मतिभ्रमणम्

[[मतिभ्रमणम् Source: EB]]

[

मतिभ्रमणम्

(ततः प्रविशति घूर्णितशरीरः पिबन् सुमतिः)

सुमतिः – तमहं मारयेयम् । तं जीवन्तं न पश्यामि । तेन मित्रद्रोहः कृतः । सः पापात्मा । सः चिरकालं जीवितुं नार्हः । मधुरं जल्पन् मे उदरे छुरिकामचालयत् । सर्वं मे समक्षं वृत्तम् । मे मतिभ्रमणं जातम् । अहं सुमतिः । मे मतिः कलङ्किता । मे मतिः भ्रमते । मे निस्सारे संसारे शान्तिर्नास्ति । इयं पत्नी दुष्टा । अति कामतृष्णाभूयिष्टा । अत्याशापूरिता । जगति अत्याशा दुःखास्पदा भवति । एषा पुंश्चली । अस्मिन् काले निरोधः व्यभिचाराय आस्पदं भवति । अयं मे मित्रम् इति मया व्यवहृतम् । सः पातकं चकार । अहं कुत्र वसेयम् । अयं संसारः निस्सारः । जगत् सर्वं मायावृत्तम् । (इति अधः पतति)

(यवनिका पतति)

(ततः प्रविशति यवनिकापुरतः व्यवस्थापकः ध्वनियन्त्रं हस्ते गृहीत्वा)

व्यवस्थापकः – अयि भोः रसिकसामाजिकाः । अधुना युष्माभिः दृष्टं कथं सुमतिः जीवने भ्रामितमतिः सञ्जातः । केन कारणेन तस्य मतिभ्रमणं जातम् । इत्येतत् सर्वं प्रत्यक्षं यूयं द्रष्टुम् उपविष्टाः । नाटकदर्शने, नाटक प्रारम्भे अतिक्रान्तवेला माभूयात् । अहं नाटककर्तारं परिचयं विधाय नाटकमुपक्रमिष्ये । एतन्नाटकं गीर्वाणान्ध्रभाषाप्रवीणेन परीक्षित् शर्मणा कृतम् । अनेन आन्ध्रगीर्वाणभाषयोः महती सृष्टिः कृता । अनेन विविध काव्यानि विलिखितानि । सप्तविंशतिनाटकानि परीक्षिन्नाटकचक्रम् इति नाम्ना प्रकाशितानि । अस्य गीर्वाणगेयचक्रवर्ती इति द्वितीयं नाम विद्यते । अयम् अखिलभारतीय कालिदास पुरस्कार ग्रहीता । अयं महाकविः । एतन्नाटकम् अनेन महाकविना कथं चित्रितं भवन्तः प्रत्यक्षं पश्यन्तु अनुभवन्तु । इति अहम् आशासे । नमांसि । (इति अन्तः गच्छति)
(ततः अपसार्यते यवनिका)

(सुमतिः, गायत्रीगौरीभ्यां क्रीडन् आस्ते)

सुमतिः – बाले गायत्रि त्वं विष्णुस्तोत्रं शान्ताकारं भुजग शयनं श्लोकं कथय ।

गायत्री – (उपविश्य नमस्कुर्वन्ती कथयति)

शान्तकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृध्यानगम्यम् ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

सुमतिः – एहि मम समीपं अहं त्वां चुम्बेयम् ।

गायत्री – (आगत्य पितरं चुम्बति, पिता पुत्रिकां चुम्बति)

सुमतिः – बाले अहं सर्वं जगत्‌विस्मरामि तव चुम्बनेन ते पितुः जन्म सार्थकं बभूव ।

गौरी – पितः अहं त्वां चुम्बेयम् । (इति पितुः समीपं गच्छति)

सुमतिः – बाले गौरि, त्वं प्रथमतः या कुन्देन्दु तुषारहार श्लोकम् उक्त्वा मां विचुम्ब ।

गौरी – (भूमौ उपविश्य नमस्कुर्वन्ती)

या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता ।
या वीणा वरदण्‍ड मण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत शङ्करप्रभृतिभुर्देवैस्सदा पूजिता ।
सामाम्पातु सरस्वती भगवती निश्शेष जाड्यापहा ॥

(इत्युक्त्वा धावन्ती पितरं गत्वा तं चुम्बति)

सुमतिः – (ताम् उद्‌धृत्य स्कन्धे निक्षिप्य चुम्बति सापि पितरं चुम्बति) बाले गायत्रि त्वम् अन्तः गत्वा मातरम् अत्राह्वय ।

गायत्री – तथैव पितः । (इति अन्तः गच्छति)

सुमतिः – (गौरीं हस्ताभ्यां उद्धृत्य) एहि एहि चन्द्रभोः । मा बिभेहि चन्द्रभोः उदय शिखर हिण्डमाना चारु चन्द्रभोः यामिनी चुम्बनेन रागि चन्द्रभोः । एहि एहि । (इति तां कन्दुकवत् उपरि कृत्वा हस्ताभ्यां गृह्णाति)

गायत्री – (हठात् प्रविश्य) पितः माता वमति ।

सुमतिः – किं माता वमति ? (इति गौरीम् अधः संस्थाप्य अन्तः गच्छति) किञ्चित्कालानन्तरं तया सह प्रविशन् हञ्जे कथं वमनमभूत् ।

सुषमा – याथार्थ्येन वमनं नहि किन्तु वमन शङ्का अभूत् ।

सुमति – बाले युवाम् अन्तः गच्छताम् । (द्वावपि अन्तः गच्छतः) सुषमे पश्य, अस्माकम् अधुना पुत्रिकाद्वयं वर्तते ।

सुषमा – अधुना किमासीत् ।

सुमति – तृतीयवारं पुत्रोवा भवति, पुत्रिका वा भवति । इति मत्वा इतः परं सन्ततिः मास्तु इति प्रथमतः एव निरोध शस्त्रक्रिया कारिता ।

