॥ अथ अष्टमोऽङ्कः ॥
(ततः प्रविशति कासारः विदूषकश्च)
कासा-सखे! किं गोपयसि स्नेहातिरेकभणितं मिथो वृत्तम्?
विदू-वअस्स! जाव जीमूअणासं जाणेमि ताव मह हिअआदो पदुमिणीए वुतन्तो ण बही णिग्गमिस्सइ (वयस्य यावज्जीमूतनाशं जानामि तावन्मम हृदयात्पद्मिन्या वृत्तान्तो न बहिर्निर्गमिष्यति)।
कासा-
वत्सा वल्लभसङ्गमोदितमनाः क्षोणीगृहे वर्तते
वत्सो मे कुमुदाकरः कपटतो जीमूतगेहं गतः ।
तस्यान्तःकरणं निमग्नमनिशं द्राक्कौमुदीरोचिषि
प्राप्ता साऽरिवशं कदेदमखिलं गच्छेद्विपाकं शुभम् ॥
विदू-कोमुईं सुहाअरजादं मत्तेभओ कस्स किदे घेत्त्तूण ठावेइ? (कौमुदीं सुधाकरजातां मत्तेभकः कस्यकृते गृहीत्वा स्थापयति?)
कासा-निजनन्दनस्य कलभस्य कलत्रिकरणाय ।
विदू-कुदो विळंबो तस्स विवाहे (कुतो विलम्बस्तस्य विवाहे?) ।
कासा-सुधाकरप्रार्थनया समागतोऽहं व्रतोपदेशायेति वदता शारदानन्देनोपदिष्टं व्रतं भर्तृचिरायुष्करमनुतिष्ठति सा । तदनन्तरं विवाह्येति मन्वानो मत्तेभोऽधिकं सुतस्य वयः काङ्क्षन् प्रतीक्षते व्रतसमाप्तिम् ।
विदू-कआ वुदसमती (कदा व्रतसमाप्तिः?) ।
कासा-अचिरादिति मन्ये ।
विदू-बअस, कोमुईए आराहणस्स किदे सारआणंदेण कस्स हेदुणो देवआपडिमा पदुमिणीसरिसी किदा? (वयस्य कौमुद्या आराधनस्य कृते शारदानन्देन कस्य हेतोः देवताप्रतिमा पद्मिनीसदृशी कृता?) ।
कासा-को जानति तस्य योगिनो हृदयम्?
विदू-दाणिं सो कहिं गओ? (इदानीं स क्व गतः?) ।
कासा-वत्सयोः स्पष्टविवाहकृते समानेतुमुदयधरं स्वयं यातः ।
विदू-चतुरो जोई (चतुरो योगी )
कासा-वत्स! वृत्तान्तावगमाय जीमूतनगरं निगूढं नीतो मया चारोऽपि भूयो न दृश्यते ।
प्रतिहारी-(प्रविश्य) देव्व! चारो पढिहारभूमीं गओ (देव, चारः प्रतिहारभूमिं गतः) ।
कासा-प्रवेश्यताम् ।
प्रति-तह (तथा) (इति निष्क्रम्य तेन सह पुनः प्रविस्य) इदो इदो (इत इतः) । (चारः राजानं प्रणमति) ।
कासा-अपि सख्या सह कुशली वत्सः?
