07 षष्ठोऽङ्कः

॥ अथ षष्ठोऽङ्कः ॥

(ततः प्रविशति भास्करोऽरुणश्च)

भास्कर:-सखे! कीदृशो विवाहवृत्तान्तः?

अरुणः-वयस्य, किं कथयामि मन्दभाग्यः ।

सद्यः स्वेन वितीर्णभूषणगणालङ्कारिताङ्गीं वधूं

जीमूतः कमलालयं प्रति गतः शीघ्रं समानीयताम् ।

कासारेण विवाहमण्डपसदोमध्यस्थितेनादरात्

सन्दत्तां प्रतिगृह्य तुष्टहृदयः प्राप्तेप्सितार्थोऽभवत् ॥

भा-सखे! किं निर्वर्तितपरिणयाऽऽसीत् पद्मिनी?

अरु-न केवलं निर्वर्तितपरिणया । परन्तु भर्तारमनुगता प्रायासीच्च ।

भा-हा प्रेयसि! क्व प्रयातासि । (इति मूर्च्छति) ।

अरु-सखे! समाश्वसिहि (इति पटान्तेन वीजयति) ।

भा-(नेत्रे उन्मील्य) सखे! किं सत्यं पद्मिन्या जीमूतवशङ्गतत्वम्?

अरु-(स्वगतम्) हा । कष्टम् ।

भूयोऽपि जीमूतवशं गतेति श्रुत्वा वचो मे स्वयमेव मूर्च्छेत् ।

असत्यमेषाऽन्यवशा न चेति ब्रवीमि वाक्यं किमहं विगर्ह्यम् ॥

(प्रकाशम्) सखे! किं परकलत्रविषयविचारेण ।

भास्क-अपि सत्यं जीमूतवशं गता पद्मिनी?

अरु-कथमसत्यं ब्रवीमि ।

भा

कुशिकसुत इव स्याच्छारदानन्द एष

क्षितिदुहितुरिव श्रीरामभद्रेण योगे ।

घटन इह मया द्राक् साधु कासारपुत्र्या

इति मम हृदि क्लृप्तिर्व्यर्थतां प्रापदेवम् ॥

हा विधे! मम दयमान इव पूर्वस्यां रजन्यां योजयन् वल्लभां मया सद्यो विघाट्य परां शुचं प्रापयसि माम् । (कण्ठान्मालिकामवमुच्य दर्शयन्) सखे!

एषा तदीयकरसारसयुग्ममुक्ता कण्ठे मया सकुतुकं सहसा गृहीता ।

माला मनोहरतमा समनन्दयन्मामेतावदन्तमधुना हृदयं दुनोति ॥

(इति मालां भूमौ निक्षिप्य, भूयोऽप्यादाय) अथ मालिके!। मन्दभागाऽसि । यतः

तस्याः करौ किसलयप्रतिमौ विहाय

मां प्राप्तवत्यसि पुनः कृशपुण्यमत्र ।

एतां भवान् कथमपीह सखे नयंस्तां

पुण्यं भजेत यदियं बत खिद्यतीव ॥

अरु-सखे! कुतस्त्वमेवमधीरोऽसि?

भा-कुतो मे धीरता । पुरा मुरारिमहिलासमाराधनसमये

सा स्वस्तिकासनमवाप्य कराब्जतर्ज-

न्यङ्गुष्ठलग्नकुसुमा दरमीलिताक्षी ।

उत्तानिताकृतिलता चलिताधरेष

त्तत्तादृशी मम पुरः किल वर्ततेऽद्य ॥

सखे! नूनं प्रिया मम सरोरुहलोचना सा

जीमूतनीचवशमेत्य पुनर्न जीवेत् ।

स्मृत्वैव मामियमसून् क्षणतो विमुञ्चेत्

तां संस्मरन्नहमपि प्रजहामि जीवम् ॥

(इति पतति) ।

अरु–(उत्थाप्य) अलमावेगेन ।

भा-

यस्याः कटाक्षलहरीव मधुव्रतालिः

यस्याः कचावलिरिवाभिनवाम्बुनीली ।

यस्या इवाननमहर्मुखबुद्धमब्जं

द्रक्ष्यामि तां पुनरहं क्व सखे! सखेलाम् ॥

अरु–वयस्य!