सुषमा – (सोफायां उपविश्य) उदरे अवकलनं भवति । किमपि उदरे परिभ्रमति ।

सुमतिः – कथं ते उदरे परिभ्रमति ? किमर्थम् अवकलनं भवति । अन्तर्वत्नी त्वं तु न भवति । गच्छ त्वं स्वप । अहं मे मित्रं सुधीर समीपं गत्वा तम् आनयेयम् ।

सुषमा – गच्छन्तु भवन्तः तम् आनयन्तु ।

सुमति – पादत्राणे धृत्वा बहिः गच्छति ।

सुषमा – (सोफायां शेते किमपि ऊहाचित्रं कल्पयन्ती)

गौरी – शयनगृहात् अम्बे अम्बे । (इति रुदन्ती मातरं प्राप्नोति)

सुषमा – बाले गौरि एहि मदङ्कम् आरोह । (इति तां स्वीय अङ्कततलं आरोप्य लालयन्ती गीतं गायति)

गीतम् (मालर्कौंसरागे)

भ्रम भ्रम भ्रम भ्रमर
भज भज भज नीरज षण्डम्
पिब पिब पिब मधुबिन्दुम
कुसुमात् कुसुमं विटपात् विटपम् धृ.

झुं झुं झुं गुञ्जसि मधुरम्
कुसुमे कुसुमे पिबसि च मकरन्दम्
झुं झुं झुं शब्दं कुर्वन्नाकाशम्
चपलं व्रजसि वेगेनेव विमानम् 1

प्रति कुसुमं पीत्वा मकरन्दम्
कुरुषे परिमल कुसुमाकर विटपम्
मधुरस सम्भारितं फलभर विटपम्
भ्रमर ते हृदयं रसमय हृदयम् 2

ते पक्षानिल निसृत मञ्जुल शब्दम्
शृत्वा बालाः भयचकिता नित्यम्
बाला शकुन्तला भीता सोत्कम्पम्
मधुकर गुञ्ज नितरां र्निर्जन देशे मदुरम् 3

जम्बूफल सादृश्यं ते रूपम्
कुसुम परागे लुठितं ते देहम्
दृष्ट्वा फल बुद्ध्या सानन्दम्
आगच्छति ग्रसितुं कीरकुलम् 4

(गानं शृत्वा गौरी सुप्ता गायत्री मातुः समीपमागच्छति)

गायत्री – मातः पिता कुत्र ?

सुषमा – पिता बहिर्गतः ।

गायत्री – अधुना किमर्थं बहिर्गतः ।

सुषमा – कार्यालय कार्यार्थं गतः ।

गायत्री – अद्य कार्यालयः पिहितः अस्ति ।

सुषमा – कथम् ।

गायत्री – अद्य रविवासरः खलु ।

सुषमा – तर्हि मित्रगृहं गतः इति मन्ये ।

गायत्री – अम्बे तव आरोग्यं साधु न वर्तते किम् ?

सुषमा – साधु विद्यते ।

गायत्री – त्वं जृम्भणं करोषि । तव निद्रा नक्तं पर्याप्तं नाभूत् किम् ?

सुषमा – गायत्रि अधुना सन्ध्या समयः । त्वं प्रातिवेशिक बालिकाभिः साकं खेलितुं गच्छ । (बहिः गच्छति गायत्री । गौरीं शयनगृहे शाययित्वा प्रत्यागत्य एकान्ते उपविश्य चिन्तयन्ति आस्ते)

(बहिः द्वारघण्टानादः भवति, सुषमा गत्वा द्वारं उद्घाटयति, प्रविशति सुमतिः ।)

सुमतिः – सुषमे कथं वर्तते ते स्थितिः ।

सुषमा – यथापूर्वं विद्यते । विकारः भवति उदरे ।

सुमतिः – वैद्यः सुधीरः आगमिष्यति अधुना । (किञ्चित् विचार्य) सुषमे बालिके कुत्र गतवत्यौ अधुना ।

सुषमा – ते स्वपतः अन्तः ।

सुमतिः – साधु ते आवयोः भाषणं न शृतवत्यौ ।

सुषमा – एवं वदति भवान् कारणं किम् ?

सुमतिः – अधुना मे मित्रं वैद्यः सुधीरः आगमिष्यति । अस्मदीय भाषणं पुत्रिके नाशृमुणुताम् इति मे अभिप्रायः ।

सुषमा – (विहस्य) अयं ते अभिप्रायः ।

सुमतिः – त्वं ते आरोग्यम्प्रति तस्मै सविस्तरं कथय ।

(बहिः कवाट ताडनं द्वारघण्टानादश्च)

सुषमा – (शृत्वा) कोवा समागतः इति मन्ये ।

सुमतिः – कः आगमिष्यति सुधीरात् ऋते । (इति उक्त्वा कवाटमुद्घाटयति) (ततः प्रविशति शतष्कोपसहितः पेटिका हस्तः वैद्यवेषे सुधीरः)

सुषमा – (उत्थाय) अयि भोः सुधीर अभिवादये । (इति नमस्करोति)

सुधिरः – सुषमे कथं विद्यते ते आरोग्यम् ।

सुषमा – मम आरोग्यं सम्यक् वर्तते । न कोऽपि विशेषः ।

सुमतिः – अरे सुधीर त्वम् अत्र उपविश । (इति आसनं दर्शयति)

सुधीरः – (उपविशति) अरे सुमते मे परिचारिका उक्तवती त्वम् आगत्य प्रतिनिवृत्तोऽसि इति । तस्मात् अहं भ्रातृजायायाः किमभूत् इति विचारयन् अनुपदमेवागच्छम् भ्रातृजायां द्रष्टुम् ।

