(नान्दी)
धूमव्याकुलदृष्टिर् इन्दुकिरणैर् आह्लादिताक्षी पुनः पश्यन्ति वरम् उत्सुकाऽनतमुखी भूयो ह्रिया ब्रह्मणः ।
सेर्ष्या पादनखेन्दुदर्पणगते गङ्गाम् दधाने हरे स्पर्शाद् उत्पुलका करग्रहविधौ गौरी शिवायाऽस्तु वः ॥१॥
अपि च: - कैलासाद्राव् उदस्ते परिचलति गणेसूऽल्लसत्कौतुकेषु क्रोडम् मातुः कुमारे विशति विषमुचि प्रेक्षमाणे सरोषम् ।
पादावष्टम्भसीदद्वपुषि दशमुखे याति पातालमूलं क्रुद्धोऽप्य् आश्लिष्टमूर्तिर् भयघनम् उमया पातु तुष्टः शिवो नः ॥२॥
(नान्द्यन्ते)
सूत्रधारः - (परिक्रम्य) अद्याऽहं वसन्तोत्सवे सबहुमानम् आहूय नानादिग्देशाद् आगतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोऽक्तः: यथा ऽस्मत्स्वामिना श्री-हर्षदेवेनाऽपूर्ववस्तुरचनालङ्कृता प्रियदर्शिका नाम नाटिका कृतेऽत्य् अस्माभिः ष्रोत्रपरम्परया श्रुतम्, न तु प्रयोगतो दृष्टा ।
तत् तस्यैऽव राज्ञः सर्वजनहृदयाह्लादिनो बहुमानाद् अस्मासु चाऽनुग्रहबुद्ध्या यथावत् प्रयोगेण त्वया नाटयितव्येऽति ।
तद् यावन् नेपथ्यरचनां कृत्वा यथाभिलषितं सम्पादयामि ।
(परितो ऽवलोक्य) आवर्जितानि सामाजिकमनांसीऽति मे निश्चयः ।
कुतः, श्रीहर्षोनिपुनः कविः परिषद् अप्य् एषा गुणग्राहिणी लोके हारि च वत्सराजचरितम् नाट्ये च दक्षा वयम् ।
वस्त्व् एकैकम् अपीऽह वाञ्छितफलप्राप्तेः पदं किम् पुनर् मद्भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥३॥
(नेपथ्याभिमुखम् अवलोक्य) अये कथम् प्रस्तावनाभ्युद्यते मयि विदितास्मदभिप्रायोऽङ्गाधिपतेर् दृढवर्मणः कञ्चुकिनो भूमिकां ऋत्वाऽस्मद्भ्रातेऽत एवाऽभिवर्तते ।
तद् यावद् अहम् अप्य् अनन्तरभूमिकां सम्पादयामि (इति निष्क्रान्तः)
इति प्रस्तावना
विष्कम्भकः ।
(ततः प्रविशति कञ्चुकी)
कञ्चुकी - (शोकश्रमं नाटयन् निःश्वस्य) कष्टम् भोः कष्टम् राज्ञो विपद् बन्धुवियोगदुःखं देशच्युतिर् दुरगममार्गखेदः ।
आश्वाद्यतेऽस्याः कटुनिष्फलायाः फलम् मयैऽतच् चिरजीवितायाः ॥४॥
(सशोकं सविस्मयं च) तादृशस्याऽपि नामाऽप्रतिहतशक्तित्रयस्य रघु-दीलिप-नलतुल्यस्य देवस्य दृढवर्मणो मत्प्रार्थ्यमानाऽप्य् अनेन स्वदुहिता वत्सराजाय दत्तेऽति बद्धानुशयेन वत्सराजो बन्धनान् न निवर्तत इति च लब्धरन्ध्रेण सहसाऽगत्य कलिङ्गहतकेन विपत्तिर् ईदृशी क्रियत इति यत्सत्यम् उपपन्नम् अपि न श्रद्दधे ।
कथम् एकान्तनिष्ठुरम् ईदृशं च दैवम् अस्मासु ।
येन साऽपि राजपुत्री यथा कथं चिद् एनां वत्सराजायोऽपनीय स्वामिनम् अनृणं करिष्यामीऽति मत्वा मया तादृशाद् अपि प्रलयकालदारुणाद् अवस्कन्दसम्भ्रमाद् अपवाह्य देवस्य दृढवर्मणो मित्रभावान्वितस्यैऽवाऽटविकस्य नृपतेर् विन्ध्यकेतोर् गृहे स्थापिता सती स्नानाय नाऽतिदूरम् इत्य् अगस्यतीर्थं गते मयि क्षणात् कैर् अपि निपत्य हते विन्ध्यकेतौ रक्षोभिर् इव निर्मानुषीकृते दग्धे स्थाने न ज्ञायते कस्याम् अवस्थायां वर्तत इति ।
निपुणं च विचितम् एतन् मया सर्वं स्थानम् ।
न च ज्ञातं किं तैर् एव दस्युभिर् नीताऽथ वा दग्धेऽति ।
तत् किं करोमि मन्दभाग्यः ।
(विचिन्त्य) अये एवं श्रुतम् मया: बन्धनात् परिभ्रष्टः प्रद्योततनयाम् अपहृत्य वत्सराजः कौशाम्बीम् आगत इति ।
किं तत्रैऽव गच्छामि ।
(निश्वस्याऽत्मनोऽवस्थाम् पष्यन्)
किम् इव हि राजपुत्र्या विना तत्र गत्वा कथयिष्यामि ।
अये कथितं चाऽद्य मम विन्ध्यकेतुना: मा भैषीः ।
जीवति तत्रभवान् महाराजो दृधवर्मा गाधप्रहारजर्जरीकृतो बद्धस् तिष्ठतीऽति ।
तद् अधुना स्वामिनम् एव गत्वा पादपरिचर्यया जीवितशेषम् आत्मनः सफलयिष्यामि ।
(परिक्राम्यो ऽर्ध्वम् अवलोक्य) अहो अतिदारुणता शरदातपस्य, यद् एवम् अनेकदुःखसन्तापितेनाऽपि मया तीक्ष्णोऽवगम्यते ।
घनबन्धनमुक्तोऽयं कन्याग्रहणात् परां तुलाम् प्राप्य ।
रविर् अधिगतस्वधा प्रतपति खलु वत्सराज इव ॥५॥
(इति निष्क्रान्तः) इति विष्कम्भकः ।
(ततः प्रविशति राजा विदूषकश् च)
राजा - भृत्यानाम् अविकारिता परिगता दृष्टा मतिर् मन्त्रिणाम् मित्राण्य् अप्य् उपलक्ष्तानि विदितः पौरानुरागोऽधिकम् ।
निर्व्यूढ्या रणसाहसव्यसनिता स्त्रीरत्नम् आसादितं निर्व्याजाद् इव धर्मतः किम् इव न प्राप्तम् मया बन्धनात् ॥६॥
विदूषकः - (सरोषम्) भो वअस्स, कधं तं जेव्व दासीए उत्तं बन्धण्हदअं पसंसेसि ।
तं दानिं विसुमरेहि ।
जं तधा णवग्गहो विअ गअवदी खलखलाअमाणलोहसिङ्खलाबन्धपडिक्खलन्तचलणो सुण्णदुक्कर (पिसुणीअन्त) हिअअसन्तावो रोसवसुत्तम्भिददिट्ठी गरुअकरफोडिदधरणिमग्गो रअणीसु वि अणिद्दासुहं अणुभूदो सि ।
राजा - वसन्तक, दुर्जनः खल्व् असि ।
पश्य दृष्टं चारकम् अन्धकारगहनं नो तन्मुखेन्दुद्युतिः पीडा ते निगलस्वनेन मधुरास् तस्या गिरो न श्रुताः ।
क्रूरा बन्धनरक्षिणोऽद्य मनसि स्निग्धाः कटाक्षा न ते दोषान् पश्यसि बन्धनस्य न पुनः प्रद्योतपुत्र्या गुणान् ॥७॥
विदूषकः - (सगर्वम्) भो, जै दाव बन्धणं सुहणिबन्धणं भोदि, ता कीस तुमं दिढवम्मा बद्धो त्ति कलिङ्गरण्णो उवरि रोसं बन्धेसि ।
राजा - (विहस्य) धिङ् मूर्ख, न खलु सर्वो वत्सराजः, य एवं वासवदत्ताम् अवाप्य बन्धनान् निर्यास्यति ।
तद् आस्तां तावद् इयं कथा ।
विन्ध्यकेतोर् उपरि बहून्य् अहानि विजयसेनस्य प्रेषितस्य, न चाऽद्याऽपि तत्सकाशात् कश् चिद् आगतः ।
तद् आहूयतां तावद् अमात्यो रुमण्वान् ।
तेन सह किं चिद् आलपितुम् इच्छामि ।
(प्रविश्य)
प्रतीहारी - जेदु जेदु देवो ।
एसो क्खु विजअसेणो अमच्चो रुमण्णो वि पडिहारभूमिं उवट्ठिदा ।
राजा - त्वरितम् प्रवेशस्य तौ ।
प्रतीहारी - जं देवो आणवेदि ।
(इति निष्क्रान्ता)
(ततः प्रविशति रुमण्वान् विजयसेनश् च)
राजा - (सादरम् परिष्वज्य) अपि कुशली भवान् ।
विजयसेनः - अद्य स्विनः प्रसादात् ।
राजा - विजयसेन, स्थीयताम् ।
(विजयसेन उपविशति)
राजा - विजयसेन, कथय विन्ध्यकेतोर् वृत्तान्तम् ।
विजयसेनः - देव, किम् अपरं कथयामि ।
यादृशः स्वामिनि कुपिते ।
राजा - तथाऽपि विस्तरतः श्रोतुम् इच्छामि ।
विजयसेनः ।
देव, श्रूयताम् ।
इतो वयं देवपादादेशाद् यथादिष्टेन करितुरगपदातिसैन्येन महान्तम् अप्य् अध्वानं दिवसत्रयेणोऽल्लङ्घ्य प्रभातवेलाम् अतर्किता एव विन्ध्यकेतोर् उपरि निपतिताः स्मः ।
राजा - ततस् ततः ।
विजयसेनः - ततःसोऽप्य् अस्मद्बलतुमुलकलकलाकर्णनेन प्रतिबुद्धः केसरीऽव विन्ध्यकदरान् निर्गत्य विन्ध्यकेतुर् अनपेक्षितेबलवाहनो यथासन्निहितकतिपयसहायः सहसा स्वनामोऽद्घोषयन्न् अस्मान् अभियोद्धुम् प्रवृत्तः ।
राजा - (रुमण्वन्तम् अवलोक्य सस्मितम्) शोभितं विन्ध्यकेतुना ।
ततस् ततः ।
विजयसेनः - ततोऽस्माभिर् अयम् इति द्विगुणतरबद्धमत्सरोत्साहैर् महता विमर्देन निःशेषितसहाय एक एव विमर्दिताधिकबलक्रोधवेगो दारुणतरं सम्प्रहारम् अकरोत् ।
राजा - साधु विन्ध्यकेतो, साधु साधु ।
विजयसेनः - किं वा वर्ण्यते ।
देव, सषेपतो विज्ञापयामि ।
पादातम् पत्तिर् एव प्रथमतरम् उरःपेषमात्रेण पिष्ट्वा दूरान् नीत्वा शरौघैर् हरिणकुलम् इव त्रस्तम् अश्वीयम् आशाः ।
सर्वत्रोऽत्सृष्टसर्वप्रहरणनिवहस् तूर्णम् उत्खाय खड्गम् पश्चात् कर्तुम् प्रवृत्तः करिकरकदलीकाननच्छेदलीलाम् ॥९॥
एवम् बलत्रितयम् आकुलम् एक एव कुर्वन् कृपाणकिरणच्छुरितांसकूटः ।
शस्त्रप्रहारशतजर्जरितोरुवक्षाः श्रान्तश् चिराद् विनिहतो युधि विन्ध्यकेतुः ॥१०॥
