[[मत्तविलासप्रहसनम् Source: EB]]
[
मत्तविलासप्रहसनम्
पल्लववंशीयभूपतिना महेन्द्रवर्मणा विरचितम्
(
प्रविश्य) नटी (सरोषम्) : अय्य ! किं चिरस्स कालस्स जोब्बणगुणभरमत्तविलासप्फसणं दंसेदुमाअदो सि ?
सूत्रधारः : यथाह भवती ।
नटी : ताए एव दाव दंसेहि,
जा तुए रम{
इ}
दब्बा ।
सूत्रधारः : त्वया सह दर्शयिष्यामीति ।
नटी : किं ताए एव्व णिउत्तो सि ?
सूत्रधारः : एवमेतत। अपि च,
तत्र गता महान्तमनुग्रहं लप्स्यसे ।
नटी : तव एव्व खु एदं जुज्ज{
इ}
।
सूत्रधारः : भवति ! किमिव न युज्यते ?
त्वत्प्रयोगपरितोषिता परिषदनुग्रहीष्यतीति ।
नटी (सहर्षम्) : एवम् । लद्धो अय्यमिस्साणं पसादो ।
सूत्रधारः : बाढं लब्धः ।
नटी : ज{
इ}
एवं,
किं दे पिअक्खाणिअं देमि ?
सूत्रधारः : अलं प्रियाख्यानिकपुनरुक्तेन । पश्य—
उद्भिन्नरोमाञ्चकपोलरेखम्
आविर्मयूखस्मितमञ्चितभ्रु ।
लब्ध्वा प्रिये दुर्लभमाननं ते
भूयोऽपि किं प्रार्थयितव्यमस्ति ॥२॥
नटी : किं दाणि अय्येण प{
उ}
ज्जिदव्वं ?
सूत्रधारः : ननु त्वयैवाभिहितं मत्तविलासप्रहसनमिति ।
नटी : णूणमिमस्सिं पक्खवादी मे कोबो,
जेण अभिप्पाआणुरूबं भणाविदह्मि । अय्य,
कदमो उण सो कबी,
जो इमाए किदीए पऽसीअदि ।
सूत्रधारः : भवति,
श्रूयताम् । पल्लवकुलधरणिमण्डलकुलपर्वतस्य सर्वनयविजितसमस्तसामन्तमण्डलस्य आखण्डलसमपराक्रमश्रियः श्रीमहिमानुरूपदानविभूतिपरिभूतराजराजस्य श्रीसिंहविष्णुवर्मणः पुत्रः शत्रुषड्वर्गनिग्रहपरः परहितपरतन्त्रतया महाभूतसधर्मा महाराजः श्रीमहेन्द्रविक्रमवर्मा नाम । अपि च—
प्रज्ञादानदयानुभावधृतयः कान्तिकलाकौशलं
सत्यं शौर्यममायता विनय इत्येवम्प्रकारा गुणाः ।
अप्राप्तस्थितयः समेत्य शरणं याता यमेकं कलौ
कल्पान्ते जगदादिमादिपुरुषं सर्गप्रभेदा इव ॥३॥
किं च—
आकरे सूक्तिरत्नानां यस्मिन्गुणगरीयसाम् ।
अर्घन्ति बहुसूक्तानि सतां सारलघून्यपि ॥४॥
नटी : किं दाणि अय्येण विलम्बीअदि ?
णमपुरुवदाए तुरिअमणुट्ठिदव्वो आं पऊ ।
सूत्रधारः : अहं तु—
सम्प्रति सङ्गीतधनः कविगुणकथयास्मि निघ्नतां नीतः ।
नेपथ्ये : प्रिये ! देवसोमे !
सूत्रधारः :
युवतिसख एष सुरया कपालविभवः कपाली ॥५॥
(
निष्क्रान्तौ)
॥ स्थापना ॥
(
ततः प्रविशति सपरिग्रहः कपाली ।)
कपाली : प्रिये ! देवसोमे ! सत्यमेवैतत। तपसा कामरूपता प्राप्यत इति । यत्त्वया परमव्रतस्य विधिवदनुष्ठानेनान्ध एव रूपातिशयः क्षणात्प्रतिपन्नः । तव हि—
उद्भिन्नश्रमवारिबिन्दु वदनं सभ्रूलताविभ्रमं
खेलं यातमकारणानि हसितान्यव्यक्तवर्णा गिरः ।
रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयोर्
अंसोपान्तविलम्बिनश्च विगलन्मालागुणा F
मूर्धजाः ॥४॥
देवसोमा : भावं ! मत्तं बिअ मत्तं बिअ मं भणासि ।
कपाली : किमाह भवती ?
