परिणीता

[[परिणीता Source: EB]]

[

परिणीता

(ततः प्रविशतः यवनिका पुरतः व्यवस्थापक दर्शकौ)

व्यवस्थापकः – (ध्वनियन्त्रं हस्ते गृहीत्वा) तत्र भवन्तः सामाजिकाः श्रृण्वन्त भवन्तः । अद्य वयं परिणीता इति नामकं नाटकं प्रदर्शयितुम् अतीव उत्साहिनः अभवाम । अहम् अस्य नाटकस्य निर्माता । अयम् अस्य नाटकस्य दर्शकः । अयम् एतन्नाटकमुद्दिश्य कतिचित् परिचयवाक्यानि दास्यति । (इति ध्वनियन्त्रं तस्य पुरतः निक्षिपति)

दर्शकः – अयि भोः सामाजिकाः एतन्नाटकं गीर्वाणान्ध्रभाषाप्रवीणेन पण्डित ओगेटि परीक्षित् शर्मणा विलिखितम् । अयं विंशतितमशताब्दे सुप्रसिद्ध संस्कृतकविः । अनेन अनेकानि काव्यानि विलिखितानि । एतन्नाटकम् अनेन विलिखित सामाजिक नाटकेषु एकं वर्तते । अस्मिन् नाटके वरशुल्केन विना नायिका राधा परिणीता आसीत् । तत् कथं बभूव भवन्तः प्रत्यक्षम् अधुना पश्यन्तु । धन्यवादाः । (इति द्वावपि अन्तःगच्छतः)

(यवनिका अपसार्यते)

(रङ्गमञ्चे एकस्मिन् पार्श्वे टेबुलोपरि पुस्तकानि निक्षिप्तानि । एकत्र शयनकुर्चिका । तस्याभिमुखम् उपवेष्टुं सोफादिकं वर्तते ।)

(ततः प्रविशति कौटुम्बिकः गिरिधरलालः)

गिरिधरः – “चक्रार पङ्क्तिरिव गच्छति भाग्यपङ्क्तिः” हा सम्यगुक्तं भासमहाकविना । (इति शयन कुर्चिकायाम् उपविशति । आत्मगतम्) समाजे सर्वदा स्थितिः परिवाहिनी भवति । अधुनातनदिवसेषु दैनन्दिनकार्यक्रमकरणे जनाः बहुश्रान्ताः भवन्ति । चहपानादिकं करणानुपदमेव कार्यालयगमनं गृहेपि कार्यालयचिन्ता किं जीवितमेतत् । दैनन्दिनकार्यं कारं कारं मे चित्तं शरीरं च बहु खिन्नं श्रमया च विदारितम् आसीत् ।

राधा – (चहामानीय पार्श्वे टेबुलोपरि निक्षिपति) अयि भोः कार्यालयवेला भवति सत्वरं चहापानादिकं कृत्वा स्नात्वा कार्यालयं गच्छतु । किमर्थम् उपविष्टाः । चहा सत्वरं पिबतु, नोचेत् शीतलं भविष्यति ।

गिरिधरः – राधे अद्य वृत्तपत्रम् आगतं किम् ।

राधा – आगतम् ।

गिरिधरः – तर्हि आनीय मह्यं देहि ।

राधा – वृत्तपत्रमपि मया दातव्यं किम् ? (इति मुखं वक्रितं विधाय वृत्तपत्रम् आनीय तस्मै ददाति)

गिरिधरः – किं रुष्टासि ?

राधा – हसितव्यं किम् । गृहे सर्व कर्म कर्तव्यम् । युष्माकं वृत्तपत्रमपि दातव्यम् ।

गिरिधरः – मह्यं वृत्तपत्रदानेन परिश्रान्ता भवेः किम् ?

राधा – मे प्राणाः निर्गच्छन्ति गृहकर्मकरणे । एकां पाचकां स्थापयतु गृहे ।

गिरिधरः – जानकी किं करोति ।

राधा – सा लिखति । तया गन्तव्यं वैद्य शालाम्प्रति ।

गिरिधरः – सा ते गृहकर्मकरणे साहाय्यं करिष्यति ।

राधा – मम तस्याः सहायोमास्तु । यदि सा स्वयं स्वीयकर्म करिष्यति तदेवालं मम ।

गिरिधरः – किं तथा कृत्था भवसि अद्य । किं रक्तपीडनं भवति ।

राधा – मनोवैक्लव्यं भवति मे । पुत्रिकायाः जानक्याः पञ्चविंशति वर्षाणि व्यतिष्यन्ति । सर्वदा तस्याः विवाहविषये चिन्ता भवति । तया चिन्तया अहं शिथिलिताङ्गी भवामि ।

गिरिधरः – त्वं गच्छ । चिन्तां मा कुरु । सर्वमपि शान्तगत्या सुखमयं भविष्यति । त्वम् अन्तःगत्वा कार्यतत्परा भव । नोचेत् चिन्ता चितिः भूत्वा शरीरं सर्वमपि दाहयिष्यति ।

राधा – (मुखं सङ्कोचयित्वा अन्तः गच्छति)

गिरिधरः – (वृत्तपत्रं पश्यन्) वधूः अपेक्ष्यते । वयः पञ्चविंशति वर्षाणि वैद्या एम्, बि. बि. एस्. अन्तिमवर्ष विद्यार्थिनी उत उत्तीर्णा वैद्या रूपवती गुणवती च अपेक्ष्यते । (उत्थाय) हञ्जे राधे इतः एहि ।

राधा – (आगत्य) किमर्थम् एलम् आक्रोशति । किं वृत्तम् ।

गिरिधरः – पश्य । (इति वृत्तपत्रं ददाति)

राधा – (वृत्तपत्रं गृहीत्वा पठति) वयः पञ्चविंशतिवर्षाणि । वैद्यां एम्. बि. बि.एस् अन्तिमवर्ष विद्यार्थिनी उत उत्तीर्णा वैद्या, रूपवती गुणवती च अपेक्ष्यते । बालस्य वयः त्रिंशतिः वैद्यः औषधतज्ञः । अमेरिकादेशात् प्रतिनिवृत्तः सुन्दरः दत्ताङ्के पत्रव्यवहारः कर्तव्यः ।