राजा - रुमण्वन्, सत्पुरुषोचितम् मार्गम् अनुगच्छतो यत्सत्यं व्रीदिता एव वयं विन्ध्यकेतोर् मरणेन ।
रुमण्वान् - देव, त्वद्विधानम् एव गुणैकपक्षपातिनाम् रिपोर् अपि गुणाः प्रीतिं जनयन्ति ।
राजा - विजयसेन, अप्य् अस्ति विन्ध्यकेतोर् अपत्यं यत्रा ऽस्य परितोषस्य फलं दर्शयामि ।
विजयसेनः - देव, इदम् अपि विज्ञापयामि ।
एवं सबन्धुपरिवारे हते विन्ध्यकेतौ तम् अनुसृतासु सहधर्मचारिणीषु विन्ध्यशिखराश्रितेषु जनपदेषु शून्यभूते तत्स्थाने हा तात हा तातेऽति कृतकृपणप्रलापा विन्ध्यकेतोर् वेश्मन्य् आभिजात्यानुरूपा कन्यका तद्दुहितेऽत्य् अस्माभिर् आनीता द्वारि तिष्ठति ।
ताम् प्रति देवः प्रमाणम् ।
राजा - यशोधरे, गच्छ गच्छ ।
त्वम् एव वासवदत्तायाः समर्पय ।
वक्तव्या च देवी: भगिनीबुद्ध्या त्वयै ऽव स्वर्वदा द्रष्टव्या ।
गीतनृत्तवाद्यादिषु विशिष्टकन्यकोचितं सर्वं शिक्षयितव्या ।
यदा वरयोग्या भविष्यति तदा मां स्मारयेऽति ।
प्रतीहारी - जं देवो आणवेदि ।
(इति निष्क्रान्ता)
(नेपथ्ये वैतालिकः)
लीलामज्जनमङ्गलोपकरणस्नानीयसम्पादिनः सर्वान्तःपुरवारविभ्रमवतीलोकस्य ते सम्प्रति ।
आयासस्खलदशुकाव्यवहितच्छायावदातैः स्तनैर् उत्क्षिप्तापरशातकुम्भकलशेऽवाऽलङ्कृता स्नानभूः ॥११॥
राजा - (ऊर्ध्वम् अवलोक्य) अये कथं नभोमध्यम् अध्यास्ते भगवान् सहस्रदीधितिः सम्प्रति हि - आभात्य् अर्कांशुतापक्वथद् इव शफरोद्वर्तमैर् दीर्घिकाम्भश् छत्त्राभं नृत्तलीलाषिथिलम् अपि शिखी बर्बभारं तनोति ।
छायाचक्रं तरूणां हरिणशिशुर् उपैत्य् आलवालाम्बुलुब्धः सद्यस् त्यक्त्वा कपोलं विशति मधुकरह् कर्णपालीं गजस्य ॥१२॥
रुमण्वन्, उत्तिष्ठोऽत्तिष्ठ ।
प्रविआऽभ्यन्तरम् एव कृतयथोचितक्रियाह् सत्कृत्य विजयसेनं कलिङ्गोच्छित्तये प्रेषयामः ।
(इति निष्क्रान्ताः सर्वे)
(ततः प्रविशति विदूषकः)
विदूषकः - णं भणिदो म्हि इन्दीवराए: जधा, अज्ज, उववासणिअमट्ठिदा देवी वासवदत्ता सोत्थिवाअणणिमित्तं सद्दावेदि त्ति ।
ता ज धाराघरुज्जाणदिग्घिआए ण्हाइअ देवीपासं गदुअ कुक्कुडवादं करिस्सं ।
अन्नधा कधं अम्हाणं सरिसा बम्हणा राअ??ले पडिग्गहं करेन्ति ।
(नेपथ्याभिमुक्तम् अवलोक्य) क्धं एसो पिअवअस्सो अज्ज देवीए विरहुक्कण्ठाविणोदणणिमित्तं धारागरुज्जाणं जेव्वे पत्थिदो ।
ता जाव वअस्सेण सह ज्जेव्व गदुअ जधोदिदं अणुचिट्ठिस्सं (ततः प्रविशति सोत्कण्ठो राजा)
राजा - क्षामाम् मङ्गलमात्रमण्डनभृतम् मन्दोद्यमालापिनीम् आपान्दुच्छविना मुखेन विजितप्रातस्तनेन्दुद्युतिम् ।
सोत्कण्ठां नियमोपवासविधिना चेतो ममोऽत्कण्ठते तां द्रष्टुम् प्रथमानुरागजनितावस्थाम् इवाऽद्य प्रियाम् ॥१॥
विदूषकः - (उपसृत्य) सोत्थि भवदो ।
वड्ढदु भवं ।
राजा - (विलोक्य) वसन्तक, कस्मात् प्रहृष्ट इव लक्ष्यसे ।
विदूषकः - अच्चदि क्खु देवी बम्हणं ।
राजा - यद्य् एवं ततः किम् ।
विदूषकः - (सगर्वम्) भो, ईदिसो क्खु बम्हणो, जो चदुव्वेदपञ्चवेदछट्ठवेदबम्हणसहस्सपज्जाउले राअ??ले पढमं अहं जेव्व देवीसआसादो सोत्थिवाअणं लहेमि ।
राजा - (विहस्य) वेदसङ्ख्ययैऽवाऽवेदितम् ब्राह्मण्यम् ।
तद् आगच्छ महाब्राहण ।
धारागृहोद्यानम् एव गच्छावः ।
विदूषकः - जं आणवेदि ।
राजा - गच्छाऽग्रतः ।
विदूषकः - भो, एहि, गच्छम्ह ।
(परिक्रम्याऽवलोक्य च) वअस्स, पेक्ख पेक्ख अविरदपडन्तविविहकुसुमसुउमारसिलादलुच्छङ्गस्स परिमलणिलीणमहुअरभरभग्गब??लमालदीलदाजालअस्स कमलगन्धगहणुद्दाममारुदपज्जवबुद्धबन्धूअबन्धणस्स अविरलतमालतरुपिहिदातवप्पआसस्स अस्स धाराघरुज्जाणस्स सस्सिरीअदम् ।
राजा - वयस्य, साध्व् अभिहितम् ।
अत्र हि - वृन्तैः क्षुद्रप्रवालस्थगितम् इव तलम् भाति शेफालिकानाम् गन्धः सप्तच्छदानां सपदि गजमदामोदमोहं करोति ।
एते चोऽन्निद्रपद्मच्युतबहलरजःपुञ्जपिङ्गाङ्गरागा गायन्त्य् अव्यक्तवाचः किम् अपि मधुलिहो वारुणीपानमत्ताः ॥२॥
विदूषकः - भो वअस्स, एदै दाव पेक्ख पेक्ख, जो एसो अविरलपडन्तकुसुमणिअरो अज्ज वि पत्तन्तरगलन्तवरिसावसाणसलिलबिन्दू विअ लक्खीअदि सत्तवण्णपाअवो ।
राजा - वयस्य, सम्यग् उत्प्रेक्षितम् ।
बह्व् एव सदृशं जलदसमयस्य ।
तथा हि - भिब्राणा मृदुतां शिरीषकुसुमश्रीहारिभिः शाद्वलैः सद्यः कल्पितकुट्टिमा मरकतक्षोदैर् इव क्षालितैः ।
एषा सम्प्रति बन्धनाद् विगलितैर् बन्धूकपुष्पोत्करैर् अद्याऽपि क्षितिर् इन्द्रगोपकशतैश् छन्नेऽव संलक्ष्यते ॥३॥
(ततः प्रविषति चेटी)
चेटी - आणत्त म्हि देवीए वासवदत्ताए: हञ्जे इन्दीवरिए, अज्ज मए अगत्थिमहेसिणो अग्घो दादव्वो ।
ता गच्छ तुमं ।
सेहालिआकुसुममालं लहु गेण्हिअ आअच्छ ।
एसा वि आरण्णिआ धाराघरुज्जाणदिग्घिआए जाव ज्जेव्व विअसिदाइं कमलाइं ण अत्थाहिलासिणा सुज्जेण म??लावीअन्ति ताव ज्जेव्व लहुअं अवचिणिअ आअच्छदु त्ति ।
एसा तवस्सिणी तं दिग्घिअं ण जाणादि ।
ता गेण्हिअ तं गमिस्सं ।
(नेपथ्य्भिमुखम् अवलोक्य) इदो इदो आरण्णिए एहि ।
(ततः प्रविशत्य् आरण्यका)
आरण्यका - (सबाष्पोद्वेगम् आत्मगतम्) तधा णाम तारिसे वंसे उप्पण्णाए अण्णजणं आणाविअ ट्तिदाए सम्पदं परस्स मए आणत्ती कादव्व त्ति णत्थि क्खु दुक्करं देव्वस्स ।
अध वा मह ज्जेव्व एसो दोसो, जेण जाणन्तीए वि ण वावादिदो अप्पा ।
ता किं सम्पदं करिस्सं ।
अध वा दुक्करं दाणिं मए चिन्तिदं ।
वरं जेव्व एदं पि ।
ण उण अत्तणो महग्घं वंसं पआसअन्तीए मए लहुईकिदो अप्पा ।
ता का गदी ।
जधाभणिदं अणुचिट्ठिस्सं ।
चेटी - इदो एहि आरण्णिए ।
आरण्यका - इअं आअछामि ।
(श्रमं नाटयन्ती) हञ्जे, दूरे किं अज्ज वि दिग्घिआ ।
चेटी - एसा सेहालिआगुम्मन्तरिदा ।
ता एहि, ओदरम्ह ।
(अवतरणं नाटयतः)
राजा - वयस्य, किम् अन्यद् इव चिन्तयसि ।
ननु ब्रवीमि: बह्व् एव सदृशं जलदसमयस्य ।
(इति ऽबिभ्राणा मृदुताम्ऽ इत्यादि पुनः पठति)
विदूषकः - (सक्रोधम्) भो, तुमं दाव एदं अण्णं च पेक्खन्तो उक्कण्ठाणिब्भरं विणोदेसि अत्ताणअं ।
मम उण बम्हणस्स सोत्थिवाअणवेला अदिक्कमदि ।
ता दाव अहं तुवरिदं दिग्घिआए ण्हाइअ देवीए सआसं गमिस्सं ।
राजा - ननु मूर्ख, पारं गता एव वयं दीर्घिकायाः ।
एवम् अनेकेन्द्रियसुखातिशयम् अनुभवन्न् अपि नोऽपलक्ष्यसि ।
पश्य ।
श्रोत्रं हंसस्वनोऽयम् सुखयति दयितानूपुरह्रादकारी दृष्टिप्रीतिं विधत्ते तटतरुविवरालक्षिता सौधपाली ।
गन्धेनाऽम्भोरुहाणाम् परिमलपटुना जायते घ्राणसौख्यं गात्राणां ह्लादम् एते विदधति मरुतो वारिसम्पर्कशीताः ॥४॥
तद् एहि ।
दीर्घिकातटम् उपसर्पावः ।
(परिक्रम्याऽवलोक्य च)
वयस्य, पश्य पश्य ।
उद्यानदेवतायाः स्फुपङ्कजकान्तिहारिणी स्वच्छा ।
दृष्टिर् इव दीर्घिकेऽयं रमयति मां दर्शनेनैऽव ॥५॥
विदूषकः - (सकौतुकम्) भो वअस्स, पेक्ख पेक्ख ।
का एसा कुसुमपरिमलसुअन्धवेणीमहुअरावली विद्दुमलदारुणहत्थपल्लवा उज्जल्न्ततणुकोमलबाहुलदा सच्चं पच्चक्खचरी विअ उज्जाणदेवदा इत्थिआ दीसदि ।
राजा - (सकौतुकं विलोक्य) वयस्य, निरतिशयस्वरूपशोभाजनितबहुविकल्पेऽयम् ।
यत्सत्यम् अहम् अपि नाऽवगच्छामि ।
पश्य ।
पातालाद् भुवनावलोकनपरा किं नागकन्योऽत्थिता मिथ्या तत् खलु दृष्टम् एव हि मया तस्मिन् कुतोऽस्तीऽदृशी ।
मूर्ता स्याद् इह कौमुदी न घटते तस्या दिवा दर्शनं केऽयं हस्ततलस्थितेन कमलेनाऽलोक्यते श्रीर् इव ॥६॥