भवादृशाश्च स्वप्रेमभाजनं जनमात्मना ।

संस्मृत्य मुक्तधैर्याश्चेत्किं पुनः प्राकृता भुवि ॥ भास्क-सखे!

स्वप्रेमपात्रमिति यत्तदहं विसोढुं शक्नोमि सारसदृशीतरहस्तभाजि ।

साऽवोचदन्यवशगा यदि सद्य एव प्राणांस्त्यजेयमिति यत्तदसह्यमास्ते ॥

सखे! कुतो भवति दृष्टं शुभनिमित्तमपि विफलम्?

स्पृशति मयि गात्रयष्टिं तस्याः प्रथमं करेण कुतुकंब ।

न्यपतत्प्रदीप्तदीपादर्चिःपुष्पं क्षितौ शनैः सुशुभम् ॥

हन्त! मातः! मधुसूदनप्रणयिनि!

याऽनन्यभक्तिरखिलेश्वरि! कामिताप्त्यै

कारुण्यमेव भवदीयमियेष भूयः ।

तां पद्मिनीं विमतहस्तवशे निपात्य

पश्यन्त्यसून् विजहतीं सहसे कथं त्वम् ॥

जननि-

यस्मिन्प्रसीदसि जने त्रियुगप्रिये! त्वं

तस्यापदेति विलयं समुदेति सम्पत् ।

इत्यत्र कोऽपि विशयो न भवत्प्रसाद-

प्राप्तिः किमल्पतपसाऽत्र जनेन लभ्या ॥

अम्ब! प्रसीद मयि किञ्चिदिदं मदीयं

विज्ञापनं शृणु निरुन्धि भवत्तनूजम् ।

यो मां निहन्ति विशिखैः करुणाविहीनो

रन्ध्रं प्रतीक्ष्य निशितैरपि पुष्यरूपैः ॥

अरु–वयस्य! समाश्वस्य मनो विनोदय क्रीडावनदर्शनेन ।

भास्क-सखे! आरामरामणीयकं पश्यतो मम समेधते विरहानलः ।

तरुणतरुगणेषु द्योतमाना प्रसूना-

वलिरिह मदनस्य क्रूरबाणत्वमेत्य ।

हृदि मम निपतन्ती बाधते ज्यात्वमत्र

भ्रमदलिततिरेवोपैति हा निर्घृणस्य ॥ अथवा । चम्पककुसुमावलोकनेन हृदयं विनोदयामि । यदस्मिन् मधुपसञ्चाराभावात् निर्गुणता भवति । गुणसङ्गं विना शरस्योदञ्चनं न सिद्ध्यति खलु! । (इति चम्पकमुपसृत्य) सखे! हन्त

बाणा न मकरकेतोश्चम्पककुसुमानि विरहिलोकस्य ।

हृदयप्रदाहकानि ज्वलितानि महान्त्यलातचक्राणि ॥

अथवा!

भोश्चम्पक सखे हिंसा न युक्ता मयि ते यतः ।

मत्प्रियानासिकौपम्यं दधासि परदुर्लभम् ॥

अरु-(स्वगतम्) हन्त सखा । दशाननापहृतसीतावियुक्तस्य श्रीरामभद्रस्य दशां प्राप्तः ।

(प्रकाशम्) सखे! कथं उन्मादावस्थां गतोऽसि ।

भास्क-

कुसुमशर नमस्ते तिग्मबाणप्रयोगा-

द्विरम परभृत त्वां नौमि मौनं भजस्व ।

मलयपवन मां त्वं मा स्पृश स्याः सुपुण्यो

मयि कथमतिदीने नास्ति वोऽत्रानुकम्पा ॥

अरु-वयस्य! विपन्निकष एव पुरुषाणां मनोधृतिहेम परीक्ष्यते ।

भास्क-

^([१])अत्यन्तभीषणतमःक्षितिभृत्क्षणेन

यत्तेजसि स्फुरति दूरमुपैति कामम् ।

यस्याशनिप्रतिभयादपि भीर्न मेघात्

सोऽहं बिभेमि मदनस्य परं हि बाणात् ॥

इह हि!

