10 नवमोऽङ्कः

अथ नवमोऽङ्कः

(नेपथ्ये )

अलं सायंकालप्रतिनियतवादित्रनिनदै-
रलं नृत्तैर्गीतैरलमलमलं वन्दिनुतिमिः
यतः पुत्रोदन्तं नृपतिरवकर्ण्याद्य नितरां
विदूनः पुत्रीं स्वां पुनरपहृतां ज्ञास्यति तथा॥
(इति चूलिका )
(ततः प्रविशति भ्रमरिकया च अरुणेन च अनुगम्यमानो भास्करः)

भास्क–सखे! किमेतदापन्नमतर्कितं व्यलीकम्?
अरुणः–(स्वगतम्) हा! कथं समाधातुं शक्यो वयस्य: मह्यात्यामस्यां विपत्तौ!
(प्रकाशम्) र्कि ब्रवीमि मन्दभाग्यः ।
भ्रम-हळा! कहिं गदासि? (हळा! क्व गताऽसि?)
अरु-अलमावेगेन । निशान्तं प्राप्य सुशान्तं नृपं पश्यामः । (इति परिक्रामन्ति )
अरु-(पुरोऽवलोक्य )

विदितसुतदशोऽयं काममार्तान्तरङ्गः
सविधगतजनास्ये केवलं दत्तचक्षुः
कथमिव तनुजायास्तामवस्थामसह्यां
मृदुतरमनसाऽग्रे बोधनीयो जनेन ॥

भास्करः

शुद्धान्तचारिजनमात्रपरीतपार्श्वो
गण्डस्थलीनिहितसंश्लथवामपाणिः
निःश्वाससन्ततिभृताधरशोणशोभ:
पूज्यो विचारजलधौ विनिमग्नचित्तः ॥

( प्रविशति यथानिर्दिष्टः कासार: )

कासारः

आनुकूल्ये प्रवृत्तोऽपि विधिर्विद्वेषिसम्भृतेः ।
अचिरान्प्रातिकूल्ये मे समुद्युक्त इवाधुना ॥

94

|

1952]

श्रीपद्मिनीपरिणये नवमोऽङ्कः

भ्रम-हळा! कुदो ण लख्खीअसि । (हळा! कुतो न लक्ष्यसे ) ।
कासा-अन्यदप्यत्याहितं श्रूयते ।
भास्क–हन्त! दैवदुर्विलसितम् ।
कासा—अरुण! किमापन्नम्?
अरु—( तूष्णीं वर्तते )
भास्क –किं गोपनेन?
अरु-उद्विजते वक्तुं जिह्वा ।

कासा

प्रतिकर्तुमशक्यं वा शक्यं वा सुहृदा स्वयम्
अनिष्टमपि सञ्जातममिधातव्यमेव हेि

अरु-

अहो! श्रुत्वा यावत्तव शुभनिदेशं सह मुदा
वयं भूमीगेहाद्बहिरिह विनिर्यातुमनसः
उदस्थाम प्रीत्या पतिमनुगता ते तनुभवा
मियाऽत्यक्षत् भो! मामुपसरति भूतं महदिति ।।

कासा-कष्टम्! तत: |
अरु–यावदावां परावृत्य पश्यामः तावद्भदा जलधरे सौदामनीव अन्तर्हिता ।
**कासा-**किं करिष्यामेि सखे! पापा हेिमानी भैरव्यै यां तरुणीं निर्दिष्टवती सा वस्सैव न संशयः ।

वत्सौ सुन्दरवपुषौ सद्गुणपूर्णौ चिरेण संलब्धौ
कीरौ यथा बिडाली कालीतृप्त्यौ हानेष्यति हिमानी ।।

(इति पतति )

विदू–(उत्थाप्य) वअस्स! समस्ससिहि (वययस्य समाश्वसिहि ।

कासा-

स्मरामि वां शैशवमद्य वत्सौ लालम्बुमुक्ताफलमुग्धसृक्कम्
द्वित्रैर्नवीनैर्दशनैर्मनोज्ञवक्त्राब्जमस्पष्टवचोभिरामम् ॥

भास्क-

हा तादृशीह दयिते पुरतः स्थितेव
स्वं भासि मे तुहिनमण्डलमीतिभारात् ।

95

[XIII. 2

JOURNAL OF S. V. ORIENTAL INSTITUTE

वेगेन धावितुमना अपि मन्दमदं
ताद्दङ्नितम्बकुचकुम्भभरेण याता ।।

भ्रम-हा सहि! कहिं गदासि मं उज्झिअ? तुह दम्सणं विणा मे स्वणो वि जुअसरिसो खु । (हा सखि! क्व गताऽसेि ममुज्झित्वा । तव दर्शनं वेिना मे क्षणोऽपि युगसदृशः खलु )

