पानशाला

[[पानशाला Source: EB]]

[

पानशाला

(व्यवस्थापकः यवनिकापुरतः आगत्य ध्वनियन्त्रं हस्ते गृहीत्वा रसिकान् एवं सम्बोधयति)

व्यवस्थापकः – अयि भोः रसिकाः वयम् अद्य सामाजिकनाटकं पानशाला नामकं प्रदर्शयितुम् उद्युक्तास्मः । संस्कृतभाषायाम् एतादृशं नाटकं प्रदर्शयितुं वयम् अहमहमिकया प्रयत्नं विधाय सफलाः अभवाम । संस्कृतसामाजिकनाटकेषु एतन्नाटकम् अद्वितीयम् अनुपमम् इति नटकानाम् अभिप्रायः । अस्य नाटकस्य कर्ता पण्डित ओगेटि परीक्षित् शर्मा । अयं गीर्वाणान्ध्रभाषाप्रवीणः । अयं नवीन भावसमलङ्कृतः क्रान्तिकारकः कविः । अस्मिन् परीक्षिन्नाटकचक्रे संहत्य सप्तविंशति नाटकानि विद्यन्ते । तेषु नाटकेषु चतुर्दश नाटकानि पौराणिकानि षण्णाटकानि ऐतिहासिकानि सप्त नाटकानि सामाजिकानि च । तेषु सप्तसामाजिकेषु अयं प्रथमः नाटकविशेषः । तत्र भवन्तः नाटकं द्रष्टुं समागताः । किन्तु न भाषणं श्रोतुम् । तस्मात् अहं भाषणं विरम्य नाटकप्रदर्शने कृतप्रयत्नो भवेयम् नमांसि । (इति नमस्कृत्य गच्छति)

(ततः यवनिका अपसार्यते)

तत्रैकस्मिन् पार्श्वे उन्नत वेदिकायां कपाटिकायां वशिकादि बाटिलानां श्रेणिः वर्तते । तत्रैव पार्श्वतः खाद्यविशेषाः सन्ति । तत्र मधुव्यवस्थापकः आसने उपविश्य सर्वं पश्यन् आस्ते । तत्रैव पार्श्वे एकः मधुवितरकः उपविष्टः अस्ति । एकः बालसेवकः इतस्ततः चरन् तत्र विद्यमान टेबुलानि स्वच्छयति । एकस्मिन् कोणे नाठ्यार्थं वाद्यविशेषैः वेदिका भाति । तत्र अगन्तारः गन्तारः सन्ति । स्वल्पनादेन सर्वदा सातत्येन डिस्कोवाद्यमिश्रितगानं पिशाचानां कोलाहलमनुकुर्वन्ती संश्रूयते । ततः प्रविशति एकः पाश्चात्यः तस्य नाम स्मितः । सः सन्ध्याशिरोवेष्टनेन ऊर्णवेषे विद्यमानः धूम्रपानं कुर्वन् वेत्रहस्तः शनैश्शनैः, चलन् पानशालान्तः प्रविशति । तस्य वयः पञ्चतिः । सः आगत्य तत्र एकस्यां कुर्च्याम् उपविशति । (धूम्रवर्तिकां प्रशाम्य जृम्भणं विधाय)

स्मितः – अरे बाल । (इति बालसेवकम् आह्वयति)

(बालः तस्य समीपमागत्य)

बालः – अहमस्मि भोः ।

स्मितः – किं विद्यते रे ।

बालः – वशिका, मदिरा, वधुका,मद्यं, मधु, सीधु, सोम, नीरा, सुरा, वैना, वीरपानम् ।

स्मितः – (स्तब्ध) किं रे दण्डकं पठसि उत पाठं करोषि ।

बालः – विद्यमान वस्तुचयं कथयामि भोः ।

स्मितः – अथ किम् । पश्य वशिका बाटिलम् आनय ।

बालः – चित्तं भोः । यथाज्ञापयति भवान् ।

स्मितः – (धूर्मवर्तिकाम् अनलयति धूम्रं नाशिका रन्ध्राभ्यां मुखाच्च विसर्जयति)

बालः – भोः आगतोऽस्मि । (इति तस्य पुरतः वशिका बाटिलं चषकं च संस्थाप्य निर्गच्छति)

स्मितः – (बाटिलम् उद्घाट्य चशके वशिकां स्रावयति । आत्मगतम्) अद्याहम् अतीव श्रान्तोऽस्मि अधुनाहं वशिकया अपगतश्रमः भवेयम् । आनन्दो ब्रह्मेति ज्ञास्यामि । (इति किञ्चित् पीत्वा) अरे बाल खाद्यविशेषं मांसापूपमानय, उत शूलमांसम् आनय ।

बालः – साधु आनयामि भोः । (इति आनीय तत्र टेबुलोपरि निक्षिप्य गच्छति)

स्मितः – (किञ्चित् किञ्चित् पिबन् मध्ये मध्ये खादन् इतस्ततः पश्यन् आस्ते)

(ततः प्रविशति हरिहरशर्मा । सः श्वेतवस्त्रधारी, लम्बमानश्वेतकञ्चुकेन भूषितः द्वारपर्यन्तमागत्य उपरि दृष्ट्वा) पानशाला । (इति पठित्वा किञ्चित् विचार्य) पानार्थं शाला पानशाला । (इति वितर्क्य) अहम् अन्तः गत्वा किञ्चित् पास्यामि । (इति प्रविशति स्मिताभिमुखं कुर्च्याम् उपविशति अनुपदमेव बालः समागच्छति)

बालः – भोः किमपेक्ष्यते ।

शर्मा – अरे बाल किं किं विद्यते ।

बालः – भोः वशिका, मदिरा, वधुका, नीरा, सुरा, सोम, वैना, वीरपानम् आसवश्च ।

शर्मा – बत किं त्वं दण्डकं पठसि ?

बालः – विद्यमान वस्तुसारणीं कथयामि भोः ।

शर्मा – कोला न विद्यते किम् ?

बालः – नहि ।

शर्मा – ऊर्ध्वाङ्गुष्टं विद्यते किम् ?

बालः – किमेतत् भोः, नाहं जाने ।

शर्मा – त्वं संस्कृतं जानासि ?

