॥ अथ द्वितीयोऽङ्कः ॥
(ततः प्रविशति पुरोवातः)
पुरोवातः-आदिष्टोऽस्मि जीमूतमहाराजेन । यथा–भोः सचिव! कासारोऽभिगम्य भवता मदर्थे कन्यां प्रार्थयितव्य इति । (सविमर्शम्) ।
प्रवृद्धभावात्स्वयमुच्चलत्को^([१]) निसर्गलोकश्रुतिघोरनादः ।
तथापि जीमूतक एष धत्ते विद्युत्सु तन्वीषु सदानुरागम् ॥
किञ्च, यदि भास्करालोको भवेत् पद्मिन्याः तस्मिन् महान् प्रणयावेशस्स्यादिति आशङ्कया भास्करापवारणाय तमोभिख्यां नाम कामपि लोचनभीषणमचूचुदत् । अस्तु यथाकथंवा–कासारमुपसरामि (इति परिक्रम्य, अवलोक्य च) अतिरमणीयोऽयं कासारवसतिसन्निवेशः ।
उपवनतलरूढद्योस्फुरन्नालिकेर-
क्रमुकमुखमनोज्ञानोकहश्रीस्समन्तात् ।
अधिगतसुखवासस्वच्छरूपद्विजालि-
र्मधुररससमृद्धस्वप्रकृत्यातिचारुः ॥
(निरूप्य) वर्ततेऽत्र कासारः । य एष: ।
विकासिवक्त्राम्बुजराजमानलक्ष्मीमनोज्ञस्सुकृतैकभूमिः ।
सदाश्रितप्रापितजीवनर्द्धिः स्वच्छान्तरङ्गस्थितिमादधानः ॥^([२])
(प्रविश्य) कासारः—- (पुरो विलोक्य) समागच्छति पुरोवातः ।
पुरोवातः-अपि कुशलं धर्मात्मने भवते ।
कासारः-अपि निरामयो जीमूतः ।
पुरो-अथ किम् ।
कासा–किमाज्ञापयति सखा ।
पुरो-किं प्रार्थयत इति प्रष्टव्यम् ।
कासा-(स्वगतम्) हन्त पापीयान् प्रवर्तते पद्मिनीं भास्करालाभविधुरां विधातुम् । (प्रकाशम्) अगम्येऽस्मादृशैः स्थाने वर्तते स महोन्नते ।
यत्र वैरायते तत्र वज्रपातापदं दिशेत् ॥
पुरो-(स्वगतम्) एष स्तुवन्निव विगायति । (प्रकाशम् ) भवान् न कस्य वाऽभ्यर्थनीयः ।
हरत्याश्रितसन्तापं प्रीणात्यनिमिषावलिम्^([३]) ।
रतिं तनोति हंसानामपि राजति सत्पथे ॥
कासा-जीमूतकरे खलु तिष्ठति जीवनदानम् अस्मादृशानाम् । तदभिधीयतां तदाशयः ।
पुरो–-प्राप्तवानपि जीमूतो बह्वीस्सौदामिनीतनूः ।
भवन्तं याचते प्रीत्या पद्मिनीं मित्रवत्सल! ॥
कासा-(स्वगतम्)
सा पद्मिनी भवति भास्करदत्तचित्ता
जीमूतकश्च मलिनो गतयौवनश्रीः ।
सन्मार्गसङ्गततिरस्कृतिकृत्स्वयं तां
हा याचितोऽस्मि तदनादरजातशङ्कः ॥
भवतु शारदानन्दोपदिष्टं कथयामि । (प्रकाशम्) किं सख्युः मनोरथाकलने संशयोऽस्ति मम? परन्तु किमपि प्रार्थनीयमस्ति ।
पुरो-आज्ञप्तव्यम् ।
कासा-तस्या भगवता शारदानन्देन किमपि मन्त्रमुपदिश्य समादिष्टं किमपि व्रतम् ।
पुरो-कथमिव?