कासा-

वत्से विहारसमयेषु वराटिकाभि-
गलीः प्रतार्य वचसा ग्लहमाददानाम् ।
त्वां वा स्मरामि तव सोदरमद्य जित्वा
क्रीडासखानहह तद्भुजवाहनं वा ॥

भ्रम-हळा! तस्सि कीळासमए अश्लाणं मिहो खणेखणे कळहो सिणेहो वा भवे खु ।
(तस्मिन्क्रीडासमये अावयेोः मिथः क्षणेक्षणे कलहः स्नेहो वा भवेत्खलु) ।
भास्क-प्रिये!

हा त्वं मुरारिदयितां हृदि भावयन्ती
हस्ताञ्जलिस्थकुसुमा दरमीलिताक्षी
ईषच्चलत्किसलपच्छविदन्तचेला
दृष्टाऽद्य तां कथमहो इह विस्मरामि

कासा-

वत्सौ विदित्वाऽपि वशं गतौ तौ मृत्योः कथं चित्त मदीय पाप
न दीर्यसे हन्त तवेह सृष्टिर्लोहेन वा किं पविना न जाने ॥
(इति मूर्च्र्छति।)

भ्रम-(वीजयित्वा) हद्धि! कुदो सअळळोअसन्तावहरो सहीतादो ण उच्छसिइ ।
(हा धिक्! कुतस्सकललोकसन्तापहर सखीतातो नोच्छ्वसिति)। (इति रोदिति)
भास्क-सखे!

भ्रात्रादिमप्रियसुहृज्जननिर्विशेषं
तातस्य चात्र तनुते सुखमात्मजाता ।
तस्याः कृतेऽयमिह मूर्छति चेदनन्य-
लभ्यं सुखं तदनुभूय भवामि कीदृक्
(इति एततेि)

96

1952]

श्रीपद्मिनीपरिणये नवमोऽङ्कः

अरु-(उत्थाप्य) वयस्य! धैर्यं गृहाण ।

भास्क-

सा मां ध्रुवं स्वहृदये दधती म्रियेत
तामेवचेतसि दृढं कलयन्म्रियेऽहम्
आवां परत्न मिलितौ सुखिनौ भवाव
यं भावमेति वपुपश्च्यवने स हि स्यात्
(इति मूर्छति)

अरु—( वीजयन्) हा नोन्मीलयति चक्षुः । प्राणहानोद्यत एवायं सखा।

आपांसुकेलिसमयात्स्वमपांसुलाध्व
चारिन्! सखेऽनुचरमत्र विहाय मां द्राक् ।
कैश्चिद्दिनैः परिचितां विदतः प्रियां तां
किं ते विधातुमुचिता परलोकयात्रा ।।
( इति पतति )

भ्रम–(उभावपि जलेन निषिच्य) समस्ससिहि । (समाश्वसेिहि ) ।
भास्क - -(उन्मील्य ) हन्त! मूर्च्छितः सखा!

सखे ममोदयो नित्यं त्वां पुरस्कृत्य जायते
तादृशो मां कथं त्यक्त्वा परलोकं विगाहसे ॥
(उत्थापयति)

अरु- (भास्करं वीक्ष्य) वयस्य!

त्वद्विपत्तिदशां द्रष्टुमक्षमेण मयाऽधुना
मर्तुं व्यवसितं शीघ्रं किमर्थं मामबोधयः ॥

कासा–हा वसे!

त्वं जातमात्रा यदि लोकमन्यं तदा प्रविष्टा तव दुःखमेव ।
मां तापयेदद्य तु भास्करस्य सम्बन्धहानिर्दहतीह चेतः ।।

अरु–(स्व) युक्तमेतत् । (प्र) भास्करसम्बन्धं विना कासारस्य नास्ति हि सौगन्ध्यम् ।

97

[XIII. 2

JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-सखे! प्रियाविश्लेषशोकाग्नौ दहत्यापादमस्तकम् ।
क्षिपतीव पिता तस्याः स्वविलापमयेन्धनम् ।।
कथञ्चिदहमाप्स्यामि पद्मिनीमिव वल्लभाम् ।
कासारसदृशो जातु श्वशुरो न भविष्यति ।।
**अरु-**सखे! यदि भवता भूयः पद्मिनीसदृशी सुदती लभ्येत, कासारसदृशः श्वशुरश्च भवेदसंशयम् ।
भास्क—साधु साधु! तव वचनम् ।

पद्मिनीसदृशी कान्ता भास्करस्य न जातुचित् ।
कासारसदृशः पूज्यस्तथैव न भविष्यति ॥
यस्याः कटाक्षलहरीव मधुव्रतालि