चारः-कुसळी वट्टइ । तुह णिदेसादो तुवरिअं गच्छन्तो अहं जीमूअपुरादो मत्तेभअणअरं पडट्टमाणं कुमारं सह सहिणा मज्झेमभ्गं दिट्ठवं । (कुशली वर्तते । तव निदेशात् त्वरितं गच्छन् अहं जीमूतपुरात् मत्तेभकनगरं प्रतिष्ठमानं कुमारं सह सख्या मध्येमार्गं दृष्टवान्) ।
विदू–तदो (ततः) ।
चारः-सो एदं ळेहं दाऊण विसट्टवंतो मम् । (स एतं लेखं दत्त्वा विसृष्टवान्माम्)
(इति लेखं समर्पयति) ।
कासा-(आदाय वाचयति) “स्वस्ति श्रीमत्तातपादानां प्रणामसहस्रं समर्प्य विज्ञाप्यते । श्रीमदनुग्रहात्सहवयस्यः कुशली वर्ते । भगवता शारदानन्देन समुपदिष्टमुपायमवलम्ब्य पद्मिनी भद्रा मत्तेभकेन हृतेति जीमूतस्य हृदये दृढीकृतं तस्मिन्वैरम् । ततो जीमूतः कामं क्रुद्धः नेष्यामि मत्तेभकं क्षयमिति प्रतिज्ञाय प्रस्थितः । आवामपि तत्र तच्चेष्टितं द्रष्टुं प्रयावः । सर्वं भगवत्या अरविन्दमन्दिरायाः प्रसादात् भगवतो गन्धवहनन्दनस्य कारुण्याच्च शुभपरिणामं भवेदिति” ।
कासा-(सहर्षम्) सखे दिष्ट्या श्रृणुमः कुशलम् वत्सस्य । रे चार! कुतस्ते विळम्बः सरणावेतावान्?
चारः-तत्थ तत्थ विस्समिअ किंवदंतिं जाणंतो आअदोह्मि । (तत्र तत्र विश्रम्य किंवदन्तीं जानन्नागतोऽस्मि ) ।
कासा-को विशेषः किंवदन्त्याम्?
चारः-जीमूओ अग्गिगोळेहिं धज्जइत्ति सुणीअदि । (जीमूतः अग्निगोळैर्दह्यत इति श्रूयते) ।
कासा-सखे! यदि जीमूतः स्यान्निहतः कुतो विळम्बते वत्सः सख्या?
विदू-कमेण णादव्वम् । ( क्रमेण ज्ञातव्यम् ) ।
कासा-रे, एतावदेव?
चारः–अह इम् । (अथ किम्) ।
कासा-गम्यताम् । स्वनियोगः अशून्यः क्रियताम् ।
चारः-(निष्क्रान्तः) ।
कासा-कथमग्निगोळदाहो जीमूतस्य?
विदू–को मुणइ जोइणो उवाअम्? (को जानाति योगिन उपायम्?) ।
प्रतिहारी- । (प्रविश्य) देव्व. मिळिंदो पाडेहारभूमिं गओ । (देव, मिळिन्दः प्रतिहारभूमिं गतः) ।
कासा-( ससंभ्रमम्) तूर्णं प्रवेश्यताम् ।
प्रति-(निष्क्रम्य प्रविश्य मिळिन्देन सह् ) इदो इदो (इत इतः) ।
कासा-भद्र! किं कुशली तव सखा?
मिलि–कुशलीव!
कासा-( स्वगतम्)
व्यनक्तयस्य मुखं हर्षं व्यथालेशेन मिश्रितम् ।
वचनं च तथा पश्यन् शृण्वंस्तत्कातरोऽस्म्यहम् ॥
(प्रकाशम्) भद्र! किं प्रतिपन्नं जीमूतेन)
मिलि-यद्रामभद्रकळत्रं कामयमानेन दशाननेन ।
कासा-भद्र! स हन्तव्यं स्वेन मत्तेभमहत्वाऽप्युपरतः?
मिलि-हत्वैव!
कासा-भद्र! तथा द्वावपि विनष्टौ यदि, वासः क्व वर्तते, कीदृशः?
मिलि-मत्तेभपुरे मेघनादविजितो मेघवाहन इव लङ्कानगरे ।
कासा -हा! मम वत्सः कारागारं नीतः?