देवसोमा : ण हु किञ्चि भणामि ।
कपाली : किं नु खलु मत्तोऽस्मि ?
देवसोमा : भावं ! परिब्बम{
इ}
परिब्बम{
इ}
पुहुबी । पुरो वदामि बिअ । अलम्ब दाणि मम् ।
कपाली : प्रिये,
तथास्तु । (अवलममानः पतनं रूपयित्वा) प्रिये सोमदेवे ! किं त्वं कुपितासि ?
यदवलम्बितुमुपसर्पतो मे दूरीभवसि ?
देवसोमा : अहो णु खु आअदकोबा सोमदेवा । जा तुए सीसेण पणमिअ अणुणीअमाणा बि दूरीहोइ ।
कपाली : ननु त्वमेवासि सोमदेवा ! (ध्यात्वा) नहि,
देवसोमा !
देवसोमा : भावं ! णं तहा वल्लहा सोमदेवा । णार्हदि मम णाम केणाभिधादुम् ।
कपाली : भवति ! सुलभपदस्खलितो मे मदोऽयं न तवात्रापराधः ।
देवसोमा : दिट्ठिआ ण तुवम् ।
कपाली : कथं मद्यदोषो मामेवं सङ्क्रामयति । भवतु भवतु । अद्य प्रभृति मद्यनिषेवणान्निवृत्तोऽस्मि ।
देवसोमा : भावं ! मा मा मम कारणादो वदभङ्गेण तबो खण्डेदुम् ।
कपाली (सहर्षमुत्थाप्यालिङ्ग्य) : घृर्ण घृर्ण,
नमः शिवाय ! प्रिये !
पेया सुरा प्रियतमामुखमीक्षितव्यं
ग्राह्यः स्वभावललितो विकृतश्च वेषः ।
येनेदमीदृशमदृश्यत मोक्षवर्त्म
दीर्घायुरस्तु भगवान्स पिनाकपाणिः ॥७॥
देवसोमा : भावं ! ण तहा भणिदव्वम् । अघन्ते मोक्खमग्गमण्णहा वण्णान्ति ।
कपाली : भद्रे ! ते खलु मिथ्यादृष्टयः । कुतः ?
कार्यस्य निःसंशयमात्महेतोः
सरूपतां हेतुभिरभ्युपेत्य ।
दुःखस्य कार्यं सुखमामनन्तः
स्वेनैव वाक्येन हता वराकाः ॥८॥
देवसोमा : सन्तं सन्तं पाबं !
कपाली : शान्तं शान्तं पापं ! न खलु ते पापा आक्षेपमुखेनाप्यभिधातुमर्हन्ति । ये ब्रह्मचर्यकेशनिर्लोटनमलधारणभोजनवेलानियममलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानीं कुतीर्थसङ्कीर्तनोपहतां जिह्वां सुरया प्रक्षालयितुमिच्छामि ।
देवसोमा : तेण हि अण्णं दाणिं सुरापाणं गच्छामो ।
कपाली : प्रिये,
तथास्तु ।
(
उभौ परिक्रामतः ।)
कपाली : अहो नु खलु विमानशिखरविश्रान्तघनरसितसान्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्यापणस्य कुसुमशरविजयघोषणायमानवरयुवतिकाञ्चीरवस्य काञ्चीपुरस्य पुरा विभूतिः । अपि च—
अनतिशयमनन्तं सौख्यमप्रत्यनीकं
समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः ।
तदिह निरवशेषं दृष्टमेतत्तु चित्रं
यदुत करणभोग्यं कामभोगात्मकं च ॥९॥
देवसोमा : भावं,
भावदी वारुणी बिअ अणवगीअमुहरा कञ्ची ।
कपाली : प्रिये,
पश्य पश्य ! एष सुरापणो यज्ञवाटविभूतिमनुकरोति । अत्र हि ध्वजस्तम्भो यूपः । सुरा सोमः । शौण्डा ऋत्विजः । चषकाश्चमसाः । शूल्यमांसप्रभृतय उपदंशा हविर्विशेषाः । मत्तवचनानि यजूंषि । गीतानि सामानि । उदङ्काः स्रुवाः । तर्पोऽग्निः । सुरापणाधिपतिर्यजमानः ।
देवसोमा : अह्माअं पि एत्थ भिक्खा रुद्दभॉ भविस्सदि ।
कपाली : अहो दर्शनीयानि प्रहतमर्दलकरणानुगतानि विविधाङ्गहारवचनभ्रूविकाराणि उच्छ्रितैकहस्तावलम्बितोत्तरीयाणि विगलितवसनप्रतिसमाधानक्षणविषमितलयानि व्याकुलितकण्ठगुणानि मत्तविलासनृत्यानि ।
देवसोमा : अहो रसिओ खु आअय्यो ।
कपाली : एषा भगवती वारुणी चषकेष्वावर्जिता प्रत्यादेशो मण्डनानाम्,
अनुनयः प्रणयकुपितानां,
पराक्रमो यौवनस्य,
जीवितं विभ्रमाणाम् । किं बहुना,
मिथ्या त्रिलोचनविलोचनपावकेन
भस्मीकृतां मदनमूर्तिमुदाहरन्ति ।
स्नेहात्मिका तदभितापवशाद्विलीना
सेयं प्रिये मदयति प्रसभं मनांसि ॥१०॥
देवसोमा : भावं,
जुज्ज{
इ}
एदम् । णहि लूवऽरणिरदो लोअणाहो लोअं विणासेदि ।
(
उभौ कपोलपटहं कुरुतः ।)
कपाली : भवति भिक्षां देहि ।
नेपथ्ये : भावं ! एसा भिक्खा । पडिगण्हदु भावम् ।
कपाली : एष प्रतिगृह्णामि । प्रिये,
क्व मे कपालं ?
