प्रेमपरीक्षा

[[प्रेमपरीक्षा Source: EB]]

[

प्रेमपरीक्षा

(व्यवस्थापकः रङ्गमञ्चोपरि ध्वनियन्त्रं हस्ते गृहीत्वा)

अयि भोः सामाजिकाः अद्य वयं प्रेमपरीक्षा नाम नाटकं प्रदर्शयितुम् उद्युक्ताः । आधुनिकप्रपञ्चे केचन युवकाः, युवत्यः वक्रमार्गे नेतुं स्वीय हृदयभावनां मधुरभावनारूपेण दर्शयित्वा ताः अनुभोक्तुं प्रयतन्ते । तेषां हृदयस्य भावनां परीक्षितुं युवत्यः अशक्ताः भवन्ति । केचन युवकाः सत्यं मनसा अनुरूपवत्यः युवतीः परिणेतुम् अभिलषन्तः तेषां भावनां प्रकटीकर्तुं सङ्कोचात्मानः भवन्ति । युवत्यः पुरुषान् परीक्ष्यतैस्साकपरिणीताः भवितव्याः इति अनेन नाटकरूपेण प्रदर्शितम् आसीत् । अस्य नाटकस्य कर्ता गीर्वाणान्ध्रभाषाप्रवीणः गेयचक्रवर्ती संस्कृतमहाकविः पण्डित परीक्षित् शर्मा । अस्य कविता अतीव सरला सर्व जनानानुमोदिनी । विंशतितम शताब्दे अयं सप्तविंशति नाटककर्ता । अस्य नाटकसमुदायस्य नाम परीक्षिन्नाटकचक्रम् । नाटकं दृष्ट्वैव भवन्तः अस्य कवेः भाषा सौन्दर्यं पात्रचालनदक्षतां च ज्ञास्यन्ति । नमांसि । (इति निर्गच्छति)

(यवनिका अपर्सायते)

(रङ्गमञ्चे कामाक्षी (माता) सुन्दरी (कुमारी) स्तः । सुन्दरी कुर्च्याम् उपविश्य टेबुलोबरि पत्रनिचयं संस्थाप्य किमपि लिखन्ती आस्ते । कामाक्षी गृहकृत्यं कुर्वन्ती इतस्ततः वस्तुनिचयं सारयन्ती आस्ते)

कामाक्षी – सुन्दरि ।

सुन्दरी – हाँ मातः ।

कामाक्षी – अधुना दशघण्टाः अभवन् । त्वं कदा गमिष्यसि विद्यालयम् ।

सुन्दरी – मे लेखनकर्म समाप्तम् । अधुना गच्छामि । (इत्युत्थाय स्कन्ध लम्बिनि गोण्यां निक्षिपति)

कामाक्षी – सुन्दरि, पाथेयपात्रं गृहाण । (इति अन्तःगच्छति आनेतुम्)

सुन्दरी – मातः ।

कामाक्षी – (परावृत्य) हां किम् ।

सुन्दरी – मातः अद्य पाथेयपात्रं मा देहि ।

कामाक्षी – किमिति ।

सुन्दरी – अद्य शनिवासरः । अद्य एकघण्टावेलायां विद्यालयबन्धनं भवति ।

कामाक्षी – विद्यालय बन्धनानन्तरं भोजनं कुरु पाथेयपात्रं गृहाण ।

सुन्दरी – अद्य भोजनं मास्तु ।

कामाक्षी – विना च भोजनं कथम् । किमर्थमेवं वदसि अद्य ।

सुन्दरी – अद्य मे एकस्य सहाध्यायिनः जन्मदिवसः भवति । वयं सर्वे सहाध्यायिनः मिलित्वा तस्य गृहं द्विघण्टावादनसमये भोजनार्थं गमिष्यामः ।

कामाक्षी – पुनरागमनं कदा ।

सुन्दरी – पुनरागमनं सप्तघण्टावादनसमये । (इति स्वीयालङ्करणं सम्यक् विधाय पादत्राणे धरति)

कामाक्षी – इयन्तमालस्यं किमर्थं भवति ।

सुन्दरी – जननि, भोजनानन्तरं सन्ध्यासमये सार्धं पञ्चघण्ठावादनसमये सर्वेषां समक्षं जन्मदिवसदीपसमारम्भः भविष्यति । तदा यत्किमपि तस्मै उपायनमिव दातव्यम् अस्ति । तस्मात् वयं विद्यार्थिन्यः समाहृत्य यत्किमपि वस्तु तस्मै दातुम् उद्युक्ताः अभवाम । तदर्थं तद्वस्तुक्रेतुं विपणी गन्तव्यं विद्यते ।

कामाक्षी – जगति एवं प्रथाविद्यते जन्मदिवसि यत्किमपि उपायनमिव दातव्यम् इति ।

सुन्दरी – तस्मात् वयं विद्यार्थिन्यः मे सखी वल्लरी इत्यादयः सन्ध्यासमये विपणीं गत्वा ऊर्णवस्त्रं वेषार्थं क्रीत्वा आनयेम । सप्तघण्टावादनपर्यन्तं तत्रैव वयं स्थास्यामः ।

कामाक्षी – एकैकस्य अंशदानं कियत् भवति ।

सुन्दरी – एकैकस्य अंशदानं पञ्चतिरूप्यकाणि भवन्ति ।

कामाक्षी – गच्छ । अप्रमत्ततया चलनं तरणं च कर्तव्यं रथ्यासु । यातायातया न विषयं लक्षीकृत्य व्यवहर ।

सुन्दरी – तथैव मातः । (इति गोणीं गृहीत्वा निर्गच्छति)

कामाक्षी – (वस्तुचयं स्वच्छीकृत्य निक्षिपति अन्तः गच्छति)

(ततः प्रविशति भास्करः धूम्रपानवर्तिमुखः सः पादत्राणौ त्यक्त्वा शयनकुर्च्याम् उपविशति)

भास्करः – हञ्जे कामाक्षि । (इति आह्वयति)

कामाक्षी – (प्रविश्य) किं भोः एषास्मि कथयन्तु ।

भास्करः – इतः एहि ।

कामाक्षी – (समीपमागच्छति) किम् विद्यते रहस्यम् ।

भास्करः – उपविश ।

कामाक्षी – (एकं त्रिपाद पीठं आनीय उपविशति)

भास्करः – किं शृतं भवत्या ।

कामाक्षी – किमिति ।

भास्करः – त्वया न श्रुतम् ।

कामाक्षी – बत कथयतु भवान् सत्वरम् ।

भास्करः – त्रिपाठी, पुत्रस्य विवाहं विनिश्चितवान् ।

कामाक्षी – भवन्तः कथं जानान्ति ।

भास्करः – मया अधुनैव ज्ञातम् ।

कामाक्षी – केनोक्तम् ।

भास्करः – त्रिपाठिनाम् ।

कामाक्षी – तेन स्वतः उक्तम् ।

भास्करः – हाँ स्वतः तेनैवोक्तम् ।

कामाक्षी – कदा ।

भास्करः – अधुना ममागमनसमये मे सम्मुखमागत्य नमस्कृत्य अयि भोः भास्करमहोदय किं ते कुमार्याः विवाहः न निश्चितः किम् एतावत्पर्यन्तम्, इति माम् अपृच्छत् । एतावत्पर्यन्तं न निश्चितमिति मया उक्तम् ।