विदूषकः - (निरूप्य) एसा खु देविए परिआरिआ इन्दीवरिआ ।
ता गुम्मन्तरिदा भविअ पेक्खम्ह ।
(उभौ तथा कुरुतः)
चेटी - (कमलिनीपत्त्रग्रहणं न्टयन्ती) आरण्णिए, अव�??ण तुमं पदुमाइं ।
अहम् पि एदस्सिं णलिणीपत्ते सेहालिआकुसुमाइं अव�??णिअ देवीसआसं गमिस्सं ।
राजा - वयस्य, संलाप इव वर्तते ।
तद् अवहिताः शृणुमः ।
कदा चिद् इत एव व्यक्तीभविष्यति ।
(चेटी गमनं नाटयति)
आरण्यका - हला इन्दीवरिए, ण सक्कुणोमि तुए विणा एत्थ आसिदुं ।
चेटी - (विहस्य) जादिसं अज्ज मए देवीए मन्तिदं सुदं तारिसेण चिरं जेव्व मए विणा तुए आसिदव्वं ।
आरण्यका - (सविषादम्) किम् देवीए मन्तिदं ।
चेटी - एदं: तदा एसा अहं महाराएण भणिदा जधा जदा एसा विञ्झकेदुदुहिदा वरजोग्गा भविस्सदि तदा अहं सुमराविदव्वो त्ति ।
ता सम्पदं महाराअं सुमरावेमि जेण से वरचिन्तापज्जाउलो भविस्सदि ।
राजा - (सहर्षम्) इयं सा विन्ध्यकेतोर् दुहिता ।
(सानुतापम्) चिरम् मुषिताः स्मो वयम् ।
वयस्य निर्दोषदर्शना कन्यका खल्व् इयम् ।
विश्रब्धम् इदानीम् पश्यामः ।
आरण्यका - (सरोषं कर्णौ पिधाय) ता गच्छ तुमं ।
ण तुए असम्बद्धप्पलाविणीएपओअणं ।
(चेट्य् अपसृत्य पुष्पावचयं नाटयति)
राजा - अहो सुतराम् प्रकत्टीकृतम् आभिजात्यं धीरतया ।
वयस्य, धन्यः खल्व् असौ य एतदङ्गस्पर्शसुखभाजनम् भविष्यति ।
(आरण्यका कमलावचयं नाटयति)
विदूषकः - भो वअस्स, पेक्ख पेक्ख ।
अच्छरिअं अच्छरिअसा सलिलचलन्तकरपल्लवप्पहावित्थिदेण ओहसिदसोहर्ं करेदि कमलवणं अवचिणन्ती ।
राजा - वयस्य, सत्यम् एवैऽतत् ।
पश्य ।
अच्छिन्नामृतबिन्दुवृष्टिसदृशीम् प्रीतिं ददत्या दृशा याताया विगलत्पयोधरपआद् द्रष्टव्यतां काम् अपि ।
अस्याश् चन्द्रमस तनोर् इव करस्पर्शास्पदत्वम्ं गता नैऽते यन् मुकुलीभवन्ति सहसा पद्मास् तद् एवाऽद्भुतम् ॥७॥
आरण्यका - (भ्रमरसम्बाधं नाटयन्ती) हद्धी हद्धी ।
एदे क्खु अवरे परिच्च�??अ कमलिणिं णीलुप्पलवणाइं समापडन्ता णिउणदरं बाधन्ता आआसअन्ति मं दुट्ठमहुअरा ।
(उत्तरीयेण मुखम् पिधाय सभयम्) हला इन्दीवरिए, परित्ताएहि मं परित्ताएहि मं ।
एदे दुट्ठमहुअरा परिभविस्सन्ति ।
विदूषकः - भो वअस्स, पुण्णा दे मणोरधा ।
जाव ज्जेव्व गब्भदासीए सुदा ण आअछदि ताव ज्जेव्व तुमं पि तुण्हिक्को भविअ उवस्प्प ।
एसा वि सलिलसद्दसुणिदेण पदसञ्चारेण इन्दीवरिआ आअछदि त्ति जाणिअ तुमं जेव्व ओलम्बिस्सदि ।
राजा - साधु वयस्य साधु ।
कालानुरूपम् उपदिष्टम् ।
(इत्य् आरण्यकासमीपम् उपसर्पति)
आरण्यका - (पदशब्दाकर्णनं नाटयन्ती) इन्दीवरिए, लहु उवसप्प लहु उवसप्प ।
आउलीकिद म्हि दुट्ठमहुअरेहिं ।
(राजानम् अवलम्बते)
(राजा कण्ठे गृह्णाति ।
आरण्यकोऽत्तरीयम् मुखाद् अपनीय राजानम् अपश्यन्ती भ्रमरावलोकनं नाटयति)
राजा - (स्वोत्तरीयेण भ्रमरान् निवारयन्)
अयि विसृज विषादम् भीरु भृङ्गास् तवैऽते परिमलरसलुब्धा वक्त्रपद्मे पतन्ति ।
विकिरसि यदि भूयस् त्रासलोलायताक्षी कुवलयवनलक्ष्मीं तत् कुतस् त्वां त्यजन्ति ॥८॥
आरण्यका - (राजानं दृष्ट्वा साधवसं नाटयन्ती)
कधं ण एसा इन्दीवरिआ ।
(सभयं राजानं त्यक्त्वाऽपसरन्ती) इन्दिवरिए, लहु आअच्छ, लहु आअच्छ ।
परित्ताएहि मं ।
विदूषकः - भोदि, सअलपुढवीपरित्ताणसमत्थेण वच्छराएण परित्ताअन्ती चेडिं इन्दीवरिअं अक्कन्देसि ।
(राजा ऽअयि विसृजऽ इत्यादि पुनः पठति)
आरण्यका - (राजानम् अवलोक्य सस्पृहं सलज्जं चा ऽतमगतम्) अअं खु सो महाराओ जस्स अहं तादेण दिण्णा ।
ठाणे क्खु तादस्स पक्खवादो ।
(आकुलतां नाटयति)
चेटी - आआसिदा खु आरण्णिआ दुट्ठमहुअरेहिं ।
ता जाव उवसप्पिअ समस्सासेमि ।
आरण्णिए, मा भाआहि ।
एसा उवाअद म्हि ।
विदूषकः - भो, ओसर ओसर ।
एसा खु इन्दीवरिआ आअदा ।
ता एदं वुत्तन्तं पेक्खिअ देवीए णिवेद�??स्सदि ।
(अङ्गुल्या निर्दिश्य) ता इमं जेव्व कदलीघरं पविसिअ मुहुत्तं चिट्ठम्ह ।
(उभौ तथा कुरुतः)
आरण्यका - (कदलीगृहाभिमुखम् अवलोक्य) हञ्जे इन्दीवरिए, अदिसिसिरदाए सलिलस्स ऊरुत्थम्भो विअ समुप्पण्णो ।
ता सणिअं सणिअं गच्छम्ह ।
चेटी - तधा ।
(इति निष्क्रान्ते)
विदूषकः - भो, एहि, णिक्कमम्ह ।
तं गेण्हिअ एसा दासीए सुदा इन्दीवरिआ गदा ।
(तथा कुरुतः)
राजा - (निःश्वस्य) कथं गता ।
सखे वसन्तक, न खल्व् अविघ्नम् अभिलषितम् अधन्यैः प्राप्यते ।
(विलोक्य)
सखे, पश्य पश्य ।
आबद्धमुखम् अपीऽदम् कण्टकितं कमलकाननं तस्याः ।
सुकुमारपाणिपल्लवसंस्पर्शसुखं कथयटीऽव ॥९॥
(निःश्वस्य) सखे, क इदानीम् उपायः पुनस् तां द्रष्टुम् ।
विदूषकः - तं दाणिं विसुमरिदं जं तुण्हिक्को भविअ उवसप्प त्ति मए भणिदं ।
अदिसङ्कदे भवं पविसिअ अलिअपण्डिच्चदुव्विअड्ढदाए अ�?? विसिज विसादं ति एदेहिं अण्णेहिं च लडुअवअणेहिं णिब्भच्छिअ सम्पदं किं रोदसि ।
पुणो वि उवाअं पुच्छसि ।
राजा - कथं समाश्वासनम् अपि निर्भर्त्सितम् इति भणितम् मूर्खेण ।
विदूषकः - जाणिदं जेव्व को एत्थ मुक्खो त्ति ।
ता किं एदिणा ।
अत्थमआहिलासी भअवं सहस्सरस्सी ।
ता एहि, अब्भन्तरं जेव्व पविसम्ह ।
राजा - (विलोक्य) अये परिणतप्रायो दिवसः ।
अहह ।
सम्प्रति हि - हृत्वा पद्मवनद्युतिम् प्रियतमेऽवेऽयम् दिनश्रीर् गता रागोऽस्मिन् मम चेतसीऽव सवितुर् बिम्बेऽधिकं लक्ष्यते ।
चक्राह्वोऽहम् इव स्थितः सहचरीं ध्यायन् नलिन्यास् तटे सञ्जाताः सहसा मएऽव भुवनस्याऽप्य् अन्धकारा दिशः ॥१०॥
(इति निष्क्रान्ताः सर्वे)
(ततः प्रविशति मनोरमा)
मनोरमा - आणत्त म्हि देवीए वासवदत्ताए: हञ्जे मणोरमे, जो सो सङ्किच्चाअणीए अज्ज??त्तस्स मम अ वुत्तन्तो णाडओवणिबद्धो तस्स णच्चिदव्वसेसं अज्ज तुम्हेहिं कोमुदीमहूसवे णच्चिदव्वं ति ।
हिओ क्खु आरण्णिआए पिअसहीए सुण्णहिअआए अण्णधा जेव्व णच्चिदम् ।
अज्ज उण वासवदत्ताभूमिआए ताए ज�?? तधा करीअदि तदो अवस्सं देवी कुप्पिस्सदि ।
ता कहिं दाव तं पेक्खिअ उवालम्भिस्सं ।
(विलोक्य) एसा आरण्णिआ अप्पणा जेव्व किं पि किं पि मन्तअन्ती दिग्घातीरे कदलीघरअं पविसदि ।
ता गुम्मन्तरिदा भविअ सुणिस्सं दाव से वीसद्धजप्पिदाइं ।
(इति प्रवेशकः)
(ततः प्रविशत्य् आसनस्था कामावस्तां नाटयन्त्य् आरण्यका)
आरण्यका - (निःश्वस्य) हिअअ, दुल्लहजणं पत्थअन्तो तुमं कीस मं दुक्खिदं करेसि ।
मनोरमा ।
तं एदं सुण्णहिअअत्तणस्स कारणं ।
किं उण एसा पत्थेदि ।
अवहिदा दाव सुणिस्सं ।
आरण्यका - (सास्रम्) कधं तधा णाम सोहणदंसणो भविअ महारओ एव्वं सन्तावेदि मं ।
अच्छरिअं अच्छरिअम् ।
(निःश्वस्य) अध वा मह ज्जेव्व एसा अभाअहेअदा, ण उण महाराअस्स दोसो ।
मनोरमा - (सबाष्पम्) कधं महाराओ ज्जेव्व से पत्तणीओ ।
साहु पिअसहि साहु ।
अहिजादसरिसो दे अहिलासो ।
आरण्यका - कस्स दाव एदं वुत्तन्तं णिवेदिअ सज्झवेअणं विअ दुक्खं करिस्सं ।
(विचिन्त्य) अध वा अत्थि मे हिअअणिव्विसेसा पिअसही मणोरमा ।
ताए वि एदं लज्जाए ण पारेमि कधिदुं ।
सव्वधा मरणं वज्जिअ कुदो मे हिअअस्स अण्णा णिव्वुदी ।
मनोरमा - (सास्रम्) हद्धी हद्धी ।
अदिभूमिं गदो से तवस्सिणीए अणुराओ ।
ता किं दाणिं एत्थ करिस्सं ।
आरण्यका - (साभिलाषम्) अअं सो उद्देसो जस्सिं महुअरेहिं आआसीअन्ती ओलम्बिअ महाराएण समस्सासिद म्हि भीरु मा भाआहि त्ति ।
मनोरमा - (सहर्षम्) कधं एसा वि दिट्ठा महाराएण ।
सव्वधा अत्थि से जीविदस्स उवाओ ।