सुमतिः – भवान् तव भ्रातृजायाविषये अत्यन्तश्रद्धावान् इति जानाम्यहम् ।

सुधीरः – अधुना किमापतितम् ।

सुमतिः – तव भ्रातृजायायाः ह्यः प्रभृति वमनविकारः भवति किन्तु वमनं न भवति ।

सुधीरः – वमनं कथं भवति । अजीर्णतया भवति प्रायेण नत्वन्यथा ।

सुमतिः – त्वं वैद्यः । तस्मात् त्वमेव जानासि । कारणं नाहं जाने ।

सुधीरः – अधुना एताम् आपाद मस्तकं परीक्षां करिष्यामि ।

सुमतिः – सुषमे त्वं सर्वं तस्मै कथय सः शल्यपरीक्षां करिष्यति ।

सुषमा – मम कापि बाधा नास्ति ।

सुधीरः – तव न कापि बाधा विद्यते इति जानाम्यहम् । तथापि परीक्षा कर्तव्या विद्यते ।

सुमतिः – लोकोक्तिः एवं विद्यते कुटुम्बविषयाः गोपनीयाः व्याधिविषयाः घोषणीयाः इति । तस्मात् तव कुत्र का बाधा विद्यते सर्वमुद्दिश्य सुधीराय घोषय । सविस्तरं कथय ।

सुषमा – (आगत्य मञ्चे शेते)

सुधीरः – (तां शतष्कौपेन परीक्ष्यते)

सुमतिः – किमस्ति कापि व्याधिः ।

सुधीरः – नहि । इति तस्याः वामहस्तनाडीं पश्यति ।

सुमतिः – किमेषा रुग्णवती ।

सुधीरः – नहि । एषा अन्तर्वत्नी ।

सुमतिः – (विषण्णवदनः सुधीरेण सार्थम्) कथम् एषा अन्तर्वत्नी जाता ।

सुधीरः – अहं कथयेयम् अनन्तरम् ।

सुमतिः – सुषमे त्वं गच्छ अन्तः । किञ्चित् चहां कृत्वा आनय ।

सुधीरः – भ्रातृजाये नाहम् अभिलाषामि चहां किन्तु काफीं देहि ।

सुषमा – हां सत्यं काफीं दास्यामि । (इति अन्तः गच्छति)

सुमतिः – अरे सुधीर । कथम् एषा अन्तर्वत्नी जाता ।

सुधीरः – सुमते कदा शस्त्रचिकित्सा सन्तान निरोधार्थं कृता ।

सुमतिः – मास चतुष्टयमभूत् ।

सुधीरः – कः चकार शस्त्रचिकित्साम् ।

सुमतिः – अत्र पार्श्वेविद्यमानः वैद्यः विद्यासागरः ।

सुधीरः – हां यः विदेशात् प्रत्यागतः ।

सुमतिः – हाम् ।

सुधीरः – अयं तज्ञः ।

सुमतिः – कथम् एषा अन्तर्वत्नी जाता ।

सुधीरः – क्वचित् क्वचित् शस्त्रचिकित्सा सफलतां न प्राप्नोति । शस्त्रचिकित्सा कृतापि वीर्यनलिका वीर्यप्रवाहवेगेनविदलनं प्राप्य वीर्यं स्रावयति । वीर्यवेगसमक्षं वीर्यनलिका शक्तिहीना भवति । तस्मात् कारणात् अन्तर्वत्नीत्वं जातम् इति मे मतिः ।

सुमतिः – एवं भवति किम् ?

सुधीरः – भवत्येव ।

सुमतिः – तदा किं प्रयोजनं शस्त्रचिकित्सया ।

सुधीरः – तस्मात् विचार्य शस्त्रक्रिया कर्तव्या । नोचेत् अन्यमार्गम् अनुसर्तव्यम् भवति ।

सुमतिः – शासनस्य आदेशः खलु अधिकसन्ततिः मा भूयात् इति । तस्मात् एवं मया कृतम् ।

सुधीरः – अधुना ज्ञातम् । पुनः शस्त्रचिकित्सा कर्तव्या इति मे ऊहः ।

सुमतिः – अहं तस्य विद्यासागरस्य समीपं गत्वा पृच्छेयम् । कोत्र दोषः इति ।

सुधीरः – सोऽपि एवमेव कथयिष्यति । गमनं निरर्थकम् । किन्तु गमने न कापि हानिः ।

सुमतिः – सावकाशं गच्छेयम् ।

सुषमा – (प्रविश्य) सुधीर महोदय नीयतां काफी । (इति काफीं सुमतये सुधीराय च ददाति)

सुधीरः – (काफीं गृहीत्वा पिबति, सुमतिः अपि काफीं पिबति) सुषमाभ्रातृजाये काफीं सम्यक् कृतवती । अहं सर्वदा चहापेक्ष्या काफीमेव अधिकं पिबामि ।

सुमतिः – अरे सुधीर केचन कथयन्ति काफीपेक्ष्या चहपानं साधुरिति । तस्मात् सर्वदा अहं चहां पिबामि ।

सुधीरः – द्वावप्येतौ निरर्थकौ । तथापि चहापानं साधुरिति मे मनीषा । यस्य यत् रोचते तत् ग्राह्यं भवति । (उत्थाय) अरे गच्छेयमहम् । वैद्यालये रोगिणः बहवः सन्ति । तान् सर्वान् परीक्ष्य औषधं दातव्यं वर्तते । यदि अहं तत्र न भवामि तर्हि सम्मर्दः अतीव भविष्यति । नमस्ते भ्रातृजाये । (इति नमस्कृत्य गच्छति)

सुमतिः – अयम् अतीव सज्जनः वैद्यः । मे परममित्रम् ।

सुषमा – अहमपि तं तथैव भावयामि । (इति द्वावपि अन्तः गच्छतः)

(यवनिका पतति)

*******************************************************************

.

