॥

स्वयमनुतट यस्याः स्वादु संगृह्य तोयं
पृथुलफलघटीभिः प्रांशवो नालिकेराः।

गगनमरुपदव्यां गच्छतो लेखपान्थां-
श्चलदुरुदलहस्तैः सत्यमाकारयन्ति॥२२॥

अनन्तरमयमवनिवृन्दारकमणिः प्रचुरफणिवल्लरीवेल्लितक्रमुकवनजालेषु चोलेषु विश्रुतं मायाघनतमिस्रमार्तण्डमण्डलभुवनमपि च्छायावनं साधारण्यपदवीविदूरमपि श्वेता॒रण्यं नारीव्यापारकमनीयसौधमपि गौरीमायूरं मुक्त्यार्जनरसिकमोदैकहेतुमपि मध्यार्जुनं जृम्भमाणहरिहरावदानघोषमपि कुम्भघोणं संचरदनघशैवसंजवनमपि पञ्चनदं स्त्रीलाञ्छितदराङ्गनटननृत्तरङ्गमपि श्रीवाञ्छं विमलाशयपुरुषपरिषदाशास्यमपि कमलालयमधिगत्य, परिशीलयन्कियन्तमपि पन्थानमतिलङ्घ्य, कतिपयदिनैरमलफेनपटलभासुरामपां श्रियमिव सरस्वतो बेलाचलस्तम्भयुगलावलम्बिनं पाशभिव दाशरथिवि -

ख्यातिलासिकानाट्यस्य तिर्यगवष्टम्भयष्टिमिव तीव्रतरवातपरिभूतवार्धिमर्दनपटिमशालिनः कल्लोलकपटमल्लस्य वेत्रलतामिव जलधिवीचिनर्तकीनटनविद्योपदेशकारिणः समीरणदेशिकस्य मध्यवंशमिव फणिराजमन्दिरसमावृतिकृतो नीरधिद्वन्द्वनीप्र(ध्र)द्वयस्य बन्धनदारुभेदमिव सलिलमर्त्यशावकभृतो वीचिमदूर्मिडोलाविशेषस्य विषमसमकरणविरचनाफलकमिव सगरकुलकीर्तिशालि …. …. पोषिणो वारिधिकेदारवसुमतीभागस्य सुवेलगिरिकीलसुदृढप्रसंजितां दामनीमिव धरणीगवी कमठचरमाङ्गकलितविनिवेशनां वैतानवेदिमिव राक्षसाधिपविजयदीक्षानुबन्धिनो रामचन्द्रस्य तूलिकामिव त्रैलोक्यधामनि रामचरित्रचित्रलेखनपटोः सरसिजासनशिल्पिसार्वभौमस्य विधुंतुदमव दशकन्धरयशश्चन्द्रमसो युगंधरमिव पुरनिषूदनस्यन्दनस्य कालदण्डमिव घनकलुषमण्डलीनां नालमिव पौलस्त्यनगरारविन्दस्य वादनकोणमिव वाराशिदुन्दुभेः स्थूणाप्रकाण्डमिव खरखण्डनप्रथापटमण्डपस्य दारणक्रकचमिव सरिदधिपदारुणो गुरुतरग्रावद्रोणीमिव वाहिनीशखुरलीविहारस्य गाधभावाधिगमकाण्डमिव दशवदनशौण्डीर्यतटिनीविलासिनः शिक्षाकशामिव सिन्धुपतिभङ्गसैन्धवव्रातस्यनलसेतुमवलोक्य कौतुकाक्रान्तमना वचनमिदमाचष्ट ।

जनकतनयाधिनेतुर्जयहेतुर्यातुधानपतिजेतुः।
सेतुस्त्रिभुवनकौतुकहेतुर्भवतां तनोतु कल्याणम्॥२३॥

दशमुखरघुवरयशसी तुलयितुमरविन्दजन्मना कृतयोः।
सिंहलजम्बूद्वीपच्छलधटयोर्यष्टिरवतु वः सेतुः॥२४॥

रघुवरकीर्तिनटीमणिरङ्गगृहे जयति दीप्यमानस्य।
आधारयष्टिमेतत्प्रतापदीपस्य सेतुमालम्बे॥२५॥

मामवतु रामसेतुर्मध्ये वाराकरस्य यो भाति।
भूपैः पुरा खनद्भिः कियतीव स्थापिता क्षितिर्मितये॥२६॥

चलकङ्कणैः पयोनिधिशयने वेलावधूर्मिहस्तैर्यः।
आस्फालितोरुभागः स्वपितीव चकास्ति सेतुराजोऽयम्॥२७॥

सेतुर्जयति यदाक्रमसंभ्रमलोलाःसमुद्रकल्लोलाः।
विश्वत्रयीविलङ्घनलाघवशिक्षारता इवाभान्ति॥२८॥

पुष्णातु सेतुः प्रचुरां मुदं वो महीसुवेलान्तरमानदण्डः।
वृद्धस्य सिन्धोरतिवेपमानतरङ्गपाणेरवलम्बदण्डः॥२९॥

कृत्तांशुकां यद्धटनेन धात्रीं द्रष्टुं धृतापत्रप एव रामः।
ततान तत्संवरणानुकूलं यशोदुकूलं प्रथते स सेतुः॥३०॥

सेतुः श्रियं पुष्यतु यद्भुजेन सुवेलमालम्बत भूतधात्री।
पौलस्त्यकीर्तिप्रकराम्बुराशौ विहृत्य वेलामिव यातुकामा॥३१॥

यद्व्याजदण्डेन नरेन्द्रवर्यनिवेशितेनेव कृतान्निरोधात्।
अपारयन्धावितुमब्धिभोगी विवेष्टते तं विनतोऽम्मि सेतुम्॥३२॥

डिण्डीरनिर्मोकधरः स मुप्यादघानिलान्सेतुफणाधरो नः।
निशाचराधीश्वरकीर्तिदुग्धं यः पायितोऽभूत्प्रभुणा रघूणाम्॥३३॥

न केवलं येन पुरा रघूणां नाथो ललङ्घेलवणाम्बुराशिम्।
सीतापहारोपचितापवादसिन्धुं च हन्याद्वृजिनं स सेतुः॥३४॥

हिनस्तु सेतुर्दुरितानि यस्मिन्मनोज्ञफेनांशुकमण्डलानि।
आस्फाल्य वेलाद्रिशिलासु वीचिहस्तेन विस्तारयतीव वार्धिः॥३५॥
भास्वत्करानीतपयोदकुम्भसहस्रसंग्राह्यपयोभरस्य।
उदन्वदन्धोरुपरिप्रदेशशिलामधीमो नलसेतुरेखाम्॥३६॥

स्नपयन्पयसा यदम्बुराशिः परिलिम्पन्नवफेनचन्दनेन।
मुहुरर्चयतीव रत्नसूनेस्तदुपासे हृदि रामसेतुलिङ्गम्॥३७॥

मकरालयचेलमध्यभाजः परितो लक्षितफेनसक्तुराशेः।
क्षितिचक्रघरट्टकस्य यष्टिं कलये कल्मषपेषणाय सेतुम्॥३८॥

विनिवेश्य यदर्गलां पयोधौ नरकद्वारकवाटिकायमाने।
क्षितिजापतिरीशलिङ्गमुद्रां विदधे शर्म ददातु वः स सेतुः॥३९॥

रघुवीरपदावलीसमचरचनायेव पयोधिना बितीर्णैः।
स्खलदूर्मिरयोदितैः स्फुलिङ्गैरिव रत्नैर्विलसन्मुदेऽस्तु सेतुः॥४०॥

लघयत्वघराशिमेष सेतुः श्रयतां दीव्यति यः सुवेलमूले।
दृढदण्ड इवार्पितः समूलं परमुन्मूलयितुं पुलस्त्यसूनोः॥४१॥

नलसेतुमहं नतोऽम्मि सीतापतिकीर्तिप्रमदावलम्बनार्हम्।
वलदब्धिपटीवृताग्रदीव्यद्धरणीमण्डलतालवृन्तनालम्॥४२॥

सुवेलशैलद्विरदेन माद्यता कृतः सलीलं क्षितिवाशितो ( सिनो ) परि।
करोतु वः सेतुकरो भवार्णवप्ररोहदंहोबिसिनीसमुद्धृतिम्॥४३॥

नमामि सेतुं नटदृर्मिपाणिना तटे यदीये ततमौक्तिकावलिः।
चकास्ति बन्धुः सरितां रघूद्रहप्रशस्तिवर्णप्रकरानिवार्पयन्॥४४॥

श्रयामि सेतुं चलदृर्मिकाञ्चलैर्विनिक्षिपन्यस्य तटे वराटिकाः।
विराजते राक्षसराजविद्विषो गणं गुणानां गणयन्निवार्णवः॥४५॥

परिचरितपुण्यपण्यावलीलाभविपणिसरणिं पुरुहूतपुरकवाटसमुद्घाटनकुञ्चिकां राघवयशःक्षीरसागर महाझषमर्णवनेमिवरवर्णिनीवेणिकामतितुङ्गपदलिप्सुतनुभृदधिरोहिणीं दुरितसिन्धुसंतरणहेतुं सुकृततरणितोलनारित्रं लङ्केशबाहुतेजकडङ्गरीयदूरीकरणयष्टिकां जलधियुगलसीमाविभागभित्तिंण्डीरवसनषण्डविन्यसनलिङ्गिनीं प्रचेतोनिकेतनप्रासादमालिकां दुर्ललितयातुधानसमाजधूमकेतुरामसेतुम्।

वारिधिः समरवंशजन्मनां क्ष्माभुजाममितकीर्तिशेवधिः।
यत्र दारुणि तिरश्चि लम्बते संपदे स नलसेतुरस्तु नः॥४६॥

सेतुरेष परिपातु पातकव्यालसंहतिविहङ्गपुङ्गवः।
यस्य पार्श्वविततौ सरित्पती पुष्यतश्चटुलपक्षविभ्रमम्॥४७॥

पच्यमानपयसि स्फुटमौर्वज्वालया सरिदधीशका।
आसिकाविधिकृतोऽवनिदर्व्या नालमञ्चत दृशा नलसेतुम्॥४८॥

जलधिचक्रमिषाद्वलयीकृते धनुषि दैवरघूद्वहसंहितः।
रचयतादघराक्षसमण्डलीजयमसौ नलसेतुशिलीमुखः॥४९॥

इष्टं सेतुः सौति यद्रामबाणच्छिन्नाकारे बाहिनीसंनिवेशे।
भ्राम्यद्वीचीबाहुबृन्दा कबन्धश्रेणी नृत्तं प्रोद्धतं संविधत्ते॥५०॥

यातायातायामतुङ्गैस्तरङ्गैर्दृश्यादृश्यो दृश्यतां रामसेतुः।
वाताधूतं वार्धिचेलं यदूरौ भूयो भूयः स्थापयन्तीव धात्री॥५१॥

मृत्स्नाकूटं मेदिनीनामधेयं विन्यस्यान्तर्विश्वसृट्कुम्भकारः।
प्रायश्चक्रं प्रेङ्खयत्यब्धिरूपं यष्ट्या येन त्रायतामेष सेतुः॥५२॥

सेतुं वन्दे सिन्धुराजम्य गावः काषं काषंग्राव्णियत्राङ्गकानि।
चारं चारं जन्तुदुष्कर्मतृण्यां दोहं दोहं पुण्यदुग्धान्य(ट)न्ति॥५३।

मध्येपाथोराशि पातालमूलादुन्मग्नम्य क्रीडयोर्वीमिषेण।
भाति ग्रीवेवादिकूर्मम्य यो मां पापासक्तं पावयत्वेष सेतुः॥५४॥

शीर्णाब्जकीकसभरं शिथिलप्रवाल-
वल्ल्यान्त्रनालमवकीर्णवराटदन्तम्।

भग्नोर्मिबाहु च पतद्भिरंगैर्बभूव
यन्निर्मितौ जलधिवर्ष्म स सेतुख्यात्॥५५॥

कुण्ठीकृताशरकुलाधिपगर्वराशिः
खण्डीकरोतु भवतां कलुषाणि सेतुः।

भारासहिष्णुरिव यस्य पयोधिरङ्ग
वीचीकरैर्विततशङ्खनखैः क्षिणोति॥५६॥

अह्नाय सेतुरशिवानि विहन्तु यत्र
सक्तेतरेतरतरङ्गमुखौ चकाम्तः।

वेलातिलङ्घनविधापणबन्धनाय
श्लिष्यत्परस्परकराविव सिन्धुराजैौ॥५७॥

सेतुर्मुदे भवतु वो जलमम्बुराशे-
र्वीरेण यत्करणकौतुकिना विभेजे।

सीतावियोगशिखिरावणबाहुधाम्नोः
कर्तुं पृथक्प्रशमनामभिकाङ्क्षतेव॥५८॥

विषं जगद्गुरोरदादयं पुरेति रुष्टयोः
सुवेलगन्धमादनस्मराभियातिभृत्ययोः।

निधाय मध्यसीमनि प्रमृद्गतोर्यदर्गलां
विरौति वाहिनीपतिः श्रियै स सेतुरस्तु नः॥५९॥

उदञ्चद्धोषाभ्यामुदधिलहरीभ्यामुभयतः
कृतासङ्गः सेतुः कवलयतु पापानि भवताम्।

भृतक्षोणीकन्यापतिविजयनिःसाणयुगली-
लसत्पार्श्वद्वन्द्वावलितकरिराजन्यविहृतिः॥६०॥

दक्षाः संगतलोकपातकविधौ ताटस्थ्यभाजो नृणां
चेतोभीतिविधायका मलिनतां संबिभ्रतो भूयसीम्।

तुङ्गाः पातकराशयस्तनुभृतां भृ(भ)ङ्गा इवाम्भोनिधेः
सङ्गाद्यस्यविनिर्दलन्ति शतधा तस्मै नमः सेतवे॥६१॥

श्रीमद्दामयशोदुकूलकलनावेम्ने नतिं मौलिना
कुर्मो गर्हितकर्मदग्धजनताजीवावे सेतवे।

शश्वद्यत्र विजृम्भतो रघुपतेः ख्यातिप्रतापाङ्कुरा-
न्व्यक्तान्मौक्तिकपद्मरागमिषतः सिञ्चन्निवाम्भोनिधिः॥६२॥

मध्येवारिधि काञ्चनाचलमिलन्मध्या मही दृश्यते
पुंसां नौरिव कापि पुण्यपटली वाणिज्यलाभार्थिनाम्।

लङ्का तन्निकटस्थितेव तरणिर्लघ्वी तयोरन्तरे
सेतुः पाश इव स्फुरन्वितरतु श्रेयांसि भूयांसि वः॥६३॥

वलमानवीचिकरलीलया मिथः
पृथुकम्बुकन्दुकमिह प्रहिण्वतोः।

निहितेव यः स्फुरति यष्टिरन्तरे
सरिदीशयोः स नलसेतुरीयताम्॥६४॥

लङ्काभिव्याप्तिघाटीचटुलरघुवरोद्दामदोर्घाममार्ग-
स्त्रैलोक्यग्रासजाग्रद्दशवदनयशोरोधविष्कम्भकाण्डः।

सेतुर्वः संतनोतु श्रियमुभयनदीबान्धवोपान्तलीला-
लोलकल्लोलमल्लद्विपयुगलसमीकार्भटीमध्यभित्तिः॥६५॥

श्रीमत्कूर्मोरगेन्द्रक्षितिवलयमयैरादिमध्यान्तभागै-
राबद्धे मूर्तिमम्भोनिधिवसनसमावेष्ट्यमानां दधाने।

पीठे यद्गोमुखाढ्ये कनकधरणिभृलिङ्गमाभाति तुङ्गं
पायादस्मानपायात्सुकृतनरपतर्जैत्रकेतुः स सेतुः॥६६॥

धर्मकोटेस्तदा तस्य धर्मकोटिमभीप्सतः।
कथमात्माश्रयोऽप्यासीत्कार्ये न प्रतिबन्धकः॥६७॥

अयं पुनरधिरूढगन्धमादनं रतिबन्धुशासनमभिवन्द्य नुतिबन्धमौखरीभविन्दत।

नलसेतुबन्धतटकेलिशालिने नतिरस्तु शैलतनयाविलासिने।
सृजतीव यन्मकुटसिन्धुरब्धिना सहनर्मसंलपनमूर्मिनिःस्वनैः॥६८॥

यो वारिराशेरुदरात्तरङ्गमहोरगान्मौलिभृदोषधीशः।
आकृप्य भूयस्त्यजतीव सोऽयमास्तां मनम्यादिविषापहारी॥६९॥

यस्याट्टहासेन्दुरुचा पयोब्धिलीलां दधाने लवणाम्बुराशौ।
निद्राणनारायणनर्मधत्ते सेतुः स मां पुंगव केतुरव्यात्॥७०॥

रमतां हृदि रामनाथदेवो वितता वारि “‘‘‘‘गेहे।
श्रियमञ्चति सेतुबन्धरेखा शयितोर्वीधरचापनिर्विशेषा॥७१॥

चण्डैः प्रगृह्य चलवीचिकरैर्नराणां
पापावलिं पृथुषु सेतु शिलातलेषु।

यच्छासनेन परिपातयतीव सिन्धुः
सोऽयं ममास्तु हृदि सोमकलावतंसः॥७२॥

व्याकीर्णविद्रुमजटावलयं विमुक्त-
फेनाट्टहासमवघूर्णितवीचिहस्तम्।

संध्यासु यस्य नटनानुकृतिं समुद्रो
निर्माति शर्म वितनोतु स नीलकण्ठः॥७३॥

आयात पातककृतो भवतामघानि
संक्षालयानि सहसेति यदग्रभागे।

अम्भोधिरात्मभवसेतुविलङ्घनेन
सत्यापयन्निव चकास्ति मृडं तमीडे॥७४॥

रामेश्वरो विजयते ललदूर्मिहस्त-
पर्यस्तशुक्तिपटलीकपटेन यस्मै।

चूडामणीकृतसुधांशुकलान्तराणि
विश्राणयन्निव विभाति तरङ्गमाली॥७५॥

पादावनम्रजनपङ्कपरंपराणां
संक्षालनामिव समुद्रजलैर्विधातुम्।

श्रीरामसेतुतटसीमनि वासलीला-
माम्रेडयन्घटयतां मुदमद्रिधन्वा॥७६॥

मुक्ताविद्रुमपद्मरागपटलीमुख्योपदामन्तिके
न्यस्यन्नेत्य सृजन्निव प्रणयिनीनिर्मोचनाभ्यर्थनाम्।

भूयो याति मुखे वहञ्जलनिधिर्भङ्गं किलापाकृतो
येन प्रत्यहमेधते स भगवानेणाङ्कचूडामणिः॥७७॥

जानकीकरसमूढवालुकामूर्तये मुषितराघवार्तये।
रामनाथ इति नामशालिने शूलिने नटनशीलिने नमः॥७८॥

तदनु पण्डिताखण्डलःपाण्ड्यधरणीमण्डनायमानमुरुतरं श्रीलास्यमुखरमुपगम्य हालास्यनगरमगणेय गुणविशेषामशेषभुवनमातरमपि सवित्रीकृतमलयध्वजं धरित्रीशवल्लभामपरयुवतिदुर्लभाभिरङ्गजनृपालपुंगवशक्तिभिरिव वक्षोजवृद्धिभिस्तिसृभिरुपशोभमानयौवनारम्भां विपुलसंरम्भविहितं निखिलदिग्विजययात्रावसरनेत्रातिथीभवत्त्रिपुरविरोधि संनिधितिरोहिततृतीयपयोधरभरां सपदि मीनाक्षीमध्यक्षयन्प्रणिपातपूर्वमयमभिजातपथविहारिणीं वाणीमभाणीत्।

हरमिव समाख्यातुं चित्ताय जाग्रतमग्रतो
रचयति कुचे तार्तीयीके भुजान्तरमज्जनम्।

सपदि विनतो लज्जासङ्गात्तदीयगवेषण-
प्रवण इव नः पायान्मीनाक्षि ते मुखचन्द्रमाः॥७९॥

स्तनशिखरिणोः स्पर्धामुत्पाद्य तावकयोः पुरा
कुलमहिधरो दृष्ट्वा तस्थौतृतीयकुचात्मना।

अधिगतवतोः पश्चादैक्यं तयोः सविधादसौ
निजपरिभवं प्रायो निर्धार्य देवि तिरोदधे॥८०॥

तव गिरसुते वक्षोजेषु त्रिषु स्मरशासिनो
नयनसरसीजातैर्नीतेषु सत्सु…भक्तताम्।

दहनघटनत्रासाल्लिल्ये तृतीयपयोधरः
समकुचददश्चिन्ता….न्धादलीकविलोचनम्॥८१॥

पुरहरकरामर्शत्रासेन भृधरनायक-
स्तव कुचयुगोपान्ते प्राप्य स्तनान्तरभूमिकाम्।

भगवति तिरोभृतः क्वापि प्रतिक्षणभाविनी-
महह पुनराशङ्केशानस्यहस्तविमर्शनाम्॥८२॥

भवति विमुखे धैर्ये पाणौ विमुञ्चति कार्मुकं
सुरभिलशरेऽप्याजौ स्वीकुर्वति प्रतिकृलताम्।

परमवसरं लब्ध्वा पृथ्वीधरेन्द्रशरासनो
जननि भवतीमाविर्लज्जां करे जगृहे हरः॥८३॥

इति सुमतिरयमभिदधानो विगलितोपमानसंकथां रूपसंपदमखिलजगदम्बिकाया विभावयन्पुनरिदमभाषत —

अम्ब कदम्बवनान्तरमन्दिरसंजातकेलिसंचारे।
भूरि पुरवैरिलीलासाक्षिणि मीनाक्षि देहि वाग्देवीम्॥८४॥

आचिकुरचरणपल्लवमनवद्यानां शिवे तवाङ्गानाम्।
उपमां वदञ्जघन्यैरुपमानैः क इव नापराधी स्यात्॥८५॥

तदपि भवदीयचिन्तासुकृतानि ….लब्धुमिच्छन्त्या।
भक्तया समाहितः परमयमारम्भः सवित्रि सहनीयः॥८६॥

विक्षिप्तदक्षिणेतरकरपल्लवमन्यपाणिधृतकीरम्।
किमपि करुणापयोधेरधिदैवतमाविरस्तु मम चित्ते॥८७॥

कुलगिरिकुमारिके तव कुन्तलपरिमुषितसंपदो मेघाः।
क्रन्दन्ति नूनमेते क्षितिभृत्पादेषु क्लृप्तनिप्यन्दाः॥८८॥

जडमपि दोषाकरमपि समधिककौटिल्यमपि सुधासूतिम्।
शिरसा वहसि यद्वेषा जननि कलापक्षपातशैली ते॥८९॥

आपाटलाधरच्छविबालारुणकिरणपरिचयात्किं वा।
अनिशविकस्वरमास्ते पार्वति भवदीयवदनतामरसम्॥९०

कमलभवन्मुखभेदे कलयेदशोऽपि देवि मीमांसाम्।
एकत्र पट्पदावलिरितरत्र भ्रूलता न चेद्दृष्टा॥९१॥

शशलक्ष्मणो विशिष्टं शफराक्षि मुखं तवेति मे धिषणा।
यदिह विशेषकमिन्दोरसुलभमसितैस्तपोभिरप्यास्ते॥९२॥

तव जननि लोचनद्वयमाभाति मदारुणीकृतोपान्तम्।
निजगतिनिरोधकारिणि कर्णयुगे किंचिदात्तरोषमिव॥९३॥

शर्वाणि ते कटाक्षः शक्तिं जगृहे नु कालकूटस्य ।
गलकलितोऽपि स विकृतिं न दिशति नाथं यदेष मोहयति॥९४॥

श्यामापि विमलशीलां संततलोलापि संभृतस्थैर्याम्।
गौरि कुटिलापि ऋज्वीं तनुते श्रियमानतेषु तव दृष्टिः॥९५॥४

तावकहसितविडम्बनसंभृतगाढागसां विधोर्भासाम्।
संभाव्यते चकोरीचञ्चुसंदेशकोटिभिश्छेदम्॥९६॥

दशनकिरणप्ररोहैस्तन्न्रीममृतैरिवाभिषिञ्चन्ती।
श्लाघाचलितशिरस्कं गायति शश्वद्यशांसि कामारेः॥९७॥

भवदीयकण्ठनालीपरिवादिन्यामलीकदृक्कान्ते।
तन्त्रीगु”” र्दधत माङ्गल्यहेमसूत्राणि॥९८॥

हालाहलानलाकुलहरगलसंतापकन्दलीहरणात्।
ब्रूमो भुजद्वयीं तव तनुरुचियमुनातरङ्गयुगलीति॥९९॥

कलयामि’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘ननि श्यामो यदंगुसंदोहः।
मूर्च्छति कपोलमूले मङ्गलदुर्वावतंसमतिदायी॥१००॥

परिणतदाडिमबीजभ्रमचुम्बितपद्मरागमणिमुद्रम्।
विभ्रमशुकमालोक्य स्मेरमुखीं त्वां भजामि मीनाक्षि॥१०१॥

आनन्दपारवश्यादपि विस्मृतमन्तरान्तरा गेयम्।
हैमवति यद्गिरा पुनरनुसंधत्से स मां शुकः पायात्॥१०२॥

अङ्गुलिभिरम्ब तन्त्रीताडनसमये तव स्फुरन्तीभिः।
संगीतविभवसंभृतपल्लवनिवहेव भासते वीणा॥१०३॥

माभूदयं विलीनो गीतिरसेनेति किं नु मीनाक्षि।
कुचगिरिमलाबुरुद्धं कुरुषे वीणाविनोदवेलायाम्॥१०४॥

मध्येगानसुधाम्बुधिमज्जनमभिशङ्क्यकिं नु वा धन्ये।
वीणावादनकेलिषु कलयसि कुचयोरलाबुविन्यासम्॥१०५॥

त्वं वल्लकी च देवि द्वे सख्यौ कृतपरस्पराश्लेषे।
चारुस्वने भवत्यौ सृजत इवान्योन्यकेलिसंलापम्॥१०६॥

स्फीते महःप्रवाहे मज्जनलीलाकृतः स्मरेभस्य।
उत्पतिताविव कुम्भावुरसिजभारौ तवावभासेते॥१०७॥

तव तरुणि मानमायी कोऽपि न रोमालिरस्य मणियष्टिः।
न कुचौ करण्डयुग्मं मौक्तिकमाला न कन्दुकश्रेणिः॥१०८॥

शिशुतां विजित्य मध्यमासीम्नि निखातो नवेन तरुणिम्ना
रोमलतिकात्मना तव राजति जम्भारिमणिजयस्तम्भः॥१०९॥

कुचगिरिचरद्भवाशयकरिपातनजातकौतुको मदनः।
तायकगभीरनाभीदम्भादम्ब ध्रुवं चकार बिलम्॥११०॥

कुचयुगलभारपीडा कुरुते तनुतां तवावलग्नस्य।
अविवेकिनः समुन्नतिरन्तिकभाजां विषादनायैव॥१११॥

त्रिवलीमयेन यौवनदर्वीकरवेष्टनेन किमपर्णे।
भवदीयतनुपटीरव्रततीमध्यो विगाहते तनुताम्॥११२॥

कथमतितरां कठोरैः करहिशिरःकदलिकाण्डतूणीरैः।
जननि जघनोरुजङ्कं तुलयन्ति धुतोपमानसङ्घंते॥११३॥

भवमहिषि तव पदाभ्यामिदमधरीकृतमिति ध्रुवं वेधाः।
कलयति कमलमधस्तात्सर्वे कुर्वन्ति सत्समाचरितम्॥११४॥

नखरनिकरच्छलोदितनूपुरहीरोपलप्रतिच्छायाः।
अङ्गुलिदलापदेशाद्भान्ति भवच्चरणकिरणनिष्यन्दाः॥११५॥

कमलकलहोद्यमो वा हिमगिरिहेलाविधानवाञ्छा वा।
यमिहृदयवारिजस्थितिकलना वा तव पदं करोत्यरुणम्॥११६॥

हंसास्त्वया मदालसविभ्रमगत्या विभीषितस्वान्ताः।
मातः पयोदमालां प्रेक्ष्य भवच्छङ्कया पलायन्ते॥११७॥

निर्माय निर्मले तव केवलशृङ्गारकन्दलैरङ्गम्।
उडुराजखण्डमौलेरुपदीकुरुते स्म किं मनोजन्मा॥११८॥