जाव उवसप्पिअ समस्सासेमि णं ।
(सहसोऽपसृत्य) जुत्तं णाम हिअअस्स वि लज्जिदुं ।
आरण्यका - (सलज्जम् आत्मगतम्) हद्धी हद्धी ।
सव्वं सुदं एदाए ।
ता एत्थ जुत्तं जेव्व पआस�??दुं ।
(प्रकाशं हस्ते गृहीत्वा) पिअसहि, मा कुप्प मा कुप्प ।
लज्जा एत्थ अवरज्झदि ।
मनोरमा - (सहर्षम्) सहि, अलं सङ्काए ।
एदं मे आअख: सच्चं जेव्व तुमं महाराएण दिट्ठा ण व त्ति ।
आरण्यका - (सलज्जम् अधोमुखी) सुदं जेव्व पिअसहीए सव्वं ।
मनोरमा - ज�?? दिट्ठा महाराएण तुमं ता अलं सन्तप्पिदेण ।
सो ज्जेव्व दाणिन्दंसणोवाअपज्जाउलो भविस्सदि ।
आरण्यका - अअं सहीअणो पक्खवादेण मन्तेदि ।
अ�?? सहिपक्खवादिणि, देवीगुणणिअलणिबद्धे क्खु तस्सिं जणे कुदो एदं ।
मनोरमा - (विहस्य) हला अपण्डिदे, कमलिणीबद्धाणुराओ वि महुअरो मालदिं पेक्खिअ अहिणवरसासादलम्पडो कुदो तं एणासादिअ ठिदिं करेदि ।
आरण्यका - किं एदिणा असम्भाविदेण ।
ता एहि ।
अहिअं खु सरदादवेण सन्तप्पिदाइं अज्ज वि ण मे अङ्गाइं सन्तावं मुञ्चन्ति ।
मनोरमा - आ�?? लज्जाउए, ण जुत्तं एदं अव्त्थं गदाए वि तुए अप्पा पच्छादिदुं ।
(आरण्यका मुखम् अवनमयति)
मनोरमा - आ�?? अविस्सम्भसीले, किं दाणिं पच्छादेसि ।
णीसासणिहविणिग्गदो दिवसं रत्तिं पि तुह अणुराओ अविरदपडन्त-उसुमसरसरणिवहप्प??त्तहुङ्कारसद्दो विअ ण भणादि ।
(आतङ्गतम्) अध वा ण हु अअं कालो उवालम्भस्स ।
ता दाव णलिणीपत्ताइं से हिअए दाइस्सं (उत्थाय दीर्घिकाया नलिनीपत्त्राणि गृहीत्वाऽरण्यकाया हृदये ददती) समस्ससदु सही समस्ससदु ।
(ततः प्रविशति विदूषकः)
विदूषकः - अदिमहन्तो क्खु पिअवअस्सस्स आरण्णिआए उवरि अणुराओ, जेण परिच्चत्तराअकज्जो ताए ज्जेव्व दंसणोवाअं चिन्तअन्तो अत्ताणअं विणोदेदि ।
(विचिन्त्य) कहिं दाणिं तं पेक्खामि ।
अध वा तहिं दिग्घिआए अण्णेसामि ।
(परिक्रामति)
मनोरमा - (आकर्ण्य) पदसद्दो विअ सुणीअदि ।
ता कदलीगुम्मन्तरिदाओ भविअ पेक्खम्ह दाव को एसो त्ति ।
(उभे तथा कृत्वा पश्यतः)
आरण्यका - कधं सो ज्जेव्व महाराअस्स पासपरिव ई बम्हणो ।
मनोरमा - कधं वसन्तओ ज्जेव्व ।
(सहर्षम् आत्मगतम्) अवि णाम तधा भवे ।
विदूषकः - (दिशोऽवलोक्य) किं दाणिं अरण्णिआ सच्चं जेव्व संवुत्ता ।
मनोरमा - (सस्मितम्) सहि, राअवअस्सो क्खु बम्हणो तुमं उद्दिसिअ मन्तेदि ।
ता दाव अवहिदाओ सुणम्ह ।
(आरण्यका सस्पृहं सलज्जं च शृणोति)
विदूषकः - (सोद्वेगम्) जदा दाव मए गरुअमअणसन्तावणीसहस्स पिअवअस्सस्स अस्सत्थवअणेण देवीणं वासवदत्ता-पदुमावदीणं अण्णाणं च देवीणं भवणाइं अण्णेसन्तेण ण सा दि हा तदा जहिं दिग्घाइए दि हा एदं पि दाव पेक्खिस्सं ति आअदो म्हि ।
ता जाव इध वि णत्थि ।
किं दाणिं करिस्सं ।
मनोरमा - सुदं पिअसहीए ।
विदूषकः - (विचिन्त्य) अध वा भणिदो ज्जेव्व अहं वअस्सेण: ज�?? तं अण्नेसन्तो ण पेक्खसि तातदो वि दाव दिग्घिआदो ताए करदलप्फरिसदिउणिदसुहसीदलाइं णलिणीपत्ताइं गेण्हिअ आअच्छ त्ति ।
ता कधं एदाइं जाणिदव्वाइं ।
मनोरमा - अअं मे अवसरो ।
(उपसृत्य विदूषकं हस्ते गृहीत्वा) वसन्तअ, एहि ।
अहं दे जाणावेमि ।
विदूषकः - (सभयम्) कस्स तुमं जाणावेसि ।
किं देवीए ।
ण हु मए किं पि मन्तिदं ।
मनोरमा - वसन्तअ, अलं सङ्काए ।
जादिसी आरण्णिआए किदे अत्तणो पिअवअस्सस्स अवत्था तुए वण्णिदा तदो दिउणदरा भ इणो वि किदे मह पिअसहीए अवत्था ।
ता पेक्ख पेक्ख ।
(उपसृत्याऽरण्यकां दर्शयति)
विदूषकः - (दृष् वा सहर्षम्) सफलो मे परिस्समो ।
सोत्थि भोदीए ।
(आरण्यका सलज्जं कमलिनिपत्त्राण्य अपनीयोऽत्थिष् हति)
मनोरमा - अज्ज वसन्तअ, तुह दंसणेन ज्जेव्व अवगदो पिअसहीए सन्तावो, जेण सअं जेव्व णलिणिपत्ताइं अवणेदि ।
ता अणुगेण्हदु अज्जो इमाइं ।
आरण्यका - (सावेगम्) अ�?? परिहाससीले, कीस मं लज्जावेसि ।
(किं चित् पराङ्मुखी तिष् हति)
विदूषकः - (सविषादम्) चि हन्तु दाव णलिणीपत्ताइं ।
अदिलज्जालुआ दे पिअसही ।
ता कधं एदाणं समाअमो भविस्सदि ।
मनोरमा - (क्षणं विचिन्त्य सहर्षम्) वसन्तअ, एव्वं विअ ।
(कर्णे कथयति)
विदूषकः - साहु पिअसहि (अपवार्य) जाव ज्जेव्व तुम्हे णेवच्छग्गहणं करेध तात ज्जेव्व अहं पि वअस्सं गेण्हिअ आअच्छामि ।
(इति निष्क्रान्तः)
मनोरमा - अदिकोवणे, उ हेहि उ हेहि ।
णच्चिदव्वं अम्हेहिं तस्स ज्जेव्व णाडअस्स णच्चिदव्वसेसं ।
ता एहि, पेक्खाघरं जेव्व गच्छम्ह ।
(परिक्रम्याऽवलोक्य) इदं पेक्खागारं ।
जाव एहि, पविसम्ह ।
(प्रविष् अकेनाऽवलोक्य)
साहु साहु ।
सव्वं सज्जीकिदं ।
देवीए आअन्तव्वं ।
(ततः प्रविशति देवी साङ्कृत्यायनी विभवतश् च परिवारः)
वासवदत्ता - भअवदि, अहो दे कवित्तणं, जेण एदं गूढवुत्तन्तं णाडओवणिबद्धं साणुभवं पि अम्हाणं अज्ज??त्तचरिदं अदि हपुव्वं विअ दीसन्तं अहिअदरं कोदूहलं वड्ढअदि ।
साङ्कृत्यायनी - आयुष्मति, आश्रयगुण एवाऽयम् ईदृशः, यद् असारम् अपि काव्यम् अवश्यम् एव शृण्वतां श्रवणसुखम् उत्पादयति ।
पश्य ।
प्रायो कत् किं चिद् अपि प्राप्नोत्य् उत्कर्षम् आश्रयान् महतः ।
मत्तेभकुम्भत अगतम् एति हि शृङ्गारताम् भस्म ॥१॥
वासवदत्ता - (सस्मितम्) भअवदि, सव्वस्स वल्लहो जामादा भोदि त्ति जाणीअदि ज्जेव्व एदं ।
ता किं एदिणा कधाणुबन्धेण ।
वरं तं जेव्व णच्चिदव्वं द हुं ।
साङ्कृत्यायनी - एवम् ।
इन्दीवरिके, प्रेक्षागृहम् आदेशय ।
चेटी - एदु एदु भ इणी ।
(सर्वाः परिक्रामन्ति)
साङ्कृत्यायनी ।
(विलोक्य) अहो प्रेक्षणीयता प्रेक्षागृहस्य ।
आभाति रत्नशतशोभितशातकुम्भस्तम्भावसक्तपृथुमौक्तिकदामरम्यम् ।
अध्यासितं युवतिभिर् विजिताप्सरोभिः प्रेक्षागृहं सुरविमानसमानम् एतत् ॥२॥
मनोरमारण्यके - (उपसृत्य) जेदु जेदु भ इणी ।
वासवदत्ता - मणोरमे, अदिक्कन्ता खु सञ्झा ।
ता गच्छध ।
लहु गेण्हध णेवच्छं ।
उभे - जं देवी आणवेदि ।
(इति प्रस्थिए)
वासवदत्ता - आरण्णिए, एदेहिं जेव्व मदङ्गपिणद्धेहिं आभरणेहिं णेवच्छभूमिं गदुअ अत्ताणअं पसाहेहि ।
(आभरणान्य् अङ्गाद् अवतार्याऽरण्यकायाः समर्पयति)
मणोरमे, तुमं पि ďअलगिरिग्गहणपरितु हेण तादेण अज्ज??त्तस्स दिण्णाइं आभरणाइं इन्दीवरिआसआसादो गेण्हिअ णेवच्छभूमिअं गदुअ अत्ताणअं मण्डेहि जेण सुसदिसी दीससि महारास्स ।
(मनोरमेऽन्दीवरिकासकाशाद् आभरणानि गृहीत्वा सहा ऽरण्यकया निष्क्रान्ता)
इन्दीवरिका - एदं आसणं ।
उवविसदु भ इणी ।
वासवदत्ता - (आसनं निर्दिश्य) उवविसदु भअवदी ।
(उभे उपविशतः)
(गर्भना अकम्)
(ततः प्रविशति गृहीतनेपथ्यः कञ्चुकी)
कञ्चुकी - अन्तःप्रुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन् ।
जरातुरः सम्प्रति दण्डनित्या सर्वं नृप्सयआऽनुकरोमि वृत्तम् ॥३॥
भोः, आज्ञापितोऽस्मि विमानिताxएषशत्रुसैन्येन यथार्थनाम्ना महासेनेन: समादिश्यताम् अन्तःपुरेषु: यथा श्वो वयम् उदयनोत्सवम् अनुभवामः, अतो युष्माभिर् उत्सवानुरूपवेषोज्ज्वलेन परिजनेन सह मन्मथोद्यानं गन्तव्यम् इति ।
साङ्कृत्यायनी - (कःचुकिनं निर्दिश्य) राजपुत्रि, प्रवृत्ता प्रेक्षा ।
दृश्यताम् ।
कञ्चुकी - तद् एतद् आदेष् अव्यम् परिजनेन सह गन्तव्यम् इति गृहीतनेपथ्येनेऽति नाऽदेष् अव्यम् ।
कुतः - पादैर् नूपुरिभिर् नितम्बफलकैः शिञ्जानकाःचीगुणैर् हारापादितकान्तिभिः स्तनत ऐः केयूर्भिर् बाहुभिः ।