गिरिधरः – कथं विद्यते ।

राधा – समीचीनम् । अद्यैव पत्रं विलिखतु । नोचेत् गत्वा सर्वं तैस्साकं विचार्य बालकं दृष्ट्वा आगच्छतु । एषा पत्रिका प्रकटना जानक्यै कृता इव मे प्रितिभाति ।

गिरिधरः – विवाहसमयः समापन्नः । सम्प्राप्तसमये वमन कल्याणयोः न कोपि निरोधः भवति । दशघण्टावादनं भवति । कार्यालयं गन्तव्यम् । इति अन्तः गच्छति ।

राधा – अहं पाथेयपात्रं संसिद्धं करिष्ये । (इति अन्तः गच्छति)

गिरिधरः – (बुटुं टै बन्धयित्वा कोटुं धारयति) हञ्जे गच्छाम्यहम् ।

राधा – (पाथेय पेटिकान्दत्वा) पश्यतु भवान् कार्यालयवेला सामाप्त्यनन्तरं सन्ध्यासमये दत्ताङ्कगृहं गत्वा सर्वं विचार्य आगच्छतु ।

गिरिधरः – हञ्जे यादृशी शीघ्रता विद्यते ते कुमार्याः विवाहकरणे तादृशी शीघ्रता ममापि विद्यते । अहं सर्वं सम्यक् विचार्य निश्चित्य आगच्छेयं मात्र चिन्ता ते अस्तु । (इति गच्छति)

राधा – हे भगवन् यदि अयं विवाह सम्बन्धः भविष्यति तर्हि वयं सर्वे मिलित्वा अतिवैभवेन सत्यनारायणपूजां करिष्यामः । (इति नमस्कृत्य अन्तः गच्छति)

(यवनिका पतति)

******************************************************************************

.

द्वितीयं दृश्यम्

(उद्यानवनं तत्र एकस्मिन् कोणे एकस्य वृक्षस्य अधः उपविश्य जानकीरामौ संलपन्तौ आस्ताम्)

रामः – प्रेयसि जानकि अहं पञ्चवर्षाणि अमेरिकादेशे न्यूयार्कनगरे अवसम् । किन्तु तत्र जीवनं भारतात् भिन्नम् । तत्र जीवनं अत्यन्त वेगपूर्णम् । तत्र न विद्यते मनश्शान्तिः । तत्र सर्वे सर्वभक्षकाः । अहं तु शाकाहारी । मया न कदापि मद्यं सेवितम् । मम जन्मतः आरभ्य अहं भारतीय आर्ष परम्परागत साम्प्रदायप्रेमिकः । तस्मात् तत्रस्य जीवनं णह्यं न रोचते ।

जानकी – अरे राम, अद्यतन दिवसेषु सर्वोऽपि अन्यदेशं उद्दिश्य अतिशयोक्तिं करोति । किं तत् असत्यम् ।

रामः – तत् सर्वम् असत्यमेव । तत्र मानवजीवनं नहि । तत्रत्यानां पशुप्रायता जीवनम् अधिकं भवति । न शान्तिः विद्यते । केवलं सम्पादनं भौतिकसुखानुभवमेव तत्र भवति । नान्या चिन्ता विद्यते ।

जानकी – त्वं पञ्चवर्षाणि तत्र स्थित्वा तत्रत्या युवत्या न विवाहितोसि ।

रामः – नहि, भारतीय सौन्दर्यम् अहं तत्र ना पश्यम् । भारतीयानां विलासादिकं ना पश्यमहं तत्र । ताः स्त्रियः पुरुषाः इव आचरन्ति । तस्मात् मे शृङ्गारभावादिकं न बभूव । सर्वदा अहं भारतमुद्दिस्यौव अचिन्तयम् ।

जानकी – राम, केचन आधुनिकाः कथयन्ति तत्र जीवनं सुखमयमिति, स्वेच्छाजीवनमिति । तत् सर्वम् असत्यं किम् ।

रामः – सर्वेषां स्वेच्छा विद्यते । अशनपानादिकम् अस्मदीय देशवासिनाम् अननुकूलं प्रतिकूलं च । भारतवर्षे सर्वेषां मानवानां स्वेच्छाविचारः नियमबद्ध वैयक्तिकस्वतन्त्रता च अवश्यं स्वीकरणीये ।

जानकी – तत्र जीवनम् अनुभोक्तुम् आधुनिकाः अहमहमिक्या तत्र गन्तुं प्रयतन्ते । किं तत् अयोग्यम् ।

रामः – उच्च शिक्षणार्थं वैज्ञानिक विषयान् ज्ञातुं तत्र गमनम् आवश्यकमेव । किन्तु भारतीय जीवनसदृशं प्रपञ्चे कुत्रापि न दृश्यते । भारते ग्रामीणाः अपि स्वतन्त्रतया आनन्देन जीवन्ति विद्यमान सम्पच्चये । तत् तत्र ग्रामेषु न सन्दृश्यते । तत्र सर्वेषाम् अधिकाशा भवति । यदि मानवस्य सकाशे किञ्चित् धनं स्यात् तर्हि भारतदेशसदृशं देशं अन्यत्र नहि पश्यामः । तस्मादेव सर्वे भारतेतराः भारतं समागताः । वयं भारतीयाः कुत्रापि नागच्छाम । अधुना विज्ञानशिक्षणार्थम् उच्चशिक्षणार्थं भौतिक सुखप्राप्त्यर्थम् आधुनिकाः गच्छन्ति ।
जानकी – अस्मद्देशीय जीवनमेव वरमिति ते मनीषा ।

रामः – सत्यमेव महाकवि चटर्जी महोदयेन गीतं खलु वन्दे मातरं, सुजलां सुफलां मलयज शीतलां मातरं, वन्दे मातरम् इति । सा भावना शतथा सत्यं तथ्याच ।

जानकी – भवदीय अनुभवेन अहम् अत्यन्तप्रभाविता अस्मि ।

रामः – असे सुन्दरि त्वादृश सौन्दर्यवतीम् अहम् अमेरिकादेशे नापश्यम् ।

जानकी – त्वं वैद्योपि देशान्तरगतोपि त्वं सत्यमेव भारतीयजीवनाभिलाषी इति मे परमानन्दः भवति ।

रामः – परदेशं गतोऽस्मीति परदेशीयः भवेयम् किम् ? अहं देशद्रोही न भवेयम् । अहं सर्व सेवां भारतीय जनता कृते करिष्यामि ।

