[[धूर्तसमागमः Source: EB]]
[
धूर्तसमागमः
(१)
हर्षादम्भोजजन्मप्रभृतिदिविषदां संसदि प्रीतिमत्या
स्वश्र्वामौलौ पुरारेर्दुहितृपरिणयेसाक्षतं चुम्ब्यमाने ।
तद्वक्त्रमौलिवक्त्रे मिलितमिति भृशं वीक्ष्य चन्द्रः सहासः
दृष्ट्वा तद्वक्त्रमाशु स्मितशुभगमुखः पातु वः पञ्चवक्त्रः ॥१॥
अपि च—
वक्त्राम्भोरुहिविस्मिताः स्तवकिता वक्षोरुहिस्फारिताः
श्रोणिसीमनि गुम्फिताश्चरणयोरक्ष्णोः पुनर्विस्तृताः ।
पार्वत्याः प्रतिगात्रचित्रगतयस्तन्वन्तु भद्राणि वः
विद्धस्यान्तिकपुष्पसायकशरैरीशस्य दृग्भक्तयः ॥२॥
नान्द्यन्ते सूत्रधारः—
यदद्य—
नानायोधनिरुद्धनिर्जितसुरत्राणत्रसद्वाहिनी
नृत्यद्भीमकबन्धमेलकदलद्भूमिभ्रमद्भूधरः ।
अस्ति श्रीनरसिंहदेवनृपतिः कर्णाटचूडामणिर्
दृप्यत्पार्थिवसार्थमौलिमुकुटन्यस्ताङ्घ्रिपङ्केरुहः ॥३॥
तस्योद्युक्तभुजप्रतापदहनज्वालानिरस्तापदो
राङ्गः सर्वगुणानिउवादपदवीविद्योतनाचार्यकः ।
यो धीरेश्वरवंशमौलिमुकुटो दातावदाताशयस्
तस्य श्रीकविशेखरस्य कविता मच्चित्तमालम्बते ॥४॥
तदनेन सकलसङ्गीतविशेषविद्योतनाभिनवभरतेन पुरमथनपदारविन्दद्वन्द्ववन्दारुकरपल्लवेन निखिलभाषोपभाषाशुभम्भावुकसरस्वतीकण्ठाभरणेन अनवरतसोमरसास्वादकशायकण्ठकन्दलीनरीनृत्यमानमीमांसामहोत्सवेन रामेश्वरस्य पौत्रेण तत्रभवतः पवित्रकीर्तेर्धीरेश्वरस्यात्मजेन महाशासनश्रेणिशिखरभ्रामत्पल्लवीजन्मभूमिना कविशेखराचार्यज्योतिरीश्वरेण निजकुतूहलविरचितं धूर्तसमागमनाम प्रहसनमभिनेतुमादिष्टोऽस्मि । तस्य चादिष्टमवश्यमिष्टं मालतीमालेव मया शिरोधरणीयम् ।
तथा हि—
कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च
प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च ।
त्रैलोक्याङ्क्गनरङ्गलङ्गिमगतिप्रागल्भ्यसम्भाविताः
शीतांशोः किरणच्छटा इव जयन्त्येतर्हि तत्कीर्तयः ॥५॥
अपि च—
के नार्चिता दिविषदः कति न द्विजेशाः
सन्तर्पिता न कवयः कति पूजिता वा ।
के चार्थिनः प्रतिदिनं न कृताः कृतार्थास्
त्यागप्रसादपटुना कविशेखरेण ॥६॥
तत्प्रेयसीमाहूय सङ्गीतकमवतरामि ।
(नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत।
(प्रविश्य) नटी ः अज्ज एसम्हि । आणबेदु अज्जो । को णिऊ पसाईकरीअदुत्ति ।
सूत्रधरः आर्ये, अपि न जानासि ?