कर्णैः कुण्डलिभिः करैः सवलयैः सस्वस्तिकैर् मूर्धजैर् देवीनाम् परिचारिकापरिजनोऽप्य् एतेषु सन्दृश्यते ॥४॥
न खलु किं चिद् अत्राऽपूर्वम् अनुष् हेयम् ।
केवलं स्वाम्यादेश इति मत्वाऽहं समादिश् अः ।
तद् आज्ञाशेषं राजपुत्र्यै निवेदयामि ।
(परिक्रम्याऽवलोक्य च)
इयं सा वासवदत्ता वीणाहस्तस्या काञ्चनमालया ऽनुगम्यमाना गन्धर्वशालाम् प्रविष्टा ।
यावद् अस्याः क्थयामि ।
(परिक्रामति)
(ततः प्रविशति गृहीत-वासवदत्तानेपथ्या ऽसनस्थाऽरण्यका वीणाहस्ता काञ्चनमाला च)
आरण्यका - हला कःचणमाले, कीस उण चिरअदि अज्ज वि वीणाआरिओ ।
काञ्चनमाला - भ इदारिए, दि हो तेण एक्को उम्मत्तो ।
तस्स वअणं सुणिअ चित्तेण भाविदो ओहसन्तो चि हदि ।
आरण्यका - (सहस्ततालं विहस्य) हञ्जे, सु हु एदं पुच्छदि ।
सरिसा सरिसे रज्जन्ति त्ति दुवे एत्थ उम्मत्ता ।
साङ्कृत्यायनी - राजपुत्र्याः सदृशम् आकारम् पश्याम्य् अस्याः ।
तादृशेनाऽकारेणाऽवश्यं त्वदीयाम् भूमिकां सम्भावयिषति ।
कञ्चुकी - (उपसृत्य) राजपुत्रि, देवस् त्वाम् आज्ञापयति: श्वोऽवश्यम् अस्माभिर् वीणां वादयन्ती श्रोतव्या ।
तत् त्वया नवतन्त्रीसज्जया घोषवत्या स्थेयम् इति ।
आरण्यका - ज�?? एव्वं लहु वीणाआरिअं विसज्जेहि ।
कञ्चुकी - एष वत्सराजम् ःरेषयामि ।
(इति निष्क्रान्तः)
आरण्यका - कञ्चाणमाले, उवणेहि मे घोसवदिं जाव से तन्तीओ परिक्खेमि ।
(काञ्चनमाला वीणाम् अर्पयति ।
आरण्यको त्सङ्गे वीणां कृत्वा सारयति)
(ततः प्रविषति गृहीत-वत्सराजनेपथ्या मनोरमा)
मनोरमा - (स्वगतम्) चिरअदि क्खु महाराओ ।
किं ण कधिदं वसन्तएण ।
अध वा देवीए भाअदि ।
ज�?? दाणिं आअच्छे तदो रमणीअं भवे ।
(ततः प्रविशति राजाऽवगुण् हितशरीरो विदूषकश् च)
राजा - सन्तापम् प्रथमं तथा न कुरुते शीतांशुर् अद्यैऽव मे निश्वासा ग्लपयन्त्य् अजस्रम् अधुनैऽवोऽष्णास् तथा नाऽधरम् ।
सम्प्रत्य एव मनो न शून्यम् अलसान्य् अङ्गानि नो पूर्ववद् दुःखं याति मनोरथेषु तनुतां सञ्चिन्त्यमानेष्व् अपि ॥५॥
वयस्य, सत्यम् एवोऽक्तम् मनोरमया: यथैऽषा मम प्रियसखी देव्या महाराजस्य दर्शनपथाद् अपि रक्ष्यते, तद् अयं समागमोपायः ।
अद्य रात्राव् अस्माभिर् उदयनचरितं नाम ना अकं देव्याः पुरतो नर्तितव्यम् ।
तत्राऽरण्यका वासवदत्ता भविष्यति, अहम् अपि वत्सराजः ।
तच्चरितेनैऽव सर्वं शिक्षितव्यम् ।
तद् आगत्य स्वयम् एव स्वाम् भूमिकां कुर्वाणः समागमोत्सवम् अनुभवत्व् इति ।
विदूषकः - ज�?? मं ण पत्तिआअसि इसा मणोरमा तुह वेसं धारअन्ती चि हदि ।
ता उवसप्पिअ सअं जेव्व पुच्छ ।
राजा - (मनोरमाम् उपसृत्य) मनोरमे, सत्यम् इदं यद् वसन्तकोऽभिधत्ते ।
मनोरमा - भ आ, सच्चं जेव्व ।
मण्डअ एदेहिं आभरणेहिं अत्ताणअं ।
(इत्य् आभरणान्य् अङ्गाद् अवतार्य राज्ञे समर्पयति)
(राजा परिदधाति)
विदूषकः - एदे क्खु राआणो दासीए वि एव्वं णच्चावीअन्ति ।
अहो कज्जस्स गरुअदा ।
राजा - (विहस्य) मूर्ख, नैऽष कालः परिहासस्य ।
निभृतेन चित्रशालाम् प्रविश्य मनोरमया सहाऽस्मन्नृत्तम् पश्यता स्थीयताम् ।
(उभौ तथा कुरुतः)
आरण्यका - कञ्चणमाले, चि हदु वीणा ।
पुच्च्छिस्सम् दाव किं पि ।
राजा - शृणोमि तावत् कतमोऽयम् उद्देशो वर्तते ।
(इत्य् अवहितः शृणोति)
काञ्चनमाला ।
पुच्छदु भ इदारिआ ।
आरण्यका ।
सच्चं जेव्व तादो मन्तेदि एव्वं: जधा ज�?? वीणं वादअन्तो अवहरेदि मं वच्छराओ अवस्सं बन्धणादो मुञ्चेमि त्ति ।
राजा - (प्रविश्य प आक्षेपेण सहर्षं वस्त्रान्ते ग्रथितम् बध्नाति) एवम् एतत् ।
कः सन्देहः ।
सपरिजनम् प्रद्योतं विस्मयम् उपनीय वादयन् वीणाम् ।
वासवदत्ताम् अपहरामि न चिराद् एव पश्याम्य् अहम् ॥६॥
यतः सुसंविहितं सर्वं यौगन्धरायणेन ।
वासवदत्ता - (सहसोऽत्थाय) जेदु जेदु अज्ज??त्तो ।
राजा - (स्वगतम्) कथम् प्रत्यभिज्ञातोऽस्मि देव्या ।
साङ्कृत्यायनी - (सस्मितम्) राजपुत्रि, अलम् अलं सम्भ्रमेण ।
प्रेक्षणीयकम् एतत् ।
राजा - (आत्मगतं सहर्षम्) इदानीम् उच्छ्वासितोऽस्मि ।
वासवदत्ता - (सविलक्षस्मितम् उपविश्य) कधं मणोरमा एसा ।
मए उण जाणिदं अज्ज??त्तो एसो त्ति ।
षहु मणोरमे साहु ।
सोहणं णच्चिदं ।
साङ्कृत्यायनी - राजपुत्रि, स्थान एव कृता भ्रान्तिस् ते मनोरमया ।
पश्य ।
रूपं तन् नयनोत्सवास्पदम् इदं वेषः स एवोऽज्ज्वलः सा मत्तद्विरदोचिता गतिर् इयं तत् सत्त्वम् अत्यूर्जितम् ।
लीला सैऽव स एव सान्द्रजलदह्रादानुकारी स्वरः सार्क्षाद् दर्शित एष नः कुशलया वत्सेश एवाऽनया ॥७॥
वासवदत्ता - हञ्जे इन्दीवरिए, बद्धेण अज्ज??त्तेण अहं वीणं सिक्खाविदा ।
ता से करेहि णीलुप्पलदामएण णिअलणं (शिरसोऽपनीय नीलोत्पलदामाऽर्पयति)
(इन्दीवरिका तथा कृत्वा पुनस् तत्रैऽवोऽपविशति)
आरण्यका - कञ्चणमाले, कधेहि कधेहि ।
णं सच्चं जेव्व मन्तेदि तादो: ज�?? वीणं वादअन्तो अवहरेदि मं वच्छराओ तदो अवस्सं बन्धणादो मुःचेमि त्ति ।
काञ्चनमाला - भ इदारिए, सच्चं ।
तधा करेहि जधा वच्छराअस्स अवस्सं बहुमदा होसि ।
राजा - निष्पादितम् एव काञ्चनमालया यत् तदा ऽस्माभिर् अभिलषितम् ।
आरण्यका - ज�?? एव्वं ता आदरेण वाद�??स्सं ।
(गायन्ती वादयति)
घणबन्धणसंरुद्धं गअणं द हूण माणासं एउं ।
अहिलस�?? राअहंसो द�??अं घेऊण अप्पणो वस�??ं ॥८॥
(विदूष्जको निद्रां नातयति)
मनोरमा - (हस्तेन चालयन्ती) वसन्तअ, पेक्ख पेक्ख ।
पिअसही मे णच्चदि ।
विदूषकः ।
(सरोषम्) दासीए सुदे, तुमं पि ण देसि सुविदुं ।
जदप्पहुदि पिअवअस्सेणआरण्णिआ दि हा तदप्पहुदि तेण सह मए रत्तिन्दिवं णिद्दा ण दि हा ।
ता अण्णदो णिक्कमिअ सुविस्सं ।
(निष्क्रम्य शेते)
आरण्यका - (पुनर् गायति)
अहिणवराअक्खित्ता महुअरिआ वामएण कामेण ।
उत्तम�?? पत्थन्ती द हुं पिअदंसणं द�??अं ॥९॥
राजा - (तत्क्षणं श्रुत्वा सहसोऽपसृत्य) साधु राजपुत्रि साधु ।
अहो गीतम् अहो वादित्रम् ।
तथा हि - व्यक्तिर् व्यञ्जनधातुना दशविधेनाऽप्य् अत्र लब्धाऽधुना विस्पष् ओ द्रुतमध्यलम्बितपरिच्छिन्नस् त्रिधाऽयं लयः ।
गोपुच्छप्रमुखाः क्रमेण यतयस् तिस्रोऽपि सम्पादितास् तत्त्वौघानुगताश् च वाद्यविधयः सम्यक् त्रयो दर्शिताः ॥१०॥
आरण्यका - (वीणाम् परिष्वज्याऽसनाद् उत्थाय राजानं साभिलाषम् पश्यन्ती) उवाज्झाअ, पणमामि ।
राजा - (सस्मितम्) यद् अहम् इच्छामि तत् ते भूयात् ।
काञ्चनमाला - (आरण्यकाया आसनं निर्दिश्य)
इद्ध ज्जेव्व उवविसदु उवज्झाओ ।
राजा - (उपविश्य) राजपुत्री क्वेऽदानीम् उपविशतु ।
कञ्चनमाला - (सस्मितम्) इदाणिं जेव्व भ - इदारिआ विज्जामाणेण परितोसिदा तुम्हेहिं ।
ता अरिहदि ज्जेव्व एसा उवज्झाअपीढिआए ।
राजा - उपविशत्व् अर्हेऽयम् अर्धासनस्य ।
राजपुत्रि, स्थीयताम् ।
(आरण्यका काञ्चनमालाम् पश्यति)
काञ्चनमाला - (सस्मितम्) भ इदारिए, उवविस ।
को एत्थ दोसो ।
सिस्सविसेसा खु तुमं ।
(आरण्यका सलज्जम् उपविशति)
वासवदत्ता - (सलज्जम्) भअवदीए अहिअं कप्पिदं कव्वं ण हु अहं तस्सिं काले एक्कासणे अज्ज??त्तेण सह उव हिदा ।
राजा - राजपुत्रि, पुनः श्रोतुम् इच्छामि ।
वादय वीणाम् ।
आरण्यका - (सस्मितम्) कञ्चणमाले, चिरं खु मम वादअन्तीए परिस्समो जादो ।
इदाणिं णिस्सहाइं अङ्गाइं ।
ता ण सक्कुणोमि वाद�??दुम् ।
काञ्चनमाला - उवज्झाअ, सु हु परिस्सन्ता भ इदारिआ ।
कवोलतलबद्धसेअलवाए पेक्ख से वेवन्ति अग्गहत्था ।
ता समस्सत्था भोदु मुहुत्तअं ।