बालः – हाम् अहं संस्कृतं जानामि ।

शर्मा – ऊर्ध्वाङ्गुष्टं इति पदं Thums up इत्यस्य भाषान्तरीकरणम् ।

बालः – तत् न विद्यते अत्र ।

शर्मा – इयं पानशाला खलु तत् स्थापनीयं भवति ।

बालः – इयं पानशाला भोः ।

शर्मा – किं रे त्वं माम् अनुशास्ति । जानाम्यहम् इयं पानशाला इति । अत्र कोला सोडा नारङ्गरसः तक्रम्, लिम्बफलरसञ्च लभिष्यन्ति इति मत्वा पातुं समागतोऽस्मि । इयं पानार्थं शाला तस्मात् पानशाला इति कथ्यते । भारतदेशे पानशाला इत्यस्य पदस्य अयमेवार्थः ।

बालः – एतत् सर्वं नाहं जाने भोः ।

शर्मा – हां सोडा विद्यते किम् ।

बालः – सोडा विद्यते भोः ।

शर्मा – सन्तुष्टोऽस्मि आनय सोडाम् ।

स्मितः – (शर्माणं पश्यन्) अयि भोः बालेनसार्थं पानशालाशब्दस्यार्थं विस्तृत्य कथयति भवान् कोऽस्ति भोः ।

शर्मा – अहं संस्कृतपण्डितः । मम नाम हरिहरशर्मा ।

स्मितः – बालसेवकेनसार्थं पानशाला शब्दस्य अर्थविवरणं करोषि, किं सः जानाति इयन्तं संस्कृतम् ।

शर्मा – भवतां शुभनाम किं भोः ।

स्मितः – मम नाम स्मितः ।

शर्मा – अयि स्मित, भारतवर्षे सर्वोऽपि संस्कृतं जानाति यतः सा भाषा भारतीयानां भाषा विद्यते । तस्मात् कारणात् संस्कृतभाषायां बालेन सार्थं भणामि । अर्थविवरणं च करोमि ।

स्मितः – कथं सर्वे संस्कृतं जानन्ति ।

शर्मा – पाश्चात्यभाषां भारतवर्षे रेथ्यासु गार्दभ सदृशाः अनभिज्ञाः अपि भाषन्ते । भारतीयाः भारतीय भाषां संस्कृतं जानन्ति किम् ।

स्मितः – तव उत्तरं प्रशंशनीयम् अस्ति अयि भोः भवतां व्यवसायः कः ।

शर्मा – मम व्यवसायः संस्कृतभाषाप्रचारः एव । कोऽस्ति भवान् भवतां पूर्णपरिचयः कः ?

स्मितः – अहम् अमेरिका देशीयः । अहम् अस्मिन् भारतवर्षे एकस्मिन् विद्यालये आङ्ग्ल विभागस्य प्रथानाचार्यः ।

शर्मा – भारवर्षे एकस्मिन् विद्यालये आङ्ग्ल विभागे प्रथानाचार्यः भवान् । शृत्वाहं बहु प्रमुदितोऽस्मि । तस्मादेव भवान् वशिकां यथेच्छं पिबति ।

स्मितः – अयम् अस्मदीय देशीयाचारः ।

शर्मा – देशीयाचारस्तु अवश्यं परिपालनीयः न केनापि देशद्रोहः कर्तव्यः । तस्मात् भवान् ।

पीत्वा पीत्वा पुनः पीत्वा । वशिकां वश्यकारिणीम् ।
धूम्रपानं करोष्येवम् । भ्रमणं ते न जायते ?

स्मितः – (विहस्य) अयि भो शर्मन् भवान् आशु कविरस्ति ।

शर्मा – किमत्राश्चर्यं विद्यते । यदा केचन भारतीयाः अन्यभाषासु कवयन्ति किं नाहं भारतीय भाषायां सुरभाषायां कवयितुं न शक्तोऽस्मि ?

स्मितः – हां सत्यमेव ।

शर्मा – भवान् सम्यक् गीर्वाणीं जानाति । दृष्टा शृत्वाच मे परमामोदः भवति ।

स्मितः – भवतां प्रशंसया अहं सन्तुष्टोऽस्मि धन्यवादाः । अहं मम बाल्ये लण्डन्‌देशे एकस्यां पाठशालायाम् अमरभारतीमपठम् ।

शर्मा – पाठशालायां कथम् ।

स्मितः – लण्डननगरे सर्वत्र सर्वासु पाठशालासु एषा अनिवार्यभाषा अस्ति । तस्मात् शालायां प्रथमकक्ष्यातः एकादश कक्ष्यापर्यन्तं गीर्वाणी अनिवार्या अस्ति । एषु दशवर्षेषु सर्वोऽपि बालः प्राथमिक भाषाज्ञान संराजितः भवति ।

शर्मा – लण्डननगरे गीर्वाणी अनिवार्या किमर्थम् ।

स्मितः – भारतीयज्ञानेन सर्वाणि शास्त्राणि गणितं च सुलभतया अवगाहनानि भवन्ति । मानवः संस्कारवान् भवति इति तत्र पालकानाम् आशयः तस्मात् एषा भाषा अनिवार्यत्वेन संस्थापिता ।

शर्मा – अहो मे भवतां वचनं शृत्वा परमामोदः भवति । भवान् अभारतीयः तथापि भवान् सुरभाषायां भणति शृत्वैतत् अहं स्वात्मानं विस्मरामि ।

बालः – भोः इयं सोडा । (इति पात्रे प्रस्राव्य गच्छति)

स्मितः – अहं भवतां परिचयेन परमानन्दमनुभवामि ।

शर्मा – लण्डननगरे सुरभाषा अनिवार्यत्वेन शालासु निक्षिप्ता इति शृत्वा अहं भारतीयान् गर्हामि । यत् सुरभाषाकृते लण्डन नगरेण कृतं तत् भारतवर्षेण न कृतम् इति विचार्य भारतदेशीयाः गौर्वाणीद्वेषिणः संस्कृतिद्रोहिनः इति भावयामि ।

स्मितः – तथामावदतु भारतदेशेपि संस्कृतभाषा अनिवार्यभाषा सर्वासु दशासु भविष्यतीति ममाभिप्रायः ।

शर्मा – तान् दिवसान् अहं द्रष्टुमिच्छामि । अहं भवतां भाषणेन अतीव सन्तुष्टो जातः ।

स्मितः – अयि भोः शर्मन्, वशिकां किञ्चित् सोडा सार्थं मिश्रणंविधाय यदि पास्यसि आनन्दो ब्रह्मेति ज्ञास्यसि ।

शर्मा – अयि भोः स्मित यूयं पाश्चात्याः भवतां वेषभूषादिकम् अन्यत् अन्नपानादिकम् अन्यत् आवयोः संस्कृत्योर्मध्ये महदन्तरं विद्यते । युष्मदीय विद्यायाः स्वरूपः अन्यः अस्मदीय विद्यायाः स्वरूपः अन्यः । आनन्दो ब्रह्मेति वाक्यम् अस्मिन् विषये योग्यं न भवति । युष्माभिः अस्यार्थः सम्यक् नाधीतः । केवल पठनमात्रेण प्रमाणपत्र स्वीकारमात्रेण विद्यायाः स्वरूपः न ज्ञातः भवति ।