यश्चत्वारि शतानि बन्धघटनालङ्कारभाञ्जि द्रुतं
श्लोकानां विदधाति कौतुकवशादेकाहमात्रे कविः ।
ख्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्ठेः कलाया निधिः
सङ्गीतागमसागरो विजयते श्रीज्योतिरीशः कृती ॥७॥
तद्विरचितं धूर्तसमागमनाम प्रहसनमभिनेतुमारब्धमिति गीयतां नाट्योचितं किंचित।
नटी (सविनयम्): आणबेदु अज्जो । को एत्थ पबन्धे पहाणो रसो जमुद्दिसिअ गाइस्सम् ।
सूत्रधारःः ननु प्रोत्फुल्लमालतीमकरन्दसान्द्रामोदमत्तमधुकरझङ्कारमुखरो वसन्तः सन्ततोज्जृम्भितानङ्गशृङ्गार एव । तथा हि—
विकसितनवमल्लीकुञ्जगुञ्जद्द्विरेफः
कुसुमितसहकारश्रेणिनिर्यत्परागः ।
प्रमुदितपिककण्ठप्रोच्छलन्मङ्गलश्रीर्
अपहरति मुनेरप्येष चेतो वसन्तः ॥८॥
नटी ः
मलऽणिलचालिअचूअबणो
कलकण्ठिसराहिदकामिअणो ।
मारन्दविमत्तसिलीमुहओ
सुरहीकिदसब्बदिसामुहओ ॥९॥
एसो वसन्तमासो मुणिअणसत्थस्स रासरहिदस्स ।
उम्मुलिअ गरुधीरं करेइ मम्महवसं हिआम् ॥१०॥
दण्डकमण्डलुमण्डितहस्तः
सुललिततिलकविभूषितमस्तः ।
अयमुपसर्पति जङ्गमलोभश्
चलत्काशायपटार्पितशोभः ॥११॥
अज्ज को एसो परिक्खलन्तणिद्धोअकसाअवसणो दण्डकुपिण्डिआहत्थो धुत्तो बिअ इदो तदो विलोएन्तो दीसदि ?
सूत्रधारः ः आर्ये !
यः श्रूयते जनमुखात्तुरगक्रियावान्
आचारधर्मरहितो गणिकाविलासी ।
दीर्घोर्ध्वपुण्ड्रककमण्डलुदण्डलक्ष्यः
पुष्णाति विश्वनगरः किल दम्भमुग्रम् ॥१२॥
तदेतस्य दर्शनं दूरत एवाहरणीयम् ।
(इति निष्क्रान्तौ ।)
॥ इति प्रस्तावना ॥
(ततः प्रविशति यथानिर्दिष्टः स्नातकेनानुगम्यमानो विश्वनगरः ।
विश्वनगरः (सनिर्वेदः) ः
हृदयकमलमध्ये निर्गुणो निष्प्रपञ्चस्
त्रिभुवनपतिरेको ध्यायते योगिभिर्यः ।
तमहमजरमाद्यं ज्ञानमात्रैकवेद्यं
मधुमथनमुदारं सन्ततं चिन्तयामि ॥१३॥
स्नातकः (समनादवलोक्य स्वगतम्) ः अहो रमणीअदा बसन्तस्स । जदो—
उन्मीलन्तं पसूणं र{इ}रसकुसला छप्पदा बम्महन्धा
कन्तारङ्गाणुरत्ता महुरसभविअं साणुराअं पिबन्ति ।
उग्गाअन्ति प्फुरन्ता इथुअणज्झणोकामराअस्स्सकित्तिं
संवित्तिं हारान्ता पिआणविरहे कोइला कामिणीणम् ॥१४॥
अबि अ—
जे कप्पूरं हरन्ता कमलबणसिरिं लोलान्ता सहाबं
साहॉ कम्पान्ता णिहुअणसुहऽ चन्दणाणं बणाणम् ।
ते कन्दप्पस्स मित्ता र{इ}तणुरमणीकेलिदप्पं कुणत्ता
तेल्लोअंमोहान्ता मलासिथरिणोसीअलावान्तिबाआ ॥१५॥
ता कधमेसो अ{इ}दूसहो वसन्तसमओ मे एक्कसरीरेण सहिदब्बो । (इति वैमनस्यं नाटयति ।)
विश्वनगरः (स्नातकं निर्वर्ण्य) ः अये दुराचार कथमद्य चिन्ताभारनतकन्धरोऽन्यादृश इव दृश्यसे । तथा हि—
निःश्वासे पीवरत्वं वपुषि सुतनुता शून्यता दृष्टिपाते
वक्त्रेन्दौ धूषरत्वं गतिषु विधुरता चेतसि म्लानता च ।
चेष्टा नैवेक्ष्यते ते यदधिकविकलं रूपमासादितस्त्वं
तन्मन्ये पञ्चबाणस्तिरयति भवतो धीरतां पूर्वरूपाम् ॥१६॥
स्नातकः (सलज्जमधोमुखः स्थित्वा) ः भावमदिलज्जाकरं क्खु एदम् । ता ण जुत्तं तुम्ह पुरदो पऽसिदुम् ।
विश्वनगरः ः न दोषः स्वरूपाख्याने । तत्कथ्यताम् ।
स्नातकः (सप्रणयम्) ः भावमज्ज मए महापहादे णारपोक्खरिणीपरिसरे उबहसिदसुरणाअरीरूबसंपत्ती अणङ्गसेणा णाम बारविलासिणी विलोइदा । तदो पहुदि सब्बगदं तं ज्जेब पेक्खामि ।