राजा - काञ्चनमाले, युक्तम् अभिहितम् ।
(हस्तेन ग्रहीतुम् इच्छति ।
आरण्यका हस्तम् अपसारयति)
वासवदत्ता - (सासूयम्) भअवदि, अहिअं एदं पि तुए किदं ।
ण हु अहं कञ्चनमालाकव्वेण वञ्च�??दव्वा ।
साङ्कृत्यायनी - (विहस्य) आयुष्मति, ईदृशम् एव काव्यम् भविष्यति ।
आरण्यका - (सरोषम् इव) अवेहि कञ्चणमाले अवेहि ।
ण मे बहुमदा सि ।
काञ्चनमाला - (सस्मितम्) ज�?? अहं चि हन्ती णा बहुमदा ता एसा गच्छामि ।
(इति निष्क्रान्ता)
आरण्यका - (ससम्भ्रमन्) कञ्चणमाले, चि ह चि ह ।
अअं से अग्गहत्थो समप्पिदो ।
राजा - (आरण्यकाया हस्तं गृहीत्वा)
सद्योऽवश्यायबिन्दुव्यतिकरशिशिरः किम् भवेत् पद्मकोशो ह्लादित्वं नाऽस्य मन्ये सदृशम् इदम् उषस्य् एव वीतातपस्य ।
मुञ्चन्त्य् एते हिमौघं नखरजनिकराः पञ्च किं सोऽपि दाही ज्ञातं स्वेदापदेशाद् अविरतम् अमृतं स्यन्दते व्यक्तम् एतत् ॥११॥
अपि च - एतेन बालविद्रुमपल्लवशोभापहारदक्षेण ।
हृदये मम त्वयाऽयं न्यस्तो रागः स्वहस्तेन ॥१२॥
आरण्यका - (स्पर्शविशेषं ना अयन्त्य् आत्मगतम्) हद्धी हद्धी ।
एदश्ं मणोरमं फरिसन्तीए अणत्थं जेव्व मे अङ्गाइं ।
वासवदत्ता - (सहसोऽत्थाय) भअवदि, पेक्ख तुमं ।
अहं उण अलिअं ण पारेमि पेक्खिदुं ।
साङ्कृत्यायनी - राजपुत्रि, धर्मशास्त्रविहित एष गान्धर्वो विवाहः ।
किम् अत्र लज्जास्थानम् ।
प्रेक्षणीयकम् इदम् ।
तन् न युक्तम् अस्थाने रसभङ्गं कृत्वा गन्तुम् ।
(वासवदत्ता परिक्रामति)
इन्दीवरिका - (विलोक्य) भ इणि, वसन्तओ चित्तसालादुवारे पसुत्तो चि हदि ।
वासवदत्ता - (निरूप्य) वसन्तओ ज्जेव्व एसो ।
(विचिन्त्य)
रण्णा वि एत्थ होदव्वं ।
ता बोधाविअ पुच्छिस्सं दाव णं ।
(प्रबोधयति)
विदूषकः - (निद्राजडम् उत्थाय सहसा विलोक्य) मणोरमे, किं णच्चिअ आअदो पिअवअस्सो, अध वा णच्चदि ज्जेव्व ।
वासवदत्ता - (सविषादम्) कधं अज्ज??तो णच्चदि ।
मणोरमा दाणिं कहिं ।
विदूषकः - एसा चित्तसालाए चि हदि ।
मनोरमा - (सभयम् आत्मगतम्) कधं अण्णधा जेव्व हिअए कदुअ देवीए मन्तिदं, एदेण वि मुक्खबडुएण अण्णधा जेव्व बुद्धिअ सव्वं आउलीकिदं ।
वासवदत्ता - (सरोषं हसन्ती) साहु मणोरमे साहु ।
सोहणं तुए णच्चिदं ।
मनोरमा - (सभयं कम्पमाना पादयोर् निपत्य)
भ इणि, ण हु अहं एत्थ अवरज्झामि ।
एदेण क्खु हदासेण बलादो अलङ्करणाइं गेण्हिअ दुवार हिदेण इध णिरुद्धा ।
ण उण मह अक्कन्दतीए सद्दो मुक्खणिग्घोसन्तरिदो केण वि सुदो ।
वासवदत्ता - हञ्जे, उ हेहि ।
जाणिदं सव्वं ।
वसन्तओ क्खु आरण्णिआवुत्तन्तणाडए सुत्तधारो ।
विदूषकः - सअं जेव्व चिन्तेहि कहिं आरण्णिआ कहिं वसन्तओ त्ति ।
वासवदत्ता - मणोरमे, सुगहिदं कदुअ णं आअच्छ ।
जाव पेक्खणीअं से पेक्खामि ।
मनोरमा - (स्वगतम्) इदाणिं समस्सासिद म्हि ।
(विदूषकं करे बध्नाति । प्रकाशम्)
हदास, इदाणिं अणुभव अत्तणो दुण्णअस्स फलं ।
वासवदत्ता - (ससम्भ्रमम् उपसृत्य) अज्ज??त्त, पडिहदं एदं अमङ्गलं ।
(इति पादयोर् नीलोत्पलदामाऽपनयन्ती सोत्प्रासम्) मरिसदु अज्ज??त्तो जं मणोरम त्ति कदुअ णीलुप्पलदामएण बन्धाविदो सि ।
(आरण्यका सभयम् अपसृत्य तिष् हति)
राजा - (सहसोऽत्थाय विदूषकम् मनोरमां च दृष् वा ऽत्मगतम्) कथं विज्ञातोऽस्मि देव्या ।
(वैलक्स्यं ना अयति)
साङ्कृत्यायनी - (सर्वान् अवलोक्य सस्मितम्) कथम् अन्यद् एवेऽदम् प्रेक्षणीयकं संवृज़्ज़म् ।
अभूमिर् इयम् अस्मद्विधानाम् ।
(इति निष्क्रान्ता)
राजा - (स्वगतम्) अपूर्वोऽयं कोपप्रकारः ।
दुर्लभम् अत्राऽनुयम् पश्यामि ।
(विचिन्त्य) एवं तावत् करिष्ये ।
(प्रकाशम्) देवि, त्यज्यतां कोपः ।
वासवदत्ता - अज्ज??त्त, को एत्थ कुविदो ।
राजा - कथं न कुपिताऽसि ।
स्निग्धं यद्य अपि वीक्षितं नयनयोस् ताम्रा तथाऽ पि द्युतिर् माधुर्येऽपि सति स्खलत्य् अनुपदं ते गद्गदा वाग् इयम् ।
निश्वासा नियता अपि स्तनभरोत्कम्पेन संलक्षिताः कोपस् ते प्रक अप्रयत्नविधृतोऽप्य् एष स्फु अं लक्ष्यते ॥१३॥
(पादयोर् निपत्य) प्रसीद प्रसीद ।
वासवदत्ता - आरण्णिए, तुमं कुविद त्ति सम्भावअन्तो अज्ज??त्तो पिए पसीद त्ति पसादअदि ।
ता उवसप्प ।
(इति हस्तेना ऽकर्षति)
आरण्यका - (सभयम्) भ इणि, ण हु अहं किं पि जाणामि ।
वासवदत्ता - आरण्णिए, तुमं कधं ण अणासि ।
इदाणिं दे सिक्खावेमि ।
इन्दीवरिए, गेण्ह णं ।
विदूषकः - भोदि, अज्ज कोमुदीमहूसवे तुह चित्तं अवहरिदुं वअस्सेण पेक्खणीअं अणु हिदं ।
वासवदत्ता - एदं तुंहाणं दुण्णअं पेक्खिअ हासो मे जाअदि ।
राजा - देवि, अलम् अन्यथा विकल्पितेन ।
पश्य ।
भ्रूभङ्गैः क्रियते लला अशशिनः कस्मात् कलङ्को मुधा वाताकम्पितबन्धुजीवसमतां नीतोऽधरः किं स्फुरन् ।
मध्यश् चाऽ धिककम्पितस्तनभरेणाऽयम् पुनः खिद्यते कोपम् मुञ्च तवैऽव चित्तहरणायैऽतन् मया क्रीडितम् ॥१४॥
देवि, प्रसीद प्रसीद ।
(इति पादयोः पतति)
वासवदत्ता - हञ्जे, णिवुत्तं पेक्खणअं, ता एहि, अब्भन्तरं जेव्व पविसम्ह ।
(इति निश्क्रान्ता)
राजा - (विलोक्य) कथम् अकृत्वैऽव प्रसादं गता देवी ।
स्वेदाम्भःकणभिन्नभीषणतरभ्रूभङ्गम् एकं रुषा त्रासेनाऽपरम् उत्प्लुतोत्प्लुतमृगव्यालोलनेत्रोपलम् ।
उत्पश्यन्न् अहम् अग्रतो मुखम् इदं देव्याः प्रियायास् तथा भीतश् चोऽत्सुकमानसश् च महति क्षिप्तोऽस्म्य् अहं सङ्क ए ॥१५॥
तद् यावद् इदानीं शयनीयं गत्वा देव्याः प्रसादनोपायं चिन्तयामि ।
(इति निष्क्रान्ताः सर्वे)
(ततः प्रविशति मनोरमा)
मनोरमा - (सोद्वेगम्) अहो दीहरोसदा देवीए ।
कधं एत्तिअं कालं बद्धाए पिअसहीए आरण्णिआए उवरि अणुकम्पं ण गेण्हदि ।
(सास्रम्) सा तवस्सिणी अत्तणो बन्धणस्स किलेसेण तधा ण सन्तप्पदि जधा भ इणो दंसणणिरासदाए ।
ईदिसं च से दुक्खं जेण अज्ज ज्जेव्व अत्ताणअं वावादअन्ती मए कधं पि णिवारिदा ।
एदं वुत्तन्तं भ इणो णिवेदेहि त्ति वसन्तअं भणिअ आअद म्हि ।
(ततह् प्रविशति काञ्चनमाला)
काञ्चनमाला - कधं अण्णेसन्तीए वि मए भअवदी सङ्किचाअणी ण दि हा ।
(विलोक्य) ता एदं पि दाव मणोरमं पुच्छिस्सं ।
(उपसृत्य) मणोरमे, अवि जाणासि कहिं भअवदी सङ्किच्चाअणि त्ति ।
मनोरमा - (विलोक्याऽश्रूणि प्रमृज्य) हला कञ्चनमाले, दि हा ।
किं उण ताए पओअणं ।
काञ्चनमाला - मणोरमे, अज्ज देवीए अङ्गारवदीए लेहो पेसिदो ।
तस्सिं वादिए बप्प्झपुण्णणअणा दिढं सन्तप्पिदुं आरद्धा देवी ।
ता विणोदणणिमित्तं ताए भअवदिं अन्नेसामि ।
मनोरमा - हला, किं उण तस्सिं लेहे आलिहिदं ।
काञ्चनमाला - जा मम भ�??ण्णिआ सा तुह जणणी जेव्व ।
ताए भत्ता दिढवम्मा तादो दे ।
ता तुह किं एदं आअक्खिदव्वं ।
तस्स समहिओ संवच्छरो कलिङ्गहदएण बद्धस्स ।
ता ण जुत्तं एदं वुत्तन्तं अणि हं सुणिअ समीव हिदस्स समत्थस्स भत्तुणो दे एव्वं उदासीणत्तणं ओलम्बिदुं ति ।
मनोरमा - हला कञ्चनमाले, जदा दाव अअं वुत्तन्तो भ इणीए ण केण वि वाइदव्वो त्ति भ इणा आणत्तं ता केण उण दाणिं सो लेहो सुणाविदो ।
काञ्चनमाला - अणुवाइअ तुण्हिम्भूदाए मह हत्थादो गेण्हिअ सअं जेव्व भ इणीए वाइदो ।
मनोरमा - तेण गच्छ तुमं ।
एसा खु देवी ताए ज्जेव्व सह दन्तवलहीए चि हदि ।
काञ्चनमाला - तेण हि भ इणीसआसं गमिस्सं ।
(इति निष्क्रान्ता)
मनोरमा - चिरं खु मे आरण्णिआसआसादो आअदाए ।
दिढं च णिविण्णा सा तवस्सिणी अत्तणो जीविदेण ।
कदा इ अच्चाहिदं भवे ।