स्मितः – किं भवान् वदति । अस्मदीय प्रभुता प्रपञ्चे सर्वत्र विद्यते । इयम् आग्लभाषा जगति सर्वैरपि भण्यते । तस्याः भाषायाः स्वरूपः अन्यः । भारतवर्षे नकापिभाषा विद्यते तया भाषया सन्तोलयितुम् उत उपमितुम् ।

शर्मा – (विहस्य) भवान् किं वदति । (इति सोडां पीत्वा एकमुद्गीर्य) यथा संस्कृतभाषायां प्रत्येक शब्दस्य शब्दोत्पत्तिः विद्यते तद्वत् जगति न कस्यापि भाषायाः विद्यतेति भाषातज्ञानां मतम् । इयं शास्त्रीय भाषा इति केषाञ्चन मतम् । इयं भाषा सर्वासां प्रपञ्चभाषाणां जननीति संशोधकाः भाषातज्ञाः भणन्ति किं त्वं न जानसि एतद्विषयम् ।

(पानशाला व्यवस्थापकः ध्वनियन्त्रे एवं कथयति)

व्यवस्थापकः – अयि भोक्तारः पायिनः शृण्वन्तु भवन्तः । वयम् अतीव प्रहरुष्टास्मः यतः हेलानाम भारतीय सुन्दरी अत्र अद्य यामिन्यां नाट्यं करिष्यति यूयं सर्वे तन्नाट्यं दृष्ट्वा पानशालां सार्थकतां कुर्वन्तु इति आशास्महे । अपिच अत्र सर्वदा विविध शिक्षणशाखासु सुप्रसिद्धविद्वांसः आगत्य बहुविषय संवादकाः भृत्वा पानशालां विद्याशालेति सुखशालेति मत्वा पानशालां जगत्प्रसिद्धां चारित्र्यशालिनीं कुर्वन्ति तस्मात् यूयं सर्वे धन्यवादार्हाः नमांसि । (इति विरमति)

(अत्रान्तरे षण्मुखोनाम एकः तमिलपण्डित कण्ठेलम्बमानेत्तरीयः दीर्घकञ्चुकः लुङ्गीवेष्टितः अपिच गानकलाकोविदः गन्धर्व नामकः द्रविडपण्डितवेषेण भूषितः प्रविशतः तौ स्मितशर्मणो पार्श्वतः उपविष्टौस्तः)

षण्मुखः – अरे बाल ।

बालः – भोः एषोऽस्मि ।

षण्मुखः – वधूकमानय ।

बालः – आनयामि । (इत्युक्त्वा गन्धर्वं प्रति) भोः वः किमानयेयम् ।

गन्धर्वः – मदिरामानय । (इत्युक्त्वा) स रि ग प ध स, स ध प ग रि स (इति मोगनरागमालपति)

षण्मुखः – अरे (गन्धर्वं विलोक्य) गन्धर्व इयं पानशाला नतु सङ्गीतशाला ।

गन्धर्वः – न किमपि विद्यते अन्तरं द्वयोर्मध्ये ।

षण्मुखः – किं वदसि । कथं न विद्यते अन्तरम् । तत् कथं कथय ।

गन्धर्वः – सङ्गीतचेतनानेचतनं सर्वं जगत् स्वर्गं नयति । इयं मदिरापि तथैव करोति ।

षण्मुखः – अद्यरात्रौ हेलायाः नाट्यं भविष्यति इति वृत्तपत्रे प्रसिद्धमासीत् ।

गन्धर्वः – अथ किम् । अहो परमानन्दः यतः मदिरापानं मदवती मधुराधर निसृतगानम्, विलास परिसर्पित लास्यम् । अतः परं किपपेक्ष्यते । इयं पानशाला आनन्दानां निलया प्रतिभाति ।

बालः – भोः इयं वधूका । (इति षण्मुखस्य पुरतः स्थापयति) इदं मदिरा (इति गन्धर्वस्य पुरतः स्थापयति)

(षण्मुखगन्धर्वौ बातिलौ उद्घाट्य चषकयोः स्रावयतः अनन्ततरं किञ्चित् किञ्चित् पिबतः)

गन्धर्वः – अरे बाल पिष्टकमानय ।

षण्मुखः – अरे बाल अपूपमानय ।

बालः – चित्तं भोः आनयामि । (इति गच्छति)

षण्मुखः – शर्मन् सर्वेषां संस्कृतशब्दानां व्युत्पत्तिः विद्यते किम् ?

शर्मा – अयि स्मितमहोदय संस्कृत भाषायां ईदृशी शक्तिः विद्यते या अन्यत्र भाषासु न विद्यते । सुरभाषायां व्युत्पन्नप्रातिपादिकाश्च विद्यन्ते । शक्यतः एकोनशतपर्यन्तं सर्वेषां शब्दानां व्युत्पत्तिः विद्यते । तस्मात् नूतन शब्दसृष्टिम् अपि कर्तुम् अस्यां भाषायां शक्यं भवति । नान्यभारतीयभाषासु तादृशी शक्तिः विद्यते ।

स्मितः – किन्तु इयं प्रवाहिनी देश्या, जनोपयोगी भाषा नहि । इयं न भवति, न भविष्यति ना भूत् इति मे विश्वासः ।

शर्मा – अस्मिन् विषये केषाञ्चन मानवानां भ्रान्तिः विद्यते । यथा आङ्ग्लभाषा सर्वसामान्यभाषा नहि तथा संस्कृतभाषापि नहि । लेखन व्यवहारः उच्चतम व्यवहारः आङ्ग्लभाषायां यथा भवति तथा गीर्वाणभाषायामपि भवति । तदर्थमेव पूर्वं सकलशास्त्रचयम् अस्यां भाषायामेव प्रादुर्भूतम् । आसेतु हिमाचलं सम्पर्कभाषारूपेण संस्कृतं प्रसिद्‌धम् । श्री आदिशङ्करभगवत्पादाः संस्कृतभाषायां सर्वं भारतं जित्वा भारतं सर्वम् एक संस्कृतिसूत्रेण बद्धमिति घोषयामास ।