  • र्यस्याः कचावलिरिवाभिनवाम्बुनीली (?) ।
    यस्यास्तथा मुखमिवाम्बुरुहं विकासेि
    तस्या भुवीह सहशी सुलभा क्व वा स्यात् ॥
    यस्याः कुचाविव विभाति रथाङ्गयुग्मं
    यस्या गतीरनुकरोति मरालयोषा
    यस्यां निवासमयते कुतुकेन लक्ष्मी-
    स्तस्या विना विलसितं मम जन्म कीदृक् ।।

भ्रम-हळा जहा तुमं अविआसिमुहपदुमा होसि तदा अह्माणं सहचरीणं दुःसहो खु किळेसां । (यदा त्वमविकासिमुखपद्मा भवसि तदास्माकं सहचरीणां दुस्सहः खलु क्लेशः ।
भास्क-भद्रे! कथं सहेथास्तस्याः पद्मिन्या विरहम् । यस्यास्त्वं माध्वीभिरिव मधुराभि- रुक्तिभिरानन्दितासि ।
अरु–भद्रे! समाश्वसहि ।

भास्क-

पिहितमिव मनो मे शोकदावाग्निनाऽयं
क्बलित इव देहः क्ष्वेलतापेन सर्वः ।

98

1952]

श्रीपद्मिनीपरिणये नवमोऽङ्कः

प्रमुषित इव माहेनेन्द्रियायाश्च वर्गः
प्रशमित इव धर्मश्वेतनायास्समस्त: ।।.

भ्रमरिके! धारय माम् मम प्रेयसीतनुलताभिमर्शजातमहिमभ्यां तव पाणिभ्याम्।
भ्रम-हा! सुमरेमि सहीए फरिससुहम्। (हा! स्मरामि सख्या: स्पर्शसुखम्)।
(इति धारयति भास्करम्)

कासा--

तनयो विभाति तव पद्मिनीं प्रियां
नृपते प्रपद्य स मुदेति योगिनः
वचनं निशम्य कुतुकादिहागत-

  • स्तनयागुरु: स कथमीक्ष्यतां मया ।।
    ततस्तदागमात्पूर्वमेव प्रविश्य वैश्वानरं शमयामि शोकपावकम् । कोऽत्र भोः!
    (प्रविश्य)

कञ्चुकी–एसोह्मि । (एषोऽस्मि ) ।।
कासा-उच्यतां सचिवोऽनुकूलोऽस्माकं सर्वोऽयमुर्वीभरस्त्वयैव धार्यताम् । वयमधुना जात- निर्वेदा जातवेदसं प्रविशाम इति ।
कञ्चु–(सास्त्रं निष्क्रान्त:)

कासा

अवरोधमहं प्राप्य नवरत्नीवियोगतः
अपुनर्दर्शनां यात्रां बेोधयामि कुटुम्बिनीः ।।
( इति निष्क्रान्तः)

भास्क- सखे! क्व गतस्य मे भवेच्छान्तिः?
अरु-यावः प्रमदोद्यानम् । ( उभौ परिक्रामतः)
भास्क-सखे! निखिलव्यथापनोदकारिण्यामपि ममारामभूमावस्यां वर्धते शातोदरीविरहव्यथा! तथा हिँ–

चेतोहराणि कुसुमानि मनोमवस्य
भूत्वा शरास्तरुषु यद्यपि सङ्गतानि ।
मिन्दन्ति चित्तमिव मे बत संप्रयुक्ता
वीरेण तेन जगदेकधनुर्धरेण ॥

6

99

[XIII. 2

JOURNAL OF S. V. ORIENTAL INSTITUTE

यदिह जलरुहं मां दृष्टमात्रं प्रियाया
वदनमतिमनोज्ञं स्मारयद् द्रागधिन्वीत्
अहह तदपि वाणीभूय तस्मिन् क्षणेन
स्मरधनुषि मनो मे विध्यतीव क्व यामि ।।

अरु– वयस्य! विपन्निकष एव परीक्ष्यते पुरुषस्य धैर्यतपनीयोत्कर्षः ।

भास्क-

अत्यन्तभीषणतमःक्षितिभृत्क्षणेन
यत्तेजसि स्फुरति धावति दृष्टिमार्गात् ।
यस्याशनिप्रतिभयादपि भीर्न मेघात्
तं मां च कातरमहो तमुते स्मरास्त्रम् ।।

हा सखे!