कामाक्षी – तदा किं प्रत्युत्तरं दत्तं तेन ।

भास्करः – तदा सः अवोचत् तस्य कुमारस्य विवाहः विनिश्चितः इति ।

कामाक्षी – कुमारस्य विवाहनिश्चये न किमपि कष्टं भवति । विद्यते खलु तस्य पुत्री, यदि तस्याः विवाहः निश्चितः भवति तर्हि अयं अदृष्टवान् महत् कार्यकर्ता भविष्यति ।

भास्करः – सः अघटन घटनासमर्थः सः करिष्यति ।

कामाक्षी – हां सत्यमेव सः अस्मादृशः नहि ।

भास्करः – व्यङ्ग्यकथनं प्रारब्धं किम् ।

कामाक्षी – नहि नहि । कुत्र विनिश्चितम् अस्ति ।

भास्करः – मद्रपुर्याम् । (मद्रासनगरे)

कामाक्षी – किं सा पदवीधरा ।

भास्करः – हा सा वास्तुशास्त्रज्ञा । तत्रैव अशासकीयकर्मागारे कर्मकरोति । तस्य मासिकवेतनं सहस्रद्वयमिति च प्रोक्तम् । सा तमिलमातृभाषिका ।

कामाक्षी – त्रिपाठी महोदयः औत्तराही खलु ।

भास्करः – हां सः औत्तराही ।

कामाक्षी – एकः उत्तरध्रुवीयः अपरः दक्षिणध्रुवीयः द्वयोर्मध्ये महदन्तरं विद्यते विवाहः कथं भविष्यति ।

भास्करः – अधुना तादृशविभागः नहि । वयं भारतीयाः भारतीय संस्कृति प्रेमिणः । संस्कृतिज्ञाः । सर्वमपि भारतवर्षम् एकमेव । विशिष्य ब्राह्मणानां संस्काराः आचारव्यवहारादयः एकसूत्रिताः भवन्ति । एतौद्वावपि ब्राह्मणौ ।

कामाक्षी – अयं दक्षिणात्यः अय्यरमहोदयः त्रिपाठी औत्तराही कथं सम्बन्धः भविष्यति ।

भास्करः – (उत्थाय) कामाक्षि त्वम् अतीव पूर्वाचारपरायिणी असि । शृणु भारतवर्षे आसेतुहिमाचलं सर्वे भारतीयाः एव । विशिष्य ब्राह्मणानां भावना वेदान्तसूत्रबद्धा । तस्मात् त्रिपाठी अय्यर् महोदययोः समागमः शास्त्रबद्ध एव ।

कामाक्षी – गृहे ते विभिन्नभाषाः भाषन्ते । कथं हृदयाभिप्रायम् अन्योन्यं ज्ञास्यन्ति ।

भास्करः – हृदयभाव व्यक्तीकरणार्थं प्रथमतः दयार्द्रहृदयं विद्यते । द्वितीयं भारतीय संस्कृतिभाषा संस्कृतभाषा विद्यते । तृतीयं प्रपञ्चभाषा आङ्ग्लभाषा विद्यते । व्यवहारभाषा हिन्दी विद्यते । एतत् भिन्नं किमपेक्ष्यते कथय ।

कामाक्षी – अधुना भवतः हृदयं मम ज्ञातम् आसीत् । एतादृश भावनापरीतः भवान् स्वकुमार्याः विवाहकरणे विलम्बं कथं कृतवानसि । अहं बहुवारं कुमार्याः विवाहः करणीयः इति अवोचम् भवान् न श्रृतवानस्ति । एतादृशी भारतीय संस्कृति प्रेमिकः कुमार्याः विषये आस्थां दर्शितवान् इति अहं कथयामि ।

भास्करः – त्वदुदीरितं सत्यमेव किन्तु त्रिपाठी अतीव धनसम्पन्नः । अपिच अस्मदीय पुत्री एम्. एस्. सी. पठति इति निर्लक्ष्यमकरवम् ।

कामाक्षी – पश्य एतावत्पर्यन्तं भवता न किमपि कृतम् । भवान् व्यवहारानभिज्ञः ।

भास्करः – कामाक्षि विवाहविषये समानशीलता समान आहार व्यवहारः युक्तो भवति इति मे अभिप्रायः ।

कामाक्षी – अधुनैव भवता प्रोक्तं खलु वयं भारतीयाः एक संस्कृति सूत्रबद्धाः इति ।

भास्करः – तत् सत्यमेव । श्रीमतां न किमपि कष्टं भवति । सर्वमपि मध्यम कुटुम्बीकानां कठिनं भवति इति मया अवगतम् । तस्मात् अहं माध्यस्तमवलम्बितोस्मि शृणु ।

विरोधे च विवाहेपि । स्नेहेच समता सदा ।
पालनीयास्ति लोकेस्मिन् । सज्जनैस्सङ्घवादिभिः ।

अस्मदीय सुभाषिणी शतथा सुन्दरी तस्यै सुन्दरः कुमारः द्रष्टव्यः विद्यते न तु अत्यन्त श्रीमान् ।

कामाक्षी – त्वं सर्वदा एवमेव कथयसि।

भास्करः – कथने किं विद्यते । विवाहस्य समयः समासन्नः भवितव्यः विद्यते ।

कामाक्षी – भवान् विचार्य सत्वरं सुन्दर्याः परिणयं समाचरतु ।

भास्करः – एषु दिवसेषु एषा यं कामयते तेन साकं विवाहं कर्तुम् अहम् उद्युक्तः अस्मि । वरमार्गणं न योग्यं भवति ।

कामाक्षी – मांसभक्षणेनापि विवाहः निर्णीयते ।

भास्करः – नहि । योग्येन येनकेनापि ब्राह्मणकुमारेण केवलम् सः यदि शाकाहारी भवति तदैव नोचेत् नहि ।

कामाक्षी – असंस्कारेणापि ।

भास्करः – तथा नहि यदि सः शाकाहारी भवति अपिच संस्कृतिसभ्यताज्ञः अपिच भारतीय परम्परा प्रेमिकः अधुनातनजीवने वसन्नपि प्राचीनमार्ग जीवन संलग्नः भवति तर्हि, तदैव सुन्दर्याः विवाहं करिष्यामि न त्वन्यथा ।

कामाक्षी –वंशानुरोधेन गुणाः भवन्ति । वंशाचारः कुलाचारः नत्यक्तव्यः अस्ति ।

भास्करः – तदेवाहमपि चिन्तयामि । (किञ्चित् विचार्य) हां सुन्दरी गृहेनास्ति किम् ।

कामाक्षी – नास्ति, अद्य सा मित्रस्य जन्मदिवसार्थं मित्रगृहं गतवती ।

भास्करः – कदा प्रत्यागमिष्यति ।

कामाक्षी – सप्तघण्टावादनसमये ।

भास्करः – कामाक्षि, आधुनिकाः युवकाः संस्कारहीनाः निर्गन्धकुसुमाः इव वर्तन्ते । समाजे सावधानतया व्यवहर्तव्या इति ताम्प्रति कथय ।

कामाक्षी – अहम् उक्तवती । सा न एकाकीगता तस्याः सखीभिः गता । अत्र चिन्ता न कार्या ।

भास्करः – (उत्थाय) हञ्जे अद्य शाकपाकादिकं किं कृतम् ।

कामाक्षी – वार्ताकशाकः सूपः पोलिकाः ओदनं पायसान्नञ्च कृतानि वर्तन्ते ।

भास्करः – वार्ताकशाकः । अरे वा ।

कामाक्षी – कदापि न भुक्तं किं वार्ताकम् ।

भास्करः – बहुवारं भुक्तम् । तव किं ज्ञायते वार्ताकस्य स्वादुता ।

कामाक्षी – नाहं जाने वार्ताकस्य स्वादुताम् ।

भास्करः – शृणु । वार्ताकस्य स्वादुता वृत्तमूले, वनितायाः स्वादुता ऊरमूलेच वर्तेते इति रसिकानां समयः अस्त ।

कामाक्षी – (त्रपया हस्तेन मुखं पिधाय) भवान् वृद्धोऽपि कुमारायसे ।

भास्करः – सर्वेऽपि वार्धक्ये कुमारायन्ते । चल अन्तः चल ।

कामाक्षी – स्तब्ध निमेष पञ्चकम् ।

भास्करः – बुभुक्षा मां पीडयति । भोजनं देहि कामाक्षि घृतसूपसमन्वितम् । (इति अन्तः गच्छति कामाक्षी अपि अन्तःगच्छति)

(यवनिका पतति)

********************************************************

.