देवसोमा : अहं बि ण पेक्खामि ।
कपाली (ध्यात्वा) : आ,
तस्मिन्नेव सुरापणे विस्मृतमिति तर्कयामि । भवतु,
प्रतिनिवृत्य द्रक्ष्यावः ।
देवसोमा : भावं,
अधम्मो खु एसो आदरोवणीदाए भिक्खाए अप्पडिग्गहो,
किं दाणि करम्ह ?
कपाली : आपद्धर्मं प्रमाणीकृत्य गोशृङ्गेण प्रतिगृह्यताम् ।
देवसोमा : भावं,
तहा । (पर्तिगृह्णाति ।)
(
उभौ परिक्रम्यावलोकयतः ।)
कपाली : कथमिहापि न दृश्यते । (विषादं रूपयित्वा) भो भो माहेश्वराः ! माहेश्वराः ! अस्मदीयं भिक्षाभाजनमिह भवद्भिः किं दृष्टं ?
किमाहुर्भवन्तः ?
न खलु वयं पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः । केनाहमिदानीं कपाली भविष्यामि । भोः कष्टं !
येन मम पानभोजनशयनेषु
नितान्तमुपकृतं शुचिना ।
तस्याद्य मां वियोगः
सन्मित्रस्येव पीडयति ॥११॥
(
पतितः शिरस्ताडनं रूपयित्वा) भवतु,
अस्ति लक्षणमात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः । (उत्तिष्ठति ।)
देवसोमा : भावं,
केण खु गहीदं कबालं ?
कपाली : प्रिये,
तर्कयामि शूल्यमांसगर्भत्वाच्छुना वा शाक्यभिक्षुणा चेति ।
देवसोमा : तेण हि अण्णेसणणिमित्तं सब्बं कञ्चीउरं परिब्भमामो ।
कपाली : प्रिये,
तथा । (उभौ परिक्रामतः ।)
(
ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः ।)
शाक्यभिक्षुः : अहो उवास अस्स धणदाससेट्ठिणो सव्वावासमहादाणमहिमाणो,
जहिं मए अभिमदवण्णगन्धरसो मच्छमंसप्पऽरबहुलो आं पिण्डवादो समासादिदो । जाव दाणि राअबिहारमेब्ब गच्छामि । (परिक्रम्य आत्मगतं) भोः ! परमकारुणिएण भावदा तहागएण पासादेसु वासो,
सुबिहि अ सुय्येसु पज्जेङ्केसु साणं,
पुब्बण्हे भोअणं,
अवरण्हे सुरसाणि पाणऽणि,
पञ्चसुगन्धब्बोहिअं तम्बोल्लं,
सण्हवसणपरिधाणं ति एदेहि उबदेसेहि भिक्खुसङ्घस्स अणुग्गहं करन्तेण किण्णुहु इत्थिआपरिग्गहो सुरावाणविहाणं च ण दिट्टःअम् । अहब कहं सब्बणो एदं ण पेक्खदि ?