रम्यं वस्त्वपि लोचने स्फुरति मे कल्पान्तकालोपमं
श्राव्या अप्यतिचारवोऽत्र हि रवाः कर्णे गगणीव मे ।
धात्रा यत्सुकुमारमस्त्विदमिति प्रीत्या स्वयं निर्मितं
तन्सर्वं विरहेऽन्यथा विदधतं किं ब्रूमहे मन्मथम् ।।
अन्तर्हितो में दयितां विनाशय तां पद्मिनीं क्वाद्य सखे मदान्धः ।
स कालगन्धद्विरदो वद त्वं भिनद्मि कुम्भं स्वकरेण तस्य ॥

( इति धावति! )

अरु-हृा! वयस्योऽयमुन्मादं प्रापितः स्मरेण ( इति निवारयति ) ।
भास्क-मुञ्च सखे!
अरु-संस्तभ्यतां हृदयम् |

भास्कः

आशाः प्रसाधयतु नैकविधा वृधानां
कृत्वा तमोहतिमयं वसुमञ्चयो मे ।
यो मीलनं स्वयमरुन्ध न मत्प्रिायायाः
श्रीनित्यवासवसतेरधुना धिगंनम् ॥

सखे! पश्य पश्य ।

आयाति गच्छति निषीदति तत्क्षणेन
प्रोत्थाय तिष्ठति दिशो दश सम्भृतास्रम् ।

100

1952]

श्रीपद्मिनीपरिणये नवमोऽङ्कः

संवीक्षते न बिसमत्ति पिबत्यपो नो
हंस: खपोषणरतां दयितामपश्यन् ।

इति मोहं गतः )

अरु

दशवदनहृतायां मैथिलस्यात्मजायां
दशरथनृपपुत्रो यामवस्थामवाप ।
अनुभवति सग्वा मे तामवं किं विधेयं
पुनरिह तु सुमित्रावत्य पावं श्रयामि ।।

( इति भास्कमवलम्बते )

भास्क– (ससम्भ्रमं दिशो वीक्ष्य ) सखे! दृश्यते सर्वतः प्रेयसी ।

क्रीडन्ती सा क्वचन तरुणी कन्दुकैदृक्पथे में
पुष्पं हस्ते कश्चन दधती लक्ष्यतेऽलङ्करिष्णुः ।
अन्यत्रैषा मम करतलान्नागवल्लीं गृहीत्वा
वक्त्रे हर्षादिह धृतवती मन्मुखे तन्वतीयम्

वयस्य! कथमियमिदानीं क्वापि न दृश्यते । कश्चिदेनां गृहीत्वा जलदरूपेण विद्युतामिव नयति वियति । तदहं तमनुगम्य निवर्तयामि । (इत्युत्प्लवते )
अरु—सखे! किमुन्मत्तभूतोऽसि?
भास्क -आ:! ज्ञातम् । वर्तते पद्मिनीं भूसद्मनि । अद्य स्वस्थोऽस्मि । किंमपि पृच्छामि कस्त्वम्? कुत आयासि? अपि त्वया दृष्टपूर्वा पद्मिनी?
अरु–किं प्रलपसि?
भास्क–आः, सखा खलु भवान् । सखे पिङ्गल! क्व मे सखा अरुणः?
अरु-अहमेवारुणः । भास्क–पिङ्गल: कुत्र?
अरु–पर्यवस्थापयात्मानम्।
भास्क-किं प्रलपामि?
अरु-तथा!

101

[XIII. 2

JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-कुतः?
अरु–पद्मिनीविरहात् ।
भास्क-पद्मिनी कुत:?
अरु–न ज्ञायते ।

भास्क-

कुसुमशर नमस्ते तिग्मबाणप्रयोगा-
द्विरम परभृत त्वां नौमि मौनं भजस्व ।
मलयपवन दूरे वाहि भद्रं तव स्या-
द्भवति हि भुवि पुण्यं दीनसंरक्षणेन ॥

**अरु-**सखे! निषीद प्रच्छायशीतले वकुलपादपतले ।
भास्क-(निषीदन्) सखे! नान्यत्र गता तव सखी ।

शुशुत्सया मत्प्रणयस्य मन्ये कयाऽपि शत्त या मम चित्तमेव ।
प्रवेिश्य लीना ह्यथवा तदेतन्न युज्यते तापमिदं यदेति ।।

अरु-मा विलापीः । भगवान् शारदानन्दो यदत्र प्रतिकर्तुं शक्नोति ।
भास्क-सखे! मम तातपादानानेतुं गतो नितान्तगुणोऽसौ योगी यावदायाति तावत क्व वत्स्याव:!
**अरु-**सखे! तावदध्युषितपूर्वं प्रमदावनप्रासादमध्यास्वहे ।

(इति निष्कान्तौ )
इति पद्मिनीपरिणये नवमोऽङ्कः ।

102