परिवर्तनम्

[[परिवर्तनम् Source: EB]]

[

परिवर्तनम्

गीतां बोधितवन्तम् । श्रीकृष्णं मानुष विग्रहवन्तम् ।
जनता हृदयान्तस्थम् । नौमि विश्वरूपिणं देवम् ॥

(नान्द्यन्ते)

(सुस्मितावासन्त्यौ उपविश्य हसन्त्यौ सम्भाषेते अत्रान्तरे हठात् वार्तापत्रिकां पठन्ती सुस्मिता वासन्तीं कथयति)

सुस्मिता – सखि वासन्ति, श्रुणु अद्य सप्तघण्टावादनसमये परिवर्तनं नाम नाटकं गीर्वाणनाटकमण्डलीयाः संस्कृतभाषायां प्रदर्शयन्ति । प्रवेशशुल्कः रूप्यकद्वयम् ।

वासन्ती – परिवर्तनं नाम नाटकं गीर्वाणभाषायाम् ?

सुस्मिता – परिवर्तनम्, इति श्रवणेन जीविते परिवर्तितस्य महापुरुषस्य जीवित सम्बधीयमेतत् नाटकम् इति द्योतते ।

वासन्ती – कविः कः ?

सुस्मिता – कविः गीर्वाणान्ध्रभाषाप्रवीणः पण्डित परीक्षित् शर्म ।

वासन्ती – हसे जानामि तम् ।

सुस्मिता – कथं जानासि तम् ।

वासन्ती – सः कविः एकदा अस्मदीय महाविद्यालये स्वरचित संस्कृतगीतानां गायनमकरोत् । तस्य गीर्वाणगेयचक्रवर्ती इति नामान्तरं विद्यते ।

सुस्मिता – अनेन कानि कानि लिखितानि ।

वासन्ती – अनेन ललितगीतालहरी इति गेयकाव्यम् , विंशतिसर्गात्मकं (अखिलभारतीय कालिदास पुरस्कारेण सम्मानितम्) यशोधरामहाकाव्यम् , अक्षयगीत रामायणम्, सप्तविंशतिनाटकपरिमितं परीक्षिन्नाटकचक्रम् इत्यादीनि काव्यानि विलिखितानि ।

सुस्मिता – अरे आश्चर्यं संस्कृतभाषायां बहूनि काव्यानि लिखितानि अनेन महाकविना ।

वासन्ती – अपि च सन्ति बहूनि ।

सुस्मिता – हां, कानि कानि सन्ति कथय ।

वासन्ती – प्रतापराणायनमहाकाव्यम्, ते हि नो दिवसा गताः इति गद्यकाव्यम्, सौन्दर्यमीमांसा इति अलङ्कार प्रबन्धम् इत्यादीनि बहूनि सन्ति ।

सुस्मिता – अस्मिन् विशतितमे शताब्दे अयं महाकविषु एकः विराजते ।

वासन्ती – सखि, सुस्मिते एकदा तेनोक्तं, एतते परिवर्तनं नाम नाटकं भक्तपुरन्दरदासमुद्दिश्य लिखितमिति ।

सुस्मिता – कोयं पुरन्दरदासः ?

वासन्ती – अयं कर्णाटकसङ्गीतशास्त्रसाम्प्रदाये प्रथमः कीर्तनकारः । अनेन लक्षाधिक कर्णाटकभाषागीतानि रचितानि ।

सुस्मिता – अयं प्रथमः कीर्तनाकारः इत्युक्तं भवत्या अन्ये बहवः विद्यन्ते किम् ?

वासन्ती – बहवः सन्ति, किन्तु कर्णाटकसङ्गीतशास्त्रसाम्प्रदाये ब्रह्माविष्णुमहेश्वरत्रयमिव, त्यागराज, दीक्षित, श्यामाशास्त्रित्रयं कर्णाटकशास्त्रीयसङ्गीतं सागरोपमं विधाय लोकव्यापकं चकार ।

सुस्मिता – कस्यां भाषायां कर्णाटक शास्त्रसङ्गीतं विलिखितम् ।

वासन्ती – वाग्गेयकारः श्रीत्यागराजः आन्ध्रभाषायाम्, मुत्तुस्वामिदीक्षितः गुरुगुह इति नामान्तरेण संस्कृतभाषायाम्, श्यामाशास्त्रीणः आन्ध्रभाषायाम् अन्नमाचार्यः आंन्ध्रभाषायाम् असङ्ख्याकानि गीतानि ललिखुः । सर्वेषु कर्णाटकसाम्प्रदाय सङ्गीतकारेषु वाग्गेयकारः श्रीत्यागराजः भानुमण्डलवत् द्योतते कर्णाटकसङ्गीतशास्त्रे ।

सुस्मिता – अनेन तव भाषणेन मम ज्ञायते यत् आन्ध्रभाषायां कर्णाटक सङ्गीतशास्त्रम् अधिकांशेन विलिकितमिति ।

वासन्ती – हाम् अशीत्यंशपरिमितं कर्णाटक सङ्गीतशास्त्रम् आन्ध्रभाषायामेव विलिखितम् । आन्ध्रेतरैरपि आन्ध्रभाषायामेव कर्णाटकसङ्गीतशास्त्रीयानि असङ्ख्याकानि गीतानि विलिखितानि । तस्मात् कर्णाटक सङ्गीतशास्त्रम् आन्ध्रभाषायां निक्षिप्तम् आरक्षितम् इति कथने न कस्यापि विरोधः भवति, यतः इदं भाषणं सत्यदूरं न भवति ।

सुस्मिता – किमर्थम् आन्ध्रेतराः सङ्गीतकानि आन्ध्रभाषायां विलिखन्ति ।

वासन्ती – आन्ध्रभाषा सङ्गीतभाषा इति सर्वेषां कलाराधकानां गायकानां च अभिप्रायः तस्मात् ते आन्ध्रभाषायां विलिखन्ति ।

सुस्मिता – कर्णाटक सङ्गीतस्य अर्थः कः ?