द्वितीयं दृश्यम्

(सुन्दरी, वल्लरी, अनिलः, भार्गवी, अविनाश प्रभृतयः कुर्चीषु उपविष्टाः । एकस्मिन् टेबुल्यां केक् अपि च मेनवर्ती दीपिकाः वर्तन्ते सर्वेपि उपविष्टाः सन्ति)

अविनाशः – अयि भोः सुहृदः अद्य मे पञ्चदशीय जन्मदिवसोत्सवे मम मैत्रिणी सुन्दरी गायनं करिष्यति । (सर्वेऽपि करतालध्वनिं कुर्वन्ति)

सुन्दरी – अरे अविनाश अत्र बह्वः सन्ति ते न गायन्ति किम् ?

अविनाशः – अहं तव गानम् अभिलषामि ।

सुन्दरी – मया गातव्यं किम् ?

अविनाशः – त्वं सुन्दरी खलु । तवागमनेन अयं समारम्भः परिपुष्टिं प्राप्तः । तव गानामृतेन सर्वत्रापि मरन्दसेचनं भविष्यति ।

सर्वे – हां सत्यमेव सुन्दरी गायस्व भवती ।

भार्गवी – बाले सुन्दरी मम पुत्रस्य जन्मदिवसि तव गायनमेव योग्यं शोभामयञ्च भवति इति सर्वेषां मतम् ।

सुन्दरी – मातृसमाना भवती कथयसि, हां सत्यं अवश्यम् अहं गास्यामि ।

गीतम् (कल्याणीरागे)

तव जीवनं सुखजीवनम्
भूयात् सदा कामितम्
शान्ति सुख पूरितम्
र्प्रेमभाव लता वेष्ठितम् ध्रु.

मित्रहृदय भावसून मण्डितम्
मधुर प्रेमरसाभि वर्धितम्
राजतेतरां शताब्दसीमितम्
वसतु भवान् मुदा निरामयम् 1

सर्व सुहृद मनोभिलाषितम्
शान्ति सौख्य विलासितम्
भवतु लोक सञ्जीवनम्
लसतु जगति शरदां शतम् 2

भार्गवी – बाले सम्यक् गीतं भवत्या । त्वं सर्वथा सुन्दरी । (इति तां स्वीयहस्तेन मस्तकं स्पृशति)

(अविनाशः दीपिकाः मुखवातेन प्रशामयति सर्वेपि करतालध्वनिं कुर्वन्ति । अविनाशः मुष्टिधारया केकुं कटति एकैकः केकुं नीत्वा अविनाशाय यस्छति । अविनाशः एकं केकुं खादति सर्वान् नेतुं आदिशति । सर्वोपि केकुं गृहीत्वा अरे अविनाश शरदां शतं जीवतु भवान् इति आशीर्वादन् यच्छन्ति ।)

अविनाशः – (सुन्दर्याः समीपम् आगत्य) सुन्दरि त्वं सत्यमेव गायनेऽपि सुन्दरी असि । तव गानेन मे जन्मदिवसः परिपूर्णतां गतः । त्वम् आगत्य मे जन्मदिवसः कार्यक्रमं सौन्दर्यपूर्णं कृतासि ।

सुन्दरी – अरे अविनाश, कृतार्थास्मि तव प्रशंसया । मम जीवने अहं ते अप्रियं न करिष्यामि । तव सन्तोषः एव मे सन्तोषः ।

अनिलः – अरे अविनाश शतसंवत्सरं दीर्घमायुः भूयात् ते ।

सुन्दरी – अरे अनिल ते जन्मदिवसः कदा ।

अनिलः – आवयोः जन्मदिवसः एकस्मिन् वर्षेमासे भविष्यति । (सर्वेऽपि हसन्ति)

सुन्दरी – हञ्जे वल्लरि किं ते पतिः एतावत्पर्यन्तं नागतः । अद्य आगमिष्यतिवा नवा ?

वल्लरी – त्वं गच्छ, अहम् आगच्छेयम् इत्युक्तं तेन । नाहं जाने कुतः न आगतः ।

अविनाशः – कार्यान्तरे निमग्नेन भवितव्यम् । तस्मात् आगन्तुं नाशक्नोत् इति मन्ये ।

वल्लरी – हां तथैव सन्दृश्यते ।

अविनाशः – सुन्दरि त्वया कथं गम्यते गृहम् ।

सुन्दरी – अहं वल्लरीच बस्‌यानेन उत त्रिचक्रयानेन गच्छेव ।

अविनाशः – तथा मा गच्छ । युवां द्वावपि मम कारुयाने गच्छतम् । अधुना सप्तघण्टाऽभूत् ।

सुन्दरी – अरे अविनाश त्वं सर्वदा मद्विषये अतीव श्रद्धालु भवसि ।

अविनाशः – सत्यं भवद्विषये मे अत्यन्तश्रद्धा विद्यते ।

भार्गवी – बाले बल्लरी सुन्दर्यौ अधुना रजनी जाता भवत्यौ कारुयानेन गच्छताम् । अस्यां रजन्यां युवतीनां गमनं न समीचीनं भवति । अयं प्रदेशः सर्वथा दुष्टशक्तिभिः कलुषितः । (इति वल्लर्याः मुखेतिलकं निक्षिपति ताम्बूलं च ददाति अनन्तरं सुन्दर्याः फाले तिलकं निक्षिप्य तस्यै ताम्बूलं ददाति) हञ्जे सुन्दरि सत्वरं त्वं कल्याणवती भव । (इति आशीर्वादान् ददाति)

सुन्दरी – (लज्जा विनम्रा) वल्लरी एहि गच्छावः ।

अविनाशः – अरे सिङ्ग् ।

(तत् प्रविशति सिङ्ग्)

सिङ्ग् – अयमस्मि भोः ।

अविनाशः – इमौ द्वे गृहं प्रापय कारुयानेन ।

सिङ्ग् – बाढम्म् । (इति गच्छति)

सुन्दरी – जननि भार्गवि अरे अविनाश शुभरात्रिः । (इति हस्तमुद्यम्य गच्छतः)

अनिलः – अरे अविनाश अहमपि ताभ्यां साकं गच्छेयम् ।

अविनाशः – अरे अधुना ते अवसरः किम् । अधुना गृहं गत्वा किं करिष्यसि । उपविश किञ्चित्कालम् अत्रैव इष्टागोष्टिं कुर्याव ।

अनिलः – अधुना गत्वा कविता कर्तव्या ।

अविनाशः – अत्र कुरु कविताम् । किञ्चित्कालं अत्रैव निवस लोकाभिरामायणं करिष्यावः ।

अनिलः – हां वसेयम् । (इति कुर्च्याम् उपविशति)

(यवनिका पतति)

*****************************************************

.