श्रुतिश्रमविनोदिभिः शुकरवैरभिव्यक्तया
पुरारिगुणसंपदा पुलकितैकगण्डस्थलम्।

कदम्बविपिनान्तरे कलितसंनिधानं चिरा-
न्महः किमपि दृश्यते मरकतोपलश्यामलम्॥११९॥

अनन्तरमुपसृत्य सुन्दरेशमारचितसंनतिरिदममन्यत—

अभीष्टसिद्ध्यैहरिणाङ्कशेखरं विनौमि हालास्यपुरीविहारिणम्।
विभोश्चतुःषष्टिविलासकारिणः कियन्मदीयावनकेलिकौशलम्॥१२०॥

जरद्गवारोहणशीलिना त्वया कदर्थ्यते हन्त नरे (गे) न्द्रकन्यका।
हयावलीविक्रयिणस्तवेश किं तुरङ्गमः कोऽपि बभूव दुर्लभः॥१२१॥

गिरिश पाणिषु माधुरयोषितां वलयभूषणमर्पयता त्वया।
शफरदृक्करपल्लवसंपदा कथय तेषु कलापि किमीक्षिता॥१२२॥

उत्कूलसिन्धूदकरोधहेतुमृत्क्षेपकर्मावसरे विनम्रात्।
स्रंसेत गङ्गा यदि मस्तकात्ते का वा दशा स्यान्मधुरानगर्याः॥१२३॥

उरसिरुहत्रयरूपामुपहृत्य तव त्रिवर्गसंपत्तिम्।
अजनि शफरेक्षणां स्वयमानन्दघनापवर्गसंसिद्धिः॥१२४॥

अथ निर्गत्य मधुरापुरादधिगत्य च कवेरजां समरमृगयादलितदनुजसा-

रङ्गयृथमपि श्रीरङ्गनाथ परिकल्पितपूजापुण्यततिमपि गजारण्यपति चिरमुपास्य निःसृत सहचरलोकमवलोक्य वाक्यमिदमाख्यातवानवनीसुरशाक्कर।

कलशार्णवान्तरङ्गं कावेरीमङ्गि मन्महे रङ्गम्।
यदिहघनपीनतुङ्गे पुरुषो निद्रातिभोगिपर्यङ्के॥१२५॥

चारुकवेरजाझरसमीरणपारणया पोषघने शयान भुजगेशमहाशयने।
श्रीमहिलामनोज जलदामलधामनिधेत्व गुरुमङ्गल मम तरङ्गय रङ्गपते॥१२६॥

हृद्यमरुद्वृधाहृदयवर्तनसक्तमते प्रौढगजाटवीनटनपाटवरुढरुचे।
संभृतसंपदा विहितम्बुविडम्बनयासाधय बोधय माशु ममचेतसि मृतपते॥१२७॥

अज्ञातापचयक्रमं द्विजवरैराम्बाद्यमाने रसे -
ऽप्यर्धंवारिदनीलमर्धमुदयन्मार्तण्डबिम्बारुणम्।

मूले सह्यकुमारिकातटपरिष्कारस्यजम्बुतरो
रद्राक्षं फलमे कमीक्षणकृनामश्रान्ततृप्त्यावहम्॥१२८॥

संसारी स्यन्दनी वा जलधिरशनया लोचनी शेखरी वा
नेत्रा नीलोत्पलानामुदधिपरिवृढेनालयी तृणवान्वा।

पर्यङ्की कङ्कणी वा फणिधरपतिना सह्यभृभृत्कुमार्ग
मध्यालंकारलीलावसतिरवतु मां देवतासार्वभौम॥१२९॥

वृद्धाचलाधिपमुपाम्य ततो विपश्चि-
दाराध्य शोणगिरिसङ्गिनमङ्गजारिम्।

नत्वा विरिञ्चिपुरनायकमप्ययासी-
न्न्यग्रोधकाननपुरीं निजवासभृमिम्॥१३०॥

अनेकतीर्थाटनवैभवेन समापतन्तीं सशरीरबन्धाम्।
कांचित्तपःसिद्धिमिवैष कन्यामन्यां महीयानथ पर्यणैषीत्॥१३१॥

अनवगुणकलापैरन्यनारीदुरापै-
रनुसृतनिजचित्तं हैमवत्योरिवेशः।

द्वयमिदमनुरुन्धन्दक्षिणः सारसाक्ष्यो-
रधित मुहुरमान्तीमन्तरानन्दवृद्धिम्॥१३२॥

इति समरपुंगवगकृतौ यात्राप्रबन्धचम्पूकाव्यं पञ्चम आश्रामः॥

षष्ट आवासः।

ताभ्यामसौ धर्ममणूदरीभ्यां समाचरन्संशयगोचरेषु।
निर्धारणाय श्रुतिनिर्विशेषं प्रमाणमासीत्परमङ्गभाजाम्॥१॥

तस्य तीर्थभजनोचितयात्रामादिशन्निव सुदीधितिकस्य।
स्मेरपाटलपरीमलवीचीमोदितालिमुखरः समयोऽभूत्॥२॥

भल्लिकाकुसुममण्डलगौरोमारबाहुमदुमान्द्यविधायी।
दीप्तचण्डकरदीधितिरागात्कालकाल इव कश्चिदनेहाः॥३॥

ग्रीष्मसंज्वरकृतामतिपीडामब्जिनीपतिरिवासहमानः।
मेदुरामविरतं मिहिकाभिर्विश्रवः सुतदिशं विजगाहे॥४॥

उत्क्षिपद्भिरटवीतरुकाण्डानुद्भटैरपरदिक्पवमानैः।
भग्नरंहसिपतङ्गशताङ्गे द्राघिमानमलभन्त दिनानि॥५॥

मेदुरे करसहस्रनिपीतैर्मेदिनीतलजलेरहिमांशौ।
भार कुण्ठितजवै रथवाहैःप्रादुरास गरिमा दिवसानाम्॥६॥

व्योम्नि दावशिखिधूमवितानैर्मांसले खरमरीचिहयानाम्।
मार्गमार्गणकृतातिविलम्बाद्दीर्घतां समजय (गम)न्दिवसानि॥७॥

अम्फुरच्छिखरिगह्वरगर्भव्यापिहेतिरटवीहुतवाहः।
उद्गतैरिव विशन्निजधूमैरुद्भवं जलमुचामभिशङ्क्य॥८॥

भाविवैद्युतलतापरिणत्यै बीजसंततिरिव प्रविकीर्णा।
व्योमसीम्नि विपिनज्वलनानां विस्फुलिङ्गपटली विजजृम्भे॥९॥

शोषितेष्विह जलेषु नितान्तं शेषलोकसलिलान्यपि पातुम्।
दारुणैर्वसुमती करजालैर्दारितेव तपनेन पफाल॥१०॥

प्रस्थितेन मधुमासनृपेण प्रापिता वनमहीशिबिराणि।
पावकावलिरिव प्रचकाशे पाटलीकुसुमकोरकपङ्क्तिः॥११॥

अंशुमालिकपिशाम्बरमध्ये व्यक्तिभाजि मधुवैरिणि काले।
अद्भुताय किमिदं यदमुष्मिन्नर्जुनस्य मुहुरास विकासः॥१२॥

माधवेन विहितोपचयानां मार्दवं किसलयप्रकराणाम्।
आजहार शुचिराशु निधातुंकिं शिरीषकुसुमस्तबकेषु॥१३॥

दारुणातभिया स्तनसीमामाश्रितं शिशिरमम्बुरुहाक्ष्यः।
सान्द्रचन्दनरसैः किमरक्षञ्शस्यते हि शरणागतरक्षा॥१४॥

तालवृन्तमभितो हिमधारास्यन्दनिर्भरसिताभ्रवलक्षम्।
नृत्यति स्म निकटे युवतीनामास्यदास्यकृदिवैन्दवबिम्बम्॥१५॥

अम्बुजव्यजनमब्जमुखीनामाश्रयन्नपि मुहुर्मरुदासाम्।
घर्मवारिकणजालममुष्णात्का व्यवस्थितिकथा चपलेषु॥१६॥

पर्ययेण कृतपातमधोऽधो वापिकाजठरवारि विरेजे।
चण्डभानुकरसंज्वरभीत्या गन्तुकाममिव गर्भमवन्याः॥१७॥

उन्नदद्भ्रमरमुच्छ्रितपद्मं भासते स्मपटलं नलिनीनाम्।
साध्वसात्करमुदस्य सवित्रे शंसदात्मसरसामिव शोषम्॥१८॥

क्रीडितुं सरसि तीरगतानां वक्त्रराजिररुचद्वनितानाम्।
सादरेव जलजेषु विधातुं सर्वसन्नहनसाहसकेलिम्॥१९॥

अम्बुगाहनकृतामबलानामङ्घ्रिपङ्क्तिरपनूपुरनादा।
लक्ष्यते स्म सरसीरुहलक्ष्मीमोषणाय भृतमूकदशेव॥२०॥

प्रक्रमे सलिलकेलिकलाया नाभिदघ्नमपि सारसमम्भः।
श्रोणिभिः पुनरुरोरुहदघ्नं सुभ्रुवामजनि संभ्रमहेतुः॥२१॥

प्रापिते सरसि पद्ममुखीनां क्षोभमूरुकुचकुम्भनितम्बैः।
अब्जसंततिरधोमुखवीक्षा लज्जितेव लहरीषु मम(ज्ज)ज्जे॥२२॥

वीचिलोलमपहाय सरोजं वक्त्रसीमनि पतन्नपि वध्वाः।
षट्पदस्तदुपगूहनहृष्यच्चेतसा सहचरेण शशंसे॥२३॥

अङ्गनाः कलिलमम्बु सरस्याः कुर्वते स्म कुचकुङ्कुमपङ्कैः।
रञ्जयन्ति विदुषामिव भावैराशयं किमु जलस्य मृगाक्ष्यः॥२४॥

पादयावकमुरोजपटीरं चक्षुरञ्जनमपि क्षपयन्तम्।
वीक्ष्य रोषविवशा इव हस्तैस्ताडयन्ति वनिताः स्म तटाकम्॥२५॥

कान्तयन्प्रकरवारिभरेण प्लाविते सति पर्योधरकुम्भे।
हृद्गतो मृगदृशां मदनेभः खेदमापकृतं विससर्ज॥२६॥

अक्षमा अपि विहर्तुमगाधे कामिनां करगृहीतवलग्नाः।
बालिकाः प्रसृतपाणिपदाब्जं पाथसि प्लवननर्म वितेनुः॥२७॥

कैशिके सलिलसंगिनि तासां कान्तचित्तमजनिष्ट रसार्द्रम्।
शुष्यति प्रचितशोषणमस्त्रैराङ्गजैर्नियमिते च निबद्धम्॥२८॥

नीलकुन्तलनियन्त्रितमल्लीसूनकन्दुकभरा सुदृगाली।
वारिदोदरवलद्विधुबिम्बामावलिं क्षणरुचामनुचक्रे॥२९॥

अथैष पित्रोरमितैस्तपोभरैरुपेयुषोः स्वर्गमुपार्जितैः स्वयम्।
गयाशिरःसीमनि कृत्यमास्तिकः स्वधर्म इत्याचरितुं समैहत॥३०॥

द्युसिन्धुकाशीतदधीश्वरेषु प्रारभ्य या बाल्यममुष्यभक्तिः।
करावलम्बप्रतिपादनं सा गयाप्रयाणाभिरतेरतानीत्॥३१॥

लग्ने शुभे स निरगाद्रचितः सुरेन्द्र-
संतर्पणः सहजनिर्मलशीलशाली।

दुष्कर्मवर्मितजनागमदूषितानि
तीर्थानि पावयितुकाम इवाखिलानि॥३२॥

बलिभोजिबकोटयोर्जवात्प्रतिपन्नाटनयोः प्रतिक्षणम्।
किरणच्छलतोऽसितार्जुने किमभातां पुरतोऽस्य निम्नगे॥३३॥

अनुपदमपश्यदयमपसव्यपार्श्वतः सहसा विनिःसृतं धरणीतलादुपरि बाहुमध्यमादनतितुङ्गे नभसि विहितचङ्क्रमतया संनिकृष्टोदयामिष्ट’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’ मनक्षरमाचक्षाणमदक्षिणभागविटपिशाखाशिखरविरचितोपवेशतया भजनीयदेशभाविनीमञ्चितामुन्नतिमभिव्यञ्जयन्तं कमपि खञ्जरीटकखगम्।

अम्बरे मण्डलभ्रान्तिमपदिश्य गरुत्मतः।
तमागतवतस्त्रातुं हरेश्चक्रमदृश्यत॥३४॥

उल्लीढमाणिक्यमरीचिकोर्मिहल्लीसशीलच्छवि हल्लकाद्रौ।
वल्लीसखं धाम वशीन्द्रलोकहृल्लीनमेकं मतिमाननंसीत्॥३५॥

स्थितस्य मध्ये शिवयोर्विभाति वक्त्रावली यस्य समं तदास्यैः।
बिम्बलिरिन्दोरिव भानुमालिस्पर्धाभृतद्वादशविग्रहस्य॥३६॥

अभिवन्द्य च तं भगवन्तमिदंनवनमतानीत्।

गन्धश्रेणीसान्द्रकह्लारचूडं मन्दस्मेरोदारवक्त्रारविन्दम्।
अन्तर्वाणिध्येयमाम्नायगेयं वन्दस्वैनं वाणि वल्लीसहायम्॥३७॥

दीनपालनमहाव्रतौ दीक्षितेयमधिहल्लकाचलम्।
वैनतेयतनयाधिरोहिणी वासना विहरते षडानना॥३८॥

कालिकागिरिशयोगसाधितं गाढमग्निजठरे समाहितम्।
गालितं पयसि सौरसैन्धवे काञ्चनीकृतशराटविं रुचा॥३९॥

शीलितोपचयकृत्तिकापयःस्वीकृतिप्रकटितातिवैभवम्।
व्यालिहामि मनसा भवामये मज्जतां किमपि पारदं रसम्॥४०॥

इहेश्वरादेकमुखप्रवृत्तेरीषल्लभा’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘रीरितार्थः।
कह्लारशैलाधिपतिं कथं वा भजन्ति संदंशितबाहुमुख्यम्॥४१॥

कनीनिकांशुग्रथिताक्षमाला षडाननी भाति षडाननस्य।
अम्भोरुहश्रेणिरिवासिताब्जदलस्रजा गाढतरं निबद्धा॥४२॥

त्रिसंध्यमाविष्कृतरक्तसंध्यकं धराधरेऽस्मिन्निदमन्यदद्भुतम्।
यदेकनालोपरि शश्वदीयते समग्रबोधाकलिता षडम्बुजी॥४३॥

कलापिनीनां नटनान्तरेषु कपोल [डो] दोलायित कुण्डलानि।
नालीकसंदोहनटन्मिलिन्दपालीकन द्भृपरिशोभितानि॥४४॥

कह्लारमाघ्रातुमिवेक्षणाभ्यां गाढावलीढश्रवणान्तिकानि।
नेत्रद्वयीसीमनिबद्धसेतुनर्मस्पृशा नासिकयोज्ज्वलानि॥४५॥

न्यस्तस्य दृग्दोषनिवारणाय बिन्दोः सगन्धं तिलकं वहन्ति।
प्रियाधरोष्ठामृतपारणायामुच्चैरहंपूर्विकया युतानि॥४६॥

उपासकेभ्यो युगपत्प्रणीतषड्दर्शिनीव्याकृतिसंभ्रमाणि।
कह्लारसौरभ्यघने कपोले स्वैरं शिवाभ्यां कृतचुम्बनानि॥४७॥

रसाभिलाषेण रहः प्रियाभ्यां पर्यायपीताधरपल्लवानि।
धन्यो जनः पश्यति तारकारेर्मुखानि मुग्धस्मितकन्दलानि॥४८॥

कुमारमीडे गुरुगर्वयोगादुपोढसंरम्भमुपेत्य ‘यस्य।
विलासहासेन भवान्विचेष्टः शक्रो जयस्तम्भ इवावतस्थे॥४९॥

अहरलङ्घ्यविधेयशतस्य वा निशि निषेविततल्पतलस्य वा।
उपनिषन्मुखवेद्यमुदेतु मे मनसि षण्मुखवारिरुहं महः॥५०॥

नीलावनीभृन्निभसौरिघाटीलुलायकोलाहललुप्तधैर्ये।
काले स्मरामः करुणाभिरामविलोकनं तारकवैरिणं तम्॥५१॥

वल्लीवक्त्रारविन्दे मदकलमधुपव्रातसंपातरीत्या
तुल्यानां जृम्भणानामहमहमिकया गुम्भने दुर्निवारैः।

हृद्यामुद्भावयद्भिर्दिशि दिशि’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘पङ्क्तिमिन्दीवराणां
कल्याणं वः कटाक्षैः कलयतु करुणाशालिभिः कार्तिकेयः॥५२॥

स्तनंधयोऽपि शर्वाण्या दैत्यं दारितवानसौ।
स्वतो धारयतः शक्तिं किं वयो गण्यते बुधैः॥५३॥

सर्वागमोपदेष्टापि शबरीमयमग्रहीत्।
अस्य भिल्लाग्रणीसूनोरथवा किमनौचिती॥५४॥

श्रयत भवानीतनयं शतमखरिपुजैत्रवैभवानीतनयम्।
निरवधि कारुण्येन व्याप्तं हृदि वपुषि चाधिकारुण्येन॥५५॥

सेनानीरजनि करश्रेणिपराभूतशोणनीरजनिकरः।
परनलिनीरजनिकरः परमशिवानन्दबाष्पनीरजनिकरः॥५६॥

प्रशस्तलीलाविभवोपनीतकुशस्थलीकूलझरीविशेषम्।
कृपालतोपघ्नमुपात्तवेधःकपालमाराधयदेष देवम्॥५७॥

इमं परीपाकमिहापराधादम्भोजयोनेरपि पश्यतेति।
अदःकपालेन सुरालयेषु भिक्षामटन्यः प्रकटीचकार॥५८॥

तदनु निःशङ्कं भूधरोत्सङ्गसीम्नि शीलित’‘‘‘‘‘‘‘‘‘‘‘‘‘‘मासादितरागं संपदावेशतया शैलेशतनुभुवा सततमाकेशचरणमवलोकनीयरामणीयकं नागेशमभिवन्द्य नरपालमन्दिरद्वारमासाद्य दूरादेव नृपसदसि मागधकुलनिगद्यमानमभिजातपद्यजातमार्यमिश्रः सहर्षमश्रौषीत्।

वर्धस्वामितसार सारसविधेयालोकलोकत्रयी-
गेयप्रौढिविशेषशेषभिभवाङ्मैपुण्यपुण्याकृते।

संग्रामङ्गणधीर धीरत सतां कोदण्डदण्डक्षत-
प्रत्यर्थिस्मयसङ्गसंगतमहीरामाक माकप्रभो॥५९॥

घनजयकृता दानेनानेकदिक्तटलङ्घन-
स्यदनिरतया कीर्त्या नीत्या निरस्तकलङ्कया।

सरसकलया चात्रेः संतानरत्नचिरन्तना-
ननघचरितान्राजञ्जेगीयसे क्षितिनायकान्॥६०॥

जनितनलिनीशङ्कावेशे हरिन्मणिकुट्टिमे
शशधरकलामुद्यद्विम्बां निशासु समंततः।

बिसधिषणया केलीहंसाः स्पृशन्ति मुखाञ्चलैः
प्रतिबुधगृहं यत्तन्माकप्रभो तव वैभवम्॥६१॥

श्रीमन्माकक्षितिधर भवत्कीर्तिशैलूषयोषा
मेरुस्तम्भे भ्रमणनटनप्रक्रियां संविधत्ते।

तस्यास्तादृग्विलसितजुषो रत्नताटङ्कभूषा-
युग्मं तिग्मच्छविरिति शशीत्यम्बरे बम्भ्रमीति॥६२॥

चक्राणां विदधाति सोऽतिकदनं तेषां शरण्यस्त्वयं
राजा विष्णुपदाक्रमं वितनुते सोऽयं तु तम्यार्चकः।

आस्ते सोऽहिभयैकभाजनमयं तस्यानभिज्ञस्त्विति
त्यक्त्वा तं परिकर्ममौक्तिकमिषात्त्वामेव ताराः श्रिताः॥६३॥

तव माकविभो धराधिपैरैवलेपादकृताभिवन्दनैः।
इह दिव्यपि चानुभूयते बहुशस्त्रीपरिरम्भसंभ्रमः॥६४॥

पार्श्ववर्तिजनताप्रतिबिम्बव्याजतो विमतराजसमाजम्।
सङ्गरे कवलितं किल धत्ते साल्व माक तव पाणिकृपाणः॥६५॥

वमथुनिकरेण वसुधां सिञ्चति माकनृप तव गजश्रेणी।
अत्मपदाहतिलीलानिर्मितमूर्छानिवारणायैव॥६६॥

श्रीमाकक्षितिपालशेखर भवद्वेतण्डकर्णानिलो
नेष्यत्याशु कुतोऽपि तूलपटलीरीत्या हरिद्वारणान्।

आलोच्यैवमचञ्चलस्थितिकृते तेषां किमम्भोजभूः
क्षोणीमण्डलभारमेव सततं कुम्भस्थलीषु न्यधात्॥६७॥

घाटीहेलासु घोटीसुरपुटदलितक्षुण्णरेणूपगूढै-
र्दानैर्जम्बालितासु त्रिदशकरटिनां गण्डभित्तिस्थलीषु।

लग्ना नीलारविन्दच्छदरुचिरलिनां धोरणी कज्जलेन
व्यालिप्ता जैत्रवर्णावलिरिव भवतो भासते माकभूप॥६८॥

अध्यासीना समन्तात्क्षितिभरणकृतामावलिः सिन्धुराणां
वातैरश्रान्तलोलश्रवणपुटमहातालवृन्तोपजातैः।

काष्ठानामन्तराले किमपि विसरतस्त्वत्प्रतापानलस्य
प्रायः संधुक्षणानि प्रणयति नितरां माकराज क्षितीन्द्र॥६९॥

विपक्षलक्ष्मीः क्रियते त्वया महीवराहवन्दी प्रमदासमञ्जसा।
रिपुं च माकेन्द्र करोषि किंकरं वराहवं दीप्रमदासमञ्जसा॥७०॥

प्रकल्पते त्वत्करवालयष्टी रविप्रभावारिजयापनाय।
न हि प्रवर्तेत कदापि लोके रविप्रभा वारिजयापनाय॥७१॥

इह महिमा कनकपटः पटुघटित’‘‘‘‘‘‘‘‘ठा साल्वमाक नकपटः।
विहरति मानवलोके विलसत्कारुण्यवीचिमानवलोके॥७२॥

पापनृकण्ठीरवतः प्रथितादुदितं दिशासु कण्ठीरवतः।
एत्य धरा माकेशं हृप्यति हटकृष्टवैरिरामाकेशम् \।\। ७३॥

वारिजनाभी राजति सोऽयं कृतस्तवारिजनाभीः।
जहिहि स्कन्धावारे वसतिं तरसा दिगन्तिकं धावारे॥७४॥

हेमाकल्प क्षमाकण्ठकहरपटिमा कल्यरामाकटाक्ष-
स्तोमाकाषः सुमाकर्कशभणितिललामा कथं वर्ण्यतेऽसौ।

क्ष्माकर्पूरभ्रमाकल्पनलटहयशःप्रौढिमा कर्मरूढ-
स्थेमा कारुण्यसीमा कनदनघगुणो माकराजक्षितीन्द्रः॥७५॥

अनन्तरमयनवनिभृदन्तिकादभिमुखमापतद्भिरागच्छत सरयमाशिषो वदत भूपतेः श्रीमदवलोकनकुतूहली नृपतिरयमास्त इति निवेदयद्भिरावसरि-

कपुरुषैरावेद्यमानसरणिरवगाह्य धरणीशमन्दिरमतिलङ्घ्यकतिचिदपि कक्ष्या(क्षा)न्तराणि कविबुधबन्धुसचिवमित्त्रसामन्तमण्डलीशोभिनि काञ्चनास्थानमण्डपे मणिमयचतुस्तम्भमध्यमवितर्दिकायामतिमृदुलतूलमालिकामांसलममृतफेनपटलीविनिर्मलमादिपुरुषमिव शेषमास्तरणविशेषमध्यासीनं वारविलासिनीकरकमलडो(दो)लायमानचामरं द्वितयभासुरपार्श्वभागतया कलशजलधियुगलीकल्लोलयुगला’‘‘‘रुल्लसन्तमरविन्दिनीबन्धुमपह(स)न्तं कौसुम्भपटखण्डपरिकलितमालतीप्रसवशालिना मौलिबन्धेन संध्यामयूखसंवलिततारकमम्बरतलैकदेशं विडम्बयन्तमस्तोककुङ्कुमस्थासकपिशङ्गमरीचितरङ्गितां मूर्तिमावृण्वता कण्ठाभरणमुक्ताफलदीप्तिवृन्देन मन्दाकिनीपूरपतनगौरवपुषं सुमेरुमवधीरयन्तं पीतवसनपरिपीतकटिप्रदेशतया पुष्करजालसंवृतनितम्बभूमिमुदयक्ष्माभृतमधिक्षिपन्तं कलकल्पशाखिनः किसलयान्तरालकन्दलितेन कुसुमकोरकेणेव कुरुविन्दमध्यवर्तिना कुलिशोपलेन परिशोभमानमहं वीरकङ्कणं मणिबन्धसीमनि महनीयमुद्वहन्तं मकरध्वजमिव मार्गणोपदर्शितसौमनस्यं पाकशासनमिव प्रतिरोधिबलविभेदनं पुरवैरिमित्रमिव समस्ताभिलषितपूरणधुरीणसंनिधानं द्वितीयहरमिवातृतीयलोचनमन्यमिव शतमन्युमितरमिव वदान्यपादपमपरमिव कुसुमाकरमत्रिकुलपवित्रीकरणकुशल चरित्रसंपदं कोनाम्बागर्भकुञ्जगृहसंचारकेलिपञ्चाननं पापजगतीपतिप्राचीनसुकृतपरिपाकं माकनरलोकनायकमवलोकयन्मनस्येवमकरोत्।

यो भोगिप्रवरोऽप्यजिह्मचरितः श्रीशोऽपि हृप्यद्वृष
भास्वानप्यरिदुःसहः कुवलयाधीशोऽप्यदोषाकरः।

सर्वज्ञोऽप्यनलीकदृष्टिरचलोऽप्यक्षीणपक्षावलिः
सोऽयं माकनृपो विचित्रमहिमा स्वैरं विजेजीयते॥७६॥

तदनु संमदादुत्थाय पार्थिववरिष्ठेन समुचितासन्नविष्टरे समुपवेशितोऽयमतिविचक्षणो दक्षिणमुद्यम्य हस्तं नृपकुलमणेरस्य नमदखिलसामन्तभूपतेराशिषं प्रायुङ्क्त।

कल्याणाकर माकराज भवते कारुण्यसंशीलना-
दार्द्वैरेष जनार्दनो वितरतादार्लोकनैः संपदम्।

पारावारसुतासनाथमभितो बाहान्तरान्तःपुरं
दोष्णां यस्य चतुष्टयी चिरधृतैः पातीव दिव्यायुधैः॥७७॥

लक्ष्मीनित्यविहारकैटभरिपो चक्रावलीरञ्जन -
च्छायावल्लभ कीर्तिवृद्धिकलनाधाराधराभ्यागम।

दोषापोषणपूर्णचन्द्र सुमनोविस्फूर्तिपुष्पाकर
श्रीव(म)न्साल्वकुमार माक भवतः श्रेयांसि संप्रार्थये॥७८॥

सकलभवद्गुणसङ्घश्लाघाचातुर्यविवृतिकलनायाम्।
जगति फणिराज एकःशिष्यत इत्येव शेषतां धत्ते॥७९॥

पारं भवद्गुणौघानां वाणी व्रजतु मे कथम्।
अपर्याप्तस्थितिर्येषामपि ब्रह्माण्डमण्डलः॥८०॥

तदपास्यभवद्गुणावलीस्तवधाटीरुचिमेतदद्य नः।
पृथिवीश भृशं निवेदने प्रकृतार्थस्य मनः प्रवर्तते॥८१॥

स्थितिगुप्तिमलब्धसंगतिं क्षितिपालाधिगमेफलं विदुः।
मनुजेशधुरीण मादृशामुचितं तेन तवोपसर्पणम्॥८२॥

भुवि ते तु बुधैरवस्थितैरनवाप्तं न किमप्यवेक्ष्यते।
अपहाय पुरा कृताधिकं सुकृतं दुष्कृतशोधनक्षमम्॥८३॥