कासा-–
भद्रे मयाऽयं विहितोऽद्य मन्त्रो जप्यस्त्वयोद्वाहदिनादि मासान् ।
त्रींस्त्वक् सर्वेन्द्रियबाह्यवृत्त्या पत्युश्चिरायुष्ट्वशुभप्रजाप्त्यै ॥
तादृशीं भवतीं मोद्दात् भर्ता वा संस्पृशेद्यदि ।
स भस्मसाद्भवेत्सद्यः किमृतान्यः पुमानिति ॥
पुरो–(स्वगतम् ) अधिकचपलः खलु जीमूतः । किं वा भविष्यति । (प्रकाशम्) निजोदयहेतुभूतस्य व्रतस्य समाचरणं किं नाङ्गीकरिष्यति जागृतः ।
कासा-अङ्गीकरिष्यति यदि प्राप्नुयात् उपयमाधिगमनप्रयोजनम् । ततः प्रस्थाय समये शुभे समागतोऽस्तु सानुगो जीमूतः ।
जीमूतकः सत्वरमेतु नाम^([४])महोत्सवा स्याद्वसुधा समन्तात् ।
सञ्जातकीर्तिश्च दिशोऽप्यशेषा विद्युत्प्रदीपज्वलिता भवन्तु ॥
पुरो-द्रुतमानीयतेऽयं मया । (इति निष्क्रान्तः) ।
कासा-(स्वगतम्)पुरोवातो भूत्वा पुरत इह मां द्राक् कलुषयन्
प्रयातो जीमूतं पुनरपि तमत्राकलयितुम् ।
मया किं कर्तव्यं झटिति स च मत्तेभहतकः
समायातः क्रूरः किमिव मयि चेष्टेत मृदुले ॥
हन्त! पुराऽस्माकमुपकृतवानपि ^([५])स्वर्णश्रीदानेन जीमूतः सम्प्रति मर्यादातिलङ्घनेन शोकार्तिकारी विप्रलभ्यः संवृत्तः ।
एष हि,
^([६])वर्षातिभीमा भुवि वाहिनीर्द्राक् प्रसारयन् हन्ति चराचराणि ।
भिनत्ति भित्तीरपि दुर्गतानां धुनोति सर्वं सुमनोनिकायम् ॥
(नेपथ्ये कलकलः)
कासा-हन्त केयं तिमरावृति:, यस्या भीतो जनः शब्दायते ।
(नेपथ्ये) वत्स! हन्यतामियं भवतः तिरस्कृतये जीमूतप्रवर्तिता तमोऽभिख्या दुष्टचारिणी ।
कासा-अयं शारदानन्दस्य कण्ठस्वर इव श्रूयते ।
(पुनर्नेपथ्ये) भगवन्! भवदनुग्रहात् क्षणाद् विनाशयामि तां पापीयसीम् ।
कासा-कस्यायं मधुरगम्भीरो ध्वनिः अभिनवतारुण्यारम्भरमणीयस्य पुरुषधौरेयस्य?
(पुनः नेपथ्ये)यावत्स्वयं परिकिरन्निजगोसहस्रं
वत्सो जवेन समवर्द्धत तावदेव ।
सा पापिनी विलयमेति विलोचनं नः
कामं प्रसीदति मनः कुतुकं दधाति ॥
कासा-नूनमिदं भास्करविलसितम्। (इत्युत्थाय प्रतीक्षते) (ततः प्रविशति सवयस्येन भास्करेणानुगम्यमानः शारदानन्दः ) । शारदा-वत्स! पश्य,
^([७])श्रीधर्मिनव्यनगरं नामेदं भाति साधु जयतीह ।
गोदा रमणीगुणभृज्जनतादुरितप्रणाशने निरता ॥
**इह हि पार्श्वद्वयोल्लसदनुष्णमयूखबिम्ब-
**
क्रीडोत्पतन्मृगविहारिकुमारसौधाः ।
वीथ्यो विभान्ति परितो गरुडध्वजस्य
प्रासादमुच्चतरगोपुरतोरणाढ्यम् ॥
सरसगुणधरोत्था धिन्वती विष्णुचित्तं
जनकमिह विशेषापादकात् सौमनस्यात् ।
जयति विवुधलोकश्लाघनीया शुभाङ्गी
कमलवदननिर्यत्सूक्तिमाध्वीकधारा ॥
शतानन्देन तीर्थेन श्रयतां दुरितं हरन् ।
सतामग्रेसरो नाथः श्रीमानिह विराजते ॥
कासा-(वीक्ष्य) तामावृतिं सकललोचनभीमरूपां
स्वीयौजसा विदलयन्नतिचारुमूर्तिः ।
आनन्दयन्नखिलचक्रजनं चकास्ति
कः पद्मिनीं सुखयितुं प्रभवेत्सुरोऽस्मात् ॥
(सप्रमोदं शारदानन्दमुपसृत्य) भगवन्! प्रतिपालयामि सहभास्करस्यात्र भवतः
समागमम् । भवतः सान्निध्येन खलु निष्कलुषः सामोदश्च भवामि । शारदा-कथं
ज्ञायते भास्करोऽयमिति?