द्वितीयं दृश्यम्

(ततः प्रविशतः कुमाया, सुषमा रङ्गमञ्चे शेते सुमतिः सोफायाम् उपविश्य साप्ताहिकं पठन् आस्ते)

गायत्री – पितः अद्य कार्यालयं न गतं किं भवता ।

सुमतिः – नहि ।

गौरी – किमर्थमिति न गतं भवता ।

सुमतिः – मातुः स्वास्त्यं न सम्यक् विद्यते ।

गौरी – माता ज्वरपीडिता किम् ।

सुमतिः – हां बाले माता ज्वरपीडिता ।

गौरी – (सुमति उत्सङ्गे उपविश्य) पितः अद्य अस्माकं भोजनं माता न यच्छति किम् ।

सुमतिः – माता यच्छति ।

गायत्री – माता अस्वस्था खलु कथं दास्यति ।

गायत्री – पितः अद्य माता स्वपतु भवान् वयं च मिलित्वा पाकम् अन्योन्य सहायेन कुर्मः ।

सुषमा – (विहस्य) हसे बाले यदि यूयं सर्वे मिलित्वा पाकं करिष्यथ तर्हि खादकः कः अस्ति ।

गायत्री – अहो मातः वयं सर्वे खादिष्यामः । सर्वे प्रसङ्गा बुभुक्षाहन्यमानाः भवन्ति ।

सुमतिः – हां सत्यमुदीरितं गायत्रि । बुभुक्षितानां न रुचिर्न पाकः । सुषमे कुमार्यौ बुभुक्षिते त्वमेव उत्थाय स्वयम्पाकं कुरु ।

सुषमा – (उत्थाय) कुमार्यौ न बुभुक्षिते । भवानेव बुभुक्षितः इति मन्ये । (इति अन्तः गच्छति)

सुमतिः – हञ्जे अहं विद्यासागरवैद्यगृहं गत्वा प्रत्यागच्छेयम् । अयि बाले अधुना गृहं विहाय बहिः मा गच्छताम् ।

गायत्री –पितः भवान् अधुना अस्माकं किमपि खादितुम् आपणात् आनय ।

सुमतिः – अधुना कथम् । मातः स्वयम्पाकं करोति । अनुपदमेव भोक्तव्य विद्यते । अधुना अहम् आपणं न गच्छामि ।

सुषमा – भोः । गृहे शाकाय न किमपि विद्यते । कोशातकीं, कारवेल्लान् उत पटोलींवा आनय ।

सुमतिः – तथैव । (इति पादत्राणे धरति)

गौरी – पितः अहमपि त्वया साकम् आगच्छेयम् ।

सुमतिः – अहम् अधुना वैद्यालयं गच्छामि । तत्र बालिकानां प्रवेशोनास्ति ।

गौरी – अहं त्वयासाकं आगच्छेयम् मां गृहाण । (इति तस्य पादबन्धनं स्वीय हस्ताभ्यां करोति)

सुमतिः – सुषमे, एहि पश्य एषा कथं मां बध्नाति ।

सुषमा – (प्रविश्य) हसे गौरि तथा मा कुरु । अधुना पिता प्रत्यागमिष्यति । तव खाद्यमपि आनयिष्यति ।

गायत्री – गौरि आवाम् अत्र क्रीडिष्यावः एहि । (इति तां कर्षति)

गौरी – (विलपन्ती गायत्रीसकाशं गच्छति)

सुमतिः – बाले गौरि अहं त्वत्कृते मोदकान् आनयेयम् । (इति तां सान्त्वयति)

गौरी – (निश्शब्दं भजते)

सुमतिः – (तां गौरीं विचुम्ब्य तस्याः हस्ते एकं रूप्यकं निक्षिप्य) बाले मा रुदि । अहं युवयोः मोदकान् आनयेयम् । अधुना अहम् आगच्छेयम् ।

गौरी – (विहस्य सुमतिं कण्ठे गृहणाति)

सुमतिः – (ताम् उद्धृत्य चुम्बति)

सुषमा – अहो प्रेम अधिकं बभूव । अलम् अनेन चुम्बनेन । त्वं सत्वरं गत्वा शाकादिकम् आनय ।

सुमतिः – हाम् अधुना गच्छामि । (इति तां गौरी विसृज्य गच्छति)

सुषमा – बाले गायत्रि त्वं गत्वा कवाटं पिधेहि ।

गायत्री – (गच्छति कवाटं पिनद्धि)

(सर्वे अन्तः प्रविशति)

(यवनिका पतति)

*******************************************************

.

तृतीयं दृश्यम्

(विद्यासागरस्य वैद्यालयः, तत्र टेबुलोपरि औषधपात्राणि, बाटिलानि विद्यन्ते, तत्र विद्यासागरः एकस्यां सोफायाम् उपविश्य पठति, तत्र एका परिचारिका कर्मकुर्वन्ती आस्ते)

विद्यासागरः – स्वसे, कथं विद्यते स बालः । यस्य श्वः शस्त्रक्रिया कृता ।

परिचारिका – महोदय, सः पुष्णाति । सन्तोषी लसते ।

विद्यासागरः – सः मृत्युमुखात् बहिः निर्गतः इति मन्ये ।

परिचारिका – तत् सत्यम् ।

विद्यासागरः – श्वः कः विद्यते शस्त्रक्रियार्थम् । पश्येयं देहि मे नामसारिणीम् ।

परिचारिका – आनयामि भोः । (इति सारणीमानीय ददाति)

विद्यासागरः – श्वः कर्करोगिणः शस्त्रचिकित्साकरणीया विद्यते । सर्वं सन्नद्धं कुरु । श्वः दशघण्टावादनसमये प्रातःभविष्यति ।

परिचारिका – अवश्यं महोदय । करिष्यामि सर्वव्यवस्थाम् ।

(विद्यासागरः पुनः पठन् आस्ते । बहिः द्वारघण्टावादनम् भवति)

विद्यासागरः – स्वसे कोवा आगतः । कवाटं ताडयति गच्छ । उद्घाट्य कवाटम् ।

परिचारिका – तथैव । गच्छामि । (इति गच्छति, कवाटम् उद्घाटयति) एहि भोः अन्तः । (सुमतिः अन्तः आगच्छति)

सुमतिः – सुप्रभातम् वैद्यमहोदय ।

विद्यासागरः – सुप्रभातम् । एहि सुमते । उपविशतु भवान् । (इति आसनं दर्शयति)

सुमतिः – (उपविशति)