ता तहिं जेव्व गच्छामि ।
(इति निष्क्रान्ता)
इति प्रवेशकः (ततः प्रविशति सोद्वेगाऽ सनस्था वासवदत्ता साङ्कृत्यायनी विभवतश् च परिवारः)
साङ्कृत्यायनी - राजपुत्रि, अलम् उद्वेगेन ।
नेऽदृशो वत्सराजः ।
कथम् इत्थङ्गतम् अपि भवत्या मातृष्वसृपतिं विज्ञाय वत्सराजो निश्चिन्तं स्थास्यति ।
वासवदत्ता - (सस्राम्) भअवेदि, अदिउज्जुआ दाणिं ।
तुमं ।
जस्स मए ण कज्जं तस्स ममकेरएण किं कज्जं ।
अज्जुआए जुत्तं मम एदं आलिहिदुं ।
सा उण ण आणादि अज्ज तारिसी ण वासवदत्त त्ति ।
तुह उणा एसो आरण्णिआए वुत्तन्तो पच्चक्खो ।
ता कधं एदं भणासि ।
साङ्कृत्यायनी - यत एव मे प्रत्यक्षस् तत् एव ब्रवीमि ।
तेन ननु कौमुदीमहोत्सवे त्वाम् हासयितुं तथा क्रीडितम् ।
वासवदत्ता - भअवदि, एदं एत्थ सच्चं ।
तधा हासिद म्हि जेण भअवदीए पुरदो लज्जाए कधं पि चि हामि ।
ता किं तक्केरआए कधाए ।
णं एदेण ज्जेव्व पक्खवादेण एत्तिअं भूमिं णीद म्हि ।
(इति रोदिति)
साङ्कृत्यायनी - अलं राजपुत्रि रुदितेन ।
नेऽदृशो वत्सराजः ।
(विलोक्य) अथ वा प्राप्त एवाऽयम्, यस् ते मन्युप्रमार्जनं करोति ।
वासवदत्ता - मणोरधा दाणिं एदे भअवदीए ।
(ततः प्रविशति राजा विदूषकश् च)
राजा - वयस्य, क इदानीम् अभ्युपायः प्रियाम् मोचयितुम् ।
विदूषकः - भो वअस्स, मुञ्च विसादं ।
अहं दे उवाअं कध�??स्सं ।
राजा - (सहर्षम्) वयस्य, त्वरिततरम् अभिधीयताम् ।
विदूषकः - भो, तुमं दाव अणेअसमरसङ्घ अप्पहावबाहुसाली पुणो वि अणेअगअतुरअपाइक्कदुव्विसहबलसमुदिदो ।
ता सव्वबलसन्दोहेण अन्तेरुअं सुपीडिदं कदुअ इदाणिं जेव्व आरण्णिअं मोआवेहि ।
राजा - वयस्य, अशक्यम् उपदिष् अम् ।
विदूषकः - किं एत्थ असक्कं, जदो दाव कुज्जवामणवुड्ढकञ्चुइवज्जिदो मणुस्सो अवरो णत्थि तहिं ।
राजा - (सावज्ञम्) मूर्ख, किम् असम्बद्धम् प्रलपसि ।
देव्याः प्रसादम् मुक्त्वा नाऽन्यस् तस्या मोक्षणाभ्युपायः ।
तत् कथय कथं देविईम् प्रसादयामि ।
विदूषकः - भो, मासोववासं कदुअ जीविदं धारेहि ।
एव्वं देवी चण्डी पसीदिस्सदि ।
राजा - (विहस्य) अलम् परिहासेन ।
कथय कथं देवीम् प्रसादयामि ।
धृष् अः किम् पुरतोऽवरुध्य विहसन् गृह्णामि कण् हे प्रियाम् किं वा चा उशतप्रपञ्चरचनाप्रीतां करिष्यामि ताम् ।
किं तिष् हामि कृताञ्जलिर् निपतितो देव्याः पुरः पादयोः सत्यं सत्यम् अहो न वेद्म्य् अनुनयो देव्याः कथं स्याद् इति ॥१॥
तद् एहि, देवीसकाशम् एव गच्छावः ।
विदूषकः - भो, गच्छ तुमं ।
अहं उण दाणिं जेव्व बन्धणादो कधं पि परिब्भंसिअ आअदो म्हि ।
ता ण गमिस्सं ।
राजा - (विहस्य कण् हे गृहीत्वा बलान् निवर्तयति) मूर्ख, आगम्यताम् आगम्यताम् ।
(परिक्रम्याऽवलोक्य च) इयं देवी दन्तवलभीमध्यम् अध्यासे ।
यावद् उपसर्पामि ।
(सलज्जम् उपसर्पति)
(वासवदत्ता सखेदम् आसनाद् उत्तिष् हति)
राजा - किम् मुक्तम् आसनम् अलम् मयि सम्भ्रमेण नोऽत्थातुम् इत्थम् उचितम् मम् तान्तमध्ये ।
दृष् इप्रसादविधिमात्रहृतो जनोऽयम् अत्यादरेण किम् इति क्रियते विलक्षः ॥२॥
वासवदत्ता - (मुखं निरूप्य) अज्ज??त्त, विलक्खो दाणिं तुमं होसि ।
राजा - प्रिये, सत्यम् अहं विलक्षः, यत् प्रत्यक्षडृष् आपराधोऽपि भवतीम् प्रसादयितुं व्यवसितोऽस्मि ।
साङ्क्र्त्यायनी - (आसनं निर्दिश्य) महाराज, क्रियताम् आसनपरिग्रहः ।
राजा - (आसनं निर्दिश्य) इतो देव्य् उपविशतु ।
(वासवदत्ता भूमाव् उपविशति)
राजा - आः कथम् भूमाव् उपविष् आ देवी ।
अहम् अप्य् अत्रै ऽवोऽपविशामि ।
(इति भूमाव् उपविश्य कृताञ्जलिः) प्रिये, प्रसीद प्रसीद ।
किम् एवम् प्रणतेऽपि मयि गम्भीरतरं कोपम् उद्वहसि ।
भ्रूभङ्गं न करोषि रोदिषि मुहुर् मुग्धेक्षणे केवलं नातिप्रस्फुरिताधराऽनवरतं निःश्वासम् एवोऽज्झसि ।
वाचं नाऽपि ददासि तिष् हति परम् प्रध्याननम्रानना कोपस् ते स्तिमितो निपीडयति मां गूढप्रहारोपमः ॥३॥
प्रिये, प्रसीद प्रसीद ।
(इति पादयोः पतति)
वासवदत्ता - अदिसुहिदो णं सि ।
किं दाणिं दुक्खिदं जणं विआरेसि ।
उ हेहि ।
को एत्थ कुविदो ।
साङ्कृत्यायनी - उत्तिष् ह महाराज ।
किम् अनेन ।
अन्यद् एव तावद् उद्वेगकारणम् अस्याः ।
राजा - (ससभ्रमम्) भगवति, किम् अन्यत् ।
(सङ्कृत्यायनी कर्णे कथयति)
राजा - (विहस्य) यद्य् एवम् अलम् उद्वेगेन ।
मयाऽपि ज्ञातम् ।
सिद्ध एवाऽस्मिन् प्रयोजने देवीं दिष् या वर्धयिष्यामीऽति नोऽक्तम् ।
अन्यथा कथम् अहं दृढवर्मवृत्तान्ते विश्रब्धस् तिष् आमि ।
तत् कतिपयान्य् अहानी तद्वार्त्ताया आगतायाः ।
इदं च तत्र वर्तते ।
अस्मद्बलैर् विजयसेनपुरःसरैस् तैर् आक्रान्तबाह्यविषयो विहतप्रतापः ।
दुर्गं कलिङ्गहतकः सहसा प्रविश्य प्राकारमात्रशरणोऽशरणः कृतोऽसौ ॥४॥
तदवस्थं च तं निर्दिष् आक्रान्तमन्दम् प्रतिदिनविरमद्वीरदासेरवृत्तं सध्वंसं शीर्यमाणद्विपतुरगनरक्षीणनिःशेषसैन्यम् ।
अद्यऽश्वो वा विभग्ने झ इति मम बलैः सर्वतस् तत्र दुर्गे बद्धं युद्धे हतं वा भगवति नचिराच् छ्रोष्यसि त्वं कलिङ्गम् ॥५॥
साङ्कृत्यायनी - राजपुत्रि, प्रथमतरम् एव भवत्याः कथितम् मया कथम् अप्रतिविधाय वत्सराजः स्थास्यतीऽति ।
वासवदत्ता - ज�?? एव्वं पिअं मे ।
(प्रविश्य प्रतीहारी)
प्रतीहारी - जेदु जेदु भ आ ।
एसो क्खु विजअसेणो दिढवम्मकञ्चुइसहिदो हरिससमुप्फुल्ललोअणो पिअं णिवेदिदु-कामो दुवारे चि हदि ।
वासवदत्ता - (सस्मितम्) भअवदि, जधा तक्केमि परितोसिद म्हि अज्ज??त्तेण त्ति ।
साङ्कृत्यायनी - वत्सराजपक्षपातिनी खल्व् अहं न किं चिद् अपि ब्रवीमि ।
राजा - शीघ्रम् प्रवेशय तौ ।
प्रतीहारी - तधा (इति निष्क्रान्ता)
(ततः प्रविशति विजयसेनः कञ्चुकी च)
विजयसेनः - भोः कञ्चुकिन्, अद्य स्वामिपादा द्रष् अव्या इति यत्सत्यम् अनुपमं कम् अपि सुखातिशयम् अनुभवामि ।
कञ्चुकी - विजयसेन, अवितथम् एतत्, पश्य ।
सुखनिभरोऽन्यथाऽपि स्वमिनम् अवलोक्य भवति भृत्यजनः ।
किम् पुनर् अरिबलविघ अननिर्व्यूढप्रभुनियोगभरः ॥६॥
उभौ - (उपसृत्य) जयतु जयतु स्वामी ।
(राजोऽभाव् अपि परिष्वजते)
कञ्चुकी - देव, दिष् या वर्धसे ।
हत्वा कलिङ्गहतकं ह्य् अस्मत्स्वामी निवेशितो राज्ये ।
देवस्य समादेशाद् रिपुजयिना विजयसेनेन ॥७॥
वासवदत्ता - अ�?? भअवदि, अहिजाणासि एदं कञ्चुइणं ।
साङ्क्र्त्यायनी - कथं नाऽभिजानामि ।
ननु स एष यस्य हस्ते मातृष्वसा ते पत्त्रिकाम् अनुप्रेषितवती ।
राजा - साधु ।
विजयसेनेन महाव्यापारोऽनुष् हितः ।
(विजयसेनः पादयः पतति)
राजा - देवि, दिष् या वर्धसे ।
प्रतिष् हितो राज्ये दृढवर्मा ।
वासवदत्ता - (सहर्षम्) अणुग्गहिद म्हि ।
विदूषकः - ईदिसे अब्भुदए अस्सिं राअ??ले एदं करणीअं ।
(राजानं निर्दिश्य वीणावादनं ना अयन्) गुरुपूआ (आत्मनो यज्ञोप्रवीतं दर्शयन्) बम्हणस्स सक्कारो ।
(आरण्यकां सूचयन्) सव्वबन्धणमोक्खो त्ति ।
राजा - (वासवदत्ताम् अपवार्य छो इकां ददत्) साधु वयस्य साधु ।
विदूषकः - भोदि, कधं तुमं ण किं पि एत्थ समादिससि ।
वासवदत्ता - (साङ्कृत्यायनीम् अवलोक्य सस्मितम्)
मोइदा खु हदासेण आरण्णिआ ।
साङ्कृत्यायनी - किं वा तपस्विन्याऽनया बद्धया ।
वासवदत्ता - जधा भअवदीए रोअदि ।
साङ्कृत्यायनी - यद्य् एवम् अहम् एव गत्वा ताम् मोचयिष्यामि ।
(इति निष्क्रान्ता)
कञ्चुकी - इदम् अपरं सन्दिष् अम् महाराजेन दृढवर्मणा: त्वत्प्रसादात् सर्वम् एव यथाभिलषितं सम्पन्नम् ।