जानकी – अरे राम, आवयोः विवाहः अतीव स्वल्पधनविनिमयेन भवितव्यः । भारतवर्षे दरिद्रतां भजन्ते, ततः विवाहार्थम् अतिस्वल्पधनं विनिमयं कर्तव्यमिति मे अभ्यर्थना ।

रामः – आवयोः भावना साम्प्रदायः आचारव्यवहारः अशन पानादिकं भारतीयतां तन्वन्ति । आवयोः शरीरे स्त्रीपुरुष विलासिते । किन्तु मनोभावना आत्मा च एकः एव । अस्मदीय विवाहः जातः । किन्तु लोकाय दर्शयितुं यस्मिन् कस्मिन् अपि देवालये विवाहः शास्त्रपद्धत्या कर्तव्यः विद्यते ।

जानकी – ममाभिप्रायः अपि स एव ।

रामः – जानकी तव पितुः नाम किम् ।

जानकी –गिरिधरः ।

रामः – मातुः नाम ।

जानकी – राधा ।

रामः – मम नाम रामः । तव नाम जानकी । सर्वं भगवता निर्णीतमिव ग्रतिभाति मे । पश्य विवाहः परम्परागत शास्त्रोक्तप्रमाणं करणीयः । सप्तपदीसहितः अग्निसाक्षिकं शास्त्रपद्धत्या सुस्पष्ट मन्त्रोच्चारणैः ब्राह्मणानां समक्षं करणीयः ।

जानकी – ममापि एवमेव विवाहः कर्तव्यः इति विद्यते । आचारार्थं धनं व्ययीकरणं न योग्यं भवति । आवयोः विवाहमुद्दिश्य कुत्रापि न वक्तव्यम् ।

रामः – नहि । एहि मत्सकाशम् ।

जानकी – अरे राम, त्वं मे जीवनम् । (इति तस्य सकाशं गच्छति)

(यवनिका पतति)

******************************************************

.

तृतीयं दृश्यम्

(पशुपतिः गिरिजया उपविश्य सम्भाषते)

पशुपतिः – गिरिजे, पत्रिकायां विवाहप्रकटनां दत्वा एक सप्ताहः व्यतीतः । बहूनि पत्राणि सम्प्राप्तानि न किमपि पत्रन्तृप्तिं नाददत् । अनुरूपयुवकस्य अमेरिकातः प्रतिनिवृतस्य अनुरूपकन्यका न सम्प्राप्ता भवति किमेतदाश्चर्यम् ।

गिरिजा – द्वितीयसप्ताहे अवश्यं बहु सङ्ख्यकानि योग्यपत्राणि समागमिष्यन्ति । यदि अस्मिन् पत्तने यः कोऽपि स्यात् सः आगमिष्यति । अत्र चिन्तायाः स्थानं नहि ।

पशुपतिः – न मे कापि चिन्ता विद्यते । मे केवलं आश्चर्यं भवति वर्तमानास्थितिमुद्दिश्य । केचन अमेरिकातः प्रत्यागतस्य युवकस्य कन्यां दातुं शङ्कितमनाः भवन्ति । तादृशानुद्दिश्य अहम् आश्चर्यं व्यक्तीकरोमि ।

गिरिजा – अतिशङ्किनां जगति शान्तिः कथं भविष्यति । केचन जगति अन्य देशेभ्यः प्रत्यागतान् अतीव गौरवपूर्णं पश्यन्ति । अन्येच बहुहीनं पश्यन्ति ।

पशुपतिः – केचन अन्यदेशानुद्दिश्य ऊहामपि कर्तुम् असमर्थाः भवन्ति । केचन ऊहां कृत्वा अस्माकं तादृश जीवनम् अयोग्यम् अनवसरमितिच चिन्तयन्ति । केचन परदेशमुद्दिश्य श्रवणानुपदमेव उन्मत्ताः भूत्वा जीवने एकवारं गन्तुं चिन्तयन्ति इयं लोकपरिपाटिः, वर्तमान स्थितिश्च । (बहिः कवाट ताडनम् द्वारघण्टारावश्च)

गिरिजा – कवाटताडनम् अपिच द्वारघण्टारावश्च भवतः । कोपि समागतः आसीत् ।

पशुपतिः – बत विरामदिवशेषु अपि सन्ध्यासमयेषु कवाटताडनं द्वारघण्टारावश्च अविरामं भवतः । आगन्तुकानाम् अवधिर्नविद्यते । ते केवलम् आगच्छन्ति चहां पिबन्ति संलापं कुर्वन्ति गच्छन्ति ।

(इति सन्तापेन उत्थाय अन्तःगच्छति)

गिरिजा – अहङ्गत्वाद्वारं उद्घाटयामि ।

(इत्युत्थाय विवृतद्वारं करोति)

(ततः प्रविशति गिरिधरलालः)

अयिभोः महाशये । इदं पशुपति महाशयानां गृहं किम् ।

गिरिजा – हा इदं तेषां गृहमेव ।

गिरिधरः – ते गृहे सन्ति किम् ?

गिरिजा – सन्ति ।

गिरिधरः – किमहं अन्तः आगच्छेयम् ।

गिरिजा – आगच्छन्तु ।

(गिरिधरः अन्तः प्रविश्य कुर्च्याम् उपविशति)

पशुपतिः – अन्तर्गृहात् प्रविश्य नमांसि ।

(इति नमस्करोति)

गिरिधरः – नमांसि । भवानेव पशुपति महोदयः ।

पशुपतिः – हाम् अहमेव पशुपतिः ।

गिरिजा – अहं भवदीय पुत्रस्य वैवाहिक प्रकटनां वृत्रपत्रे विलोक्य भवद्भिः भाषितुं समागतोऽस्मि ममनाम गिरिधरः ।

पशुपतिः – हञ्जे (इति पत्नीम् आह्वयति)

गिरिजा – (प्रविश्य) अधुनैव चहाम् आनयामि इति उक्त्वा अन्तः गत्वा चहाशूर्पेण प्रविश्य तत्र पीठोपरि निक्षिपति)

पशुपतिः – गृहणन्तु शीघ्रम् । नोचेत् चहा शीतलं भविष्यति (इति गृह्णाति)

गिरिधरः – (गृह्णाति)

गिरिजा – (प्रविश्य चहां गृहीत्वा अन्यस्मिन् पीठे उपविशति)

(सर्वे चहापानं कुर्वन्ति)