विद्यासागरः – अधुना आगमनस्य हेतुः कः ।

सुमतिः – भवन्तं द्रष्टुं समागतोऽस्मि । न कोपि विशेषः ।

विद्यासागरः – धन्योस्मि ।

सुमतिः – अहम् एकं प्रश्नं पप्रच्छुः अस्मि ।

विद्यासागरः – कोऽयं प्रश्नः ।

सुमतिः – निरोधार्थं कृतशस्त्रक्रिया यदा कदापि विफला भविष्यति किम् ।

विद्यासागरः – अधुना अस्य प्रश्नस्य कारणं किम् ।

सुमतिः – अहं ज्ञातुम् इच्छामि ।

विद्यासागरः – विफला भवितुं शक्यते । सर्वदा सर्वशस्त्रक्रियाः सफलाः न भवन्ति ।

सुमतिः – कारणं किं विद्यते तथा भवितुम् ।

विद्यासागरः – अनेकानि कारणानि सन्ति । अधुना अस्य प्रश्नस्य आविर्भावः कुतः ।

सुमतिः – भवान् मे शस्त्रक्रियाम् अकरोत् सन्तान निरोधार्थम् ।

विद्यासागरः – हां सत्यम् अहं शस्त्रक्रियाम् अकरवम् ।

सुमतिः – किन्तु मे जाया अन्तर्वत्नी जाता ।

विद्यासागरः – अन्तर्वन्ती जाता कथम् ?

सुमतिः – तदर्थमेवाहम् अत्रागत्य भवन्तं पृच्छामि ।

विद्यासागरः – त्वम् अन्तः एहि । त्वामहं परीक्ष्ये ।

सुमतिः – (अन्तः गच्छति)

विद्यासागरः – (अन्तः गच्छति)

परिचारिका – (तौ विलोक्य हसन्ती शस्त्रक्रियार्थं सर्वसामग्रिं सज्जयति)

सुमतिः – (प्रत्यागच्छति, पृष्ठतः विद्यासागरः आगच्छति)

विद्यासागरः – सुधीर त्वं मा विचारय । मे शस्त्रक्रिया सफलता जाता । कथं एतत् अन्तर्वत्नीत्वं संवृत्तं नाहं जानामि । किन्तु सम्भवः विद्यते । यतः शस्त्रक्रियानन्तरमपि वीर्यप्रवाहवेगेन कामोद्रेकेन च वीर्यनलिकायाः विदलनं भविष्यति । तस्मात् बभूवेति मे अभिप्रायः ।

सुमतिः – एषा शङ्का बहुधा पीडयति माम् ।

विद्यासागरः – भवान् भवतः पत्नीम् एकदा आनीय दर्शय मह्यं, तदा परीक्ष्य कथयिष्यामि ।

सुमतिः – सुधीरः मे मित्रम् । सोऽपि तज्ञः वैद्यः शस्त्रक्रियादक्षः सोऽपि एवमेकादीत् ।

विद्यासागरः – हां तं सुधीरं जानाम्यहम् ।

सुमतिः – महोदय श्वः अहं मे पत्नीम् आनीय तुभ्यं दर्शयेयम् ।

विद्यासागरः – अवश्यम् दर्शय ।

सुमतिः – (उत्थाय) नमस्ते । (इति गच्छति)

(विद्यासागरः स्वसा च अन्तः गच्छतः)

(यवनिका पतति)

******************************************************

.

चतुर्थं दृश्यम्

(गायत्रीगौर्यौ क्रीडतः पुत्तलिकाभिः । गायत्री एकस्मिन् कोणे खेलति, गौरी अन्यस्मिन् कोणे क्रीडति । गायत्री कुङ्कुमभरिणहस्ता गौरीसमीपमागत्य)

गायत्री – गौरि अद्य मे गृहे मे पुत्रिकायाः चम्पायाः विवाहः भवति । तस्मात् त्वम् एहि । (इति कुङ्कुमरेखां तिलकयति)

गौरी – गायत्रि कति पुत्राः पुत्रिकाश्च सन्ति ।

गायत्री – मे तिस्रः पुत्रिकाः सन्ति ।

गौरी – पुत्राः न सन्ति किम् ।

गायत्री – न सन्ति ।

गौरी – मम पितुः अपि पुत्राः न सन्ति ।

गायत्री – मे तिस्रः पुत्रिकाः तालीपत्रकृतकाः । ताः सर्वदा चीनांशुका वेष्टिताः वर्तन्ते ।

गौरी – कोऽयं वरः तव चम्पायाः ।

गायत्री – मे पिता आपणात् चम्पाकृते एकां पुत्तलिकाम् आनीतवान् । सः वरः । मे प्रथम पुत्री वधूः । तयोर्विवाहः भविता अधुना ।

गौरी – अहं मम कुटुम्बेन साकम् आगच्छेयम् ।

गायत्री – एहि अवश्यम् । अहं गच्छामि ।

गौरी – त्वम् एधि तिलकयिष्यामि । अयम् अस्य देशीय नारीणां परम्परागत साम्प्रदायः । (इति कुङ्कुमभरणीम् आनीय तस्मात् कुङ्कुमं गृहीत्वा गौरी गायत्र्याः फाले तिलकयति)

(ततः प्रविशति सुमतिः)

सुमतिः – (तां विलोक्य) किं कुरुतः भवत्यौ ।

गायत्री – पितः अद्य मे कन्यकायाः विवाहः त्वमपि आगच्छ विवाहार्थम् ।

सुमतिः – अरे तव पुत्रिकायाः विवाहः क्रियते । (इति तां चुम्बति)

गौरी – पितः मामपि चुम्ब । (इति तम्प्रतिगच्छति)

सुमतिः – (द्वावपि स्वनिकटं गृहीत्वा आलिन्ङ्ग्य चुम्बति)

सुषमा – (स्वयम्पाक गृहात् प्रविश्य) किं बिलम्ब्य समायतम् ।

सुमतिः – अहं विद्यासागर गृहं गत्वा प्रत्यागच्छम् ।

सुषमा – किं शाकम् आनीतम् ।

सुमतिः – अरे अहं विस्मृतोऽस्मि शाकामानेतुम् ।

सुषमा – अधुना किं कुर्याम् ।

सुमतिः – मुद्गसूपं कुरु । तदेव पर्याप्तं भविष्यति । आम्रव्यञ्जनं विद्यते । तक्रं विद्यते ।

सुषमा – मुद्गसूपम् अकरवम् ।

सुमतिः – पर्याप्तम् भवति ।

सुषमा – वैद्य विद्यासागरगृहम् गतं किम् ?