तृतीयं दृश्यम्

(विश्वविद्यालयस्य पुरतः नारिकेलवृक्षासमीपे अविनाशः अपिच सुन्दरी सम्भाषेति)

अविनाशः – हञ्जे सुन्दरि ह्यः तव गानम् अतीव सुन्दरं जातम् ।

सुन्दरी – न कोऽपि विशेषः अस्ति रे ह्यस्तन गाने । मम तत् गानम् साधारणम् आसीत् ।

अविनाशः – नहि ह्यः तव कण्ठे कलकण्ठ काकलीध्वनिविशेषः परमभूत् ।

सुन्दरी – (विहस्य) अरे तव जन्मविशेषः खलु तस्मात् तव तथा आभासे ।

अविनाशः – हसे सुन्दरी तव गायने कापि अनिर्वचनीयभावना मन्दं मन्दं किमपि उत कमपि शोधयन्ती मार्गयन्ती च आसीत् ।

सुन्दरी – त्वं तथा मनुषे किम् ।

अविनाशः – सुन्दरि त्वं मे जीवन सर्वस्वमिव ह्यः अथासथाः ।

सुन्दरी – त्वमपि ह्यः नवमन्मथः इव दृष्टोऽसि ।

अविनाशः – अहं त्वां परिणेतुम् इच्छामि सुन्दरि का ते भावना ।

सुन्दरी – (लज्जया) अरे अविनाश, किं वदसि रे त्वम् ।

अविनाशः – हसे त्वया साकं भाषुतुं तव गानं श्रोतुं अहं मे जन्मदिवसं अस्मिन् वर्षे व्यरचयम् ।

सुन्दरी – ते प्रेमभावना परमस्तवनीया भवति ।

अविनाशः – पुरुषप्रकृति विलसितोऽयं प्रपञ्चः । आवयोः समागमः गङ्गा सागर सङ्गम सदृशः ।

सुन्दरी – अरे अहमपि त्वयि लग्नमानसा सञ्जाता ।

अविनाशः – त्वामहं नित्यं पुष्पशय्यायां शाययित्वा सौख्योदधिं तारयेयम् ।

सुन्दरी – अरे त्वम् अतीव रसिकः । तव सङ्गमेन अहं मां धन्यं मन्ये । त्वम् एतादृशभावनाभूषितः इति अधुना अवगतं मया ।

अविनाशः – यत्र मनः रमते तत्र सङ्गमः सख्यञ्च सौख्यं भजेते ।

सुन्दरी – तत्र परिणयः सुखावसनं भविष्यति ।

अविनाशः – साधु प्रतिपादितं भवत्या ।

सुन्दरी – अहं सर्वं विचार्य कथयामि ।

अविनाशः – मम जननी त्वां विलोक्य कैषा युवती मूर्तीभूतरतिरिव प्रतिभाति, तां द्रष्टुं पुनः पुनः मे मनः काङ्क्षते इति उक्तवती ।

सुन्दरी – अहं त्वां कथयामि । अहं मम पितरौ मे निर्णयम् उक्त्वा भवन्तं कथयिष्यामि

अविनाशः – यिद आवयोः अङ्गीकारः भवति तर्हि पितरौ अवश्यम् आवयोः कृतिमङ्गीकरिष्यतः ।

सुन्दरी – प्रथमतः पितरौ निवेद्य अनन्तरं कथयेयम् । एतत् मम कर्तव्यं विद्यते ।

अविनाशः – अहं तव संस्कारेण अतीव सन्तुष्टोस्मि ।

सुन्दरी – अविनाश अधुना मम वर्गः प्रचलिष्यति गच्छेयम् ।

अविनाशः – पुनः समागमः कदा ।

सुन्दरी – पित्रोः अङ्गीकारानन्तरं समागमः भविष्यति । नमस्ते ।

अविनाशः – ममापि वर्गः विद्यते अहमपि गच्छेयम् । श्रुणु अत्र वृक्षच्छायायामेव आवयोः समागमः सर्वदा भविता नमस्ते ।

सुन्दरी – नमस्ते । (इति निर्गच्छतः)

(यवनिका पतति)

******************************************************

.

चतुर्थं दृश्यम्

(सन्ध्यासमये सुन्दरी स्कन्धेलम्बमान पुस्तकगोण्या गृहं गच्छन्ती आस्ते तस्याः अभिमुखम् अनिलः आगच्छति)

अनिलः – (विलोक्य) सुन्दरि !

सुन्दरी – अरे अनिल अहं त्वामुद्दिश्य चिन्तयामि ।

अनिलः – मामुद्दिश्य चिन्तयसि कारणं किम् ।

सुन्दरी – अयं सन्ध्यासमयः गृहगमनवेला अवश्यम् आवयोः मेलनं भविष्यति अत्र इति ।

अनिलः – सुन्दरि अविनाशस्य जन्मदिवसे त्वया गीतं गानं शृत्वा मे परमानन्दः अभूत् । तस्मिन् समये त्वया भाषितुं उद्युक्तोऽभवम् । किन्तु पार्श्वे वल्लरी विद्यते तस्मात् न किमपि भाषितोऽस्मि ।

सुन्दरी – मयापि चिन्तितं त्वमपि अविनाशस्य कारुयाने आवाभ्यां साकं आगमिष्यसीति, किञ्चित् संलापं करिष्यतीति ।

अनिलः – अविनाशः अवोचत अरे त्वम् अत्रैव तिष्ठ किञ्चित्कालम् इष्टागोष्टिं कुर्याव इति ।

सुन्दरी – एवं जातम् । भवतु नाम ।

अनिलः – सुन्दरि त्वं मे हृदयसुन्दरी । त्वं मे हृदये सदा निवससि । अत्र कथं त्वं बहिः समागता नाहं जाने ।

सुन्दरी – आहह । किं वदसि रे । त्वं सत्यं कविकुमारः ।

अनिलः – अहं कविकुमारः एव । त्वामुद्दिश्य बहुगीतानि लिखितानि ।

सुन्दरी – गायतु श्रोष्यामि । इति भूम्याम् उपविशति)

अनिलः – शृणु । (इति भूमौ उपविश्य गायति)

गीतम् (भीमपलासरागे)

पठरे मनमोहन तरुणीकाव्यप्रपञ्चम्
अनुभव नित्यं रतिपतिभावनिकुञ्जम् ध्रु.