वासन्ती – इदं सङ्गीतम् एकवार श्रवणमात्रेणैव सर्वदा कर्णे अटति इति हेतोः कर्णाटक सङ्गीतमिति ममाभिप्रायः, किन्तु न कर्णाटक देशीयम् इति ।

सुस्मिता – अधुना मया सविस्तरं ज्ञातम् । पुरन्दरदासमुद्दिश्य कृतं परिवर्तनं नाम नाटकं द्रष्टुम् अहम् अत्यन्त उत्सुका अस्मि ।

वासन्ती – तन्नाटकं द्रुष्टुम् आवां गच्छावः ।

सुस्मिता – त्वरस्व ।

वासन्ती – (प्रसाधन मञ्जूषां गृहीत्वा) एहि गच्छावः । (इति गच्छतः)

(मञ्चे स्वपन्ती आस्ते छाया आपादमस्तकं वस्त्राच्छादनं विधाय, ततः प्रविशति तस्याः पतिः प्रभाकरः)

प्रभाकरः – (आत्मगतम्) बत अद्य बहुपरिश्रान्तोऽस्मि प्रातः प्रभृति अहिण्डमानः । ह्यः प्रभृति न किमपि खादितं मया । बुभुक्षा मां बाधते । (पत्न्याः समीपं गत्वा) हञ्जे अधुना अहं बहु बुभुक्षितोऽस्मि यत् किञ्चित् खाद्यं देहि । (इति नागदन्ते उत्तरीयं निक्षिप्य आसने उपविशति)

छाया – (मञ्चे इतस्ततः लुठन्ती) अद्य गृहे पाकः न कृतः । न किमपि विद्यते भोक्तुम् ।

प्रभाकरः – किमर्थं न कृतः ।

छाया – गृहे गोधूमचूर्णं न विद्यते, तण्डुलाः न सन्ति । न किमपि शाकादिकं विद्यते, किं कुर्या कथं कुर्याम् ? (इति इतस्ततः खट्वायां लुठन्ती वदति)

प्रभाकरः – हञ्जे, प्रातः रूप्यपञ्चकं दत्वा अगच्छम् खलु, तत् किं कृतम् ?

छाया – कुटुम्बे अनेकानि छिद्राणि सन्ति । प्रवाहरूपेण यदि लक्ष्मीः समागच्छति तर्हि छिद्रपूरणमेव भविष्यति । पञ्चरूप्यकेन किं भविष्यति ? कथं भविष्यति ।

प्रभाकरः – तत् रूप्यकञ्चकं किं कृतम् ?

छाया – दुग्ध गोपालकाय दशरूप्यकाणि दातव्यानि इति भवान् जानाति ।

प्रभाकरः – तस्मात् ।
छाया – अद्य प्रातः सः आगत्य तस्य पत्नी शीतज्वरेण बाधते इति तस्मात् दश रूप्यकाणि वैद्यकीय उपचाराय अपेक्ष्यन्ते इति मे कण्ठोपरि उपविष्टः आसीत् ।

प्रभाकरः – ततः किं कृतं भवत्या ?

छाया – ततः पञ्चरूप्यकम् अयच्छं तस्मे ।

प्रभाकरः – किमर्थं रूप्यपञ्चकं दत्तम् ? हस्ते अधिकं न विद्यते इति ज्ञात्वापि त्वं दत्तवती असि । रूप्यकद्वयम् उत रूप्यकत्रयं वा दत्वा अनन्तरमागच्छेति वक्तव्यं, त्वं मूर्खाम् असि ।

छाया – नाहं जाने अस्मत् सकाशे केवलं पञ्चरूप्यकं विद्यते इति । भवतः समीपे अधिकं विद्यते इति मत्वा एवमकरवम् । मया अनालोच्य कर्म कृतम् । मया प्रमादः कृतः क्षमस्व ।

प्रभाकरः – गतं गतमेव । विस्मर । त्वं मा विचारय । न किमपि विद्यते किं गृहे पातुम् उत खातुम् ।

छाया – किञ्चित् आम्लतक्रं विद्यते । तस्मिन् तक्रे लवणम् उत शर्करां वा मिलाप्य पिबतु । किञ्चित्कालं विश्रान्तिमनुभूय भवदीय मित्रेभ्यः किञ्चित् धनम् ऋणमानीय विपण्यां मुद्गदालीं, तण्डुलान्, शाकाय वार्ताकं, दार्विकान्, उर्वारुकान्, कारवेल्लान्, पटोलीन्, तक्रं, नवनीतम् इत्यादिकम् आनयतु पाकं करिष्यामि ।

प्रभाकरः – न कोऽपि मे मित्रं दातुं समर्थः भवति, यतः अयं मासस्य अन्तिमसप्ताहः ।

छाया – तर्हि मे मङ्गलसूत्रं गृहीत्वा पुरन्दरस्य विक्रयस्थाने दत्वा प्रत्याम्नायं रूप्यकाणि गृहणातु अनन्तरं शाकादिकम् आनयतु भवान् ।