स्मितः – एकदा अभूत् । अधुना तस्याः भाषायाः उपयोगः कुत्र विद्यते ।

शर्मा – स्मितमहाशय किं वदति भवान् । सर्वेऽपि भारतावनौ गीर्वाणसूक्तीः व्यापारार्थं वाणिज्यार्थं प्रयुञ्जते अधुना ।

स्मितः –दृष्ठान्तं देहि तत्कथम् ।

शर्मा – सर्वे संस्कृतभाषा मृतभाषा इति कथयन्ति किन्तु सर्वेषां नामानि संस्कृत नामानि निक्षिपन्ति तैः नामभिः आह्वयन्ति । रामः, कृष्णः, शिवः, गिरिजा, रमा, सुषमा, वासन्ती इत्यादयः । अपिच भारतवर्षे सर्वेवाराः सर्वाणि नक्षत्राणि सर्वाः तिथयः सर्वेमासाः पूजा अभिषेकादयः विवाह उपनयन इत्यादयः अपरकर्म इत्यादयः वर्षश्राद्धादयः सुरेभाषायामेव कुर्वन्ति । सर्वोऽपि मानवः ज्ञात्वा उत अज्ञात्वा स्वीय भाषणे विंशति अंशः गीर्वाणीमेव भाषतेति विदितमेव ।

स्मितः – वाणिज्ये कथम् उपयुञ्जते ।

शर्मा – श्रृण्वन्तु, समानी वः आकूतिः सामाजिक समारम्भेषु । शीलवृत्त फलाविद्या इति विश्वविद्यालयः भवनेषु । योगक्षोमं वहाम्यहम् इति विमाकार्यालयेषु, अक्षय्यं ते भविष्यतीति व्याङ्कु सौधेषु, अमृतन्तु विद्या इति सर्वत्र सर्व भाषणेषु गीर्वाणमेव सुरभाषा द्वेषिणः अपि यथा सन्दर्भम् उपयोजयन्ति बहिरागत्य तां द्विषति ।

षण्मुखः – अयि भोः भवन्तौ संस्कृतं संस्कृतं इति आवयोः शिरोवेदनां कारयतः । किमर्थं भवन्तौ शनैः शनैः पीत्वा शान्तमार्गेण न गच्छथः । एवं भाषणेन कोऽपयोगः ।

स्मितः – कोऽस्ति भवान् आवां निरोद्धुम् । इयं पानशाला अत्र सर्वमपि चलिष्यति । भवान् यथेच्छं पीत्वा शान्तमार्गेण गच्छतु । आवयोः वाक् स्वातन्त्र्यं मा निरोधयतु भवान् ।

षण्मुखः – क्षमस्व प्रमादः कृतः ।

स्मितः – समीचीनम् ।

शर्मा – अयि भोः । (इति षण्मुखं विलोक्य) त्वमपि भण यत्किमपि गीर्वाणमुद्दिश्य । तवापि वाक्‌स्वातन्त्र्यं विद्यते । विस्मृतोऽस्मि तव नाम प्रष्टुम् । किं ते नाम ।

षण्मुखः – मम नामः षण्मुखः ।

शर्मा – षण्मुखः । त्वं दाक्षिणात्यः असि ।

षण्मुखः – अहं दाक्षिणात्यः । कथं त्वया ज्ञातम् ।

शर्मा – नाम श्रवणेन तस्य प्रादेशिकता ज्ञायते । (स्मितम् उद्दिश्य) श्रुणोतु भवान् । अस्य नाम षण्मुखः ।

स्मितः – हां शृतम् अस्य नाम षण्मुखः । (That means six faces)

शर्मा – भोः षण्मुख तव सख्युः नाम किम् ?

षण्मुखः – अस्य नाम गन्धर्वः अयं गायकः ।

शर्मा – भवान् कः अस्ति ।

षण्मुख – अहं तमिलपण्डितः ।

शर्मा – भवान् तमिलपण्डितः (गन्धर्वं विलोक्य) अयं गायनकलानिष्णातः गन्धर्वः । (स्मितं विलोक्य) अयि भोः श्रुणोतु भवान् तव नाम स्मितः अमुयोः नामानि षण्मुख गन्धर्वौ । मम नाम हरिहर शर्मा । अस्याः शालायाः नाम पानशाला । अत्र सर्वेषां नामानि संस्कृतानि । संस्कृतभाषा जीवन्तीभाषा नहि किम् ।

षण्मुखः – अयि भोः शर्मन् । तथा नहि ।

शर्मा – तवाभिप्रायः कः ?

षण्मुखः – मम तमिलभाषायाम् आरुमुगम् विद्यते तन्नामवाचकं विलोक्य सुरवाणी पण्डिताः षण्मुखः इति शब्दम् अस्रुजन् । प्रथमतः बहुकालात् प्राक् भारतवर्षे तमिलभाषा अवर्तत । सर्वेपि तमिलीयाः एव ।

स्मितः – षण्मुख तवापि वाक् स्वातन्त्र्यं विद्यते तत् कथं भवति त्वं विस्तारय ।

षण्मुखः – यदा आर्याः उत्तरध्रुवप्रान्तात् भारतम् आगताः तदा ते भारते विद्यमान भारतीयैः प्रयुध्य तान् दक्षिणापथं द्रावयामासुः । तस्मात् ते द्रावितः अभूवन् । तदेव अनन्तरं Dravidian बभूव ।

स्मितः – त्वदुदीरितं सत्यम् । ततस्ततः ।

षण्मुखः – तस्मात् भारतवर्षे सर्वासु भाषासु तमिलभाषा आद्या भारतीयभाषा । अस्मदीय कानिचन अक्षराणि रे ल इत्यादीनि नागपूजा इत्यादि शब्दान् आर्याः संस्कृतभाषायां समावेष्टयन् ।

शर्मा – अयि भोः षण्मुख तव तमिलभाषायां सेन्दमिल् कोडदमिल् इति द्वे शाखे स्तः । तत्र प्रथम शाखायां संस्कृतशब्दाः विंशतिः शतं विद्यन्ते ।

षण्मुखः – केवलकथने उपयोगः नास्ति । दर्शय शब्दान् ।

शर्मा – (किञ्चित् विचार्य) मणिमेखला काव्यम् । अक्करै, नडनं, करुणाकरन्, गणेशन् इत्यादि शब्दाः तत्समाः विद्यन्ते । अपिच शीग्रं, अय्य जलं इत्यादि शब्दाः बहवः सन्ति । नकापि भाषा विद्यते संस्कृतसबन्धं विना ।

षण्मुखः – एते सर्वे शब्दाः तमिलशब्दाः । एतान् शब्दान् आर्याः संस्कृतभाषायां समावेष्टनम् अकुर्वन् इति अहं कथयामि ।