अबस्समेदेहि दुट्ठबुद्धथविरेहि णिरुच्छाएहि अह्माणं तरुणजणाणं मच्छरेण पिडापुत्थएसु इत्थिआसुरावाणविहाणाणि पलामिट्ठाणि त्ति तक्केमि । कणिं णु हु अविणट्ठमूलपाठं समासादएअम् । तदो सम्पुण्णं बुद्धवाणं लोए पलासान्तो सङ्घोबऽरं करिस्सम् । (परिक्रामति ।)
देवसोमा : भावं ! पेक्ख पेक्ख । एसो रत्तपडो इमस्सिं विस्सत्थपुरिससम्पादे राअमग्गे सङ्कुहदसब्बङ्गो उभयपक्खसञ्चारिददिट्ठी सङ्किदपदविक्खेबो तुरिअतुरिअं गच्छ{
इ}
।
कपाली : प्रिये,
एवमेततपि चास्य हस्ते चीवरान्तःप्रच्छादितं किमप्यस्तीव ।
देवसोमा : भावं,
तेण हि ओलम्बिअ आसादिअ जाणीमो ।
कपाली : भवति,
तथा । (उपगम्य) भो भिक्षो ! तिष्ठ ।
शाक्यभिक्षुः : को णु खु ममेवं भणादि ? (
निवृत्यावलोक्य च) अ{
इ}
अयमेअंब्बावासी दुट्ठकबालियो ! भोदु,
इमस्स सुराबिब्भमस्स लक्खं ण होमि ।
कपाली : प्रिये ! हन्त लब्धं कपालम् । अस्य हि मद्दर्शनजनितभयात्त्वरैव चौर्यसाक्षित्वं प्रतिपन्ना । (द्रुतमुपगम्याग्रतो रुणद्धि ।) आः धूर्त ! क्वेदानीं गमिष्यसि ।
शाक्यभिक्षुः : कबालिआउस ! मा मा एवम् । किमेदं ? (
आत्मगतम्) अहो ललिअरूबा उबासिआ ।
कपाली : भो भिक्षो ! दर्शय तावत। यावदेतत्ते पाणौ चीवरान्तःप्रच्छादितं द्रष्टुमिच्छामि ।
शाक्यभिक्षुः : किमेत्थ पेक्खिदब्बं भिक्खाभाअणं खु एदम् ।
कपाली : अत एव द्रष्टुमिच्छामि ।
शाक्यभिक्षुः : आ उस,
मा मा एवम् । पच्छण्णं खु एदं णेदब्बम् ।
कपाली : नूनमेवमादिप्रच्छादननिमित्तं बहुचीवरधारणं बुद्धेनोपदिष्टम् ।
शाक्यभिक्षुः : सच्चमेदम् ।
कपाली : इदं तत्संवृत्तसत्यम् । परमार्थसत्यं श्रोतुमिच्छामि ।
शाक्यभिक्षुः : भोदु,
एत्तओ परिहासो । अदिक्कमदि भिक्खावेला । साहेमि अहम् । (प्रतिष्ठते ।)
कपाली : आः,
धूर्त ! क्व गमिष्यसि ?
दीयतां मे कपालम् । (चीवरान्तमालम्बते ।)
शाक्यभिक्षुः : णमो बुद्धाअ ।
कपाली : नमः खरपटायेति वक्तव्यं,
येन चोरशास्त्रं प्रणीतम् । अथवा खरपटादप्यस्मिन्नधिकारे बुद्ध एवाधिकः । कुतः ?
वेदान्तेभ्यो गृहीत्वार्थान्
यो महाभारतादपि ।
विप्राणां मिषतामेव
कृतवान्कोशसञ्चयम् ॥१२॥
शाक्यभिक्षुः : सन्तं पापं सन्तं पापम् ।
कपाली : एवं सुवृत्तस्य तपस्विनः कथमिव पापं न शाम्यति ?
देवसोमा : भावं,
परिस्सन्तो बिअ लक्खीअसि । ण एदं सुहोबाअसुलहं कपालम् । ता एदिणा गोसिङ्गेण सुरं पिबिअ जादबलो भविअ इमिणा सह विवादं करेहि ।
कपाली : तथास्तु ।
(
देवसोमा कपालिने सुरां प्रयच्छति ।)
कपाली (पीत्वा) : प्रिये,
त्वयापि श्रमापनोदः कर्तव्यः ।
देवसोमा : भावं ! तह । (पिबति ।)
कपाली : अयमस्माकमपकारी । संविभागप्रधानः स्वसिद्धान्तः । शेषमाचार्याय प्रदीयताम् ।
देवसोमा : जं भावमाणबेदि । गह्णदु भावम् ।
शाक्यभिक्षुः (आत्मगतम्) : अहो सुहोबणदो अब्भुदओ । एत्तओ दोसो । महाजणो पेक्खिस्सदि । (प्रकाशम्) भोदि ! मा मा एवम् । बड्ढेदि अह्माणम् । (सृक्वणी लेढि ।)
देवसोमा : धंस ! कुदो दे एत्तिआणि भाअधेआणि ?