सुमतिः – हां विद्यासागर गृहम् गतम् ।

सुषमा – किं सः अवोचत् ।

सुमतिः – सः त्वां द्रष्टुम् अपिच आपादमस्तकं वैद्यकीय परीक्षां कर्तुम् इच्छति ।

सुषमा – दृष्टङ्खलु तेन सुधीरेण ।

सुमतिः – दृष्टमेव किन्तु अयमपि दिदृक्षति ।

सुषमा – अयि बाले भवत्यौ अन्तःगत्वा भोजनं कुरुताम् । (द्वावपि गच्छतः) अरे सुमते अहं सर्वेषां सन्निधिं गन्तुं नेच्छामि ।

सुमतिः – सः वैद्यः । त्वां द्रष्टुमिच्छति ।

सुषमा – परीक्षावसरः नास्ति अधुना ।

सुमतिः – का ते चिन्ता । का ते भीतिः ।

सुषमा – चिन्ता नहि । भीतिर्नास्ति ।

सुमतिः – तर्हि विचल तस्य सकाशम् ।

सुषमा – अधुना मे न कोपि रोगः वर्तते । केवलं वमनं भवति तदा तदा ।

सुमतिः – वमनं रोगिणामपि भवति । यदि अन्यः रोगः विद्यते वा नोचेत् अन्तर्वत्नीत्वं वा वयं न जानीमहे । तस्मात् एकदा परीक्षाकरणं योग्यम् इति मे अभिप्रायः ।

सुषमा – सुधीरः जगाद खलु अन्तर्वत्नीत्वमिति ।

सुमतिः – सः मे मित्रम् । तस्य हृदयं जानाम्यहम् । सः कदापि असत्यं न भणति ।

सुषमा – तर्हि अधुना विद्यासागरस्य समीपं किमर्थम् ।

सुमतिः – ते मूर्खता मां क्रोधिनं करोति ।

सुषमा – हाम् आगच्छामि किञ्चित् कालम् उपविशन्तु । बालिकयौः भोजनानन्तरं आवां भुक्त्वा गच्छावः । (इति अन्तःगच्छति बालिके भुक्त्वा आगत्य)

गायत्री – पितः मम एकां द्विचक्रीवाहनं क्रीणातु ।

सुमतिः – अधुना नहि क्रोष्यामि यदि त्वं कक्ष्यायाम् उत्तीर्णा भवसि तदा अहं क्रीत्वा आनयेयम् ।

गौरी – पितः मम एकां बृहतीं पुत्तलिकाम् आनय ।

सुमतिः – (गौरीम् उत्सङ्गे नीत्वा) हाम् आनयेयम् पुत्तलिकाम् । (इति चुम्बति)

सुषमा – भोक्तुम् आगच्छतु भवान् ।

सुमतिः – आगच्छामि । बालिके भवत्यौ अन्तः आगच्छताम् । (इति ताभ्याम् अन्तः प्रविशति)

सुषमा – (तान् अनुसरति)

(यवनिका पतति)

.**********************************************************

.

पञ्चमं दृश्यम्

(विद्यासागरः टेबुलोपरि किमपि लिखान्नास्ते, टेबुलोपरि अनेकानि पुस्तकानि सन्ति, परिचारिका सिरञ्जिं सन्नद्धं कुर्वन्ती आस्ते)

(ततः प्रविशतः सुषमासुमती)

विद्यासागरः – (विलोक्य) स्वागतम्, आगच्छताम् । अत्रोऽपविशताम् ।(इति आसनं दर्शयति)

सुमतिः – अनुगृहीतोऽस्मि । (इति उपविशति) एषा मम पत्नी सुषमा । (इति तां दर्शयति)

विद्यासागरः – नमस्ते । उपविशतु भवती । (इति आसनं दर्शयति सुषमा उपविशति) स्वसे । (इति परिचारिकाम् आह्वयति)

परिचारिका – एषाऽस्मि ।

विद्यासागरः – स्वसे परीक्षागृहे सकलव्यवस्थां कुरु ।

परिचारिका – यथाज्ञापयति । (इति अन्तःगच्छति)

विद्यासागरः – सुषमे, का ते बाधा ।

सुषमा – मम न कापि बाधा विद्यते ।

विद्यासागरः – वमनं भवतीति तव भर्ता प्रोक्तम् ।

सुषमा – तदा तदा वमनं भवति । तदा तदा उदरे किमपि चलतीव प्रतिभाति ।

विद्यासागरः – वमनं प्रारम्भ्य कियत्कालमभूत् ।

सुषमा – एकः पक्षः अभूत् ।

विद्यासागरः – उदरे अपि बाधा विद्यते इति भवत्या प्रोक्तम् । सा बाधा असहना भवति उत सह्या भवति ?