कासा-रूपमेवास्य वदति भास्करोऽयमिति स्फुटम् ।
तां निहन्तुं तमोऽभिख्यां तस्मादस्मात्प्रभुश्च कः? ॥
एतस्य हि,वदनमधिकवेगादापगाधीशमध्यो-
द्गमनविगलितैणश्चन्द्रमाः शारदो नु ।
उत लसदरविन्दं प्रातरुन्मृष्टरेणुः
कुसुमविशिखलीलाकल्पितो दर्पणः किम् ॥
सञ्चिन्त्य सारसभवो मदनं स्वशिल्प-
नैपुण्यसूचकतनुं हरनेत्रदग्धम्।
जातं पुना रतिविलोचनमात्रलक्ष्य-
मेनं ससर्ज निरुपाधिमशेषदृश्यम् ॥
शारदा-राजन् । उदयधरजात एकः पुरुषमणिर्भास्करोऽयमिह नान्यः ।
कासारप्रभवैका स्त्रीरत्नं सा हि पद्मिनी नान्या ॥
किं बहुना! बिभर्ति कमलोल्लासं पद्मिनी सा न संशयः ।
दधाति भास्करः श्रीमान्नारायणकलां खलु ॥
भास्क–(अपवार्य) वयस्य । जानासि किमस्य नन्दिनीम् ।
अरुणः-(अपवार्य) सखे! किं मे ज्ञातया तया । भवता अवश्यं ज्ञातव्येति
ज्ञायते भगवद्वचसा । (सर्वे उपविशन्ति) ।
शारदा-राजन् । पुरोवातः किमागतः?
कासा-आगत्य गतो द्रुतं जीमूताभिगमनं शंसन् मामाकुली कृत्य ।
भास्क-(अपवार्य) सखे । जीमूतागमनश्रवणेन मे मनः कुतोऽकाण्डे व्यथते ।
अरु-(अपवार्य) वयस्य! पद्मिन्युपलम्भविघातशङ्कया ।
भास्क-किं जीमूतः प्रयतते तां प्राप्तुम्?
अरु-तथाऽवगम्यते । प्रयततां नाम जडः ।
प्रवृत्ते शारदानन्दे भास्करोल्लासकारिणि ।
पद्मिन्यामेति साफल्यं किं जीमूतमनोरथः?॥
भास्क-कुतो भगवतः शारदानन्दस्य जीमूतविजृम्भणासहिष्णुता ।
पुनरस्मदुल्लासे महदौत्सुक्यं च ।
अरु-
कारणं महतां प्रीतावप्रीतौ चामलात्मनाम् ।
जनस्य सुगुणत्वञ्च दुर्गुणत्वञ्च नेतरत् ॥
कासा - (अपवार्य) भगवन्! अनितरसुलभगुणगणसम्पूर्णां कामपि कन्यां
प्राप्य तया धीरोदात्तजामातृको भवेयमिति मनोरथं लब्धुं भगवन्तं
मारारातिमाराधयन्नहं तदीयाभिषेकसमुचितं सलिलं पूजोपयोगि पुष्पञ्च समुत्
समुत्पादयन् (आसम्) ।
शार-ततः ।
कासा-कदाचन प्रत्यूषसमये स्वप्नदशायाम् -
निर्णिक्तमौक्तिकमहीधरश्रृङ्गशङ्का-
सन्दाधिमूर्तिशशलक्ष्मकृताक्तंसम् ।
वामाङ्कभासुरकलत्नमतिप्रसन्नं
तेजोऽभवन्मम पुरो वृषभाधिरूढम्॥
शार-अहो! चन्द्रचूडस्य भक्तेषु क्षिप्रप्रसादिता । ततः ।
कासा-ततः प्रणताय मह्यं भूतेशः महत्किमपि सरोजमुकुलरूपं वस्तु निस्तुलं
प्रदाय प्राह स्म च ।
शार-कथमिव ।
कासा -
लक्ष्मीनिवासभवनं भविता कुमारी
राजंस्तवास्य मुकुलस्य करेण भेदः ।
स्याद्यस्य तेन पुरुषेण भविष्यसि त्वं
जामातृमान् तमिह विद्धि हरेरभिन्नम् ॥
किञ्च, ‘एतदन्तर्वर्तते कश्चिन्मणिः । तन्महिमानमवगमिष्यति कश्चित्संयमी’ति ।
शार-यद्येवमानीयतां तन्मुकुलम् । किमिदं स्वप्नमात्रम्?