प्रभाकरः – हञ्जे किं त्वम् उन्मत्तासि ? नोचेत् ते बुद्धिनाशः सञ्जातः ।

छाया – कियत्कालं एवं संसारं करिष्यामि । कियत्कालं रूप्यकद्वयेन रूप्यक त्रयेण कालयापनं भविष्यति । यदि जीवितं एवं भवेत् तर्हि मरणमेव योग्यं भवति मे । यदि मङ्गलसूत्रदानेन प्रत्याम्नायं द्विशतपरिमितम् उत त्रिशतपरिमितं धनं लभेत् तर्हि एक सप्ताहपर्यन्तं कालयापनं भविष्यति अशनेन । मम शिरोबाधा जायते अस्मिन् निर्धनकुटुम्बजीविते ।

प्रभाकरः – तथा यदि स्यात् देहि तव कर्णाभरणे । ते कर्णाभरणे निक्षिप्य तस्य सकाशे रुप्यकाणि आनयेयम् । मङ्गलसूत्रन्यासेन कुटुम्बस्य अनिष्टः भवति ।

छाया – कियत् कालम् अयं संसारः चलिष्यति एवम् । दिनदिनमरणं शरदां शतायुष्यं भवति जीवितस्य ।

प्रभाकरः – आवां धन्यौ यतः सन्ततिर्नास्ति अस्मिन् दारिद्र्ये । प्रातः सायं च यत्किमपि भुङ्कत्वा जीवितं यापयावः । प्रपञ्चे भोजनविहीनाः मानवाः सन्ति । यदि तुलना क्रियते तर्हि तेभ्यः जीवनेभ्यः अस्मदीय जीवनं सुखतरं भवति ।

छाया – एवं विचारयतु भवान् ।

प्रभाकरः – किमिति ।

छाया – बहवः सन्ति लोके अस्मदपेक्ष्या, सकल सम्पच्चय वस्तुजालैः, विलासैः, राजभोगैः विराजमानाः इति, तैः तुलना कर्तव्या इति ।

प्रभाकरः – हां मावद मुखं पिधेहि । देहि ते कर्णाभरणे । अहम् अधुनैव पुनन्दरसमीपं गत्वा कर्णाभरणे तस्मै प्रदाय धनमानयेयम् ।

छाया – गृहाण । (इति उपविश्य कर्णाभरणे कर्णाभ्याम् अपास्त्य प्रयच्छति)

प्रभाकरः – (गृहीत्वा) अद्याहं किञ्चित् विलम्ब्य समागच्छेयम् गृहम् ।

छाया – कथं विलम्बः भविष्यति ।

प्रभाकरः – पुरन्दरात् धनं गृहीत्वा विपणीं गत्वा शाकपाकाय किमपि क्रीत्वा आनयिष्यामि । तस्मात् किञ्चित् विलम्बः भविष्यतीति कथयामि ।

छाया – सत्वरम् आगन्तुं प्रयतस्व ।

प्रभाकरः – तथैव । (इति हस्ते शाकसञ्चीं गृहीत्वा नागदन्तात् उत्तरीयं गृहीत्वा कण्ठं परितः निक्षिप्य गच्छति)

छाया – (उत्थाय अन्तः गच्छति)

(यवनिका पतति)

**************************************************************

.

द्वितीयं दृश्यम्

(पुरन्दरस्य आपणम् । तस्मिन् आपणे सः रक्तोष्णीषं धृत्वा ललाटे दार्घिकारूप गोपीचन्दनोर्ध्वरेखालङ्कृतः तस्याः मध्ये अक्षतबिन्दुं समलङ्कृत्य वर्तते । सः लघुतुला समक्षम् एकया पेटिकया सहितः उपविष्टः अस्ति । सः सुलोचनधारकः श्रेष्टिवेषे उपविष्टः । सः वस्त्रखण्डेन रत्नादीन् उल्लीढयन् इतस्ततः पश्यन् आस्ते)

(ततः, प्रविशति प्रभाकरः)

प्रभाकरः – नमस्ते श्रेष्ठिन् । किम् उपचीयते ते व्यापारः ।

पुरन्दरः – व्यापारः उपचीयते । किन्तु अद्य न कोऽपि ग्राहकः समागतः । अद्यप्रातः उत्थाय कृष्णमार्जारम् अपश्यम् । अर्द्या किं भविष्यति वा नाहं जाने । अस्मात् स्थानात् एकमङ्गुलमपि न चलितोऽस्मि । अहम् अत्रैवोपविष्टोऽस्मि ।

प्रभाकरः – (विहस्य) न चलितोऽस्मि इत्यनेन ज्ञायते वाहीनीरूपेण ग्राहकाः समागताः इति ।

पुरन्दरः – (अट्टहासं कृत्वा) तथा यदि स्यात् मे आशाः आशयाश्च फलिष्यन्ति ।

प्रभाकरः – पुरन्दर अहमागऽतोस्मि भवतां समीपं रूप्यकाणि ग्रहीतुम् ।

पुरन्दरः – मम समीपे रूप्यकाणि कुत्र सन्ति । प्रातः प्रभृति न कोऽपि ग्राहकः समागतः । कथं मम समीपे रूप्यकाणां भावः । त्वं किं चिन्तयसि मत्सकाशे रूप्यकाणां वृक्षः अस्तीति ।

प्रभाकरः – रूप्यकाणां वृक्षः नास्ति । किन्तु रूप्यकाणां खनिः विद्यते ।

पुरन्दरः – मम समीपे रूप्यकाणां खनिः, अहो तावदैश्वर्यं मम कुत्र विद्यते ।

प्रभाकरः – इतः पश्यतु भवान् । भवान् रूप्यकाणां दानं कुरु इति नाहं कथयामि । अहं ददामि कर्णाभरणे । (इति हस्तभस्त्र्याः पत्रबन्धनं बहिष्कृत्य तस्मै ददाति)