सर्वं लोचनगोचरं भवति मे कल्पान्तकालोपमं

सर्वे सम्प्रति कर्णभागविषयाः संवर्त्तमेघारवाः ।

एवं तावदहो भवेन्न विशयो यावत्प्रियां नो दृशा

द्रक्ष्यामि श्रवणेन तन्मृदुगिरं श्रोष्यामि नाहं सखे ॥ सखे! कुतः प्रेयस्या दर्शनमितः परम्?

मत्कृते हरिणीनेत्रा प्राणान्मुन्ञ्चेन्न संशयः ।

तत्कृतेऽसून्न मोक्ष्यामि यदि स्यान्मे कृतघ्नता ॥

तत् प्रवर्धय जातवेदसम् ।

अरु-अलं सम्भ्रमेण ।

भा

यस्यां निवासमयते सततं दृढं श्री-

^([२])र्या लोकमङ्गलकरी भुवनत्रयस्य ।

तस्या विकासमिह काममकुर्वता मे

कोऽर्थो भवेदहह तेन महोदयेन ॥

अरु– सखे! सर्वथा रक्षद्भिः प्राणान् चिरादाप्यते हि श्रेयः ।

भा–सखे! मा रौत्सीर्मम मरणम् । मारो हि समारोपयति मुहुर्ज्यां धनुषि मम वेधनाय । (इति मूर्च्छति) ।

अरु-(स्वगतम्) सखा कथञ्चिदपि समाश्वासनं नेतव्य इव भाति । किं कुर्मः? (पुरो निरीक्ष्य) आगच्छति मधुव्रता द्रुतं किमर्थम्?

मधुव्रता—(प्रविश्य) अय्य! अरुण! कुदो तुह वअस्सो मुच्छिओ । (आर्य! अरुण! कुतः तव वयस्यो मूर्च्छितः) ।

अरु-भद्रे! कथमजानतीव सख्युर्मूर्च्छाकारणं पृच्छसि?

मधु-जदि जाणेमि किं पुछिस्सं? (यदि जानामि किं प्रक्ष्यामि)?

अरु-किमन्यत्कारणमस्य पद्मिनीविश्लेषं विना मूर्छायाम्?

मधु-(स्व) एदे जहत्थं ण मुणंति । तदो पुणोऽपि से विरहवेअणं वद्धअंती तदो समएमि । (प्रकाशम्) अय्य! एदं बोहेहि, समस्ससेमि । (एतौ यथार्थं न जानीत: । तत: पुनरपि अस्य विरहवेदनां वर्धयन्ती ततः शमयामि । (प्र) आर्य! एतं बोधय, समाश्वासयामि । (अरुण: वस्त्रान्तेन वीजयन्)

अरु-सखे! उतिष्ठ ।

भास्क-(उन्मील्य नेत्रे) भद्रे! किं तव सखी भ्रमरिका पद्मिनीमनुगता? मधु-को संसओ । कहं पदुमिणीए अणुगमणं विणा भमरिआजीवणं?। (कस्संशयः कथं पद्मिन्यनुगमनं विना भ्रमरिकाजीवनम्?)।

भास्क-हा! भ्रमरिकाऽपि द्रष्टुं न लभ्यते ।

अवीक्षमाणो दयिताममुष्याः

संसर्गसम्प्राप्तमनोज्ञशीलाम् ।

आलीमहं वा कलयामि पात्रीं

सङ्गेन मल्ल्या इव सौरभाढ्याम् ॥

मधु-अय्य! कुदो परकळतं कामअन्तो एवं सोअसि? (अर्य! कुत: परकलत्रं कामयमान एवं शोचसि? ।

भा-हा कष्टम् । पद्मिनी परकलत्रं संवृत्तेति । इतः परं किमस्ति मे शोच्यम् ।

मधु-अय्य! अरुण! महप्पाणं एआरिसाणं मणं परकळत्तं ण कामइस्सदि खु ।

(आर्य! अरुण! महात्मनामेतादृशानां मनः परकलत्रं न कामयिष्यते खलु? ) ।

अरु-तत्त्वमाह भवती ।

भास्क-(स्व)

रे चित्त? कस्मात्परदारकामं भजत्सदा पापमुपैषि मूढ!

