न स्त्री स्वातन्त्र्यमर्हति

[[न स्त्री स्वातन्त्र्यमर्हति Source: EB]]

[

न स्त्री स्वातन्त्र्यमर्हति

(व्यवस्थापकः यवनिकापुरतः आगत्य ध्वनिग्रहणयन्त्रं हस्ते गृहीत्वा)

अयि भोः प्रेक्षकाः अद्य वयं महाकविना गीर्वाणगेयचक्रवर्तिना सप्तविंशतिनाटकप्रणेत्रा पण्डित परीक्षित् शर्मणा विरचितं “न स्त्री स्वातन्त्र्य मर्हति” इति नाटकं प्रदर्शयितुम् उत्सुकास्मः । अयं कविः इतःपूर्वं ललितगीतालहरी इति गेयकाव्यं, विंशतिसर्गात्मकं यशोधरा महाकाव्यं, एकोत्तरशत गीतात्मक अक्षयगीतरामायणम् इत्यादिकं काव्यसन्तानम् उत्पाद्य गीर्वाणप्रपञ्चे प्रथितयशाः अभवत् । समाजे समकालीनाः प्रतिभा व्युत्पत्तिरहिताः केचन पण्डितं मन्यमानाः समकालीन प्रतिभान्वितं महाकविं विलोक्य ईर्ष्याऽसूयाभ्यां परिवेष्टिताः तस्य कवेः नामापि उच्चारयितुं दुराभिमानेन विचेष्टमानाः भवन्ति । सहजेयं प्रवृत्तिः परम्परागता भवति । समाजपरिवर्तनोन्मुखाः केचन नायकान् मनमानाः आत्मानां मान्यताप्राप्त्यर्थं विपरीतार्थान् अस्य वाक्यस्य परिकल्प्य स्मृतिकर्तारं मनुं तिरस्कृत्य, समाजे स्वोपभोगार्थं, स्त्री स्वातन्त्र्यमर्हति इति घोषयन्ति । तानुद्दिश्य अयं कविः तेषां बुद्धिहीनतां दर्शयन् मनोः ऋते उत्तमः धर्मशास्त्रकर्ता एतावत्पर्यन्तं जगत्यां नोद्भूतः इति दर्शयन् न स्त्री स्वातन्त्र्यमर्हतितीत्यस्य वाक्यस्य अर्थः कियत्पर्यन्तं परिमितः इति दर्शयन् एतन्नाटकं लिलेख । कथम् इमं भावम् अयं कविः पात्रैः संसूचयमास भवन्तः विदाङ्कुर्वन्तु । नमांसि । (इति नमस्कृत्य अन्तःगच्छति)

(यवनिका अपसार्यते)

(ततः प्रविशति धौतपरिधानमण्डितः उत्तरीयेन भूषितः शिखायज्ञोपवीतभासुरः विभूति समलङ्कृतः हस्ते मनुस्मृतिं धृत्वा न्यायाधीशः चतुर्वेदी । तत्रैव एकस्मिन् दिग्विभागे तस्य पुत्री सुषमा कुर्च्याम् उपविश्य टेबुलोपरि लिखन्ती आस्ते । टेबुलायां अनेकानि पुस्तकानि श्रेण्यां निक्षिप्तानि सन्ति । चतुर्वेदी इतस्ततः चरन् मनुस्मृतिं पश्यन् पठति)

पिता रक्षति कौमारे । भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये । न स्त्री स्वातन्त्र्यमर्हति ॥

(अहह) साधुक्तं मनुस्मृतिकारेण । अयं मनुः तस्मिन् समये विद्यमानसमाजपरिस्थितिमनुसृत्य एनं स्मृतिग्रन्थं लिलेख । समाजः सर्वदा परिवर्तते । परिवर्तनानुसारं कतिचित् नवीन परिवर्तनानि कर्तव्यानि सन्ति । किन्तु मनुदूषणेन, मनुस्मृति दाहनेन किं भवति परिवर्तना समाजे? एतादृश कर्मकरणं तेषां मूखत्वं नीचत्वं दर्शयन्तीति कथने न किमपि साहसं भवति । (इति शयन कुर्च्याम् उपविशति)

सुषमा – पितः भवान् न्यायाधीशः । सर्वमपि न्यायशास्त्रं चुलिकीकृतं भवता । सर्वमपि शास्त्रं ते करतलामलकं विद्यते । अद्य मनुस्मृतिपारायणं करोषि कुतः ।

चतुर्वेदी – बाले तव प्रश्नः सार्थः विद्यते । श्रृणु । बहवः मूर्खाः स्त्रीणां स्वातन्त्र्यं परिकल्पनीयम् इति कथयित्वा, स्त्री स्वातन्त्र्यानन्तरं ताः अनुभवितुकामाः इच्छन्ति । तस्मात् मनुं द्विषति । तदहं न सेहे । मनुस्मृतिः सर्वदा पठनीयः विद्यते भारतीयानाम् ।

सुषमा – पितः अस्मदीय विधिविद्यालये अपि प्राध्यापकाः मनुं शतथा स्तुवन्ति । नाहं जाने किमर्थं केचन ब्रुवाः तम् अधः पातयन्ति ।

चतुर्वेदी – येनकेनाप्युपायेन प्रसिद्धः पुरुषोभवेत् । तस्मात् यथाकथञ्चित् स्वीयव्यक्तिमत्वं प्रदर्शयितुं केचन वक्रगत्या प्रयतन्ते । तदेवात्र कारणम् ।

सुषमा – किं पुरास्त्रीणां स्वतन्त्रता नासीत् ?

चतुर्वेदी – प्राचीनभारतवर्षे स्त्रीणां यत् स्वातन्त्र्यम् अवर्तत तत् स्वातन्त्र्यं न कुत्रापि जगति अवर्तत ।

सुषमा – पितः मनुः न स्त्री स्वातन्त्र्यमर्हतीति किमर्थं प्रत्यपादयत् ।

चतुर्वेदी – मनोःकाले समाजे स्त्री अपहरणं स्त्रीमानभङ्गादयः असीमिताः अभवन् । स्त्री यदि गृहं विहाय रथ्यायां गच्छेत् तर्हि पुनः सा गृहमागमिष्यतिवा नवा इति भीतिः अवर्तत । तस्मात् मनुः तत्कालीनं समाजपरिस्थितिमनुसृत्य नियमावलिं लिलेख इति केषाञ्चनमतम् । तदपि मे मतं भवति ।

सुषमा – पितः न स्त्री स्वातन्त्र्यमर्हतीति वाक्यस्य अर्थः कियत् पर्यन्तं समाजे अनुपालनीयः भवति ।

चतुर्वेदी – जगति पुरुषाणामिव स्त्रीणामपि स्वातन्त्र्यं जन्मतः सङ्क्रामितं भवति । किन्तु समाजे कतिपयस्थानेषु कतिपय समयेषु तासां स्वतन्त्रता स्वच्छन्दता मा भूयादिति मे मतिः । जगति सर्वोऽपि नियमानुसारं जीवति । मानवसमाजे विशिष्य स्रीजीवनं नियमान्वितं भवितव्यमिति शास्त्रज्ञानां समाजशास्त्रज्ञानां मतम् ।

सुषमा – कुत्र कस्मिन्‌समये स्त्रीणां स्वच्छन्दता मा भूयात् ।

चतुर्वेदी – व्यभिचारगृहाणां समीपे, गलिच्छसमाजे, पानशालासमीपे रात्रौ च न स्त्री स्वातन्त्र्यमर्हति । तया सार्थं कोऽपि संरक्षकः सम्बन्धीकः सर्वदा रथ्यायां गमनसमये गन्तव्यः भवति । तथा यदि स्यात् अन्यः पशुः इव न व्यवहरिष्यति । तस्मात् मनुः एवं न्यगादीत् ।

सुषमा – यदि स्वच्छन्दचारिणी भवति तर्हि किं भविष्यति?

