काव्यावतरणम्

[[काव्यावतरणम् Source: EB]]

[

॥ ***काव्यावतरणम्*** ॥

यस्तं पुरा नारददर्शनेन । निर्मुक्तपापस्तपसा पुनीतः ।
वाल्मीकिनाम्ना प्रथितोलिलेख । रामायणं विश्वकविं नमामि ॥

नान्द्यन्ते

सूत्रधारः – (नेपथ्याभिमुखं विलोक्य) आर्ये इतस्तावत् ।

नटी – (प्रविश्य) आर्य, इयमस्मि । निवेद्यतां किं करणीयं विद्यते मम ।

सूत्रधारः – हञ्जे ! अत्र परिषदियं गुणग्राहिणी विभाति । अयन्तु शरत्कालः । किञ्चित् गीयतां रसिकमनोरञ्जनाय ।

नटी – गायनस्य निदानमिदानीं किं विद्यते ।

सूत्रधारः – हञ्जे, कारणं विना नाहं कथयामि किमपि । शृणु, वयं काव्यावतरणं नाम नाटकं प्रयोक्तुम् अभिलाषामः ।

नटी – आर्य, प्रथमतः कविपरिचयं विधाय अनन्तरं नाटकप्रयोगः कर्तव्यः ।

सूत्रधारः – जानाम्यहं सर्वम् । शृणु । अयं कविः गीर्वाणान्ध्रभाषाप्रवीणः । ललितगीतालहर्याः, यशोधरा महाकाव्यस्य अपिच अक्षयगीत रामायणस्य प्रणेता । तस्याभिधानं परीक्षित् शर्मा ।

नटी – सर्वमपि श्रोतुं परमानन्ददायकं प्रतिभाति मे । कस्मिन् रागे, कं विषयमुद्दिश्य गातव्यम् आदिशतु भवान् ।

सूत्रधारः – प्रिये, पूर्णचन्द्रिकारागे शारदामुद्दिश्य गीयतामिति मे आदेशः ।

नटी – श्रूयतां पूर्णचन्द्रिका शारदम् ।

शारदा भाति विश्वेऽस्मिन् । प्रसन्नगुण माधुरी ।
यथाऽदिकवि छन्देषु । दृश्यमानेव दिव्यता ॥

सूत्रधारः – (करतलध्वनिं कृत्वा) यथासन्दर्भं सम्यक् गीतं भवत्या । (मुखमुन्नमय्य श्रवणमभिनीय) आर्ये पश्य, अत्र छात्राणां वेदघोषः संश्रूयते । अस्मदीय गानेन, सल्लापेन च तेषां मनोविकारः मा भूयात् । एहि निश्शब्दगत्या आवां गच्छावः । (इति निश्शब्दगत्या शनैः शनैः गच्छतः)

(मध्ये गुरुः, अर्धचन्द्राकारेण शिष्याश्च उपविष्टाः सन्ति । ते सर्वे गुरुणा प्रोक्तं मन्त्रं द्विवारम् उच्चरन्ति । गुरुः नेत्रे निमील्य कथयति)

गुरुः – अग्निमीले पुरोहितम् (इति कथयति) ।

सर्वेबालाः – (एक स्वरेण तन्मन्त्रम् अनुवदन्ति)

गुरुः – यज्ञस्य देवमृत्विजम् ।

सर्वेबालाः – (एक स्वरेण अनुवदन्ति)

गुरुः – होतारं रत्नधातमम् ।

सर्वेबालाः – (अनुवदन्ति)

(रत्नाकरः तरर्थञ्चन्द्राकारमण्डलात् शनैः शनैः चोरः इव निश्शब्दगत्या निर्गच्छति)

गुरुः – (नेत्रे उद्घाट्य) अरे छात्राः मन्त्रमेनं कण्ठपाठं कृत्वा श्वः पुनः मां निवेदयन्तु । (इत्युक्त्वा सर्वान् निर्निमेष दृष्ट्या विलोक्य) अयि बालाः रत्नाकरः कुत्र गतः ?

बालाः – (परस्परम् अन्योन्यावलोकनं कृत्वा निश्शब्दं मूकीभावेन आसन्)

गुरुः – रत्नाकरः कुत्र गतः कथयन्तु । (इति तान् वेत्रेण भर्त्सयति)

बालाः – (भीताः) वयं न जानीमहे ।

गुरुः – यूयं जानीथ किन्तु न कथयथ । (इत्युक्त्वा तान् दण्डेन ताडयितुं नाट्यति)

बालाः – अयि भोः तत्र भवान् मा ताडयतु अस्मान् । वयं कथयिष्यामः । (इति अन्योन्यं पश्यन्ति)

कनिष्ठः – (भीत्या) गुरो अयं रत्नाकरः । (इति अर्थोक्त्या विरमति)

गुरुः – किमर्थं विरमसि कथय पूर्णम् ।

कनिष्ठः – (सर्वान् बालान् विलोक्य भीत भीतः) गुरो अयं रत्नाकारः अधुना अस्मान्मार्गात् मार्जाल इव दुद्राव । (इति हस्तेन दर्शयति)

गुरुः – बत अयं संस्कारवतां पुत्रः । अयं शिक्षणाचोरः जातः । बुद्धिः कर्मानुसारिणी । गुरुं मां तृणीकृत्य ममनेत्रयोः मरीचिकाचूर्णं विकीर्य मार्जाल इव पलायितः । अयं साधुमार्गगामी न कदापि भविष्यति । अयं दुर्जन इव परिणतः । प्रायेण बाल्ये केवलं गुणाः प्रफुल्लन्ति जगति प्राणिनाम् । अयं दुष्टसहवासं करोति । मद्य मांसादिकं भुङ्कते । दीव्यति अक्षशालासु । पिबति पानशालासु । अयं वैदिक साम्प्रदायस्य धूमकेतुरिव जातः । (इति पृष्ठभागे वेत्रहस्तः हस्तौ बद्धवा इतस्ततः द्विवारं चलन् छीं छीं शब्दं करोति)

कनिष्ठः – गुरो अयं भिल्लवर्गैः सह निवसन् अकार्यं करोति इति जनाः कथयन्ति ।

गुरुः – किं कथयसि रे त्वम् ? (कर्णौ पिधाय) अश्रवणीयं शृतं मया । यूयं सर्वे गच्छथ गेहम् । (इति तान् हस्त सञ्ज्ञया निदिशति, सर्वे छात्राः उत्थाय) नमांसि भोः । (इति नमस्कृत्य गच्छन्ति)

(गुरुः चिन्ताक्रान्तः वृक्षमूले उपविश्य एवं स्वगतं वदति)

अयं सोमयाजिपुत्रः । तौ दम्पती मे सकाशं बालं संस्कारार्थं, वेद पठनार्थं प्रेषितवन्तौ । तौ दम्पती न जानीतः अयं दुष्टमार्गगामी इति । अयं मत्सकाशात् निर्गतः । अहं ताभ्यां किं निवेदयेयम् । अहम् अवश्यम् अप्रतिष्ठां भजामि । अहो बत (इति विचारयन् आस्ते ।)

(यवनिका पतति)

***********************************************************

.