पशुपतिः – गिरिजे एते गिरिधर महोदयाः । एतेस्स्वपुत्रिकायाः विवाहं निश्चितुम् अत्रागतवन्तः त्वमपि आवयोः भाषणे भागस्वामिनीभव ।

गिरिजा – तदर्थमेव अहम् अत्रोपविशम् ।

पशुपतिः – कन्यकामुद्दिश्य सविस्तरं कथयन्तु भवन्तः ।

गिरिधरः – कन्यकायाः नाम जानकी सा पञ्चविंशतिवर्षीया चरेम एम्. बि. बि. एस. कक्ष्यायां वर्तते । सा अतीव सुन्दरी, रूपवती, गुणवती सर्वसद्गुणानां सन्निधिः । काकस्य शाबकः काकाय रोचते तथा नाहं कथयामि ।

गिरिजा – अयि भोः गिरिधर महोदय । अहं पुत्रस्य गुणगाणान् कथयामि । पुत्रः अतीव सज्जनः । सः अमेरिकादेशे विद्यमानः अपि सः शाकाहारी भारतीयसंस्कृतिप्रेमिकः संस्कारयुतश्च । सः अधुनैव अमेरिकातः प्रत्यागतः । तस्य वयः त्रिंशति । सः वैद्यतज्ञः । वधूवरयो दर्शनानन्तरं विवाहः निर्णीतव्यः विद्यते ।

गिरिधरः – सम्यक् विद्यते । भवतां अपेक्षा किम् अस्मत्तः ।

पशुपतिः – वैवाहिक सर्वसन्नाहाः भवद्भिः कर्तव्याः वर्तन्ते ।

गिरिधरः – तथैव ।

गिरिजा – वधूवरयोः परस्परदर्शनानन्तरमेव तयोः अनुमति प्रमाणं विवाहः भवितव्यः वर्तते ।

पशुपतिः – किं भवता अभिप्रायः ।

गिरिधरः – अङ्गीकार्यः एव । एकस्मिन् शुभमुहूर्ते वधूवरयोः दर्शन शुभमुहूर्तः निर्णीतव्यः विद्यते ।

पशुपतिः – अवश्यं तथैव कुर्मः ।

गिरिधरः – वरशुल्कं कियत् दातव्यम् इति भवताम् आग्रहः ।

पशुपतिः – गिरिधर महाशय पश्य । आधुनिकेषु दिवसेषु धनस्य मूल्यं विद्यते । सर्वोऽपि मूढः विवाहसमये कनिष्टप्रमाणेन दशसहस्रं भजते । अत्र अयं सर्वलक्षणोपेतः वैद्यः अमेरिकातः प्रतिनिवृत्तः तस्य कृते कनिष्टप्रमाणेन पञ्चति सहस्र रूप्यकाणि दातव्यानि अनन्तरं तदितर वस्तु क्रेतुम् उपरि दशसहस्राधिकं दातव्यं विद्यते । अपिच प्रथममेव प्रोक्तं सर्व वौवाहिक मङ्गलकार्याः सर्व समारम्भाः भवद्भिः करणीयाः इति ।

गिरिधरः – कतिपय दिवसानन्तरं भवन्तः सर्वे संहत्य विवाहार्थं कति जनाः समायान्ति पत्रद्वारा ज्ञापयन्तु । अपिच वधूवर दर्शनार्थं समयं चापि निश्चित्य ज्ञापयन्तु ।

पशुपतिः – अहो भवतां कथनस्यावश्यकता नास्ति । सर्वमहं सम्यक् विधास्यामि ।

गिरिधरः – (उत्थाय) गच्छेयमहम् ।

पशुपतिः – (उत्थाय) द्वारपर्यन्तं गच्छति ।

गिरिजा – (द्वारपर्यन्तं गत्वा) नमस्ते गिरिधर महोदय पुनरागमनाय निरीक्ष्यामहे ।

गिरिधरः – नमोवः । (इति गच्छति)

गिरिजा – संहत्य विवाहार्थं सार्थलक्षरूप्यकाणि भविष्यन्ति ।

पशुपतिः – सार्धलक्षरूप्यकाणि अस्मिन् काले अतीव लघु विनिमयमेव भविष्यन्ति ।

गिरिजा – आयान्तु अन्तः भोजनार्थम् । (इति अन्तः द्वावपि गच्छतः)

(यवनिका पतति)

******************************************************

.

चतुर्थं दृश्यम्

(राधा एकाकिनी उपविश्य पठन्ती आस्ते । द्वारघण्टा नाद्यते)

राधा – (उत्थाय द्वारसमीपं गच्छति कवाटोद्घाटनं विदधाति)

(ततः प्रविशति गिरिधरः)

राधा – भवदुपयानं चिन्तयामि ।

गिरिधरः – किञ्चित् विलम्बः सञ्जातः अद्य ।

राधा – किं भवन्तः दत्ताङ्कगृहं गतवन्तः ।

गिरिधरः – गत्वा आगच्छम् । तस्मादेव विलम्बः सञ्जातः । (इति शयनकुर्च्याम् उपविशति बूटुं शिथिलयति टैं शिथिलयति)

राधा – (तत्रागत्य बूटुं टैं च गृहीत्वा अन्तः निक्षिपन्ति)

गिरिधरः – किञ्चित् पानीयम् आनय राधे ।

राधा – पानीयं चहां च आनयेयम् । (इति अन्तः गच्छति)

गिरिधरः – कल्याणकरणं गृहनिर्माणं च अतीव कष्टभरिते आधुनिकेषु दिवसेषु ।

राधा – (चहां पानीयं च आनीय तत्र निक्षिपति तत्रैव गिरिधरस्य पुरतः एकस्यां कुर्च्याम् उपविशति) अधुना कथयन्तु किं वृत्तं सविस्तरम् ।

गिरिधरः – कथने न किमपि विद्यते । सत्वरं करणीयं विद्यते ।

राधा – सर्वं सम्यक् दृष्टं किम् ।

गिरिधरः – हां दृष्टम् ।

राधा – कीदृशोयं कुटुम्बः ।

गिरिधरः – कुटुम्बस्तु समीचीनः सन्दृश्यते । ते सम्पन्नाः सुशीलाः सज्जना इव आभान्ति ।