तदिमां मनुजादिबन्धुतां तव पार्श्वे विनिवेश्य सांप्रतम्।
अबिमुक्तमुपासितुं व(रै)रविमुक्तं वयमाद्रियामहे॥८४॥

परिपाहि मदीयबान्धवान्विषये ते विहितस्थितीनिति।
कथनं खलु सिद्धसाधनं क्षितिसंत्राणकृतस्तवान्तिके॥८५॥

इति तमभिलपन्तं हृष्टचेता नरेन्द्रो
भृतमुदमुपचारैः प्राहिणोदत्युदारैः।

पथि खलु विदधानो भावबन्धं विशुद्धे-
र्बलवदिह सपर्याभाजनं कस्य न स्यात्॥८६॥

अथ विनिर्गत्य निःशङ्कदुर्गभुवो निखिलदुर्गतजनस्वर्गतरोरनर्गलशौर्यविस्मारितभार्गवस्य भर्गतनूभवस्येव दुर्गाप्रसादलब्धविविधाभिलषितवर्गस्य भोगिवरनिराकृतिपटुविवेकशालिनो माकराजमहीपाकशासनस्य सुजनतातिरे-

कमनुचिन्त्य मुहुर्मुहुर्मुदमनुसंदधानस्तदवलम्बिभिरेव वचनगुम्भनैरनुचरसमाजमपि सभाजयन्सरोजलोचन इव सहचरीद्वयेन कियद्दृरमिव गत्वा स लब्धवर्णः सुवर्णमुखरीं निर्वर्णयन्निदमवर्णयत। इयं खलु

हुंकृत्य भृङ्गनिनदैरुपगृह्यबीची-
हस्तैः शिशूनिव जनानदसीयपङ्कम्।

प्रक्षाल्य हंसरसितैः परिसान्त्वयन्ती
मोदंप्रसूरिव मुहुर्मुहुरातनोति ॥ ८७ ॥

उत्तरेण सरिदुत्तमामिमां तुङ्गशृङ्गदलितद्युसिन्धुना।
चक्षुषोरुपया चिराय नो भूयते भुजगराजभूभृता ॥ ८८ ॥

अत्रकुञ्जगृहासीनकेलिकाराङ्कलालिताः।
विष्णोः कर्माणि गायन्ति विद्याधर मृगीदृशः ॥ ८९ ॥

अहो वृषधरमहीपतेरमुप्य महिमा।

पङ्गूपनीतैरिह सत्प्रसूनैः कुणिः स्रुजो गुम्भनमातनोति।
अम्भोजनाभस्य कथामवाचा प्रस्तूयमानां बधिरः शृणोति ॥ ९० ॥

अथ तदानीं

पद्मासद्मायमाने मणिमुरसि वहन्कौस्तुभं वास्तु भूमि-
र्भासामासारदानोन्मुखघनसुषमागर्वनिर्वापिकानाम्।

स्तुत्यः श्रुत्यावलीभिर्नियमधनजनस्वान्तकान्तारलीला-
कुम्भी कुम्भीनसाद्रेरधितटममुनालोकि लोकैकनेता ॥ ९१ ॥

असौ पुनरुरसा विशङ्कटेन विधृतवनमालिकं वेङ्कचे(टे)शमभिवन्द्य निर्मलमनाः सपरितोषमिदमभाषत।

साधूनां हृदयान्तरालसरणौ पुष्णन्परिष्कारतां
कुक्षेः सीमनि दर्शनीयविभवां कुर्वञ्जगन्मण्डलीम्।

आख्यामञ्जनभूभृतो निजतनुच्छाया’‘‘‘‘‘‘‘रं त्वर्थय-
न्कोऽप्यास्ते मणिरिन्दिराकुचतटीशाणोपलोत्तेजितः ॥ ९१ ॥

अञ्जेन्दीवरयोरनङ्गशरयोरुत्तेजिते यद्दृशौ
मञ्चोयस्य समस्तशब्दकुहनामाणिक्यशाणोपलः।

यत्राभीसरणिश्च सूक्तिजननीश्वश्रूपदस्थायिनी
पायान्मां हृदयंगमस्मरकलातत्वं तदेतन्महः॥९३॥

अञ्जनाचल’‘‘‘‘‘‘सर्वैरपि जनैरयम्।
तटे गुहतटाकस्यमुकुन्दो मुहुरीक्ष्यते॥९४॥

अवतंसेन विदुषां प्रशशंसेततोऽमुना।
स्वामिपुष्करिणीतीरभूमिभूषामणिः ‘’’’’’’॥९५॥

अङ्घ्रिप्रभिन्नतटहाटकशैलशृङ्गरिङ्खद्रजोनिचयकुङ्कमलिप्तगात्रः।
घोणाहताम्बुनिधिदुन्दुभिघोषहृष्टः पायान्महीपरिणयाभिमुखो(वराहः)॥९६॥

अम्भोनिधेरलघुनिश्वसिताभिषङ्गाद्विभ्राम्यतो भ्रमिविलोकनकैतवेन।
पृथ्वीपुरः प्रणयिनोचितभूपरीक्षां कुर्वन्निवादिमकिटिः कुरुतां मुदं नः॥९७॥

(व्या)धृतदेहरभसव्यपसार्यमाणा-
मासु वारिलहरीमपदिश्य सिन्धोः।

जीयात्सृजन्निजसमागमभाविपृथ्वी-
व्रीडापनोदनतिरस्करिणीं वराहः॥१८॥

आद्यं नमामि’’’’’’’’’’’’’’’“भजन्समुद्रो
यद्रोमकोटिषुकुशाग्रहिमाम्बुरीतिम्।

तत्कालसंगतधरापरिरम्भकर्म-
बिन्दुविहृतिं घटयांबभूव॥९९॥

अम्भोधि कूल”‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘चोरदैत्य-
मुस्ताक्षतिप्रभवमोदपरंपराभिः।

भूदारतां प्रकटयन्पुरुषः पुराण-
स्तत्तादृशीमिह तरङ्गयतु श्रियं वः॥१००॥

कोलस्तनोतु कुशलानि चिरंतनो मे
येन क्षितौ प्रथममीषदुदश्चितायाम्।

अस्या विषादविगमाच्छ्वसितैरिवाब्धे-
रह्नाय बुद्बुदकदम्बकमाविरासीत्॥१९१॥

आधारधुर्य जगदण्डकपालवन्ति
पाथोमिषेण फणिमन्दिरमण्डपस्य।

उर्वीशिलामुपरि निक्षिपता व्यतानि
येनाम्बुमानमिव तेन वयं सनाथाः॥१०२॥

प्रान्तक्षरज्जलधिवारिभरासुदस्य-
न्घोणाञ्चलेन धरणीं कुहनावराहः

तादृक्कृतिव्यतिकरश्रमवारणाय
धारागृहान्तरमिवाधिगतः पुनातु॥१०३॥

मह्यं शुभानि विदधातु महावराहो
दंष्ट्राहितेन विलसन्बलयेन धात्र्याः

संरक्षणादिव चराचरमण्डलीना-
मासादितेन महतातपवारणेन॥१०४॥

अङ्कं महीवरतनोरधिरोपिताया
व्यापारयन्निजदृशा वदनारविन्दे

आद्यः पुमानभयमुद्रिकयादसीय-
मस्यन्हठोद्धरणभीतिमिवावतान्नः॥१०५॥

भवाब्धिरुद्वयसो जनानां पदाब्जमेतद्भजतां ममेति
वक्तीव यः सक्थिनिवेशितेन वरप्रदेनापि कराम्बुजेन॥१०६॥

तदनु शेषाचलभूषामणेररविन्द्रलोचनस्यचरणारविन्दपरिचरणपुण्यपरिणतेरिव नयनसरणिमवगाहमानमन्तिकनिप्यन्दमानसिन्धुपवनकन्दलग्रासतुन्दिलशिथिलबन्धस्य फणिराजपरिकर्मणः प्रतिक्षणदृढीकृतौ कृतदक्षिणं दक्षिणकैलासकटकतटसीमनि शिलावटमूलबद्धरतिं कालहस्तिपतिमासेवमानो भूदेवानन्दनः सानन्दमिदमवादीत्

अग्रे लूताग्रथितपटलीकल्पितच्छायमास्ते
सिक्तं दन्तावलकरजलैरर्चितं भोगिरत्नैः

भिल्लाधीशोपहृतपिशितामोद वक्त्रारविन्दं
भाग्यं पृथ्वीधरपतिसुता’’’ ‘‘‘‘योरादितत्वम्॥१०७॥

पायादपायरहितं परिणम्रमुक्ता-
दायादकायमतिवेलदयाविधेयम्।

दूरे चिरंतनरिरांदुरितापहारि
पारेसुवर्ण’’’’’’’’“कटं महो नः॥१०८॥

ब्रह्मादयोऽपि भवदाप्तिकृते यतन्ते
यत्नं विनापि ययुराटविकादयस्त्वाम्।

आतः कृतान्तविजयिन्नतिचित्रशीलं
त्वां मन्महे न सुलभं च न दुर्लभं च॥१०२॥

प्रत्यग्रपुष्करपयः कलिताभिषेके
नागे गुणापि लृतिकायाम्।

प्रीतिस्तवास्तु भगवन्नभवत्कथं वा
लुब्धद्विजिह्वविषयः प्रणयानुबन्धः॥११०॥

अन्योपचार विधिरस्तु महानणुर्वा
भावत्कहर्षपदमान्तर एव भावः।

गौरीश ते मणिगुणप्रतिपादनेन
प्राप्तौ गतिं किल समां फणितन्तुवायौ॥१११॥

त्वद्भावतोऽपि तुहिनांशुकिशोरमौले
धन्या भृशं भवति तावकभक्ततैव।

श्रीकालहस्तिपुरसीमनि यत्त्वयापि
भक्ताग्रिमस्य जगृहे फणिनः स्वरूपम्॥११२॥

निर्मोकपट्टसितमङ्गमसह्यवेगः
क्ष्वेलानलो दुरवबोधतरं पदं च।

सर्वं यतः सममहेर्भवतश्च शूलि-
न्नन्योन्यरूपपरिवृत्तिरतः किमासीत्॥११३॥

देव त्वया यदिह दक्षिणरौप्यशैले
व्यालद्विपेन्द्रतनुरष्टविधा वितेने।

तद्युक्तमेव कलये तव नीलकण्ठं
पञ्चाननं च यदुशन्ति भवन्तमार्याः॥११४॥

घोरस्वभावजटिलः क्व वनेचरेन्द्रः
शान्तोपसेव्यसरणी सुगमा क्वमुक्तिः।

अन्योन्यमेलनविधावनयोः प्रवीणा
तत्तादृशी जयति देव तवानुकम्पा॥११५॥

प्रालेयभानुशकलादपि पादुकाया-
माकाश सिन्धुसलिलादपि वक्त्रतोये।

देवीमुखामृतरसादपि दृष्टमांसे
को वा गुणस्तव कुतुहलहेतुरासीत॥११६॥

हातुं पुलिन्दपतिरात्तकिरातभाव-
मासीद्भवन्तमधिगम्य महाकिरातः।

किं कालहस्तिनगरीश तदद्भुताय
प्रास्वासना बलवती खलु देहभाजाम् ॥११७॥

अङ्गान्नरार्चनविधेरपि ते गरीय-
पादारविन्दपरिपूजनमेव शम्भो।

दत्वा मुखे दृशमगाद्विषमेक्षणत्वं
भिल्लः पदे तु हरिराप्तसुदर्शनोऽभूत्॥११८॥

व्याधः समर्पयतु नाम विलीढशेषं
मांसं विवेकविरहेण मनोभवारे।

अङ्गीकृतं कथमिदं भवताथवैत-
त्संभाव्यते त्वयि वनेचरसार्वभौमे॥११९॥

पाणिग्रहव्यतिकरादुपरि प्रजाना-
मुच्छिष्टसंकरमुशन्ति जना जगत्याम्।

प्रागेव मुक्तिपरिणीतिविधेरयं वा-
मासीत्किमेष शबरागमसंप्रदायः॥१२०॥

स्पृष्टं शिरः शबरपादुकयेति मन्ये
तस्मिन्नमर्त्यतटिनीं बिभूषे तथापि।

दृष्टामिषग्रहणदर्शितचापलम्य
नेहास्तिकापि तव निष्कृतिरन्तकारे॥१२१॥

गङ्गागाण्डिवचापयोर्मदभरक्षेपाय चूडापदे
गण्डूषाम्बु च पादुका च शबरोत्तंसस्य बभ्रेत्वया।

पद्माक्षम्मभञ्जनाय दृगपि प्रत्याददे कस्य वा
दीर्पापाकृतये महेश जगृहे दष्टावशिष्टामिषम्॥१२२॥

त्वन्मस्तकाहितपदन्यसनादिदोष-
संशोधकवतकृते शबरो बभार।

चर्माम्बरं कटितटे भसिताङ्गराग-
सङ्गे कपालमधिपाणि जटाश्च मौलौ॥१२३॥

सन्तु प्राणिवधैकतानमतयः शश्वन्मदान्धीकृता
जिह्मव्यापृतयोऽथवा जनिभृतः स्फारीभवद्भ्रान्तयः।

मुक्तिस्तान्वृणुते स्वयं यदि कृपा मुग्धेन्दुचूडाल ते
तत्र व्याधगजाहिकीटपतयो दृष्टान्तकाष्ठापराः॥१२४॥

यामि प्रीतिमहं परान्नभजनैरुच्छिष्टभोजी भवा-
न्मूर्ध्नाहं चरणौ स्पृशामि धनिनां त्वं पादुकाशेखरः।

सेवेऽहं घनपापकर्दमनदीं त्वं वक्त्रतोयाप्लुतो
युक्ता किंनु मदीयदोषगणना श्रीकालहस्तीश ते॥१२५॥

सत्कर्माचरणात्मिकां प्रथमतः संपाद्य नान्दीं ततः
प्रादुर्भाव्य समस्तभक्तिगरिमप्रस्तावनाकौशलम्।

द्रागुत्सार्य तमःपटीमथ वृते दीपेन विद्यात्मना
चित्ते मे नटनं विधास्यसि कदा श्रीकालहस्तीश्वर॥१२६॥

गण्डूषाम्बुनिमज्जनाय यदभूद्गङ्गावतंसस्य ते
चूडालङ्कृतिकल्पनायविधृतज्योत्स्नावतः पादुका।

तृप्त्यैभक्षितशेषामिषमपि त्रैलोक्यकुक्षिंभरे-
र्विद्याधीश मुदे तवास्तु तदियं वाणी लघिष्ठापि मे॥१२७॥

भिल्लाग्रणीचरणपल्लवपादुकायै
सेयं क्रियासमभिहारवती नमम्या।

वेधः करोटिविधुखण्डवियन्नदीनां
सेहे न या गिरिशशेखरताभिमानम्॥१२८॥

अस्त्येव यद्यवतरेन्मम दृष्टिमार्गे
नैवास्ति चेन्न तटिनीभरणं घटेत।

इत्थं विधेर्विमतिमीश किरीटलक्ष्म्या
यस्याःस्मृतिर्हरति सावतु पादुका नः॥१२९॥

त्रातं यया हरजटावनचारकेल्यां
वेधःशिरः प्रतिहतेः शबराङ्घ्रिपद्मम्।

सा पादुका षडरिवर्गविनिर्जयाय
संनह्यतां भवतु संप्रति नः शिरस्त्रम्॥१३०॥

अपि च—

जगन्मण्डलीयं त्वयि स्वप्रकाशे नटन्ती रवेरंशुजाले नदीव।
अविद्याविलासाकृतिर्विद्यया ते भव’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘भवत्यन्तकारे॥१३१॥

मनोहारिशब्दादिभिर्व्यज्यमानानहं किंचिदालिह्य यस्यैव लेशान्।
सुखत्वेन जानामि संसारपीडां तमानन्दवाराकरं त्वामुपासे॥१३२॥

‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘कणस्फूर्तिहेतुः सुखादिप्रपञ्चोऽपि सर्वप्रियत्वेन भाति।
परप्रेमभारास्पदत्वेन तादृक्प्रमोद कृतिप्रत्यगर्थोऽसि शम्भो॥१३३॥

न कर्तास्मि नानाविधानां क्रियाणां प्रसक्तोऽपि नैतत्फलाम्वादनेषु।
सदानन्दविज्ञानसान्द्रस्वभावो भवानेव सोऽहं भवामि स्मरारे॥१३४॥

यथा मातृवाक्येन राधेयभावं परित्यज्य कर्णः पृथासूनुरासीत्।
तथा तत्त्वमस्यादिवाक्येन जैवं समुत्सृज्य रूपं त्वमेवाहमस्मि॥१३५॥

भवन्तं वदन्त्येकमेवाद्वितीयं प्रणीतेतरालापसीमावचांसि।
अतः साधयेदावयोर्भेदसत्तामयं कल्पितः किं नु संसारबन्धः॥१३६॥

यथा शुक्तिकादेरिदंतानुविद्धं समारोपितं वस्तु सर्वं चकास्ति।
तवानङ्गजेतस्तथा सत्तयेदं समालिङ्गितं दृश्यजातं विभाति॥१३७॥

गुणे कल्पिताया यथा कुण्डलिन्या जनत्रासकम्पादिसंपादकत्वम्।
तथा संसृतेरीश नानाविधार्थक्रियासाधकत्वं त्वदारोपितायाः॥१३८॥

त्रयीसौलिना देशिकस्यापि वाचा समावेदिता संगनिर्मुक्तता मे।
न सा बाध्यते नाथ मिथ्याभिमत्या महारत्नदीपप्रभा वात्ययेव॥१३९॥

असङ्गत्वधीरात्मनीयं मदीया हृदाधत्त कत्रादिभावप्रतीत्या।
सुधांशूपले शुद्धतासंविदस्मिजपोपाधिकारुण्यबुद्ध्यैव नैति॥१४०॥

सदा शुद्धबुद्धोविमुक्तस्वरूपस्त्वमेतादृशोऽहं च तर्कारामाभ्याम्।
अभेदेऽपि सत्यावयोरन्तरात्मन्नहो मे सुखस्फूर्तिरल्पेयमास्ते॥१४१॥

विरामेण सर्वेन्द्रियव्यावृ(पृ)तीनां सुषुप्तावपि क्षीणशोकोदयायाम्।
सहाविद्यया संमदस्यानुभूतिः सकाकोलमाध्वीकसेवासमाना॥१४२॥

विसर्पन्महामोहवेगान्धकारे निरस्येह निःसारसंसारकूपे।
भृशं क्लेशयित्वालमापन्नबन्धो शिव त्राहि मामीश कारुण्यसिन्धो॥१४३॥

दुरन्तव्यथाहेतुभूतस्यदुष्टव्रणस्येव शस्त्रेण वैद्यो दयालुः।
हृदो दुःसहं ग्रन्थिमीशान भिन्दन्प्रबोधेन मे देहि मोदातिरेकम्॥१४४॥

वधूयुग्मवाताशनव्याधलूतानराधीशनत्कीरनागार्तिहारिन्।
त्वं(?)मानयैनं जनिव्याधिपीडाविहन्तीकृतं कालहस्तीश देव॥१४५॥

तुषारद्युते’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’।
‘’’’’’’’’’’’’’’’’’’’’’’’’’’’’“पवादं मया ते वितीर्णा कलामालिकेयम्॥१४६॥

एकदापि रचितेक्षणापणौ तौ तदैव भवताभिरक्षितौ।
पार्वतीश पदयोस्तवानिशं दत्तदृष्टिमपि मामुपेक्षसे॥१४७॥

इत्यादि कीर्तयन्नयमत्यादरादुपेत्य धीराग्रिमो माराभियातिशरीरार्धहारिणीमाराध्य मातरं शतपत्रमुकुलसच्छात्रताजुषौ मस्तकभुवि हस्तौ निधाय समस्तोपनिषदर्थौघसुरभिलाभि ‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘श्रौषीत्।

विष्वद्रीचि मरीचिमद्रुचिभरे वीचीव वारां त्रयी
लोकानां यदवेदनादुदयते यद्वेदनान्मीलति।

सत्यानन्दसुधासमुद्रलहरी सा काचिदेका’’’’’’’’’
‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘सि त्वमेव परमा ज्ञानप्रसूनाम्बिके॥१४८॥

नित्यानित्यविवेचनादिमजुषो नित्यैर्वचोगुम्भनै-
रातैः स्वस्य तवापि चैक्यमुभयोरापाततो जानतः।

कल्याणे तव दृक्पथे निपततः कस्यापि पुण्यात्मनो
जिज्ञासा त्वयि जायते भगवति ज्ञानप्रसूनाम्बिके॥१४९॥

विध्याद्यासु विधासु कापि भवतु श्रोतव्यवाक्ये विधा
’’’’’’ कर्मविचारक’‘‘‘घटनया प्रत्यग्विचारस्य च।

लिङ्गैः षड्भिरुपक्रमप्रभृतिभिर्वेदान्ततात्पर्यधी-
राधेया त्वयि तद्विमर्शकलया ज्ञानप्रसूनाम्बिके॥१५०॥

कार्योत्पत्त्यनुकूलवेदनतया कर्त्र्याभवत्याः पुनः
साक्षादेव निदानतां त्रिजगतीद्वारं तु मायापरम्।

मृद्वत्तन्मसृणत्ववच्च कलशे सत्ताभृतस्ते तत-
स्तस्या जाड्यजुषश्च संगतिरिह ज्ञानप्रसूनाम्बिके॥१५१॥

कुम्भीजन्मनि कुम्भकार इव भूभर्तेव भूमिस्थितौ
हेतुः किं जगतोऽन्य एव जननस्थेम्नोरुपादानतः।

इत्थं भ्रान्तिमुदित्वरीं शमयितुं लक्ष्माहुरेकं जग-
ज्जन्मादित्रयहेतुतां तव बुधा ज्ञानप्रसूनाम्बिके॥१५२॥

पीलूनां द्व्यणुकादिकार्यनिवहप्रारम्भकत्वं यथा
नानारूपजडात्मना परिणतिर्यद्वत्प्रधानस्य वा।

तद्वन्निर्द्वयनिर्विकार ’’’’’’’’’’’’’’’ स्ते तयासंभवा-
द्व्यालस्य स्रगिवास्य कारणमसि ज्ञानप्रसूनाम्बिके॥१५३॥

देहान्तःकरणस्पृहासुखमुखे रज्जूरगाद्द्राघिम-
प्रत्येकाध्यसने च जीववपुषा पुष्णास्युपादानताम्।

आकाशाग्निसमीरवारिधरणीमुख्ये तु साधारणे
रूपेणैव महेशितुस्त्रिजगती ज्ञानप्रसूनाम्बिके॥१५४॥

नित्यामस्तसमस्तभेदविसरां निस्यन्दचित्कन्दली-
मानन्दैकरसामगम्यसरणीमाम्नायवाचामपि।

मूर्तिं जीवमहेश्वरौ विदधती मायावशेनात्मन-
स्तद्वद्वानुगता विशुद्धचिदसि ज्ञानप्रसूनाम्बिके॥१५५॥

निष्प्रत्यूहमिषत्स्वरूपधिषणासंसिद्धसर्वज्ञता
सर्वौत्पादयितृत्वसर्वभुवनाधिष्ठातृताग्रेसरैः।

कल्याणैरुपशोभितां गुणगणैः कैवल्यलक्ष्मीमयीं
दिव्यामीशदशामवाप्य जयसि ज्ञानप्रसूनाम्बिके॥१५६॥

मायाराहुविलीढबोधशशिना चक्षुर्मुखाक्षोदयं
नानावृत्तिमुखावलोकनमिलत्किंचिज्ज्ञताशालिना।

उन्मीलद्बहुशोकवेगगरिमोद्विग्नेन जीवात्मना
बघ्नासीव भवाब्धिमज्जनविधिं ज्ञानप्रसूनाम्बिके॥१५७॥

छायावल्लभशीतभानुहुतभुङ्नक्षत्र तारादयो
भान्तीं त्वामनुभान्ति केवलचिदालोकातिरेकीकृते।

चेतोवृत्तिपदार्थभेदकभवन्मातृप्रमामेयता-
धुर्या भासयसि त्वमेव भुवनं ज्ञानप्रसूनाम्बिके॥१५८॥

ऐक्ये व्यक्तिमुपागते सति बहिश्चञ्चद्दृगाभावथ
प्रेङ्खद्वृत्तिवशेन साक्षिविषयावच्छिन्नचैतन्ययोः।

प्रत्यग्बोधमयेन दीपमहसा संबन्धमाध्यासिकं
प्राप्तेन प्रकटीकरोषि विषया ञ्ज्ञानप्रसूनाम्बिके॥१५९॥

सन्त्येवावरणादिशक्तिसहिता मूलप्रकृत्यंशका
मूलाज्ञानपदाभिषेकविधिना संभाविताः सूरिभिः।

बाह्यैर्वृत्तिभिरीक्षणादिकरणोद्भूताभिरेकैकश-
स्तैरुद्यन्निखिलव्यवस्थितिरसि ज्ञानप्रसूनाम्बिके॥१६०॥

सामान्यग्रहणात्तदंशविषयाविद्यानिवृत्तावपि
स्रङ्मुख्येतरभागसंवृतिंविधाजाग्रत्तमोवस्थितेः।

स्रग्वातंधयशुक्तिरौप्यमरुभूरिङ्खन्मरीचापगा-
पूर्वाध्यासशतानि संकलयसि ज्ञानप्रसूनाम्बिके॥१६१॥

अस्पृष्टैर्भ्रमवञ्चनादिकलयावच्छेदनिन्दापरैः
संसर्गाविषयप्रमैकजनकैश्छन्दोगिरां मौलिभिः।

दुष्टांप्राथमिकीं गादिजनितां बुद्धिं भिदागोचरा-
मस्यद्भिर्घटते तदद्वयमिति ज्ञानप्रसूनाम्बिके॥१६२॥

तत्त्वावेदनतश्चिरंतनगिरा प्रच्याविताध्यक्षधी-
रज्ञानव्यतिरिक्तदोषमहिमाजन्यं प्रपद्यास्पदम्।

नानाकार्यपरंपरास्वनुगतां सत्तां तवातन्वती
व्यत्यस्तामिव बोभवीति सफला ज्ञानप्रसूनाम्बिके॥१६३॥

आदर्शाहतिसंनिवृत्तनयनव्यालिह्यमानं यथा
कण्ठस्थं मुखमेव न प्रतिमुखं मिथ्या पदार्थान्तरम्।

चैतन्यप्रतिबिम्ब एव मुकुरे जीवोऽपि मायामये
त्वद्रूपादतिरिच्यते न हि तथा ज्ञानप्रसूनाम्बिके॥१६४॥

प्रक्षीणादिकथा समस्तजनिमत्प्रत्यक्षताशालिनी
विक्षेपप्रतिरूपशक्तियुगलीविख्यापितप्रक्रिया।

मन्दीभूतनिरुत्ति26मार्गगमना मायाभिधा किंकरी
किं ते दुर्घटमेव नो घटयति ज्ञानप्रसूनाम्बिके॥१६५॥

स्वच्छन्दारुणबन्धुजीवसुमनोगुच्छाङ्कपालीवशा-
दच्छायां तु यथा सुधाकरमणावध्यस्यते शोणता।

संसारप्रवणस्वभावभरिताहंकारसान्निध्यतः
शुद्धायामपि संसृतिस्त्वयि तथा ज्ञानप्रसूनाम्बिके॥१६६॥

दृष्टिं सृष्टिमुशन्ति केचिदपरे दृक्तुल्यकालां तु ता-
मभ्रादिक्रमतस्त्वया प्रथमतः सृष्टस्य दृष्टिं परे।

लोकानां मृगतृष्णिकाम्बुलहरीसाधारणं सर्वथा
रूपं बोधनिवर्त्यमेव भवति ज्ञानप्रसूनाम्बिके॥१६७॥

जन्म श्रोत्रियसंततौ शुभतरे काले व्रतस्वीकृतिः
साङ्गाम्नायसमागमो गुरुमुखाद्दारग्रहः सत्कुलात्।

निष्कामाचरणं च कर्मविततेर्निष्पद्यते कस्यचि -
त्त्वज्ज्ञानादरहेतुशुद्धि(द्ध)विधये ज्ञानप्रसूनाम्बिके॥१६८॥

वर्णी स्नातककाननस्थितिजुषां धर्मैश्च कर्मन्दिनां
संन्यासैरपि कर्मभिः समुचितैः पादोद्भवादेरपि।

निष्पन्ना निखिलाप्यपूर्वपटली वेगाद्विलम्बादपि
त्वद्विद्याजननोपयोगमयति ज्ञानप्रसूनाम्बिके॥१६९॥