कासा-नहि, क्स्तुत एव । (उत्थाय निष्क्रम्य नयति मुकुलपेटीम्) ।
शार-(उद्धाट्य पेटीम्) वत्स । गृह्यतामिदं पुनहरदत्तं कार्मुकं
रामभद्रेणेव भवता ।
भास्क-(गृह्णाति करेण मुकुलम्) । कासा-चक्षुषी निमील्योन्मील्य च
यावत्करेण मुकुलं स्पृशतीह भद्र-
स्तावत्क्षणेन भवति स्फुटितं स्वयं तत् ।
तन्मध्यवर्तिमणिसम्भवमेतदोजः
सोढुं कथञ्चिदपि मे क्षमते न चक्षुः ॥
शार-सहर्षं मणिं गृह्णाति । राजन्! अचिरादस्य महिमानमवेत्य प्रापयामि भवन्तम् ।
कासा-यथा रोचते भगवते ।
शार-(अपवार्य) राजन्! किं विदितो भास्करप्रभावः ।
कासा-(अपवार्य) विदितभास्करप्रभावमपि मानसं मे विचिन्त्य जीमूतविजृम्भणं दूयते ।
शार-मा स्म चिन्तयः । देिष्टमनुकूलं नः ।
कासा-न ज्ञायते मत्तेभवृत्तम् ।
शार-(स्वगतम्) हन्त! कासारव्याहारस्मारिते मत्तेभके करस्थमणिवरमहिम्ना सर्वं तदीयचेष्टितं प्रत्यक्षं दृश्यते । अद्य खलु अयं तुहिनमण्डलं नाम कापालिकं चोदयति - ‘कथञ्चिदपि पद्मिनीमाहरे’ति । स च ‘मायया व्योमयानं निर्माय तेन वियति गच्छन् तामपहरामि’ इति प्रतिजानीते । अत्रागच्छतु नाम स पाषण्डः । किन्न हन्वेत चण्डकरेण भास्करेण तुहिनमण्डल सन्निहितेन । (प्रकाशम्) राजन्! मा स्म दृयेथाः । त्वत्पुत्र्याः सर्वकामितसिद्धये भगवत्या भार्गव्याः प्रसादसम्पादकं किमपि व्रतमुपदेक्ष्यामि ।
कासा-अनुगृहाण ।
शार-किमन्यत्?
कासा-वत्सः कुमुदाकरः
अनुदिनमिह चित्रदर्शनाह-
प्रभृति हि तान्तनितान्तपाण्डुराङ्गः ।
श्वसिति च मुहुरुष्णदीर्घमाप्तै-
र्न निनदति प्रतिवाक्यमत्र पृष्टः ॥ शार-(स्वगतम्) कौमुद्यामुत्कण्ठैवात्र निदानम् । (प्रकाशम्) कौमुदीपटे गृहीत्वा कुमुदाकरस्वरूपमपि प्रदीयताम् ।
कासा-(स्वगतम्) गभीरहृदयो योगी । (प्रकाशम्) कोऽत्र भोः! (प्रविश्य)
कञ्चुकी-आणवेदु भट्टा (आज्ञापयतु भर्त्ता)
कासा-निगद्यतां कृतहस्तः कौमुदीपटे कुमुदाकरस्वरूपमपि विन्यस्य दीयतां पूज्यपादहस्त इति ।
कञ्चुकी-तह (तथा) (इति निष्क्रान्त:)
शार-वत्स भास्कर । तावदत्रैव वसतु भवान् सह वयस्येन, यावदहं कौमुदीमधिगम्यागमिष्यामि ।
कासा-(स्वगतम्) कोऽप्ययं प्रथमोऽभ्युदयः, यत् भास्करः सन्निधत्त इति
।
अरु-(अपवार्य) सखे!
व्याजेन येन केनाऽपि वस्तुमत्रामिवाञ्छतः ।
भवतो गुरुनिर्देश ईदृशेऽभिमतो न किम्? ॥}}
भास्क-(अपवार्य) मा परिहसीः ।
कासा-भगवन् । श्वः परश्वो वा आगताय जीमूताय समर्पणावशेषा वत्सा वर्तते
। तत्र इतिकर्तव्यतां न जाने ।
शार-मा चिन्तय । यत्र कुत्रचित् गतोऽप्यहं प्रतीक्षमाणो भवदुपस्थानसमयं
चक्षुषाऽऽन्तरेण तत्क्षणं सन्निधास्ये ।
‘कासा-महान् प्रसादः । (सर्वे प्रणमन्ति योगिनम्) ।
शार-भद्रमस्तु । (इति निष्क्रान्तः) ।
कासा-भद्र, भास्कर!