सुषमा – सह्या भवति ।

विद्यासागरः – एहि मत्सकाशम् ।

सुषमा – (एति)

विद्यासागरः - (करदीपिकया तस्याः नेत्रयोः विलोक्य) भवती अन्तः परीक्षागृहं प्रविशतु ।

सुषमा – (अन्तःप्रविशति)

विद्यासागरः – (तस्याः पश्चात् अन्तःप्रविशति)

सुमतिः – (साप्ताहिकानि दैनन्दिनानि पश्यन् आस्ते ।)

(तत्र दूरध्वनि यन्त्र नादः भवति, सुमतिः उत्थाय तत्र गत्वा फोनुं गृहीत्वा) हलो नमस्ते इयं विद्यासागरस्य वैद्यशाला । अत्र न कोपि विद्यते न्यायवादी । सङ्ख्या वक्रिता । (इति फोनुं निक्षिपति, आगत्य स्वस्थाने उपविशति । अत्रान्तरे विद्यासागर सुषमे प्रविशतः)

विद्यासागरः – सुमते, केयं दूरध्वनिः ।

सुमतिः – एतत् न्यायवादिनः गृहम् ? किम् इति कोवाऽपृच्छत् । अहम् अवदम् सङ्ख्या वक्रिता इति ।

विद्यासागरः – केचन सर्वदा अपसङ्ख्यां भ्रामयित्वा पृच्छन्ति एवमेव । हां सुमते पश्य एषा अन्तर्वत्नी आस्ते । उक्तं खलु मया शस्त्रक्रिया सफला जातापि अन्तर्वत्नीत्वस्य सम्भवः अस्तीति । तस्मात् मा शङ्कां कुरु ।

सुमतिः – न कापि मे शङ्का विद्यते । किन्तु एषा रोगार्ता जाता किम् इति शङ्का समजनि । अधुना भवद्भिः प्रोक्तं खलु इतः परं न कापि शङ्करा बाधते माम् ।

विद्यासागरः – स्वसे चहपानादिकं वितीर्यताम् ।

परिचारिका – वितीर्यते भोः । (इति अन्तःगच्छति)

विद्यासागरः – सुमते तव वयः कियत् ।

सुमतिः – मम वयः सप्तविंशतिः ।

विद्यासागरः – तव पत्न्याः वयः ।

सुमतिः – तस्याः वयः चतुर्विंशतिः ।

विद्यासागरः – कदा युवयोः परिणयः अभूत् । तदा युवयोः वयः कियत् ।

सुमतिः – सप्तवर्षेभ्यः प्राक् विवाहः समभूत् । तदा एतस्याः वयः अष्टादश । मम वयः एकविंशतिः ।

विद्यासागरः – कति पुत्राः पुत्रिकाश्च विद्यन्ते ।

सुमतिः – पुत्रिका द्वयम् वर्तते ।

विद्यासागरः – हाम् उक्तं भवता पूर्वम्, यदा त्वं निरोध शस्त्रक्रियार्थम् आगतोसि तदा । विस्मृतं मया ।

विद्यासागरः – तयो वयसी ।

सुमतिः – वर्ष षटकम् वर्ष चतुष्टयं च ।

विद्यासागरः – इतः परं सन्तानाभावः कल्याणं भवति तव कुटुम्बस्य ।

सुमतिः – तस्मादेव अहं शस्त्रचिकित्साम् अकारयम् ।

विद्यासागरः – भवतु नाम पश्यामः किं भविष्यतिवा । मा विचारय । (परिचारिका चहद्रोणान् झरी पात्रम् एकस्मिन् विस्तीर्णसूर्पे संस्थाप्य आनयति तत्र निक्षिप्य गच्छति)

विद्यासागरः – (चहा वितरणार्थं झरीपात्रम् उद्धरति)

सुषमा – भवान् मा करोतु । अहं वितरणं कुर्याम् । (इति तस्य हस्तात् झरीपात्रं गृहीत्वा द्रोणेषु वितरति, सर्वे चहां पिबन्ति)

विद्यासागरः – स्वसे सर्वं शस्त्रक्रियार्थं यथा निर्दिष्टं कृतम् ।

परिचारिका – यथा निर्दिष्टं कृतम् भोः ।

सुमतिः – (उत्थाय वैद्यस्य हस्ते हस्तं निधाय करचालनं कृत्वा) नमस्ते गच्छावः । (इति वदति)

सुषमा – नमस्ते । (इति उत्थाय सुमतिना सार्थं गच्छति)

(यवनिका पतति)

**********************************************************

.

षष्ठं दृश्यम्

(प्रातः अष्ठघण्टावादनसमयः गायत्रीगौर्यौ पुस्तकपेटिके गृहीत्वा पाठशालां गन्तुम् उद्युक्ते, सुषमा सर्वं सज्जयित्वा ते प्रेषितुं प्रयतते, सुमतिः अन्तः स्वपिति)

गायत्री – मातः अद्य शालागमने विलम्बः जातः आवां गच्छावः ।

सुषमा – (द्वावपि विचुम्ब्य) अप्रमत्ततया गन्तव्यम् । (इति ते प्रेषयति कवाट बन्धनं करोति)

सुमतिः – (उत्थाय आगत्य कुर्च्याम् उपविश्य) सुषमे चहां देहि । (इति पत्रिकां पठति)

सुषमा – (चहाम् आनीय तस्मैदत्वा) किमद्य कार्यालयं न गच्छति किम् ।

सुमतिः – गच्छेयम् । किञ्चित् विलम्ब्य गच्छेयम् ।

सुषमा – (किञ्चित् साशङ्कम्) विलम्ब्य कथम् । अधुना सत्वरं स्नात्वा पाथेयं गृहीत्वा गच्छतु भवान् । सर्वं कर्म परिसमाप्तम् ।

सुमतिः – तथैव । (इति चहां पीत्वा उत्थाय अन्तःगच्छति)

सुषमा – (स्वात्मानं अलङ्कुर्वन्ती आस्ते ।)

(बहिः द्वारघण्टानादः)

सुषमा – (सत्वरं गत्वा कवाटम् उद्घाटयति, सुधीरेण सार्थं शनैः) अरे त्वम् अधुना सत्वरं समागतोसि । एतावत्पर्यन्तं सुमतिः कार्यालयं न गतः ।

सुधीरः – (शनैः) भवतु नाम । अहं किमपिकैतववादं करिष्ये । (इति अन्तःप्रविशति)

सुषमा – एहि एहि सुधीरमहाशय एहि । (आश्चर्येण)

सुधीरः – भ्रातृजाये तव आरोग्यं कथं वर्तते । भ्राता सुमतिः गृहेवर्तते किम् ?