चतुर्वेदी – किं भवति? अधः पतनं भवति अन्ततः मरणं भवति । यदि स्त्री-पुरुषौ पवित्रकर्मणा वर्त्मना च स्यातां तर्हि तयोः सन्ततिः आरोग्येण नर्तिष्यति । स्वच्छन्दाचरणं स्वच्छन्दवेषभूषाधारणं, अर्धनग्नवेषधारणं, कामोद्दीपनहेतुभूतम् अलङ्करणादिकं, सर्वेषां स्वशरीर स्तनभरनाभीदेशप्रदर्शनम् एकैकं समाजनाशाय हेतुः भवति, किमुत समवायविषये ।

सुषमा – वेषभूषाधारणे अपि न स्त्री स्वातन्त्र्यमर्हति? एतत् कथं पितः ।

चतुर्वेदी – बाले पुरुषप्रकृति विलसिते अस्मिन् प्रपञ्चे सर्वोऽपि प्राणिः निसर्गशक्त्या आकर्षितः भवति । यथा पुष्पं विलोक्य भ्रमरः मकरन्दपानाय सवेगं पुष्पं गच्छति तथा पुरुषः स्त्रिया आकर्षितः भवति । अपिच एकः पशुः एकां पाशवीं स्वजातीयां विलोक्य यथा अनुगच्छति तद्वत् स्त्रियं विलोक्य पुरुषः रिरंसति ।

सुषमा – अयं निसर्गः एव ।

चतुर्वेदी – तथा मानवसमाजे न भवितुमर्हति ।

सुषमा – कुतः ?

चतुर्वेदी – समाजे व्यवहारः नियमबद्धः भवति । यदि नियमोल्लङ्घनं भवति तर्हि समाजपतनमेव भवति । पशूनामिव मानवेष्वपि स्वैरविहारः यदि स्यात् तर्हि समाजः पशुसमाजः भविष्यति । तर्हि वयं रथ्यासु चरितुम् अशक्नुमः भवेम । सर्वत्र कामः रथ्यासु रसो भूत्वा प्रवहिष्यति । तस्मात् मानवसमाजे स्त्रीणां पुरुषाणामिव स्वतन्त्रता न शोभते ।

सुषमा – अत्र वेषभूषासम्बन्धः कुतः ।

चतुर्वेदी – अत्र वेषभूषासम्बन्धः पटुतरः भवति । असीमितं कामोद्दीपनभूतं वेषभूषादिकं भवेत् तर्हि समाजे सर्वत्र अविनीतिः प्रवहयिष्यति । तदा रथ्यासु हत्याचुम्बनालिङ्गनादयः कामक्रीडादिकं विनायासं भविष्यन्ति । तस्मात् अप्रमत्ततया स्त्रीभिः समाजे व्यवहर्तव्यमिति अनुभवज्ञाः अवदन् ।

सुषमा – सर्वदा स्त्रीणां जीवनं पुरुषायत्तं भवितव्यं किम् ?

चतुर्वेदी – हां भवितव्यम् इति मनोः अभिप्रायः ।

सुषमा – तद्वत् पुरुषाणां जीवितमपि वनितायत्तम् इति मे अभिप्रायः ।

चतुर्वेदी – सत्यमेव स्त्रीपुरुषजीवितम् अन्योन्यायत्तं भवति । नरः नार्याः बलवत्तरः । तस्मात् साधारणतः स्त्रियं सङ्कटात् संरक्षिष्येति नरः । स्त्रीपुरुषौ आधाराधेयौ । तस्मात् लोकोक्तिः विद्यते खलु विनाश्रयं न शोभन्ते पण्डिता वनितालताः इति । ततः जीवितान्तं यं कमपि आश्रित्य स्त्री स्वीयजीवितं निर्वाहनीया इति सामाजिकाभ्युदय काङ्क्षिणी अभिप्रायः ।

सुषमा – तस्मात् आवयोः सम्भाषणे निष्कर्षः कः ?

चतुर्वेदी – तस्मात् कारणात् जीवने योग्यम् आश्रयभूतं पुरुषंप्राप्य जीवनयापनं साधुः इति ममाभिप्रायः ।

सुषमा – पितः मम विद्यालयं गन्तव्यं विद्यते । अहं गच्छेयम् । (इति उत्थाय अन्तःगच्छति)

चतुर्वेदी – “प्राप्तेच षोडशोवर्षे पुत्रं मित्रवदाचरेत्” इति पुत्र विषयेऽपि मनुना सत्यमुदीरितम् । अधुना तत् सर्वम् अस्माभिः समाजे अनुभूयते । आधुनिकाः पुत्राः समाजे कुपुत्राः भवन्ति । तैः पितरौ मित्रवत् व्यवहरतः । एतत् सर्वं स्वानुभवेन पूर्वमेव मनुना निगदितमासीत् । देवाय मनवे नमः । (इति नमस्करोति अत्रान्तरे तस्य पत्नी वेदवती चहाचषक हस्ताप्रविश्य)

वेदवती – प्रातःप्रभृति कुमार्यासाकं मनुस्मृतिचर्चां कुर्वन्नास्ते भवान् । किमद्य भवता न्यायालयं न गम्यते ।

चतुर्वेदी – हां किमर्थं न गम्यते ? अवश्यं गम्यते ।

वेदवती – चहां पिबतु । (इति चहां तत्र त्रिपादपीठे निक्षिप्य अन्तःगच्छति)

चतुर्वेदी – (चहां गृहीत्वा पिबति)

(यवनिका पतति)

*******************************************************************

.

द्वितीयं दृश्यम्

(विद्यालयस्य प्रथानाचार्यस्य लेखनकक्षा, तत्र प्राचार्यकेशवः कुर्च्याम् उपविश्य टेबुलोपरि पत्रेषु किमपि लिखन् अस्ति, ततः प्रविशति इतिहासप्राध्यापकः माधवः)

माधवः – अयि भोः अन्तःप्रवेशयम् ।

केशवः – विनावरोधं प्रविशतु ।

माधवः – नमस्ते । (इति नमस्कृत्य समीपस्थ आसने उपविशति)

केशवः – को विशेषः ।

माधवः – अयि भोः कक्ष्यायां युवतीनां व्यवहारः केवलं असभ्यपूर्णः अमर्यादायुतः भवति ।

केशवः – कस्यां कक्ष्यायाम् ।

माधवः – बि.ए.चरमवर्षीय अ, विभाग कक्ष्यायाम् ।

केशवः – तासां नामानि गृहीत्वा तासां पितृभ्यां निवेदयतु पत्ररूपेण वार्तयतु ।

माधवः – प्रतिसप्ताहम् अहं निवेदयामि ।

केशवः – किं प्रत्युत्तरमागतम् ?

माधवः – नहि ।

केशवः – कास्ताः युवत्यः ? तासां नामानि कथयतु ।

माधवः – कक्ष्यायां सर्वाः निर्लज्जायुताः व्यवहरन्ति ।

केशवः – अग्रेसरायाः नाम कथयतु ।

माधवः – अग्रेसरायाः नाम शालिनी ।

केशवः – अहो बत । सा ?

माधवः – किम् ?

केशवः – न किमपि विद्यते । सर्वोपि प्राध्यापकः तामेवोद्दिश्य कथयति यत् सा विद्यालये विषवल्लरी जाता इति ।

माधवः – सा निर्लज्जा अस्ति ।

केशवः – सा किं करोति कक्ष्यायाम् ?