पुरन्दरः – (ते कर्णभूषणे गृहीत्वा भ्रूलतानर्तनं कारयन्) अहो एते श्यामिकयापूर्ण कर्णाभरणे । (इति निकषोपले उल्लीढति) सुतराम् एते अन्यलोहमिश्रिते ।

प्रभाकरः – किमर्थमेव वदसि पुरन्दर । मम विवाहसमये एते मे श्वशुरेण प्रदत्ते । कथम् एते श्यामिकयापूर्णे भवतः ।

पुरन्दरः – अहं वस्तुस्थितिं कथयामि तत् सत्यम् ।

प्रभाकरः – भवतु नाम कियत् धनम्, एते न्यासं विधाय दास्यसि कथय ।

पुरन्दरः – केवल शतरूप्यकाणि दीयन्ते ।

प्रभाकरः – केवलं शतरूप्यकाणि । एते त्रिशतरूप्यकमूल्ये योग्ये भवतः । त्रिशत रूप्यकाणि प्रयच्छ । एक सप्ताहानन्तरं प्रत्यगत्य सर्वमपि धनं दत्वा पुनः कर्णाभरणे ग्रहिष्यामि ।

पुरन्दरः – अयि ग्राहक अद्य न कोऽपि ग्राहकः समागतः । अद्य न किमपि कृतम्, उत सम्पादितं मया । त्वं मां जानासि यदहं सज्जनः इति । अहं त्वां जानामि । तस्मात् स्नेहाद्वा सौहृदाद्वा अहं तुभ्यं पञ्चविंशत्यधिक शतरूप्यकाणि दास्यामि गृहाण ।

प्रभाकरः – नहि पुरन्दर तथा नहि अशीत्युत्तर शतरूप्यकाणि देहि ।

पुरन्दरः – एते योग्ये नहि, तावत् धनं दातुम् । त्वं गृहीत्वा गच्छ । (इति वस्तु तस्मै दित्सति)

प्रभाकरः – पुरन्दर, सार्धशत रूप्यकाणि देहि भोः । अधुना एतत् धनेन बृहत्तरकार्यं कर्तव्यमस्ति तस्मात् अहं भवन्तं प्रार्थयामि ।

पुरन्दरः – अद्य न कोऽपि ग्राहकः समागतः । समक्षम् आगतां लक्ष्मीं प्रेशितुं मे बुद्धिः न भवति । ततः सार्धशतरूप्यकाणि ददामि । (इति कर्णाभरणे पेटिकायां निक्षिप्य सार्धशत रूप्यकाणि प्रयच्छति)

प्रभाकरः – (गृहीत्वा विकसितवदनः) नमस्ते श्रेष्टिन् । (इति नमस्कृत्य जिगमिषति ।)

पुरन्दरः – ग्राहक, अहमपि सन्तुष्टोऽस्मि, त्वमपि सन्तुष्ठोऽसि । “सन्तोष एव पुरुषस्य परं निदानम् ।”

(यवनिका पतति)

****************************************************************

.

तृतीयं दृश्यम्

(पुरन्दरः तस्य पत्न्या भाषमाणः आस्ते)

पुरन्दरः – हञ्जे अद्य अत्युत्तमकर्णाभरणे मम आपणे निक्षिप्य एकः ग्राहकः मत्सकाशात् सार्धशत रूप्यकाणि गृहीत्वा निर्जगाम । त्वं पश्य एते कर्णाभरणे (इति तस्यै दर्शयति)

रमा – (तूलशकलैः दशाः कुर्वन्ती आस्ते, सा ते कर्णाभरणे विलोक्य) अत्यन्त सुन्दरे कर्णाभरणे । (इत्याश्चर्यं व्यक्ती करोति)

पुरन्दरः – त्वम् एते कर्णाभरणे उपयुङ्कक्ष्व, यावत्पर्यन्तं सः ग्राहकः रूप्यकाणि प्रदाय ग्रहिष्यति ।

रमा – भोः परेषां वस्तु उपयोगेन मे आनन्दः न भवति । सा नारी कुटुम्बे सौख्यहीना, जीवितुं पित्रा दत्तं वस्तुचयं न्यासीकृत्य तत् धनेन कालं यापयति । तस्याः कर्णाभरणे अहं धृत्वा आनन्देन कथं नर्तिष्यामि ।

पुरन्दरः – अस्मिन् विषये तव मास्तु दयार्द्रभावः । यथा कथञ्चित् जीवनमेव योग्यं जगति । मम सिद्धान्तस्तु ऋणं कृत्वा घृतं पिबेत् । मम नास्ति कापि दया ।

रमा – ब्राह्मणानां विज्ञानार्दने श्रद्धा भवितव्या । व्यापारे वृद्धिव्यापारे तेषां बुद्धिः न प्रसारणीया इति परम्परा खलु । त्वं कथं परेषां वस्तुषु दयाविहीनः क्रौर्यतां दर्शयसि ।

पुरन्दरः – किं त्वं मे वेदान्तं कथयसि । अहम् एवं करोमि तस्मात् त्वं गृहे सुखी वससि । तत् त्वं मा विस्मर ।

रमा – ब्राह्मणानां व्यापारवृत्तिः न योग्या । यदि ब्राह्मणः व्यापारं करोति सः व्यापारी एव न तु ब्राह्मणः । ब्रह्मज्ञानरतः ब्राह्मणः भवति । धिक् ते ब्राह्मणत्वम् ।

पुरन्दरः – न कापि न्यूनता म् ब्राह्मणत्वस्य । अहं प्रतिदिनं पूजां करोमि आस्तिक्यबुद्ध्या । किन्तु जीवनाय अहम् इमं व्यापारं करोमि ।