मन्मथ भावातप सान्द्र वितानम्
धरणीतल विचकित मरीचीजालम्
दर्शं दर्शं मे कामुक रागमयं चपलम् ।
धावति सारङ्गयित हृदयं तृष्णाकुलितम् 1

किमिदं चित्रं किमिदं हृदयम्
केवलयुवती सङ्गम चतुरम्
तरुणी हृदयाम्बर विहरित चन्द्रमसम्
जरा स्वर्भानुर्ग्रसति कदावा सम्पूर्णम् 2

पिब रे मन रमणी मधुराधरसारम्
भज रे मन यौवत लास्याञ्चितरुपम्
स्मर रे मन परमानन्दावधिभूतं मणितम्
जप रे मन सुखरेन्द्रीभूतं यौवत निचयम् 3

एषा स्मर सङ्गर भौतिक भावना
अलौकिक मार्गण नान्दी स्मरणा
तरुणी स्तनभार पीवर सुषमाकामी
नूनं भवति च चरमे मोक्षदशागामी 4

सुन्दरी – अनिल सम्यक् कृतं गेयम् अपिच अनुरूपरागेण च गीतम् ।

अनिलः – सुन्दरि, केवल संलापेन प्रयोजनं न विद्यते त्वया सार्थम् अहं जीवनं यापयितुमिच्छामि ।

सुन्दरी – कथम् ।

अनिलः – कथं किम् । विवाहेन ।

सुन्दरी – अरे त्वं श्रीमान् असि । बह्वः ते परिणेयाः विद्यन्ते । अहं किमर्थम् ।

अनिलः – यत् अहं त्वयि पश्यामि तत् अन्यत्र न विद्यते । त्वं सर्व सुगुणराशिः असि ।

सुन्दरी – अरे त्वं कवयसि । अतिशयोक्तिं करोषि । सर्वोपि सर्वं भजते । सर्वमपि सर्वत्र विद्यते ।

अनिलः – तथा मे न प्रतिभाति । यत् त्वयि अहं पश्यामि तत् अन्यत्र नास्ति ।

सुन्दरी – अहमपि सर्वदा त्वामुद्दिश्य चिन्तयामि ।

अनिलः – अहं त्वया सार्थं भाषितुमुद्युक्तोऽस्मि बहुवारं किन्तु समयः न समापन्नः ।

सुन्दरी – अधुना समयः समापन्नः । (इति हसति)

अनिलः – सुन्दरि ते हसने अहं पुष्पगुच्छान् फेनिलञ्च अपिच चन्द्रिकाञ्च विलोकयामि ।

सुन्दरी – अरे । (इति अनिलं पश्यति लज्जा मन्थराभाति)

अनिलः – सुन्दरि, लज्जायां त्वम् अतीव सुन्दरी भाससे । नारीणां भूषणं लज्जा इति प्रोक्तपूर्वसूरिभिः ।

सुन्दरी – विलम्बः सञ्जातः गच्छेयमहम् ।

अनिलः – एहि मम कारुयाने अहं त्वां गृहे विसृजेयम् ।

सुन्दरी – नहि रे अहं बसयानेन गच्छेयम् ।

अनिलः – पुनः ह्यः समागमः अत्रैव भविष्यति नमस्ते । (इति गच्छति)

सुन्दरी – नमस्ते । (इति गच्छति)

(यवनिका पतति)

*************************************************************

.

पञ्चमं दृश्यम्

(वल्लर्याः गृहं तत्र अनिलस्य माता मैथिली, वल्लर्यासार्थं उपविश्य संलपन्ती आस्ते)

मैथिली – वल्लरि अनिलः सदा त्वामुद्दिश्य ते मैत्रिणीं सुन्दरीमुद्दिश्य मे कथयति ।
वल्लरी – वयं सर्वे एक कक्ष्या विद्यार्थिनः । ततः सा एवं कथयति ।

मैथिली – सदा सुन्दरीं उद्दिश्य मे कथयति यत् तादृशी युवती विश्वविद्यालये न कुत्रापि सन्दृश्यते इति ।

वल्लरी – अनिलः यत् कथयति तत् सत्यम् । सा अतीव सुन्दरी ।

मैथिली – एतावत्पर्यन्तं तस्याः विवाहः न कृतः कारणं किम् ।

वल्लरी – मात मैथिलि, भवती कथयसि, सा अतीव सुन्दरीति तव पुत्रः सर्वदा तस्याः सौन्दर्यं वर्णयित्वा कथयतीति तत्याः अनुरूपः वरः लभ्यः यदि भविष्यति तर्हि अवश्यं विवाहः भविष्यत्येव ।

मैथिली – तस्याः पितरौ न प्रयतेते किम् ।

वल्लरी – प्रयतेते किन्तु तयोः पित्रोः सुन्दर्याः विवाहविषये न किमपि आग्रहः विद्यते । यदि कन्यावरयोः अङ्गीकारः भवति तर्हि तयोः इच्छानुसारं तौ दम्पती सुन्दर्याः विवाहं करिष्यतः इति एकदा तस्याः पितरौ अवोचताम् ।

मैथिली – आधुनिकेषु दिवसेषु तथा करणमेव वरं भवति ।

वल्लरी – उपविश अहमधुनैव चहपानादिकम् आनयेयम् ।

मैथिली – अहं करिष्यामि चहाम् आवां स्वयम्पाकगृहं प्रविशावः एहि । (इति उत्तिष्ठतः)

(कवाटताडनम् आह्वानघण्टानादौच भवतः) वल्लरि त्वं स्वयम्पाकगृहं प्रविश । अहं कवाटमुदघाटयिष्यामि । (इति कवाटं उद्घाटयति)

(ततः प्रविशति सुन्दरी)

सुन्दरी – नमस्ते इति । (मैथिल्यै नमस्करोति) नमस्ते वल्लरि । (इति वल्लर्यै नमस्करोति)

वल्लरी – (सन्तोषेण) हसे सुन्दरि हठात् त्वं कथमागतासि अत्र । (इति तस्याः हस्ते गृह्णाति)

सुन्दरी – (विहस्य) हठात् किं यस्मिन् कस्मिन् समये यदा कदापि विना च ते आज्ञाम् अहं तव गृहम् आगन्तुं योग्याऽस्मि ।

वल्लरी – अवश्यं मम गृहद्वाराणि त्वत्कृते सर्वदा विवृतान्येव ।

सुन्दरी – को विशेषः । अपि कुशलम् ।

वल्लरी – न कोपि विशेषः । सर्वं सकुशलमेव ।

सुन्दरी – एषा द्वारकवाटोऽद्घाटिता का ?

वल्लरी – एषा अनिलस्य माता मैथिली ।

सुन्दरी – (आश्चर्येण) अहो अनिलस्य माता । नमांसि मातः । (इति नमस्करोति)

मैथिली – शीघ्रमेव कल्याणप्राप्तिरस्तु ।

सुन्दरी – (अधोमुखी तिष्ठति)

वल्लरी – सुन्दरि अन्तः एहि । अद्य मैथिलीमाता चहादिकं करिष्यति ।

सुन्दरी – अद्य मातुः हस्तकृतचहां पास्यावः ।

मैथिली – युवां द्वे अत्रैवोपविशताम् । अहं चहां कृत्वा आनयेयम् ।

वल्लरी – मातः भवती अपिच सुन्दरी युवां द्वे संलपन्त्यौ अत्रैवोपविशताम् । अहं पञ्चनिमेषे चहां विधाय आनयेयम् ।

मैथिली – तथैव । (इति तत्रैव सोफायाम् उपविशति)

वल्लरी – सुन्दरि, मैथिलीसाकं संलपन्ती उपविश । अहम् अधुनैव गच्छेयम् ।

सुन्दरी – गच्छ तथैव । (इति मैथिल्याः सकाशे सोफायाम् उपविशति)

मैथिली – बाले तव वयः कियत् ।

सुन्दरी – मम वयः विंशति ।

मैथिली – तव पिता किं करोति ।

सुन्दरी – मम पिता विधितज्ञः ।

मैथिली – हाम् अनिलेन कथितम् । तव पितुः नाम भास्करः इति । अहं विस्मृतास्मि ।

सुन्दरी – अनिलः मे मित्रम् ।

मैथिली – अस्मिन् वत्सरे अनिलस्य विवाहः कर्तव्यः इति मे चिन्ता ।

सुन्दरी – अवश्यं करणीया । अधुना अस्मिन् वत्सरे अनिलपिता पदवीनिवृत्तः । अधुना करणम् अवश्यमेव ।