माधवः – सा सर्वान् युवकान् विलोक्य नेत्रस्पन्दनं करोति हावभावादिकं प्रकटयति ।

केशवः – ततस्ततः ।

माधवः – सर्वे युवकाः तामेव पश्यन्तः नेत्रस्पन्दनं कुर्वन्ति हस्तसंज्ञाया तां प्रेरयन्ति ।

केशवः – एतादृशी स्थितिः सर्वविद्यालयेषु सर्वकक्ष्यासु देशे सर्वत्र विद्यते ।

माधवः – एतादृशी स्थितिः भवति सर्वत्रदेशे ? विचार्यमाणे मे शरीरं दहति । सा शालिनी अर्धं निचोलावृता भवति । ऊरुभागपर्यन्तं परकरीं धरति । यदा सा कक्ष्यायां प्रविशति तदा सर्वे युवकाः बहुशीत्कारम् उद्गारञ्च कुर्वन्ति ।

केशवः – सा निर्लज्जा गणिका समाना इति सर्वे प्राध्यापकाः कथयन्ति एकदा भवान् ताम् आहूय साधु व्यवहर्तव्या भवत्या इति बोधयतु ।

माधवः – केषाम्मपि वाक्यं सा न श्रृणोति ।

केशवः – तर्हि तां मत्सकाशं प्रेषयतु ।

माधवः – भवानेव चतुर्थकर्मचारिणा पत्रं कक्ष्यायां प्रेषयतु । तदा अध्यापकः तत् पत्रं कक्ष्यायां पठित्वा तां भवतः सकाशं सम्प्रेष्यति ।

केशवः – हां सम्यक् प्रोक्तं भवता । तथैव कुर्याम् ।

माधवः – गच्छेयमहम् । नमस्ते । (इति नमस्कृत्य गच्छति)

केशवः – (एकस्मिन् पुस्तके पत्रं विलिख्य आह्वानघण्टां ताडयति)
(ततः प्रविशति सागरोनाम चतुर्थ कर्मचारी)

सागरः – (प्रविश्य) नमस्ते । (इति नमस्करोति)

केशवः – हां सागर त्वं पत्रमेतत् गृहीत्वा बि.ए. अन्तिमवर्षीय अकक्ष्यायाम् आध्यापकाय दर्शय । (इति ददाति पुस्तकम्)

सागरः – तथैव भोः । (इति गृहीत्वा गच्छति)

केशवः – (विचारयन्नास्ते)
(ततः चतुर्थकर्मचारी द्वारस्थः रामन्ना प्रविश्य एकं पत्रं प्रथानाचार्याय यच्छति, प्रथानाचार्यः गृहीत्वा पठित्वा)
अरे रामन्ना तां प्रवेशय ।

रामन्ना – तथैव । (इति निर्गच्छति)

केशवः – (लिखन् आस्ते)
(ततः प्रविशति नैकपुस्तकहस्ता अत्यन्तकामुकवेषा अर्धनग्नशरीरा शालिनी)

शालिनी – (प्रविश्य) नमस्ते प्राचार्यवर्य । (इति नमस्करोति)

केशवः – (लिखन् तां दृष्ट्वा) एहि बाले । उपविश ।

शालिनी – (उपविशति)

केशवः – बाले कथं पठसि ।

शालिनी – सम्यक् पठामि । भोः किमाहूतास्मि ।

केशवः – हां भवती आहूतासि ।

शालिनी – को विशेषः ।

केशवः – विद्यते बहुविशेषः ।

शालिनी – कथयतु भवान् ।

केशवः – बाले त्वं विद्यालयं किमर्थमागच्छसि ?

शालिनी – विद्यार्जनाय ।

केशवः – यदि विद्यार्जनाय आगच्छसि तर्हि अयं वेषः अनुचितः । बाले त्वं चीरधारिणी भूत्वा अङ्गीं सम्यक् धृत्वा भारतीयनारीवेषे विद्यालयम् एहि । कक्ष्यायां विनयभूषिता व्यवहर ।

शालिनी – आचार्यवर्य भवदीयोक्तिः तथ्या भवति । किन्तु मे एतादृशवेषे भूषाधिकं रोचते ।

केशवः – त्वं तव गृहे आत्मानम् अलङ्कृत्य यथेच्छं विहर । किन्तु विद्यालये विद्यालयस्य आवरणे एतादृशी स्थितिः अयोग्या अननुरूपा भवति ।

शालिनी – महोदय, अहं प्रयतिष्ये । किन्तु वेषभूषाविषये युष्माकं इयान् आग्रहः कुतः ?

केशवः – वेषभूषा यथास्थिति यथासन्दर्भं राजते । सर्वत्र यथायोग्यं वक्तव्यम् अपि च व्यवहर्तव्यं वर्तते बाले ।

शालिनी – ईदृशी वेषभूषया अनिष्टापत्तिः का ?

केशवः –त्वन्मूलकम् अयं विद्यालयः भवति विद्या-लयः अपि च कामालयः । तथा मा भूयात् इति मे भावना ।

शालिनी – (अवहित्थया) भवन्तः शिक्षकाः सन्ति । विद्यां शिक्षयन्तु छात्रान् । तदेव युष्माकं करणीयं विद्यते । अपि च तदेव शोभतेच । वेषभूषाविषये बोधनं युष्माकम् अयोग्यम् अधिकप्रसङ्गोऽपि असाम्प्रतम् ।

केशवः – बाले साधु समुदीरितं त्वया । त्वं गमिष्यसि ।

शालिनी – (कपोलेहस्तं निक्षिप्य) विनाशकाले विपरीतबुद्धिः । (इति पानीयं पिबति)

(यवनिका पतति)

************************************************************************

.

***तृतीयं दृश्यम्***

(ज्योत्स्नाऽनन्दौ चहां पिबन्तौ वार्तापत्रिकां पश्यन्तौस्तः मुखपृष्ठे शालिनीहत्यां दृष्ट्वा ससम्भ्रमाश्चर्याभ्यां ज्योत्स्नां कथयति आनन्दः)

आनन्दः – ज्योत्स्ने पश्य ।

ज्योत्स्ना – किम् ?

आनन्दः – श्रृणु । विद्यालयं गच्छन्तीं युवतीं शालिनीं दामोदरनाम युवा मोटर्‌सैकलोऽपरिताम् उपावेश्य गृहं नीत्वा तत्र स्वीयागारे तामुपभुच्य अमारयत् इति पोलीसाधिकारिणः अवदन् । तस्मिन् विषये अधिक अन्वेषणा चलत्येव ।

ज्योत्स्ना – छ छ आधुनिकदिवसेषु जनेषु दया, पापभीतिः सभ्यता नम्रताश्च विलुप्ताः सन्ति । किमर्थं छात्राः विद्यालयं गच्छन्ति । तत्र ते किं कुर्वन्ति न कोऽपि विचारयति । एवं विचार्यमाणे मे प्रतिभाति कतिपय वर्षानन्तरं देशः पशुजीवनमयः भविष्यतीति ।

आनन्दः – एतादृशी स्थितिः देशे भविष्यतीति न केनाप्यनुमीयते । अधुना सर्वोऽपि मानवः जीवनमूल्यानि सन्त्यज्य केवल अर्थसम्पादने अपि च सुखानुभवे च निमग्नः भवति । पूर्वं चार्वाकः एकः भवति । किन्तु अस्मिन् काले सर्वेऽपि चार्वाकाः ।

ज्योत्स्ना – भारतस्य ईदृशीस्थितिः पाश्चात्य साम्प्रदायानुकरणेन भवतीति मे मतिः ।

आनन्दः – अनुकरणं दोषः एव । अनुकरणं एकव्याधिरूपेण प्रसृतं भवति । परधर्मम् अनुकरणेन समाजः अकालमरणं प्राप्स्यति । उक्तं खलु परधर्मः भयावहः इति ।