विश्वनगरः (सहस्ततालमुच्चैर्विहस्य) ः वत्स ! अद्य मयापि तत्रैव सुरतप्रिया नाम मासोपवासिनी दृष्टा । तामनुसन्दधानोऽहमपि मर्मभेदिना कामबाणेन सन्दलित एव । तथा हि—
आकाशे लिखितेव दिक्षु खचितेवाकीर्णरूपेव च
दृक्पक्ष्मप्रतिबिम्बितेव मनसि श्लिष्टेव बद्धेव च ।
सा मच्चित्तसरोरुहे मधुकरीवात्यन्तभावोत्तरा
कान्ता कान्तविलासवासवसतिः क्वास्तीति न ज्ञायते ॥१७॥
(ऊर्ध्वमालोक्य) वत्स ! मध्याह्नमारूढो भगवान्सहस्रांशुः । तथा हि—
दिक्चक्रं मृगतृष्णया कवलितं व्योमापि भास्वत्कर
छायाभिश्छुरितं तुषानलकणप्रायाश्च भूरेणवः ।
पान्थाः पल्वलसङ्कुलद्रुमलताकुञ्जोदरे शेरते
मञ्जत्कुञ्जरपानलोहितजलाः क्षुभ्यन्ति तोयाशयाः ॥१८॥
(इति परिक्रामतः ।)
मृताङ्गारः ः भगवन्नस्मदावासोत्तरे सुरतप्रिया नाम मासोपवासिनी प्रतिवसति । तत्र गम्यताम् । (इत्यभिधाय सत्वरं परिक्रान्तः ।)
विश्वनगरः ः यद्येवं ततः समीहितमेव नः सम्पन्नम् । तदेहि तत्रैव गच्छाव । (इति परिक्रामतः ।)
स्नातकः (अग्रतोऽवलोक्य गन्धमाघ्राय) ः भो भावं, पेक्ख पेक्ख ! विहिदभावन्तजणमुण्डसरिच्छबहुअरमहिसीखम्भसोहन्तच(उ)स्सालमिदो तदो संचरन्तबालगोबच्छसोहिदं पीणुत्तुङ्गत्थणालसपरिक्खलन्तमन्दसंचाररमणिज्जावासपरिसरसंचरन्तचेलिआसमूहं कस्स बि महाधणस्स वासभाणं विलोईअदि । भो भो णाअरा कस्स इदं वासभाणं ? (इति पठति ।)
नेपथ्ये ः
लक्ष्मीविवर्तरसविघ्नितसर्वभोगः
शश्वत्प्रकीर्णधनचिन्तितवीतनिद्रः ।
अग्राह्यनामकतया भुवि यः प्रसिद्धस्
तस्यैतदाश्रमपदं पुरतो विभाति ॥१९॥
स्नातकः (अग्रतो गत्वा पुनः) ः भो भो णाअरा ! कस्स इदं वासभाणं ? (इति पठति पुनर्नेपथ्ये लक्ष्मीरित्यादि ।)
विश्वनगरः ः आः क एष नामग्रहणे भवतो निर्बन्धः ? अथवा यद्वा तद्वास्तु श्रूयताम् । मृताङ्गारठक्कुरस्याश्रमोऽयम् । वत्स अलं विलम्बेन । वासाभ्यन्तरं प्रविशाव । (इत्यावासप्रवेशं नाटयित्वा एकान्ते स्थितौ ।)
(ततः प्रविशति कश्मलवेशो मृताङ्गारः ।)
मृताङ्गारः ः
व्ययशीलः कुवेरोऽयं कामं याति दरिद्रताम् ।
अपि प्राणाः प्रदातव्या नार्थिभ्यो धनिकैर्धनम् ॥२०॥
स्नातकः (उपसृत्य) ः भो महाबम्हण ! भावन्तो विस्सणारचरणा तुम्हाणं गेहे भिक्खं भुञ्जिदुमिच्छन्ति ।
मृताङ्गारः (स्वगतम्) ः अहो दुर्दैवमस्माकं यदेतान्सकलनगरीयाद्यलोकान्विहाय मय्येव पतितो धूमकेतुः । तत्कः प्रतीकारोऽद्य भविष्यति ? (इति विचिन्त्य तावत्प्रकाशं सविनयम्)
स्थाने यस्य चरन्ति भैक्ष्यमनघाः स्नेहेन युष्मादृशः
स स्यादच्युतमूर्तिसेवनवशाद्धन्यः पवित्रालयः ।
किं त्वस्मत्प्रतिवेशिविप्रवनिता भ्रातृप्रसक्ताङ्गना
दूती सप्रसवेति सूतकमतः स्थानान्तरं गम्यताम् ॥२१॥
विश्वनगरः (स्वगतम्) ः अहो दुरात्मनोऽस्य व्याजव्यवहारः । भवतु वा । तत्प्रबोधयामि । (प्रकाशम्) आयुष्मन्! पतीनामस्माकं कुतः सूतकदोषः । तथा च स्मृतिः—
न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा ।
नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी ॥२२॥
मृताङ्गारः (सविनयम्)ः भगवन्! यद्यप्येवं तथापि न सम्भवति । पश्य—
अनावृष्ट्या कृषिर्नष्टा राष्ट्रभङ्गादृणादिकम् ।
वाणिज्यमल्पलाभेन प्रातराशस्य का कथा ॥२३॥
स्नातकः (सक्रोधं संस्कृतमाश्रित्य) ः
स्नातकः (उपसृत्य) ः धिङ्मौर्ख्यं जलधिसुतायाः श्रियः !