आधानाहितसंस्क्रियोज्ज्वलतरे निष्पादिते पावके
यागोऽपूर्वमिव त्वदेकविषयध्यानक्रियाशीलनात्।

चित्तेनातिपचेलिमेन सहिता सा तत्त्वमस्यादिवा-
क्त्वत्साक्षात्कृतिमादधाति विमलां ज्ञानप्रसूनाम्बिके॥१७०॥

ग्रीवावस्थितमेव रत्नग्वचितं ग्रैवेयकं विस्मृते-
रन्विच्छ(प्य)न्पुरुषो यथाप्तवचनादायैव तन्मोदते।

अज्ञानस्थगितां सतीमपि तथा त्वद्रूपतामात्मनः
प्राप्यैवागमतः प्रहृप्यति सुधर्ज्ञानप्रसूनाम्बिके॥१७१॥

त्रय्यन्तश्रवणे तदर्थमनने तद्भावनायां च स-
न्संप्राप्तादपरोक्षसंविदुडुपात्संसारपारं गतः।

याव27’’’’’’’’

श्वविमुक्ति खेलति भजन्बिम्बेशतां त्वन्मय-
ब्रह्मानन्दरसानुभूतिललितां ज्ञानप्रसूनाम्बिके॥१७२॥

वस्तुन्याहितचित्तमौपनिषदे वैधेषु वा जाग्रतं
नानाकर्मसु रक्षसीति यदयं नैसर्गिकस्ते गुणः।

देहात्मभ्रमधूसरं जनमिमं त्यक्तात्मनीनक्रियं
यद्युत्तारयसे यशस्तव तदा ज्ञानप्रसूनाम्बिके॥१७३॥

वृत्तान्तास्तसुधं दयैकरससंवृत्तान्तरङ्गं त्रयी-
सिद्धान्तं स्फुटमात्मसंविदपृथक्सिद्धां तनूमाश्रितम्।

अध्वान्तप्रणयानुबन्धिनि महत्यध्वान्तधाम्नि स्थितं
शुद्धान्तःकरणाञ्चितं पशुपतेः शुद्धान्तमन्तर्भजे॥१७४॥

अपि च।

श्रीमन्त्रराजमणिपञ्जरकेलिशारि
च्छन्दःशिखासदनमङ्गलदीपरेखे।

नानागमोपवननाट्यकलामयूरि
देवि त्रिलोकजननि त्रिपुरे नमस्ते॥१७५॥

‘‘‘‘‘त्रयीपुरहरार्धभिदादिरूपे28
श्रीकामराजमनुशेखरवर्णभागैः।

क्लृप्ताननस्तनजगत्प्रकृतिप्रतीके
कल्याणि हैमवति कामकले नमस्ते॥१७६॥

आपाटलं कुटिलकुन्तलमायताक्षं
शोणाधरच्छवि सुधाकरबिम्बवक्त्रम्।

कुम्भस्तनं सृणिगुणाशुगचापहस्तं
रूपं विधाय कृतलोकहिते नमस्ते॥९७७॥

मध्येपयोम्बुधि मरुद्द्रुमनीपधाम्नो
रत्नान्तरीपतिलकस्य ललामभूतम्।

क्लृप्तंवदान्यमणिभिर्गृहसार्वभौम-
मास्थाय शश्वदनुभूतरते नमस्ते॥१७८॥

दीप्ताणिमादितनुदि’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘ल-
व्याप्तान्तरालभुवि विभ्रमशालिकायाम्।

मञ्चाग्रणीभवदजादिसदाशिवान्त-
पञ्चामरीधृतशिवाङ्कगते नमस्ते॥१७९॥

प्राचीनसूक्तिरसदिग्दिवसाधिनाथ
‘’’’’’’’’’’’’’’’’’’’’’“लोचनदलेषु सरोरुहेषु।

तत्तत्फलाहिततरङ्गितमानसाभि-
राराधिते मतिमदावलिभिर्नमस्ते॥१८०॥

आनन्दबाष्पमकरन्दभृताक्षिपद्मै-
रंशेषु ’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’ रपुनर्भवाय।

अन्तर्महाकमलकाननमम्ब धन्यैः
संभाव्यमानचरणाम्बुरुहे नमस्ते॥ १८१॥

निद्राविधौ निरवधिक्षुधया धरादि
पर्वावलीविलसितामतिलङ्घ्यपद्याम्।

ली’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘रभिषिक्तलोके
शर्वाणि कुण्डलिनि चन्द्रकले नमस्ते॥ १८२॥

गीर्देवताहरिवधूगिरिजादिशक्ति-
साम्राज्यपीठनियतस्थितिजागरूके।

शुद्धान्तसुन्दरि परम्य सुधांशुमौले
ज्ञान’’’’’’’’’’’’’’’’’’’ जनयित्रि शिवे नमस्ते॥ १८३॥

ततश्च विपश्चिदेष निर्गत्य दुर्गत्यरुणकरधोरणीं संत्रासगरिमानुबन्धिभिरन्तर्मुखं जनैरनवरताक्रान्तगह्वरगृहान्तमहरवसान’‘‘‘‘‘‘‘‘‘नटन्महानटपादतलाभिघातपरिपीडितशरीरतया भूरितरगैरिकं पुञ्जपिञ्जरीभवदमितं निर्झरीकैतवेन परितो दरीमुखशतैः क्षतजलहरीरिव समु’‘‘‘‘‘‘‘‘‘‘न्तं जलधरपरंपरापिहितशिखरनितम्बभागतया शाम्बरीसंछन्नमौलिचरणस्य पार्वतीपरिणेतुरनुकुर्वाणं निखिलसंसिद्धिनिर्वाहनैपुणी(ण्य)चर्वितसकलकुलशैलगर्वततिमभजत श्रीपर्वतम्।

सरिद्वराः सप्त विधाय मध्ये विभेदनं यस्य विनिःसरन्त्यः।
विपाटयामो वृजिनप्रपञ्चमेवं जनानामिति दर्शयन्ति॥ १८४॥

पाटलाञ्चितपदं शरीरिणां घोरतापहरदानकोविदम्।
मल्लिकार्जुनमसोढमन्मथं तत्र तं शुचिमसावसेवत॥ १८५॥

यस्य सायमुरुनृत्तरंहसा पूर्णनं गुरुतरं समेयुषाम्।
वासना’‘‘‘‘‘तिकरादहर्निशं ज्योतिषां सुरपथे परिभ्रमः॥ १८६॥

तदनु धरणीसुराधिपो भवनाशिनि तटप्रकटितरसन्निधानं(?)निधानमिव निखिलनियोगिनां व्यक्तिभिदालेशवञ्चितेऽपि वपुषि व्यञ्जित’‘‘‘रुषमृगजा-

तियुगसमवायमनपायशौर्यवडवानलहेतिशोषितदनुजाधिराजभुजमहोजलनिधिमलोकयदहोबलपतिम्।

सर्वान्तर्यामिभावे मम निगमशिरः संप्रदायैकलक्ष्ये
दृष्टान्तस्तम्भगर्भो न परमिदमपीत्येव संदर्शनाय।

हृन्मध्यं दानवेन्दोः सपदि विदलयन्पाणिजैः कूणिताग्रैः
प्रह्लादाह्लादकारी समहृत जगति स्फीतमत्याहितं यः॥ १८७॥

तदनु पाशायुधप्रसाधितमाशावकाशमवगाहमानः प्रकटितसेवमानजनदुरितभङ्गमुद्रामधिगम्य तुङ्गभद्रां सुमतिरित्ययमवोचत।

मातर्भवत्येव महावराहवक्त्रावतीर्णा न वसुंधरापि।
त्वमेव कामं न हि तुङ्गभद्रा किंतु त्वया सापि कृतानुषङ्गा॥ १८८॥

मह्या नितम्बमिव गौरवमाननीय-
सह्याचलं समधिरुह्य सुधीरयासीत्।

वेलागतं तदनु वीचिमतः प्रतीचो
लीलानिकेतमृषभध्वजवल्लभायाः॥ १८९॥

लम्बालकान्तललितामलिके पटीर-
जम्बालिकान्तधवलच्छविमङ्गकेषु।

बिम्बाणामधर भासि विनम्य धीमा-
नम्बामथैष वचनैरधिनोन्मनोज्ञैः॥ १९०॥

हस्तैश्चतुर्भिरभयं वरमब्जचक्रे
संबिभ्रती त्रिनयना नवचम्पकाङ्गी।

पीताम्बराञ्चितकटी नवचन्द्रखण्डा
काचित्सरोजनिलया करुणाविरास्ते॥ १९१॥

चण्डिप्रसाधयसि यत्प्रियवामभागं
सौभाग्यचिह्नमिदमेव न किं भवत्याः।

अध्यास्य किं मुहुरमुष्य किरीटसीमां
सह्योऽथवा भवति नातिशयः सपत्न्याः॥ १९२॥

दिक्कूलचुम्बिनि दृढं विमलस्वभावे
मातर्भवन्मणिकिरीटमरीचिपूरे।

अर्धेन्दुनावमधिरुह्य मदीयभावः
स्वच्छन्दसंचरणकेलिविधिं विधत्ताम्॥ १९३॥

कल्याणि ते मुखविधुस्मितकौमुदी च
नेत्रारविन्दकरुणामधुनिर्झरी च।

वक्षोजकुम्भगलितामृतवाहिनी च
तन्वन्तु नस्त्रिविधतापकलापशान्तिम्॥ १९४॥

चक्रं नितम्बफलकेन तवात्तगन्धं
शङ्खं च कण्ठविजितं बिभूषे कराभ्याम्।

आर्या गुरोरिह लघोरथवा निकाम
भङ्गीकृतस्यपरिपालनमाद्रियन्ते॥ १९५॥

प्राप्यं जनेन परमं वरमेतदेव
पादाम्बुजं परमितो न च किंचनेति।

व्याकुर्वतोस्तव नराभयमुद्रिकाभ्यां
सेयं युगाय करयोः शिरसानमस्या॥ १९६॥

अस्तोपमर्दलवमादियुगावतारे
धृत्वोदरस्य तव सुतवतस्त्रिलोकीम्।

मातः कथं कथमिवेह महानुभावाः
सद्भाव एव सततं प्रथयन्ति चिन्ताम्॥ १९७॥

सन्मार्गरोधर सिके शमवत्प्रणीत-
न्यक्कारभाजि नवमन्मथपत्त्रिभिन्ने।

अक्षानुषङ्गमलिने हृदि मामकीने
शर्वाणि विन्ध्य इव ते चरणौ निधेहि॥ १९८॥

मूकाम्बिके मुहुरपास्तजपस्य कामं
रागस्पृशो रचिंतपल्लवसौहृदस्य।

भक्तस्य मे पदयुगस्य भवेत्तवैव
श्लाघ्यागतिः सकलहंसकुलैर्दुरापा॥ १९९॥

साकारा सुखकन्दली पशुपतेरेका मनोहारिणी
स्तोकालोकसुधाकृतस्मरवधूशोकाग्निनिर्वापणा।

त्रैकाल्यप्रतिपत्तिदोहनविधौ या कामधेनुः सतां
सा कारुण्यतरङ्गिणी मनसि मे मूकाम्बिका दृश्यते॥ २००॥

इति सपदि हिमाचलेन्द्रकन्यां पशुपतिनेत्रचकोरपौर्णमासीम्।
समजनि भजतोऽस्य साधुमौलेरकृतकभक्तिसुधाम्बुधेः समृद्धिः॥ २०१॥

इति समरपुंगवस्यकृतौ चम्पूकाव्ये षष्ठःआश्वासः।

अथ सप्तम आश्वासः।

अथ मनीषिमणिरेष कुमुदिनीरमणकोरकापीडसेवादरादिव शैवलिनीपतिना प्रतिमुहुरधिष्ठिताभ्यर्णं गोकर्णमधिगम्य मन्मथपरिपन्थिमन्त्रैकसाधकानघवैदिकजनानात्मीयनयनयोः पन्थानमुपनीय चिन्तामिमामतानीत्।

इह केचन शास्त्रवेदिनो भवदुःस्वप्नपरम्परादृशः।
तदपायकृते जपक्रियामधिगोकर्णभमी वितन्वते॥ १॥

पारेपारावारमाविर्भवन्तं देवं मारामित्रमाराध्य धीरः।
सोऽयं भूयो भक्तिपीयूषवर्षादात्तोत्कर्षां भारतीमित्यवादीत्॥ २॥

अनुतटमनिशं महाबलो न यदि भवानिह नाथ तिष्ठति।
जलधिरभिभवेदयं तदा जगदभिक्लृप्तदिगन्तराक्रमः॥ ३॥

अथवा लघुरेष सिन्धुरास्तां प्रतिविध्यण्डममी पितामहाद्याः।
स्थितिमादधते धृतप्रकम्प्रास्तनुभूशासन शासने त्वदीये॥ ४॥

सृजसि स्मरजेत सिकामिह गोकर्णमिते निकेतने।
दिशसि श्रयतां तु देहिनां कथमाभोगकरम्बितं पदम्॥ ५॥

अयं खलु तदनु संख्यावदग्रणीरतिलङ्घ्यसह्यधरणीधरमतिस्निह्यदनुचरघटासमावृतो विविधनीवृदावलिमवगाहमानः प्रबलबाहिनीकुलानि

पावनस्थलानि च पदे पदे निशामयन्कुशाञ्चलपरिहसनमतिरतिमात्रपेशलां सूक्तिमभिधातुमाद्रियत।

वरदापदाब्जमकरन्दकन्दलीं वरदापगामधिविगाह्य निर्मलाम्।
अधुना निजामवयवार्थदुर्विधामभिधां समञ्चति मलप्रहारिणी॥ ६॥

वीचीहस्ता विपुलपुलिनश्रोणिरिन्दीवराक्षी
फेनोदारस्मितविलसिता बन्धुरावर्तनाभिः।

चक्रोरोजा सरसिजमुखी चारुहंसप्रचारा
पारावारप्रथमगृहिणी भासते कृष्णवेणी॥ ७॥

महाबलेश मकुटीतटजाते तरङ्गिणि।
सकृष्णापि त्वया कृष्णा हन्त मेदिनी॥ ८॥

दोलायितं बालसमीरणेन वीचीदुकुलांशुकमुद्वहन्तीम्।
पृथ्वास्वयं भीमरथीभवन्त्या पताकिकां भीमरथीमुपासे॥ ९॥

पुरुषत्रयमौलिभागभूषामणिनीराजितमञ्जुपादपीठाम्।
तुलजापुरवासिनीं तुरीयामवलम्बे जगदम्बिकां भवानीम्॥ १०॥

कञ्जराजिगलितैरनारतं पिञ्जराम्भसि नवीनकेसरैः।
पञ्जरासरिति क्लृप्तगाहनः किं जरायुवसतिं प्रपद्यते॥ ११॥

नीलग्रीवजटा’‘‘‘विगलितां निर्माल्यमालामिव
ब्रह्मक्षोणिभृदुत्तमाङ्गविततां पृथ्वीपरिष्करिणीम्।

आत्मीयैरधिवासितं विद्यतमम्भोनिधानं रसै-
स्तामद्याहमगण्यपुण्यसुलभां द्रक्ष्यामि गोदावरीम्॥ १२॥

पात्रगा पटुधियामिव संपत्कान्तसिन्धुरमिता करिणीव।
गौरिवाञ्चितपयोधरभारा गौतमी हरति लोचनजाड्यम्॥ १३॥

तापसाघदलनाय निर्गता गौतमी हरति कल्मषं नृणाम्।
चातकार्तिशमनोद्यता जलैरभ्रपङ्क्तिरभिषिञ्चति क्षमाम्॥ १४॥

त्रिनयनजंटाराजद्राजक्षमारुहकोरक-
व्यतिकरघनामोदा गोदावरीलहरीभराः।

पशुवधमहाकालीनालीढगोतमपातक-
प्रशमकुशलारम्भाः संभावयन्ति वसुंधराम्॥ १५॥

जगत्पतेरस्य जटाच्युतेति विधेहि गोदावरि मा विषादम्।
सरोषगौरीचरणाहतीनामलम्भनादाहि मोदमेव॥ १६॥

स्ववेलान्तर्लीलासुभगतरबालानिलवल-
त्तरङ्गालीतुङ्गातरलतरभृङ्गा तत इतः।

तटिन्यास्तेधन्या तरुणकमलिन्याकरतया
प्रणीता वैनीतावलिभिरभिवीता शतधृतेः॥ १७॥

पवित्रामद्राक्षं बहलकमलामोदमधुरैः
समीररैध्वन्यश्रममपनयन्तीं नवनवैः।

अतिप्रेम्णा भर्तुश्चरमजलधेरर्पितमुखी
प्योष्णीमुष्णीषप्रतिमलहरीं विन्ध्यनृपतेः॥ १८॥

कलितापीडा कमलैर्महिता पीयूषमधुरतापीना।
जनतापीतजलेयं मम तापं हरतु मलिनतापीडाम्॥ १९॥

सुधांशुकन्या वदतां जनानां तापं च दूरे तनुतां पयोष्णी।
कथं त्वमप्यम्ब कटोरधाम्नस्तनूभवेतापि तथाविधासि॥ २०॥

अक्ष्णोर्वर्षत्यमृतलहरीमाश्रमैस्तापसानां
नित्योदञ्चन्निगमपठनैरुल्लसत्तीरभागा।

अश्मव्रातैरचलधनुषो लिङ्गभूतैरभूतां
मज्जन्नानामनुजपटलीशर्मदा नर्मदा मे॥ २१॥

पूजनीयविभवासु भूतले जाग्रतीषु शतशो नदीष्वपि।
किं त्वयैव वितनोति केलिकामर्णवस्त्वमसि येन नर्मदा॥ २२

कुचपरिणतिभाजः क्षोणिबिम्बाधराया
विगलितमिव यस्मादुत्तरासङ्गचेलम्।

नटयति मुद्रमम्भो नार्मदं शृङ्गसीमा-
मधिवसति महारस्य माहिष्मतीयम्॥ २३॥

पुरी जयत्यर्जुनभूपतेरियं वहन्निमां विन्ध्यवसुंधराधरः।
त्रिविष्टपालम्बतया धृतस्मयं नगाधिराजं न तृणाय मन्यते॥२४॥

माहिष्मतीमण्डनमार्तिहारि जनस्य दोस्तम्भसहस्ररम्यम्।
सप्तार्णवीमुद्रितराज्यलक्ष्मीविलासगेहं किमपि स्मरामि॥ २५॥

अवतारविशेषमब्जनाभेररुणोष्णीषमनल्पहेमभूषम्।
कृतवीर्यतनूजवेषमीडे जगतीपालनकर्मनिर्निमेषम्॥ २६॥

यदीयभुजमण्डले धरणिरेत्य लीलारतिं
विशङ्कटतरे’‘‘‘‘‘‘विसृजति स्म दौस्थ्यव्यथाम्।

परीक्षणकपोपलः स दशकण्ठबाहूमणां
जगन्महितशासनो जयति कार्तवीर्यार्जुनः॥ २७॥

रेवा यस्य परं दुरासदभुजासेतौ न माति स्मसा
तेजोवार्धिरपि क्षपाचरपतेस्त्रैलोक्यकूलंकषः।

सप्तद्वीपनिखातयूपपुलकच्छन्नावनीविग्रहः
सोऽयं हैहयनायको विजयते शूरक्षितीशाग्रणीः॥ २८॥

काचिन्महाकालनिकेतनस्य पुरामरातेर्भुवि राजधानी।
श्रिया विशालां जनतामवन्ती चकास्त्यसावुज्जयिनी पुरीणाम्॥ २९॥

भृतिं देहि ब्रूहि नामानि शंभोराद्यं विद्यां लीलयेत्याचरन्ती।
देव्या साकं ध्यायत ध्यायतेति ध्यायन्त्यस्यां दैवतं केऽपि धन्याः॥ ३०॥

अस्यां मरालीततिरद्विकन्याकेलीगतिप्रार्थनसापराधा।
निवारितान्तर्गमनेव नित्यमास्ते बहिः खेयरतिच्छलेन॥ ३१॥

क्रीडाजुषामत्र कृशोदरीणामारज्यमाना घुसृणाङ्गरागैः।
सृप्रा जगत्पातकसंहतीनामुत्पातसन्ध्येव पुरः समिन्धे॥ ३२॥

अस्यां निरस्ता दिवसान्तनृत्यत्पिनाकिपूजापटहप्रणादैः।
निर्याति नृणामिव दुप्त्कृतालिःसौधेषु कालागरुधूमरेखा॥ ३३॥

आरूढकर्मग्दिपथा इवास्यामाविर्भवज्झङ्कृतितारनादाः।
आरामवीथीष्वनुवल्लिगेहमटन्ति भृङ्गा मकरन्दभिक्षाम्॥ ३४॥

स्वयं विशालाप्यवकाशहीना दुष्कर्मलेशस्य शरीरभाजाम्।
उच्चैर्महाकालमुपाश्रितापि कदापि नैषाञ्चति काललक्ष्याम्॥ ३५॥

स्थितं संनिधानेऽपि धीसूक्तिदूरं निराकारमप्यर्धनारीशरीरम्।
अधिष्ठानमप्यस्य विश्वस्य शश्वन्महाकालवास्तव्यमव्यान्महो नः॥ ३६॥

अस्याः सिन्धोरूर्मिहस्तावलम्बादेनःसिन्धोरेत्य पारं भवामि।
निर्विन्ध्याया निर्मलाम्भःप्रवाहे निर्मज्याहं निर्गतः क्लेशविन्ध्यात्॥३७॥

चर्मण्वत्याः साधु खण्डीकृतांहोमर्मण्यस्या मज्जतां वारिपूरे।
कुम्भीपाकाद्धोरपीडाविपाकात्किंभीतिः स्यात्किंचिदप्यङ्गभाजाम्॥३८\।\।

इदं हि दृश्यते मन्दाकिनीविहितमहितसांगत्यमलघुमलिलपूरसा-
तत्यवितीर्णजलधिसौहित्यमशिशिरकरापत्यम्।

क्षितिरोमलता कलिन्दभूभृत्करिकालायसशृङ्खला स्रवन्ती।
भवतापपरीतमानसानां नवतापिञ्छवनीयमाविरास्ते॥ ३९॥

वृषमौक्तिकसंहतेर्विधात्रा वणिजा भूविपणौ विसारितायाः।
परभागकरी पटीव नीला प्रतिभाति द्युमणेरियं कुमारी॥ ४०॥

मिहिरांशुविलीनमेघमार्गद्रवनिप्यन्दततौ परं किलाभ्याम्।
यमुनेति कलिन्दजेति सिन्धोरबलेति प्रथते नृणां विमोहः॥ ४॥

नतिरस्तु गभस्तिमालिसूनोर्नरकद्वारमहायसार्गलायै।
जनसद्गतिनर्तकीमसारप्रतिसीराकृतये प्रकाममस्यै॥ ४२॥

असितोत्पलमालिकामवन्या जनतापुण्यशिखावलाभ्रपङ्क्तिम्।
शिशिरामवगाह्य सिन्धुमेनां जनितापं विजहाति जीवलोकः॥ ४३॥

अनुवारमवाप्तवारिकेलेरसिताया मुरशासनस्य मूर्तेः।
अयमाविशदंशुमालिकन्यामभिरामः किमु नीलिमातिरेकः॥ ४४॥

अतिवेलरसोदयानुभावात्कलयन्ती निजकामुकाभिसारम्।
असितावरणांशुकं किमेषा सहजश्यामलकच्छलेन धत्ते॥ ४५॥

अभिषिञ्च कलिन्दकन्यके मामतिनीलच्छविनैव वारिणाते।
सहसा भवितास्मि तावताहं शरदिन्दीवरबान्धवावदातः॥ ४६॥

दिशि वासमवाप्य दक्षिणस्यांसहजन्मा तव शास्ति पापशीलान्।
भवती तु परिष्कृतोत्तराशा कृपया कल्मषमेव देहभाजाम्॥ ४७॥

जननि त्वदवेक्षणं जनानां निरयश्रेण्यनवेक्षणे निदानम्।
भवदम्भसि मज्जनं तु भद्रे पुनरुन्मज्जनकारणं भवाब्धेः॥ ४८॥

जननामयभेषजैः श्रुतीनां पटवासैस्तटरेणुभिर्भवत्याः।
चरणाम्बुजवासितैर्मुरारेरनुलिप्तोऽपि भवामि नीरजस्कः॥ ४९॥

रविनन्दिनि नीलरत्नयोस्ते तटसीमाजनुषोस्तयोः किलैकम्।
अभवत्परिकर्म विन्ध्यभूमेरपरं गोपवधूपयोधराणाम्॥ ५०॥

हसितौषधमोहिताशयानामनुतीरं तव बल्लवाङ्गानानाम्।
बहुशो हरति स्मनीविबन्धानतिसंघापटुरादिमः स चोरः॥ ५१॥

तटमम्ब तवैनदेव शार्ङ्गीनिजवंशीविनदामृतैरसिञ्चत्।
अत एव पुरीयमत्र भान्ती मधुरेति व्यपदिश्यते जगत्याम्॥ ५२॥

महतीषुपुरीषुकामभेषा मधुरेत्यत्र किमाविरास शार्ङ्गी।
अवतारमहोत्सवेन शौरेरथ चेयं मधुरा किमासु जज्ञे॥ ५३॥

जनिकापथचङ्क्रमालसानामलघुश्रान्तिकलापमङ्गभाजाम्।
अमृतार्पणलीलया हरन्ती नगरीयं मधुरा भवेन्न केषाम्॥ ५४॥

धरणीतिलकं तरी भवाब्धे खनिरिन्द्रानुजगारुडोपलस्य।
दिशति प्रमदं दृशोरियं मे रजनीशान्वयराजराजधानी॥ ५५॥

यदुवंशयशोनिदानभूमिः शिशुताविभ्रमसाक्षिणी मुरारेः।
नवमुक्तिवधूविवक्षुलोकप्रतिबोधाङ्कुरपालिकेयमास्ते॥ ५६॥

अवकर्णयितुं यशो मुरारेरसकृत्पौरजनोपगीयमानम्।
गलितावरणैरियं गवाक्षैः परिफुल्लश्रुतिसंपुटेव भाति॥ ५७॥

यमुनालहरीसमीरधूतैरियमाभाति शतैस्तटाकिकानाम्।
उपकण्ठमुपेयुषां जनानामघसंघातमिवापसारयन्ती॥ ५८॥

निजभक्तिनिरूढमानसानां घनसंसारविषादखण्डनाय।
अरविन्दविलोचनः किलास्यांपरिजग्राह भवानुबन्धलीलाम्॥ ५९॥

चिरकालधृतं हृदा जगत्याः किमपि प्रौढविषादकारि शल्यम्।
भगवानिह कंसनामधेयं बलसंदेशिकया समुज्जहार॥ ६०॥

इह धन्यतमैरलोकि रेखासरसीजातरथाङ्गशङ्खचिह्ना।
अनुवीथि पदावली मुरारेरकुतोजन्मसरस्वतीविचेया॥ ६१॥

मनुजो नहि मादृशो जगत्यामनुकम्पालवदुर्विधान्तरङ्गः।
चिरशीलितमप्यधर्मजातं बहिरुत्सृज्य पुरीमिमां विशामि॥ ६२॥

इत्यादिवचनरीतिमुखरिताननो हरितालनिभवसनभरितात्मकटितटं हरिनीलमणिभङ्ग संकाशरोचिषमवनतपरिषदतिहर्षं विरचनाय समुद्यन्तमिव कमपि तडित्वन्तमानकदुन्दुभेरात्मजमभिवन्द्य संक्रन्दनमुकुन्दशातोदरीद्वन्द्वसंवादरूपमरविन्दलोचनस्तुतिकलापमभिरूपशेखरोऽयमेवमकरोत्॥

विधाय केलिं वियदापगायां यान्त्योस्तटीमिन्द्रमुकुन्दपत्न्योः।
पटीविपर्यासवशेन जज्ञे प्रगल्भवादप्रतिवादभङ्गी॥ ६३॥

पटे सुरेन्द्रप्रमदेकधार्येकुतोऽन्यथा मुह्यसिगोपभीरो।
तवैव मोहो दयितं मुरारेरशेषवन्द्यादधिकं वदन्त्याः॥ ६४॥

मृगाक्षि शौरेर्महिमातिरेकमाख्याति राज्यानधिकार एव।
बलेस्त्रिलोकीमपहृत्य बाले गोत्रारये दत्तवतः क्व राज्यम्॥ ६५॥

ज्यायोबलात्साधयतोऽनुजस्य कार्याणि मुग्धे वद कः प्रकर्षः।
त्राणं गवां तन्वति मत्सहाये दृष्टं बलं दुर्ललिते मघोनः॥ ६६॥