सुषमा – मम आरोग्यं पूर्ववत् वर्तते । न चिन्ता कार्या । सुमति महोदयः स्नाति । उपविशतु भवान् । (इति आसनं दर्शयति)

सुधीरः – (उपविशति पत्रिकां पठति)

(ततः प्रविशति सज्जितः सुमतिः)

सुमतिः – (सुधीरं विलोक्य) अरे अधुना कथं अत्रागमनम् ।

सुधीरः – अत्र पार्श्वे एकं रोगिणं द्रष्टुं समागतोऽस्मि मार्गमध्ये भवदीय गृहम् । सुषमा आर्या कथमस्ति इति द्रष्टुम् आगतोऽस्मि ।

सुमतिः – रुग्णं द्रष्टुं समागतः भवान् । तथा कथय ।

सुधीरः – अयं मृत्युमुखी आस्ते । तं द्रष्टुं समागतोस्मि ।

सुमतिः – (किञ्चित् साशङ्घम्) अरे सुधीर, अहम् अधुना कार्यालयं गच्छामि । मयासार्धं सुषमां तव वैद्यालयम्प्रति आनयेयम् । तां अहं तव वैद्यालये विहाय कार्यालयं गच्छेयम् । त्वं तां सम्यक् शल्यपरीक्षां विधाय तस्यै बलवर्धनार्थं कमपि औषधं सूचय ।

सुधीरः – अहमपि तदेव सूचयितुं समागतोस्मि । त्वं भवते यथा रोचते तथा कुरु ।

सुमतिः – मम कारुयानं स्वच्छताकरणार्थम् अयच्छम् एतावत्पर्यन्तं नह्यागतम् । दिनद्वये प्राप्स्यते मया । ततः अधुना आवां तव कारुयानेन आगच्छावः ।

सुधीरः – तव कथनस्य आवश्यकता नास्ति । अहं युवां मम कारुयाने नेष्यामि ।

सुषमा – (सुषमा सम्यक् अलङ्करोति)

सुमतिः – सुषमे तुभ्यं किं रोचते मे ऊहा रचनाः ।

सुषमा – हां तर्थव करोतु भवान् । मह्यं रोचते भवदीय कल्पना । सन्ध्या समयपर्यन्तम् अहं तत्रैव सुधीरस्य वैद्यालये स्थास्यामि भवतः आगमनपर्यन्तम् ।

सुमतिः – त्वं सम्यक् औषधं गृहीत्वा तत्रैव विश्रान्तिं सुखमनुभव । बालिके कदा गृहं प्रत्यागच्छतः ?

सुषमा – सार्धपञ्चघण्टावादनसमये ते प्रत्यागच्छतः ।

सुमतिः – अहं सार्धघण्टाचतुष्टये सुधीर वैद्यालयम् आगच्छेयम् ।

सुषमा – तथैव ।

सुधीरः – अरे सुमते, भातृजाये सुषमे एताम् मयासार्धम् । (इत्युत्थाय ताभ्यां साकं गच्छति)

(यवनिका पतति)

******************************************************************

.

सप्तमं दृश्यम्

(सुधीरस्य वैद्यालयः तत्र एकस्मिन् कोष्ठे सुधीर सुषमे संलपन्त्यौ आस्ताम्, तत्रैव गवाक्षस्य पार्श्वभागे सुमतिः कुड्याकर्णोभूत्वा सर्वं शृणोति)

सुधीरः – प्रेयसि सुषमे, ते अन्तर्वत्नीत्वं मदीय सङ्गमात् जातम् । तत् आवां जानीवहे । सुषमे त्वाम् अहं पूर्वम् अकामयं, किन्तु ते पितरौ मया सार्थं नाऽकुरुतां ते विवाहं । अहं एतावत्पर्यन्तम् अविवाहितः लोकदृष्ट्या । किन्तु आवां दम्पती मनसा वचसा कर्मणा च । ते द्वावपि पुत्रिके आवयोः सञ्जाते । आवां जानीवः ।

सुषमा – अरे सुधीर त्वं शतथा सुधीरः । तं परित्यज्य त्वत्सकाशे निवसितुमिच्छामि । किन्तु अहं तत् सर्वं कर्तुम् अशक्ताऽस्मि । त्वं मे प्रियः त्वमेव मे भर्ता । (इति तस्य स्कन्धदेशे आनयति)

सुधीरः – प्रेयसि । (इति तस्याः कबरी भरं शिरश्च स्पृशति जिघ्रति ।)

सुषमा – अरे अहं त्वामेव पतिं कामये । (इति रोदिति)

सुधीरः – त्वं मे जाया । त्वं मे नेत्रकौमुदी । (इति तां सान्त्वयति)

सुषमा – अरे सुधीर । अहं पुनः सुमतेः गृहम् गन्तुं नेच्छामि अत्रैव वसिष्यामि । मे प्रथमतः आरभ्य तस्योपरि न किञ्चिदपि प्रेम वर्तते । पित्रोः आग्रहेण तेन सार्थं विवाहाय अङ्गीकृताऽसम् । सर्वदा त्वमेव मे मनसि विराजसे । मे न किञ्चिदपि बाधा विद्यते । सवंमपि भवतः दर्शनेन अन्तर्हिताभूत् ।

सुधीरः – अयं वायुसेनाधिकारी यत् किमपि वक्रितं भवति सः अस्मान् सर्वानापि मारयिष्यति । तस्य पुरतः नाहं किमपि भवामि । अहं व्याघ्रसमक्षे हरिणः एव ।

सुषमा – यदि सः अस्मान् सर्वान् मारयितुं प्रयतते तर्हि वयं सर्वे विषं पीत्वा उत पोटासियं सैनेढुम्मत्वा मरिष्यामः अयं मे निर्णयः । (इति तं द्वाभ्यां हस्ताक्ष्यां स्पृशति तं आलिङ्गितुं प्रयतते)

(यवनिका पतति)

**********************************************************************

.

]