द्वितीयं दृश्यम्

(तमसानदीतीरः : तत्र पौराः आगत्य पानीयादिकं नयन्ति)

गिरिजनः – (स्नात्वा ललाटे भस्मधारणं विधाय एकत्रोऽपविष्य सूर्यनमस्कारान् कुर्वन् सूर्यं प्रार्थयति)

हरिजनः – (स्नात्वा शुचिर्भूत्वा) भो लोकबान्धव अंशुमालिन् त्वमेव प्रत्यक्षं ब्रह्मासि । (इति अर्घ्यं दत्वा नमस्करोति)

क्षेत्रपालकौ – (परस्परं भाषमाणौ प्रविशतः)

समीरः – अरे सुहृद्, सोमयाजिपुत्रः रत्नाकरः ह्यः पान्थान् भर्त्सयित्वा, तेभ्यः वस्तुचयम् अपकृष्य तान् ताडयित्वा पलायितः इति सर्वं ग्रामः मुक्तकण्ठं घोषयति ।

प्रभाकरः – अरे समीर त्वं किं वदसि सोमयाजि वैदिकः, अग्नि इव पवित्रः । तस्य वंशः सर्वः वेदमार्गदर्शितजीवने रतः । तस्य पुत्रः एवं करोति किम् ? शृत्वैतत् मे परमाश्चर्यं भवति । बत किं कष्ठमापतितं सोमयाजिकुटुम्बस्य ।

समीरः – मित्रं, बाल्ये सहवासः उत्तमः यदि भवेत् सर्वोऽपि उत्तमः भविष्यति । सहवासेन गुणाः दोषाश्च सञ्जायन्ते । किन्तु न जन्मना । तव कथनं मे अङ्गीकार्यं भवति । मयापि शृतं किन्तु इदमित्थम् इति वक्तुम् अशक्तः भवामि । यदि सोमयाजी श्रीष्यति पुत्रकस्य वक्रमार्गगमनं सः लोकमिमं सन्त्यक्षति ।

प्रभाकरः – तत् सत्यमेव । सः निष्ठावान् ब्राह्मणः ब्राह्मणः लौकिक व्यवहाराय प्राथान्यं न ददाति । यदि ब्राह्मणः लौकिक व्यवहाराय प्राथान्यं दत्वा जीवति, सः ब्राह्मणः नहि, किन्तु पशुप्रायः भवति ।

समीरः – सत्यं, यः लौकिकव्यवहाराय प्राथान्यं न ददाति स एव ब्राह्मणः । अब्राह्मणाः सर्वेऽपि लौकिक व्यवहारकर्दमे निमग्नाः जगत् शाश्वतमिति मत्वा कृत्याकृत्यं स्वार्थाय कुर्वन्ति ।

प्रभाकरः – अयं विप्रः केवलं वैदिकः । लौकिक व्यवहारं गर्हति । तस्मात् मे हृदयं तस्मिन् विप्रम्त्यन्तं स्निह्यति ।

समीरः – सः वेदपुरुषः । ब्राह्मीमय मूर्तिः । मूर्तीभूत भारतीय संस्कृतिः । यदि सः पुत्रस्य कथां श्रोष्यति तर्हि सुवर्ण शलाक इव तापेन द्रविष्यति । अयमेव अस्मदीय ग्राम रक्षकः । अयम्नवरत वैदिक मन्त्रोच्चारणेः ईतिबाधाभ्यः सर्वान् रक्षयति । अयं सत्यं पुरोहितः । तस्य सर्वं शुभं भूयात् इति मदीया भावना । बत मानवः कथं जगति परिवर्तते । (इति चिन्ताक्रान्तः अधोमुखः भवति)

प्रभाकरः – अरे समीर पश्य सोमयाजी स्नानार्थम् इतः एव आगच्छति । तस्मै, पुत्रकस्य दशां कथयिष्यावः । एहि आवां तिष्ठावः । (इति तस्य हस्तमवलम्ब्य एकस्मिन् मूले तिष्ठतः ।)

(नेपथ्ये मन्त्रोच्चारणं भवति)

सोमयाजी – यच्चकिञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपिवा अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणास्थितः ।

प्रभाकरः – समीर, सोमयाजी समायाति, आवां गत्वा तस्य पुत्रस्य वर्तनादिकं तस्मै निवेदयावः यदि आवां तथा न कुर्वः तस्य द्रोहकारिणौ भवेव ।

(ततः प्रविशति सोमयाजी)

प्रभाकर - समीरौ – आवां भोः अभिवादयावहे । (इति नमस्कुरुतः)

सोमयाजी – शुभं भूयात् । (इति आशीर्वादान् प्रयच्छति) किं मित्रे अपि कुशलिनौ भवन्तौ ?

प्रभाकरः – भवतां सत्कामनया परमेश्वरकृपया आवां नहिकेवलं, किन्तु सर्वे जनाःससुखं सन्ति । किन्तु…….(इत्यर्थोक्त्या)

सोमयाजी – कथयतु भवान् ।

प्रभाकरः – शृत्वा तत्र भवान् कृत्थो माभूयात् इति आवयोः प्रार्थना ।

सोमयाजी – कथयतु निश्शङ्कम् ।

समीरः – तत्र भवतां सुतः रत्नाकरः दुष्टवर्गैः सहवासं कुर्वन् गर्हितं शिष्ठजननिन्दितं कर्म करोति ।

प्रभाकरः – अयि वेदमण्डित । ह्यः रत्नाकरः पथिकान् ताडयित्वा तेभ्यः वस्तुचयं चोरयित्वा दुधाव । सः सुतराम् असन्मार्गगामी बभूव । तत्र भवान् बालकं योग्य पद्धत्यां सन्मार्गगामिनं करोतु इति आवयोः विज्ञप्तिः ।

सोमयाजी – (निर्विण्णः पाण्डुताङ्गत-वदनमण्डलः) अयि भोः मित्रोत्तमौ अहम्तीव कृतज्ञः भवतोः । तथैव करिष्यामि । भवन्तौ देशक्षेमकल्याणार्थं प्रयतवन्तौ पौरौ । अवश्यमहं भवदुदीरितं यथायोग्यम्नुवर्तिष्ये । (इति गच्छति)

समीरः – आवां सदिच्छया अकरवाव । तत्र न कापि स्वार्थभावना विद्यते कस्यापि । एहि गच्छावः । (इति गच्छतः)

(यवनिका पतति)

********************************************************************

.