गोपालबालेकुलिशायुधेन कृपा व्यधायीति किमेष दोषः।
मग्नानुकम्पा क्व नु मातृगर्भं दम्भोलिना दारयतो बलारेः॥ ६७॥

दिवौकसां दानवजातिमात्रे स्पर्धा निसर्गप्रभवा हि सत्ये।
पौलोमि तर्हि त्वयि पाकशासी वैरानुबन्धान्न कुतो विधत्ते॥ ६८॥

नारीवधं नर्मसखस्तवैव शतक्रतुः संविदधीत किं वा।
अकार्यमप्याचरणीयमेव वितन्वता विश्वकुटुम्बरक्षाम्॥ ६९॥

स्वकुक्षिपूर्त्यै कृतचोरवृत्तेर्दूरे जगत्त्राणधुरंधरत्वम्।
पुंसः स्वकीयोदरपोषणं च तस्य त्रिलोकीपरिपोषहेतुः॥ ७०॥

मर्त्याङ्गनागर्भपुटीमितेऽस्मिन्करोषि मिथ्यागरिमाधिरोपम्।
विश्वत्रयव्यापितनोरनेन का हानिरुन्मीलति कैटभारेः॥ ७१॥

किं किं शुभे केशवशाम्बरीभिर्विमोहिता त्वं न समर्थयेथाः।
भजन्तमुत्सृज्य जनं परेषु घाटीं निबध्नाति तदीयमाया॥ ७२॥

आनन्दामृतसर्वस्वमाशास्यममरैरपि।
आभीरपतिगेहान्तमभिव्यक्तमुपास्महे॥ ७३॥

पयःपयोधौ बहुकाललीलया वितायमानादिव वासनाबलात्।
हरिर्विहायानकदुन्दुभेर्गृहान्व्रजे सुधाढ्ये विहरन्स पातु नः॥ ७४॥

जङ्घोपरि न्यस्य कृते जवेन संक्षालने संविहितां जनन्या।
प्रदक्षिणाम्भःपरिषेकरक्षामन्तर्हसन्वीक्ष्य हरिः पुनातु॥ ७५॥

स्तनं जनन्या धयतेव संमुखं प्रसारितः पातु करो बलिद्विषः।
निशाचरीमम्ब निरीक्ष्य मारितां प्रयाहि मा भीतिमितीव शंसितुम्॥ ७६॥

वन्दे मुकुन्दं पदपल्लवाभ्यां वाचालमञ्जीरमनोहराभ्याम्।
प्रहारलीलां मनसि प्रणेतुमभ्यस्तडो(दो)लाफलकाभिघातम्॥७७॥

जानुद्वयीचङ्क्रमणेषु धात्र्यां पाणिंनिधायैकमुदस्तबाहुः।
तमाहरिष्ये तरुमिन्द्रलोकादिहेति शंसन्निव शौरिरव्यात्॥ ७८॥

अपि त्रिलोकीममिमीत यस्त्रिधा समाहितैरङ्घ्रिसरोजविक्रमैः।
स माधवो नः परिपातु संचरन्करौ समालम्ब्य पितुर्गृहाङ्गणे॥ ७९॥

अमेयमप्यकृतकभारतीशतैरगोचरं यमिवरचेतसामपि।
गृहाङ्गणे किमपि यशोदया गुणैरुलूखले कलितमुपास्महे महः॥८०॥

आकुञ्चय पादाम्बुजमेकमन्यदुत्क्षिप्य नृत्यन्तमुदग्रचूडम्।
पाणिद्वयी पायसगव्यसारौ पश्यन्तमीडे पशुपालडिम्भम्॥ ८१॥

कराम्बुजस्तम्भितकिङ्किणीरवं पदे पदे कल्पितपार्श्ववीक्षणम्।
शनैःशनैराकलिताङ्घ्रिचङ्क्रमं विनौमि शौरेर्व्रजगव्यमोषणम्॥ ८२॥

विज्ञातुमामोदवशेनं मोषं गव्यस्य गोपाङ्गनया कयापि।
निजाननेन्दोर्निकटोपनीतं जिघ्रन्मुकुन्दो वदनं स जीयात्॥ ८३॥

गृहे मदीये कियदद्यगव्यमहारि शंसेति कयापि पृष्टे।
पयोधरौ पाणियुगेन तस्याः स्पृष्ट्वेयदस्तीति भणन्विटोऽव्यात्॥८४॥

कलशीनिहितं पयः कथं वा परिपीतं भवतेति राधयोक्ते।
अधरामृतपारणाममुष्या विदधानं विभुमेवमित्युपासे॥ ८५॥

हैयङ्गवीनहरणाकुलघोषयोषि-
दाक्रोशनाटितरुषः पुरतो जनन्याः

व्यत्यस्तपाणिविधृतश्रवणानि चित्ते
नाथस्य केलिनमनोन्नमनानि भान्ति॥ ८६॥

लताङ्गि मह्यं रचयाञ्जलिं पटीमहं दिशामीत्यवकर्ण्य भाषितम्।
कृतेऽञ्जलावेककरेण राधया शिरो विधन्वञ्शिशुरस्तुसंपदे॥८७॥

रक्षाकरं मङ्गलमारचय्य संप्रेषितः सानुनयं जनन्या।
कस्तूरिकाक्लृप्ततमालपत्त्रो नासाञ्चलेनापि मणिं दधानः॥ ८८॥

काञ्चीगुणोदारकटिप्रदेशो मायूरबर्होज्ज्वलमौलिबन्धः।
वहन्करे वेत्रविषाणवंशान्पाथेयशिक्याकलितांसभागः॥ ८९॥

पवित्रयन्नङ्घ्रिपयोरुहाभ्यामाभीरपल्लीभवनाङ्गणानि।
बहिर्नयन्पीतनिबद्धशावं कुलं गवां गोष्ठगृहान्तरेभ्यः॥ ९०॥

भ्रूलीलया कांचिदपाङ्गितेन परां दरस्मेरमुखश्रियान्याम्।
कर्तुं रहः केलिकलां वनान्ते समाह्वयन्घोषसरोरुहाक्षीम्॥ ९१॥

पित्रा कियद्दूरमिवानुगम्य वात्सल्यनिघ्नेन विसृज्यमानः।
वनाय शृङ्गिण्यवनाय चाद्यो विद्योततां चेतसि पुरुषो मे॥ ९२॥

किरीटसंदानितकेकिपिञ्छं वशीकृताभीरवधूप्रपञ्चम्।
कदम्बगुच्छाहितकर्णपूरं कुर्वे हृदन्तः कुहनाकिशोरम्॥ ९३॥

हेलावलद्ग्रीवमितत्रिभङ्गीवक्त्राम्बुजव्यापृतवंशनालम्।
व्यत्यासविन्यस्तपदं पुरस्तादास्तामवस्थानमनङ्गशौरेः॥ ९४॥

वंशीमुपासे वसुदेवसूनोरारज्यमानामधरांशुपूरैः।
शृङ्गारगीतामृतसेचनेन रोहत्प्रवालामिव लोभनीयाम्॥ ९५॥

वंशीसुधां वर्णय वाणि शौरेरास्वादितामर्कसुतामरालैः।
गलन्मृणालीकवलच्छलेन तृप्तेस्तदुद्गारभिवादधानैः॥ ९६॥

आप्लावयेयुरपि नः श्रवसी कदाचि-
त्कंसाभियातिकलहंसवरामृतानि।

प्रादुर्भवत्किसलयच्छलतः प्रसार्य
जिह्वां महीरुहकुलैरपि सेवितानि॥ ९७॥

अनुभवेयमहं किमु जातुचिन्मुरभिदो मुरलीनिनदामृतम्।
किसलयाञ्जलिशालिमुखाञ्चलैः किमपि सेवितमन्यभृतैर्द्विजैः॥९८॥

आपाटलान्यङ्गुलिपल्लवानि व्यापारयन्तं विवरेषु वेणोः।
नादामृतैर्नन्दगवीकुलानां मोदान्सृजन्तं कलये मुकुन्दम्॥ ९९॥

खुराहतिक्षुण्णभुवां पशूनां परागजालैः परिधूसराङ्गे।
मुह्यद्दिगन्ते मुरलीनिनादैः स्निह्यत्यनन्ते मम शेमुषीयम्॥ १००॥

दृढानि गोपीधृतिबन्धनानि हठादपाकुर्वति हासलेशैः।
अनीदृशे मे मतिरागमान्तवनीचरे वैणविकावतंसे॥ १०१॥

बिम्बाधरं बन्धुरमन्दहासं लम्बालकासङ्गिललाटदेशम्।
विरामकालेऽपि न विस्मरामि मुखं रणद्वेणुसखं मुरारेः॥ १०२॥

हसितस्पृशि हारिकण्ठनाले परमानन्दसरःप्ररूढमूले।
अधरच्छविकेसराभिरामे श्रुतिसौरभ्यनिधौ शुचां विरामे॥ १०३॥

व्रजयोषिदपाङ्गभङ्गवीते मकरन्दातिमञ्जुवेणुनादे।
परिलक्षितशृङ्गिणीपरागे रदमुक्तारमणीयगर्भभागे॥ १०४॥

अमितप्रणयावगाहिनीभ्यां रचिताघ्राणविधौ रमावनीभ्याम्।
कुरु मानसराजहंसलीलां कुहनागोपमुखाम्बुजे विशालाम्॥ १०५॥

वनाद्दिनान्ते व्रजमाव्रजन्तमभङ्गशृङ्गारवपूरिताशम्।
श्रवःकदम्बस्तबकेन साकं मनागिवाम्लानमुखारविन्दम्॥ १०६॥

वराङ्गनादन्तपटप्रतीति सरोषराधासमुदीक्षितेन।
बिम्बोष्ठमध्ये भृशपाटलिम्नाविन्यस्तवंशीजनुषा विभान्तम्॥ १०७॥

वृन्दावने प्रीणितया कयापि संभावितं सप्रणयावलोकैः।
संकेतभूवञ्चितया तु गोप्या संताडितं दारुणदृष्टिपातैः॥ १०८॥

भ्रूक्षेपमन्दस्मितदृक्तरङ्गैः पुष्णन्तमन्तः स्मरमङ्गनानाम्।
आभीरवृद्धाननुकम्पयार्द्रैरालापभेदैरनुमोदयन्तम्॥ १०९॥

नन्देन क्लृप्ताभिगमेन गाढमालिङ्ग्यदोर्भ्यामभिगम्यमानम्।
आविःस्तनक्षीरमिलिन्दभाजा यशोदया सादरमीक्ष्यमाणम्॥ ११०॥

श्वोभाविगोसंचरणप्रदेशान्संकेतयन्तं सवयोजनानाम्।
अग्रेचलद्गोकुलमम्बुजाक्षमालम्बतां बालकमाशयो मे॥ १११॥

गोवर्धनव्यञ्जितकौशलेन गोवर्धनच्छत्रमुदस्य दोष्णा।
गोपायिताभीरकुलाय वर्षाद्गोपायितायास्तु स तेप्रणामः॥ ११२॥

ऋजूकुर्वन्नपि हरिस्त्रिवक्रामसृजन्पुनः।
दृगन्तकचभारेषु त्रिषु वक्रां धिनोति नः॥ ११३॥

भवभीतिपराकृतेरुपायं शृणु चेतः श्रुतिमोलिसंप्रदायम्।
परिशीलय भावनां मुरारेः कुरु दारादिकुतूहलानि दुरे॥ १९४॥

प्रसूरियमसौ पिता मम सुतो नताङ्गीति कि
विमोहमरुगाहनव्यतिकरेण वा ताम्यसि।

यदूद्वहवधूटिकाजठरशुक्तिमुक्तामणौ
मनो भज विनोदनं मधुविदारके दारके॥ ११५॥

अशौरिकुलपावनानकृतनन्दगोपालका-
नकालियविमर्दनानकरनीतगोवर्धनान्।

अकंसमदभञ्जनानकलितावनीरञ्जना-
नबाणभुजदारकानलमुपास्य वृन्दारकान्॥ ११६॥

अलूनवृषभासुरैरशिखिपिच्छकाभासुरै-
रगव्यरसलालसैरपटुरासलीलारसैः।

अगोभरणदीक्षितैरकमलानुवादीक्षितै-
रभृङ्गसचिबालकैरलमशाम्बरीबालकैः॥ ११७॥

कृष्णस्य वृन्दावनकन्दरान्तराभीरदाराभिरतेः कथाभिः।
अलं विमुक्त्यै कृतमर्चनायामायासभौरैरमरान्तराणाम्॥ ११८॥

वनमालिवशीकृताशयानां पदविन्यासपवित्रितो वधूनाम्।
यमुनातटरेणुरेव पुंसामलमंहो विनिहन्तुमङ्गसङ्गी॥ ११९॥

परःसहस्राणि परस्य धाम्नः सन्त्येव रूपाणि जगद्विभूत्यै।
मृग्यो मृषा गोपविलासवीर्यलावण्यसौरभ्यलवोऽपि तेषु॥ १२०॥

पशुपैरपि बाह्यदृष्टिशीलैर्ददृशे दृश्यरथाङ्गशङ्खचिह्ना।
अधिनन्दनिवासमागमान्तैरपि मृग्या पदपङ्क्तिरब्जनाभेः॥ १२१॥

उरुभक्तिसुधारसोर्मिलानामपनेतुं जनिखेदमङ्गभाजाम्।
स्वयमादृतसंभवानुबन्धे महनीये रमतां मनो मुकुन्दे॥ १२२॥

किंच–वन्दे महः किंचन वंशनाली शृङ्गाङ्कुशाजिह्मगचापहस्तम्।
गुञ्जारुणं क्वापि ततोऽपि नीलं बर्हावलीबालमृगाङ्कचूडम्॥ १२३॥

शृङ्गाटमध्ये कृतसंनिधाना मुखारविन्दे मुरलीं दधाना \।
ममास्तु चित्तेमहनीयशीला विद्या मुरद्वेषिविचित्रलीला॥ १२४॥

इदं मदंशद्वयमेवमेव कृतव्यतीहारमजायतेति।
विभावयन्तीविनिमाय पादौ विद्या परा वेणुमती समिन्धे॥१२५॥

कुहचिज्जयकुञ्जरप्रचारं परतो भावितराजहंसयानम्।
कटिसीमनि वाससी वसानं कनकाद्भासिकुसुम्भरागशोणम्॥ १२६॥

हृदि कौस्तुभमेकतो दधानं परतस्तुङ्गपयोधरोपरुद्धम्।
गिरिधारणकर्कशैकपाणिं कुसुमादप्यतिकोमलान्यहस्तम्॥ १२७॥

हरिणाधिपकोकिलावलेपान्क्षपयन्तं निजकण्ठनादभङ्ग्या।
क्वचिदुज्ज्वलकुण्डलाभिरामं पटुताटङ्कपरिष्कृतं कुतोऽपि॥ १२८॥

विनतार्तिहरं विलोचनाभ्यां कमलेन्दीवरगर्वमोचनाभ्याम्।
धृतचित्रकदृक्सरोरुहा(भ्यां) निटिले निर्जितबालचन्द्रभासि॥ १२९॥

प्रियकस्तबकासितोत्पलाभ्यां प्रतिपन्नश्रवणावतंसकृत्यम्।
शिरसा शिखिनः शिखण्डमालां शशिखण्डं च सहैव लालयन्तम्॥१३०॥

बलभिन्मणिबन्धजीवशोभं धृतपाशाङ्कुशपुष्पबाणचापम्।
मुरलीवरमूर्च्छनासु शश्वहन्मनीयासु निबद्धमौलिकम्पम्॥ १३१॥

गिरिशार्धगृहान्तरे विहारान्कलयन्तं नवकल्पशाखिमूले।
परितः परिवारदेवतानां प्रकरेणाहितसेवनानुबन्धम्॥ १३२॥

इतरेतरयोगमेयुषाभ्यामतिहृद्यन्मकरन्दशर्कराभ्याम्।
कृतिनः खलु केऽपि भावयन्ते भवशान्त्यैपरसंविदोरभेदम्॥ १२३॥

रुचिराद्भुतरूपसंविधानं परमानन्दसुधापयोनिधानम्।
उषितं पथि योगिनां विधेये तदहं धाम विचिन्त्य तत्र लीये॥ १३४॥

पुण्यस्थानाग्रगण्यादथ यदुनगरादेप तस्मान्मनीषी
स्थाण्वीशाख्यं धरण्यामभजन किमपि क्षेत्रमुच्चैपवित्रम्।

सद्यः संसिद्धिहेतुं समधिकतपसां पुष्करं दुष्करणां
सोमावासं प्रभासं सुगतियुवतिसंचारिकां द्वारका च॥ १३५॥

अथ द्रुताभीष्टकरीं शतद्रुंपाशापहन्त्रीं भजतो विपाशाम।
धरावतीर्णांधरणीधरेन्द्रादिरावतीं चैप निषेवते स्म॥ १३६॥

साभोगां चन्द्रभागां जगदखिलमिदं पावयन्ती च सिन्धुं
सेवित्वाथो निवृत्तः परिचितधनदारामगन्धाद्दिगन्तात्।

प्रौढं जालन्ध्रपीठाभिधमनघपदन्यासधन्यं भवान्या
हृद्यं प्रापद्यतासौ हिमवति किमपि स्थानमानन्दशाली॥ १३७॥

असौ पुनरनेकतटिनीसरोवनीनगरप्रदेशेषु विरचितभ्रमणोऽपि परमपावनपयः पूरनिष्यन्दिनीं शृङ्गिणीमिव पुंगवकिशोरकस्त्रिदशतरङ्गिणी निशामयन्किमपि चिन्तातिशयसंदानिताशयो व्याहर्तुमिति गिरं प्रावर्तत।

इक्ष्वाकुसंतानयशःपताकां मुक्तामणिं तां मुनिकण्ठशुक्तेः।
दुर्वर्ण्यकक्ष्यामवनीवशायां निर्वर्णयिष्यामि कदा स्रवन्तीम्॥ १३८॥

विद्याम्बुजश्रेणिविभातवेलां मायातमश्चन्द्रमरीचिवीचीम्।
मुक्तालतां मुक्तिविलासवत्या भागीरथीं चेतसि भावयामि॥ १३९॥

गङ्गामुपासे गगनापदेशकासारकेलीकलहंसपङ्क्तिम्।
स्वयंवरासक्तिसमेतमुक्तिवधूकराम्भोजमधूकमालाम्॥ १४०॥

किरीटिकोदण्डकृतप्रहारव्रणोल्बणीभावविशङ्कयेव।
यामोषधीशेन समं महेशो दधाति मौलौ तटिनीं नुमस्ताम्॥ १४१॥

भागीरथी सावतु या गिरीशजटाटवीपर्यटनोपजातात्।
आशाभ्रमान्मार्गमजानतीव भगीरथस्यन्दनमन्वयासीत्॥ १४२॥

क्रीडापराधशमनाय नतस्यशंभो-
श्रापदे विहरणं समवेक्ष्य यस्याः।

कोपातिकमयते कुलशैलकन्या
सापावनी दिशतु संमदमभ्रगङ्गा॥ १४३॥

अम्बरगालितमासीद्ब्रह्माण्डघटे बलिद्विषा यस्मात्।
तस्मादतीव पृतं जज्ञे किल सौरसैन्धवं सलिलम्॥ ९४४॥

द्युसिन्धुरुर्व्याम्दुरितानिहन्तु माढौकतेवीवधगूढरूपा।
प्रकाशसंचारविधौ भयेन कुतोऽपि धावेयुरितीव बुद्ध्या॥ १४५॥

समुद्धृता वीवधसंपुटीषुभागीरथी भाग्यवतां जनानाम्।
आरोहणं मूर्धनि संविधातुं प्रायो विधत्ते पदमंसभागे॥ १४६॥

गङ्गा निजं वारि विगाहमानाञ्शरीरिणः कालहरीकरोति।
सुधांशुमौलेः स्वमदापहस्य गर्वापहाराय कृतोद्यमेव॥ १४७॥

विष्टपत्रयतमःपरिपाटीखण्डनाय कलितावतरापि।
अभ्रसिन्धुरखिलानपि लोकानन्धकारयति हन्त किमेतत्॥ १४८॥

निमज्ज्य गङ्गाम्भसि निःसरञ्जनः पयोदनीलप्रतिमागतं गलम्।
विलोक्य जम्बालविलेपशङ्कया करोति भूयोऽपि च गाढमज्जनम्॥१४९॥

मातेति पूर्वं महयन्विधत्ते सुरापगायां सुकृती विगाहम्।
कान्तेति पश्चात्कलयन्नसौ तां कोटीरकोटौ कुरुते विचित्रम्॥ १५०॥

स्मेराम्भोरुहशीधुसारलहरीनिष्यन्दमुष्टिंधयो
रोधोदेशविकासिकैतकरजोविस्तारकुक्षिंभरिः।

वीचीनर्तितराजहंसवनितासंगीतसर्वंकषो
मर्त्यानां हरति श्रमं सुकृतिनां मन्दाकिनीमारुतः॥ १५१॥

कदा तरङ्गेगगनापगाया निमज्ज्य गाढं निवसामि तावत्।
प्रविश्य यावत्प्रतिहृत्प्रतीकं समूलमुन्मूलयते स तापान्॥ १५२॥

अयिनगराजनन्दिनि घनसुकृतसारकन्दलनिष्यन्दिनि परतत्त्वविज्ञानपाथोनिधानकौमुदि भगवति भागीरथि,

निम्नगासुन ते तुल्या नीचेषु न च मे समः।
मयि प्रपातनं मातर्विधातुं किं विलम्बसे॥ १५३॥

अनन्तरमन्तर्वाणिरयमतिदुरन्तभवस्वेदसंतानभीषितः पिपासित इव पीयूषकन्दलींपरिशुष्यदमेयसस्यसमूह इव प्रत्यग्रवर्षधारां प्रतिभटानुद्रुत इव प्रबलत[मा] मित्रवाहिनीं जिह्मगविषाभिभृत इव जीवातुमूलिकां कल्लोलिनी रमणलहरीविषक्त इव कामपि महातारं तीव्रनदीपूरनीयमान इव तीरभूमि धर्माभितप्त इव कर्पूररसनिर्झरी निर्धनलोक इव निक्षेपसंततिं जगतीघराधीशशिखरान्तरादधिहरिद्वारमापतन्तीममृताशनसरितमुपलभ्य निर्भरानन्दसंभ्रान्तमानसो मौनमहासीत्।

पयः प्रकृतिशृङ्गिण्या ब्रह्माण्डोधसि संभृतम्।
जगदर्भकजीवातु गङ्गेति परिगायते॥ १५४॥

विध्यादेशकरी सेयं विविधप्रत्ययावहा।
आगमैरञ्चिता भाति शब्दविद्येव जाह्नवी॥ १५५॥

उद्दिधीर्षुः सगरजानसौ स्वर्गादवातरत्।
गणयन्ति न हि क्लेशं परार्थैकपरायणाः॥ १५६॥

गिरिशस्य पुरा केशान्परिगृह्योर्भिपाणिना।
पादावलम्बिनी पश्चादासीज्जाड्यादसौनदी॥ १५७॥

ईशमुक्ता गिरिदरीरियमाप पदे पदे।
भगीरथस्य तन्वाना भावं भृयस्तपोविधौ॥ १५८॥

परं नापूरि जाह्नव्या भगीरथमनोरथः।
पारावारोऽपि निःसीमपरिणाहविभूषितः॥ १५९॥

त्रिविक्रमपदोद्भूता त्रिलोकीमियमानशे।
कारणस्यानुकुरुते कार्यं हि गुणसंपदा॥ १६०॥

अनन्तपथगाप्येषा हन्त त्रिपथगामिनी।
भगवत्पादजातापि शुक्ला वर्णेन शोभते॥ १६९॥

नदी नवसुधाधारा वसुधावासवत्यपि।
प्रतिकूलप्रवृत्तेयमनुकूलापि देहिनाम्॥ १६२॥

गङ्गोरगी गिरीशस्यजटाकन्दरनिःसृता।
विषोदग्रा वितनुते पापमण्डूकपरणाम्॥ १६३॥

आस्ते किमावृता गाङ्गे दाहशक्तिरिहाम्भसि।
निर्दह्यते यतो नृणामस्यसङ्गादघाटवी॥ १६४॥

आपगाया जगत्यस्याःकोऽपि शीतलतागुणः।
पातकानि प्रकम्पन्ते यस्यानामश्रवादपि॥ १६५॥

ननु त्रिपथगावारि समस्ताम्भोविलक्षणम्।
सिक्तः कुलाङ्कुरेयेन कल्पते मूलतृप्तये॥ १६६॥

कोऽपि निर्जरवाहिन्या गुणासङ्गी शरोत्करः।
चलञ्जवेन तनुते परिच्छेदनं नृणाम्॥ १६७॥

अनादिमलसंघातहरणैकपटीयमीम्।
अभ्रगङ्गामपि नदीमन्यामपि गृणन्त्यहो॥ १६८॥

विध्यण्डनिष्पन्नोवियद्गङ्गामयो रसः।
अजरामरणां सिद्धिमाधत्ते सेवितो नृणाम्॥ १६९॥

शिरांसि भजतामाशु सिन्धुरेषाधिरोहति।
विवरीतुं प्रवृत्तेव विश्वमूर्धन्यतां निजाम्॥ १७०॥

अस्यामिहावतीणीयामाविरास्ते भवाद्भयम्।
कालमन्मथयोः शश्वत्कदाचिन्न शरीरिणाम्॥ १७१॥

विमुक्तिविश्राणनधुर्यभावबोधाय बद्धा भुवनान्तराले।
काशीपतेः क्षौमपलाकिकेव लेखस्रवन्त्या लहरी समिन्धे॥ १७२॥

इयं प्रसन्ना हृदये जले च तीरे प्रवाहेऽपि च दीप्रहंसा।
अभीष्टदाने गमनेऽपि शश्वदपास्तमान्द्या तटिनी चकास्ति॥१७३॥

आपन्नसत्त्वेव वियन्नदीयमाविर्भवत्केतकबर्हशोभा।
बीचीकरालम्बितपार्श्वभित्तिविजृम्भमाणश्वसनं प्रयाति॥ १७४॥

कूलद्विजा कुन्दसगन्धमूर्तिः स्वादुस्तुषारा सुरभिः सरोजैः
इयं प्रसूतेः फलमिन्द्रियाणां मन्दाकिनी पुष्यति मामकानाम्॥१७५॥

तदनु भुवनोपतापदमनोपचितरंहसि सुमनोनदीजले कलितावगाहनो बुधजनोत्तंसमणिरतिमनोहरं वचनोपहारमतनोत।

त्रिमार्गगे वाङ्मनसातिदुरः स कोऽपि जागतिं तव प्रकर्षः।
यदन्यतीर्थातिशयप्रसङ्गे विश्राम्यति त्वय्युपमानभावः॥ १७६॥

दानाय मुक्तेर्धृतकङ्कणायां मयि स्थितायामपि केऽपि मर्त्याः।
क्लिश्यन्ति चेतः श्रुतिचिन्तयेति क्लृप्ताहासेव विपाण्डरासि॥ १७७॥

ब्रह्माण्डरन्ध्रात्पतनं सुमेरौ नानानगेन्द्राभिहतीश्च गुर्वीः।
अचिन्तयित्वा भुवमागतासि पातुं सुतानम्ब भवाब्धिमग्नान्॥ १७८॥

हिमाचलं प्राप्य जटाकलापादीशस्य नेत्रानलतापितेव।
प्रपद्यसे मज्जदनेलोकभवाग्निकीलाकुलितेव सिन्धुम्॥ १७९॥

अम्ब त्वया भेषजमत्यपूर्वमशिक्षि कस्मादिदमभ्रसिन्धो।
भवज्वरं यद्विषमं प्रकृत्या शीताम्बुसेकेन नृणां क्षिणोषि॥ १८०॥

ब्रह्मन्हरे हर भवादवतेति देही
जल्पन्निमज्जति जले तव जह्नुकन्ये।

निर्माहि पाहि निजहीति निदेशमेषां
तन्वन्नुदञ्चति क एष तवानुभावः॥ १८९॥

गगनतटिनि तावकं गरिम्णा सलिलमशेषजलातिशायि मन्ये।
न विसृजति निमज्जतां नराणामिदमधिरुह्य सकृद्यतः शिरांसि॥ १८२॥

भरणे निजवर्ष्मणोऽपि खिन्ना भवतीं जाह्नवि देहिनो भजन्ते।
किमिदं निदधाति मूर्ध्नि तेषामहहाशेषजगत्कुटुम्बभारम्॥ १८३॥