आयत्तमतास्त्युपभोगयोग्यं यद्यन्ममाशेषमितःपरं वाम् ।
भुक्तावशिष्टं विनियोक्तुकामस्तत्तत्स्वयञ्चास्मि सुहृद्विधेयः ॥
भास्क-आर्य । अनुगृहीतोऽहम् ।
कासा-कोऽत्र भोः? ।
(प्रविश्य)
कञ्चु-एसोह्मि (एषोऽस्मि) ।
कासा-भद्र । भास्कराय गृहोपवनमध्यलसद्विहारमन्दिरमार्गं दर्शय ।
कञ्चु-जहा णिदेसो (यथा निदेशः) इदो इदो भद्दा । (इत इतो भद्रौ) ।
भास्क-(सहवयस्यो निष्क्रान्तः)
कासा-सर्वत्र शरणमस्माकं मुरहररमणीचरणारविन्दमेव । अस्याः खलु
अपाङ्गः कारुण्यामृतरसभृतो यत्न लगति
क्षणाद्दूरे तस्माद्भवति विपदार्तिश्च महती ।
मनोऽभीष्टं सर्वं भुवि समधिगम्याऽथ स कृती
हरौ भक्तिं बिभ्रत् तृणमिव दिवञ्चाकलयति ॥
(इति निष्क्रान्तः)
इति श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः ।
- ↑ उच्चलच्छीर्ष. निर्गतजलश्च ।
- ↑ स्वच्छान्तरङ्गस्थितिं निर्मलचित्तताम् । निर्मलां तरङ्गाणा स्थि ते च ।
- ↑ अनिमिषाः = देवाः - मानाश्च ।
- ↑ महान् उत्सवो यस्याम् । महत् उत्सवाः गिरिस्रुतजलं यस्यामिति च । कीर्तिः=यशः पङ्कश्च ।
- ↑ स्वर्ण श्रीदानेन=आवश्यकाले धनादिदानेन, सुअर्णस् श्रीदानेन, सुष्ठु जलदानेन । अन्यदूह्यम् ।
- ↑ वाहिनीः = भयङ्करसेनाः नदीश्च । अन्यदूह्यम् ।
- ↑ श्रीधर्मिभिः = श्रीमद्धार्मिकैः नव्यम् = स्तुत्यं । नगरम् = श्रीविल्लिपुत्तूरिति द्राविडभाषायां प्रसिद्धनाम पुरम् । गो दार मणी गुणान् बिभर्त्तीति तथोक्ता जनता । रमणीगुणभूत सुन्दरीगुणशालिनी जनतायाः दुरितप्रणाशने निरता च गोदा तन्नामकदेवी । विष्णुचित्ताख्यभगवद्भक्तगृहेऽवतीर्णा । अपि च, श्रीधर्मिनव्यनगरं मिथिलापुरम् । गौः भूमिः दाराः येषां ते राजानः तेषां मणी श्रेष्ठः श्रीरामः तस्य गुणभृत्सीता इति च । सरसगुणायां जलगुणसद्दितायां धरायां भवतीति तथोक्ता । विष्णुचित्तं नारायणपरम् । जनकं जनम । सरसगुणा धराभूस्सीता । विष्णुचित्तं जनकं वैदेहम् । सरसगुणानां धरतीति धरा । भूः भूदेवी गोदानाम्नावतीर्णा जनकं पितरं च तन्नामकं विष्णुचित्तं द्विजम् । अपि च विशेषापादकात् सौमनस्यात् शोभनमनोभवात् जनकं धिन्वती । सौमनस्यात् पुष्पसम्बन्धिनः विशेषापादकात् विष्णोर्भगवतश्चित्तं धिन्वती । भगवती गोदा प्रतिदिनं स्वकेशधृतमाल्यं समर्प्य भगवन्तं प्रीणयामासेति गोदाचरित्रे स्पष्टम् । शतानन्देन बह्वानन्दकरेण तीर्थेन पयसा सरोनाथः कासारः । श्रयतां सतां दुरितं हरन् अग्रे विराजते । सतामग्रेसरः श्रेष्ठः इति च । शतानन्देन तन्नाम्ना तीर्थेन पुरोहितेन इति च ।