मैथिली – अनुरूपा युवती अपेक्ष्यते । सा सर्वथा दक्षतायुता भवितव्या । तस्मात् तस्य पिता अनुरूप वध्वेमार्गयति ।

सुन्दरी – न कोपि क्लेशः विद्यते अनुरूपवधूप्राप्तिविषये । अनिलः सज्जनः मेधावी श्रीमान् सुन्दरः कविः गायकश्च नात्र चिन्ताकार्या भवत्या ।

मैथिली – सर्वदा गृहे अनिलः त्वामुद्दिश्य कथयति ।

सुन्दरी – अयं कविकुमारः ।

मैथिली – गृहे सर्वदा कवितां कुर्वन् गायति । न किमपि पठति ।

सुन्दरी – तस्य कवित्वं मह्यम् अत्यन्तरोचते । एम्.एस्.सी.विद्यार्थिनां कविताभिलाषा विद्यते इत्यत्र प्रशंशनीयोयं विषयः ।

वल्लरी – मातः मैथिलि, सखि सुन्दरि इदं पिष्टकम् इदं चहपानम् । (इति तत्र निक्षप्य सापि उपविशति)

मैथिली – (एकं पिष्टकं गृहीत्वा चहायां मज्जयित्वा खादति सर्वाः अपि तथैव कुर्वन्ति)

सुन्दरी – असे वल्लरि तव पतिः कदा कार्यालयात् आगमिष्यति ।

वल्लरी – सः षट्घण्टावादनसमये आगमिष्यति ।

सुन्दरी – अधुना पञ्चघण्टा जाता ।

मैथिली – वल्लरि, अनिलः आगमिष्यति अपि च अनिलस्य पिता एकः एव गृहे विद्यते । ममात्रागत्य बहुकालः व्यतीतः । सन्ध्यासमये गमनं सुकरं न भवति । रस्त्यायां सर्वत्र वाहनसङ्कुलमेव भवति । मार्गेषु चलनं तरणम् अतीव कष्टं भवति ।

सुन्दरी – किं बस्‌यानेन गम्यते ।

मैथिली – नहि त्रिचक्रयानेन गम्यते । सन्ध्यासमये बसस्थानके जनसम्मर्दः अधिकः भवति ।

वल्लरी – यदि त्रिचक्रयानेन गम्यते अधुना गमनं किमर्थम् अर्धघण्टानन्तरं गच्छ

मैथिली – नहि अधुना गन्तव्यमेव । अनिलस्य पिता मह्यं कुप्यति गच्छेयम् । (इति उत्तिष्ठति)

वल्लरी – तिष्ठ मातः तिलकं करिष्ये । (इति अन्तः गच्छति)

सुन्दरी – मातः एकदा मम गृहमपि आगच्छतु भवती ।

मैथिली – अधुना परिचयः जातः भवती दृष्टा अस्मि । गृहम् अवश्यम् आगच्छेयं कुशलं प्रष्टुम् । त्वमेव अस्मत् गेहं एहि ।

सुन्दरी – अवश्यम् अनिलेनसार्थम् आगच्छेयम् ।

वल्लरी – (कुङ्कुमभरणीहस्ता आगत्य) मातः तिष्ठ । (इति तस्याः फाले कुङ्कुमतिलकं करोति कदलीफलयुक्त क्रमुकचूर्णमिश्रित ताम्बूलं तस्याः हस्ताञ्जल्यां निक्षिपति सुन्दर्याः फाले तिलकं करोति)

मैथिली – वल्लरि, सुन्दरि गच्छाम्यहं पुनः दर्शनाय । (इति गच्छति)

वल्लरी सुन्दर्यौ – नमस्ते मातः । (इति नमस्कुरुतः)

(वल्लरीसुन्दर्यौ उपविष्ठे सोफायाम्)

वल्लरी – सखि सुन्दरि, कथय त्वं, कथं किं कथयितुं किं साधयितुम् आगतासि ।

सुन्दरी – सखि अहं त्वाम् एकं प्रश्नं प्रक्ष्यामि तस्य प्रश्नस्य उत्तरं देहि ।

वल्लरी – कः ते प्रश्नः । का ते भावना । नाहं सक्षमा भवामि ते प्रत्युत्तरं दातुम् ।

सुन्दरी – त्वं ते अभिप्रायं कथय तदेवालं मे ।

वल्लरी – किं तत् कथय ।

सुन्दरी – एतत् विषयं कुत्रापि मा भण ।

वल्लरी – सखि त्वं मे प्राणाः । अहं कुत्रापि कस्यापि न कथयेयम् ।

सुन्दरी – अविनाशः मां कामयते ।

वल्लरी – तदहं जानामि ।

सुन्दरी – कथम् ।

वल्लरी – जन्मदिवससमारम्भे आवां प्रेषयितुं कारुयानं प्रेषयामास । तदा ज्ञातं मे सः त्वयि लग्नचित्तः इति ।

सुन्दरी – त्वम् अतीव कुशाग्रबुद्धिः ।

वल्लरी – किं त्वं कामयसे तम् ।

सुन्दरी – हां अहमपि तं कामये ।

वल्लरी – तर्हि तदा काहं युवयोर्मध्ये । तव प्रश्नानां मम उत्तरयितुम् अवकाशोनास्ति ।

सुन्दरी – तथा नहि । अत्र विद्यते अन्यः प्रश्नः ।

वल्लरी – कोऽयं प्रश्नः ।

सुन्दरी – अनिलः अपि मां कामयते ।

वल्लरी – किं ते तस्मिन् अनुरागः वर्तते ।

सुन्दरी – विद्यते । एतौ द्वौ आवयोः मित्रे ।

वल्लरी – अस्मिन् विषये अत्र मां प्रष्टुम् अवसरो नास्ति । तव इच्छानुसारं त्वं व्यवहरस्व ।

सुन्दरी – वल्लरि, अत्र विद्यते किमपि रहस्यम् ।

वल्लरी – किं तत् ।

सुन्दरी – तौ द्वौ मनसा मां कामयेते वा उतनवा इति मे संशयः ।

वल्लरी – अयं विचारणीयः प्रश्नः ।

सुन्दरी – कः माम् अतीव कामयते इति ज्ञातुं मे कुतूहलं भवति । अस्मिन् विषये अधुना मया किं कर्तव्यं विद्यते इति आलोचना भवति ।

वल्लरी – सुन्दरि ! काहं निर्णेतुं युवयोर्मध्ये सञ्जातं विषयम् ।

सुन्दरी – जानामि तयोः कामना । केवलं कृत्रिमभावपूर्णा उत प्रेमपरीतावा इति नाहं ज्ञातुं समर्थः भवामि ।

वल्लरी – त्वं कं कामयसे ।

सुन्दरी – तौ द्वावपि समानौ । अहं द्वावपि कामये ।

वल्लरी – कथं द्वावपि कामयसे ।

सुन्दरी – तस्मादेव द्वैधीभावमनाः समस्या परिष्कारार्थं तव गृहम् आगतास्मि ।

वल्लरी – अहं किं कुर्याम् ।

सुन्दरी – एनां समस्यां शिथिलयितुं त्वमेव शक्तासि इति मे मतिः ।

वल्लरी – विचार्यमाणे मे कोप्युपायः न भवति ।

सुन्दरी – असे वल्लरि त्वम् अनुभवज्ञा विचारशीला त्वं कमप्युपायं सूचयिष्यसीति त्वत्सकाशं समागतास्मि ।