ज्योत्स्ना – आधुनिकचलनचित्रे समाजः दोषयुक्तः भवति । आधुनिक चलनचित्रसृष्टिः केवलम् अर्थं सम्पादनार्थम् अपि च प्रजासु अविनय कामपरीतभावैः हत्याप्रोत्साहनादिकं प्रजनयितुं हेतुपूर्णा भवति ।

आनन्दः – सत्यं भणसि त्वं ज्योत्स्ने । यदि चलनचित्रसृष्टिः स्थगिता भवति प्रजासु कलासृष्टिः पठनशक्तिश्च अधिके भविष्यतः । प्रजाः न्यायमार्गे च व्यवहरिष्यन्ति ।

ज्योत्स्ना – अधुना साधुपरिवर्तना लोकेभवितुम् अशक्या भवति । यतः प्रजाः अविनयमार्गेषु वक्रितपथिषु यथेच्छं चरन्तः सन्ति ।

आनन्दः – अवश्यंसमाजः सन्मार्गङ्गामी भविष्यति । अयं समयः सन्धिसमयः । क्षेमकल्याणकृते निरीक्षा कर्तव्या ।

ज्योत्स्ना – गृहेषु पितरौ स्वीयसन्तानाय न किमपि वर्तनमुद्दिश्य कथयन्ति । तेषां कथयितुमपि समयः नास्ति । बालिकाः युवत्याश्च विद्यालयार्थम् एतस्मात् प्रदेशात् तं प्रदेशं, तस्मात् प्रदेशात् एनं प्रदेशं गच्छन्त्यागच्छन्ति च । गमनागमने मध्येमार्गं किं भवति, गृण्डा उत मवाली उत दादा ताः मध्येमार्गं कथं रुन्धन्ति किं कुर्वन्ति न कोऽपि विचारयति । अस्मिन् विषये पितरावपि दोषिणौ भवतः ।

आनन्दः – युवकाः युवत्याश्च विद्यालयं गच्छन्ति उत कुत्रापि कामालयं गच्छन्ति न कोऽपि चिन्तयति । समाजे पूर्वसमाजरचना पापभीतिः क्रमशिक्षणादयः नष्टाः अभवन् । अधुना समाजः राक्षससमाजः न तु मानवसमाजः भवति ।

ज्योत्स्ना – यत् किमपि कथ्यते चेत् तत् सर्वम् अरण्यरोदनं भवति ।

आनन्दः – सत्यमुक्तं भवत्या न कोऽपि श्रृणोति अस्मदीय भाषणम् ।

ज्योत्स्ना – यदि सर्वोऽपि जनः भारते एवं विचारयिष्यति तर्हि एकस्यां क्षपायां देशः धर्ममार्गपरिवर्तितः भविष्यति ।

आनन्दः – अधुना आवाभ्यां पत्रिकायाम् अत्र अस्मिन् प्रदेशे सम्भूतविषयमुद्दिश्य विचार्यते । एवं देशेसर्वत्र एकस्मिन् दिवसे कतिबलात्काराः भवन्ति, कति युवत्यः म्रियन्ते न कोऽपि जानाति । बत देशसंस्कृतिः पङिकलतां प्राप ।

ज्योत्स्ना – आधुनिक विद्यार्थी विद्यार्थिन्यः केवलं वेषैः विद्यालये कालं यापयन्ति । न ते पठन्ति नियमबद्धाश्च भवन्ति ।

आनन्दः – युवत्यः विद्यालयं गच्छन्त्यः किमर्थं निरवधिसज्जितवेषैः अलङ्कृताः भवन्ति नाहं जाने ।

ज्योत्स्ना – ताः विद्यार्जनाय ।

आनन्दः – विद्यार्जनाय उत सुखार्जनाय नोचेत् धनार्जनाय ।

ज्योत्स्ना – तव भाषणे आन्तर्यं नाहं जानामि ।

आनन्दः – पठनार्थं वेषः कुतः ? सतु सामान्यवेषः नहि, अर्धनग्नवेषः । ताः यं कमपि कामयितुम्, आक्रष्टुम् उत व्यापारार्थं गच्छन्तीति मे ऊहः । समाजे सर्वमपि अस्तव्यस्तं स्त्रीमूलकं भवति ।

ज्योत्स्ना – स्त्रीमूलकम् इति भवन्तः पुरुषाः मन्वते । तदसङ्गतम् । पुरुषाणां विषयेऽपि अविनयः भवति । सर्वत्र समाजः पुरुषमूलकम् अस्ताव्यस्तं भवति इति मे मनीषा ।

आनन्दः – ज्योत्स्ने भवत्याप्रोक्तं सत्यम्भाति मे । पश्य यत्र गुण्डविद्यते तत्र पिपीलिकाः रेखायां गच्छन्ति, गुडमाधुर्यता प्राप्त्यर्थम् । यदि गण्ड न स्यात् तर्हि पिपीलिकारेखायाः अभाव एव ।

ज्योत्स्ना – गुडाभावः न भविष्यति ।

आनन्दः – गुडाभावः न भविष्यति । किन्तु पिपीलिकेभ्यः गुडं परिरक्षणीयं भवति । तावदेव कथने मे सारांशः ।

ज्योत्स्ना – वैराणि स्त्रीमूलकानीति तवाभिप्रायः ।

आनन्दः – हां सत्यमेव “बद्धमूलस्य मूलं हि महद्वैरतरो स्त्रियः” । ट्रायदहनं भारतरामायणादिकं स्त्रीमूलकमेव खलु ।

ज्योत्स्ना – वयं पिपीलिकाः नहि । युक्तायुक्त विचारणायुक्त मानवाः । सर्वं विचार्यकरणीयं विद्यते ।

आनन्दः – यदि कामभावना उत वासना उद्भवतः तदा युक्तायुक्तविचारणा विनष्टा भवति । तस्मात् कामभावना यथा नोद्भवति तथा वस्त्रधारणं कर्तव्यम् अस्ति । विद्यालये रथ्यासु कथं कामोद्दीपनवस्त्रधारणम् । सर्वमपि अस्तव्यस्तं समाजे स्त्री मूलतः भवति नत्वन्यथा ।

ज्योत्स्ना – आधुनिकसमाजे जीवनं प्रश्नपरम्परापूर्णं वर्तते । विवाहः एव जटिलप्रश्नः भवति समाजे । पितरौ शुल्कं दत्वा विवाहकरणे अशक्तौ भवतः । विना च शुल्कं विवाहः न भवति । तस्मात् पितरौ युवतीनां स्वच्छन्दतायाः परमं प्रामुख्यस्थानं यच्छतः । तस्मात् पितरौ येनकेनापियुवकेन विवाहः निश्शुल्कः भविष्यतिचेत् भारः न्यूनीकृतः भविष्यतीति चिन्तयतः । अधुना समाजः सर्वथा विषवलये संलग्नः अस्ति ।

आनन्दः – स्त्रीणां स्वच्छन्दता वृत्तिः निस्सीमा भवति । तस्मात् बलात्कारेण मरणं भवति तासाम् । शालिन्यः मरणं स्वच्छन्दतावृत्ति कामुकभावनावच्छिन्नमरणमिति वितर्क्यते । एते पोलीस् अधिकारिणः कथं अन्वेषयन्ति अन्ततः न्यायालयः किम् आदिशति पश्यावः । अत्र आवयोः वादप्रतिवादं कथम् । उत्तिष्ठ कार्यालयसमयः भवति । अद्य सत्वरं गन्तव्यं विद्यते कार्यालयम्प्रति । (इति अन्तःगच्छति)

ज्योत्स्ना – अति सर्वत्र वर्जयेत् । (इति चहाचषकौ गृहीत्वा अन्तःप्रविशति)

(यवनिका पतति)

********************************************************

.