यद्वा प्रवृत्तिस्तव निन्द्यकर्मण्येतावदन्तं न कदाचिदासीत् ॥

(इति मुखं नमयति) ।

अरु- भद्रे!

न हि कामयते साध्वीं परदारतया स्थिताम् ।

किन्तु तामात्मविश्लेषान्म्रियमाणां तु शोचति ॥

भास्क-भद्रे! त्वं क्व प्रस्थिताऽसि?

मधु-इदो एव्व (इत एव) ।

अरु–किन्निमित्तम्?

मधु-अज्जो समस्सणिज्जोति महाराएण णियुतह्मि । (आर्यस्समाश्वासनीय इति महाराजेन नियुक्ताऽसि) ।

भास्क-कथमाश्वासनीयोऽहं सम्प्रत्येतां दशां प्रपन्नः । मधु-किं भट्टदारिआए भद्द्रे मिळन्ते सुहसूअणं णिमित्तं ण दिट्टम् ।

(किं भर्तृदारिकया भद्रे मिलति शुभसूचकं निमित्तं न दृष्टम्?) ।

भास्क-भद्रे!

तां पश्यति प्रथममिन्दुमुखीं कृशाङ्गीं

मय्यादरान्मम हि दक्षिणमक्ष्यवल्गत् ।

तां संस्पृशत्यथ च बाहुरसव्य एष

निष्कारणं द्रुतमवेपत भूपकन्याम् ॥

मधु-तारिसं णिमित्तं कहं भवे विफलम्? (तादृशं निमित्तं कथं भवेद्विफलम्?) ।

भास्क-कथमभूदिति भण ।

मधु-होदु । कहं वा भअवदीये ळच्छीए समाराहणं कामिदं ण करिस्सदि पदुमिणीए ।

(भवतु, कथं वा भगवत्या लक्ष्म्याः समाराधनं कामितं न करिष्यति पद्मिन्याः) ।

भास्क-कामितं नाकरोदिति ब्रूहि ।

मधु-तहा भणिदुं मह जीहा ण पसरइ । (तथा भणितुं मम जिह्वा न प्रसरति) ।

अरु-कुत:?

मधु-तत्थ काळणं भवे । (तत्र कारणं भवेत् ) ।।

अरु–किं जानासि तत्र कारणम्?

मधु-देवीए भत्ती एव्व काळणम् । (देव्या भक्तिरेव कारणम्) ।

भास्क-सखे! किं वृथा विलम्बेन? प्रवर्धय पावकम् ।

मधु-किं णिमित्तम्? (किन्निमितम्?)

भास्क-प्रवेशाय ।

मधु-कहिम्? (क्व?)

भास्क-अग्नौ ।

मधु-कस्स किदे । (कस्य कृते) ।

भास्क-शरीरत्यागाय ।

मधु-अतिरमणिज्जं सअळलोआणंदकारि तुह सरीरं ण खु उवेक्खणिज्जम् । (अतिरमणीयं सकललोकानन्दकारि तव शरीरं न खलूपेक्षणीयम् ) ।
भास्क-

यन्मे शरीरं दयिता स्मरन्ती सन्त्यजेदसून्
हृतकस्यास्य रक्षायां न फलं वेद्मि केिञ्चन ॥

मधु-तुह सरीरं सुमरंती सा ण पाणे मुंचे । (तव शरीरं स्मरन्ती सा न प्राणान्मुञ्चेत्) ।

भास्क-किं तस्या मयि प्रणयातिशयमजानतीव ब्रूषे? ।

मधु-जाणेमि एव्व । (जानाम्येव) ।

भास्क-सखे! मुधा मां धनञ्जयं प्रवेष्टुकामं रुन्धे मधुव्रता ।

मधु-अहं ण करिस्सं तुह धणञ्जअप्पवेसरोहणम् । (अहं न करिष्यामि तव धनञ्जय प्रवेशरोधनम्) ।

भास्क-भद्रे!

**त्वं दयाभरसम्पूर्णहृदयाऽद्य निवेदय ।
** **इमं कासारराजाय प्रणामं चरमं मम ।
**

(इत्यञ्जलिं धत्ते)

मधु–को णिदेसो पदुमिणीए’ (को निदेशः पद्मिन्याः?)