वल्लरी – (किञ्चित्कालं शान्तमनाः भूत्वा एकान्ते उपविश्य चिन्तयामि ।

सुन्दरी – (इतस्ततः चलन्ती विचिन्तयन्ती आस्ते)

वल्लरी – सखि सुन्दरि मे एका भावना मेधसि विद्युतायते ।

सुन्दरी – (तस्याः सकाशम् आगत्य) का सा भावना ।

वल्लरी – शृणु नाटकं कुर्याव आवम् ।

सुन्दरी – किं तन्नाटकम् ।

वल्लरी – त्वं समयं परिकल्प्य एकैकमुद्दिश्य एवं कथय ।

सुन्दरी – किमिति ।

वल्लरी – त्वम् अन्तर्वत्नी सञ्जाता इति ।

सुन्दरी – अहो किं वदसि त्वम् । इयं भावना त्वया प्राप्ता किम् ?

वल्लरी – एतत् नाटकमेव ।

सुन्दरी – (वल्लरीं हस्ते गृहीत्वा) अहो अहं कथं कथयेयम् ।

वल्लरी – धैर्यमवलम्ब्य कथय ।

सुन्दरी – तदा किं भविष्यति ।

वल्लरी – अविनाशः चिन्तयिष्यति अनिलेनसार्थं त्वम् अन्तर्वत्नी जाता इति ।

सुन्दरी – ततः ।

वल्लरी – अनिलेनापि एवमेव कथय । सः चिन्तयिष्यति अविनाशेन त्वम् अन्तर्वत्नी जाता इति ।

सुन्दरी – कथं नटनीयम् । अहं नटी नहि । (इति भीता भवति)

वल्लरी – त्वं नटनं कुरु यथा कथञ्चित् । अन्ततः सर्वं तव इच्छानुसारं भविष्यति ।

सुन्दरी – नटनानन्तरं किं कर्तव्यम् ।

वल्लरी – नटनानन्तरं तयोः भावनाः तयोः ललाट भागयोः पठ ।

सुन्दरी – प्रथमतः अनिलं विचारयिष्यामि ।

वल्लरी – प्रथमतः अनिलमेव विचारय ।

सुन्दरी – प्रथमतः अनिलं विचार्य तस्माभिप्रायं ज्ञात्वा अनन्तरम् अविनाशं विचारयेयम् ।

वल्लरी – अन्ततः यदि द्वयोर्मध्ये कलहः नोचेत् कोवा त्वां परिग्रहिष्यति, कोवा त्वां हृदयपूर्वकं कामयते ज्ञास्यति ।

सुन्दरी – कलहो मा भूयात् ।

वल्लरी – कलहः नहि ।

सुन्दरी – अयं कलहः एव ।

वल्लरी – प्रेमपरीक्षार्थं कलहः भवितव्यः एव ।

सुन्दरी – प्रेमपरीक्षा कर्तव्या किं मया ।

वल्लरी – प्रेममार्गः प्रथमतः कण्टकावृतः इव भासते । यदि सः हरितः पल्लवितः पुष्पितः फलितः भवति तदा अनुभुज्यते ।

सुन्दरी – सखि वल्लरि, ते भावना अतीव प्रशंसनीया । श्वः एव अहं नाटकं रचयेयम् ।

वल्लरी – सखि त्वं प्रेमपरीक्षायाम् उत्तीर्णा भविष्यसि ।

सुन्दरी – धन्यवादान् वितरामि तुभ्यम् । (द्वावप्युद्धाय परस्परं हस्ताववलम्ब्य तिष्ठतः । सिन्दरी गच्छन्ती) नमस्ते । (इति नमस्करोति)

वल्लरी – मनोरथसिद्धिरस्तु । (इति हस्तमुद्यम्य तां प्रेषयति)

(यवनिका पतति)

**********************************************************

.

षष्ठं दृश्यम्

(विश्वविद्यालयस्योऽद्यानवनं तत्र सुन्दरी अनिलयोः समागमः ।)

सुन्दरी – अरे अनिल किं माम् अदृष्ट्वैव गच्छसि ।

अनिलः – अहम् अदृष्ट्वा न गच्छामि दृष्टवैव गच्छामि ।

सुन्दरी – तथा किमर्थं गच्छसि रे ।

अनिलः – यदि त्वं मां कामयसेवा नवा ज्ञातुं तथा अकरवम् ।

सुन्दरी – अरे त्वं मां परीक्षसे ।

अनिलः – परीक्षा नहि । विडम्बनां करोमि ।

सुन्दरी – इयं विडम्बना ।

अनिलः – सुन्दरि एहि अत्र आवां किञ्चित्कालम् उपविशावः । (इति उपविशतः)

सुन्दरी – अरे त्वं किं प्रष्टुमिच्छसि माम् ।

अनिलः – किं सुन्दरि, आवयोः विवाहः भविष्यति । उत न भविष्यति कथय ।

सुन्दरी – यदि मनोनिश्चयः भवति तर्हि विवाहः भविष्यति ।

अनिलः – अस्मिन् वर्षे निश्चित्य विवाहः कर्तव्यः एव ।

सुन्दरी – त्वं मां कामयसे किम् ।

अनिलः – कामयामि ।

सुन्दरी – तर्हि विवाहसमयः निर्णीतव्यः ।

अनिलः – यदि त्वं हां इति कथयसि तूर्णमेव विवाहः भविष्यति ।

सुन्दरी – सत्वरं विवाहकरणे मनः मां प्रचोदयति ।

अनिलः – त्वमेव कथय कदा विवाहः निर्णेतव्यः ।

सुन्दरी – शृणु । अनुपदमेव कार्यमग्नो भव ।

अनिलः – कथय श्रोष्यामि ।

सुन्दरी – अहम् अधुना अन्तर्वत्नी जाता ।

अनिलः – (आश्चर्येण) अहो भगवन् । सुन्दरी सत्यमेव अन्तर्वत्नी जातासि ।

सुन्दरी – अहं सत्यमेव अन्तर्वत्नी जाता । मां वैद्यसकाशं नीत्वा परीक्षां कारय । यदि त्वं मां सत्यम् इच्छसि तर्हि अनुपदमेव पाणिग्रहणं कुरु । अहम् अधुना त्वया साकं विवाहितुम् उद्युक्तास्मि ।

अनिलः – (हस्तवस्त्रखण्डं गृहीत्वा मुखे तारकित धर्मबिन्दून् मार्जयति)

सुन्दरी – अरे त्वं किमर्थं कम्पसे । किं त्वं भीतोऽसि ।

अनिलः – नहि ।

सुन्दरी – किं विचारयसि ।

अनिलः – नहि विचारयामि ।

सुन्दरी – सत्वरं त्वं किमपि कुरु विवाहार्थम् ।

अनिलः – मम किञ्चित् कालं समयं देहि । अहं मे पितरौ कथयित्वा ताभ्यां विचार्य श्वः कथयेयम् । अधुना मे सत्वरं गन्तव्यं विद्यते कार्यान्तरसमापनाय ।