तृतीयं दृश्यम्

(सोमयाजिगृहम् : सोमयाजी यज्ञोपवीतेन शरीरं कण्डूयमानः पत्न्यासाकं भाषते, तस्य पत्नी गुणवती तण्डुलान् विचन्वन्ती उपविशति)

सोमयाजी – हञ्जे गुणवति तव पुत्रः रत्नाकरः यथाविधि अपनीतः ।

गुणवती – हां उपनीतः अधुना सा प्रसक्तिः कुतः ।

सोमयाजी – कुतः ? तव नेत्रोन्मीलनाय करोमि ।

गुणवती – मम नेत्रोन्मीलनाय उत आवयोः नेत्रोन्मीलनाय । कथयतु भवान् ।

सोमयाजी – सः गुरुकुलं प्रेषितः शिक्षणाय ।

गुणवती – हां प्रेषितः । ततः ।

सोमयाजी – किन्तु सः गुरं तिरस्कृत्य भिल्ल वर्गैस्सह शबरालयेषु आहिण्डमानः मत्स्यमांसादिकं भक्षयन् सुरापानं कुर्वन् आरण्यको भूत्वा कितवो भूत्वा दीव्यन् भ्रष्टः सञ्जातः ।

गुणवती – अपिच ।

सोमयाजी – बहु शृतं मया । शृणु । सः निर्दयं पान्थान् व्यापाद्य तेभ्यः धनादिकं अपहृत्य अकृत्यानि विधास्यन् वंशगौरवं नाशयति ।

गुणवती – इति भवान् कथयति ।

सोमयाजी – नाहं कथयामि लोकः कुक्कुटो भूत्वा विरौति मुक्तकण्ठं, तत् श्रोतुं मे दुर्भरं भवति ।

गुणवती – केनोक्तं, कथं, कदा, कुत्र शृतम् ।

सोमयाजी – अद्य तमसातीरे मयि गच्छतिसति ग्रामीणाः सज्जनाः परस्परं भाषमाणाः मां विलोक्य मत्सकाशं समेत्य सविस्तरम् अकथयन् ।

गुणवती – तदा किं कृतं भवता ?

सोमयाजी – तदा शान्तमत्या शृतं मया।

गुणवती – ततः ।

सोमयाजी – तच्छ्रवणेन मम शिरः अधोमुखं बभूव ।

गुणवती – ततः ।

सोमयाजी – सर्वमपि मे शरीरं रक्तौष्णिक्येन अग्नौ पतित समिदोपमं बभूव ।

गुणवती – लोकः काकोभूत्वा यत्किमपि रटति तत् अस्माभिः न श्रेतव्यम् ।

सोमयाजी – लोकापवादः विना च कारणं न भवति । सर्वस्यापि कारणं आस्ते ।

गुणवती – अयि भोः । केषाञ्चन जगति न किमपि कार्यं भवति, विना च परगृह छिद्रान्वेषणं, सज्जन-जनजीवन कज्जलीकरणं च ।

सोमयाजी – तथामावद जनालिमुद्दिश्य यतः ।

वेदोपबृंहित नितान्त पवित्र धर्म ।
धर्मेपजीवित लसत्तर देशभावम्
भावानुवर्धित जनालि सुवाक्य जालम्
शृत्वा मदीय हृदयं विशदं विभाति ॥

(तस्याः सकाशं आगत्य) कथं न श्रोतव्यम् । त्वं कुमार जीवितनाशनं करोषि पुत्रप्रेम्ना । पुष्यरागखचित सुवर्णाङ्गुलीयकं मदीयगृहे अन्तर्हितं बभूव । तत् गृहे कथं अन्तर्हितं भविष्यति ।

गुणवती – भवता तत्र पीठोपरि न्यसितं मूषकैः मुष्णीतम् इतिमन्ये । नोचेत् कः ग्रहिष्यति स्वगृहे ।

सोमयाजी – कः ग्रहिष्यति ? विद्यते खलु राहुग्रहः गृहे स एव मूषकः नतु मूषकः ।

गुणवती – तथा मा वदत । लोकः नखमात्रं विद्यमानं शिखरीकृत्य कथयति यत् किमपि तत् न श्रोतव्यम् । शृत्वाऽपि अपशृतिरिव अशृतमिव नटितव्यम् ।

सोमयाजी – हञ्जे त्वं सुतप्रेम्ना कुमारोपरि मक्षिकापातनमपि न सहसे, तस्मात् अस्तव्यस्तं भाषसे । तत् सर्वं तव शोभते । नतु मम ।

गुणवती – अहं किं कुर्याम् । अहं अनेकथा सुतंम् अनार्यसङ्गमात् निवारयितुं प्रायतम् । किन्तु सः दिने दिने अधमः सञ्जातः । सः कालक्रमेण साधुमार्गगामी भविष्यतीति अनेक स्वप्नान् अपश्यम् । किन्तु सर्वे दिवास्वप्नाः जाताः । (इति रोदिति)

सोमयाजी – रोदि उच्चैः रोदि । स्त्रियः रोदनेन जयन्ति लोकम् (हस्तचालन क्षेपैः अभिनयन् ।)

मञ्जुवाग्विभव भावचयेन । हावभाव दरहास भरेण ।
लीकमेवहि सदा वनिताश्च । रोदनायुध बलेन जयन्ति ॥

अपेहि मम सम्मुखात् । “अनार्यसङ्गमात् वरं विरोधोऽपि समं महात्मभिः”। कुलगौरवः भस्मचये पतितः । देशगौरवः कर्दमितः । एवं न कदापि समालोचितम् ।

गुणवती – (चिन्ताक्रान्तमनसा) एषा मन्दभागिनी नवमासायासखेदं अनुभूय असूत पुत्रम् । भवद्भिः साम्प्रदायानुसारं नामकरणादिकं वैदिकपद्धत्या विधत्तम् । अन्ततः सर्वम् एवं परिणतम् । अत्र आवयोः दोषः न विद्यते । “विनाशकाले विपरीत बुद्धिः” इति आर्योक्तिं सत्यं प्रतिभाति ।

सोमयाजी – भुवि सकल जन्तवः पूर्वजन्मकर्मानुसारं विचारयन्ति । पितरः जन्महेतवः न तु धिषणा दातारः ।

गुणवती – ज्ञानदातारं गुरुं तिरस्कृत्य भिल्लवर्गैः साकं पलायितः । किं दारुणमध्यवसितं कुमारेण ।