नो जानाति कुलीनमुत्तमगुणं सत्त्वान्वितं धार्मिकं
नाचारप्रवणं न कार्यकुशलं न प्रजयालङ्कृतम् ।
नीचं क्रूरमपेतसत्त्वहृदयं यस्मादियं सेवते
तत्त्वं सानुगुणः पयोधिसुतया लक्ष्म्या प्रमाणीकृतः ॥२४॥
अरे णट्ठपरलोआ दुट्टःअबम्हणा ईदिसे दूसहमज्झण्हे पठमं तुमं महाधणं भेक्खिअ कुदो अणदो गदुअ अम्हेहिं भिक्खा पत्थिदब्बा ।
मृताङ्गारः ः भगवन्नस्मदावासोत्तरे सुरतप्रिया नाम मासोपवासिनी प्रतिवसति । तत्र गम्यताम् । (इत्यभिधाय सत्वरं परिक्रान्तः ।)
विश्वनगरः ः यद्येवं ततः समीहितमेव नः सम्पन्नम् । तदेहि तत्रैव गच्छावः । (इति परिक्रामतः ।)
स्नातकः (पुरोऽवलोक्य गन्धमाघ्राय) ः भावं, पेक्ख पेक्ख एकाङ्गिआमुत्थमेत्थिआ संजुत्तमहाहन्दकुट्ठपरिमलुग्गारीअग्गिमभवणादोणं सेवदि । ता एदं ज्जेव सुरतप्पिआए वासभवणम् ।
विश्वनगरः ः विदग्धैव किल मासोपवासिनीति किंवदन्ती । तदागच्छोपसर्पाव । (इत्येकान्ते स्थितौ । ततः प्रविशति सुरतप्रिया ।)
सुरतप्रिया ः
धम्मो ण इट्ठो बहुदुक्खचेट्ठो
मोक्खेण सोक्खं मम अत्थि सच्चम् ।
अत्थो समत्थो सालं विधादुं
अणङ्गसब्बस्सकलाणिहाणम् ॥२५॥
स्नातकः (उपसृत्य) ः अज्जे, विस्सणारो तुम्हाणमदिधी उअत्थिदो ।
सुरतप्रिया (परिक्रम्यावलोक्य च) ः ता उअसप्पामि । (उपसृत्य) भावं, पणमामि ।
विश्वनगरः (सप्रमोदम्) ः मदभिलषितभाजनं भूयाः ।
सुरतप्रिया ः भावं, तुम्हाणं पसादेण ।
विश्वनगरः ः एवमचिरादस्तु ।
सुरतप्रिया ः आणबेदु भावं जं मए कादब्बं दाअब्बं च ।
विश्वनगरः ः शुभे, किमदेयमस्माकं भवत्या ? साम्प्रतं भिक्षैव तावत।
सुरतप्रिया ः भावं, कीदिसी भिक्खा कीदिसीए वेलाए केत्तिआइं ते अणाइं ?