मिलि–अथ किम् ।
कासा-भद्र! जीमूतस्य मत्तेभकरोषसंभवावधि विदितो वृत्तान्तः । ततः परं यथाक्रममभिधीयतां निरवशेषम् ।
मिलि-तदनु “पद्मिनीं मत्तेभ एवापहृतवा” निति दृढनिश्चयं नीतो जीमूतः ।
धनुर्दधदतिज्वलन्नयनजस्फुलिङ्गस्फुर-
त्तटिद्बहुलगर्जितः प्रविकिरन् शरौघं मुहुः।
निजस्तनितनिस्वनश्रवणरुष्टमत्तेभके
स्वनत्ययमपातयत्कठिनमायुधं स्वं द्रुतम् ॥
विदू-तदो । (ततः)।
मिलि-ततः किं वक्तव्यं वज्ररातेन मत्तेभको व्यभेदीति ।
कासा-सखे! पुरैव व्याहार्षीत खलु महायोगी । यदि दैवमनुकूलं जीमूतान्मत्तेभके वज्रं निपतिष्यतीति । जीमूतस्य शिखिना केनापि हरिणा च विनाशस्स्यादि" ति चाभ्यधायि महात्मना । कुतो वा समुत्पत्स्यते स हरिः शिखी च?
मिलि-एवं तत्र विभिन्नमस्तके मत्तेभके मुखरितमासीद्दिशां दशकं हाहारवेण ।
कासा-भद्र! तदिदं त्वया विदितं दृशा, किमुत श्रवसा?
मिलि-अवगतमेतदावाभ्यां दृशैव ।
कासा-(स्व) एतावदन्तं वत्सो न बिनाभूतसख इति ज्ञायते । उपरि श्रृणुमः– (प्र) तत:
मिलि-
धावन्नसाधारणजातकामः स राजधाम्नि प्रतिमां मनोज्ञाम् ।
सुजातजीवामिव वीक्ष्य काञ्चिद्गाढं समालिङ्गदहो भुजाभ्याम् ॥
कासा-सैव शारदानन्दप्रतिभासमुत्पादिता वत्साप्रतिकृतिः स्यात् ।
विदू-तदो तदो (ततस्तत:) ।
मिलि-ततः किमप्याश्चर्यं दृष्टम् ।
कासा-कथमिव ।
मिलि-
परितः प्रतिमामध्यनिस्सरद्वह्निगोळकैः ।
अदाहि स मदान्धो द्राक्तदा हि सुदुराशयः॥
विदू-कुदो एदम्? (कुत एतत्?) ।
मिलि-प्रतिमायां निपीडितायामन्तर्ज्जातो जातवेदाः पारदसुवर्चलगन्धकादिनिर्मितगोलेषु ज्वलितो दहेद्बहिः प्रसरन् दारूण्यपि ।
कासा-भद्र! तत्समीपवर्तिनी सदा कौमुदी किन्तद्विपत्तौ निपतिता ।
मिलि-
जीमूतमालोक्य समापतन्तं गर्जन्तमेषा ललिताङ्गयष्टिः ।
उत्थाय शीघ्रं क्वचिदात्तभीतिर्व्यलीयताळीजनतानुयाता ॥
कासा-हन्त! कामिनां विवेकराहित्यम् ।
सौन्दर्यदूरीकृतचित्तधैर्याः स्त्रीणां पुमांसः सुविवेकशून्याः ।
गम्या न गम्येयमिति प्रतर्कं विहाय सद्योऽभिमृशन्ति मोहात् ।
विदू-अच्चरिअं जीमूअकामपरवसत्तणम्, जदो पडिभं वि पदुमिणीए मोहादो आळिंगिदवंतो । (आश्चर्यं जीमूतकामपरवशत्वम्, यतः प्रतिमामपि पद्मिन्या मोहादालिङ्गितवन्) ।
कासा-
शौर्येण विद्याविभवेन वाऽपि वित्तेन वा येऽत्र भवन्ति मत्ता: ।
विनाश्य तान् लोकसुखं विधातुं धाता विना स्त्रीं न परं ससर्ज ॥
विदू-तहा एव्व । अण्णहा रावणमुहा दुरासआ कहं विणासं णेदुं सक्का होन्ति । (तथैव । अन्यथा रावणमुखा दुराशयाः कथं विनाशं नेतुं शक्या भवन्ति) ।
कासा-सखे!