सोमयाजी – तस्मात् शास्त्राणि कथयन्ति एकः पुत्रः मास्तु किन्तु पितरौ बहुपुत्रकौ भवितव्यौ इति । यदि एकः पुत्रः सः वक्रमार्गगामी भवेत् तर्हि वंशगौरवः देशगौरवश्च नष्टौ भविष्यतः । यदि अनेक पुत्राः भविष्यन्ति तेषु एकः वंशगौरवकारः देशौन्नत्य कारकश्व भविष्यति । तस्मात् सर्वं साधु विचिन्त्य पूर्वजैः कथितम् । ते परमार्थ दर्शकाः । तेभ्यः नमोवाकं प्रशंशास्महे । (इति हस्ताबुद्यम्य नमस्करोति)

गुणवती – एकः रत्नाकरः वंशोन्नतिं देशोन्नतिं च कल्पयिष्यतीति वैद्युतायमाना विचारधारा तिरोहिता जाता । वयं कर्तुमेकं उद्यताः दैवमन्यत् विदधाति । अपत्यान्तरमपि नास्त्यावयोः । आवां सर्वथा अपत्यहीनौ जातौ ।

सोमयाजी – तस्मात् धर्मवादिनः एक पुत्रत्वम् अनपत्यत्वम् इति आहुः । चक्षुरेकस्य पुत्रैकस्य अस्तित्वेऽपि नास्तित्वमिति प्राहुः । चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः इति । अपि च अग्निहोत्रं त्रयीविद्या सन्तानमपिचाक्षयम् इति धर्मशास्त्रम्। बलीयसी केवलमीश्वरेच्छा । (इति मञ्चे उपविशति)

गुणवती – (तस्य सकाशमागत्य) मा कुरुत विचारम् । यत् भवितव्यं तत् भविष्यति ।

सोमयाजी – हञ्जे किमस्ति ते मातृभावना ? यदि मातृभावना तवास्ति त्वं एवं न भाषसे ।

गुणवती – स्त्रीषु दोषमारोपयन्ति पुरुषाः । ते बाधां व्यक्तीकरिष्यनति पदजालैः । जगति सर्वासां मात्रूणां वात्सल्यं भवत्येव । संस्कृतज्ञैः वेदवेदाङ्गविद्भिः भवद्भिः न शृतं किम् ? कुपुत्रो जायेत क्वचिदपि कुमाता न भवति । (इति अन्तः गच्छति)

सोमयाजी – (शान्तभावेन पठति)

भद्रं कर्णेभिः शृणु यामदेवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरं रङ्गै स्तुष्टु वागुं स्वस्तनूभिः

(इति पठन् आस्ते)

(यवनिका पतति)

**************************************************************************

.

चतुर्थं दृश्यम्

(भिल्लाः मद्यं पीत्वा नृत्यन्ति । तेषां दक्षिणहस्तेषु पानपात्राणि विद्यन्ते। वामहस्तेषु आयुधाः विद्यन्ते । ते किञ्चित् सुरां निपीय गायन्ति नृत्यन्ति च)

सुधीरः – पहाडीरागे गीतं गायते ।

चन्द्रिका सुहासिनी चचार यौवने
चन्द्रमाश्चिरं जहासपुष्करे ध्रु.

चित्तमेव मद्यपानरागरञ्जितं रे
सर्वमेव घूर्णितं विभाति साम्प्रतं रे 1

गच्च गच्छ जहि मार्गगामिनम्
विचर प्रहर निर्दयं पान्थ मण्डलम् 2

विहर कुरुरे सर्वदा सौख्यजीवनम्
जहाहि रे दयाद्र मानसं च निर्दयम् 3

(रत्नाकरः बहिरागत्य मण्डलात् इतस्ततः दत्तदृष्टिः एकत्र एकत्रित दृष्टिः वदनानिल वेणुना शब्दं करोति । तत् शृत्वा सर्वे तेन सार्थं धावन्ति)

(द्वौ भिल्लौ तत्रैवस्तित्वा पिबन्तौः भाषन्तौस्थः)

रक्तगन्धः – अरे वसागन्ध (इति तस्य समीपं गत्वा) अयं रत्नाकारः अस्मात् भिल्लवर्गात् अपेक्षया स्वयं हनन कर्मणि, घातुककृत्य करणे सिद्धहस्तः । अयं अतीव कठोरः निर्दयश्च । हननकर्मणि यत् सम्पाद्यते तत् सर्वं स एव गृह्णाति । अन्येभ्यः न किञ्चिदपि ददाति ।

वसागन्धः – अरे रक्तगन्ध । तदेवाहमपि चिन्तयामि । एनं अस्मात् वर्गात् निष्कास्य सर्वमपि वयमेव अनुभोक्ष्यामः इति अस्मदीय यूधकानां सम्भावना ।

रक्तगन्धः – सर्वस्यापिकर्णणः समयः भवति । समयं प्रतीक्ष्य प्रवर्तनीयं भवति । तं अस्मात् प्रदेशात् निष्काश्यामः समयं निरीक्ष्य ।

वसागन्धः – अरे वक्तुं सुरकमिदं, कर्तुं दुष्करं भवति । अयं अतीव बलसम्पन्नः क्रूरः यदि सः ज्ञास्यति अस्मदीयभावनां तर्हि अस्मान्सर्वान् मत्कुणान् इव पादाङ्गुष्टेन नाशयिष्यति ।

रक्तगन्धः – एतत् कर्म अन्य वस्यैः विचार्य सावधानतया करिष्यावः ।

वसागन्धः – अन्येवयस्याः अशने अग्रेसराः किन्तु न हनने । इदानीं रत्नाकरस्य करुणया द्विवारं उदरपूरं खादावः । यदि सः गमिष्यति तर्हि क्षुद्बाधया आवां अत्रैव मरिष्यावः । एतादृशी विचारणा अयोग्या आवयोः ।

रक्तगन्धः – जानामि सर्वम् । किन्तु प्रसङ्गवशात् तदा तदा अप्रस्तुत प्रशंशापि करणीया भवति ।

वसागन्धः – अरे अयं विषयः अधरमवतीर्य न गन्तव्यः । यदि विषयः अधरमवतरति तर्हि पृथिवीं उल्लन्ङ्घयिष्यति । आवां निन्दापात्रौ भविष्यावः । अनन्तरं तेन यमसदनं प्रापितवन्तौ भवेव ।

रक्तगन्धः – अपे अयं आवयोः स्वविषयः । सर्वः सर्वथा स्वार्थं समीहते ।

वसागन्धः – अरे सर्वेऽपि तमनुसरन् । एहि आवामपि गच्छावः । भाषणेन किं प्रयोजनं भवति । भाषणेन क्षुधोपशान्तिः भवति किम् ? विरम भाषणं तमनुसरावः एहि ।

रक्तगन्धः – ते सर्वे बहुदूरं गताः अधुना आवां तान् अनुसर्तुम् अशक्ताः भवेव ।

वसागन्धः – यदि तान् नानुसरावः अद्य उपवासः भविष्यति आवयोः ।

रक्तगन्धः – आवां उच्छिष्ठ खादकौ । यदि आवां न गच्छावः उत गच्छावः सर्वदा अस्माकं उच्छिष्ट एव लभिष्यति तस्मात् गमने नार्थः ।

वसागन्धः – न गम्यते आवाभ्यां तर्हि उच्छिष्ठमपि लब्धुं दुष्करं भविष्यति । तदुच्छिष्टं वायसमशकादिभिः भुज्यते नावशेषम् ।

रक्तगन्धः – अरे त्वं लौकिकोसि । अत्यन्त व्यवहारी असि । तवोक्तिमनुसृत्य गमनं वरं भवति मे । गच्छ तानेव अनुसरिष्यावः । (इति गच्छतः)

(यवनिका पतति)

******************************************************************

.