त्रिदिवस्रवन्ति भवदम्बुमाधुरी सकलातिशायिविभवेति मन्महे।
अवलिह्यजातुचिदिदं यतो जना विमुखीभवन्ति जननी कुचामृते॥१८४॥

अयि तावकं चरितमद्भुतोदयं सुरभीकरोति सुरलोकनिम्नगे।
पदमुन्नतं भजनसङ्गिनो जनान्नयसे यतः स्वयमधोनिपातिनी॥ १८५॥

चेलं चर्म निकेतनं पितृवनं पात्रं शिरो लेपनं
भस्मालंकृतिरस्थिजालमनुगा वेतालपारम्परी।

भिक्षापर्यटनं च वर्तनमहो नृणां भवत्सेविनां
मातब्रूहि कथं त्वदीयभजनं कुर्वे सुपर्वापगे॥ ९८६॥

आकण्ठंसलिले निमज्ज्य पुलिनाभोगोपधाने शिरः
कृत्वा शैलसुतापते सुररिपो गङ्गाधरेत्यालपन्।

गृह्णन्कर्णपुटे शिवेन कृपया प्रव्याहृतं तारकं
तीरे जाह्नवि तावके तनुपरित्यागं विधास्ये कदा॥ १८७॥

त्वद्रोधोभुवि भूस्त्वदम्बुनि जलं त्वत्फेनभासि प्रभा
त्वद्वीचीपवने महत्त्वदुदकावर्ताम्बरे चाम्बरम्।

इत्थं देवि मदीयदेहजननी भूतावली लीयतां
त्वत्संबन्धिनि जह्नुनन्दिनि महत्येषा मम प्रार्थना॥ १८८॥

इति स्तुत्वा नभः सिन्धु मेष धीमानमोदत।
मनसा फलिताशेषमनोरथसमृद्धिना॥ १८९॥

इति समरपुंगवकृतौयात्राप्रबन्धचम्पूकाव्ये सप्तम आश्वासः।

__________

अष्टम आश्वासः।

पत्या प्रकाश्यमानं क्षेत्राणामयमुपास्य केदारम्।
सकलमहितं फलानि स्वकुलत्राणक्षमाणि लभते स्म॥ १॥

उच्चैर्महागिरिविहारमुपेत्य धीमा-
न्नीहारसंवृतिनिवृत्तिदिनावतारे।

प्राहृष्यदादिपुरुषं बदरीवनान्तः
पश्यन्करोदरमिषद्बदराविशेषम्॥ २॥

तदनु कारुण्यलवनवविकृतकामरूपां कामरूपान्तराहितकामपीठस्थितिं कामपि परदेवतामाराध्य नरदेवदुर्नयनाटिकाविभावनपाटवानुवर्तिभिरालापविस्तारैरस्तौषीत्।

त्वद्भ्रूलीलानुसारित्रिपुरहरणदृक्किङ्कराधोक्षजाज्ञा-
निर्वोढृब्रह्मचिन्तासमुपनतजगद्धोरणीकोणभाजः।

उर्व्याः क्वपि प्रदेशे कतिपयविषयाधीशतामेत्य मत्ता
न त्वामञ्चन्ति भूपाः समयविषमतां किं ब्रवीम्यद्रिकन्ये॥३॥

नत्वा पृच्छामि किंचिद्भगवति भवतीं वाच्यमेतत्कुतश्चि
त्पुण्यात्पट्टाभिषेकव्यतिकरसमयप्राप्तिमात्रेण राज्ञाम्।

सौजन्यं क्वप्रयायात्क्वमतिरुपरमेत्क्वव्रजेत्साधुवादः
सौलभ्यं क्वापसर्पेत्क्वपुनरपसरेदातुरेवार्द्रभावः॥४॥

भूजाने जय जीव कोऽत्र पुरतः शब्दायते वार्यता-
मायुष्मन्नहमेव कोऽसि कथय त्वं वा त्वदीयाश्रितः।

आस्तां तद्भवदीयनाम किमहं डित्थस्तथा वा तदि-
त्यभ्यस्तानपि खेदयन्ति गिरिजे भृपा भवद्वञ्चितान्॥५॥

आयाहि प्रातरेहि ह्यलमनवसरो याहि मे देहि सद्यः
स्वर्णान्येतत्पिधेहि प्रतिभुवमथवा ब्रूहि नो चेदपेहि।

इत्येवं द्रष्टुकामा नरपतिहतकानेतदासन्नभृत्यै-
रायास्यन्ते नितान्तं जननि तव पदद्रोहिणी देहभाजः॥६॥

ह्यः शर्वर्यांसमज्याविघटनसमये हे बुधा युष्मदर्थं
राज्ञेऽवोचाम किंचिद्रहसि स च तदा प्रीतचेता इवास्त।

इत्थं वागीशसार्थानयि जननि भवद्वञ्चितान्वञ्चयन्तो
मन्दाः कुर्वन्ति केचित्पितृपतिनगरीमार्गपाथेयबन्धम्॥७॥

आकर्ण्यास्माकमभ्यागमनमवनिभृद्द्वित्रिकक्ष्यान्तराणि
प्रोल्लङ्घ्याभ्येत्य नीत्वा बहुमतिमतनोदर्धपीठीजुषां नः।

इत्थं मिथ्यावचोभिः पटव इव जना वञ्चयन्ति प्रपञ्चं
केचिज्जानन्ति नैते भवदुपजनितानम्बिके विप्रलम्भान्॥८॥

अद्य प्रातः सभायामखिलनृपतिषु प्रेक्षमाणेषु पीठां-
दुत्थायास्मत्कराग्रादवनिभृदुपदामग्रहीत्पाणिनेति।

एतादृक्त्वेन जात्वप्यवनिपतिम [वि] ज्ञातवन्तोऽपि केचि -
द्राजाभिज्ञा इवाज्ञास्त्वयि सति विमुखेष्वैन्द्रजालं सृजन्ति॥९॥

नीहाराहार्यकन्ये तव पदकमलध्यानमुद्राविधानै-
रत्यर्थंवर्तयन्ते जनुषि सफलतां केऽपि धन्या धरण्याम्।

अद्राक्षीदीषदस्मान्नृपतिरधिगतप्रीतिरद्येति सार्थं
मन्वाना जन्म यान्ति प्रतिमुहुरितरे निर्वृतिं दुर्विवेकाः॥१०॥

मातर्दैतेयवैरिप्रमुखसुरवरैः शश्वदध्यासितायां
भावत्कागारबाह्याङ्गणभुवि वसतिप्राप्त्युपायं विहाय।

हा हा मोहाद्यतन्ते जगति तनुभृतो नैकनिष्ठ्यूतवीटी-
जम्बालैर्दूषितायां नरपतिभवनद्वारि कर्तुं विहारम्॥११॥

धिक्कारः सौविदल्लैश्चिरविततबहिर्वेदिकावासकार्श्यं
याच्ञादैन्यानुरोधः करितुरगकुलेष्वाकुला पर्यटाट्या।

निर्हेतुर्दण्डपातो भृशसुलभरुषा मेदिनीनायकेने-
त्येवंरूपेण मातः परिणमति नृणां त्वत्पदाब्जापराधः॥१२॥

त्वत्पादाम्भोजपूजाविरचनविमुखीभावदोषावतीर्ण-
क्षोणीभृत्सेवनानां पुरुषपरिषदामद्रिराजन्यकन्ये।

नाहारोनैव निद्रा न सुखरसिकता नार्चना देवतानां
राजद्वारोपकण्ठेष्वपि तु तत इतः पर्यटाट्यैव कृत्यम्॥१३॥

त्रैलोक्यश्लाघनीये धरणिधरकुलोत्तंसवंशे प्रसूतिः
शुद्धान्तैश्वर्यभाक्त्वं त्रिभुवनभरणोल्लासिनश्चन्द्रमौलेः।

लोकानां मातृता चेत्यखिलमपि शिवे हृद्यमेतद्भवत्या
भूपद्वारासिकायै पुनरपि तु सतां सृष्टिरेकैव कष्टा॥१४॥

आवासं दुर्गुणानां कमपि नृहतकं भूपतित्वेन सृष्ट्वा
तद्नेहद्वारि याच्ञामहह रचयितुं यद्विनिर्मासि धीरान्।

सोऽयं सर्गस्वभावः किमुतव जननि ब्रूहि किं विभ्रमो वा
नैर्घृण्यं वा किमाहोकिमुत दृढतरद्वेषिता वा बुधेषु॥१५॥

तस्याः को वा निषेधं सृजति गिलति चेदावृतिः सस्यजालं
मर्यादालङ्घिनी चेज्जलनिधिलहरी को नु वा तां निरुन्ध्यात्।

किं च त्वं शैलकन्ये कुटिलनृपगृहद्वारवेदीविहार-
क्लेशोदन्यावदान्या भवसि यदि सतां कस्तव स्यान्नियन्ता॥१६॥

भूभृत्सेवाविधानं बुधजनविततेः शास्त्रदृष्टेः पिधानं
दुष्कृत्येषु प्रधानं दुरितमिषविषोन्मेषपाथोनिधानम्।

ब्राह्मण्यस्यावसानं प्रसरदपयशोवल्ल्युपघ्नप्रदानं
सत्यस्वापोपधानं सति किमु बहुना त्वय्युपेक्षानिदानम्॥१७॥

भुक्ते प्राचीनवित्ते गरिमजुषि ऋणे भिक्षुतायां धृतायां
संमाने हीयमाने नृपसदसि बहिर्द्वाररोधेऽपि जाते।

कोऽयं मायानुभावस्तव सति विलसत्यर्थलाभातिलोभा-
द्धावं धावं बुधानां ततिरटति मुधा राजधान्यामधन्या॥१८॥

विन्यस्ताञ्जलिना प्रणम्य शिरसा याचे दया चेद्बुधा-
नास्थानीनरकान्तरे क्षितिभुजां कामाक्षि मा मा क्षिप।

यद्यस्मिन्क्षिपसि व्यपेतकरुणालेशा तदा शालिका-
द्वाराध्यासनदुर्दशां वितर नो गुर्वींदुरुर्वीपतेः॥१९॥

नैतत्स्वर्गतिसाधनं न च कुलाचारं(रो) न चाज्ञा गुरो-
राम्नायैर्बिहितं च कर्म यदिदं भूपाधमोपासनम्।

प्राग्जन्मन्यचलात्मजे कृतभवत्पादापराधा वयं
पातं केवलमात्मनः स्वयमहो कर्तुं प्रवर्तामहे॥२०॥

मूर्ध्ना पर्यटने कृतेऽपि करुणामुद्रा न चेत्तावकी
न प्राप्येत नरैर्गुवाकफलमप्यन्तर्घुणास्वादितम्।

जानन्नप्यमुमर्थमर्थपटलीसंपादनाकाङ्क्षया
हा धिक्कष्टमनुद्रवामि धरणीपालाधमानम्बिके॥२१॥

त्वच्चिन्तां कलयामि चेत्त[दधुना] प्रत्यूहजाग्रन्मनः-
क्षोभोत्पादनचञ्चुरौदरशिखिज्बाला समुज्जृम्भते।

तच्छान्त्यै नृपतीन्भजामि यदि तद्ध्यानात्त्वदीयस्मृति-
र्नैवोदेति किमाचरामि कथय प्रालेयशैलात्मजे॥ २२॥

प्राचीनक्षेत्रमात्रान्न लगति किल मे स्फारसंसारभारः
कृत्वा भूभर्तृसेवां धरणिरभिनवोपार्जनीया मयेति।

चिन्तासंदानितान्तःकरणसरणिभिर्घस्मरैरस्मदाद्यै-
रन्वारब्धा भवत्यां पुरहरदयिते देवि साक्षादुपेक्षा॥ २३॥

उत्थानं प्रातरुवपरिवृढभवनद्वारदेशाभिधानं
निध्यानं भूमिबन्धोः पुनरुपगमनं वासशालां प्रतीति।

एतैर्व्यापारजातैरचलपतिसुते नित्यमावर्त्यमानै-
रङ्घ्रिद्वन्द्वंभवत्या मुहुरहह वयं घम्मरा विस्मरामः॥ २४॥

ग्रामं वा ग्रामटींवा मितभुवमथवा हाटकं वा पटं वा
यः कोऽप्यस्माकमेतत्किमिह न वितरेदेकिकां वा वराटीम्।

इत्यम्बत्वय्युपेक्षाविरचनदुरितप्राप्तदारिद्र्यमुद्रा-
कातर्याः पर्यटाट्यां नगरभुवि वयं बह्वधर्माय कुर्मः॥ २५॥

अन्तःशुद्धान्तमास्ते नृपतिरविरतं नैव निध्याति दैवा-
न्निर्गच्छन्तं कदाचित्तिरयति तरसा खेटकूटैर्भटौघः।

वक्ता वा नास्मदर्थे स्वयमपि गमनं दुष्करं द्वार्यथापि
त्वद्द्रोहादद्रिकन्ये वयमवनिपतिं द्रष्टुकामाश्चरामः॥ २६॥

विद्यागोष्ठीषु राज्ञो नहि रुचिकणिकाप्यस्त्युदास्ते प्रधानो
विद्वेष्टि स्वाधिकारक्षतिचकितमनाः सोऽप्यमेधाः पुरोधाः।

अन्यस्त्वज्ञातविद्वज्जनसरणिरथाप्यम्ब ते शाम्बरीभिः
पश्चात्संचोद्यमानाः सुधिय इति वयं राजधान्यां भ्रमामः॥२७॥

संनह्यत्सौविदल्लाधमवदनसमालोकनाय प्रसर्प-
द्धूलीषु द्वारवेदीशिखरसरणिषु प्रत्यहाध्यासनाय।

याच्ञावाणीनिबद्धक्रमरसरसनाधारणायापि चास्मा-
न्निष्कारुण्यं सृजन्त्यास्तव गिरितनये किं फलं लब्धमासीत्॥ २८॥

कर्णो मध्याह्नदीनः समयमनुसरत्यम्बुदः स्वर्गमात्रे
सन्तानस्त्यागशाली वयमपि तु मुहुः सर्वतो दानशौण्डाः।

इत्युर्वीपालगर्वप्रलपितगरलज्वालजालानि पातुं
कर्णाभ्यां किं नु सृष्टा वयमवनिधराधीशकन्ये भवत्या॥ २९॥

कुम्भीपाकादिनानाविधनिरयकुलेष्वातलं संनिमज्जा-
व्यापारे नास्ति भारः सरसिरुहभुवो यावदायुर्विरामम्।

क्ष्मापालद्वारि किंतु क्षणमपि वसतिः शक्यते नैव कर्तुं
तस्मादस्मद्विपक्षं जनमपि न कदाप्यम्ब तस्यां निधेहि॥ ३०॥

आस्थानी गाहनीया नृपनिकटजुषो रञ्जनीया मनुष्या
भूपालःसेवनीयः स च बहुलधनैरापनीयो मयेति।

चिन्तां संत्यज्य सोऽहं तव पदनलिनोपासनामात्रकृत्यः
प्रेङ्खद्भावः कदा वा वद जननफलान्यम्ब संपादयिष्ये॥ ३१॥

यास्यामो राजधानीं कथमपि नृपतेरन्तिकं तत्र को वा
नेप्यत्यस्मानकस्मात्प्रचुरधनभरैःरैः प्रीणनामन्तरेण।

दृष्टे वा राज्ञि कृष्टां चिरवसतिमृते नाञ्जसा वाञ्छिताप्ति-
स्तस्मादक्लेशलभ्यां द्रुतफलजननीमद्रिजां न त्यजामः॥ ३२॥

लक्ष्यीकुर्वे किमुर्वीसहचरहतकानम्बिके तावकाङ्घ्रौ
जाग्रत्यश्रान्तमन्तः करणभुवि ममाभीष्टविश्राणनाय।

त्वद्भृत्यद्वाःस्थवीटीचिपिटकपटसंवाहकक्रीतदासी-
दासेयप्रेष्यचेटीसुतजनसदृशाः किं नु ते राजकीटाः॥ ३३॥

कामाक्षि त्वत्कटाक्षव्यतिकरकलिकामोदसाम्राज्यलक्ष्मी-
पर्याप्तस्वान्तवृत्तेर्नहि मम गणनागोचरे ते नरेन्द्राः।

सेवाहेवाकभाजां तव जननि जगत्यब्जभूर्वा हरिर्वा
त्र्यक्षो वा लक्ष्यकोटौ विलसितुमनलं केऽपि मूढा नृकीटाः॥ ३४॥

त्वद्ध्यानैकावधानप्रणयनसुलभानन्दलीढान्तरात्मा
नाहं भूपानुपासे पुरहरसुतनो संपदे किंपचानान्।

पुंसां चिन्तालताभिर्हृदि तवचरणोपध्नतामद्रिकन्ये
नाबध्यन्ते कतीभाः कति कति तुरगा गेहबाह्याङ्गणेषु॥ ३५॥

कुर्वन्तु स्वैरमुर्व्यांकतिचन समयक्षेपणं भूपगेह-
द्वारावस्थानधारापरिचयरचनोदीतरागा वराकाः।

त्वद्ध्यानारम्भलब्धोदयनिरतिशयानन्दनिष्यन्दसिन्धो-
रन्तःस्वच्छन्दचारैर्जननि वयममी कालजालं नयामः॥ ३६॥

स्निह्यद्भूपालदत्तद्विरदवरघटामांसलस्निग्धमुग्ध-
स्कन्धाभोगाधिरोहक्रमसृमरतमख्यातिसंप्राप्तितोऽपि।

देवि त्वद्भृत्यशालारजकवशजुषामन्वये रासभाना-
मुद्भूयामेयभारोद्वहनमतितरां युक्तमित्येव मन्ये॥ ३७॥

साकं भूनायकेन प्रचुरमणिभरोड्डामरं सामरस्या-
दध्यारुह्यासनार्धं युगपदभिमुखीभूय संलापतोऽपि।

न्यञ्चद्गात्रं निषेधप्रसृत करतलं निर्भरोत्कम्पमम्ब
त्वद्गेहद्वाःस्थवेत्रप्रहरणसमयत्रासदैन्यं परं नः॥ ३८॥

आन्दोली चतुरन्तयानतुरगश्वेतातपत्रद्विप-
प्रायां संपदमावहेति गिरिजे न त्वां कदाप्यर्थये।

याचे केवलमेतदेव बहुधा त्वत्पादपङ्केरुह-
द्वन्द्वाराधनचातुरीगुणनिकासाम्राज्यसिंहासनम्॥ ३९॥

तदनु तुहिनजगतीधरादवतीर्य स पुनरार्यमिश्रो निजवचःस्रुतिधौततत्त्वावबोधकर्दमनिकरस्यसगरसुताहुतिहुताशनीकृतप्रबलरुषः कपिलमुनेराश्रमपदमुपाश्रयत।

अभिषिच्य भसितराशीन्पुरहरनिर्माल्यसलिलपूरेण।
निरवापयत्पितॄणां भगीरथो यत्र निरयबाधाग्निम्॥ ४०॥

अह्नाय पत्युरह्नामपहाय सतामसूयितवतीव।
श्लिष्यति सुरस्रवन्त्री नर्मसखं यत्र नवनवोर्मिकरैः॥ ४१॥

तत्र च जलजिमध्यक्षयन्निदमवादीत्।
भागीरथीतिप्रथिताभिधानांकांचित्कुमारमुपनीय गौरीम्।

अस्मै वरायातिसृजन्पितॄणां चक्रे मुदं चण्डकरान्वयेन्दुः॥ ४२॥

अहस्करापत्यसरस्वतीभ्यामभ्यर्णमादाय विमुच्यमाना।
अमुं नवोढेव’‘‘‘स्वद्युसिन्धुराबद्धभङ्गा पतिमभ्युपैति॥ ४३॥

वारं वारं प्रौढवातानुषङ्गाद्वेगेनायं वेपते वीचिमाली।
कुम्भीयोनेः कुक्षिवास्तव्यमग्निं ध्यायं ध्यायं त्रासमृच्छन्निवोच्चैः॥ ४४॥

मन्थानशैलमथितोऽपि घटीभवेन
ग्रस्तोऽपि दाशरथिना कृतबन्धनोऽपि।

उद्दामवाडवहुताशनपीडितोऽपि
गम्भीरतां न हि कदाचिदयं जहाति॥ ४५॥

अथ नीलाद्रिमासाद्य कृती स कृतवन्दनः।
अस्तौदित्थं जगन्नाथमघनिर्माथकर्मणे॥ १६॥

चरितं तव प्रथीयः शक्यं मितया न मे गिरा स्तोतुम।
नासामणिर्न भवितुमर्हति मानाधिकं रत्नम्॥ ४७॥

अतिलघुनापि च वचसा मधुमथन तव प्रणौमि महिमानम्।
तुभ्यं त्रिभुवनवपुषे तुल्यं कथमर्प्यते माल्यम्॥ ४८॥

मम यन्मनुष्यजन्मनि भवत्सपर्यापराङ्मुखीभवनम्।
स’‘‘‘‘नवनीतनिर्गमसमये29 मन्थानगुणभङ्गः॥ ४२॥

अन्यार्थमपि भवन्तं परिचरता प्राप्यते गतिः पुंसा ।
आमोदमेणनाभेराजिघ्रति किं न पणितापि॥ ५०॥

भवतः प्रपद्यमानश्चरणौ पदवीं समश्नुते परमाम्।
को गन्धगजाधिरूढः क्षुद्रं प्रतिपद्यते द्वारम्॥ ५१॥

प्रकृतिजयिनस्त्वदङ्घ्रेःपातकराशिरपि किमु भवेल्लक्ष्यम्।
अस्त्रमरविन्दयोनेश्चटकोपरि किं नु संधेयम्॥ ५२

ईषल्लभा मनीषिभिरीहितसंपत्प्रसादविषयैस्ते।
हैयङ्गवीनसङ्घं ह्यादधतो न खलु घृतचिन्ता॥ ५५३॥

करुणागुणपरिणाहः कंसारे तव निसर्गसंसिद्धः।
आधीयते न केनचिदमृतरसौघस्य माधुर्यम्॥ ५४॥

अनुपदमतिलङ्घ्यजनपदशतानि विबुधाग्रण्यः स पुण्यस्थलीषु शस्तं गयाक्षेत्रमयासीत्।

दृश्यते तटिनी यस्मिन्नद्भुताकारशालिनी।
अपि फल्गुः स्वयं पुंसामफल्गुफलदायिनी॥ ५५॥

अधिमौलि गयामरद्विषो विबुधैर्यत्र कृते पदार्पणे।
भुवनत्रयमस्तके पुनः पितरो हन्त पदं वितन्वते॥ ५६॥

कटितटिघटिततटिन्निभांशुकं रमाधवं छविजितमारमाधवम्।
जगत्त्रयी प्रणमति यत्र मौलिना गदाधरं किसलयभं गदाधरम्॥ ५७॥

तत्र च विहितकर्तव्यकलापोऽयमभिरूपो विनिर्गत्य ततः समग्रगुणसंभृतेन कुटुम्बिनीयुगेन विविधतीर्थसमूहमवगाहमानो विमानितदिविषदाहारसंपदं व्याहारमुद्जृम्भयत।

अहस्करेऽप्यलघुतमिस्रतस्करे कुमुद्वतीं समधिगता कुमुद्वतीम्।
पवित्रितक्षितिरियमत्र चक्षुषी पुनः पुना रमयति मे पुनःपुना॥ ५८॥

संध्याटवीचारविवृद्धमूर्तिः कुर्वन्मुहुः कुलविहङ्गलीलाम्।
स्वैरं प्रणदन्निह शोणभद्रो गवामसौ गच्छति संनिवेशम्॥ ५९॥

शर्वाणीचरणसरोजवान्तलाक्षाजम्बालभ्रमजनिहेतुधातुशाली।
विन्ध्याद्रिर्वितरति मे नितम्बसीमाविस्तारस्थगितदिगन्तरः प्रहर्षम्॥६०॥

अध्यास्ते रुचिरममुष्य शृङ्गमेका सा काचित्त्रिभुवनसंज्वरापहन्त्री।
निर्व्याजप्रणिहितनीलकण्ठहर्षा वर्षन्ती कमपि रसं बलाहकाली॥६९॥

कल्याली हृतमधुकैटभावलेपा लोकान्धंकरणलुलायदर्पहन्त्री।
चामुण्डा शकलितरक्तबीजदम्भा सुम्भघ्नी जयति निसुम्भसूदनीयम्॥६२॥

विश्वस्मादपि धरणीधरेन्द्रकन्ये विन्ध्योऽयं निरवधिभागधेयशाली।
आक्रान्ताखिलभुवनापि यस्य नाम्ना विख्याता परमसि विन्ध्यवासिनीति॥६३॥

देवि त्वत्पदरुचिदर्शितातिरागा तुङ्गेषु द्रुमविटपेषु लम्बमानाः।
शैलेऽस्मिन्सततमवाङ्मुखत्वभजो दृश्यन्ते धृतनियमा इव प्रवालाः॥ ६४॥

कुब्जत्वं दधदपि कुम्भयोनिभक्त्या विन्ध्याद्रिर्विबुधनिवासतोऽपि तुङ्गः।
संचारं सदयगिरीशपाणिपद्मस्पृष्टाभ्यामिह वितनोषि यत्पदाभ्याम्॥६५॥

मच्चित्ते’’’’’’’’’’’’’ महिषासुरोत्तमाङ्गे विन्ध्याद्रेरधिशिखरं च विश्वमातः।
निःशङ्कं निहितपदाब्जया भवत्या काठिन्यं क्वनु वद काममन्वभावि॥ ६६॥

वेलायां विषमकृतान्तवाहघण्टासंरावश्रवणसमाहितव्यथायाम्।
मञ्जीरकणितमनोहरं पुरस्तादास्तां नश्चरणसरोजमम्बिकायाः॥ ६७॥

पारीन्द्राः परिभवमापिता निकामं मध्येन स्मरहरवल्लभे भवत्याः।
तत्तादृक्तिमिरतरङ्गितासु मन्ये बध्नन्ती(न्ति) स्थितिमिह …भ्यतो गुहासु॥६८॥

उत्तुङ्गा बलवदुदारकान्तिभाजो वर्तन्तां शतमिह वारणेन्द्रकुम्भाः।
सोढारस्तव कुचभारवत्किमेते पञ्चास्यप्रसभविमर्दसंभ्रमाणाम्॥६९॥

शर्वाणि स्तनभरसंपदा परं ते विन्ध्याद्रिर्विगलिततुङ्गतावलेपः।
व्रीले(डे) न क्षितिमभजद्द्विजस्तु भेजे प्रख्यातिं शिव शिव भाग्यरीतिरेपा॥७०॥

संत्रातुं जनमिह सर्वहिंसकेभ्यो वात्सल्याद्वहसि वरायुधानि हस्तैः।
हन्तैतद्भगवति साहसं यतोऽमी रज्यन्ते नवसुमनोजिघृक्षयापि॥ ७१॥

चन्द्रस्ते वदनमिषेण शैलकन्ये विन्ध्याद्रौवसति विधुंतुदैकभीत्या।
पर्यन्तभ्रमणमिष(षा)त्तरक्षुवीक्षावित्रासव्यतिकरविद्रवत्कुरङ्गः॥ ७२॥

त्वद्बिम्बाधरतुलना शिवे तदानीं प्रादुप्यादिह सहकारपल्लवेषु।
धात्रा चेन्मकरन्दसारधारानिष्यन्दः कुसुमवदेषु निर्मितः स्यात्॥ ७३॥

स्वच्छन्दं विलसतु चन्द्रिकाङ्कुराणामुद्भेदः किमपि सुधारसोद्गमश्च।
वक्त्रेन्दौ तव वरवर्णिनि स्मरारेराश्चर्या न किमिह सूतिरम्बुजानाम्॥७४॥

अस्याद्रेरनुबनमध्यमम्बुजातैर्वेतण्डव्रजकरदण्डपातभीतैः।
सारङ्गैरपि चकितैर्वनेचरेभ्यः सर्वस्वं निहितमिव स्वकं त्वदक्ष्णोः॥७५॥

फुल्लासु क्षितिरुहपुष्पमञ्जरीषु भ्राम्यन्ती ततिरिह भाति षटूदानाम्।
पृथ्वीभृत्प्रियतनये विलोकयन्त्याः कान्तारश्रियमिव ते कटाक्षमाला॥७६॥

पाठीनध्वजपरिपन्थिकायमायाकैलासक्षितिधरकालमेघपङ्क्ते।
मातस्ते हतजनिमार्गपर्यटाट्यानिष्टप्ते माँये निपतत्वपाङ्गधारा॥ ७७॥