चतुर्थं दृश्यम्

(उच्चन्यायालयः तत्र न्यायाधीशस्य आसनं वर्तते, उभयतः वादिप्रतिवादि न्यायवादिनः वर्तन्ते, ततः प्रविशति न्यायाधीशः चतुर्वेदी, सर्वे उत्तिष्ठन्ति, चतुर्वेदी उपविशति अनन्तरं सर्वे उपविशन्ति)

चतुर्वेदी – (टेबुलोपरि विद्यमानपत्राणि विलोक्य) अपराधिनं प्रवेशयतु ।

पुलिशः – (नमस्कृत्य, गत्वा अपराधिनम् आनयति, अपराधी कथयितुं साक्षिपञ्जरे प्रविशति)

अभियोक्ता – (भगवद्गीतां गृहीत्वा अपराधिसकाशं गत्वा तस्यहस्तं भगवद्गीतोपरि निक्षिप्य) मदुक्तिमनुसृत्य भण ।

दामोदरः – तथैव ।

अभियोक्ता – अहं सत्यं कथयामि, असत्यं न कथयामि ।

दामोदरः – अहं सत्यं कथयामि असत्यं न कथयामि । अयि भोः न्यायाध्यक्षाः न्यायवादिनः अपिच प्रेक्षकाः श्रृण्वन्तु । यदि मम कथने असत्यं स्यात् तर्हि मम रज्जुगलबन्धन शिक्षा भवतु ।

न्यायाधीशः – दामोदर सविस्तरं शान्तं यथाक्रमं कथयतु । तव न्यायानुरूपोपण्डः भविता ।

दामोदरः – अयि भोः अहम् एकः सज्जनः । अहं वर्षद्वयात् प्राक् अस्मिन् विद्यारण्यविद्यालये पठित्वा बि.ए.परीक्षायाम् उत्तीर्य विश्वविद्यालयात् प्रमाणपत्रं गृहीत्वा उद्योगार्थं बहु प्रायतम् । न कुत्रापि मे उद्योगः लब्धः । अहं मम जीवने सर्वकक्ष्यासु प्रथमः अभवम् । बि.ए. प्रथमकक्ष्यायां उत्तीर्णः । एतावत्पर्यन्तं मे जीवितम् अकलङ्कितं वर्तते ।

वादिन्यायवादी – भवान् अधुना किं करोति ।

दामोदरः – उद्योगाभावे अहं परेल प्रदेशेबालकेभ्यः शिक्षणां ददामि भारतीयसंस्कृतिं बोधयामि । तन्मार्गेण यत् धनं प्राप्यते तत् अपर्याप्तं भवति । तस्मात् एकेन मित्रेणसार्थं मद्योत्पादनकर्म करोमि । वस्तुतः नाहं जाने कथं मद्यम् उत्पादयन्ति । किन्तु तत्कृते मदीय अंशदानं वर्तते ।

वादिन्यायवादी – भवान् मद्यं न पिबति ।

दामोदरः – नाहमपिबम् । नाहं पिबामि । नाहं पास्यामि ।

वादिन्यायवादी – मद्यमुत्पादयसि, किन्तु मद्यं न पिबसि, श्रृत्वा मे आश्चर्यं भवति ।

न्यायाधीशः – हां कथयतु दामोदर ।

दामोदरः – एकदाहं विद्यालयं द्रष्टुमगच्छम् ।

वादिन्यायवादी – तत्र त्वं किं द्रष्टुं गतवानसि ।

दामोदरः – अहं तस्मिन्‌विद्यालये अपठम् । तस्मात् एषा मे मातृसंस्था इति बुध्या तत्र तां विद्यारण्यकलाशालां द्रष्टुम् अगच्छम् ।

वादिन्यायवादी – ततस्ततः ।

दामोदरः – तदा एका युवती अत्यन्तकामुकदर्शना कुचकचभारनिम्नोन्नतशरीरा सरसाङ्गी मया दृष्टा आसीत् । तस्याः वेषः मदनक्रीडार्थम् आह्वयतीवास्ते । अहं तां दृष्ट्वा कामवासनावशगः अभवम् । एवं कदापि मे जीवने नाभूत् । तदाहं भीत्या कामतृष्णया तस्याः सकाशं गत्वा किं त्वं मया सर्वम् ओबरायन् शरिटान् होटल् आगमिष्यसि इत्यपृच्छम् । अनुपदमेव सा मया सार्थम् आगन्तुं चक्रमे । तदाहं तां मे परेलगृहमानयम् ।

वादिन्यायवादी – ततस्ततः ।

दामोदरः – तदा सा अवदत् अधुना ओब्रायन् शरिठान्‌होटल् न गम्यते किम् इति ।

वादिप्रतिवादी – ततस्ततः ।

दामोदरः – तावत्पर्यन्तं गन्तुं मदनः नाङ्गीकरोति माम् । अत्रैव त्वरयति सङ्गमार्थम् इति तामन्वभवम् ।

न्यायाधीशः – तदा किमभूत् ।

दामोदरः – अयि दामोदर अहं त्वयासाकं विवाहितुमिच्छामि इति सा अवादीत् ।

वादिन्यायाधीशः – विवाहार्थं त्वया अङ्गीकृतं किम् ?

दामोदरः – नहि ।

न्यायाधीशः – कुतः ।

दामोदरः – सा माम् अन्यथा चिन्तितवती ।

न्यायाधीशः – सा किं चिन्तितवती ?

दामोदरः – आधुनिकेषुदिवसेषु गुण्डाः शतथा कामनां पूरयिष्यन्ति सर्वसौख्येषु प्लावयिष्यन्ति, यदपेक्षते तत् आनीय दास्यन्ति सर्वदा सुरक्षा भवति । एतादृश सुखः अन्यत्र न लभ्यते । अहं त्वां परिणेष्यामि इति ।

वादिन्यायवादी – ततस्ततः ।

दामोदरः – अहं गुण्डा नहि । अहं एकः सज्जनः सुशिक्षितः संस्कारवान् । त्वदीय दर्शनेन तव अर्थनग्नवेषेण अहम् उन्मत्तः भूत्वा कामुकोभूत्वा तवाङ्गीकारेण त्वाम् अन्वभवम् ।

वादिन्यायवादी – ततस्ततः ।

दामोदरः – तदा सा ओबेरायन् शरिटाम् कदा नेष्यसि माम् इत्यपृच्छत् । तदाहम् अद्य रात्रौ गच्छावः इत्यवोचम् । अत्रान्तरे मे सप्तमित्राणि आगत्य मां कवाटोद्घाटनं कुरु इति जगर्जुः । तदाहम् उद्घाटितवानस्मि ।

वादी – ततस्ततः ।

दामोदरः – ते सप्तमित्राणि मां बहिरागच्छ इत्यवोचन् । अहं बहिः आगच्छम् । तदा ते सर्वे मां भर्त्सयित्वा एकैकशः तां यथेच्छम् अन्वभवन् । तदा तस्य आक्रन्दनं श्रृत्वा अहं भीतः अद्रवम् । तदा किमभूत् नाहञ्जाने । तस्मात् नाहं हन्तकः भवामि ।

वादिन्यायवादी – तस्याः मरणं भवन्मूलकं जातम् ।

प्रतिवादिन्यायवादी – अवरोधः क्रियतेमया वादीन्यायवादी दामोदरं पीडयति । एतादृशी स्थितिः अयोग्या ।

न्यायाधीशः – वादिन्यायवादिन् भवान् उपविशतु । अयि भोः प्रतिवादिन्यायवादिन् भवान् पॄच्छतु दामोदरम् ।