पञ्चमं दृश्यम्

(अरण्ये दुर्गमस्थानं तत्र पार्श्वतः पादमार्गः विद्यते तस्मात् मार्गात् उत्तरेण न्यग्रोधतरुः विद्यते तत्र हस्ते दृढं लगुडं गृहीत्वा रत्नाकरः न्यग्रोधतरोः मूले अन्तर्हितः उपविशति)

(ततः प्रविशति नारदः)

(नारदः दक्षिण हस्तेनालङ्कृत वीणादण्डः वामहस्तेनालङ्कृत तालबन्धः पीताम्बरधारी नारायण नारायण इति कथयन् प्रविशति)

नारदः – हरिनारायण हरिनारायण हरिनारायण ।

रत्नाकरः – (नारदस्य पुरतः आगत्य दण्डहस्तौ उद्यम्य तं प्रहर्तुम् उद्युक्तो भवति ।

नारदः – (तं दृष्ट्वा) नारायण नारायण इति कथयति)
(रत्नाकरस्य हस्ताभ्यां स्त्रस्तः दण्ड भूमौ पतति)

नारदः – अयि बाल, कोऽसि त्वम् । किमर्थमेवं करोषि ?

रत्नाकरः – अरे सन्यासिन् कोऽसि त्वं प्रष्टुम् अपिच मां निरोध्दुम् । समर्पय त्वत्सकाशे विद्यामानं सर्वं मम हस्ते, नोचेत् तव मरणमेव भविष्यति मम हस्ते ।

नारदः – नारायण, बाल किमर्थमेवं करोषि ?

रत्नाकरः – अरे कोऽसि त्वं मा प्रष्टुं पदे पदे ?

नारदः – बाल शृणु, मम वचनं अनन्तरं मत्समीपे विद्यमानं सर्वं वस्तुचयं गृहाण ।

रत्नाकरः – किं ते वचनं श्रावय ।

नारदः – बाल निरहिंसा किमर्थं करोषि ? को हेतुः विद्यते तथा कर्तुम् ।

रत्नाकरः – अरे गायक । मम उदरपोषणार्थम् । अपिच मम भार्यासन्तोषार्थम् अहं सर्वं करोमि, करिष्यामिच । त्वमपि गायको भूत्वा इतस्ततः भिक्षार्थं चरसि तव कुटुम्बपोषणार्थम् ।

नारदः – तव कुटुम्ब पोषणार्थं त्वमेवं करोषि ?

रत्नाकरः – हां मे पत्नी मे प्रियतमा । सर्वशः सा संरक्षणीया मया । तस्य कृते सर्वमहं करोमि ।

नारदः – बाल शृणु । त्वं अत्यन्त घोरकृत्यं समाचरसि । तेन कृत्येन त्वं पापं भजसे ।

रत्नाकरः – (विहस्य) पापः ? सः कः ? अहं कदापि न दृष्टवानस्मि तम् । कथं विद्यते सः पापः मां कथय । तमपि मारयित्वा तस्य समीपात् सर्वं चोरयित्वा सानन्दं सुखमनुभविष्यामि ।

नारदः – सः अनुभुज्यते । किन्तु नहि द्रक्ष्यते ।

रत्नाकरः – सः मया नानुभूयते ।

नारदः – सः अत्र नानुभूयते ।

रत्नाकरः – सः कुत्र अनुभूयते ।

नारदः – यमलोके ।

रत्नाकरः – सः कुत्रास्ति ।

नारदः – सः अन्धकारे निलीनः वर्तते । सः न कस्यापि दृष्टिपधमायाति ।

रत्नाकरः – अरे सन्यासिन् । त्वं मम हस्तात् पलायितुं प्रयतसे । तत् त्वं कर्तुं नार्हसि । अदृश्यमान विषयमुद्दिश्य न विचारः कर्तव्यः । प्रयच्छ त्वत्सकाशे विद्यमानं सम्पच्चयम् । (इति सपरुषं सः वदति)

नारदः – अदृष्टविषयः सर्वेण न ज्ञायते ।

रत्नाकरः – तव वचने किमपि सत्यं न विद्यते । त्वं सर्वमपि कल्पयसि ।

नारदः – वयं सर्वमपि प्रत्यक्षं द्रष्टुम् अशक्नुमः ।

रत्नाकरः – यदि प्रत्यक्षं न दृश्यते तर्हि तत् असत्यं भवति ।

नारदः – सर्वोऽपि अनुमानेन द्रष्टव्यः भवति ।

रत्नाकरः – एतत् सर्वं मया नापेक्ष्यते । सौख्यमय जीवनमेव मयापेक्ष्यते ।

नारदः – इदं सौख्यमय जीवनं नहि । नरकप्रायजीवनं भवति ।

रत्नाकरः – कोऽयं नरकः (इति हसति)

नारदः – बाल तव नाम किम् ?

रत्नाकरः – मम नाम रत्नाकरः ।

नारदः – बाल रत्नाकर । शृणु अहं अत्रेव तिष्ठामि त्वं सत्वरं तव गृहं गत्वा तव प्रियां पत्नीं पृच्छ यथा सा त्वया दत्तवस्तुचयात् अर्धं गृहणाति, तथा त्वदीय पापसञ्चयात् अर्धं ग्रहिष्यति किम् ? विषयमेवं त्वं तव पत्न्या विचार्य प्रतिनिवृत्य मे निवेदय । तदा सर्वमहं मत्सकाशे विद्यमानं ते दास्यामि ।

रत्नाकरः – अरे गायक त्वं कपटनाटकं करोषि । त्वं मत्तः पलायितु मिच्छसि । त्वं तथा कर्तुं नार्हसि । तव मे हस्ते मरणमिति लिखितमासीत् ।

नारदः – त्वं मां मारय । किन्तु प्रथमतः तव पत्नीं विचार्य समागच्छ ।

रत्नाकरः – (किञ्चित् विचार्य) तं अत्रेव तिष्ट । अहं अधुनैवाऽगच्छेयं मम पत्नीं विचार्य)

नारदः – (तत्रैवोपविशति)

रत्नाकरः – (तं पश्यन् पृष्ठतः चलति)

नारदः – (नारायण नारायण नारायण इति कथयति)

(यवनिका पतति)

******************************************************

.