बलेषु सर्वेष्वपि वेद्मि बुद्धेर्बलं वरिष्ठं न हि संशयोऽत्र ।
मत्तेभजीमूतमदप्रशान्ति कर्तुं क्षमं योगिमतिं विना किम् ॥
विदू-अह इम् । (अथ किम्)
कासा-भद्र! तत:?
मिलि-अथ जीमूतानुयायिनस्सर्वेऽपि ‘पद्मिनीव्रतमहिम्ना दग्धोऽसमये संस्पृशस्तां महाराजः । किं ब्रूमो वयं शारदानन्दमहिमान’ मिति कथयन्तः सस्वरं स्वपदं प्रपेदिरे । मत्तेभपुरवास्तव्यास्तु “किं वक्ष्यामः कौमुदीसमुपास्यमानदेवतामाहात्म्यम्, यतस्तत्प्रतिमास्पर्शमात्रेण प्रदग्धो जीमूतः । विचित्रः शारदानन्दमन्त्रप्रभावः” इति ससंभ्रमा व्याहार्षुः ।
कासा-
विद्वेषिवृत्तेक्षुरसं मदीये चित्ते पिबत्यद्य चिरोत्थतापे ।
वत्सो न्यबन्धीति विचारतीक्ष्णगतृणांकुरो विध्यति तत्तु मध्ये ॥
मिलिन्द! किमहासीत् प्रणान् जीमूतः?
मिलि-नाद्यापि जहाति प्राणान् दग्धतनुरपि सीतापतिव्रत्यानलेनेव रावणो जीमूतः । रघुवीरस्येव करेण कस्स्यचित् तेजोनिधेरसून् विसृजेदिति मन्ये ।
कासा-तादृशतेजोनिधिर्भास्कर एव ।
विदू-तदो । (ततः) ।
मिलि-तादृशे सम्भ्रमे कौमुदी चन्द्रशालामविरुह्य वीक्षमाणा वीथीगतं वयस्यं रहस्समानीय सखीमुखेन व्रतावशेषपरिपूर्तिपर्यन्तमत्र न केनाऽपि जनेन सखीं विना समागम्यतामिति निदेशं दिशन्ती दौवारिकेभ्यः स्वैरं विहरति स्म प्रियतमेन ।
कासा-अहो समापन्नमनर्थमूलम् । भद्र तदीयं लपितं किमङ्गीचक्रुः तत्र कलभादयः ।
विदू-सव्वेपि कोमुईसमाराहिअदेवआभीइं पत्ता खु । कुदो न अंगीकरिंसंदि ताए वअणः । (सर्वेऽपि कौमुदीसमाराधितदेवताभीतिं प्राप्ताः खलु । कुतो नाङ्गीकरिष्यन्ति तस्या वचनम्) ।
कासा-ततः किमासीत्?
विदू-अहं कहेमि । (अहं कथयामि ) । (संस्कृतमाश्रित्य )
परस्परगुणोत्करश्रवणदर्शनोद्यन्मनो-**
** भवव्यथितचित्तयोस्त्तरुणयोः क्वचिद्दैवतः ।
समागममुपेयुषो रहसि कृत्यमुत्कण्ठ्या
यदत्र सुतरां भवेत्तदितरत्किमस्त्येतयोः ॥
कासा-(विहस्य ) । भद्र! ततः?
मिलि-अथ सीमन्तिनी सा कान्तमुखान्मामवगम्य बहिस्सञ्चरन्तं कयापि सख्या स्वशुद्धान्तं नीतवती सिद्धात्ममनोरथा ।
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः
विद्-सा ताए सही तुमं णीदवदी तुह सरिसी एव्व भषे। सा तस्याः सखी
त्वान्नीतवती तव
सदृश्येव भवेत्?
कासा-(विहृस्य ) तत:?
मिलि-निगूढं तया गमितोऽहं अपश्यं तत्र वश्यं कौमुदीहावस्य वयस्यम् ।
विदू-केरिसो दिट्ठो सो! (कीदृशो दृष्टस्स:?) ।
मिलि- दीव्यन्नभिप्रेयसि काञ्चनाक्षान् तदीयवस्त्रान्तमिलत्स्वचेलः ।
कस्तूरिकापङ्कविमिश्रहृद्यकाश्मीरसंलिप्तसुगन्धिवक्षाः ।
कासा - तत:?