रमा – व्यापारः ब्राह्मणस्य लक्षणं नहि । अत्र अस्मिन् व्यापारे स्वार्थता प्रलोभताच विद्येते । किमर्थं ते जीवने अत्यन्त व्यामोहः । तव जीवनाय तव कुटुम्बाय अन्यान् निर्धनान् सहमानवान् वञ्चयित्वा जीवनयापने मे स्वारस्यं न विद्यते ।

पुरन्दरः – त्वं किमपि भण, यथा तुभ्यं रोचते । मम जीवने परिवर्तनं न भविष्यति । अहं व्यापारी ब्राह्मणः ।

रमा – यदि त्वं व्यापारी ब्राह्मणः तर्हि अब्राह्मण एव । त्वयि ब्राह्मणत्वं न विद्यते । त्वं विद्यया जीवनं कुरु, विद्यादानं कुरु ।

पुरन्दरः – ब्राह्मणः कः स्पष्टं कथय ।

रमा – ब्राह्मणः जगति विद्यमानोऽपि जगति सम्बन्धयुतोऽपि सम्बन्धहीनः इव प्रवर्तितव्यः पद्मपत्रस्थितं वारिवत् । सः सर्वदा अधीति बोधाचरणप्रचारणैः वाणीं सर्वव्यापिनीं विधास्यमानः परब्रह्मणि लग्रमानसः यदृच्छालाभसन्तुष्टः कालं यापयितव्यः, नत्वन्यथा ।

पुरन्दरः – त्वं न जानासि लोकवर्तनम् । न कामपि बोधां त्वं कुरु । अहं जानामि किं कर्तव्यमिति ।

रमा – सर्ववेत्तारः पुरुषाः एव न तु स्त्रियः । भवतु नाम । त्वं यदा कदापि तव अज्ञानं ज्ञात्वा अवश्यं सन्मार्गगामी भविष्यसि । त्वादृशान् पुरुषान् अहं प्राचीनभारत इतिहासे अनेकान् अपश्यम् । कालः परिवर्तते तथा मानवोऽपि परिवर्तनं प्राप्नोति ।

पुरन्दरः – किं समाप्तं तव प्रबोधनम् । गच्छः अन्तः, भोजनवेला जाता, भुक्त्वा सपदं पुनः आपणं गन्तव्यं विद्यते । अहम् उद्यमशीलः पुरुषः ।

रमा – जानाम्यहं कियत्कालम् एतादृशजीवनं चलिष्यति । (इति अन्तः गच्छति पुरन्दरोऽपि अन्तः गच्छति)

(यवनिका पतति)

************************************************************

.

चतुर्थं दृश्यम्

(पुरन्दरस्य आपणे पुरन्दरः पूर्ववत् उपविष्टः अस्ति । ततः प्रविशति ब्राह्मणः भस्म त्रिपुड्रान् ललाटे कृत्वा गोष्पादशिरवायुतः धौतपरिधानधृतः उत्तरीय शोभितः)

ब्राह्मणः – अयि भोः श्रेष्ठिन् वर्धते व्यापारः ।

पुरन्दरः – (उत्थाय) नमांसि ब्राह्मण । (इति नमस्करोति) उपविशन्तु भवन्तः । (इति आसनं दर्शयति)

ब्राह्मणः – कार्यार्थमागतोऽहम् अवश्यम् उपविशेयम् । (इति उपविशति)

पुरन्दरः – महाब्राह्मण किं ते आगमनस्य हेतुः ।

ब्राह्मणः – पुरन्दर, ब्राह्मणः किमर्थमागच्छति ।

पुरन्दरः – (विहस्य) दातारं धनं याचितुम् ।

ब्राह्मणः – जानासि त्वम् ।

पुरन्दरः – अहमपि ब्राह्मणः तस्मात् जानामि ब्राह्मणानां चित्तवृत्तिम् ।

ब्राह्मणः – पुरन्दर, अहं मम पुत्रस्य मौञ्जीधारणव्रतबन्धं चिकीर्षामि । तस्मात् तत्कृते अपक्ष्यते धनम् ।

पुरन्दरः – यं कमपि दातारं गत्वा धनं याचतु ।

ब्राह्मणः – न कोऽपि दाता अस्मिन् पत्तने ।

पुरन्दरः – तस्मात् किं कर्तव्यम् ।

ब्राह्मणः – तस्मात् किं कर्तव्यमिति विचार्य अहं त्वत् सकाशं समागतोऽस्मि ।

पुरन्दरः – अर्थात् मां धनं याचितुं समागतोऽसि ।

ब्राह्मणः – हां त्वामेव धनं याचितुं समागतोऽस्मि ।

पुरन्दरः – किं मत्समीपे निधिः विद्यते सर्वेभ्यः विभाज्यदातुम् ? अत्र न केषाम् अपि दानं दीयते । अहं दानार्थम् अत्र उपविशामि किम् ?

ब्राह्मणः – अयि भोः युष्मादृशानां दानात्विना अस्मादृशानां पुत्राणां मौञ्जीधारणव्रतः कथं भविष्यति, भवानेव कथयतु पुरन्दर ।

पुरन्दरः – अत्र आपणे वस्तुन्यासेन तत्तु हिरण्यन्यासेन धनं दीयते किन्तु न दानरूपेण । ततः त्वं गत्वा यत् किमपि सुवर्णाभरणम् आनीय मत्सकाशे निक्षिप्य धनं गृहीत्वा निवर्तस्व । नोचेत् अधुनैव गच्छ पुनः मम समीपं मा आगच्छ ।

ब्राह्मणः – अयि पुरन्दर अहम् अलौकिकाः । मे वेदाध्ययनं विना नान्यत् ज्ञातमस्ति । । पुनः उपनयनानन्तरं अहं ते सर्वं धनं दास्यामि ।