शर्मा – भवान् असम्बद्धम् अशास्त्रीयं कथयति । सुरभाषा भारतदेशाय यां संस्कृतीं दत्तवती तद्वत् भारतदेशे विद्यमानाः सर्वाःभाषाः मिलित्वा अपि तादृशीं संस्कृतिं भारतवर्षस्य समैक्यता प्रतिपादनाय न प्रभवन्ति । यदि प्रयत्नः क्रियते सः प्रयत्नः विफलः भविष्यति । कालक्रमेण विषयमेतत् सर्वेषाम् अवगतं भविष्यति । विना संस्कृतेन भारतदेशस्य अस्तित्वं न भवति ।

गन्धर्वः – शर्मन् सर्वमपि भारतेतिहासं पाश्चात्याः असम्बद्धम् असत्यं लिलिखुः । विचार्यमाणे सङ्गीतंविना प्रपञ्चमेव नास्ति । सर्वं नादमयं जगत् । नादः ब्रह्मा । केवलं सप्त स्वराणां तेषां ध्वनिविभेदानां च समवायेन अर्थात् अल्पाक्षरैः सङ्गीतशास्त्रम् अनन्तं भूत्वा जगति सर्वप्राणिनां हृदयङ्गमं भूत्वा चित्तचोरकं चित्ताकर्षकं भवति । तत् सङ्गीतमेव भारतसमैक्यतायाः उत प्रपञ्चमानव सौहार्द्रतायाः निदानं भवति । तस्मात् यः सङ्गीतं न जानाति सः पशुप्रायः भवति ।

स्मितः – (विहस्य) गन्धर्व भवान् किं वदति । सर्वोऽपि स्वमतानुकूलं प्रपञ्चं परिवर्तितुं प्रयतते । तथा मा कुर्वन्तु । यत् अहं कथयामि तत् भवन्तः विचारयन्तु । पश्य ।
आङ्ग्लत्वम् आङ्ग्ल भाषाच । सर्वत्रैक्यं विधीयते ।
तस्मादान्ङ्ग्लीय भावेन । वर्तितव्यं सदा भुवि ।

इति मे मतिः ।

शर्मा – भारतवर्षे भारतीयाः पाश्चात्यान् अनुकुर्वन्ति सर्वविषयेषु । तेषां सा एका व्याथिः बभूव । सा व्याथिः चिकित्सानर्हा । मरणानन्तरमेव सा व्याथिः शममेष्यति । सर्वोऽपि देशभक्तिहीनः सुखलम्पटोभूत्वा अमूल्य राष्ट्रीयपरम्परां नाशयन् जीवति । विना च सुरभारतीज्ञानं भारतीय परम्परा अवगाहनानर्हा । भुविविद्यमान सकल भाषा पारङ्गतोऽपि तस्य भारतीयम् अन्तरात्मा नावगाहनं भवति । तस्य देशभक्तिः न सञ्जायते ।

स्मितः – तत् कथम् ।

शर्मा – विना च रामायण महाभारत उपनिषदादीनाम्पठनं कालिदास महाकविप्रभृतीनाङ्कवनं विनैव शब्दशास्त्र नाट्यशास्त्र दर्शन वेदाङ्गानां परिचयेन देशभक्तिः न भवति । देशस्य संस्कृतिः वैभवः परम्परादयः देशीय भाषासु प्रतिबिम्बिताः भवन्ति । भारतीय प्राचीनपरम्परा समाजस्थितिः सकल शास्त्राणां सृष्टिः वेदोपनिषदाम् अपिच आयुर्वेद, गणित, नाट्य, खगोल शास्त्रादीनां शब्दशास्त्र मीमांसादि शास्त्राणां सृष्टिः सुरभाषायामेव बभूव नान्यभाषासु । तस्मात् इयं भाषा भारतीयपरम्परा प्रतीका अभूत्, भवति भविष्यति । केचन विध्वंसक भावना भूषिताः नेतारं मन्यमानाः विना संस्कृत भाषां, संस्कृतिं च भारत देशस्य समैक्यतां प्रतिपादयितुं साधयितुं च प्रयतन्ते तेषां प्रयत्नः विफलः भविष्यति ।

षण्मुखः – विनाच संस्कृतज्ञानं सर्वाणि मम तमिलभाषायाम् अहं पठितुं समर्थोऽस्मि ।

शर्मा – प्रान्तीयभाषाः सर्वाः संस्कृतभाषायां विद्यमान काव्य नटकादि अनुवादेन परिपुष्टिङ्गताः । किन्तु वेदैः सर्वोऽपनिषद्भिः ब्राह्मणैः पुराणैः अन्य तन्त्रविद्याभिः न परिपुष्टिङ्गताः । तस्मात् ते राष्ट्रभाषापदम् आरोढुम् अशक्ताः भवन्ति ।

स्मितः – आङ्ग्लभाषायां शब्दसम्पत्तिः बहुलाविद्यते तस्मात् सर्व शास्त्रोपयोगिनी आन्ङ्ग्ल भाषा भारतीयानां राष्ट्रभाषा भवितुमर्हति ।

शर्मा – आङ्ग्लभाषा परदेशीया । सा भाषा भारतीय भाषा कथं भविष्यति । तस्यां भाषायां भारताय जीवनं न दृश्यते । सा भाषा व्यवहारयोग्या भवति । न किन्तु भारतीय संस्कृति प्रतिबिम्बिता भविष्यति ।

गन्धर्वः – अयि महाशयाः भाषाविषये स्पर्धा मा भूयात् । सङ्गीतन्तु वस्तुतः सहजतया प्रकृतिभाषा तस्मात् जगत्भाषा सङ्गीतम् ।

शर्मा – अयि गन्धर्व । तव भाषणे विचारसरणिः न सन्दृश्यते । पश्य सङ्गीते भाषा न विद्यते भाषितुम् । तस्मिन् केवलं सुस्वराणां सङ्गमः विद्यते । सः स्वरसङ्गमः संस्कृतभाषया भूषितः सुमधुरं सङ्गीतं भवति भाषितुं योग्यं गातुं सुकरं भवति । गायकः संस्कृतभाषाज्ञानं विना गातुं समर्थः न भवति ।

स्मितः – तत् कथं भोः । गानस्य संस्कृतसम्बन्धः कुतः ? सत्यं सर्वं भवान् सङ्कृतस्य अनुसन्धानं करोति ।