राधा – अत्रैव अस्मिन् पत्तने कियत् कालादारभ्य निवसन्ति ।

गिरिधरः – तदहं ना पृच्छम् ।

राधा – जानकी विषयः आलोचितः तैः ।

गिरिधरः – हां सविस्तरं मया तामुद्दिश्य प्रोक्तम् ।

राधा – वरशुल्कं कियान् विद्यते ।

गिरिधरः – वरशुल्काः पञ्चति सहस्रपर्यन्तं विद्यते ।

राधा – अहो पञ्चति सहस्रपर्यन्तं विद्यते ।

गिरिधरः – अपिच सर्वसन्नाहाः अस्माभिः कर्तव्याः विद्यन्ते ।

राधा – आहत्य सार्धलक्षरूप्यकाणां विनिमयः भवति । बालः कथं विद्यते ।

गिरिधरः – बालस्तु न दृष्टः । किन्तु वधूवरदर्शनानुपदमेव लग्नः निश्चितः भविष्यति ।

राधा – सत्वरं विवाहः करणीयः अस्ति ।

गिरिधरः – ममाभिप्रायः अपि तथैवास्ति ।

(द्वारघण्टिका नाद्यते)

राधा – जानकी समागता इति मन्ये । (उत्थाय द्वारसमीपं गत्वा कवाटोद्घाटनं करोति । ततः प्रविशति जानकी)

गिरिधरः – बाले जानकि किं विंलम्ब्य समागतम् ।

जानकी – पितः मे मित्रस्य जन्मदिवसः अद्य समजनि । अहं मम वयस्याभिः जन्मदिवसार्थम् । अम्बां कथयित्वा आगच्छम् ।

गिरिधरः – बाले अन्तः गच्छ ।

राधा – जानकि अहं तुभ्यं साधु वार्तां कथयिष्यामि ।

जानकी – का वार्ता कथयतु जननि ।

राधा – आवां तव विवाहं कर्तुम् उद्युक्तौ अभवाव ।

जानकी – मम विवाहविषये इयतीत्वरा कथं मातः । अहं एम्. डि. परीक्षायाम् उत्तीर्णा भूत्वा परिणयिष्ये ।

राधा – बालः अतीवसुन्दरः आजानुबाहुः इति ते पिता अवदत् ।

जानकी – किं सः युवा पित्रा दृष्टः ।

गिरिधरः – बाले मया सः न दृष्टः किन्तु तस्य पुतरौ अवोचताम् । अपिच वधूवरयोः अङ्गीकारावन्तरमेव विवाहः भविष्यति तत्पूर्वं नहि ।

राधा – तौ दम्पदी पञ्चतिसहस्ररूप्यकाणि वरशुल्कम् अपृच्छन् । सर्वं सन्नाहाः अस्माभिः करणीयाः सन्ति ।

जानकी – मातः पिता इयन्तं धनं कथं दास्यति ।

गिरिधरः – बाले तव किमर्थम् एतत् । त्वं वरदर्शनानन्तरं तवाङ्गीकारं विशदय । यदि तुभ्यं रोचते सः, विवाहकरणे बाध्यता मम विद्यते ।

जानकी – पितः इयन्तं धनं त्वं दातुम् उद्युक्तः । पितः कि त्रिशति सहस्र रूप्यकाणि दत्वा तं बालं क्रेष्यसि किं मदर्थम् ।

गिरिधरः – बाले अत्र क्रयविक्रयस्य सम्बन्धो नास्ति । तौ दम्पती सम्पन्नौ । तयोः महान् प्रासादः वर्तते । तयोः महत् भूखण्डं च विद्यते । बालः अमेरिका देशात् प्रत्यागतः । एम्. डि. प्राचार्यः ।

जानकी – ते सम्पन्नकुटुम्बीकाः तथापि इयन्तं धनं काङ्क्षन्ते । ते सत्यम् अत्याशापूरिताः ।

गिरिधरः – आशायाः अवधिः नास्ति जगति बाले ।

जानकी – यदि इयान् वरशुल्कः भवता दीयते तर्हि अयं विवाहसम्बन्धः मम अनपेक्षितः भविष्यति ।

राधा – बाले राधे किं त्वं पाषण्डा भवसि। ते सुसम्पन्नाः भूखण्डसहिताः योग्याः । भवतु नाम । आवां कुर्वः ते विवाहम् । तव चिन्तामास्तु ।

जानकी – मम विवाहं कृत्वा भवन्तौ भिक्षापात्रं गृहीत्वा भिक्षाटनं करिष्यतः । मे अनुजौ पाठशालां विसृज्य भिक्षुकौ भविष्यतः । माता यस्य कस्यापि गृहे पात्र प्रक्षालनं कृत्वा जीवितं यापयिष्यति । अहं श्वशुरगृहे सुखमनुभवन्ती वसिष्यामि । भवतोः अभिप्रायः सम्यक् विद्यते ।

राधा – किं ब्रवीषि जानकि ।

जानकी – नहि शृणोमि भवतां वाक्यम् । न मे रोचते वरशुल्कन्दत्वा परिणयकरणम् ।

गिरिधरः – जानकि श्वः अहं गत्वा जन्मपत्रिकादीन् विलोक्य योग्य वधूवर दर्शन वेलां विनिश्चित्य आगच्छेयम् ।

जानकी – इयन्तं धनं कुत्र विद्यते पितः ।

गिरिधरः – अद्यैव मम भविष्य निर्वाहकनिधिः मे सम्प्राप्तः । अपिच विद्यते वाक्यां लक्षपर्यन्तं सर्वमपि व्ययीकृत्य तव विवाहं करिष्यावः ।

जानकी – इयन्तं धनं दत्वा विवाहकरणं न मे रोचते पितः ।

गिरिधरः – त्वं न जानासि वासु । “अर्थोऽहि कन्या परकीय एव” ।

जानकी – पितः त्वं तवेच्छानुसारं कुरु अहं ममेच्छानुसारं कुर्याम् ।

राधा – जानकि किं ते इच्छा ।

जानकी – विना वरशुल्कं विवाहकरणम् ।

राधा – तत् कथं साध्यं भवति अस्मिन् वर्तमानयुगे ।

जानकी – सर्वं साध्यं भविष्यति ।

गिरिधरः – राधे त्वं अन्तः गच्छ ।

राधा – बाले पितः लग्नपत्रिकां विलिखितुं प्रकटयितुं समीहते । त्वं किमपि व्यतिरेकं मावद ।

जानकी – पितः तवच्छेनुसारं त्वं लग्नपत्रिकां मुद्राप्य आनय ।

गिरिधरः – अहम् अद्यैव गत्वा सर्वं विनिश्चित्य आगच्छेयम् ।

जानकी – (मातुः समीपं गत्वा) मातः किं मत्कृते इयन्ती परिवेदना क्रियते ।

राधा – जानकि त्वं न जानासि पित्रोः हृदयबाधाम् । त्वं अङ्गीकुरु यत् पिता कथयति त्वक्तृते । भिन्नं वैरुध्यं मा कथय । (इति माता पुर्त्र्यौ अन्तः गच्छतः, गिरिधरः सर्व सन्नाहोभूत्वा बहिर्गच्छति)

(यवनिका पतति)

*****************************************************

.