पुरन्दरः – तदा त्वं कथं दास्यसि ।

ब्राह्मणः – बटोः भिक्षावेलायां भिक्षारूपेणा यत् धन बन्धुभ्यः सम्प्राप्यते तत् धनं तुभ्यमहं दास्यामि ।

पुरन्दरः – ब्राह्मणाय दत्तं वीतिहोत्रे निक्षिप्तं हुतमेव भवति । किन्तु न पुनरागमनं भवति ।

ब्राह्मणः – किं कुर्यामहम् ।

पुरन्दरः – पुत्रस्य मौञ्जीधारणव्रतः आवश्यकः किम् ? अधुना अस्मिन् दारिद्य्रे।

ब्राह्मणः – अयं बालः अष्टवर्षीयः । वेदोक्तप्रमाणम् अवश्यम् अधुना सः उपनीतः भवितव्यः अस्ति ।

पुरन्दरः – तस्मात् त्वं गृहं गत्वा यत् किमपि सुवर्णमयं उत वज्रवैडूर्याञ्चितम् आभरणमानीय मह्यं देहि । अहं ते धनं दास्यामि ।

ब्राह्मणः – अयि भोः, ब्राह्मणाः निराडम्बरजीविनः तेषां सर्वसमानभावुकता सर्वत्र, सर्वेषु प्राणिषु भगवत्‌दर्शनमेव सम्पत् नान्यत् विद्यते ।

पुरन्दरः – स्त्रियः कर्णाभरणानि मङ्गलसूत्राणि हस्तकङ्कणानि धरन्ति, तेषु यत्किमपि आनय ।

ब्राह्मणः – अस्मत् गृहे गृहिण्यः मङ्गलसूत्रं विना नान्यत् धारयन्ति । तत् मङ्गलसूत्रानयनम् अयोग्यं भवति ।

पुरन्दरः – मङ्गलसूत्रमानय इति नाहं कथयामि । किन्तु भूषणान्तरम् आनय धनं दास्यामि ।

ब्राह्मणः – अहं यायावरः भिक्षाटनेन जीवामि । नाहमानेतुं शक्तः सुवर्णाभरणम् ।

पुरन्दरः – अहं धनं दातुम् अशक्तः ।

ब्राह्मणः – अस्मिन् ग्रामे न कोऽपि दाता विद्यते प्रष्टुम् । सर्वोऽपि धनसम्पादने तत्परोभूत्वा कृत्याकृत्यं विधाय जीवति ।

पुरन्दरः – त्वं तव पत्नीसमीपं गत्वा तां विचारय सा दास्यति तुभ्यम् । तत आनीय मह्यं देहि तदा अहं तुभ्यं धनं दास्यामि ।

ब्राह्मणः – मे जाया कथं दास्यति । तस्याः समीपे न किमपि विद्यते ।

पुरन्दरः – आभरणैर्विना स्त्रियः कथं जीवन्ति । तेषाम् आभरणानि पञ्चप्राणापेक्ष्या अधिकतमानि । त्वं गच्छ तव पत्नीं विचारय ।

ब्राह्मणः – ब्राह्मणस्त्रीणां आभरणैः किं प्रयोजनम् । तेषाम् आभरणं शीलमेव ।

पुरन्दरः – ब्राह्मण अधिकप्रलापैः किं प्रयोजनम् । विना वस्तुन्यासेन नाहं दास्यामि तुभ्यं धनम् । त्वं गच्छ । (इति उक्त्वा सः पुरन्दरः अन्तः गच्छति)

ब्राह्मणः – अयि पुरन्दर अहं प्रयतिष्ये । पुनरागच्छेयम् । (इत्युक्त्वा निर्गच्छति)
(यवनिका पतति)

*************************************************************

.

पञ्चमं दृश्यम्

(रमा कङ्कतिकया शिरोजान् प्रसादयति ततः प्रविशति ब्राह्मणः)

ब्राह्मणः – भवति भिक्षां देहि ।

रमा – नमस्ते ब्राह्मण ।

ब्राह्मणः – भगवति अहं भिक्षार्थमागतोऽस्मि ।

रमा – तिष्ठ, भिक्षामानयेयम् ।

ब्राह्मणः – साधु मतल्लिके ।

रमा – (अन्तः गत्वा एकं फलं गोधूमाश्च आनीय तस्य भिक्षा गोण्यां निक्षिपति)

ब्राह्मणः – अयि मतल्लिके अहं सन्तुष्टोऽस्मि भवत्याः भिक्षादानेन । किन्तु मम –(इत्यर्थोक्त्या)

रमा – किन्तु कथय किमपेक्ष्यते अधिकम् ।

ब्राह्मणः – अयि मातः अहं महत्तरां भिक्षां याचयामि ।

रमा – अयि ब्राह्मण, कीदृशीं भिक्षां तव याचसे ।

ब्राह्मणः – अम्बे, अहं मे पुत्रस्य मौञ्जीधारणव्रतं चिकीर्षामि तदर्थं धनमपेक्ष्यते मया । भवति धनं देहि ।

रमा – अयि ब्राह्मण नाहं धनं दातुं शक्ता भवामि, यतः धनं मम समीपे न विद्यते ।

ब्राह्मणः – अयि मातः त्वं जानासि वयं भूसुराः निर्धनाः केवलं वयं वेदपारगाः । अस्मत् समीपे न किमपि धनं विद्यते, तस्मात् मौञ्जीधारणव्रताय धनं याचे ।

रमा – त्वं किमपि वस्तु याचस्व अहं दास्यामि किन्तु न धनम् ।

ब्राह्मणः – भगवति, भवत्याः नाशिकापुढे विराजमानं वज्रखचित नाशिकाभरणं मे देहि ।

रमा –महाब्राह्मण गृहाण । (इति नासिकापुटात् शिथिलीकृत्य प्रयच्छति)

ब्राह्मणः – सौभाग्यवती भव । (इति आशीर्वादान् दत्वा निर्गच्छति)

रमा – अहो मे जीविते योग्यब्राह्मणाय अद्यैव दानं कृतम् । धन्यास्मि । (इति निश्वस्य निर्गच्छति)

(यवनिका पतति)

*****************************************************

.