शर्मा – अहं न किमपि अनुसन्धानं करोमि । सः संस्कृतभाषायाः स्वभावः । सङ्गीतस्य व्युत्पत्तिः सम्यक् गीयते इति सङ्गीतम् । सङ्गीते अनेके रागाः सन्ति । सर्वेषां रागानां नामानि संस्कृत शब्दाः एव ।

स्मितः – भवतु नाम गायने संस्कृतस्यावश्यकता । अरे बाल ।

बालः – अहमस्मि भोः । किमपेक्ष्यते ।

स्मितः – एक चषकं वधूकामानय (शर्माणं विलोक्य) भवद्भ्यः किं रोचते :

शर्मा – अत्र मे रोचकानि न सन्ति । केवलं सोडा विद्यते ।

बालः – कोकाकोला विद्यते भोः ।

शर्मा – प्रथमतः न विद्यते इति उक्तवान् अधुना कोकाकोला कथं विद्यते ।

बालः – अधुना नवीन वस्तुचयं समागतं भोः ।

शर्मा – अपि च किं किं विद्यते ।

बालः – आम्ररसः विद्यते नारङ्गरसः विद्यते ।

शर्मा – आम्र रसमानय ।

बासः – यथाज्ञापयति । (इति गच्छति)

शर्मा – शृण्वन्तु, हंसध्वनिरिति, शङ्कराभरणं इति, उमा भरणमिति, षण्मुखप्रियेति कल्याणीति, उदयचन्द्रिकेति, कलहन्त इति, चारुकेशीति, अमृतवर्षिणी, जलार्णवम्, मेघदूतम् इति अनेकानि नामानि औडव षाडव शुद्ध बादि, संवादि इत्येषां शब्दानाम् अर्थज्ञानं विना कैशिकी, काकली, निषाद, कोमल, कम्पित इत्यादि शब्दानां च अवगाहनं विना अर्थज्ञानेन विना सङ्गीतगायनं गार्दभ स्वरमेव भवति । यदि रागस्य अर्थः ज्ञायते तर्हि आनन्दः द्विगुणीकृतः भवति ।

गन्धर्वः – शर्मन् भवता यत् प्रतिपादितं तत् सत्यमिति मे प्रतिभाति । विना संस्कृतवाण्या कण्ठगत स्वरमपि सुष्टु नोच्चारितं भवति । संस्कृतभाषा मानवं संस्कृतवन्तं करिष्यति तत् सत्यम् । अधुना अवगतं मया ।

शर्मा – गन्धर्व ।

सङ्गीतमपि साहित्यम् । सरस्वत्याः कुचद्वयम् ।
एकमापात मधुरम् । अन्यदालोचनामृतम् ॥

गन्धर्वः – साधु शर्मन् साधु त्वामहं वन्दे । (इति हस्ताबुद्यम्य नमस्कारं करोति)

स्मितः – शर्मन् भवान् सर्व विषयस्यापि दृष्टान्तं दर्शयति तदतीव हृदयङ्गमं भवति मे । कथं शक्यते भवता एवं कर्तुंम ।

शर्मा – संस्कृताभ्यासेन मानवस्य सर्वभाषाणां स्वरूपः ज्ञायते तादृशी शक्तिः तस्याः भाषायाः सहजालङ्कारप्राया भवति । न तु मम ।

षण्मुखः – अयि शर्मन् द्राविडभाषा अपि संस्कृत भवः इति भवान् कथयति कथम् ।

शर्मा – द्रविडभाषा, तमिलभाषा संस्कृतभाषा इति नाहं कथयामि । किन्त तस्याः अपि संस्कृत सम्बन्धः विस्तारेण प्राचुर्येण विद्यतेति कथयामि । विना च वेदवाङ्मय सम्बन्धः भाषाः, परिपुष्टिं न प्राप्नुवन्ति । तस्मात् सर्वासां भारतीय भाषाणां तज्ञानां विना संस्कृतभाषाज्ञानं तेषाम् । तासु भाषासु पाण्डित्यं न भवतीति मे अभिप्रायः ।

बालः – अयि भोः इयं वधूका । (इति स्मिताय ददाति) अयम् आम्ररसः । (इति शर्मणे ददाति)

व्यवस्थापकः – अयि भोः पायिनः भोङ्क्तारः श्रृण्वन्तु घोषणाम् । वयम् अधुना हेला सुन्दर्याः मनोरञ्जकनाट्यं दर्शयिष्यामः । सावधानतया युष्मदीय आसनेषु उपविशन्तु भवन्तः नमांसि ।

(पिशाच सङ्गीतवत् वाद्यविशेषणां कलकलः तस्मिन् कलकले पैशाचीयकण्ठस्वरः कामतृष्णां प्रजनयन् अस्ति हेलानाट्यं करोति)

पिब पिब पिब । मधु मधु मधु
घूर्ण घूर्ण घूर्ण । सीधु सीधु सीधु । पत पत पत ध्रु.

आलिङ्गनं देहि रे । अधरपानं कुरु रे ।
नखक्षतं कुरु रे । शुक्रच्मुतिं कुरुरे 1

देहि देहि बाहुबन्धनम् । दश दश पल्लवाधरम् ।
आरोहरो नितम्बम् । चुम्ब चुम्ब रागकपोलम् । 2

पश्य पश्य मे कुचभारम् । स्पर्श स्पर्श मे कचभारम् ।
पश्य पश्य मे ऊरुभारम् । भ्रम भ्रम मे पादपीठम् ॥ 3

(इति सा हेला नृत्यन्ती सर्वेषां सकाशं समागच्छति चेष्टादिकं करोति । सर्वे करतल ध्वनिं कुर्वन्ति, कश्चन मुखवेणु नादयति)

स्मितः – हेलानाट्यम् अतीव सुन्दरं वर्तते ।

शर्मा – (विहस्य) एतत् पिशाचगानं पिशाचनाट्यम् अतीव जुगुण्साकारकं शिरोवेदना मूलभूतम् ।

षण्मुखः – शर्मन् त्वम् अतीव प्राचीनभावनुयायी पाषण्डः । भवान् जानाति खण्डनं न तु मण्डनम् । अधुना अहं ज्ञातोऽस्मि ।

शर्मा – अयि भोः मित्रवराः अत्र अस्मिन् नाट्ये आङ्गिकाहार्य वाचकाभिनयानां सन्निवेशः नास्ति कथम् इदं नाट्यं भवति । युष्मदीयमते अर्थनग्नसुन्दरी यदि नर्तिष्यति तर्हि तत् नाट्यं भवति । मम मते इदं नाट्यं नहि इदं केवलं कामपिशाचस्य नाट्यम् । एषा कामुकी रुपाजीवा न तु नर्तकी । नात्र विद्यते ममलेशोऽपि आदरः । एवं इदं नाट्यमिति प्रदर्शयित्वा व्यापारिणः कामुकाः धनं लभन्ते । अनया पद्धत्या एते कामुकाः व्यापारिणः भारतीयजीवनं नाशयन्ति । जनाः अविचार्य एतादृशं विलोक्य कामलोलुपाः भूत्वा कुटुम्बं नाशयन्ति । देशः सङ्करः भवति कामुकभावसम्पन्नः भवति । धिक् आधुनिकता जीवनम् ।