पञ्चमं दृश्यम्

जानकी – (तत्र टेबुलोपरि उपविश्य पुस्तकात् एकं छाया चित्रं बहिराकृष्य पश्यन्ती गायति)

गीतम् (भीमपलासरागे)

पश्यति मित्रं काञ्चनमाला । भूषित वेषा काचन बाला
प्रियतम चिन्तन रागकपोला । कुन्तल निर्जित नीरदमाला ध्रु.

प्रतिपद जल्पन वीणा तन्त्री । पृथुल नितम्ब पराजित धात्री
कुवलय मञ्जुल चञ्चल नेत्री । चञ्चल चालन वैद्युत गात्री 1

ज्योत्स्नालिङ्गन मधुर हसन्तम् । चन्द्रं मनुते कालकृतान्तम्
कुरुते प्रियतम चिन्तन सान्तम् । विरहितबाला तपति नितान्तम् 2

पीन पयोधर चञ्चल हारा । निश्चल लोकन स्तम्भित तारा
भावज रूपित कृत सुस्मेरा । मनसिज पत्नी निभ साकारा 3

तटिदिव गौरी कुचभर भद्रा । सुन्दर हेला भावज मुद्रा
प्रियतम सङ्गम समयेऽतन्द्रा । रतिपतिलीला जनित सुनिद्रा 4

गण्डस्थल बिम्बित कर्णाभरणा । प्रियतम मर्दन रक्तिमवर्णा
नीलाम्बरवेष्टित सुप्रावरणा । कबरीभर मञ्जुल सूनाभरणा 5

राधा – (गीतप्रारम्भसमये आगत्य निश्शब्दं शृण्वन्ती आस्ते । गीतावसाने प्रविश्य) जानकि गीतम् अत्युत्तमं विद्यते, त्वयापि सम्यक् गीतम् ।

जानकी – मह्यं रोचते गीतमेतत् ।

राधा – केन विरचितमिदम् ?

जानकी – गीर्वाणगेयचक्रवर्तिना विरचितमिदम् ।

राधा – सत्यमेवायं गीर्वणचक्रवर्ती । संस्कृतभाषायां एतादृशानि गीतानि कदापि मया न शृतानि ।

जानकी – मातः न केवलं त्वया । न केनापि एतादृशानि गीतानि शृतानि रचितानि च आधुनिकदिवसेषु संस्कृतभाषायाम् ।

राधा – जानकि पिताबहिर्गत्वा बहुकालमभूत् । एतावत्पर्यन्तं नह्यागतः किमर्थमेवं विलम्बः सञ्जातः अद्य ।

जानकी – पिता कुत्र गतः मातः ।

राधा – तवविवाहलग्नं निर्णेतुं वधूवरदर्शनयोग्यवेलां निर्णेतुं गतः ।

(बहिः कवाट ताडनम् भवति)

जानकी – पिता आगतः । (इत्युत्थाय विवृत द्वारं करोति)

गिरिधरः – (प्रविश्य) बाले जानकि तव लग्नसुमुहूर्तः विनिश्चितः ।

जानकी – कदा ।

गिरिधरः – माघमासे शुक्लपक्षे दशम्यां गुरुवासरे गोधूलिसमये परस्परदर्शनशुभसमयः विनिश्चितः । अनन्तरं लग्नवेला निश्चिता भविष्यति ।

राधा – अहं शर्कराम् आनयेयं मुखं मधुरं कर्तुम् । (इति अन्तः गच्छति)

जानकी – (कृत्था अन्तः गच्छति)

गिरिधरः – श्वः दुहित्रे किं किं अपेक्ष्यते सर्वमपि क्रेतव्यं विद्यते ।

राधा – गृहे कार्यसमारम्भः कर्तव्यः ।

गिरिधरः – जानक्याः सुवर्णकङ्कणानि नाशिकाभरणं कर्णाभारणौ च । अन्य अलङ्कार सञ्चयं च क्रेतव्यं विद्यते ।

राधा – तदहं करिष्यामि । भवन्तः सर्व बन्धून् तस्मिन् दिवसे आगन्तव्यमिति पत्रादिकं प्रेषयन्तु ।

(बहिः द्वारघण्टा नाद्यते)

गिरिधरः – वासु जानकि । कोवा समागतः गत्वा कवाटम् उद्घाटय ।

जानकी – (गत्वा पुनः प्रत्यागच्छति) पितः पत्राहरः आगत्य पत्रं दत्वा जगाम । इदं पत्रं । (इति तस्मै ददाति अन्तः गच्छति)

गिरिधरः – (तत्पत्रम् उद्घाटय पठति)

महोदय,
वयं सर्वे सोमवासरे युष्मद्गेहम् आगमिष्यामः । सर्व सौकर्याणि कुर्वन्तु । अस्मात् पक्षात् बहवः पदवीधारः महान्तः सन्तः समागच्छन्ति । तेषां किञ्चिदपि न्यूनता मा भूयात् । वयं सर्वे आहत्य द्विशतकाधिकाः भोजनार्थम् आगच्छामः । तस्मात् यूयं सावधानतया सर्वमपि कुरुत इति वार्तयामि ।
एवं
पशुपतिः

गिरिधरः – (पत्रं पत्रकञ्चुके निक्षिप्य) अयं सत्यमेव पशुपतिः । वर्तमान दिवसेषु आहारन्यूनता वर्तते । अधिक भोजनपदार्थान् व्यर्थं मा कुर्वन्तु इति शासनस्य आदेशः । तथापि एते द्विशतकाधिकाः भोजनार्थम् आगच्छन्ति । अयं बुद्धिहीनः । डाम्बिकोयं मानवः ।