मिलि-सा मतिमती सुदती व्रताङ्गीभूतपूजाव्याजेन समानयन्ती समस्तं
भोग्यवस्तुजातमतर्पयत् कन्दर्पदर्पहरणचणवपुषं कान्तम् ।
विदू-पुव्वं एतस्स भइणीपडिमं आराहिअ तस्स फळं ळद्ववई अज्ज इमस्स आराहणं
एव्व ।
(पूर्वं एतस्य भगिनीप्रतिमामाराध्य तस्य फलं लब्धवती अद्यस्याराधनमेव ।
कासा-तत: |
मिलि-ततोऽहं विधृतसैरन्ध्रीवेष: निशान्तं तदध्यवात्सम् ।
विद्--तुह समाराहणस्स कोमुईसही केवळं तुमं पुरिसं मुणंती भवे ।
(तव समाराधनस्य कौमुदीसखी केवलं त्वां पुरुषं जानती भवेत्) ।
कासा। -तत:?
मिलि–अनन्तरम्!
स्वल्पावशिष्टं व्रतकालमस्या ज्ञात्वा दुराशः कलभः स कामी ।
सञ्जीचकारातिकुतूहुलेन समस्तवस्तूनि विवाहहेतोः ।
उत्तानितध्वजमुदञ्चिततोरणश्रीनिर्मृष्टसौधतलनिजैितचन्द्रशोभम् ।
देशान्तरागमितराजकदम्बरम्यं तत्पतनं पटहनादविघुष्टमासीत्।
**कासा–**अहो प्रमादनिदानम् । तत:?
मिलि-तदनु वयस्यो विज्ञाय प्रज्ञावान् कलभप्रवृत्तिं सह् सम्मन्त्र्य
कान्तया तया यातया कातरतां त्रियामयां निगूढं निर्गत्य गन्तव्यं स्वपुरमिति
निरवैषीत् ।
87
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE
कासा-तत:!
मिलि- तथा निशीथे नितरां निशान्तान्निर्गत्य शीघ्रं निभृतं कथञ्चित्
।
रथ्यामयासीन्तिबिडां सशस्त्रैः
– कासा-हृ! तत:?
मिलेि- आरक्षकैः पुष्करसोदराक्ष्या ।
**विदू-**तदो । ( ततः? ) ।
मिलि–हन्त ते निरुध्य तं क्रुद्धाश्शुद्धान्तादपहृत्य पक्ष्मलोचनामेष
चोरवन्निर्यातीति द्रुतं
विद्रुताः केचिन्निवेदयामासुर्मत्त्तेभपुवाय ।
कासा-तत: |
मिलेि-
गर्जन् जवादूर्जितकोपभीमःपीनायताग्रोज्ज्वलकुन्तदन्तः।
सहानुगैस्साहसकृत्यकारी वयस्वमादौ कलभो न्यरौत्सीत्।
कासा-हा वत्स! तथा भीषणान् कलभादीन् रोषणान् वीक्ष्य कोमलवपुस्त्वं
कीदृगासी:। भद्र! तत: ।
मिलि-तदानीम्
शस्त्रं कुतश्वित्प्रसभं गृहीत्वा स युध्यमानो बहुभिर्वयस्यः।
निपात्य कांश्विद्दयेितामधित्वीद्रसेन श्रीरेण च वीरमौलिः।
विदू-मह वअस्सकुमारो खु, महासूरस्स । (मम वयस्य कुभारः खलु, महशूरस्सः
)।
कासा-( विहस्य) सखे! भवान् कुत्र विषये महाशूरः?