भास्क-भद्रे! किमर्थं परलोकं प्राप्तायाः तस्य निदेशं कामयसे?

**मधु-**जदि परळोअं ण पता? (यदि परलोकं न प्राप्ता?)

भास्क-

अलब्ध्वा मां प्रियं दैवात्परस्यापि वशं गता ।
यदि जीवति सा तस्यै निदेशोऽनुचितः खलु

मधु-(सस्मितम्) परवसं गआ जदि एव्व सा जीवइ ताए णिदेसो अणुइदो । (परवशङ्गता यद्येव सा जीवति तस्यै निदेशोऽनुचितः) ।

भास्क-(ससग्भ्रमम्) किं न परवशं गता? ।

मधु-जदि पदुमिणी पिअं विणा परं पत्ता कहं कासारो जीवे ।

कहं वा भमरिआ । कहं वा अहं जीवेमि । (यदि पद्मिनी प्रियं विना परं प्राप्ता कथं कासारो जीवेत्? कथं वा भ्रमरिका? कथं वा अहं जीवामि?) ।

अरु–सखे! भद्राया वचनमस्माकं भ्रदं जनयतीव । तन्न सम्भ्रमः कार्यः ।

भास्क–सखे! मम समाश्वासनोपायोऽयम् ।
मधु-जहत्थं कहिअ तुह समस्सासणिमित्तं एव्व आअदह्मि । (यथार्थं कथयित्वा तव समाश्वासनिमित्त्तमेवागताऽस्मि) ।
अरु-भद्रे! किं यथार्थम्?
मधु-मए समं तुह्मे आअदा जदि सअं एव्व विण्णादं भवे जहत्थं । (मया समं युवां आगतौ यदि, स्वयमेव विज्ञातं भवेद्यथार्थम्) ।
अरु-सखे! सह भद्रया गत्वा तत्त्वं जानीवः ।
**भास्क-**न मे रोचते राजमन्दिरोपसरणम् ।
अरु-सखे! या मधुव्रता भवतः पुरा पद्मिनीप्राप्तिमार्गं प्रादर्शयत्, सैवेदानीमपि भवदनुकूलतां प्राप्नोति । ततस्तदीयमनुसर्त्तव्यं वर्त्म ।
भास्क-यथा रोचते सख्ये । (इति परिक्रामति) ।
मधु-इदो इदो । (इत इत:) ।
भास्क-(अप) सखे! केवलमबलावचनमनुसृत्य परिहास्यतां प्राप्तौ भवाव इति शङ्के
अरु-(अप) वयस्य! मा शङ्किष्ठास्तथा ।

अघटितघटनायां वा घटितविघटने यदस्ति चातुर्यम्
अबलासु तन्मनुष्ये देवे वा नेति निश्चयान्मन्ये ॥

भास्क-भद्रे! केन निर्मितोऽयं धरान्तर्गृहप्रवेशाय पन्थाः?
अरु-सखे!

पार्श्वद्वन्द्वोल्लासिहस्तावलम्बो **
** नात्यायामोत्तुङ्गसोपानपङ्क्तिः
अश्रान्त्याऽङ्घ्रिन्यासयोग्योऽतिहृद्यः
शक्यो बालैरप्ययं शीघ्रमेतुम् ॥

(सर्वे महीगृहप्रवेशं नाटयन्ति) ।

भास्क--

मसृणविमलचित्रग्रावभित्ति प्रमृष्ट-
स्फटिकतलमशेषैर्वस्तुभिर्दर्शनीयैः
विलसितमतितुङ्गे चोर्ध्वभागे वितान-
प्रभृतिभिरभिरामं मण्डनैर्भूमिवेश्म

अपि च,

मणिदीपावलिध्वस्तध्यान्तमुच्चासनव्रजम्
अतिकोमलनैर्मल्यहृद्यशय्योपधानकम्

मधु-हळा! भमरिके! इदो इदो । (हला भ्रमरिके इत इतः) ।

(प्रविश्य भ्रमरिका, उभौ प्रणमति)

**भास्क-**भद्रे! अपि कुशलम्?

मधु-(अपवार्य) हळा, किंवि विणोदं करिअ तदो जहत्थं कहेहि । (हला! किमपि विनोदं कृत्वा ततो यथार्थं कथय) ।

भास्क-भद्रे, किमास्ते तव सखी कुशलिनी?