राधा – किम् उच्यते भवद्भिः पञ्चतिसहस्रात्मक रूप्यकाणि वयं वरशुल्कं यच्छामः किन्तु द्विशताधिकजनेभ्यः भोजनं न दाश्यामः । मा विचारयतु भवान् ।

गिरिधरः – यूयं नार्यः न जानन्ति । पश्य वयम् उद्युक्ताः भोजनं दातुम् । किन्तु शतापेक्ष्या भोजनार्थं विवाहेषु न गन्तव्यमिति खाद्यपदार्थान् व्यर्थं न कर्तव्यम् इति शासनादेशः । यदि शताधिकम्भोजनं दीयते तत् कृत्यं शासनधिक्कारितं भविष्यति ।

राधा – उच्चैः न वक्तव्यम् । जानकी श्रोष्यति सर्वमपि अस्तव्यस्तं भविष्यति ।

गिरिधरः – राधे अहं विपणीं गत्वाऽऽगच्छेयम् । (इति निष्क्रमति)

(यवनिका पतति)

*****************************************************

.

षष्ठं दृश्यम्‌

(राधाजानकीगिरिधराः एकत्रोपविश्य विवाहार्थम् अपेक्षितवस्तुचयं चीरादिकं गणयन्ति)

राधा – अयं चीराऽभरणादिसमूहः कन्यादानसमये दातव्यः । अयं ताम्बूलविनिमयदिवसे वराय दातव्यः अस्ति । इदं वराय दातव्यम् अङ्गुलीयकम् । (इति निक्षिपति)

गिरिधरः – जानक्याः पादाभरणौ हस्तकङ्कणादिकाः एकत्र स्थापनीयाः ।

राधा – हां जानामि । अहं तथैव स्थापयिष्ये ।

जानकी – पितः अहं त्वया साकं रहसि भाषितुमुत्सहे ।

गिरिधरः – मत्सकाशे तव रहस्यं कथं बाले । अत्रैव प्रत्यक्षं वद किं ते भाषणीयं विद्यते ।

जानकी – पितः किमर्थं भवान् मदर्थं कष्टमनुभवसि। पञ्चतिसहस्र रूप्यकाणां राशिं दत्वा भवान् वरं क्रीणाति । अनन्तरं शताधिक मूर्खेभ्यः भोजनं ददाति । एलं विवाहकरणे न मे रुचिः विद्यते । सर्वमपि आहत्य लक्षाधिकं धनं भविष्यति तत् मे वरं न भवति।

गिरिधरः – बाले आवां पितरौ त्वां इयन्तीं विद्यावतीं विधाय यदि सम्यक् समीचिनकुटुम्बेन सार्थं अपिच समीचीन वरेण सार्थं विवाहं न कुर्याव लोकः आवां निन्दिष्यति । इयं लोक परिपाटिः । एतत् अस्मदीय कर्तव्यं विद्यते वासु ।

जानकी – मे विवाहयत्नः विरमतु ।

गिरिधरः – कथं भविष्यति विरमणम् । त्वां पतिगृहप्रेषणाम् अस्मदीय कर्तव्यं विद्यते ।

जानकी – पितः भवन्तौ मे पितरौ मे जन्मदातारौ मा कृद्धौ भूयास्ताम् ।

राधा – जानकि किं ते कथनीयं कथय सत्वरम् । किमर्थम् एवं विलम्बः ।

जानकी – पितः अहं परिणीतास्मि ।

गिरिधरः – (क्रोथाश्चर्याभ्यां) वासु किं वदसि केन साकं वदसि । त्वम् उन्मत्ता आसीः किम् ।

जानकी – पितः मां क्षमां करोतु ।

गिरिधरः – (कुर्च्यां शयित्वा) हां बत किमापतितं बाले, किं व्यवसितं त्वया । असाधुकृतं त्वया । (इति नेत्र निमील्य शयनकुर्च्याम् आस्ते)

राधा – किं ते मौर्ख्यम् । त्वं अबाल्यात् मूर्खासि । स्वच्छन्दचारिणी असि । आवयोः वचनं न श्रृणोसि । (शिरसि हस्तं निक्षिप्य) अहो बत किं कृतं त्वया । वंशमर्यादा अतिक्रान्ता भवत्या । वंशगौरवः मृत्तिकायां ममज्ज ।

गिरिधरः – कथम्भूतोऽयं विवाहः । केन सार्थं कृतः ।

जानकी – अहम् एकेन वैद्यप्राचार्येण सार्थं विवाहितः । आवयोः विवाहः प्रेमविवाहः ।

राधा – अहो प्रेमविवाहः । वयं न जानीयावहे प्रेम । अद्य प्रेम श्वः प्रेतः अद्य सन्तोषः श्वः दुःखम् । त्वं मम गर्भात् राक्षसीव जाता ।

गिरिधरः – किं वदसि बाले । त्वं परिणीता । किमर्थं नोक्तवती भवती प्रथमतः । कदा परिणयः कृतः । कुत्र ।

जानकी – मुम्बापुर्यां मुम्बादेवीसन्निधौ एकेन पुरोहितेन विवाहः कारितः । मे विवाहसमारम्भविषयः राजपत्रे अपि प्रकाशितः आसीत् ।

गिरिधरः – राधे अधुना वरपक्षीयान् किं कथयेयम् । (इति बाधां प्रकटयति) अस्मिन् विषमकाले युवतीयुवकाः पित्रोः वाक्यं न शृण्वन्ति, न परिपालयन्ति च ।

राधा – कथं परिपालयिष्यन्ति कलाशालाः सर्वाः विश्वविद्यालयाः सर्वाः वेश्यागृहसन्तुलिताः भवन्ति । ताः सर्वाः सत्यं कलाशालाः भवन्ति ।

गिरिधरः – साम्प्रदायमनुसृत्य विवाहः कर्तव्यः । न केवलं युवती युवकयोः मेलनम् । विवाह इति पदस्य विपुलार्थः विद्यते । आधुनिकाः साम्प्रदायं न जानन्ति । जीवनमूल्यानि अपि न जानन्ति । केवलम् अशनं चित्रविचित्र वस्त्रालङ्करणं कृत्वा वीथिनाटकनटकाः इव रथ्यासु आहिण्डन्ते । तेषां संस्कृतिः नास्ति परम्पराच नास्ति । धिक् नवीनजीवनम् । जीवने आनन्द एव नास्ति । (इति चिन्ताक्रान्तः आस्ते)