षष्ठं दृश्यम्

(निशावसानसमयः भिल्लिनी खट्वायां गुर् गुरुन्ती स्वपिति)

(नेपथ्ये कवाटं ताडयन्) हञ्जे हञ्जे कवाटं उद्घाट्य, उत्तिष्ठ ।

भिल्लिनी – (तनुं प्रसारयन्ती हस्तौ उद्यम्य, मुखं विस्तृत्य जृम्भणं करोति)

रत्नाकरः – हञ्जे दयिते त्वया साकं किञ्चित् भाषणीयं विद्यते, कवाटमुद्घाटय ।

भिल्लिनी – अरे गच्छ गच्छ । मया साकं प्रभाते भाषणीयं किं विद्यते । सुप्तुं त्वं समयं न ददासि रे ।

रत्नाकरः – प्रिये । अस्ति कञ्चित् वाग्विशेषः ।

भिल्लिनी – कोऽयं वाग्विशेषः ।

रत्नाकरः – त्वं प्रथमतः कवाटं उद्घाटय । अनन्तरं कथयिष्यामि ।

भिल्लिनी – बत ! (इत्युत्थाय गत्वा कवाटं उद्घाटयति)

रत्नाकरः – प्रिये त्वं मम प्रश्नस्य उत्तरं देहि । (इति अन्तः प्रविशति)

भिल्लिनी – प्रातरेव प्रश्नानां उत्तरं, किमेतत् चित्रम् । प्रातः किञ्चित् पललाशन अनन्तरं कवोष्णरुधिरपानं कर्तव्यं भवति । अद्य दिवसः प्रश्नोत्तर दिवसः किम् ।

रत्नाकरः – दयिते अहं अद्य बहुपरिश्रान्तः जातः । (इति मञ्चोऽपरि उपविशति) किं मे प्रश्नस्य प्रत्युत्तरं दास्यसि ।

भिल्लिनी – अरे एतावत्पर्यन्तम् अद्यावधि न कोऽपि प्रश्नः पृष्टः । भवतुनाम विचारय कोऽयं ते प्रश्नः ।

रत्नाकरः – प्रिये यत् मया खाद्यम् आनीयते तस्मिन् अर्धं त्वं अनुभुङ्क्ष्वे ।

भिल्लिनी – अर्धं नहि सर्वमपि अहमेव भक्षयामि सुखमनुभवामि च ।

रत्नाकरः – त्वं मदानीत वस्तुचयात् अर्धम् उत तृतीयांशंवा अनुभवसि ।

भिल्लिनी – हां अनुभवामि । आवयोः समानशीलता विद्यते । आवां सर्वं यथायोग्यं अर्धार्धम् अनुभवामः । स एव पतिपत्नी भावः ।

रत्नाकरः – तथा यदि स्यात्, मयाकृत पापे अपि अर्धभागं ग्रहिष्यसि किम् त्वं ।

भिल्लिनी – (छ छ छ इति कथयति) त्वत्कृत पापे अर्धभागः उत, लेशः अपि मया नानुभूयते । पापी पापं अनुभवति नत्वन्यः ।

रत्नाकरः – मदानीतं खाद्यं त्वम् अनुभवसि ।

भिल्लिनी – हाँ अनुभवामि, ससुखं निवसामि ।

रत्नाकरः – तस्मात् तत् कृते यः पापः कृतः तस्मिन् पापे अपि त्वया सहभागिनी भवितव्या ।

भिल्लिनी – त्वं पथिकान् मारयित्वा तेभ्यः धनं अपहृत्य मह्यं ददासीति नाहं जाने । त्वं मां पोषयितुं तथा करोषि । त्वया आनीतं तत् अहं खादामि । मम नास्ति कोपि सम्बन्धः पाप विषये यथा तवास्ति ।

रत्नाकरः – सुतरां नास्ति किम् ।

भिल्लिनी – सुतरां नास्ति । स्वयङ्कृत पापं स्वयमेव भुङ्के जनः लोके तदन्यथा न भवति । सः पापः अन्यैः न कदापि भुज्यते ।

रत्नाकरः – प्रिये दुष्कर्म कृतं मया । अहं प्रेम्ना आनीय सर्वं तुभ्यमेव ददामि । त्वम् अधुना वदसि मत्कृतपापे त्वं सहभागिनी न भविता । धिक् संसारम्प्रति । (इत्युत्थाय चिन्ताग्रस्तः नारदं प्रति धावति)

भिल्लिनी – अयं पापपुण्य विचक्षणां न जानाति । अयं सुतरां मूर्खः । एतत् सर्वं मम किमर्थम् । सम्यक् भोजनं गाढनिद्रा मम अत्यन्त रोचकौ । (इति गत्वा पुनः स्वपिति)

(यवनिका पतति)

*****************************************************

.

सप्तमं दृश्यम्

नारदः – (तत्रैवोपविशति)

(ततः प्रविशति रत्नाकरः)

रत्नाकरः – अयि भोः गायक मां रक्षस्व । (इति नारदपादयोः पतति)

नारदः – (तं हस्ताभ्याम् उन्नमय्य) किम् उक्तं तव पत्न्या ।

रत्नाकरः – अयि भोः गायक त्वं मे ज्ञानमादिशः । अधुना मे नयनद्वयम् उन्मीलितम् । अहं अधुना किं करवाणि । पत्नी जगाद पापात् अर्थम् उत न किञ्चित् अपि तयानुभुज्यते इति । अहमेव संसारलम्पटोभूत्वा दृश्यमानं भुञ्चमानं च सत्यमिति प्रमत्तः अकृत्यमकरवम् । मम पापपरिहारो नास्ति । अधुना अवगतोऽस्मि कः पापः । (इति मुक्तकण्ठं रोदिति)

नारदः – बाल मारोदि । अस्ति पापपरिहारः ।

रत्नाकरः – कथं मे पापपरिहारः भविष्यति ।

नारदः – अस्ति मार्गविशेषः ।

रत्नाकरः – शाधि मां भगवन् ।

नारदः – एहि बाल मत्सकाशम् ।

रत्नाकरः – स्वामिन् अहं पापी अस्पृश्यः वन्यजीवी च ।

नारदः – तथा मावद रत्नाकर । सर्वं जगत् विष्णुमयम् । सर्वं तस्य विलसनमेव । वयं सर्वे तस्य कृतिनः । नात्र चिन्ता कार्या । सर्वं जगति स्पृश्यमेव भवति । अस्पृश्यं न किमपि विद्यते ।

रत्नाकरः – प्रभो त्वं कोऽसि । तव नाम किम् ।

नारदः – अहं नारदः । अहं त्रिलोकसञ्चारी । एहि मत्सकाशं, ते राम मन्त्रोपदेशं करिष्यामि ।

रत्नाकरः – (तस्य सकाशं आयाति)

नारदः – (कर्णे राम इति कथयति) बाल त्वं अत्रैव वटवृक्षच्छायायाम् उपविश्य एकाग्रनिष्ट्या मन्त्रोच्चारणं कुरु । (इति स्थानं दर्शयति)

रत्नाकरः – (तथैवोपविश्य रामः रामः इति जपन्नास्ते)

नारदः – (नारायण इति कथयन् गच्छति)

(यवनिका पतति)

*******************************************************

.