विदू-भोअणे मह सोरिअं विदअं खु । (भोजने मम शौर्यं विदितं खलु) ।
मिलि–(विहस्य) ततो हृतेषु योधेषु बहुषु नवनवमागतैर्नियुध्य
परिश्रान्तोऽभूत्सखा ।
कासा-हृन्त दुराशयास्ते नीतिं विसृज्य प्रवृत्ताः खलु कलहे क्लभादयः ।
ततः ।
मिलेि-
परिथ्रान्तभुजं वीरं प्रतियुध्य खलाग्रणीः ।
कलभः स्वयमाक्रम्य क्लान्तं हृन्तुं समुद्यतः ॥
कासा वत्स! कलमेतावन्तं कलहमुखमप्राप्तवानपि प्रकाश्य शौर्यमनल्यं कालमिव प्रतिभयं
कलभमभिमुखं विलोक्य कीदृशीं दशामापन्नोसि? भद्र! ततः ।
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः
मिलि-
कलभः केशहस्ते तं गृहीत्वा क्रोधभीषणः ।’
निबध्य हस्तयोः स्तम्भे निहन्तुं खड्गमग्रहीत् ॥
कासा-वत्स!
तथाविधां दैववशाद्दशां तां प्रपद्य पश्यन्तमहो दिशान्तम् ।
स्वरक्षकं कञ्चिदवाप्तुकामं त्वां चिन्तयन्नद्य शुचाऽन्वितोऽस्मि ॥
मिलि–भद्र! ततः ।
तदात्वे सरभसं हिमानी नाम कापालिकी समुपेत्य कलभं न्यरुन्ध हन्त सद्यः
संहारात्।
विद्–दिट्ठीए समाअदा हिमाणी । (दिष्ट्या समागता हिमानी) ।
कासा-सखे! किं प्रलपसि त्वमनालोच्य किमपि । सः पापा हिमानी प्रतिकूला
केिलास्माकम् । अत एव सद्यस्संहारादिति उक्तं मिलेिन्देन । भद्र! ततः ।
मिलि–तदा कौमुदी व्यलापीदेवम् ।
कासा-हा! परुपमपि श्रवसोः तस्या विलापं शुश्रूयते चेतः ।
मिलि-
हा! नाथ! त्वं सुकृतिजनताग्रेसरत्वाच्चिरायु
र्भूत्वाऽपीह प्रबलदुरितामल्पपुण्यामवाप्य ।
मां क्षीणायुर्भवसि भवतो विप्रयोगः कथं मे
सह्यो मह्यामहह गरलं भक्ष्यन्ती म्रियेऽहम् ।। इति ।।
विदू-जुत्तं उत्तम् । (युक्तमुक्तम्) ।
कामा-सखे! एतादृशो विलापः श्रुतो यदि कलभेन,महान्तं रोषं तस्य
जनयेत्खलु ।
विद्-सो रुठ्टो जदि सीसं घट्टेदु सिळाए । (स रुष्टो यदि शीर्षं घट्टयतु
शिलायाम्)।
कासा–भद्र! ततः किं कृतवती हिमानी ।
**मिलि–**पादयोर्निपत्य कलभमेवमयाचिष्ट ।
उपास्यते भद्र चिराय भद्रकाली मया मन्त्रजपेन देवी ।
तस्यै जपान्ते बलिरर्पणीयः सत्यं युवभ्यामतिसुन्दराभ्याम् ।।
तत्र कापि तरुणी मया निर्दिष्टा । तदर्थं मह्यमेष दातव्य इति ।
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE
कासा-हा वत्स!
चिरात्प्रवर्धितं प्रीत्या मया त्वां हन्त याचते ।
कापि कापालकी पापा कालीसन्तृप्तये बलिम् ।।
(इति मूर्च्छति)।
विदू-वअस्स समस्ससिहि । सेसं सुणुमो । (वयस्य समाश्वसिहि । शेषं
शृणुमः)।
कासा–( आश्वस्य ) । भद्र! ततः ।
मिलि–कति दिनान्यवशिष्टानि जपावसानकरणायेति हिमानीमप्राक्षीत् ।
विदू-किं सा पावा कहिदवदी । (किं सा पापा कथितवती ) ।
मिलि-त्रिचतुराणि वासराण्येवावशि़ष्यन्ते । अनुपदं भाविभौमवारावधि
क्वचिन्निबध्य रक्षि- तव्योऽयमस्त्विति ।
कासा-हा! तदुद्दिष्टं कुजवासरमेतदेव खलु?