विश्वनगरः (सहर्षम्) ः श्रूयताम्—
मांसं माषपटोलतक्रबडिकावास्तूकशाकं बटः
सञ्जीवन्यथ मत्स्यमुद्गविदलप्रायः प्रकारोत्करः ।
स्वादिष्ठं च पयो घृतं दधि नवं रम्भाफलं शर्करा
सङ्क्षेपादिति साध्यतां सुवदने भिक्षा मदीया द्रुतम् ॥२६॥
सुरतप्रिया (विहस्य स्वगतम्) ः हुं, एसो महप्पा अप्पबिसज्जणजोग्गो ज्जेव देववरस्स पसाएण संपण्णो । (प्रकाशमञ्जलिं बद्ध्वा)
एदं सरीरं विरहेण जुत्तं
पाणा तहा धम्मफलेक्कसारा ।
सब्बं तुहाअत्तमुदारकित्ति
का बाहिरे वत्थुणि अत्थि अत्था ॥२७॥
ता अन्तरघरं पविसिअ वीसमीअदु भावम् । अहमुण भिक्खापऽरं करेमि ।
स्नातकः (सोपहासं) ः भावं, पेक्ख पेक्ख ! (संस्कृतमाश्रित्य)
पक्वाः कुन्तलराजयः कटकटाक्षामौ कपोलावुभाव्
एतस्याः स्तनमण्डलं निपतितं शुष्का नितम्बस्थली ।
दृक्पातस्मितभाषितैः शिव शिव प्रस्तौति नेत्रोत्सवं
किं ब्रूमः करवाम वेति किमियं दुष्टा जरत्तापसी ॥२८॥
विश्वनगरः ः धिङ्मूर्ख ! किमसाधुजनोचितं प्रलपसि ? (सुरतप्रियां प्रति) शुभे ! गम्यतां पाकशालां प्रति । वयमप्यागच्छन्त एवास्महे ।
सुरतप्रिया ः जं भावमाणबेदि । (इति निष्क्रान्ता ।)
स्नातकः ः भावं ! जाव भिक्खा सिज्झदि ताव एत्थ ज्जेव भावं टिट्ठदु । अहमुण अणङ्गसेणिआए प(उ)त्तिं जाणिअ लहुमाअछामि ।
विश्वनगरः ः वत्स, हैर गम्यताम् । (इत्युभौ परिक्रामतः ।)
स्नातकः ः भावं ! मूलणासाणाबिदस्स गेहसंणिहाणे अणङ्गसेणाए वासभवणं त्ति मए सुदम् । ता तस्स ज्जेव अणुसारेण अणेसम्ह ।
विश्वनगरः ः तदागच्छाग्रतः । एनामुपसर्पाव । (इत्येकान्ते स्थितौ । ततः प्रविशति अनङ्गसेना ।)
स्नातकः (सहसोपसृत्य) ः भावं ! पेक्ख पेक्ख—अणङ्गसेनाए लावण्णलछिम् ।
णीलम्भोरुहपत्तकन्तणाणा संपुणचन्द्राणणा
उत्तुङ्गत्थणभारभङ्गुरतणू वेइव्व मज्झे किसा ।
बाला मत्तग(इ)न्दमन्दगमणा सुन्देरसोहामई
णूणं पञ्चसरस्स मोहणलऽ सिङ्गारसंजीवणी ॥२९॥
विश्वनगरः (स्वगतम्) ः
यन्नेत्राञ्जनभङ्गिलङ्गिममयस्मेराननाम्भोरुहा
यत्साकूतकलाविलासवसतिर्यत्कान्तरोमोद्गमा ।
मद्गावेङ्गितसङ्गतिं तनुलतामालोक्य गोपायति
प्रायस्तत्कतह्यत्यनङ्गरचनामङ्गे कृशाङ्गी स्थिताम् ॥३०॥
(प्रकाशम्) सम्यगुपलक्षितम् । तथा हि—
यत्तीर्थाम्बु मुखाम्बुजासवरसो नेत्रे नवेन्दीवरे
दन्तश्रेणिनखास्तताक्षतचयो दूर्वा च रोमावली ।
उत्तुङ्गं च कुचद्वयं फलयुगं पत्रं कराम्भोरुहं
तन्मन्ये मदनार्चनाहितमतिः स्वाङ्गोपहारैरियम् ॥३१॥
(अनङ्गसेनां लक्ष्यीकृत्य)
यत्पूर्वं रचितं तपः प्रतिदिनं या तीर्थयात्रा कृता
यद्भूम्ना पुरुषोत्तमार्चनविधौ चेतः कृतार्थीकृतम् ।
तस्यैतत्परमप्रमोदजनकं प्राप्तं फलं कर्मणस्
तत्किं शास्त्रकथारसेन किमहो स्वर्गेण मोक्षेण वा ॥३२॥
(इति कायावस्थां नाटयति ।)
स्नातकः (सहर्षं स्वगतं) ः एसो लम्पडो उन्दुरुविअरे सप्प्पो बिअ प(इ)ट्ठो । भोदु, जुत्तिपहाणेहिं वाणेहिं णिवार(इ)स्सम् । (प्रकाशम्) भगवं तुममुपेक्खिदसंसारसोक्खो मोक्खेक्कपराअणो कधमेसारिसे मातिण्हासरिसे माणरसे पलिअ अप्पाअणं वावादेसि ? णिअत्तीअदु इमादो दुट्ठगणिआपसङ्गादो त्ति ।
विश्वनगरः (स्वगतं) ः वत्स, नैवं पश्यसि—
यावद्दृष्टिर्मृगाक्षीणां न नरीनर्ति भङ्गुरा ।
तावज्ज्ञानवतां चित्ते विवेकः कुरुते पदम् ॥३३॥
अनङ्गसेना (विहस्य) ः भगवं धणाधीणो क्खु आं जणो । एत्थ अरणरुदिअं कदुअ अप्पाणां विडम्बेसि ।
विश्वनगरः ः संन्यासिनामस्माकं कुतोऽर्थसम्पत्तिः ? तदस्मच्छरीरेण यथासुखं विनियोगः क्रियताम् । (सानुरागम्)
बाले मृणालदलकोमलबाहुदण्डे
चण्डि प्रचण्डवदने मयि देहि दृष्टिम् ।
एष त्वदीयवदनाम्बुजकृष्टचेता
दीनो यतिः सपदि मज्जति कामसिन्धौ ॥३४॥
स्नातकः ः भो भगवं ! तुममुपेक्खिदसंसारसोक्खो (इत्यादि पठति ।)
अनङ्गसेना (संस्कृतमाश्रित्य) ः भगवन्नलमत्रात्यन्तानुसन्धानेन !