कपाली : प्रिये ! इयमस्येच्छाविरोधिनी वाग्मुखप्रसेकेन स्खलति ।
शाक्यभिक्षुः : इदाणिं बि णत्थि दे करुणा ?
कपाली : यद्यस्ति करुणा,
कथं वीतरागो भविष्यामि ?
शाक्यभिक्षुः : एवं वीदरागिणा वीदरोसेण विहोदव्वम् ।
कपाली : वीतरोषो भविष्यामि,
यदि मे स्वकं दास्यति ।
शाक्यभिक्षुः : किं दे सां ?
कपाली : कपालम् ।
शाक्यभिक्षुः : कहं कबालं ?
कपाली : कथं कपालमित्याह ! अथवा युक्तमेतत्—
दृष्टानि वस्तूनि महीसमुद्र
महीधरादीनि महान्ति मोहात।
अपह्णुवानस्य सुतः कथं त्वम्
अल्पं न निह्नोतुमलं कपालम् ॥१३॥
देवसोमा : भावं ! केवलं लालीयमाणो ण द{
इ}
स्सदि । ता एदस्स हत्थादो आच्छिन्दिअ गच्छामो ।
कपाली : प्रिये,
तथा । (आच्छेत्तुं व्याप्रियते ।)
शाक्यभिक्षुः : धंस दुट्ठकबालिअ ! (हस्तेन नुदन्पादेन ताडयति ।)
कपाली : कथं पतितोऽस्मि ?
देवसोमा : मुदो ह्मि दासीएउत्त । (केशापकर्षणं रूपयित्वा निरालम्बना पतिता ।)
शाक्यभिक्षुः (आत्मगतम्) : अघं बुद्धस्स विण्णाणं,
जेण मुण्डनं दिट्ठम् । (प्रकाशम्) उट्ठेहि उट्ठेहि उसिए । उट्ठेहि । (इति देवसोमामुत्थापयति ।)
कपाली : पश्यन्तु पश्यन्तु माहेश्वराः । अनेन दुष्टभिक्षुनामधारकेण नागसेनेन मम प्रियतमापाणिग्रहणं क्रियमाणम् ।
शाक्यभिक्षुः : आ बुस ! मा मा एवम् । धम्मो खु अह्माणं विसमपदिदाणुकम्पा ।
कपाली : किमयमपि सर्वज्ञधर्मः,
नन्वहं पूर्वं पतितोऽस्मि । भवतु,
किमनेन । इदानीं तव शिरःकपालं मम भिक्षाकपालं भविष्यति ।
(
सर्वे कलहं रूपयन्ति ।)
शाक्यभिक्षुः : दुक्खं दुक्खम् ।
कपाली : पश्यन्तु पश्यन्तु माहेश्वराः । एष दुष्टभिक्षुनामधारको मम भिक्षाकपालं मुषित्वा स्वयमेवाक्रन्दति । भवतु,
अहमप्याक्रोशयिष्ये । अब्रह्मण्यमब्रह्मण्यं !
(
ततः प्रविशति पाशुपतः ।)
पाशुपतः : सत्यसोम ! किमर्थमाक्रन्दसि ?
कपाली : भो बभ्रुकल्प ! अयं दुष्टभिक्षुनामधारको नागसेनो मम भिक्षाकपालं चोरयित्वा दातुं नेच्छति ।
पाशुपतः (आत्मगतम्) : यदस्माभिरनुष्ठेयम्,
गन्धर्वैस्तदनुष्ठितम् । एष दुरात्मा—
तां क्षौरिकस्य दासीं मम दयितां चीवरान्तदर्शितया ।
आकर्षति काकण्या बहुशो गां ग्रासमुष्ट्यैव ॥१४॥
तदिदानीं प्रतिहस्तिप्रोत्साहनेन शत्रुपक्षं ध्वंसयामि । (प्रकाशम्) भो नागसेन ! अप्येवमेतद्यथायमाह ?
शाक्यभिक्षुः : भावं ! तुवं पि एवं भणासि ?
अदिण्णादाणा वेरमणं सिक्खापदम् । मुधावादा वेरमणं सिक्खापदम् । अब्बम्हचय्या वेरमणं सिक्खापदम् । पाणादिपादा वेरमणं सिक्खापदम् । अकालभोअणा वेरमणं सिक्खापदम् । अह्माअं बुद्धधम्मं सरणं गच्छामि ।
पाशुपतः : सत्यसोम ! ईदृश एषां समयः । किमत्र प्रतिवचनं ?