विदू–ततो । (ततः ) ।
मिलि–तत्क्षणे शृङ्खलया निबध्य खलया याच्यमानः कलभः सखायं
न्यवीविशत्क्वचिद्- नितरसुगमे प्रदेशे ।
क्रास-हा वत्स!
निगलनिबद्धाङ्घ्रियुगं नितरां क्लान्ताननाम्बुजन्मरुचिम् ।
कान्ताशोकनिदानं त्वां तं सञ्चिन्त्य सीदति स्वान्तम् ।।
।
मिलि-तदानीमपि सखा मम न ग्लानवदनः; किञ्चिन्निमीलितनयनः कृताञ्जलिः
स्वदेवतामेव ध्यायति स्म ।
कासा–भद्र! तस्य स्वदेवता सा ध्रुवं मङ्गलदेवता खलु ।
मिलि-न केवलं भगवती सा स्वदेवता तस्य। अपितु कपिकुलाग्रणीः
समीरणतनुजोऽपि।
कासा-यदि वत्सो भगवतीं भार्गवीं तद्रमणचरणध्यानपरं पवनकुमारमपि तदा
स्मरेदसंशयं
सर्वविपदर्णवोत्तीर्णो भवेत् । उक्तं हि –
**कारागारे प्रयाणे वा सङ्ग्रामे देशविप्लवे ।
** ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत्तदा ॥
इति ।
90
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः
विद्-(स्वगतम्) वअस्सस्स सोअसंतीए एवं हासजणअं वअणं भणेमि । (वयस्यस्य
शोकशान्त्यै एवं हासजनकं वचनं भणामि) । (प्रकाशम्) सच्चं एदं मए अणुहूदं
पुव्वं रहस्सत्थळे । मह गोतख्खळणेन कोवं पत्ता घरिणी अण्णं रज्जुं अळहन्ती
दीहतरेण णिअथणजुअळेण मं बद्धवदी । तदाणिं मए सुमरिदे हणुमंदे सज्जो
बन्धमोख्खो आसि । (सत्यमेतत्। मया अनुभूतपूर्वं रहस्यस्थले । मम
गोत्रस्खलनेन कोपं प्राप्ता गृहिणी अन्यां रज्जुमलभमाना दीर्घतरेण
निजस्तनयुगलेन मां बद्धवती । तदा स्मृते हूनमति सद्यो बन्धमोक्ष आसीत्) ।
कासा-(विहस्य) किमपि भद्र!
पद्मिनीं भास्करेणेव सङ्गतां द्योतितां यथा ।
तथाऽहं कौमुदीसंगशोभितं तं न दृष्टवान् ॥
ततः किमाचरितवती भद्रा कौमुदी?
मिलि-ततः सा हिमानीमुपसृत्य वाचमेवं वदति स्म ।
विद्-कहम्? (कथम्) ।
मिलि-‘अम्ब! हिमानि,भद्रकालीतृप्तये निर्दिष्टां युवतीं परित्यज्य मामेतत्पदे निधे’हीति।
कासा–हृन्त! वत्से प्रणयो निरतिशयः कौमुद्याः । ततः ।
मिलि–अथ पाषण्डा सा रण्डा तन्नाङ्गीचकार ।
विदू-किं पच्चुत्तरं दिण्णम्? (किं प्रत्युत्तरं दतम्? )।
मिलि— अयि! निर्दिष्टां परित्यज्य भवत्यास्समर्पणं देवी नोरीकरिष्य ’ तीति ।
कासा—तत: । कलभः कीदृशः ।
मिलि- स्वकृते चिरमानीता रक्षितेयं हि कौमुदी ।
कान्तं कामयते कञ्चिदिति तस्यै चुकोप सः ॥
विदू-हदओ कळहो कळहप्पियो कोमुइं कामअन्तो चिळादो ताए मणं अण्णपुरिससत्तं मुणन्तो कुदो जीवइ ।। (हतकः कलभः कलहप्रियः कौमुदीं कामयमानश्चिरात् तस्याः मनः अन्यपुरुषसक्तं जानन् कुतो जीवति? ) ।।
कासा-किमकार्षीत् मत्तः कळभः?