वागर्थं परिहृत्य मोक्षपदवीं ध्यायन्ति निर्मत्सराः
शान्तप्रौढकुलीनहीनविषये सर्वत्र साधारणाः ।
रागद्वेषसमत्वकर्षितधियो वेश्याः सुरा भिक्षवो
वस्तुं नन्वपि नित्यमित्यहह किं कामार्णवे मज्जति ॥३५॥
विश्वनगरः ः प्रिये, गृहाणास्मच्छरीरम् । (इत्यञ्चले धारयति ।)
स्नातकः (सहसोपसृत्य) ः अरे णट्ठपरलोआ दुट्ठपरिब्बाऽ एसा पठममम्हपरिग्गहेण तुह पुत्तवहू होदि । ता मुञ्च एणम् ।
विश्वनगरः ः धिङ्मूर्ख ! एषास्मद्वधूस्त्वद्गुरुपत्नी मातृतुल्या च । तत्किमेनामनुबध्नासि ?
स्नातकः (सक्रोधं) ः अरे रे लम्पडा ! एवमेवं भणन्तस्स दण्डप्पहारेण पक्कमालूरफलं बिअ मुण्डं दे थत्थरं कर(इ)स्सम् । (इत्यन्योन्यं कलहं कुरुतः ।)
अनङ्गसेना (स्वगतं) ः कधं धुत्तहत्थपलिदम्हि । बोदु एवं ताव । (प्रकाशम्) भो महाभाअधेआ ! तुम्हाणमेआरिसे महाविवादे असज्जाइमिस्सो पमाणीकरीअदु । (इति ग्रन्थिं दर्शयति ।)
विश्वनगरः ः अलं ग्रन्थिदर्शनेन ! आगच्छतं तत्रैव गच्छामः । (इति निष्क्रान्ताः सर्वे ।)
इति प्रथमाहःसन्धिः ।
—ओ)०(ओ—
(२)
(ततः प्रविशति असज्जातिमिश्रो विदूषकश्च ।)
असज्जातिमिश्रः (सप्रमोदनं) ः
त्रैलोक्यभोजनं श्रेष्ठं ततोऽपि सुरतोत्सवः ।
भोजनं वास्तु वा नास्तु जीवनं सुरतं विना ॥१॥
वत्स, बन्धुवञ्चक आगच्छाधीष्व ।
विदूषकः ः जमाणबेदि ।
असज्जातिमिश्रः ः
यद्रामावक्त्रप्नं यदलसनयनालोकनं केलिरङ्गे
यः स्यादप्यङ्गसङ्गः कुचकलसमुत्पीडने बाहुभङ्गिः ।
एतत्संसारसारं कुरु निजहृदये निर्विकल्पैककल्पं
किं ते कार्यं विवादक्वथितऋजुमतिग्रन्थकन्थाभरेण ॥२॥
विदूषकः ः भो मिस्स, पराङ्गणासम्भोगादो पि परमन्दिरे सन्धिं कदुअ जमत्थो अबहरीअदि तं ज्जेव तिहुअणसारम् । पेक्ख पेक्ख—
किं बाणिज्जेण कज्जं णिअधणविलां तं क्खु काऊण दुक्खं
किं वा कज्जं किसीए पसुवसुणिअमाआसणिक्कज्जादाए ।
किं विज्जाए फलं वा मरणसमसमुप्पणचिन्ताउलाए
एक्कं तेल्लोअसारं परधणहरणं जूअकीलासुहं च ॥३॥
ता एत्थ धुत्तौरणारे जादिसो तुमं गुरू तादिसो अहं सिस्सो संवुत्तो ।
असज्जातिमिश्रः ः अहो अस्मिन्नगरे निरुपधिजीवनतास्मद्विधश्रोत्रियाणाम् । दिनाष्टतयादारभ्य न कश्चिन्न्यायवादी न कपटश्राद्धप्रतिलम्भो न च गणिकालापः ।
नेपथ्ये ः विज्ञाप्यतां मिश्रस्य स्थाने न्यायकरणार्थं वादिनौ द्वारि वर्तेते ।
असज्जातिमिश्रः ः वत्स बन्धुवञ्चक, प्रवेशय वादिनौ ।
(विदूषको निष्क्रम्य विश्वनगरस्नातकानङ्गसेनाभिः सह पुनः प्रविशति ।)
असज्जातिमिश्रः (विश्वनगरस्नातकौ निरीक्ष्य स्वगतं) ः कथमनर्थान्तरमापतितं ? (प्रकाशम्) भगवन्नागन्तुका वयम् । तन्नात्र भिक्षावसरः ।
विदूषकः ः भो मिस्स एदे ज्जेव वादिणो । एदाणं विवादं विचारेदु मिस्सो ।
असज्जातिमिश्रः (सहर्षं सगौरवं च) ः आसनमुपनीयतां भगवते स्नातकाय च ।
(विदूषकस्तथा कृत्वा सर्वानुपवेशयति ।)
असज्जातिमिश्रः ः कोऽर्थी, कः प्रत्यर्थी ?