कपाली : नन्वस्माकमनृतं न वक्तव्यमिति समयः ।
पाशुपतः : उभयमप्युपपन्नम् । कोऽत्र निर्णयोपायः ?
शाक्यभिक्षुः : बुद्धबाणं पमाणीकरान्तो भिक्खू सुराभाअणं गण्हादि त्ति को एत्थ हेदू ?
पाशुपतः : नहि प्रतिज्ञामात्रेण हेतुवादिनः सिद्धिरस्ति ।
कपाली : प्रत्यक्षे हेतुवचनं निरर्थकम् ।
पाशुपतः : कथं प्रत्यक्षमेव ?
देवसोमा : भावं ! एदस्स हत्थे चीवरान्तप्पच्छादिदं कबालम् ।
पाशुपतः : श्रुतं भवता ।
शाक्यभिक्षुः : भो भां ! एदं कबालं ण परकेराम् ।
कपाली : तेन हि दर्शय तावत।
शाक्यभिक्षुः : तह । (दर्शयति ।)
कपाली : पश्यन्तु पश्यन्तु माहेश्वराः ! कापालिकेन कृतमन्याय्यमस्य भदन्तस्य साधुवृत्ततां च ।
शाक्यभिक्षुः : अदिण्णादाणा वेरमणं सिक्खापदम् । (इति पुनस्तदेव पठति ।)
(
उभौ नृत्यतः ।)
शाक्यभिक्षुः : हद्धि ! लज्जिदब्बे काले णच्चदि ।
कपाली : आः को नृत्यति ? (
सर्वतो विलोक्य) आ मम नष्टभिक्षाभाजनदर्शनकुतूहलमलयानिलप्रयुक्ताया ध्रुवमस्य नृत्तबुद्धिः प्रीतिलताया विलसितेषु ।
शाक्यभिक्षुः : भावं,
केण कारणेण पदं ण लक्खीअदि ?
भो ! आचिक्खदु भावम् । इमस्स आं वण्णो ।
कपाली : किमत्र वक्तव्यं ?
ननु मया दृष्टम् । काकादपि कृष्णमिदं कपालम् ।
शाक्यभिक्षुः : तेण हि एदं ममकेरां ति सामेव अब्भुबगदम् ।
कपाली : सत्यमभ्युपगतं तव वर्णान्तरकरणे नैपुण्यम् । पश्य—
यदेतदासीत्प्रथमं स्वभावतो
मृणालभङ्गच्छविचोरमम्बरम् ।
ननु त्वया नीतमचिन्त्यकर्मणा
तदेव बालारुणरागताम्रताम् ॥१५॥
अपि च—
आवृत्तं बहिरन्तश्च कषायेणानपायिना ।
त्वां प्राप्तं स्यात्कथं नाम कपालकषायितम् ॥१६॥
देवसोमा : हा हदह्मि मन्दभाआ ! सब्बलक्खणसम्पण्णदाए कमलासणसीसकबालाणुभावस्स पुण्णमासिसोमदंसणस्स णिच्चसुरागंधिणो एदस्स मलिणपडसंसग्गेण इअ ईदिसी अवत्था संवुत्ता । (इति रोदिति ।)
कपाली : प्रिये,
अलमलं सन्तापेन । पुनः शुचिर्भविष्यति । श्रूयन्ते हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्मषाणि भवन्ति । तथा हि—
आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः
स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः ।
नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टस्तनूजं पुरा
हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनः पुण्यताम् ॥१७॥
भो बभ्रुकल्प ! नन्वेवमेतत।
पाशुपतः : आगमानुगतमभिहितम् ।
शाक्यभिक्षुः : भो वण्णो दाव मए किदो । इमस्स सण्ठाणपरिमाणं केण णिम्मिदं ?
कपाली : ननु मायासन्तानसम्भवाः खलु भवन्तः ?
शाक्यभिक्षुः : केत्तिअं वेलं भवन्तमक्कोसामि । गण्हदु भावम् ।
कपाली : नूनमेवं बुद्धेनापि दानपारमिता पूरिता ।
पाशुपतः : एवं गदे किं दाणिं मे सरणं ?
कपाली : ननु बुद्धधर्मसङ्हाः ।
पशुपतः : नायं व्यवहारो मया परिच्छेत्तुं शक्यते । तदधिकरणमेव यास्यामः ।
देवसोमा : भावं,
ज{
इ}
एवं,
णमो कबालस्स ।
पाशुपतः : कोऽभिप्रायः ?