प्रतिवादिन्यायवादी – दामोदर सज्जनमानुषस्य जीवने इयं स्थितिः कथं सम्भूता विशदय ।

दामोदरः – अयि भोः श्रृण्वन्तु अहं सामान्यमानुषः । मम जीवने न कस्याप्यपकारमकरवम् । अहं सर्वदा शालायां विद्यालये च सर्वविषयेषु प्रथमः । मम चारित्र्यं सर्वत्र सर्वदा आदर्शप्रायं भवति सर्वेषां छात्राणाम् । भवन्तः माम् उद्दिश्य अन्वेषणं कृत्वा विचारयन्तु । तादृश सर्वगुणमण्डितोऽहम् एकदा शालिनीं दृष्ट्वा कामसन्तप्तः अभवम् । एषा शालिनी अत्यन्तकामुकी स्वरूपेण मनोविकारकारणीभूतेन आहार्येण, अर्धनग्नशरीरेण माम् उन्मत्तं चक्रे । तस्मात् अहं विवशः तस्याः सकाशं गत्वा तस्याः अङ्गीकारेण तां गृहं नीत्वा अन्वभवम् । अहं सप्तमित्रेभ्यः भीतः अद्रवम् । अनन्तरं किमभूत् नाहञ्जाने । तस्मात् नाहं कारकः तस्याः मरणस्य ।

प्रतिवादीन्यायाधीशः – अयि न्यायधीशमहोदय पुरुषप्रकृति विलसिते जगति सर्वेषां स्त्रीपुरुषाणां सत्‌कर्म कर्तुं जन्मतः स्वातन्त्र्यं वर्तते । न स्त्री स्वातन्त्र्यमर्हतीत्यस्य वाक्यस्य अर्थं नैके अनेकमार्गेषु सङ्कुचितार्थान् परिकल्पयन्ति, स्त्रीणां सम्पूर्णस्वातन्त्र्यमावश्यकम् इति । यदि स्त्री अर्धनग्नवस्त्राच्छादनेन रथ्यासु गच्छेत् तर्हि एतादृशी स्थितिः भवतीति अवगन्तव्यं भवति ।

वादिन्यायाधीशः – पुरुषः मानवतां ज्ञात्वा समाजे व्यवहर्तव्यः किन्तु न पशुभावेन ।

प्रतिवादिन्यायाधीशः – जगति आकर्षणशक्तिं निरोद्धुं वयं के । पुरुषः आज्यघटोपमः स्त्री कृपीटयोनिः । तयोः अन्योन्यालोकनेन कामः प्रज्वलितः भवति । तस्मात् सर्वदा अतिजागरूकतया स्त्रियः व्यवहर्तव्याः भवन्ति ।

वादिन्यायवादी – भवान् दामोदरं निरपराधिनं कर्तुं प्रयतसे ।

प्रतिवादिन्यायवादी – भवान् प्रकृतिधर्मानभिज्ञः दामोदरम् अपराद्धं विधातुं प्रयतते । अस्मिन् विषये न्यायाधीशस्य पन्थाः प्रमाणं भवति ।

वादिन्यायवादी – अयं स्त्रीस्वातन्त्र्य विरोधी ।

प्रतिवादिन्यायवादी – अयि भोः भवान् भवतः स्वसारं स्त्री स्वातन्त्र्यमावश्यकमिति नक्तम् उत अर्धनग्नवेषेण दिवा एकाकिनीं विहर्तुम्प्रेषय ।

वादिन्यायवादी – अनावश्यकं असाधु वदति भवान् न्यायाधीशस्य पुरतः ।

प्रतिवादिन्यायवादी – मम कथने अयमेव तात्पर्यः । स्त्रीणां सर्वविषयेषु स्वतन्त्रता समानता अर्हतादयः अवश्यं जन्मतः सङ्क्रामिताः । किन्तु रथ्यासु निर्लज्जाःभूत्वा स्वच्छन्दचारणाः न भवितव्याः । ताः स्त्रीमर्यादासीमोल्लघनं न कर्तव्याः । पुरुषाः अपि तथैव वर्तनीयाः इति ममाभिप्रायः । अत्र विद्यमानरहस्यम् अज्ञात्वा मूर्खाः केचन मनुस्मृतिं ज्वालयन्ति । तेन कर्मणा तेषां सौख्यमेव प्रकटीक्रियते । मनोः उत्तमः बुद्धिमान् संहिताकारः उत स्मृतिकारः एतावत्पर्यन्तं जगति नोद्भूतः । समाजपरिवर्तनानुरूपम् अर्थः निर्वचनीयः भवति । किन्तु पुस्तकदाहनं नहि । समाजनाशनकारकाः पण्डितं मन्यमानाः आधुनिकाः कामुकाः पुरुषाः स्त्री स्वातन्त्र्यमर्हतीति विविधार्थान् परिकल्प्य स्वातन्त्र्ययुतां स्त्रियम् अनुभवन्ति । तासां कौटुम्बिकजीवनं नाशयन्ति । अधुना जगति स्त्रीणां विद्यमानं नोचेत् अविद्यमानम् अवयवप्रदर्शनव्याधिरूपेण परिव्याप्ता भवति । तथा करणमेव स्त्री स्वातन्त्र्यमिति कामुकाः कामुक्यः यथेच्छं विहरन्ति ।

वादिन्यायवादी – अधिकप्रसङ्गोऽयं भवति ।

न्यायाधीशः – आदेशः । (इति टेबुलं ताडकेन मारयति) तस्य भाषणे व्यत्ययं मा करोतु भवान् ।

प्रतिवादिन्यायवादी – अयं दामोदरः सज्जनः । अयं उद्दीपितभावेन, तस्याः अङ्गीकारेण तयासार्थं सुखमन्वभवत् । सा अन्यैः मारिता न तु अनेन । तस्मात् अयं शिक्षार्हः न भवति ।

न्यायाधीशः – दामोदरः नीयताम् अन्तः । अद्य सभा स्थगिता भवति । दिनद्वये निर्णयः भविष्यति । (इत्युत्थाय गच्छति, सर्वे उत्तिष्ठन्ति गच्छन्ति)

(यवनिका पतति)

*****************************************************

.

पञ्चमं दृश्यम्

(न्यायाधीशः चतुर्वेदी, तस्यापत्नी वेदवती पुत्रिका सुषमा च एकत्र उपविश्य शालिनी हत्याकाण्डमुद्दिश्य संलपन्तः सन्ति ।)

वेदवती – शालिनीहत्याविषयः अत्र न्यायालये चर्चा भवति, हन्तकस्य कीदृशी शिक्षा भवद्भिः विधीयते कथयन्तु ।

चतुर्वेदी – न्यायालयविषयाः न्यायालये चर्चनीयाः भवन्ति न तु गृहे ।

सुषमा – दोषः कुत्र विद्यते ? कः दोषी अभूत् पितः ।

चतुर्वेदी – बाले त्वमपि न्यायशास्त्रं पठसि, पत्रिकायां हत्याकाण्डमुद्दिश्य पठसि, कस्ते निष्कर्षः तं हत्याकाण्डमुद्दिश्य ।

सुषमा – पितः मम एवं स्फुरेति सर्वोऽपराधः शालिन्याः इति ।

चतुर्वेदी – त्वं एवं विचारयसि ?

सुषमा – विचारधारा वक्रिता किम् ?