सुन्दरी – अद्य विद्यालयं ना गच्छसि ।

अनिलः – अद्य मे विद्यालयस्य विरामः भवति ।

सुन्दरी – किमर्थम् ।

अनिलः – अद्य मे शरीरे प्रातः प्रभृति तीव्रज्वरः अस्ति ।

सुन्दरी – अरे अनिल त्वं मां मनसा कामयसे खलु ।

अनिलः – अकामयम् ।

सुन्दरी – अधुना ।

अनिलः – अधुनापि कामये । नमस्ते अहं गच्छेयम् । (इति गच्छन् एकक्षणं स्थित्वा मनसि) एषा अविनाशेन सार्थं विचरति । सत्यमेव तेन साकम् एषा अन्तर्वत्नी जाता । अधुना एषा पुंश्चली जाता । मां परिणेतुमिच्छसि । नाहं कामये एनाम् । (इति गच्छति)

सुन्दरी – अयं कामुकः । माम् अनुभवितुं मह्यं स्निह्यति । मयि तस्य न लेशोपि प्रेमभावना विद्यते । आधुनिक युवकाः स्त्रीमानं नाशयितुम् अग्रेसराः किन्तु विवाहकरणे अन्तिमाः भवन्ति संशयग्रस्ताः भवन्ति । अहम् अविनाशसमीपं गत्वा तेन साकं एवमेव व्यवहरिष्ये । (इति गच्छति)

(यवनिका पतति)

*****************************************************

.

सप्तमं दृश्यम्

(विश्वविद्यालयस्य समीपे नारिकेलवृक्षच्छायायां सुन्दरी अविनाशौ संलपन्तौ आस्ताम्)

अविनाशः – अहं त्वां मनसा कामये इति कथनं पुनरुक्तिः भवति ।

सुन्दरी – त्वां बहुकालादारभ्य अहं कामयमाना अस्मि । किन्तु मे भावनां न प्रकटी कृतास्मि ।

अविनाशः – सर्वस्यापि समयः भवति ।

सुन्दरी – अरे अविनाश, त्वं मदपेक्ष्या श्रीमान् विद्यादिकः सकल गुणोपेतः ।

अविनाशः – तथा कथने त्वं त्वां न्यूनीकरोषि ।

सुन्दरी – इदम् आत्मानं न्यूनीकरणं नहि । किन्तु अयं विनयवतीनां लक्षणम् ।

अविनाशः – जगति सर्वे समानाः सन्ति । न कोपि न्यूनः न कोप्यधिकः । आत्मानं न्यूनीकरणम् अपिच अधिककरणं न युक्तं प्रज्ञावताम् ।

सुन्दरी – सत्यमेव तादृशाः भूतले विरलाः सन्ति । त्वं तु मां न्यूनी करोषि ।

अविनाशः – त्वां न्यूनीकरणे को लाभः भवति मे । त्वं तु मे प्रेयसी ।

सुन्दरी – पुरुषाणां प्रेम चञ्चलं भवति ।

अविनाशः – तथा मावद सुन्दरि । अयं अविनाशः विचार्यकर्म करोति ।

सुन्दरी – अहम्मद्विषयमुद्दिश्य किञ्चित् वक्तुं कामये।

अविनाशः – कथय ।

सुन्दरी – मे भीतिः भवति त्रपाच सञ्जायते ।

अविनाशः – मम सकाशे भीत्याःस्थानं नास्ति । त्रपाकुतः अहं ते मित्रम् । कथय यथेच्छम् । मत्सकाशे गोपनस्यापि स्थानं नास्ति।

सुन्दरी – अविनाश अहं गर्बिणी सञ्जाता ।

अविनाशः – (साश्चर्यम्) कथम् । केन ।

सुन्दरी – परपुरुष सम्पर्केण ।

अविनाशः – किं अनिल सम्पर्केण ।

सुन्दरी – नहि ।

अविनाशः – त्वं मा विचारय । कन्यकाः जीवने अनालोच्य त्वरया कामावेशेन अकार्यं कुर्वन्ति । तत्र क्रोधो न कर्तव्यः । तत् विषयमुद्दिश्य न स्मर्तव्यम् विद्यते । अहं त्वां सर्वदा कामयामि, यदि त्वं सत्यम् अन्तर्वन्ती उत मा परीक्षितुं नाटकं करोषि तं विषयं नाहं विचारयामि । अहं त्वां सम्यक् जानामि त्वं कदापि वक्रमार्गगामिनी न भविष्यसि । इदं सर्वं नाटकमेव । भवतु नाम सत्यं तथापि मे बाधा नास्ति । त्वामहं कामये । त्वं मे हृदयसुन्दरी असि । त्वमेव मे जीवनसहभागिनी असि ।

सुन्दरी – अविनाश अस्यां दशायां त्वं मां परिणयिष्यसि ।

अविनाशः – हां परिणेष्यामि । मम प्रेमनिश्चलं पवित्रं नात्र शङ्का कार्या ।

सुन्दरी – अविनाश त्वं मे प्रियः । अहं ते प्रिया । त्वं मे सत्यं कामयसि । त्वं धीरोदात्तोऽसि । पूर्वापर विचक्षणा ज्ञानी असि । (इति आनन्देन तस्य समीपं गच्छति)

अविनाशः – एहि सुन्दरि, त्वं मे प्रेयसी ।

सुन्दरी – अविनाश, इदं सर्वं नाटकमिति त्वं जानासि । अनिलः माम् अवगाहयितुम् अनभिज्ञः बभूव ।

अविनाशः – सः चञ्चलमनस्कः । उद्वेगपूरितश्च ।

सुन्दरी – यदाहम् अवोचम् अन्तर्वत्नीति सः कम्पितः बभूव । मया साकं भाषणम् अकृत्वैव निर्गतः ।

अविनाशः – भवादृशी कथं वक्रमार्गे चरिष्यति ।

सुन्दरी – मे पितरौ माम् अवोचताम् बाले त्वं यं कामयसे तेन साकं ते विवाहः भविष्यति ।

अविनाशः – असंस्कारयुतेनापि ।

सुन्दरी – तथा नहि । यः संस्कारवान् प्राच्यसंस्कृतिप्रेमी शाकाहारी भवति तेन साकं भविष्यतीति एकदा उक्तवान् ।

अविनाशः – पित्रोः भावना अतीव कालानुयायिनी अस्ति ।

सुन्दरी – अरे अविनाश गच्छावः श्वः एव आवयोः बाह्यविवाहः ।

अविनाशः – का ते भावना । बाह्यविवाहः इति कथयसि ।

सुन्दरी – अरे आवां परस्परं मनोभ्यां परिणीतौ अर्थात् आन्तरङ्गिक विवाहः पूर्वमेव समजनि । अधुना लोके दर्शयितुं बाह्यविवाहः कर्तव्यः इति मे अभिप्रायः ।

अविनाशः – प्रेयसी ते भावना अतीव आदर्शप्राया स्त्रीजगति । पूर्वम् उमा तपसा शङ्करं क्रीता आसीत् ।

सुन्दरी – अधुना त्वं मां परीक्ष्य मनसा गृहीतोऽसि ।

अविनाशः – त्वमेव मां परीक्ष्य मनसा गृहीतवती असि । त्वं प्रेमपरीक्षां कृतवती असि ।

सुन्दरी – (विहस्य) अरे आवाम् अन्योन्यार्थं भगवता सृष्टौ एहि गच्छावः पितृभ्यां निवेदयावः । एहि । (इति हस्ताववलम्ब्य गच्छतः)

(यवनिका पतति)

******************************************************

.

]