5
91
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE
मिलि–तामपि निगलितबद्धपदां बन्दीकृतवान् ।
कासा-
वत्से! वत्से! मम कृतमहास्त हसुक्लिन्नचित्तां
तां त्वां बद्धौ कळभहतकेनाद्य ते वल्लभञ्च ।
मोक्तुं भद्रे त्वरितमपटोर्मानसं मे समेति
व्रीलां शोकं विपुलमधिकां दीनताश्चानुकम्पाम् ॥
अधिका मम पुत्र्यास्त्वमधुना वधु नाऽसि किम्?
यतस्त्वन्मूलमेव स्यात् सन्ततेर्मे प्रवर्धनम् ॥
भवेत्समुल्लासकरो यदीह विकासशोभी कुमुदाकरो मे ।
त्वमेव तं कर्तुमलं विलासभाजं कथं त्वां विषहे विदूनाम् ॥
विदू-वअस्स! तुद्द अदिभूमिं गओ स्णुसाए सिणेहो । (वयस्य! तवातिभूमिं गतः स्नुषायां स्नेहः ) ।
कासा-सखे!
तनुजः सुकृतेन यावता सुगुणाढ्यो भुवि लभ्यते जनैः ।
तत एव शताधिकेन हि प्रतिलभ्या भवति स्नुषा सती ।।
विदू-मह सुझ्देण कापि वहू ळद्धा सुहगुणा । जा अदिभोअणेण मह अदिसाररोओ भवेत्ति संकाए मिदं एव्व भोअणं विदरइ । दन्तहीणत्तणेण भख्खणं ण खादिस्समित्ति किंवि भख्खणं ण समप्पेइ । इत्थियाभोगेण उह्णपीडा भवेत्ति संकाए मह घरिणीए ममस्सिं विरोहं उप्पादेइ । (मम सुकृतेन कापि वधूर्लब्धा शुभगुणा । या अतिभोजनेन मम अतिसाररोगो भवेदिति शङ्कया मितमेव भोजनं वितरति । दन्तहीनत्वेन भक्षणं न खादिष्यामीति किमपि भक्षणं न समर्पयति । स्त्रीभोगेन उष्णपीडा भवेदिति शङ्कया मम गृहिण्या मयि विरोधमुत्पादयति ) ।
कासा-सखे! अलं विस्तरेणू।
मृत्योर्मुखे वर्तत एव वत्सः स्नुषा तु तत्प्राणनमात्रजीवा ।
कालोऽप्यतीतः सह सेनया मे याने विजेतुं किमहं करोमि ॥
विद्-वअस्स! तुह जामादा बुद्धिसाळी खु । भूमिघरगदं तं आणीअ मंदइदव्वं
।
(वयस्य! तव जामाता बुद्धिशाली खलु। भूमिगृहगतं तमानीय मन्त्रयितव्यम् ) ।
92
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः
कासा-युक्तमुक्तं भवता । यतोऽद्य जीमूतनाशात् तस्य जायया समं बहिर्निर्गमनं न दोषमावहति । भद्र! भवानेव भ्रमरिकामुखेन भूमिसदनवास्तव्यं भदभास्करं भद्रां पद्मिनीञ्च समानयतु ।
मिलि-यथाऽऽज्ञापयति महाराज: । ( इति निष्क्रान्तः )
कासा-सखे! शुद्धान्तं गत्वा किञ्चिद्विश्रमं प्राप्स्यामि ।
विदू-जहा रोअइ सहिणो । (यथा रोचते सख्युः) ।
(इति निष्क्रान्तौ)
इति पद्मिनीपरिणये अष्टमोऽङ्कः ।
95.