भ्रम-जा होन्तं अळद्धवती, ताए कहं कुशळम्? (या भवन्तमलब्धवती तस्याः कथं कुशलम्?)

भास्क-अयि मधुव्रते! पद्मिनीं दर्शयिष्यामीति त्वं मां कुतः प्रलोभितवत्यसि?

मधु-अय्य! जं सही भमरिआ कहिदवई ते अहं तुमं विण्णाविदवदी । (आर्य! यत्सखी भ्रमरिका कथितवती तदहं त्वां विज्ञापितवती) ।

भास्क-भ्रमरिके, क्व पद्मिनी?

भ्रम-जीमूअक्संगदेत्ति सव्वेहिं विदिअं खु । (जीमूतवशङ्गतेति सर्वैर्विदितं खलु) ।

भास्क-मधुव्रते, मां प्रातारयः ।

मधु-अय्य, ममस्सिं णो अवराहो । (आर्य! मयि नो अपराधः) ।

भास्क–हा प्रियतमे! (इति मूर्च्छति) ।

भ्रम-हळा! पदुमिणि, इदो पविसिअ फरिसिहि पिअम् । (हला! पद्मनि, इतः प्रविश्य स्पृश प्रियम्) ।

(प्रविश्य पद्मिनी अभिभृशति भास्करम्)

भ्रम-हळा! तिरोहिआ होहि । (हला! तिरोहिता भव) ।

पद्मि-(तिरोधत्ते भित्त्वन्तरे) ।

भास्क-(उन्मील्य) (स्व)कुतोऽहं हिमजलपूर्णसरसि मज्जानीव!

भ्रम-अय्य, अवि समस्सासं गओसि? (आर्य! अपि समाश्वासं गतोऽसि?)। भास्क—भद्रे!

अत्र समाश्वासकरं वस्तु न पश्यामि मन्मथशरार्तेः ।

पुलकितमानन्देन स्विन्नं गात्रं च जायते कस्मात् ॥

अरु-(अप) सखे! समाश्वसिहि! मम जीवितहेतोस्तव जीवातुरत्रैव वर्तते ।

भास्क-( सामोदम्) भद्रे भ्रमरिके! यदि दर्शयसि दृश्यां मम जीवितदानसुकृतं प्राप्स्यति ।

भ्रम-(सस्मितम्) (भास्करकरमवलम्ब्य)। इतो दृश्यताम् (इति पद्मिनीं दर्शयति)

अरु–सखे! भद्रमस्तु (इति निष्क्रान्तः) ।

भास्क–

जीमूतान्निर्गता सेयं हन्त सौदामनीलता ।

दिष्ट्याऽद्य विलयं नैति जगदेकविलासिनी ॥

भद्रे! मधुव्रते! भ्रमरिके!

युवाभ्यां प्रापिता साध्वी मम सन्तनुते मुदम् ।

श्रद्वया प्रज्ञया विद्या लम्भितेव विनिर्मला ॥

भ्रम-हळा! अह्मो गच्छह्यो । (हला! आवां गच्छावः) । (इति निष्क्रान्ते)

भास्क-

मातः कैटपवैरिप्रेयसि भवतीं विना परं दैवम् ।

अस्ति किममर्त्यवन्द्ये स्वस्ति विधातुं नृणामलं भजताम् ॥

अयि जीवितसञ्जीविनि! प्रदेहि परिष्वङ्गं मङ्गलाय मे ।

(इति पद्मिनीमालिङ्गन् निप्क्रान्त: )।

॥ इति पद्मिनीपरिणये षष्ठोऽङ्कः ॥

  1. भीषणतमः = अतिभीषणः । भीषणं तम एव. क्षितिभ्रत् यस्य, मे = मम, अघात् = व्यसनात् । मेघात् = घनाच्च ।
  2. आलोकमङ्गलकरी = दर्शनेन क्षेमङ्करी ।