देवसोमा : एसो उण अणेअविहारभोअसमधिगदवित्तसञ्चओ जहाकाममधिकरणकारुणिआणं मुहाणि पूरेदुं पारेदि । अह्माअं पुण अहिचम्मभूदिमत्तविभवस्स दरिद्दकबालिअस्स परिआरिआणं को एत्थ विभवो अधिकरणं पविसिदुम् ।
पाशुपतः : नैतदेवम् ।
अजिह्मैः सारगुरुभिः स्थिरैः श्लक्ष्णैः सुजन्मभिः ।
तैर्धर्मो धार्यते स्तम्भैः प्रासाद इव साधुभिः ॥१८॥
कपाली : कृतमनेन । कुतश्चिदपि न्याय्यवृत्तेर्भयं नास्ति ।
शाक्यभिक्षुः : भो भावं ! तुमं दाव अग्गदो होहि ।
पाशुपतः : बाढम् । (ततः परिक्रामति ।)
(
ततः प्रविशति उन्मत्तकः ।)
उन्मत्तकः : एशे एशे दुट्ठकक्कुले ! शुल्लमंशगब्भं कबालं गण्हिअ धावशि । दाशीए पुत्त ! कहिं गमिश्शिशि ?
एशे दाणिं कबालं णिक्खिबिअ मं खायिदुकामो अहिमुहमाहाव{
इ}
।
(
दिशो विलोक्य) इमिणा पत्थलेण दन्ताणि शे भंजिश्शम् । कहं कबालमुज्झिअ पलाअशि ?
उम्मत्ते दुट्ठकुक्कुले ईदिशेण णाम शूलत्तणेण मए शह बि लोशं कलेशि । गामशूगलमालुहिअ गगणमुप्पदिदेण शागलेण पडिभैञ्जिअ लावणं बला गहीदे शक्कुशुदे तिमिङ्गले । अ{
इ}
एलण्डलुक्ख । किं भणाशि ?
अलिअमलिअं त्ति । णमेशे मुशलशमविशाललम्बहत्थे दद्दुले मे सक्खी । अहब तेल्लोक्कविदिअपलक्कमश्श शक्खिणा किं कय्यम् । एवं कलिश्शम् । कुक्किलखादिअशेशं मंशखण्डं खादिश्शम् ।
(
खादन्भ्रान्तः ।) हा हा मालिदो म्हि बप्फेण मालिदो ह्मि । (रुदित्वा विलोक्य) के एशे मं तालेशि ? (
विलोक्य) दुट्ठदालऽ ! जश्श वा कश्श वा भाउणेओ खु अहं,
भीमशेणश्श घटुक्कओ बिअ । अबिअ शुणाथ —
गहीदशूला बहुवेशधालिणो
शदं पिशाआ उदले वहन्ति मे ।
शदं च बग्घाण णिशग्गभीशणं
मुहेण मुञ्चामि अहं महोलए ॥१९॥
कहं म बाहन्ति ?
पशीदन्तु पशीदन्तु दालाभट्टा । इमश्श मंशखण्डश्श कालणादो मा मं बाहेह । (अग्रतो विलोक्य) एशे खु अम्हाणमाआलिए शूलनन्दी । जाव णमुबशप्पामि ।
पाशुपतः : अये,
अयमुन्मत्तक इत एवाभिवर्तते । य एषः—
निर्विष्टोज्झितचित्रचीवरधरो रुक्षैर्नितान्ताकुलैः
केशैरुद्धतभस्मपांसुनिचयैर्निर्मौल्यमालाकुलैः ।
उच्छिष्टाशनलोलुपैर्बलिभुजामन्वास्यमानो गुणैर्
भूयान्ग्रामकसारसञ्चय इव भ्राम्यन्मनुष्याकृतिः ॥२०॥
उन्मत्तकः : जाव णमुबशप्पामि । (उपसृत्य) महाशाहुणो चण्डालकुक्कुलश्श शऽशादो अहिअदमेदं कपालं पडितण्डदु भावम् ।
पाशुपतः (सदृष्टिक्षेपम्) : पात्रे प्रतिपाद्यताम् ।
उन्मत्तकः : महाबम्हण ! कलिअदु पशादो ।
शाक्यभिक्षुः : एसो महापासुबदो एदस्स जोग्गो ।
उन्मत्तकः (कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणीकृत्य पादयोः पतित्वा): महादेव ! कलिअदु पशादो । एशो दे अञ्जली ।
कपाली : अस्मदीयं कपालम् ।
देवसोमा : एवमेदम् ।
कपाली : भगवत्प्रसादात्पुनरपि कपाली संवृत्तः ।
उन्मत्तकः : दासीए पुत्त ! विशं खादेहि । (कपालमाच्छिद्य गच्छति ।)
कपाली (अनुसृत्य) : एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्येतां भवन्तौ ।
उभौ : होदु । अम्हे दे सऽआ होम ।
(
सर्वे रुन्धन्ति ।)
कपाली : भोः,
तिष्ठ तिष्ठ !