चतुर्वेदी – न्यायवादिनां बहुमार्गाः सन्ति । ते सर्वे सत्यासत्यमार्गपूर्णाः भवन्ति ।

वेदवती – तस्मात् लोके एका प्रथा विद्यते यत् न्यायवादिनस्सर्वे अन्यायवादिनः इति ।

चतुर्वेदी – बाले, अपि च वेदवति वयं सत्यमार्गानुयायिनः । सर्वदा अस्माभिः सत्यमार्गे केवलं गन्तव्यं विद्यते । असत्यमार्गगमनापेक्ष्या मरणं योग्यम् इति मे मतिः । वयं भारतीयपरम्परा प्रेमिणः अन्यायम् उक्त्वा विधाय च जीवनयापनम् अस्माकम् अयोग्यं भवति । वयं सर्वदा तत्वान्वेषिणः । अस्माकं सर्वदा हरिश्चन्द्रादयः पूज्याः अनुसरणीयाश्च भवन्ति ।

वेदवती – तस्मादेव अहम् अपृच्छं कीदृशीशिक्षा दीयते इति ।

चतुर्वेदी – हञ्जे वेदवति । मया कथितङ्खलु वयं सत्यमार्गानुयायिनः । अत्र न्यायालयीनविषयाः गृहे चर्चनीयांशाः न भवितव्याः इति । अहम् इयन्तं कथयामि लोकः अधुना भारतीयतां विसृजन् अन्यदेशीयानां धर्मप्रभावेन क्रमशः पतनोन्मुखः भवति । एतादृशी भावना निरोद्धव्या विद्यते ।

सुषमा – ततः किं कर्तव्यं पितः ।

चतुर्वेदी – शैशवे केवलं भारतीयं माहात्म्यमुद्दिश्य बालिकाबालकानां कथनीयं विद्यते । नोचेत् कतिपय दिवसानन्तरं सर्वयुवतीः युवकाः पशवःभूत्वा रथ्यासु विहरिष्यन्ति जीवितमूल्यानि विस्मृत्य । प्रपञ्चे मकुटायमान भारतराष्ट्रस्य कीर्तिः कलङ्किता भविष्यति । भारतम् अस्यां स्थित्यां परकीयं भविष्यति अनन्तरं पाशविकजीवनभरितं भविष्यति ।

सुषमा – पितः अस्मदीयविद्यालये केचन विद्यार्थी विद्यार्थिन्यः भारतीयसंस्कृतिं भारतीयविद्याः भारतीयान् सर्वदा टीकां कुर्वन्ति । तां टीकां श्रावं श्रावं मे विद्यालयं त्यक्तुम् इच्छा भवति । तत्र सर्वे वेषभूषिताः असंस्कारिणः असंस्कारिण्यः आगच्छन्ति । न कोऽपि जानाति भारतेतिहासं, भारतीयगतवैभवं वर्तमानभारतीयस्थितिं च । सर्वेऽपि राष्ट्रभक्तिहीनाः । ते पठित्वा न्यायवादिवृत्तिं स्वीकृत्य किं करिष्यन्ति नाहं जाने ।

चतुर्वेदी – भारतदेशे सर्वत्र स्थितिः एवं विद्यते । एतादृशी स्थितिः परिवर्तनीया भवति ।

वेदवती – एकः कुटुम्बः एवं विचिन्त्य किं करिष्यति ।

चतुर्वेदी – एवं सर्वोऽपि विचिन्त्य अकर्मकृत् भवेत्‌चेत् देशः कार्यहीनः वृद्धिहीनः भविष्यति । आमूलतः विद्यायाः स्वरूपः परिवर्तनीयः भवति ।

सुषमा – ममापि तथैव प्रतिभाति पितः । न कोऽपि भारतीयताम् उद्दिश्य चिन्तयति अस्मिन् प्रदूषिते प्रपञ्चे ।

चतुर्वेदी – प्रथमतः कामोद्दीपनकारकं अलङ्करणं रथ्यासु शालासु विद्यालयेषु तदयन्त्र अवरोद्धव्यं विद्यते । स्त्रीणां पुरुषाणां बालिकानां बालकानां वृद्धानां च सर्वत्र भारतवर्षे वेषभूषानिर्णयः एकः नियमबद्धः भवितव्यः । यदि प्रथमतः अश्लीला अयोग्या चलनचित्रसृष्टिः निरुद्धा भवति, तर्हि वेषभूषानिर्णयः अनुपदमेव आचरणयोग्यः भविष्यति ।

सुषमा – सर्वत्र व्यवहारे क्रमशिक्षणावश्यकता भवति ।

चतुर्वेदी – सत्यं वदसि बाले ।

वेदवती – एषा भवतः पुत्री खलु । तस्मादेव भक्तः प्रतिमाजाता प्रतिभया ।

चतुर्वेदी – (विहस्य) सत्यमुदीरितं भवत्या वेदवती । किञ्चित् चहां करोतु ।

वेदवती - आनयेयम् । (इत्युत्थाय अन्तःगच्छति)

सुषमा – पितः अहम् अद्य मम मैर्त्रिण्याः गृहं गच्छेयम् ।

चतुर्वेदी – त्वं कदा गमिष्यसि ।

सुषमा – अद्यमध्याह्ने एकघण्टावादनसमये गच्छेयमहम् । पुनः चतुर्वादनसमये सन्ध्याकाले समागच्छेयम् ।

चतुर्वेदी – तथैव गच्छ ।
(तत्र टेबुलोपरि दूरध्वनियन्त्रं शब्दायते)

सुषमा – (गत्वा दूरध्वनिं गृहीत्वा) हेलो, हां हाम् एतत् चतुर्वेदीनः गृहम् । हां हां ते गृहे सन्ति । हां धरतु भोः आह्वयेयं तान् । (पितरमुद्दिश्य) पितः कोवाशर्मा आह्वयति । (इति ग्रहणमुष्टिं टेबुलोपरि निक्षिप्य गच्छति)

चतुर्वेदी – (उत्थाय गत्वा ग्रहणमुष्टिं हस्ते धृत्वा) हेलो अहं चतुर्वेदी भणामि । नमस्ते । एतावत्पर्यन्तं न किमपि विनिश्चितम् । दिवसद्वये सर्वमपि समाप्तं भविष्यति । धन्यवादाः । (इति ग्रहणमुष्टिं यन्त्रे निक्षिप्य) सर्वोऽपि स्वार्थं समीहते अपिच स्वात्मानम् उन्नतं मनुते । छ छ । (इति वदन् आगत्य कुर्च्याम् उपविशति)

वेदवती – (चहाकरण्डकसूर्पवाहिनी आयाति तत्र टेबुलोपरि करण्डकसूर्पं निक्षिप्य उपविशति)

चतुर्वेदी – (चहां गृहीत्वा पिबन्) हसे वेदवति अधुना स्नात्वा, पूजां विधाय न्यायालयं गन्तव्यं विद्यते, किं स्नातुं जलम् उष्णमभूतम् ?

वेदवती – कदावा उष्णमभूत् । अद्य भवान् भुक्त्वा न गच्छति किम् ?

चतुर्वेदी –नहि अद्य सोमवती अमावास्या खलु, अद्य उपवासः क्रियते ।

वेदवती – मध्याह्ने किञ्चित् अल्पाहारार्थं गृहं प्रत्यागच्छतु ।

चतुर्वेदी – तथैव । (इति उत्थाय अन्तःगच्छति)

वेदवती – (अनुनासिका स्वरगुञ्जनेन गायन्ती, करण्डकसूर्पं गृहीत्वा अन्तःप्रविशति)

(यवनिका पतति)

*****************************************************

.

षष्ठं दृश्यम्

(न्यायालयः तत्र सर्वे स्वीय स्थानेषु उपविष्ठाः सन्ति ततः प्रविशति चतुर्वेदी न्यायाधीशः सर्वे उत्तिष्ठन्ति, न्यायाधीशः उपविशति, सर्वे उपविशन्ति)

प्रतिवादिन्यायवादी – अयि न्यायाधीशमहोदय अयं दामोदरः न शिक्षार्हः न च दण्डनीयः । शालिन्याः हत्या अन्यैः कृता ।

चतुर्वेदी – साक्षिणः वचनमनुसृत्य अन्तिमनिर्णयः करणीयः वर्तते ।

प्रतिवादिन्यायवादी – साक्षिणं प्रवेशयतु । (इति पोलीसुं कथयति, पोलीसः साक्षिणमानयति सः साक्षी चतुष्फलक पञ्जरे स्थित्वा गीतापुस्तकोपरि हस्तं निक्षिप्य तिष्ठति)

अभियोक्ता – अयि भोः साक्षि, अहं यत् ब्रवीमि तत् अनुसृत्य भण । अहं सत्यं ब्रवीमि, सत्यादन्यत् न ब्रवीमि ।

साक्षी – अहं सत्यं ब्रवीमि सत्यादन्यत् न ब्रवीमि । (इति कथयति)

प्रतिवादिन्यायवादी – किं भवता शालिन्याः हत्या दृष्टा ?