त्वामभ्रच्छविमिह वीक्ष्य नीलकण्ठास्तुप्यन्तः सपदि वितन्वसे कलापान्।
त्वत्केशद्युतिविसरापहारशङ्कां निर्माष्टुं निपुणमिव प्रदर्शयन्तः॥ ७८॥

उद्भिन्नस्मितलवमुल्लसत्कपोलं लोलाक्षिभ्रुवमतिलोभनीयनासम्।
बिम्बोष्ठं भृतमणिकुण्डलाभिरामं वक्त्रंते जननिवयं न विस्मरामः॥ ७९॥

विनिर्गतानविहितपुण्यदुर्लभत्रिमार्गगासलिलविगाहनाय नः।
पदे पदे बहलविपत्तिशङ्कया विषीदतः सुखयतु विन्ध्यवासिनी॥ ८०॥

अपि च।

रक्षति दुर्गा यन्तं विपदः स्वगुणान्कृपामृदुर्गायन्तम्।
समहृत कासरदनुजं तमपि च या सुम्भमन्तिकासरदनुजम्॥८१॥

देवी सा मे दुरितं क्षपयतु कृपया हरिस्वसा मेदुरितम्।
शक्तिषु परमानन्दं जनकं किल या निनाय परमानन्दम्॥ ८२॥

शुचमिह नोपलभन्ते वपुः स्मरन्तो वलार्दनोपलभं ते।
स्थितमनिदानवलक्षे हर्यक्ष चण्डि लूनदानवलक्षे॥ ८३॥

अपि च।

स्कन्धावप्लुत्य हरेः सलीलमाक्रम्य पद्भ्यामवनीलुलायौ।
संधित्सया चापगुणैर्निषङ्गादुदर्चिषं मार्गणमुत्क्षिपन्तीम्॥ ८४॥

प्रहारकेलिस्पृहया रथाङ्गनेभिग्रहव्यग्रनिजाग्रहस्ताम्।
तिर्यङ्मुखीं पाणिधृताञ्चलस्य कम्बोः समुद्धोषणकर्महेतोः॥ ८५॥

उदस्तहस्तोपहितत्रिशूलनिर्भिद्यमानं निजपश्चिमाङ्गात्।
निर्गच्छतो निर्जरशात्रवस्य चर्मासिपाणेः शिरसरिछदायै॥ ८६॥

आलम्ब्य केशानवधूय खेटं पाणावधिक्षिप्तकृपाणवल्लीम्॥
दरोच्छ्वसन्मध्यमदृष्टिरिङ्खदग्निस्फुलिङ्गावलिभीषणास्याम्॥ ८७॥

विश्वत्रयापद्विनिवारणाय संनाहमेवं समरे दधानाम्।
किरीटचन्द्रांशुकृताभिषेकामम्बामहं भावनयावलम्बे॥ ८८॥

तमसामर्दिनि विधृतमसाधिषं तमसा जाह्नवीपूरं तमसा विगाहते।

निर्जेतुं दुरितावली सति कलौ निःसीमवीर्योदयां
देवो मेलयति स्म यत्र सुदृढं तिस्रो महावाहिनीः।

श्रेयानेषनिरीक्ष्यते स शिबिराभोगः प्रयागाभिधो
धीराः स्वैरमिह प्रयान्ति पदवीं देहत्यजं शाश्वतीम्॥ ८९॥

देहिनामिह तटस्थितिस्पृशां पुण्यमात्मजमिमाः पुनः पुनः।
स्फारविस्मयकृते परस्परं संगताः प्रसुवते सरिद्वराः॥ ९०॥

अन्योन्यमायामिभिरूर्मिहस्तैरास्कन्दकर्मण्यनयोः सपत्न्योः।
साक्ष्यं न साधीय इतीह सा किं सरस्वती संवृतमूर्तिरास्ते॥ ९१॥

जाह्नवीरविसुतारजतायःशृङ्खलायुगलसंदृतमेनम्।
क्रीडितुं स हि विमुक्तियुवत्या केलिमञ्चमयमञ्चति लोकः॥ ९२॥

यियासतामत्र निमज्ज्य नाकं हित्वा तनुं मुक्तिमभीप्सतां च।
वैवस्वतीविष्णुपदीमिषेण वेदोपदिष्टाध्वयुगं चकास्ति॥ ९३॥

निर्वापितानामिह विष्णुपद्या नृवर्गकान्तारभवानलानाम्।
विसृत्वरी धूमपरम्परेव विराजते चण्डमरीचिकन्या॥ ९४॥

सहजमलिनं विद्यावर्त्म स्वभावमलीमसा
विधिपदविका चित्रः पन्था विमिश्रितयोस्तयोः।

इति पृथगवस्थित्या संमेलनेन च देहिना-
मिह विवृणुतो नानामार्गान्धुसिन्धुकलिन्द्रजे॥ ९५॥

निर्माति धर्मांशुसुताभुजङ्ग्यानिर्मोकशङ्कामिह गाङ्गमम्भः।
यां वीक्ष्य लोकाः समवर्तिलोकयात्राकथामप्यवधीरयन्ति॥ ९६॥

अनेकदेशोन्मिषदभ्रसिन्धुप्रवाहखण्डामिव भानुकन्याम्।
पश्याम्यविद्यामिव तत्र तत्र प्रभिद्यमानां विषयप्रकाशैः॥ ९७॥

उन्नेतुमुद्वेलभवाब्धिमग्नान्कृतोद्यमाभ्यां कृपया शिवाभ्याम् !
प्रसार्यमाणाविव बाहुकाण्डौ पश्यामि नद्योरनयोः प्रवाहौ॥ ९८॥

वेगाविद्धसरोजकुङ्मलकुचं विक्षिप्तवीचीभुजं
फुल्लेन्दीवरदृष्टि बुद्बुदनिभाविर्भूतरोमोद्गमम्।

त्रुट्यत्फेनविपाण्डुकञ्चुकमुभे दूरात्समभ्यागते
गाढालिङ्गनमत्र हन्त तनुतो गङ्गांकलिन्दात्मजे॥ ९९॥

क्वापि प्रस्तुतदोर्मृधे व मिथो वीचीभरैराहतै-
रेतैरात्तजयश्रियाविव कुतोऽप्यन्योन्यक्लृप्ताक्रमैः।

विद्राणे व साध्वसेन कुहचिद्व्यक्तापसारत्वरै-
स्तन्वाते सरितौ विडम्बनमुभे तत्तादृशानां नृणाम्॥ १००॥

कालिन्दीसुरनिम्नगे विलसतः कालावदाते ययो-
रंशूनामिव संतती तनुभृतामन्तस्तमिस्रापहे।

पुण्यैरद्यपुराकृतैर्वयसमी तत्तादृशौ तावुभौ
वेणीमाधवशूलटङ्कगिरिशौ वीक्षामहे चक्षुषा॥ १०१॥

वामे भागे वरतनुमयं शूलटङ्केशमीडे
संध्यानृत्तभ्रमणरचनासङ्गिनो यस्य कण्ठात्।

म्रस्तांमुक्तास्रजमिव महाकृष्णसर्पाञ्चितार्धा-
मग्रे पश्याम्यमरतटिनीमर्ककन्योपगूढाम्॥ १०२॥

भुवनत्रयपारवर्ति पुंसामधिगन्तुं पदमाहितस्पृहाणाम्।
अनुभूतचरादिविप्रयागादयनं नेह परं भुवि प्रयागात्॥ १०३॥

इत्यालपन्नयमुत्तीर्य सुरधुनीमनीदृशसंपत्तिपेशलान्कोसलानवलोकयन्ननघगुणपरिभृतधनदपुरुहूतपुरमजिहीत साकेतम्।

विमलां प्रकृतिं विवृण्वती सततं भावितसर्वमङ्गला।
यदलंकरणाय कल्पते हिमवन्मानससंभवा नदी॥ १०४॥

परिसरयूपकण्ठमलघूत्तरवेदितटी
परिसरयूपकण्ठपरिबद्धचषालशता।

प्रदिशति यत्र कौतुकमशीतकराभिजन-
प्रभवजनाधिनाथहयमेधवितानमही॥ १०५॥

तत्र स रामभद्रं प्रणिपत्य नुतिमित्यतानीत्।

कल्पयत्यवनिकर्णजन्मनो वङ्महि श्रवणहर्षवैभवम्।
संभवे जनकमोदसंपदामात्मजोक्तिरयते निदानताम्॥ १०६॥

सूनुनैव सुवचं प्रचेतसो वस्तु वर्णयितुमाद्रियामहे।
राघवैकसुगमे रणाङ्गणेव्यापृतं किल वलीमुखैरपि॥ १०७॥

हन्त सत्यपि रघूद्वहे गिरा प्रस्तुवन्ति कवयः परानपि।
यस्य वक्तुमपदानमेव या प्रादुरास भुवि पद्यरूपिणी॥ १०८॥

तद्विना दशरथावनीसुहृन्मानिनीजठरशुक्तिमौक्तिकम्।
वावदूकजनवाङ्मुखस्य किं विद्यते भुवि विभूषणान्तरम्॥ १०९॥

संयमिप्रवरसाधितस्य किं पायसस्य परिपाकवैभवात्।
माधुरीमधिगतो महियसीं राघवो रमयते ममाशयम्॥ ११०॥

दत्तया दिविकृतत्रिशङ्कुना निर्ममो निखिलशस्त्रविद्यया।
आधिशङ्कुभरमापयन्द्विषामाशयेषु रघुनायकोऽवतात्॥ १११॥

पादरेणुपरमाणुयोगतः सिद्ध्यता युवतिसृष्टिकर्मणा।
साधयन्नपि मतं मुनेः कथं जानकीपतिरतर्कमार्गगः॥ ११२॥

कुर्वतो दृढगुणप्रकृष्टतामात्मनो दशरथाङ्गजन्मनः।
गौरवं न सहते स्मकार्मुकं कामशासनकरोपलालितम्॥ ११३॥

धर्मनिर्मथनकर्मठं हठात्कल्पयन्नपि करातिपीडनम्।
मेदिनीहृदयहारिभिर्गुणैर्मेदुरो जयति मैथिलीपतिः॥११४॥

प्रक्रमं रचयतः प्रनर्तितुं विक्रमस्य किल विघ्नशान्तये।
ऐशचापतृणभङ्गमाचरन्नेष दाशरथिरेव सेव्यताम्॥ ११५॥

दोः प्रतापशिखिनः समिन्धने दोहलीव निजबाहुलीलया।
काकपक्षधर एव कार्मुकं पाटयन्पशुपतेः सवर्ण्यताम्॥ ११६॥

आप भङ्गमवनीसुताभ्रुवः पूर्वमेव पुरवैरिकार्मुकम्।
अर्कवंशसुकृतैरयं पुनः कीर्तिमानवतु केलिमानुषः॥ ११७॥

हन्तुमुद्यमवतो निशाचरानट्टहास इव रामतेजसः।
पूरयन्दश दिशः पुनातु वो भैरवः शिवधनुर्भिदारवः॥ ११८॥

मैथिलीहृदयमञ्चशायिनः सौखशायनिकशेखरः प्रभोः।
पातु वो रघुवतंसदोर्लताभज्यमानभवचापनिस्वनः॥ ११९॥

आत्मवैरिधनुरार्तिनानटद्वीरचोदितविदेहजार्पिताम्।
दृक्तरङ्गवरणोत्पलस्रजं धारयन्नवतु रघूद्बहः॥ १२०॥

जातरूपफलके शनैः शनैरङ्गसंगतिभियापसृत्वरीम्।
मन्दमन्दमपदेशपूर्वकं मैथिलीमनुसरन्स पातु वः॥ १२१॥

वार्धिनेमिजनुषो वधूमणेराशये शयकुशेशयेऽपि च।
कौतुकस्य कलयन्निबन्धनं नन्दनो दशरथस्य पातु नः॥ १२२॥

मैथिलीपरिणयोत्सवे मुखं मन्दहासमधुराधरं विभोः।
घर्मवारिकणहृद्यमस्तु मे [मङ्गलाय] शुभिकाविभूषितम्॥ १२३॥

आश्रमप्रसृमरे शनैर्जवादाहितापसरणे कथंचन।
संगते सदसि मङ्गलाय मे जानकीरघुवतंसयोर्भ्रुवौ॥ १२४॥

मैथिलीमनुकुलावतंसयोः पुष्णती पुलकजालमङ्गके
शोभनस्तुतिमया शुभाय में कल्पतां सुहगलूलुकाकपि (?)॥ १२५॥

भाविनि त्रिदशवैरिभञ्जने साध्वि मे कुरु सहायतामिति।
याचमान इव जानकीकरं पाणिना परिमृशन्मुदेऽस्तु सः॥ १२६॥

चम्पवल्लिकरपीडने रुषःशान्तये किमुपलाधिरोहणे (?)।
जानकीपदसरोजमामृशन्पाणिना रघुपतिः प्रसीदतात्॥ १२७॥

हन्त दृश्यमपरं मदागमः शंसति ध्रुवमितीर्प्ययेव सः।
तत्प्रदर्शनविधौ धराभुवि मन्दवर्षवचनो धिनोतु माम्॥ १२८॥

मैथिलेन्द्रमहिलाभिरेकतः स्थापितौ सदृशतादिदृक्षया।
‘’’’’’’’’’’’’’’’’” माहितस्थितौ चिन्तयामि जगदादिदम्पती॥ १२९॥

मैथिलीसहचरं मनः सखे सर्वदैव तदवेहि दैवतम्।
घोरजन्मकुहनापयोनिधेस्तारकं तव तनुप्रतारकम्॥ १३०॥

सन्तनामहं वीशसम्मतपरं (?) देवता विगणयामि नैव ताः।
राममेकमभिरामवैभवाराममाशरविराममाश्रये॥ १३१॥

तमालच्छायालः सततमनुकूलस्तनुभृतां
वचः केलीशे’’’’’’’ (?) विशगतमधूलीमधुरिमा।

जगन्नेता सीतापतिरहितजेता गुणगणैः
स नाथ हृत्साधो जनुषि रघुनाथो विजयताम्॥ १३२॥

मणिगणपरिणद्धे मण्डले पुष्पकान्तः-
सुरतरुतलभञ्जि स्वर्णपीठे निषण्णौ ।

विसरमुपहसन्तौ विद्यदम्भोदभासां
मनसि मम रमेतां मैथिलीरामचन्द्रौ ॥१३३ ॥

सकृदेव शरीरिणः प्रपन्नान्भवदीयाः स्म इति प्रजल्पतोऽपि ।
परिपातुमभीतिलम्भनेन प्रतिपन्नव्रतमस्ति दैवतं नः ॥१३४ ॥

अपि च ।

तमुपास्महे तपोधनमहिमार्जितपायसार्थपरिपाकम् ।
पङ्क्तिरथपार्थिवेन्दोरन्तिमऋणभागमोचनं द्रविणम् ॥१३५ ॥

भक्तिपरितोषिताशयकं कालिके कलितोपदेशविभवेन (?) ।
त्रिजगदरिष्टविदारणदीक्षादृढबद्धर(ल)क्ष्यतां यातम् ॥१३६ ॥

सुस्तं तस्य सुकेतं प्रभदनतनुमेदिनीप्रतप्तस्य(?) ।
आशरकुलाशनोद्यमभाजः(जं) प्रा (बा) णाहुतीकृतसुबाहुम् ॥१३७ ॥

अपि भ30[ग]वदङ्घ्रिरजसा संहितचिरलुप्तनियमिसंसारम्31
परिणीतधरणितनयं पशुपतिचापाधिरोपणपणेन ॥१३८॥

दैत्यभिदो धनुषा सममात्तभृगुप्रवरशक्तिसर्वस्वम् ।
त्रातारं वसुधाया अन्ते सह सीतयाऽनुभूतसुखम् ॥१३९ ॥

जगति परिग्रहयोग्या न खलु श्वश्रूरिति32 प्रतीत्येव ।
धरणिमनपेक्ष्य साकं तत्सुतयाध्युषितचित्रकूटतटम् ॥१४० ॥

स्ववशमुपेयुषि विभवे विमुखस्य भ्रातुरर्पितेन करे ।
चरणत्राणेन चिरं कारितवन्तं क्षमापरित्राणम् ॥१४१ ॥

आत्मीयादपि चास्त्रादतिरभसभृतो जवातिरेकेण ।
विस्मेरितामिदैत्य33 (?)व्यञ्जितकरुणं कृतागसि खगेऽपि ॥१४२॥

ना(सा)कमवगाहमानं जनकापत्येन दण्डकारण्यम् ।
चेतस्तपोधनानां शीतलमम्बश्च ‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘दायाः (?) ॥१४३ ॥

सेतुमिवारिमिवाब्धे(?)श्छेदितवन्तं निशाचरीनासाम्।
प्राग्(ह)तविराधपदविं चारितरक्षश्चतुर्दशसहस्रम्॥ १४४॥

उन्मीलितखरदूषणमुर्व्यांरिपुयशस्तिरोधानाय।
चिरकालविरहसीदन्मातृसदेशोपनीतमारीचम्॥ १४५॥

सदयोदयं सपक्षे पत्रिणि दशकण्ठयानपक्षेऽपि।
हनुमन्मुखेन संहितसुग्रीवं स्वप’‘‘‘‘‘‘भाजकबन्धे (?)॥ १४६॥

सालान्सप्तमहीद्रा(ध्रा)न्फणिपतिभवने च पत्रिणैकेन।
दारितवन्तं तरसा सव्यरविस्रम्भसम्पदं34 साकम्॥ १४७॥

विमतश्वापदमृगयाविधिशीलतया विधाय निजमूर्तिम्।
दत्तहतिमर्मनन्दनदीपकमृगवञ्चितात्मने हरये (?)॥ १४८॥

हरिणपदाना हरिणप्रतिघादिव दूरतः प्रयातायै।
मणिमणि (गण) मुद्रां प्रेषितवन्तं प्रेयसीमिव वयस्याम्॥ १४९॥ (?)

प्रस्प(सृ)मरमहः पुरेहे(?)सुदृशश्चूडामणौ समीरभुवा।
संप्रापितेऽपि संनिधिमाचितमोहान्धकारसंदोहम्॥ १५०॥

भुज(भव)जलधिकर्णधारं भजतादे(मे)नं क्रियान्भवाब्धिरिति।
सरुषा विभीषणेन प्रतिपत्तिकृताङ्घ्रिपाथोधिम्॥ १५१॥

दयया हृदयमरातेरनुजं राज्याभिषेकसलिलेन।
प्लावितवन्तम(न्तं ह्य)धिकं प्लवगभटानां च हर्षबाष्पेण॥ १५२॥

सेतुपथेन जितवति सुग्रीवभटे तटं सुवेलस्य।
अवधि जगति वृन्दं तान् प्रापितवन्तं प्रतापयशसी स्वे(?)॥ १५३॥

अखिलजगदन्तरङ्ग’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’।
आत्मन इवाश्रमस्थितमहिरवन्तं धनुर्गुणस्यापि॥ १५४॥ (?)

छादितसकलदिगन्तैः कपिभिः पुर एव कलितरोद (ध)स्य।
निजतेजस इव तापान्निर्याताय द्विषे प्रपदिष्टवधम्॥ १५५॥ (१)

हुतवहक(के)(नि)प(ष्प)तितां स्वकीयचारित्रशुद्धि(द्ध)विस्रता(म्भा)म्।
अधिरोप्य पुष्पकं पुनरायान्तं स न (सहैव) साकेतम्॥ १५६॥

प्रकृतिविरचिताभिषेकपाथः प्रमुदित”’’’’’’’’’’’’’’’’’’’’’’’’’’’’।
सकलभुवनमाद्य(?)शासनाङ्का मधिगतमखण्डितां समृद्धिम्॥ १५७॥

इति श्रीवाधूलकुलतिलकस्य। तिरात्रयाजिनः समरपुङ्गव-
दीक्षितस्य कृतौयात्राप्रबन्धेऽष्टमाश्वासः।

अथ नवमाश्वासः॥

’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’
‘’’’’’’’’’’’’’’’’’’’’’’’“निजभाववचः क्रियाभिः।

संभिद्य यत्र सुमनः सरिता रमन्ते
सागे(के)[ तके ] च (?) सरयूरपि गोमती च॥ १॥

नेदीयसीमतिचिराय निजैस्तपोभि-
र्वाराणसीं प्रति ततो वल’’’’’’’’’’’’’’’’’’’’’’’।

क्षेत्सान्तराज्यततिरेकमिव सह (?)
स्वेन व्यदायि जगतीतलपर्यवाट्याः (? )॥ २॥

प्रदक्षिणप्रक्रमजन्मनोर्व्याः क्लेशेन काशीमुपतिष्ठतीति।
कृपावती प्रक्लममस्य गङ्गा वातेन वीचीजनुषा व्यनैषीत्॥ ३॥

अनन्तरमवनीसुरधुरंधरेण गच्छता पथि स्वच्छन्दमानन्दनिजभरेण (?) ‘’’’’’’’’’’’’’’’’’’“भ्यधायि। आः कथमग्रत एव हयखुरक्षुण्णमेदिनीक्षोदमेदस्विभावमासेदुषि समुदये दिशामनुकूलपवनदोलायिताञ्चलैः’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘शतशः शताङ्गपीता’’’’’’’’’’’’’’’’’’’’’’’’’’” कावेरीव समावेद्यमानसरणिः परिषदियमालक्ष्यते। अद्य खलु माघचतुदेशीवासरे वाराणसीनगरवास्तव्यस्य शर्वरीरमणचूडामणेः समाराधनाय भक्तिपरवतीयं प्रस्थितवती। अहो पुनरमुष्य वासरविशेषस्य वैभवातिशयः।

जनयति शिवरात्रिव्रतसंकल्पो विश्वसृष्टिसंकल्पम्।
जागरणं चार्याणां सकलजगद्भारभरणजागरणम्॥ ४॥

आश्रितगिरीशपार्श्वेरपनीतनिमेषवर्तनायातैः।
पदरि(?)समाक्रमचकितैश्चतुरैरतिवाह्यते शिवरात्रिः॥ ५॥

अवाप्तुमिच्छा यदि वामहर्निशं प्रजाग्रतोः पङ्कजयोः सगन्धताम्।
विधीयतामस्तनिमेषमुद्रणं दृशौ युवाभ्यां शिवरात्रिजागरः (रे)॥ ६॥

अनिमेषता जनानामनिमेषत्वाय भवतु शिवरात्रौ।
इह पुनरभक्तभावो हेतुः कथमीश भक्तभावस्य॥ ७॥

शिवरात्र्युपविधेः शीलं यामि “‘‘‘‘‘‘‘‘‘‘‘यतकृतीनाम्।
शिव जगत्कदम्बककरोषि तृप्तये “‘‘‘‘‘‘‘‘‘‘‘‘नालम्॥ ८॥ (?)

‘‘‘‘‘‘‘‘औषवस्त्यमविशातरात्रिः’‘‘‘‘‘‘‘‘‘‘‘‘‘हसा हसन् जनः।
अत्र सिद्ध्यति यतोति रामणौ कालकूटगरलेन हारिणा॥ ९॥ (?)

येस्थाणुतांगिरिशयोग्यदला(लो)पहारै-
र्बिल्वद्रुमस्य शिवरात्रिदिने दिशन्ति।

संसारिणामुदयते[भविकं हि] तेषा -
मात्मीयकर्मफलमत्र न को नु भुङ्क्ते॥ १०॥

अहो मम पचेलिमानां प्राचीनतपसामनुभावो यदस्मिन्नहनि विस्मयातिरेकमुपहरिष्यति मदीयं चक्षुषोरसदृशप्रभावसाधीयसी वाराणसी।

अभ्यर्थ्य जम्भरिपुणापि वितीर्यमाणं
सर्गानिकाममपि गणाय मत्पतीक्ष्णान्।

अस्मत्पितृन्नियतमद्य निजाग्रहस्तं
न्यस्तार्प्यपात्रमुपयास्यति नाभिजन्मा॥ ११॥ (?)

कथमिवैतस्य कथयामि महिमानमानन्दकाननस्य।

कैलासशैलादपिकामशत्रोश्चेतोविनोदोपचयप्रदात्री।
काशी भवाशीविषवैनतेय(सत्)पाटिका पाटयते तमांसि॥ १२॥ (१)

बिभर्ति चन्द्रः शशमित्यकीर्तिं कुले निरूढामपनेतुकामः।
वाराणसीजाङ्गलवर्त्मचारी प्रायेण चन्द्रं बिभृते शशोऽपि॥ १३॥

अधिकाशि तरक्षुरामिषस्पृहया संहरति ’’’’ वलिमृगम्।
अजिनग्रहणाय राहोर्हरिणश्चायममुं मृगादनम्(१)।

काश्यामुमाकामुकराजधान्यामैश्वर्यलोभेन कृतासिकानाम्।
कैश्चिद्दिनैरेव वयस्यकोटौसंख्येयतामेति घनं शिवोऽपि॥ १४॥

अखण्डमैश्वर्यमपेक्षमाणाः कथं नु काशीं पुरुषा भजन्ति।
भवन्ति यस्यां बहुसंपदोऽपि भिक्षाकमध्ये प्रथमं गणेयाः॥ १५

यातुं कुत्र सखे व्यवस्यसि (ति) महाम्या(भवाना)नन्दवन्यन्तरे
मा गाः केन ततो गतस्य न मया दृष्टं परावर्तनम्।

कस्मात्तत्र समेयुषां वसुभृतां वर्ण्यादिपूर्वस्थितिं
कोऽप्युत्सार्य बलात्प्रयच्छति निजं रूपं किराताग्रणीः॥ १६॥

अविद्यायां द्वेषं चिरपरिचितायां घटयते
निरुन्धे तत्सूनोरपि च मनसो लालनविधिम्।

न कामक्रोधादीनपि तु सहते तस्य तनया-
नहो पुंसः काश्यामभिनवजनिः प्रेमगरिमा॥ १७॥

अहो भाग्यं काशीवसतिरसिकानां तनुभृतां
यतो भोगानेते चिरमिह समास्वाद्य विविधान्।

अलभ्यां ब्रह्मादेरपि समधिकानन्दभरितां
भजन्ते देहान्ते परमशिवसायुज्यपदवीम्॥ १८॥

पुरा भोगत्यागः श्रवणमथ वेदान्तवचसा -
मथोद्बोधः पश्चादमृतमिति शैलीसुलभता।

यदर्चामाहात्म्यात्सकृदुपगता निग्रहवता-
मलं मुक्त्यै काशीपुरभुवि निवासः क्षणमपि॥ १९॥

आहितनरकावज्ञान् विमुक्तरमाविलासपरितुष्टीन्।
उच्चैः स्थापितगोत्रानुपास्यते(स्महे) चेतसा महापुरुषान्॥ २०॥

वरणो(र्णो)ज्ज्वलम(प्र)सिद्धां करिमुखजलपाति(लि)तां पुरीं पुरुषाः।
भैरवदुर्गाधिष्ठितमध्यामध्यासते स्वरक्षायै॥ २१॥

वसतिरविहता परस्य पुंसो भवति तपोभरवैभवेन काश्याम्।
जगदवनपरायणस्य शंभोःस्फुरति कृपालहरीव यत्र गङ्गा॥ २२॥

[वाराणसी] वासविदामविघ्नां दिशन्तु देवा मम भैरवाद्याः।
दिने दिने सादरमानतीनां शतं शतं प्राभृतयानि तेषाम्॥ २३॥

निरुपप्लवनिर्मलस्वभावं परमानन्दघनं प्रबोधसान्द्रम् \।
गिरिजागिरिजापयोः स्वरूपं परिपश्यन्त्यधिकाशि भाग्यभाजः॥ २४॥

आरूढशार्करमपावन्नहनि(?)माश्लिष्टपार्श्वमुमया हरिणाङ्कचूडम्।
भग्नार्धमूर्तिरुदके मणिकर्णिकायाः पुण्यैः कदा पुरत एव विलोकयिष्ये॥ २५॥

अस्तीति निर्धार्यमकृत्रिमोक्त्या निरञ्जनैरेव निरीक्षणीयम्।
आश्चर्यमानन्दनिधिं कदा वा द्रक्ष्यामि तीरे मणिकर्णिकायाः॥ २६॥

भो भो मन्मथलोभमत्सरमदव्यामोहरोषाः सुखं
युष्माभिः क्षपितानि भूरिदिवसान्यस्मासु क्लृप्तासिकैः।

देशानद्य यथामनीषितमितो याता न जानीमहे
यास्यामो भवतामगम्यविषयामेतर्हि वाराणसीम्॥ २७॥

तदनु धरित्रीसुधाशनपवित्रीक्रियमाणसमाश्रितजीववर्गमपवर्गफलप्रदानकल्पलतोद्यानमविमुक्तमवलोकयन्नतिनाकसुखभरतरङ्गितो गिरं कृतनवीनमाध्वीकदूषणां साध्वीमिमामभाषत।

वाराणसि त्रिपुरवैरिकरारविन्दा-
देकं त्वया विधिशिरो हृतमामनन्ति।

आसेदुषे सविधमङ्गभृते कदा वा
वेधःकरोटिविततां प्रवदानि मालाम्॥ २८॥ (?)