अष्टमं दृश्यम्

(ततः प्रविशति काषायाम्बरधारी रुद्राक्षमालालङ्कृतः भस्मचर्चित शरीरः भारद्वाजः)

भारद्वाजः – (आत्मगतम्) बत बहु वर्षेभ्यः अहं अत्रैव आत्मज्ञानार्थं तपामि । किन्तु आत्मज्ञानं एतावत्पर्यन्तम् अप्राप्तोऽहम् । मे जीवने आटविकजीवनं स्थिरमिव भासते। विना च आत्मज्ञानं जीवनं सत्यं आटविकं जीवनमेव भवति । मम विद्यते कविहृदयेभावनाज्ञानम् । तदनुसारेण शीघ्र लेखनमपि कर्तुं समर्थोस्मि । अहं उक्तलेखनं भावनापेक्षया शीघ्रतरं लिखिष्यामि । तत् मे जन्मतः सङ्क्रामितम् । मानवः सर्वशक्ति सम्पन्नोऽपि ज्ञानी अपि विना च गूरूपदेशः, गुरोः सन्मार्गादेशः किमपि कर्तुम् अशक्तो भवति । सर्वत्र गुरुबलमावश्यकं भवति । विना च गुरूपदेशः विद्या अपक्रमः भवति । आशैशवादहं अत्रैव तमसानदीतीरे निवसामि । तमसानदीतीरप्रभावेन मयि नकापि परिवर्तना जाता । मे अज्ञानं एतावत्पर्यन्तं अद्यावधि न तिरोभूतम् । यदि यः कश्चन् गुरुः सरस्वतीचरण चारणचक्रवर्ती मम उपलब्धः भवति तर्हि मे कामना सफला भविष्यति । अहं मे जीवितान्तं तस्य सेवां कुर्याम् । यदि सः कविः भविष्यति तर्हि तस्य कवितारसमास्वाद्य अहं परब्रह्माणं ज्ञास्यामि । अत्र अधुना सर्वे निशाचराः, रक्तम्पचाः । पललाशनाः सन्ति । अहमेकः एव कन्दमूल पर्णाशिनीः । न कोऽपि धन्यजीवि राजतेऽत्र । कर्णाकर्णिकया शृतम्मया अत्र कोऽपि सज्जनः तपस्यन् आस्ते इति । तस्य सन्निधिं गत्वा आत्मज्ञानार्जनपरः भविष्यामि । एकदा मां त्रिलोक सञ्चारी नारदः अवादीत् यत् त्वं वाल्मीकेः शिष्यः भविता इति । एतावत्पर्यन्तं कुत्र विद्यते स वाल्मीकिः नाहं जाने । (इति इतस्ततः तूष्णीं चरन् किञ्चित् आकर्ण्य) किमेतत् अत्रैव न्यग्रोध वृक्षान् अधोऽधः किञ्चित् चञ्चत् चञ्चरीक झङ्कारतुलित नादरम्यः राम राम इति अव्यक्त मधुरः शब्दविशेषः श्रूयते । अहं तत्रैव गच्छेयम् । एतादृश सन्दर्भविशेषः मया न कदापि अनुभूतः । सत्यमेतत् यत् मङ्गलानि नानुमेयानि भवन्ति, किन्तु त्वक्षण फलद्योतकानि भवन्तीति । भवतु मां बुद्धिः प्रचोदयति तत् स्थानं गन्तुम् । अधुना तत्रैव गच्छेयमहम् । ओं शनो मित्रस्य वरुणः शनो भवत्वर्यमा । शंन इन्द्रो बृहस्पति । (इति पठन् गच्छति)

(यवनिका पतति)

**********************************************************************

.

नवमं दृश्यम्

(न्यग्रोध वृक्षं अधोधः स्थलंसर्वमपि पर्णाविलं वर्तते अपि च महान् वल्मीकः विराजते)

(ततः प्रविशति नारदः)

नारदः – (वल्मीकं विलोक्य) नारायण नारायण । (इति जपति)

वाल्मीकिः – (मनसि) शृतपूर्वोयं वाग्विशेषः ध्वनि विशेषश्च । (इति वल्मीकात् उत्थाय नमस्करोति नारदम्) त्रिलोक सञ्चारिन् नारद । महापुरुषाणां दर्शनेन असम्भाव्यमपि सम्भाव्य भवति । किमत्रागमन कारणम् । महानुभावाः विना च कारणं गृहं ना गच्छन्ति । महात्मन् निवेदय किं कारवाणि ते ।

नारदः – रत्नाकर श्रृणु किं करणीयं विद्यते ते । यतः तपस्यतः तवोपरि वल्मीकं सञ्जातं ततः अद्य प्रभृति त्वं वाल्मीकिः इति नाम्ना आहूयसे । त्वया महापुरुष जीवितमुद्दिश्य महत् काव्यं विरचनीयं विद्यते । तच्चकाव्यं जगति अदिकाव्यं भविष्यति । तदा त्वदीय काव्यावतरणं विलोक्य तत् काव्यं पाठं पाठं सर्व जगत् मुग्धं भविष्यति । तस्मात् काव्यलेखने कृतप्रयत्नो भव ।

वाल्मीकिः – अयि भो नारद । साम्प्रतं लोके गुणवान् वीर्यवान् कः अस्ति निवेद्यताम् ।

नारदः – शृणु वाल्मीके । इक्ष्वाकुवंश प्रभवः रामोनाम जनैशृतः । सर्व शास्त्रार्थ तत्वज्ञः स्मृतिमान् प्रतिभावान् सरामः सर्वलोकप्रियश्च । तं महापुरुषं उद्दिश्य काव्यं विलिख ।

वाल्मीकिः – धन्योऽस्मि नारद धन्योस्मि । इति नमस्करोति)

नारदः – नारायण नारायण । (इति गच्छति)

(ततः प्रविशति भरद्वाजः)

भरद्वाजः – गुरवे नमः । (इति नमस्करोति)

वाल्मीकिः – कोऽसित्वम् !