स्नातकः ः भासाए अहमत्थी णिअरकरेण भगवम् ।
असज्जातिमिश्रः ः न्यायवादिनः प्रथमतो निकरः पश्चाद्भाषोत्तरे ।
विश्वनगरः ः अयमस्मत्संन्यासदण्डो निकरः ।
स्नातकः ः एदं मे इन्दासणकोल्लिअं णिआरकरणे पविणीअदु ।
असज्जातिमिश्रः (सगौरवं गृहीत्वा सप्रमोदमाघ्राय) ः किञ्चिद्विनियुज्यते ।
निद्राकरं दोषविनाशहेतुः
क्षुधाकरं बुद्धिविकाशकं च ।
इन्द्राशनं कामबलानुकूलं
लब्धं मया दैववशादिदानीम् ॥४॥
विश्वनगरः ः
स्वाधीनयौवना सुभृऊः सा मान्या सर्वकामिनाम् ।
अस्माभिरियमाक्रान्ता मदीया तेन वल्लभा ॥५॥
असज्जातिमिश्रः (भाषां भूमौ लिखित्वा स्नातकं प्रति) ः स्नातक, सत्वरमुत्तरं कुरु ।
स्नातकः ः
एसा पुब्बं मए दिट्ठा दाऊण दसटङ्कऽ ।
आणीदा अ मदिं दाइं मदीआ तेन वल्लहा ॥६॥
असज्जातिमिश्रः ः उत्तरमभिलिख ।
विदूषकः ः भो मिस्स ! पेक्ख पेक्ख ! अणङ्गसेणाए लाबण्णलछिं !
मालञ्छणबिम्बफुरन्तमुही
णाणुप्पलचञ्चलकेलिणिही ।
थणभारणऽ अ(इ)मज्झकिसा
पठमोदिअचन्दकलासरिसा ॥७॥
असज्जातिमिश्रः ः अहो निर्माणवैदग्धी विधातुः ! तथा हि—
नीलोल्लसल्ललितखञ्जनमञ्जुनेत्रा
सम्पूर्णशारदकलानिधिकान्तवक्त्रा ।
बाला जगत्त्रितयमोहनदिव्यमूर्तिर्
मन्ये विभाति जगति स्मरधीरकीर्तिः ॥८॥
भो वादिनौ ! एषा विवादाध्यासितानङ्गसेना जयपराजयं यावत्मध्यस्थस्थाने स्थाप्यताम् । एवंविधे च माध्यस्थ्ये वयमेव नृपतिव्यवस्थिता मध्यस्थाः ।
(अनङ्गसेनामानीय स्वसंनिधावुपवेश्य तदीयकरं हृदये निधाय सप्रमोदम्)
विकचकमलकोषश्रीरियं काम्यभूतिर्
हिमकरकरजाताच्चन्द्रकान्ताद्धि शीतः ।
मृगमदघनसारऽसङ्गसौरभ्यभव्यो
हरति मदनतापं कोमलः पाणिरस्याः ॥९॥
(क्षणं विचार्य उच्चैर्विहस्य) भो वादिनौ ! एतद्राज्यक्षेत्रे भुजङ्गयोरिव युवयोर्विवादः । तथा हि—
नैषा त्वदीया भवतोऽपि नेयं
मत्संनिधिष्ठा सुभगा मदीया ।
स्वप्नेऽपि पूर्वं मयि जातकेलिस्
ततोऽपि हेतोः खलु वल्लभा मे ॥१०॥
विदूषकः (अनङ्गसेनामालोक्य जनान्तिकम्) ः भो सुन्दरि ! एसो मिस्सो बुद्धो भावं णिद्धणो सिणादओ इच्छाराणो । ता एदाणं समागमं परिहरिअ अम्हसमागमेण तुह जोब्बणं सफलं भोदु ।
(इत्यात्मानं दर्शयति ।)
अनङ्गसेना (सस्मितम्) ः एदं धुत्तसमागमपहसणं संबुत्तम् ।