साक्षी – हां दृष्टा मया ।

न्यायाधीशः – त्वं सविस्तरं कथय ।

साक्षी– अमावास्यक्षपायां एकघण्टावादनसमये अहं मूत्रयितुम् उत्थाय मम गृहात् बहिरागच्छम् । तदा कुङ्कुराः भौ भौ कुर्वन्तिस्म । तदाहम् अन्तर्हितः मम प्राङ्गणे शववाहकान् अपश्यम् । ते दामोदरगृहात् एकं शवं बहिरानीय तम् एकस्मिन् मञ्चे पिण्डीकृत्य संस्थाप्य चत्वारः पुरुषाः वहन्तः अचलन् । एकः मार्गदर्शकः अभूत् । अन्यौ द्वौ पार्श्वतः शवस्य दण्डहस्तौ भूत्वा निश्शब्दम् अगच्छताम् । ते सर्वे दामोदरस्य मित्राणि मद्यव्यवसायभागस्वामिनः ।

प्रतिवादिन्यायवादी – किं त्वं सर्वान् विलोक्य ते एते इति । स्मरिष्यसि किम् ?

साक्षी – अवश्यं स्मरिष्यामि ।

प्रतिवादिन्यायवादी – तान् दोषिणः प्रवेशयतु ।

पुलिशः – (तान् प्रवेशयति)

प्रतिवादिन्यायवादी – किं त्वं जानासि एतान् ।

साक्षी – (तान् दृष्ट्वा) हां एतेसप्त शालिनी घातुकाः ।

प्रतिवादिन्यायवादी – एतस्मादन्यत् किमपेक्ष्यते भोः ।

न्यायाधीशः – अयि भोः एतावत्पर्यन्तं समालब्धवार्तानुसारं दामोदरः सज्जनःपुरुषः इति सर्वविद्यासंस्थेभ्यः पत्राणि समागतानि । सः स्वजीवने कुत्रापि न कस्यापि अकरणीयङ्कृत्यं चकार । एषः शालायां विद्यालये अधुना स्वजीवननिर्वहणे च कदापि अकार्यं न चक्रे । अयं शालिन्याः कामोद्दीपन वेषभूषाभ्यां तस्याः अश्लीलपूर्णप्रवर्तनाभिः मोहितः तस्याः अङ्गीकारं प्राप्य तयासाकं रेमे । अत्र तेन न कोप्यपराधः कृतः । तथापि अनेन अज्ञातरीत्या तस्याः मृत्योः कारणं प्रकल्पितम् । तस्मात् शिक्षास्मृतौ विनिर्दिष्टनियमानुसारं एतेषां सप्तघातकानां रज्जुगलबन्धनेन मरणशिक्षा विधीयते, दामोदरस्य सहस्ररूप्यकाणां दण्डः विधीयते । (इत्युक्त्वा उत्थाय गच्छति, पोलीस अधिकारी सप्तहन्तकान् अन्तःनयति, दामोदरः सर्वैरपि अभिनन्द्यते क्रमशः सर्वे गच्छन्ति)

कर्मचारी – अरे गणक न स्त्री स्वातन्त्र्यमर्हतीति यत् मनुना प्रोक्तं तत् युगान्तेऽपि सत्यं भवति । केचन कामुकाः स्वार्थमभिलषन्तः न स्त्री स्वातन्त्र्यमर्हतीत्यस्य स्वीय कुटुम्बे विद्यमानस्त्रियः स्वातन्त्र्यं नार्हन्ति तत् भिन्नं स्त्रीमण्डलं स्वातन्त्र्यमर्हति । अन्यकुटुम्बेषु विद्यमानास्त्रियः यथेच्छं पुरुषाः इव निर्भीकाः समानार्हतया व्यवहर्तव्याः इति कथयन्ति ।

गणकः – तथा कथने तथा प्रचारकरणे को लाभः ।

कर्मचारी – को लाभः श्रृणु । स्वेच्छायुतानां कामिनीनां सहवासेन अनायास लब्धसम्भोगलाभः एव महान् लाभः ।

गणकः – तदर्थमेव सातत्य व्यभिचारार्थमेव ते तथा नानार्थान् परिकल्पयन्ति । अहो ज्ञानम् अधुना । पूर्वेद्युः एका महिला एकत्र सभायाम् एवं जगाद ।

कर्मचारी – किमिति ।

गणकः – अहं सुशिक्षिता पदवीधरा पदधरा । मे गृहे स्वतन्त्रता विद्यते । मे पतिः सर्वदा मह्यम् आर्थिकस्वतन्त्रतां यच्छति । मम गृहे वाक् स्वातन्त्र्यम् अपिच सर्वम्प्रकारस्वातन्त्र्यं विद्यते । केचन चोराः स्त्रीमुक्तता स्त्रीमुक्तता इति मुक्तकण्ठं सभासु घोषयन्ति गर्जन्ति । अधुना स्त्रीणां न कापि न्यूनता विद्यते । ताः समाजे पुरुषसमानाः भवन्ति । नाहं जाने तेषां हृदि अभिप्रायः कः इति ।

कर्मचारी – सा नारी तेषां चोराणां मानसिकभावम् अपठत् इति मे मतिः ।

गणकः – (पेटिकां बध्नन्) ते चोराः स्त्रीस्वातन्त्र्यमिति उक्त्वा स्त्री स्वातन्त्र्यानन्तरं ताः यथेच्छम् अनुभवितुम् अयं मार्गः इति मनसि चिन्तयन्ति । अत्र विद्यमानरहस्यम् अनभिज्ञाताः प्रजाः वञ्चिताः भवन्ति । मनुना यदुक्तं तत् सत्यम् । स्त्री सर्वदा मानाभिमानशीललज्जारक्षणार्थं सर्वदा सर्वदशासु यथा सन्दर्भं वयोमर्यादामनुसृत्य परेभ्यः वञ्चकेभ्यः गुण्डेभ्यः संरक्षणीया इति मनोः अभिप्रायः ।

कर्मचारी – पशुपेक्ष्या हीनाः केचन पुरुषाः शालां गच्छन्तीं बालिकाम् अपि च चातुर्मासवयस्कां बालिकां यथेच्छम् अनुभूय अमारयन् इति वयं दिनपत्रिकासु पठामः । एतत् सर्वं दिव्यज्ञानेन मनुः पूर्वमेव विचार्य ।

पिता रक्षति कौमारे । भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये । न स्त्री स्वातन्त्र्यमर्हति ॥
इत्युक्तवान् ।

गणकः – अयं विषयः अतिविस्तारेण सुदीर्घं विचारणीयः भवति । तस्मात् अहं वच्मि प्रश्नचिह्नेन “न स्त्री स्वातन्त्र्यमर्हति?” इति ।

(यवनिका पतति)

॥ इति श्री गीर्वाणान्ध्रभाषाप्रवीणेन, गीर्वाणिगेयचक्रवर्तिना, पण्‍डित ओगेटि परीक्षित् शर्मणा विरचितं सप्तविंशतिनाटकपरिमितं परीक्षिन्नाटकचक्रम् समाप्तम् ॥

********************************************************

]