भरद्वाजः – अयि मुने अहं भवतां शिष्यः ।

वाल्मीकिः – तव नाम किम् ?

भरद्वाजः – मम नाम भारद्वाजः ।

वाल्मीकिः – त्वं कुत्र निवससि ?

भरद्वाजः – अस्मिन् अरण्ये अहं निवसामि ।

वाल्मीकिः – त्वं मम सन्निधिं कथम् आगतोऽसि ।

भरद्वाजः – भवतां समागमः मे भविष्यतीति त्रिलोक सञ्चारी नारदः अवादीत् । तस्मात् अहं भवतां शिष्यः भवितुं समागतोस्मि ।

वाल्मीकिः – सर्वं शुभप्रदं सञ्जातम् । अद्य प्रभृति त्वं मे शिष्यः ।

भरद्वाजः – शाधि मां गुरो ।

वाल्मीकिः – भरद्वाज तमसातीरं स्नातुं गम्यते मामनुसर ।

भरद्वाजः – एषोस्मि देव ।

वाल्मीकिः – भरद्वाज पश्येहम् अकर्दमं तीर्थं तमसातीरं रमणीयं, प्रसन्नाम्बु यधा सन्मनुष्यमनः ।

भरद्वाजः – अहो अतीव सुन्दरा प्रकृतिरामणीयकता ।

वाल्मीकिः – तात भरद्वाज, न्यश्यतां कलशः दीयतां वल्कलं मम, उत्तमं तमसा तीर्थमिदम् अवगाहिष्ये ।

भरद्वाजः – गृह्यताम् इदं वल्कलम् ।

वाल्मीकिः – (आदाय वल्कलं शिष्यहस्तात् आंसमन्तात् व्याम्पृतं वनं पश्यति क्रौञ्चयोः चारु निश्वसनं शृणोति) भरद्वाज शृणु । पतत्रिणः स्वैरं विहरन्तः कूजन्तः सर्वमपि तमसातीरं नादब्रह्मावृतं कुर्वन्ति ।

भरद्वाजः – गुरो प्रकृति सौन्दर्यानुभावः सर्वेषां जन्तूनां न भवति ।

वाल्मीकिः – (अत्रात्नरे क्रौञ्चवधं विलोक्य भूमौ पतितं पतत्रिणं विलोक्य मृतं च गत्वा) कोयं दुरात्मा मनुजपशुः यः पतत्रिणं मारितः धिक् तम् । (इति चिन्तया)

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीस्समाः ।
यत् क्रौञ्चमिधुनादेकं अवधीः काममोहितम् ॥

(इति उच्चैः गात्वा स्तब्धः) भरद्वाज किं व्याहृतं मया शोकार्तेन विचिन्तय।

भरद्वाजः – गुरो सम्यगुदीरितं तत्र भवता ।

वाल्मीकिः – पादबद्धोक्षरसमः । तन्त्रीलय समन्वितः ।
शोकार्तस्य प्रवृत्तो मे । श्लोको भवतु नान्यथा ॥

एहि स्नानार्थं गच्छावः । (इति गच्छतः)

(यवनिका पतति)

*********************************************************

.

दशम दृश्यम्

(वाल्मीकिः ध्यानेस्थितः स्वीय आश्रमे । भरद्वाजः तत्रैव पार्श्वे भूर्जपत्राणि गृहीत्वा उपविष्टः)

वाल्मीकिः – (नेत्रे उन्मील्य) तात भरद्वाज शृणु । श्वेत दुकूलधारी ब्रह्मा मे भावनायां समागतः ।

भरद्वाजः – ततस्ततः ।

वाल्मीकिः – अहं सहसोत्थाय प्राञ्जलिः ब्रह्मन् अभिवादये उपविशतु भवान् इति पीठमयच्छम् ।

भरद्वाजः – तत्र भवन्तः धन्यजीविनः यतः ब्रह्माणाम् अपश्यन् । ततस्ततः ।

वाल्मीकिः – सः पीठोपरि उपाविशत् । अहम् अर्घ्यं पाद्यैः तम् अपूजयम् ।

भरद्वाजः – साधुकृतं भवद्भिः ततस्ततः ।

वाल्मीकिः – सः माम् अवोचत् अयि मुने त्वमपि उपविश । इति आसनं दर्शयामास ।

भरद्वाजः – ततस्ततः ।

वाल्मीकिः – अहं तेन दर्शित आसने उपाविशम् ।

भरद्वाजः – ततस्ततः ।

वाल्मीकिः – तदा मया प्रोक्तं ब्रह्मन् तमसातीरे एकेन व्याधेन एकः क्रौञ्चः व्यापादितः ।

भरद्वाजः – यत् वृत्तं तत् प्रोक्तं भवद्भिः । ततस्ततः ।

वाल्मीकिः – ब्रह्मन्, करुणान्तरात्मना मया व्यधितेन ।

मानिषाद प्रतिष्ठां त्वमगमः शाश्वतीस्समाः ।
यत् क्रौञ्चमिथुनादेकम् अवधीः काममोहितम् ॥

इति ।

भरद्वाजः – साधु समुदीरितं भवद्भिः ।

वाल्मीकिः – ब्रह्मा शृत्वा विहस्य मुनिपुङ्गव श्लोकः एव त्वया बद्धः नात्रकार्या विचारणा । भवान् रामायणं विलिखतु इति माम् आशीः पूर्वकं जगाद ।

भरद्वाजः – ततस्ततः ।

वाल्मीकिः – तदाहं आनन्देन विनमित शिरः । नेत्रे निमील्य प्रणाममाचरम् । अत्रान्तते तस्मिन् एव क्षणे सः । ब्रह्मा तिरोदधे ॥

भरद्वाजः – गुरो चतुर्मुखस्य भावनां पूरयन्तु भवन्तः ।

वाल्मीकिः – अहम् अधुनैव कवितां कथयेयम् । त्वं सावधानचित्तेन मदुक्तिम् अनुपदमेव विलिख ।

भरद्वाजः – मे कामना अद्य सफली भविष्यति गुरो । अहं तथैव विलिखिष्यामि । कथयन्तु भवन्तः ।

वाल्मीकिः – (नेत्रे निमील्य)

तपस्वाध्याय निरतम् तपस्वी वाग्विदांवरम् ।
नारदं परिपप्रच्छ । वाल्मीकिर्मुनिपुङ्गवम् ॥

भरद्वाजः – (एकाग्रचित्तेन लिखति)

वाल्मीकिः – यावत् स्थास्यन्ति गिरयः सरितश्च महीमले ।
तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥

भरद्वाजः – (एकाग्रचित्तेन लिखति)

(यवनिका पतति)

***********************************************************

.

]