स्मितः – भवतुनाम का हानिः । जनाः सुखमनुभवन्ति आनन्दमनुभवन्ति । कलानाम् अन्ततः आनन्ददायित्वमेव परमावधिः खलु ।

शर्माः – एवं यदिस्यात् भारतीयपरम्परायाः हानिः भविष्यति । कालक्रमेण देशे सर्वे कामुकाः व्यापारिणः भविष्यन्ति । देशः अल्पहिन्दुसंयुक्तः भविष्यति यत्र अधिक धार्मिकाणां भवितुं शक्यते । तस्मात् भारतीय कला संस्कृति रक्षणं भारतीयानां कर्तव्यमिति मे मनीषा । एतादृश कामपरीतव्यापारः क्षुल्लक नाट्यकला च देशं नाशयिष्यतः । यत्र कालासु दिव्यत्वं न दृश्यते सा कला नहि भवतीति भारतीयानां साम्प्रदायः । तस्मात् सर्वत्र भक्तिभावं मेलियित्वा ते संस्कृतिरक्षणमकुर्वन् । एतादृशी पवित्रभावना क्षुल्लकानाम् अल्पकानां देशद्रोहिणां न भवति ।

स्मितः – एतत् सर्वं नाट्यशास्त्रे भागः एव ।

शर्मा – भवन्तः अन्यदेशीयाः । संस्कृतं भवन्तः जानन्ति किन्तु तत्र आत्मा भवद्भिः न ज्ञातः । यूयम् अर्थात् भारतभिन्नदेशीयाः । प्रथमतः आरभ्य व्यापारिणः एव । भौतिकादन्यत् विद्यते न किमपि । पश्यत एक गानेन यदि सङ्गीतं भवति, एक प्लवनेन नाट्यं भवति सर्वमपि शास्त्रं निरर्थकं भवति । एतत् सर्वम् अल्पज्ञानाम्मतम् । तत् मे न रोचते ।

स्मितः – नाहम् अवगतोऽस्मि का ते भावना इति ।

शर्माः – प्राचीन भारतीयसंस्कृतिः सकलविद्यानां समवायः । सः एव आनन्दस्य हेतुः भवति ।

षण्मुखः – भवादृशाः विरलाः लोके ।

शर्मा – एतादृशी भावनाभूषिताः बहवः सन्ति । यूयं द्रष्टुम् अशक्ताः अभवन् ।

स्मितः – आन्ङ्गलभाषां विना केवलं संस्कृतपठनेन विश्वव्याप्तभावना न भवति ।

शर्माः – विश्वव्याप्तभावना संस्कृतपठनेन केवलं भवति नत्वन्यथा ।

गन्धर्वः – तत् कथम् ।

शर्मा – संस्कृतात्मा सर्वत्र आत्मानमेव पश्यति । अन्तर्बहिश्च तत् सर्व व्याप्यनारायणस्थितः । एतादृशी भावना गीर्वाणभाषापठनेन भविष्यति नत्वन्यथा । आन्ङ्गलभाषा विश्वभाषासु एका ।

स्मितः – अन्या विश्वभाषा विद्यते किम् ?

शर्मा – विश्वभाषा केवलं सुरभाषा एव भवति । आङ्ग्लभाषातु व्यवहारभाषा भवति । भारतीयसंस्कृति अवगाहनाय सङ्गीत नाट्य साहित्य इत्यादि ललितकलानाम् आनन्दानुभवाय, सकल शास्त्रज्ञान सम्पादनाय गीर्वाणभाषा ज्ञानस्य आवश्यकता भवति । जागतिक विषय ज्ञानार्थम् आङ्ग्लभाषा अत्यावश्यकी । तस्मात् एते द्वे भाषे दृगिन्द्रियसमाने । प्रत्येक मानवस्य एते द्वे भाषे पर्याप्ते भवतः ।

षण्मुखः – शर्मन् भारतवर्षे बहवः पदवीधराः विश्वविद्यालय प्रमाणपत्रधारकाः विभिन्न शाखासु निष्णाताः वर्तन्ते । किं ते पण्डिताः न भवन्ति ।

शर्मा – पाण्डित्यं यदि प्रमाणपत्रेण भवति तर्हि भारते सर्व शाखासु विभिन्नविषयेषु विद्यमानाः सर्वे पण्डिताः । भवन्त्येवा तदसम्भवम् । वयं सर्वे प्रमाणपत्रधारकाः उदरपोषणार्थम् । किन्तु एषा सुशिक्षणा न भवति । या विद्या देशसंस्कृतिमुद्दिश्य न कथयति सा विद्या निरर्थका । सा विद्या न भवति । ते पौराः देशभक्ताः न भविष्यन्ति संस्कृति प्रेमिकाश्च न भवन्ति ।

स्मितः – शर्मन् भवता प्रतिपादितम् अङ्गी करोमि । अद्य प्रभृति अहमपि गीर्वाणं सम्यक् पठित्वा भारतीयसंस्कृतिम् अवगाहनं कर्तुं प्रयतिष्ये । देशभाषया देशीय जीवनम् अवगाहितुं शक्यते ।

गन्धर्वः – तस्मात् देशभाषां हिन्दीमकुर्वन् ।

शर्मा – समस्तराष्ट्रस्य एका राष्ट्रभाषा अत्यावशकी विद्यते इति मत्वा, अपि च हिन्दीभाषा सर्वेषामपि सुलभतया अवगाहनं भविष्यतीति राषट्रभाषास्थानम् अयच्छन् । किन्तु राष्ट्रस्य परम्परा जीवनं तस्यां भाषायां नास्ति । भारतीय सांस्कृतिकभाषा गीर्वाणभाषा । भारतीय सामान्य जनानां सम्पर्कभाषा हिन्दी भाषा ।

स्मितः – प्रपञ्चविज्ञानविषय स्वीकारार्थम् आङ्गलभाषा ।

षण्मुखः – सुलभपद्धत्या सत्वरावगाहनाय मातृभाषाज्ञानम् आवश्यकं भवति ।

स्मितः – संहत्य चतस्त्रः भाषाः अवश्यं पठनीयाः सन्ति ।

गन्धर्वः – बालकानाम् अतीव भारहेतुः भवति एषा पद्धतिः ।

शर्मा – तस्मात् अहं वच्मि सर्वत्र भारतवर्षे प्राथमिक शिक्षणा मातृभाषायां माध्यमिकशिक्षणादारभ्य आङ्ग्ल गीर्वाण भाषयोः शिक्षणा भवितव्या इति मे मतिः ।

स्मितः – संस्कृताग्ल भाषे अनिवार्यत्वेन विश्वविद्यालय पर्यन्तम् ?