विश्वनगरः (सवैराग्यम्) ः वत्स दुराचार, न हि जलौकसामङ्गे जलौका लगति । मूलनासस्यायं विचारः । तदेहि सुरतप्रियाया एव भवनं गच्छाव । (इति निष्क्रान्तौ । ततः प्रविशति अपटीक्षेपेण मूलनाशकः ।)
मूलनाशकः ः अले अले ! अणङ्गशेणिए जाणिदे तुम्ह चलिदं जं वालं वालं कामाणमन्दिलक्खौलवेदणं पत्थन्ते बहुवालं हग्गे तए पऽशिदे । ता शंपदं पाच्छ । अणधा लाअदोहाइं दाव दाइश्शम् ।
अनङ्गसेना ः मूलनासा, संपदं ज्जेव असज्जाइमिस्सादो तुह दाइस्सम् । ता सुत्थो होहि ।
विदूषकः ः को एसो दुट्ठदंसणो दुट्ठचरिदो दुट्ठवसणो ?
असज्जातिमिश्रः ः एष किं भगवदगोचरः ? पश्य—
छिन्नौष्टनासो गलगण्डनम्रो
वामाक्षिकाणो गलितैकहस्तः ।
शिलीपदव्यापृतदक्षिणाङ्घ्रिः
स मूलनाशः किल नापितोऽसौ ॥११॥
(मूलनाशकः सहसोपसृत्य सर्वेषां सप्रमाणमादर्शं दर्शयति ।)
असज्जातिमिश्रः ः मूलनाशक ! क्रियतामस्माकं नखलोम्नां परिष्कारः ।
मूलनाशकः ः पठमं वेदनं पाछ ।
असज्जातिमिश्रः ः मूलनाशक, किमर्थं ?
मूलनाशकः ः भो, जदि तुमं पलिक्खलन्ते पठमं ज्जेव मलिश्शशि ता वेदनं किण प(इ)च्छिदव्वम् ।
असज्जातिमिश्रः ः अलं परिहासेन ! गृह्यतामिदं पारितोषिकम् ।
(इति कौलिकादाकृष्य गञ्जाकिनीं ददाति । मूलनाशकः सगौरवं गृहीत्वा सप्रमोदमाघ्राय किंचिद्विनियुज्य च मिश्रस्य करचरणयोर्बन्धनं कृत्वा व्यापारं नाटयति ।)
असज्जातिमिश्रः (सवेदनम्) ः
दलति हृदयमेतन्मोहमभ्येति चेतः
स्फुटति सकलदेहे कीकसग्रन्थिसन्धिः ।
विरम विरम शिल्पान्मूलनाश त्वमस्मात्
शिव शिव शिव सद्यो जीवनं कुट्यतीव ॥१२॥
मूलनाशकः (चालयित्वा) ः कधं मलिदे अशज्जाइमिश्शे ? लहू लहू अबकमिश्शम् । (इति निष्क्रान्तः ।)
विदूषकः (मिश्रस्य करचरणयोर्बन्धनमपनीय) ः भो आणबेदु मिस्सो अबरं हु तुह पिअं णिव्वाह(इ)स्सम् ।
असज्जातिमिश्रः (संज्ञां लब्ध्वा) ः
राष्ट्रं समस्तं कपटेन भुक्तं
धूर्तक्रियाभिर्दयितेयमाप्ता ।
भवान्विनीतो मिलितश्च शिष्यः
नातः परं नः प्रियमस्ति लोके ॥१३॥
तथापीदमस्तु—
काले सन्ततवर्षीणो जलमुचः शस्यैः समृद्धा धरा
भूपाला निजधर्मपालनपरा विप्रास्त्रयीनिर्भराः ।
स्वादुक्षीरनतोधसः प्रतिदिनं गावो निरस्तापदः
सन्तः शान्तिपरा भवन्तु कृतिनः सौजन्यभाजो जनाः ॥१४॥
(इति निष्क्रान्ताः सर्वे ।)
इति कविशेखराचार्यज्योतिरीश्वरविरचितं
धूर्तसमागमं नाम प्रहसनं
समाप्तं
॥
]