तद् एते प्राणास् त्वदीयाः ।
यथेष् अम् इमान् विनियोक्तुं त्वम् एव प्रमाणम् ।
(राजा सलज्जम् अधोमुखस् तिष् हति)
विजयसेनः - देव, न शक्यम् एव देवम् प्रति प्रीतिविशेषं दृढवर्मनः कथयितुम् ।
कञ्चुकी - यद्य् अपि तुभ्यम् प्रतिपादितायाः प्रियदर्शिकाया अस्मद्दुहितुः परिभ्रम्शान् न मे सम्बन्धो जात इति दुःखम् आसीत् तथाऽपि वासवदत्तायाः परिणेत्राऽपि त्वया तद् अपनीतम् एव ।
वासवदत्ता - (सास्रम्) अज्ज कञ्चुइ, कधं मे भ�??णी परिब्भ हा ।
कञ्चुकी - राजपुत्रि, तस्मिन् कलिङ्गहतकावस्कन्दे विद्रुतेष्व् इतस् ततोऽन्तःपुरजेनेषु दिष् या दृष् आम् इदानीं न युक्तम् अत्र स्थातुम् इति ताम् अहं गृहीत्वा वत्सराजान्तिकम् प्रस्थितः ।
तत्ः सञ्चिन्त्य ताम् विन्ध्यकेतोर् हस्ते निक्षिप्य निर्गतोऽस्मि ।
यावत् प्रतीपम् आगच्छामि तावत् कैर् अपि तत् स्थानं सह विन्ध्यकेतुना स्मर्तव्यतां नीतम् ।
राजा - (सस्मितम्) विजयसेन, किं कथयसि ।
कञ्चुकी - तत्रऽन्विष्यता मया न प्राप्ता ।
तदाप्रभृति नाऽद्याऽपि विज्ञायते क्व वर्तत इति ।
(प्रविश्य मोनोरमा)
मनोरमा - भ इणि, पाणसंसए व अदि सा तवस्सिणी ।
वासवदत्ता - (सास्रम्) किं उण तुमं पिअदंसणावुत्तन्तं जाणासि ।
मनोरमा - ण हु अहं पिअदंसणावुत्तन्तं जाणामि ।
एसा खु आरण्णिआ कल्लव्ववदेसेणा आणीदं विसं पाइअ पाणसंसए व अदि त्ति एव्वं मए णिवेदिदं ।
ता परित्ताअदु भ इणी ।
(रुदती पादयोः पतति)
वासवदत्ता - (स्वगतम्) हद्धी हद्धी ।
पिअदंसणदुक्खं पि मे अन्तरिदं आरण्णिआवुत्तन्तेण ।
अदिदुज्जणो क्खु लोओ ।
कदा इ मं अण्णधा सम्भाव�??स्सदि ।
मणोरमे, लहु इध ज्जेव्व आनेहि तं ।
णाअलोआदो गहिदविसविज्जो अज्ज??त्तो एत्थ कुसलो ।
(निष्क्रान्ता मनोरमा)
(ततः प्रविशति मनोरमया धृता सविषवेगम् आत्मानं ना अयन्त्य् आरण्यका)
आरण्यका - हला मणोरमे, कीस दाणिं मं अन्धआरं पवेसेसि ।
मनोरमा - (सविषादम्) हद्धी हद्धी ।
दि ही वि से सङ्कन्ता विसेण ज्जेव्व ।
(वासवदत्तां दृष् वा) भ इणि लहु परित्ताएहि लहु परित्ताएहि ।
गरुईभूदं से विसं ।
वासवदत्ता - (ससम्भ्रमं राजानं हस्ते गृहीत्वा)
अज्ज??त्त, उ हेहि उ हेहि ।
लहु विवज्जदि क्खु एसा तवस्सिणी ।
(सर्वे पश्यन्ति)
कञ्चुकी - (विलोक्य) सुसदृशी खल्व् इयम् मम राजपुत्र्याः प्रियदर्शनायाः ।
(वासवदत्तां निर्दिश्य) राजपुत्रि, कुत इयं कन्यका ।
वासवदत्ता - अज्ज, विञ्झकेदुणो दुहिदा ।
तं वावादिअ विजअसेणेण आणीदा ।
कञ्चुकी - कुतस् तस्य दुहिता ।
सैऽवेऽयम् मम राजपुत्री ।
हा हतोऽस्मि मन्दभाग्यः ।
(इति निपत्य भूमाव् उत्थाय) राजपुत्रि, इयं सा प्रियदर्शिका भगिनी ते ।
वासवदत्ता - अज्ज??त्त, परित्ताएहि परित्ताएहि ।
म्म भ्�??णी विवज्जदि ।
राजा - समाश्वसिहि समाश्वसिहि ।
पश्यामस् तावत् ।
(स्वगतम्) कष् अम् भोः कष् अम् ।
सञ्जातसान्द्रमकरन्दरसां क्रमेण पातुं गतश् च कलिकां कमलस्य भृङ्गः ।
दग्धा निपत्य सहसैऽव हिमेन चैऽषा वामे विधौ न हि फलन्त्य् अभिवाञ्छितानि ॥८॥
(प्रकाशम्) मनोरमे, पृच्छ्यतं तावत् किं ते बोध इति ।
मनोरमा - सहि, किं दे बोधो ।
(सास्रम् पुनश् चालयन्ती) सहि, णं भणामि किं दे बोधो त्ति ।
प्रियदर्शिका - (अविस्पष् अम्) णं अदाए वि ण मए महाराओ दि हो (इत्य् अर्धोक्ते भूमौ पतति)
राजा - (सास्रं स्वगतम्)
एषा मीलयतीऽदम् ईक्सणयुगं जाता ममाऽन्धा दिशः कण् होऽस्याः प्ःरतिर्ज़्ध्यते मम गिरो निर्यान्ति कृच्छ्राद् इमाः ।
एतस्याः श्वसितं हृतम् मम तनुर् निश्चेष् अताम् आगता मन्येऽस्या विषवेग एव हि परं सर्वं तु दुखम् मम ॥९॥
वासवदत्ता - (सास्रम्) पिअदंसए, उ हेहि उ हेहि ।
पेक्ख, एसो महाराओ चि हदि ।
कधं वेअणा वि से ण हा ।
किं दाणिं मए अवरद्धं अआणन्तीए जेण कुविदा नाऽलवसि ।
ता पसीद पसीद ।
उ हेहि उ हेहि ।
ण हु पुणो अवरज्झिस्सं ।
(ऊर्ध्वम् अवलोक्य) हा देव्वहदअ, किं दाणिं मए अवकिदं जेण एदावत्थं गदा मे भ�??णी आदंसिदा ।
(प्रियदर्शिकाया उपरि पतति)
विदूषकः - भो वअस्स, कधं तुमं मूढो विअ चि हसि ।
ण एसो विसादस्स कालो ।
विसमा खु गदी विसस्स ।
ता दंसेहि अत्तणो विज्जापहावं ।
राजा - सत्यम् एवैऽतत् ।
(प्रियदर्शिकाम् आलोक्य) मूढ एवाऽहम् एतावतीं वेलाम् ।
तद् अहम् एनां जीवयामि ।
सलिलं सलिलम् ।
विदूषकः - (निष्क्रम्य पुनः प्रविश्य) भो, एदं सलिलं ।
(राजोऽपसृत्य प्रियदर्शनाया उपरि हस्तं निधाय मन्त्रस्मरणं ना अयति ।
प्रियदर्शिका शनैर् उत्तिष्ठति)
वासवदत्ता - अज्ज??त्ता, दि हिआ पच्चुज्जीविदा मे भ�??णी ।
विजयसेनः - अहो देवस्य विद्याप्रभावः ।
कञ्चुकी - अहो सर्वत्राऽप्रतिहता नरेन्द्रता देवस्य ।
प्रियदर्शिका - (शनैर् उत्थायोऽपविश्य च जृम्भिकां ना अयन्ती सविषादम् अविस्पष् अम्) मणोरमे, चिरं खु सुत्त म्हि ।
विदूषकः - भो वअस्स, णिव्वूढं दे वोदित्तणं ।
(प्रियदर्शिका साभिलाषं राजानं निरूप्य सलज्जं किं चिद् अधोमुखी तिष् हति)
वासवदत्ता - (सहर्षम्) अज्ज??त्ता, किं दाणिं पि एसा अण्णधा जेव्व करेदि ।
राजा - (सस्मितम्)
स्वभावस्था दृष् इर् न भवति गिरो नाऽतिविशदास् तनुः सीदत्य् एषा प्रक अपुलकस्वेदकणिका ।
यथा चाऽयं कम्पः स्तनभरपरिक्लेशजननस् तथा नाऽद्याऽप्य् अस्या नियतम् अखिलं शाम्यति विषम् ॥१०॥
कञ्चुकी - राजपुत्रि, एष ते पिरुत् आज्ञाकरः ।
(इति पादयोः पतति)
प्रियदर्शिका - (विलोक्य) कधं कञ्चुई अज्ज-विणअवसू ।
(सास्रम्) हा ताद, हा अज्जुए ।
कञ्चुकी - राजपुत्रि, अलं रुदितेन ।
कुशलिनौ ते पितरौ ।
वत्सराजप्रभावात् पुनस् तदवस्थम् एव राज्यम् ।
वासवदत्ता - (सास्रम्) एहि अलिअसीले ।
इदाणिं पि दे भ�??णिआसिणेहं दंसेहि ।
(कण् हे गृहीत्वा) इदाणिं समस्सत्थ म्हि ।
विदूषकः - भोदि, तुमं भ�??णिं गेण्हिअ कण् हे एव्वं परितु हा सि ।
वोदिअस्स पारितोसिअं विसुमरिदं ।
वासवदत्ता - वसन्तअ, ण विसुमरिदं ।
विदूषकः - (राजानं निर्दिश्य सम्सितम्) वोदिअ, पसारेहि हत्थं ।
भ�??णीए अग्गहत्थं दे पारितोसिअं दाविस्सं ।
(राजा हस्तम् प्रसारयति ।
वासवदत्ता प्रियदर्शिकाहस्तम् अर्पयति)
राजा - (हत्सम् उपसंहृत्य) किम् अनया ।
सम्प्रत्य् एव कथम् अपि प्रसादिताऽसि ।
वासवदत्ता - को तुमं अगेण्हिदुं ।
पढमं जेव्व तादेण इअं दिण्णा ।
विदूषकः - भो, माणणीआ खु देवी ।
मा से पडिऊलं ।
करेहि ।
(वासवदत्ता राज्ञो हस्तम् बलाद् आकृष्य प्रियदर्शिकाम् अर्पयति)
राजा - (सस्मितम्) देवी प्रभवति ।
कुतोऽस्माकम् अन्यथा कर्तुं विभवः ।
वासवदत्ता - अज्ज??त्त, अदो वि परं किं दे पिअं करीअदु ।
राजा - किम् अतः परम् प्रियम् ।
पश्य ।
निःशेषं दृढवर्मणा पुनर् अपि स्वं राज्यम् अध्यासितं त्वं कोपेन सुदूरम् अप्य् अपहृता सद्यः प्रसन्ना मम ।
जीवन्ती प्रियदर्शना च भगिनी भूयस् त्वया सङ्गता किं तत् स्याद् अपरम् प्रियम् प्रियतमे यत् साम्प्रतम् प्रार्थ्यते ॥११॥
तथाऽपीऽदम् अस्तु: (भरतवाक्यम्)
उर्वीम् उद्दामसस्यां जनयतु विसृजन् वासओ वृष्टिम् इष्टाम् इष्टैस् त्रैविष् अपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात् स्थिरसमुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिम् पिशुनजनगिरो दुःसहा वज्रलेपाः ॥१२॥
(इति निष्क्रान्ताः सर्वे)