इदं खलु त्रैलोक्यमहनीयमभ्यर्णवितृणा(?)मधिकर्णपुटं वर्णयतः प्रणवमपर्णासहायस्य वक्त्रेन्दुविगलितैर्विद्यासुधार’‘‘‘‘‘‘‘‘विव विहितपरिपूरणं निर्वेलं भवतापनिर्वापणक्षममालक्ष्यते परमपावनतीर्थसमुदयाग्रेसरं च कृतं सरः ‘’’’’’’’’’’’’’’।

अतिकलिलनायिन्यामा नाकमा च रसातला-
दिह भरपरीवाहैर्दैवादियं पुरतो मया।

उरुविमलताहेतुः पाथः प्रसन्नमुपेयुषी
निखिलजगतीमान्या संवर्ण्यते मणिकर्णिका॥ २९॥ (?)

स्वयमास सुदर्शनं खनित्रं खननेऽस्यामुरशाखिलैव कर्ता(?)।
अभिपूर्तिविधायितभ्रयांभस्त्रिदयं (?) तावदगोचरे नुतीनाम्॥ ३०॥

परस्य पुंसः प्रसृताधिराजादारान्मदीयं मुहुरापतन्ति।
आश्लिष्यती मामवमूर्मिहस्तैः सर्वस्य रम्यः सहजः स योगः॥३१॥

कैवल्यमानक्षमतैकराज्यवैराज्यमूलानवधार्य दोषान्।
गङ्गानया क्लृप्तविभेदलेशं मेघावती हेलनमादधाति॥ ३२॥

नियतं बिभर्ति निटिलेक्षणायिता-
मपसार्य मूर्तिमगजेव जाह्नवी।

अत एव भागमद्सीयमेककं
मणिकर्णिका किमपि मण्डयत्यसौ॥ ३३॥

कल्लोलमन्दपवनैर्गगनोपगीय -
मासेवते जनमिमां(वा)ति(न्ति)मयाव(न)काले\।

भूरिश्रवापनयपूर्यममुप्य मूर्ध्नि
निक्षिप्यमुद्यमवतीव निजाम्बुभारम्॥ ३४॥ (?)

उदयिता(?)किलेन्द्रियोपघाते विषमे जीवितविप्रयोगकाले।
इह दैवतमेकमाविरास्तेजलदश्यामलकंधर(रो)जनानाम्॥ ३५॥

अत्रासूविजहाति सः शिव शिवेत्याकर्ण्य कण्ठध्वनौ
देवींभूषयितुं गृहीतमनघं धृत्वैव सारं करे।

आदावप्यतिसंभ्रमेण भगवानर्धेन्दुचूडामणिः
सर्पादेय(व)विमुक्तिवामदृगलंकारं विधास्यन्निव॥ ३६॥

ओंकारमन्त्र(त्र)विपरीतमुपैतु पाणि-
मालम्ब्य शैलजनुषो मुहुरद्रिधन्वा।

पाशावमोचनकरी परमोत्त(क्त)विद्या
सैषी(षे )ति किं प्रकटनाय शरीरभाजाम्॥ ३७॥ (?)

तीरेऽस्याः स्थिरशयनस्पृशां जनानां
तत्तादृग् विषभजने ततो द्रुमाणाम्।

आनन्दद्रविणभरापणो विबद्धः
पार्वत्याः पतिरधमर्णलोकशैलीम्॥ ३८॥ (१)

श्रमातुराणां चिरकालबन्धादत्रामृतास्वादकृते पशूनाम्।
तेषामधीशो दयमानचेताः पाशापनीतं(तिं) प्रसभं विधत्ते॥ ३९॥

प्रेङ्खद्रथाभीशुभरापदेशादत्रोपदेशावसरे महेशः।
कुतर्कघोषाविलमङ्गभाजां कर्णान्तरं लक्षयतीव तोयैः॥ ४०॥

त्रयीरहस्यं विचितं तपोधनैरनेकवर्णास्पदमेकमक्षरम्।
शरीरिणामत्र शशाङ्कशेस्वरोव्यक्त(क्ति)प(पु)र्यामपि वेद्यमप्युभे (१)॥ ४१॥

अस्तंकलानामिह षोडशानामादाय दोषाकरमण्डलस्य।
सतारकस्फर्तिरहो समग्रमस्यामृतं पुष्यति कालकालः॥ ४२॥

जन्तुः शृणोतीह वृषाङ्कवक्त्रादोंकारमुत्तम्बितपश्चिमाम्भः।
वामाकृते राशिवधूभवन्त्याः प्रकाशनेमि हृदि वाति लज्जाम् (१)॥४३॥

भगवदरञ्जतोरन्तः अन्तः प्रणवाम्यतं (?)
स्वमुखशशिनः सारं शूली विसारयतीह सः।

’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’
‘’’’’’’’’’’’’’’’” लिह्यमानमिव स्थितम्॥ ४४॥

विद्याविक्षतिसंभ्रमेण मुकुटाद्विश्वेश्वरोऽपि स्थिता-
मादत्ते मुहुरैन्दवीमिह कलामाधातुकामः पथि।

कांचिन्मौक्तिककुञ्चिकामिव नवां सद्यः प्रसन्नेप्सित-
स्फीतामोदनिदानकोशभवन[द्वा]रार्गलोद्घाटिकाम्॥ ४५॥

चूडा शिक्षुतविषक्तसुधैकलेश-
व्याजादिह प्रण[य]दानविधौ पिनाकी।

मध्येललाटफलकं मनुजस्य दृष्टिं
कर्तुं पुरा किमपि कल्पयतीव चिह्नम्॥ ४६॥

इह पतिरखिलानामेकहस्तेऽवरुन्धन्
समयसुरभिपाय(?)शङ्कया ब्रह्मरन्ध्रम्।

परिकलयतु मत्तः पाणिनान्येन जन्तोः
श्रवणमपि च गृह्णन्स्यन्दयत्युक्तिसारम्॥ ४७॥

तारकार्धविवृतं तनुभाजां कुर्वतः कुमुदिनीविटमौलेः।
श्लाघते चतुरतामिव चञ्चन् दक्षिणेतरवपुःस्तनकुम्भः॥ ४८॥

वपुरर्पयतीव विश्वभर्त्रेजनता जीवितमोचनच्छलेन।
प्रणवाक्षर(वर्णना)पदेशादुररीकारमिवातनोति सोऽपि॥ ४९॥

प्रणवयमेव तिलकं प्रियामुखे लिखति वासनातिशयात्।
अनुसंधातुमिवेशामनुनेष्यन्नहह करुणविवशतां नीतः॥ ५०॥

त्वरितमभितो धावं धावं कृपातिशयात्प्रभो -
रतिसुकृतिनां कर्णेष्वोंकारमत्र विवृण्वतः।

अनभिबलपतः’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’
स जयतितरां शश्वन्निःश्रेयसार्पणविभ्रमः॥ ५१॥

असौ पुनरत्र निर्वर्तितावगाहविधिरतिवादितार्धनिदाघसंज्वरो निरञ्जनहृदयसङ्घनिःशङ्कविहृतिमन्दिरं चिरंतनसुन्दरीसीमन्तसरणिमौक्तिकं समस्तजगन्नमस्क्रियासंकेतशालिकान्तारमङ्गजानुरागसागरहरिणाङ्कपरिणताननं द्युमणिमरीचिकोच्चयदुर्जयतमोनिषूदनमनतिकषायचेतसामदृश्यगतिं पश्यतिस्म विश्वपतिम्।

पुरत्रयी येन पुरा व्यधायि मन्दारमाला भवता रणेन।
मन्दाकिनी यापि च मौलिभागे मन्दारमाला भवतारणेन॥ ५२॥

निध्याय च निटिललोचनबद्धानतिरिदमवोचत।

स्वर्धुनी प्रकृतितो जलाकृतिः कालिकाश्रितकुटुम्बघातिका।
धूर्जटे त्वमपि धूर्तशेखरो हा तथापि कथमाश्रयन्ति वः॥ ५३॥

विश्वेश्वरत्वं निखिलेश्वराणामाब्रह्मकीटं फलमेकरूपम्।
सर्वेश्वरः प्राणिषु तुल्यवृत्तेः कथं नु सेवां तब कल्पयामः॥ ५४॥

लोके महान् लुब्ध इति प्रवादो मुदा न ते मुग्ध शशाङ्कमौले।
यतः समीपे तव याचकानां प्राणप्रहाणावधिरिष्टलाभः॥ ५५॥

किं तस्य ते वच्मि गिरीन्द्रकन्याकान्तस्य कर्णे जनुतोऽनुभावम्।
यस्यैकदेशे निहितेऽपि या(म)र्त्या भवन्ति दारप्रमुखे पराञ्चः॥ ५६॥

मान्त्रिकेषु महितो भवान् यतो देहिनस्त्वदुपदेशवैभवात्।
हालहालमपि पातुमीशते नेतुमा[भ]रणतामहीनपि॥५७॥

अन्या माध्यमपीतदेहपतनत्रासं’‘‘‘‘‘‘घापालिता
देहेष्वेकपरिक्षयेऽपि भवतां त्राताऽस्मि देहाष्टकम्।

त्रय्यन्ता इह संक्षिता दधत इत्यर्धं जगत्प्राणिनां
व्यक्तं वक्तुमिव प्रकाशिततनुं काश्यां भवं तं नमः॥५८॥

सान्द्रानन्दपयोधिवर्धकविधुंसंसारविन्ध्याटवी-
दावाग्निंसनकादितापसमनोधामप्रदीपाङ्कुरम्।

वेदान्तोपवनान्तरालसततव्यापारकेलीशुकं
काशीकल्पलताफलं भज मनः कात्यायनीकामुकम्॥५९॥

कान्तया सह शुभालकान्तया मूर्तयेव कृपयैकमूर्तये।
सर्वदा नतिरस्तु सर्वदा नाकिनेत्रमणये पिनाकिने॥६०॥

सेवित्वा चिरमचलात्मजासनाथं
विश्वेशं विसृमरसंपदान्तरङ्गम्।

धन्योऽयं तदनु शनैःशनैरयासी-
दावासं त्रिभुवनमातुरन्नदात्र्याः॥६१॥

कृतावनतिरम्बायै सतामयतु(म)पश्चिमः।
अपारकरुणामेनामुपातिष्ठत सूक्तिभिः॥६२॥

इष्टातिथिं कृतकलामनसौरभेयी
मृष्टान्नहारमृगनाभिमुखैरुदाराम्।

सेबाकृतं मयि गृहं श्रियमावहन्ति
सौवानना पशुपतेरिह संनिधत्ताम्॥६३॥(१)

दर्वीशरावौ कृतकङ्कणाभ्यां संबिभ्रती पाणिसरोरुहाभ्याम्।
पट्टांशुकं पाटलमुद्वहन्ती काचित्पुरस्तात् [करुणा] ममास्ताम्॥६४॥

त्वमन्नपूर्णापि कृशासिमध्ये श्यामासि संफुल्लजपाभिरामा।
छन्दोवनस्थाप्यवनप्रसक्ता बन्दारुमन्दारलताप्यपर्णा॥६५॥

निरस्तवेलानियमं विमुक्तचिरन्तनागन्तुजनव्यवस्थम्।
व्यसेपवेधः कृमिभेदचिन्त(?) मगात्मजे नौमि तवान्नदानम्॥ ६६॥

अपोभिरष्टादशभेदशालिरसैरिह त्वामतिरञ्जयित्रीम्।
न स्तोतुमीष्टे नलिनासहो(नो)ऽपि वाचं रसैर्वासयिता तदर्थैः॥ ६७॥

आर्येमुहुः केवलमर्थमन्नैः पुष्णासि वाचं न पुनः कदापि।
भवत्स्वरूपप्रतिपादने किमतः प्रयातीयमशक्तिमत्ताम्॥ ६८॥

प्राचीनवाचापि परं दुरापां त्वामीडितुं यत्त्वरते रसज्ञा।
निदानमस्मिन्भवदीयदर्वीनिवेशदिव्यान्नरसाभिलाषः॥ ६९॥

न स्तौति क्लृप्तान्नमयादिपोषा’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’।
संबिभ्रतः स्वीयशरीरमात्रं जनस्य का वा जगति प्रशंसा॥ ७०॥

त्वामोषधिप्रस्थपतेस्तनूजां प्राचीनभिक्षाकपरिप्लवाक्षीम्।
अकिंचनाग्रेसरमध्यगेयां वयं कथं विश्वसिमोऽन्नदात्रीम्॥ ७१॥

न विद्यते पाकसमुद्यमस्ते नैकत्र( वा ) भोक्तृजना मिलन्ति।
जगत्त्रयीतृप्तिकरं तथापि चित्रीयते देवि तवान्नदानम्॥ ७२॥

केलीकृते श्रीरिव सारसं वा वाणीव पाणौ मणिवल्लकी वा।
दधासि चेदम्ब विधूय दर्वीं कथं त्रिलोकी कुशलं लभेत॥ ७३॥

वैषम्यशाली वलते जनेषु पदाब्जयोः शारदयोः प्रसादः।
हिताशनैरेधयितुं त्रिलोकीं दधे तु (?) जागर्तु तवाम्बिकायाः॥ ७४॥

अवस्थिता भर्तुरमुक्तपार्श्वमार्तातिथीनामवनं च भोज्यैः।
भवानि कर्तुं यदतिप्रवीणा गुणः किलायं कुलपालिकानाम्॥ ७५॥

आर्तिस्पृशामम्ब सुखासु(नु)भूते (ति)रापादि नानाखिलदेहभाजाम्।
आहारदाने नियमस्तवायमर्थे परेषामनघाय तत्ते॥ ७६॥

अशेषलोकावनमम्ब भोज्यैः कर्तव्यमित्येव करोषि बुद्ध्या।
तामालिदो(?) दासजनाभिपोषमावश्यकं प्राहुरधीश्वराणाम्॥ ७७॥

स्वार्धं प्रियं सर्वमितीरयन्ती मृषेतरा वागपि सा मृषैव।
आदिश्य किं पुष्यसि विश्वमन्ते स्वमम्बसंप्राप्तसमस्तकामा॥ ७८॥

कार्या न किं कान्तपदाब्जसेवा नास्ति श्रमः कापि न किंकरीति।
अङ्गानि धन्ये स्मयमङ्गभाजां दवमसंत्यज्य धृतां दधासि॥ ७९॥

त्वमेव दर्वीर्दधतः क्षुधार्तान्पुष्णासि भूयस्यपि दासलोके।
स्वपुत्ररक्षाविषये सवित्री परत्र न प्रत्ययमादधाति॥ ८०॥

संतर्पयस्यम्ब सदान्नदानैरागन्तुलोकानपि पार(ल)यन्ती।
आद्यस्य भिक्षोरनपायि नित्यं जानानि धिनार्तिजनप्रयासान् (?)॥ ८१॥

भैक्ष्याय मातः प्रतिवीथि काश्यामितस्ततो यान्तमतिक्षुधा माम्।
आहूय वत्सेत्यनुवेलमन्नैर्विधेहि सौहित्यविशेषभाजम्॥ ८२॥

दर्व्या प्रपञ्चे तव रक्ष्यमाणे विहाय चिन्तां रमते वृषाङ्कः।
सधर्मिणी चेच्चरितानुरोधात्कुटुम्बिनः शर्म कुतस्ततोऽपि॥ ८३॥

प्रपञ्चमन्नैः परिपोषयन्त्यामार्येभवत्याममृतांशुमौलेः।
भिक्षाटनं प्राभवजृम्भितेषु क्रीडाविभेदेषुगणेयमासीत्॥ ८४॥

भ्रातु(मात)र्भवप्रार्थनदैवमिन्दोरग्लान्तक्लृप्ताश्रयणस्य कार्श्यम्।
क्षेप्तुं भिवोर्भिक्षुकृतां च मातः क्षमेतरा त्वं कथमन्नपूर्णा॥ ८५॥ ( १ )

अज्ञातमन्यैरमितान्नदानादैश्वर्यमैशं भवती न्यनः(व्यनक्ति)।
प्रकाशभावं प्रमदामुखेन प्रयाति गुप्तोऽसि(पि)भृशं किलार्थः॥ ८६॥

आस्तांनि’’’’’’” श्मशानं वस्तां त्वचं वा विभु( वपु )रस्य भूतिम्।
कथं विधत्तामखिलं किलेदं सत्यन्नपूर्णे तव संविधाने॥८७॥

ईर्ष्या किमाशाय गिरं वितीर्य गणे सुराणां’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘तौधे। ( ? )
दिवानिशं देवि सुधान्नवृष्ट्या धिनोषि यत्त्रीण्यपि विष्टपानि॥ ८८॥

जगन्मुखारोपणकृत्कपालं पतिर्दधावित्ययशः प्रमार्ष्टुम्।
किमम्ब गृह्णासि करेण दर्वींप्रतिक्षणं विश्वजनप्रतीक्ष्याम्॥ ८९॥

त्रैलोक्यकुक्षिंभरिणा हरेण ताभ्यां च लम्बोदरषण्मुखाभ्याम्।
अधिष्ठिते धाम्नि तवान्नभूमा जयत्ययं देवि जनार्तिहारी॥ ९०॥

तवास्पदं दातुमरुद्गवीनी(?)माक्रान्तमुद्यानममर्त्यसालैः।
वेश्माभिचिन्तामणिभिः प्रणीतं विश्राणनेनास्य किमम्ब भारः॥ ९१॥

सर्वातिथि(थीं)स्त्वं खलु सर्वकालं निश्चिन्तमन्नानि दिशस्यपर्णे।
न तत्र हेत्वन्तरमन्तरेण न्यग्रोधमालोग्रजपं प्रियं ते॥९२॥

मातर्विशालाक्षि महार्हचेलस्रगङ्गरागप्रभृतौ स्वभूतिम्।
सदोपयुङ्क्तेयदि शैलधन्वा कथं तदा ते घटतेऽन्नदानम्॥९३॥

त्रैलोक्यसंतर्पणदानजन्मा दूरे गिरां त्वत्सुकृतातिरेकः।
आस्ते कपर्दी यदनुग्रहेण वेधोमुखामर्त्यविरामसाक्षी॥९४॥

स्रष्टुं प्रतिष्ठापयितुं जगन्ति हर्तुं तिरस्कर्तुमनुग्रहीतुम्।
पितामहाद्याः प्रभवन्ति यत्ते सवित्रि दर्वीविभवः स एषः॥९५॥

समाप्य नाथे सवनं द्वितीयमारब्धदीनागमनप्रतीक्षे।
नवीनमन्नं नगजे भवत्या प्रदीयतां प्राघुणिकाय मह्यम्॥९६॥

अपास्य षाण्मातुरमर्धपीतवक्षोजमम्यागतवत्सले त्वम्।
आगत्य वेगादमृतौदनं मे पिनाकपाणिप्रमदे प्रदेहि॥९७॥

आनर्धमाणीकृशरापमध्यादार्तेन(?) कार्तस्वरदर्विकायाम्।
भैक्षेण दाक्षायण पावनेन मनोरथं पूरय मामकीनम्॥९८॥

संतन्वतेव स्वमणीकलम्पटे’‘‘‘‘‘‘‘षूपदेशात्कृशतानुयोगात्। ( ?)
हस्तेन कात्यायनि हन्त कामं विश्राणय श्रान्तिविनोदनं मे॥९९॥

हैयङ्गवीनस्रुतिशालिहस्तनखंपचं नव्यसितानमार्धम्।
करस्फुरत्काञ्चनभाजनात्ते भवानि दिव्यं दिश पायसान्नम्॥१००॥

शोऽनुकम्पारसदीर्घिकाया नीलारविन्दैरिव निर्जहानैः (१)।
अपाङ्गपातैरनुगृह्यमातरामोदयान्नैरिममन्नपूर्णे॥१०१॥

श्रान्तः क्षुधा सायमहर्मुखे वात्यन्नं दिश द्वारमुपैमि यावत्।
शिञ्जानमञ्जीरपदं समेत्य प्रयच्छ मे पार्वति तावदन्नम्॥१०२॥

आविष्कृतप्रार्थनमप्यकाले वीतक्षुधं मां गिरिजे विधेहि।
प्रतीक्षते किं पृथुको जनन्याः स्तन्यामृतासारसमृद्धिवेलाम्॥१०३॥

अवश्यकर्तव्यतयानुवेलं महान्ति कर्माणि सदा दिशन्ति।
पर्याप्तमम्ब प्रतिपादयान्नं कर्तुं न किंचित्क्षप्त्मते बुभुक्षुः॥१०४॥

नित्यान्नदे मे निजमूर्तिभारमचिन्तयित्वाशनमर्पयेथाः।
आदाय दर्वींक्वचिदासिकायै जगज्जनन्याः समयः कुतस्ते॥ १०५॥

दूरे क्षिपन्ती गुणदोषचिन्तामिष्टाशनैरेधय मामनव्यम्।
निजे तनूजे किल निर्गुणेऽपि व्यनक्ति वात्सल्यभरं सवित्री॥ १०६॥

अन्नार्थिनं मां यदि चेद्धुनोषि कृपापराची गणये किमन्यत्।
‘’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’॥ १०७॥

दर्वीपायसभाजने कलयता युग्मेन हस्ताब्जयो-
रप्रत्यूहविभावितत्रिजगतीभिक्षाकनेत्रोत्सवा।

वाचालाभरणं महानसगृहादन्नोपहारेच्छया
निर्यास्ती परदेवता मम मुहुश्चिन्तापथं गाहताम्॥ १०८॥

स्तन्यास्वादकृते निरुध्य पुरतः संतन्वते प्रार्थनां
सेनान्ये सति पूर्वकायमसकृत् स्थित्या दिशन्ती स्तनौ।

अस्तस्वेदपयःकणां(णा)प्रणयिनो हस्तेन वक्त्रादुमां(मा)
मृष्टान्नार्पणमर्थिनां विदधती(ती)मेधा महा(या)लम्ब(म्ब्य)ते॥१०९॥

स्मेरस्मेरमलीकचित्रकपरामर्शी श्रमाम्बोर्लवं
दिव्यास्ते व्यजनानिलाद्धरचलोत्तंसं दधाना मुखम् ( ?)।

चेतो मे न जहातु सा भगवती कृत्वातिथेयीं कृपा-
माशी[राशि]परा गिरीशवसतिं प्रत्याव्रजन्ती जनैः॥ ११०॥

दृढभक्तितरङ्गितक्रमामथ मश्यन्नधिकालि देवताः।
अविगाढपरं मनोगिरामधितानन्दममन्दमास्तिकः॥ १११॥

आर्यश्चक्रसरोवगाहनियमैरश्रान्तयात्राक्रमै-
रस्माकं द्विजनौहितीविरचनैरावश्यकैरध्वरैः।

विद्याव्याकरणैश्च शिष्यसदसे विश्वेशमाराधयन्
वाधूलान्वयमौलिरावसदसौ वाराणसीमृद्धिमान्॥ ११२॥

प्रालेयादिसुतासहीयभजनप्रेमानुबन्धस्पृशे
विद्याशीलविनीत’‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘‘पो विश्राणनासङ्गिने।

स्त्रैणपराङ्मुखाय ‘‘‘‘‘‘‘‘‘करुणामूर्तिं ’’’’’’’’’’’’’’ संविभ्रते
मूर्ध्ना संनतिमग्रजाय महते मोदान्मुहुः कुर्महे॥११३॥

इति श्रीवाधूलकुलजलधिकौस्तुभस्यातिरात्रयाजिनः साहित्यगुरोः कनकाठपाठ-
बिरुदाङ्कस्य वेङ्कटेशसुमतिसहधर्मिणीमण्यनन्तम्मागर्भशुक्तिमुक्तामणेः
समरपुङ्गवदीक्षितस्य कृतौ चम्पूकाव्ये यात्राप्रबन्धे
परिपूर्तिशोभितविलासो नाम नवमश्वासः॥

वीतस्पृहाय विरजस्तमसे समस्त-
शास्त्र[श्रुति]स्मृतिविदे समदर्शनाय।

सिद्धाशिषे भगवदङ्घ्रिसमस्तभक्ति-
सान्द्रप्रसन्नमनसे सदसे नमोऽस्तु॥

समाप्तोऽयं ग्रन्थः।

____________

]


  1. “साहित्यदर्पणादिषु सट्टकमिति नाम दृश्यते.” ↩︎

  2. “‘प्रारब्धिका ’ इति कामराजकृतटीकायाम्; ‘प्रतिस्पर्धिका’ इति पुस्तकान्तरे; ‘पापर्द्धिका मृगया’ इत्येकस्मिन्मूलपुस्तके टिप्पणम्” ↩︎

  3. “महोदयमिति कान्यकुब्जनगरस्य नामान्तरम्.” ↩︎

  4. “मुरल- मेकल - कलिङ्ग- केरल-कुलूत - कुन्तल - रमठाख्या देशविशेषाः " ↩︎

  5. “पाकलो हस्तिज्वरः ‘गान्धाराधिपगन्ध-द्विपपाकलः’ इति हर्षचरितम्. ‘कलभं कठोर इव कूटपाकलः’ इति मालतीमाधवे भवभूतिः. पाकल एव कूटपाकलः” ↩︎

  6. “आदिष्टोऽस्मि - श्रीमहीपालदेवेन, यस्येमां पुराविदः प्रशस्तिगाथामुदाहरन्ति - ’ यः संसृत्य प्रकृतिगहनामार्यचाणक्यनीतिं जित्वा नन्दान्कुसुमनगरं चन्द्रगुप्तो जिगाय । कर्णाटत्वं ध्रुवमुपगतानद्य तानेव हन्तुं दोर्दर्पान्यः स पुनरभवच्छ्रीमहीपाल देवः ॥ इति चण्डकौशिके आर्यक्षेमीश्वरः स एवायमपि महीपालदेव इति तु न निश्वयः.” ↩︎

  7. “अयं श्लोको महाभारते वर्तते” ↩︎

  8. “राधा धन्विनां लक्ष्यविशेषः” ↩︎

  9. " ‘इत इतः कुमारधृष्टद्युम्नो भर्तृदारिका च’ इति च्छाया.” ↩︎

  10. “’ इत इतो भर्तृदारिका। शिबिकावाहिनः, वासमादिशन्तु। (? ↩︎

  11. " ’ व्योमाग्रमारोहतः’ इति पाठान्तरम्.” ↩︎

  12. “इतः प्रभृत्यादर्शपुस्तके प्राकृतं त्यक्त्वा केवलं तच्छायैव लिखितास्ति.” ↩︎

  13. “चन्द्रस्य” ↩︎

  14. “करकः कमण्डलुः.” ↩︎

  15. “भीष्माय” ↩︎

  16. “प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः” ↩︎

  17. “अयं श्लोकोऽग्रिमश्चोमौमहाभारतस्थौ” ↩︎

  18. “उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणौचित्यविचारचर्चायाम्” ↩︎

  19. “आकाशस्थ गृहविशेषेण स च सर्वताराभ्यः कान्तिमान्स्थूलश्च.” ↩︎

  20. “प्राकृतच्छायेयम्” ↩︎

  21. “कोटवी नग्ना स्त्री.” ↩︎

  22. “इयमपि प्राकृतच्छाया” ↩︎

  23. ../books_images/U-IMG-1727539288Screenshot(99 ↩︎

  24. “‘माशा’ इति पाठः.” ↩︎

  25. " कावेरीं नदीम्।" ↩︎

  26. “निवृत्तीति भवेत्।” ↩︎

  27. “यावद्विश्वेति भवेत्.” ↩︎

  28. “वेदत्रयीति प्रतिभाति.” ↩︎

  29. " ‘हैयङ्गवीननिर्गमसमये’ इत्युचितं प्रतिभाति ." ↩︎

  30. “भगवतः स्वस्येति व्याख्येयम्.” ↩︎

  31. “नियमोऽस्यास्तीति नियमी मुनिः अत्र गौतमस्तस्य संसारोऽहल्येति बोध्यम्.” ↩︎

  32. “श्वश्रूः पृथिवी.” ↩︎

  33. “विस्मापिता दितेयमितिसंभवति” ↩︎

  34. “सत्वरेति प्रतिभाति” ↩︎