षष्ठं दृश्यम्

(पुरन्दरः वज्रवैडूर्याणां गणनां कुर्वन्नास्ते, तस्य पुरतः तुला विद्यते सः पूर्ववत् उपविष्टः आस्ते । ततः प्रविशति ब्राह्मणः)

ब्राह्मणः – अपिकुशलं पुरन्दर ।

पुरन्दरः – (उन्नमित शिरः) नमस्ते ब्राह्मण ।

ब्राह्मणः – ते साधु भवतु ।

पुरन्दरः – किं साधु किम् असाधु एषु दिवसेषु सम्यक् व्यापारः न चलति । तूष्णीम् अहं अत्रोपविशामि ।

ब्राह्मणः – अहम् आगतोऽस्मि पुनः त्वां द्रष्टुम् ।

पुरन्दरः – दर्शनेन किं प्रयोजनं भवति । त्वया यत् किमपि आनीतं किम् । अहं विस्मृतवानस्मि, किं पुत्रकस्य उपनयनं कृतं किम् ?

ब्राह्मणः – एतावत्पर्यन्तं न कृतं मया यतः बहुधनमपेक्ष्यते उपनयनस्य । तत् धनम् अधुना अहं त्वत्तः गृहीतुम् आगतोऽस्मि ।

पुरन्दरः – उक्तं च मया विनाच न्यासं धनं न दीयते इति ।

ब्राह्मणः – हाम् अहम् उक्तोऽस्मि ।

पुरन्दरः – तर्हि किमर्थमागतः विनाचन्यासम् ।

ब्राह्मणः – अयि भोः न्यासं संस्थाप्य धनं ग्रहीतुम् आगतोऽस्मि ।

पुरन्दरः – हां तथा वद । दर्शयतु तत् वस्तु भवान् ।

ब्राह्मणः – पुरन्दर, अस्य कृते कियत् धनं दास्यसि । (इति तत् वस्तु हस्तेन गृहीत्वा दर्शयति)

पुरन्दरः – देहि मे तत् वस्तु हस्ते ।

ब्राह्मणः – (उत्तरीयाञ्चलग्रन्थिं विस्रस्य तस्मात् नाशिकाभरणं गृहीत्वा तत् पुरन्दरहस्ते निक्षिपति)

पुरन्दरः – (विकसितवदनः तत् वस्तु तदेकदृष्ट्या पश्यन् पुनः ब्राह्मणं पश्यन्) एतत् वस्तु अतीव सुन्दरम् अमूल्यं च प्रतिभाति ।

ब्राह्मणः – हा इदं नाशिकाभरणम् ।

पुरन्दरः – तदेव अहमपि कर्तयामि इदं कस्याः नाशिकाभरणमिति ।

ब्राह्मणः – पुरन्दर, महत् धनं प्राप्तुम् आनीतं मया।

पुरन्दरः – कस्मात् उत कस्याः समानीतम् ।

ब्राह्मणः – गृहीण्याः ।

पुरन्दरः – (साशङ्कम्) किं तया दत्तम् इदं, उत चोरयित्वा आनीतम् ।

ब्राह्मणः – पुरन्दर त्वम् अधिक प्रसङ्गं करोषि, तथामावद ।

पुरन्दरः – परिहास विजल्पितं मया ।

ब्राह्मणः – मौञ्जीं धारणव्रतार्थं दत्तवती सा ।

पुरन्दरः – सत्यम् इदं गृहिण्याः एव ।

ब्राह्मणः – अहं गृहं गत्वा तामप्रृच्छम् । सा अनुपदमेव दत्तवती । एतत् न्यासरूपेण गृहीत्वा दीयतां धनं सत्वरम् ।

पुरन्दरः – एतत् वस्तु अमूल्यं विद्यते । अस्य कृते मम समीपे धनं नास्ति । एतत् वस्तु अत्रैव स्थापय । श्वः आगत्य धनं गृहाण ।

ब्राह्मणः – तथा कर्तुं नोत्सहे । मम धनम् अधुनैवापेक्ष्यते ।

पुरन्दरः – तथा यदि त्वम् अत्रैवोऽपविश । अहम् अधुना प्रत्यागच्छेयम् ।

ब्राह्मणः – अधुना त्वया कुत्र गम्यते ?

पुरन्दरः – अधुना मया गृहं प्रति गम्यते । अहं पुनरागत्य धनं दास्यामि । (इति नाशिका भरणं पेटिकायां निक्षिप्य पेटिकाबन्धनं करोति) ब्राह्मण अहं गच्छामि त्वम् अत्रैवोपविश । (इति निर्गच्छति)

ब्राह्मणः – (विहस्य) अरे पुरन्दर त्वं परम मूर्खोऽसि मूर्खशिरोमणिरसि । नश्वरसंसारलम्पटोऽसि । इतः परं त्वं भक्तः भविष्यसि, दाससाहित्य सृष्टिं करिष्यसि । ते सर्वं शुभं भूयात् । (इति वदन् हसन् निर्गच्छति)

(यवनिका पतति)

*******************************************************

.