शर्मा – हां तावत्पर्यन्तम् ।

स्मितः – शर्मन् तव कल्पना सम्यक् विद्यते । मध्ये हिन्दी भाषामानीय भाषासमस्यां जटिलाम् अकुर्वन् ।

शर्मा – प्रान्तीयभाषापेक्ष्या प्रादोशिकमानुषापेक्ष्या भारतीयः प्रथमः । भारतीयभाषा प्रथमा । तस्मात् भारतराष्ट्र जीवनार्थं संस्कृतमावश्यकम् ।

षण्मुखः – शर्मन् भवान् मूर्तीभूत भारतीयसंस्कृतिरिवाभाति ।

शर्मा – अहं केवलं देशभक्तः देशं देशसंस्कृतिं, संस्कृतञ्च रक्षयितुम् इच्छामि ।

स्मितः – अरे बाल ।

बालः – एषोऽस्मि ।

स्मितः – एकं गोल्हु फ्लाक्‌मानय ।

बालः – हां भोः ।

स्मितः – अधुना नव घण्टावादन समयः ।

शर्मा – घण्टात्रयम् अत्रैव कालयापनं कृतम् अस्माभिः ।

(आकाशवाणी श्रूयते वार्ताः । इयम् आकाशवाणीवार्ताः श्रूयन्तां प्रवाचिका विजयश्रीः एकोन विंशत्युत्तर चतुरशीति संवत्सरादारभ्य भारतराष्ट्रभाषा संस्कृतभाषा भविष्यतीति भारतशासनस्यादेशः । तदाप्रभृति सर्वासु शालासु विद्यालयेषु विश्वविद्यालयेषु सर्व शाखासु गीर्वाण प्रश्नपत्रम् अनिवार्यत्वेन स्थापनीयं इति शासनस्यादेशः ।)

स्मितः – शर्मन् अहं त्वाम् अभिनन्दामि तव स्वप्नः फलितः ।

सर्वे – सरकारः जिन्दाबाद् । शरदां शतं जीवेत् ।

शर्मा – (कुर्च्यां निश्चेष्टः उपविष्टः ।)

षण्मुखः – किं भोः शर्मन् किमर्थं मौनमवलम्बसे । एतावत्पर्यन्तं भाषणं कुर्वन् अधुना स्तब्धोऽसि ।

गन्धर्वः – एतत् आनन्दस्य पराकाष्टालक्षणम् ।

शर्मा – “रात्रिर्गमिष्यति भविष्यति सुप्रभातम्” ।

स्मितः – शर्मन् नीचैर्गच्छत्युपरिच दशा चक्रनेमि क्रमेण । भवान् अस्माकं सर्वेषा चन्दनं कुरु ।

शर्मा – अरे बाल सर्वेषां हिमपुटिकाम् आनय ।

बालः – हाम् आनयेयम् । (इति गच्छति)

व्यवस्थापकः – अयि भोः मित्रोत्तमाः अधुना सार्धनवघण्टापरिमितकालः समासन्नः भवति । पानशालायाः कवाटबन्धनं विधीयते । अद्य अस्मदीय पानशाला चारित्र्यात्मक सङ्घटना भूषिता अस्ति । भारतीय राष्ट्रभाषा संस्कृतभाषा सञ्जाता । इयं वार्ता अत्र पानशालायां शृतम् अस्माभिस्सर्वैरपि, तस्मात् परमानन्दः समजनि । इतःपरम् इयं पानशाला पानशाला एव भविष्यति विनाच मादकतापेयम् । श्वः प्रभृति अत्र केवलं फलरसानां पेयं लभिष्यति । नत्वन्यत् । नाट्यन्तु भरतनाट्यं कूचिपूडिनाट्यम् इत्यादि भारतीयपद्धत्या विराजमान नाट्यादिकं भविष्यति । शुभरात्रिः ।

गीतम् (भैरवीरागे)

शर्मा – भुवि मे तिष्ठतु निर्मल जननी गीर्वाणी
कमलासन वदन प्रसारित परिमल सरणी ध्रु.

वेद चतुष्टय वर्णित पावन रमणि
स्फाटिक निर्मल विलसित वीणापाणी
निर्जर वल्लभ त्रिदिवत्शासन पूतावाणी
नूनं भवति च शाश्वत भारत वाणी 1

अनन्तोपनिषद् ब्राह्मण पूर्णा सुरवाणी
शीतल नगसेतु विशाले भुवि मञ्जुल राज्ञी
प्राचेतस कविवर कीर्तित रामायण चित्रितवाणी
पाराशरमुनि विस्तारित भारत गीता वाणी 2

पतञ्जलि पाणिनि वररुचि कात्यायन संस्कृतवाणी
षडङ्गाकुल पातञ्जल योगायुर्वेदावृतस्वर्वाणि
भास्कर मिहिर कुलार्चितागणित गणिता वाणी
निगमागम पदचय पूरित पारम्पर्येणागतावाणी 3

भास कालिदास मायूरकदण्डि माघसम्पूजित चरणा
भवभूति बाण मुरारि भारवि कीर्तित सुस्थिर चरिता
भरत प्रशिक्षित लीला हेवा नाट्यान्ञित विभ्रमरूपा
जगन्नाथानन्द मम्मट विश्वनाथ भूषित रम्यालङ्कारा 4

लोके भाषा संवर्धन मूलापयोधररूपा जननी
भारत गौरव जीवन संस्कृति विद्यां सन्दायिनी
शङ्कर रामानुज मध्वोदित वेदान्तावृत जीवन शालिनी
विलसतु मे देशेऽच्युत भारतवाणी गीर्वाणी 5

मुनिजन पदगण जीर्णित देहा मे वाणी
अस्थिर रूपास्थिर भारत जीवन सञ्जीविनी
अपगत गौरव जीवन दायिनी मधुसुरवाणी
नूनं भवति च भारत शासन वाणी नान्यावाणी 6

॥ जय भारत ॥

(यवनिका पतति)

***************************************************

]