(द्वारकवाट ताडनम्)

राधा – (उत्थाय गत्वा द्वारं उद्घाट्य पत्रम् आनयति तत् पत्रं गिरिधराय प्रयच्छति)

गिरिधरः – (गृहीत्वा) अहो ते पशुपतादयः विवाहार्थम् आगच्छन्तीति मन्ये । अधुना किं कर्तव्यम् । (इति वदन् पत्रं उद्घाट्य पठति)

अयि गिरिधर महोदय,

भवन्तः विवाहप्रयत्नान् मा कुर्वन्तु मे चिरञ्जीवः विवाहितः । सः वरशुल्कविरोधी, तस्मात् अस्मदीयसहायं विना एम्. डि. वैद्य विद्यार्थिन्या परिणीतवान् । तयोः विवाहः प्रेमविवाहः । एकस्मिन् देवालये शास्त्ररीत्या पुरोहितसमक्षं परिणयकार्यक्रमः समाप्तः आसीत् । तस्मात् वयं नागच्छामः । अस्मिन् विषये क्रोधस्तु मा कार्यः । यतः अस्मदीयदिवसाः गताः । आधुनिकाः स्वेच्छया स्वमनोनुकूलं कुर्वन्ति । तेषां विषये अस्मदीय शिरप्रवेशः मास्तु । सरसं विरसं भविष्यति, क्षमध्वम् ।

  एवम्  
  पशुपतिः

गिरिधरः – अहो किमापतितम् । किं कष्टम् ।

राधा – जानकि त्वं वंशे राक्षसीजाता । त्वं गृहात् अपेहि । (इति तां भर्त्सयति)

जानकी – पितरौ अहं भवन्तौ प्रणमामि । मां क्षमेथाम् । अहं परिणीता । अहं मम गृहं गच्छेयम् । तत्रैव वसेयम् । अत्र वसितुं मम् अधिकारः नास्ति । भवन्तौ पितरौ ममाभ्युदयाय सर्वं सुखात्मकं कर्तुं व्यवसितौ । अहं वरशुल्कविरोधिनी तस्मात् एवम् अकरवम् । ममापि स्वतन्त्रता विद्यते साधुकर्मकरणे । पुरा पार्वती अपि स्वतपसा स्वनिश्चयेन चन्द्रशेखरं विचिक्रिये । अहमपि मम विद्यया विद्वासं परिणीतास्मि । मातः अहं मम पतिगृहं गच्छेयम् । तत्रैव वसेयम् ।

गिरिधरः –जानकि जीवने यत् कष्टं सुखं वा भवति तत् त्वया अनुभोक्तव्यं विद्यते । अस्माकं तव सुखदुःख विषये न कोपि सम्बन्धः विद्यते ।

(बहिः कवाट ताडनम्)

राधा – कोवा समागतः । (इति गत्वा द्वारं उद्घाटयति)

रामः – अयि मातः इदं गिरिधर गृहम् ।

राधा – हाम् एतत् गृहं गिरिधरगृहमेव ।

रामः – किं ते गृहे सन्ति ?

राधा – सन्ति । अन्तः प्रविशतु भवान् ।

रामः – धन्यवादाः। प्रविशामि । (इति प्रविशति) अयि भोः नमांसि । (इति नमस्करोति)

गिरिधरः – उपविशतु भवान् । कोस्ति भवान् ।

रामः – अयि भोः अहम् एम्. डि. वैद्य प्राचार्यः ।

गिरिधरः – तव नाम किम् ।

रामः – मम नाम रामः ।

गिरिधरः – त्वं कस्य पुत्रोऽसि ।

रामः – अहं पशुपतेः पुत्रः ।

गिरिधरः – भवान् किमर्थमागतोऽस्ति । तव विवाहः सञ्जातः इति तव पिता पत्रं लिखितम् ।

रामः – हाम् अहम् अनुक्त्त्वा मम इच्छानुसारं विवाहमकरवम् ।

राधा – अयि भोः राम, का ते कान्ता । तस्याः नाम किम् ।

रामः – मम कान्तायाः नाम जानकी ।

राधा – स कस्याः पुत्री ।

रामः – सा राधायाः पुत्री ।

राधा – कस्य पुत्री गिरिधरलालस्य ।

गिरिधरः – किं मम पुत्र्या ते विवाहः सञ्जातः ।

रामः – हाम् ।

गिरिधरः – किं विचार्य कथयसि ।

रामः – हां विचार्य कथयामि ।

राधा – किं जानकी भवता परिणीता ।

रामः – सत्यं जानकी परिणीता ।

जानकी – राम प्रणम्य । (पित्रोः सकाशम् आगत्य) अयं मे पतिः अहं परिणीता । युवयोः न किमपि बाधा स्यात् ।

गिरिधरः – बाले अयमेव सम्बन्धः मम दृष्टः निश्चितश्च । आवयोः सम्बन्धं विना युवां द्वावपि परिणीतौ । एवमेव प्रपञ्चे विवाहः भवेत् यदि पित्रोः दुखं न भवति कष्टं न भवति । जानकि त्वं स्वयं परिणीताऽसि । पुत्रि अस्मद्गेहे कतिचनदिनानि यापयित्वा अनन्तरं तव गृहं त्वं गच्छ । साधुकृतं भवता । तव इच्छानुसारं त्वं परिणीतासि । अहं युवयोः दम्पत्योः यत् मया भवतोः विवाहे व्ययीकर्तुं निश्चितं तत् सर्वमपि धनम् उपायनमिव युवाभ्यां ददाति ।

जानकी – पितरौ नाहं स्थातुमिच्छामि अत्र । मां नेतुं भवतोः जामाता आगतः । गच्छेयमहम् अधुना मे भ्रर्त्रा सार्थम् ।

गिरिधरः – बाले अधुना का ते चिन्ता भवति। दिवसत्रयम् उषित्वा गच्छताम् ।

जानकी – पितः “अर्थोहि कन्या परकीय एव” इति भवद्भिः एकदा उक्तम् । तस्मात् अहम् अधुना परकीया संवृत्ता ।

गिरिधरः – यथेच्छं गच्छतां भवन्तौ “शुभास्ते पन्थानः सन्तु” । (इति आशीर्वचनान् विदधाति)

(यवनिका पतति)

********************************************************

.

]