सप्तमं दृश्यम्

(पुरन्दरः पिनद्ध कवाटम् उद्घाटयितुं ताडयति, आह्वयति रमे इति, किन्तु कवाटोद्घाटनं न भवति)

पुरन्दरः – (आत्मगतम्) किं करोति एषा अन्तः । कतिवारं मया कवाटोद्घाटनाय ताडितम् । (उच्चैः रमे इति आह्वयति)

(नेपथ्ये तिष्ठन्तु किञ्चित् कालं तत्रैव, अहं स्नामि इति रमायाः कण्ठध्वनिः श्रूयते)

पुरुषः सम्पादयति अतिकष्टेन गृहिणी व्ययीकरोति स्वेच्छया आर्जितं सर्वम् । कष्टालुः पुरुषः, सुखमनुभवति स्त्री, इयं लोकपरिपाटिः । यदि नाशिकाऽभरणं तस्याः समीपे न दृश्यते तर्हि अद्य तस्याः मरणमेव भविष्यति । अत्रैवोपविश्य पश्यामि सर्वम् । (इति तत्र पीठे उपविशति)

रमा – (कवाटं उदघाटयति, शिरोजान् वस्त्रखण्डेन घर्षयति) भोः स्नाम्यहं तस्मात् आलस्यं जातं किमर्थमेवं कवाटताडनम् आक्रोशनं च । अद्य कृत्थाः इव भवन्तः सन्दृश्यन्ते ।
कोऽत्र हेतुः ?

पुरन्दरः – हां सत्यमेव कृत्थोऽहम् । मम वचनस्य अनुपदमेव प्रत्युत्तरं देहि ।

रमा – कोऽयं प्रश्नः पृच्छतु ।

पुरन्दरः – (तस्याः मुखं विलोक्य) ते नाशिकाऽभरणं न दृश्यते कुत्र विद्यते तत् ?

रमा – स्नानसमये नाशिकायाः शिथिलीकृत्य स्नानकोष्टे निक्षिप्तास्मि ।

पुरन्दरः – त्वं गत्वा प्रथमतः नाशिकाभरणम् आनय ।

रमा – अधुना तेन तव किं प्रयोजनं विद्यते ।

पुरन्दरः – हञ्जे, दिदृक्षामितत् ।

रमा – आनयेयम् अनन्तरं दर्शयेयम् अधुना किमर्थम् ।

पुरन्दरः – (सक्रोधम्) अहं त्वां पृच्छामि नासाभरणम् आनय दर्शय इति । यदि त्वं न दर्शयसि तव यमसदनमेव शरण्यं भवति ।

रमा – (भीता) आनयेयम् । (इति अन्तः गच्छति)

पुरन्दरः – (तत्रैव तिष्ठति)

रमा – (प्रविश्य) गृहणातु । (इति ददाति)

पुरन्दरः – (गृहीत्वा) अहम् अधुनैवागच्छेयम् । (इति निर्गच्छति)

रमा – (आनन्दाश्रुपूर्णा तत्र विद्यमान श्रीकृष्णस्य मूर्तिसमीपं गच्छति तस्य विग्रहस्य पुरतः स्वात्मानं पातयित्वा कृष्ण त्वमेव म रक्षकः इति नमस्करोति)

(यवनिका पतति)

********************************************************

.

अष्टमं दृश्यम्

(ततः प्रविशति पुरन्दरः,उपविशति पेटिकासमीपे, उदघाटयति पेटिकां, तत्र नाशिकाभरणस्य अभावं विलोक्य हस्ते विद्यमान नाशिकाभरणं विलोक्य आश्चर्यचकितः पुरतः विलोक्य तत्र ब्राह्मणाऽभावं विलोक्य अत्यन्तचकितः विस्फारितलोचनः भक्तिभावेन एवं कथयति)

पुरन्दरः – अयं ब्राह्मणः नहि । ब्राह्मणरूपे आगतः श्रीकृष्णपरमात्मा एव । प्रभो वासुदेव त्वमेव पुत्रकस्य मौञ्जीधारणव्रतार्थं धनं पृष्टवानसि । त्वमेव मे गृहं गत्वा मे पत्न्याः इदं नाशिकाभरणं आनीतोऽसि । अहं मृत्पिण्ड बुद्धिः अभवम् । तव नाटकम् अनवबोधितोऽस्मि । देव न कोऽपि जानाति ते अद्भुत रचनां मायां च वसुधातले । किमेतत् जीवितेन प्रयोजनं यदा साक्षात् भगवान् श्रीकृष्णः ब्राह्मणरूपेण मां प्राप्तः तदा अहम् अन्धोभूत्वा तं द्रष्टुम शक्तोऽभवम् । धिङ्मे जीवितम् । धिङ मे सम्पत् । धिङ्मे धनकनकलोलुपत्वम् । सर्वं धिक् । दृश्यमानं धिक् । रमे त्वं धन्याऽसि । त्वं श्रीकृष्णेन याचितं दत्तवती । ते जन्म सार्थकं बभूव । न मे रोचते इदं वस्तुजालम् । सर्वं नश्वरम् । परमात्मा अनश्वरः, नित्यः, स्थाणुः, अचलः, सनातनः । अधुना परावर्तित जीवितोऽस्मि । तस्मादहं विठ्ठलं गानरूपेण स्रोत्रं विधाय मुक्तिं प्राप्स्यामि । हे पुरन्दर विठ्ठल । कृष्ण, मुरारे, मधुकैटभारे, आनन्द, गोविन्द मुकुन्द, शौरे ।

सर्व भूतान्तरात्मानम् । बहुरूप विलासितम् ।
अणीयांसं च देवेशम् । हृषीकेशं भजाम्यहम् ॥

(यवनिका पतति)

*****************************************************

]