उन्मत्तकः : किश्श मं लुन्धन्ति ।
कपाली : अस्मदीयं कपालं दत्त्वा गम्यताम् ।
उन्मत्तकः : मूढ ! किं ण पेक्खशि,
शुबण्णभाअणं खु एदं ?
कपाली : एवं विधं सुवर्णभाजनं केन कृतं ?
उन्मत्तकः : एदिणा शुवण्णवण्णपडाबुदेण शुबण्णकाराबुत्तएण किदं त्ति भवाम् । शुवण्णभाअणं त्ति भणामि ।
शाक्यभिक्षुः : किं भणसि ?
उन्मत्तकः : शुवण्णभाअणं त्ति ।
शाक्यभिक्षुः : किमामुम्मत्तओ ?
उन्मत्तकः : उम्मत्तओ त्ति बहुशो एदं शद्दं शुणोमि । एदं गण्हिअ दलिशेहि उम्मत्ताम् ।
कपाली (कपालं गृहीत्वा) : अयमिदानीं कुड्येनान्तर्हितः । शीघ्रमनुगम्यताम् ।
उन्मत्तकः : लद्धप्पशादे ह्मि । (निष्क्रान्तो जवेनोन्मत्तकः ।)
शाक्यभिक्षुः : अहो अच्छरिअम् । परबक्खस्स लाभेण अहं परितुट्ठो ह्मि ।
कपाली (कपालं परिष्वज्य) :
चिरं मया चरितमखण्डितं तपो
महेश्वरे भगवति भक्तिरस्ति मे ।
तिरोहितः स तु सहसा सुखेन नस्
त्वमद्य यत्कुशलि कपाल दृश्यसे ॥२१॥
देवसोमा : भावं ! चन्दसमागदं बिअ पओसं भावन्तं पेक्खन्तीए अज्ज आणन्ददी बिअ मे दिट्ठी ।
पाशुपतः : दिष्ट्या भवान्वर्धते ।
कपाली : नन्वभ्युदयो भवतामेव ।
पाशुपतः (आत्मगतं) : सत्यमेतत। नास्त्यदोषवतां भयमिति । यदयमद्य भिक्षुर्व्याघ्रमुखात्परिभ्रष्टः । (प्रकाशम्) यावदहमिदानीमेव सुहृदभ्युदयकृतमानन्दं पुरोधाय भगवतः पूर्वस्थलीनिवासिनो धूमलेखां प्रतिपालयामि । अयं चाद्यप्रभृति—
विरोधः पूर्वसम्बद्धो युवयोरस्तु शाश्वतः ।
परस्परप्रीतिकरः किराटार्जुनयोरिव ॥२२॥
(
निष्क्रान्तः पाशुपतः ।)
कपाली : भो नागसेन ! यन्मयापराधः कृतः,
तत्प्रसन्नहृदयं त्वामिच्छामि ।
शाक्यभिक्षुः : किमेदं पि अब्भत्थणीअम् । किं दे पिअं करेमि ?
कपाली : यदि मे भगवान्प्रसन्नः । किमतः परमहमिच्छामि ?
शाक्यभिक्षुः : गच्छामि दाव अहम् ।
कपाली : गच्छतु भवान्पुनर्दर्शनाय ।
शाक्यभिक्षुः : तह होदु । (निष्क्रान्तः ।)
कपाली : प्रिये देवसोमे ! गच्छावस्तावत।
(
भरतवाक्यम्)
शश्वद्भूत्यै प्रजानां वहतु विधिहुतामाहुतिं जातवेदा
वेदान्विप्रा भजन्तां सुरभिदुहितरो भूरिदोहा भवन्तु ।
उद्युक्तः स्वेषु धर्मेष्वयमपि विगतव्यापादाचन्द्रतारं
राजन्वानस्तु शक्तिप्रशमितरिपुणा शत्रुमल्लेन लोकः ॥२३॥
(
निष्क्रान्तौ ।)
इति मत्तविलासप्रहसनं समाप्तम् ।
*************************************************************
]