०५

ततः प्रविशति हृष्टो विदूषकः ।
विदूषकः - ही ही भो, दिट्ठिआ चरस्स कालस्स उव्वसीसहाओ णन्दणवणप्पमुहेसु पदेसेसु विहरिअ पडिणिवुत्तो पिअवअस्सो ।
दाणिं सकज्जाणुसासणेण प�??दिमण्डलं अणुरज्जन्तो रज्जं करेदि ।
असन्ताणत्तणं वज्जिअ से ण किं वि सोअणीअं ।
अज्ज तिहिविसेसो त्ति भअवदीणं गङ्गाजमुणाणं सङ्गमे देवीहिं सह किदाहिसेओ सम्पदं उवआरिअं पविट्ठो ।
ता जाव तत्थभवदो अलङ्करीअमाणस्स अणुलेवणमल्ले अग्गभाई होमि ।
इति परिक्रामति ।
नेपथ्ये ।
हद्धी हद्धी ।
एसो दुऊलुत्तरच्छदे तालवेण्टपिहाणे णिक्खिविअ णीअमाणो अच्छराविलासवदीए मोलिरअणो मणी आमिससङ्किणा गिद्धेण अक्खित्तो ।
विदूषकः - कर्णं दत्त्वा ।
अच्चाहिदं ।
परं बहुमदो क्खु सो वस्सस्स सङ्गमणीओ णाम चूडामणी ।
अदो क्खु असमत्तणेवत्थो एव्व तत्थभवं आसणादो उट्ट्ःइदो ।
ता पासपरिवत्ती होमि ।
इति निष्क्रान्तः ।
प्रवेशकः ।
ततः प्रविशति राजा सूतश्च कञ्चुकिरेचकौ परिजनश्च ।
राजा - रेचक, रेचक ।
आत्मनो वधमाहर्ता क्वासौ विहगतस्करः ।
येन तत् प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥१॥
किराती - एसो मुहकोडिलग्गहेमसुत्तेण मणिणा अणुरज्जअन्तो विअ आआसं परिब्भमदि ।
राजा - पश्याम्येनम् ।
असौ मुखालम्बितहेमसूत्रं, बिभ्रन्मणिं मण्डलशीघ्रचारः ।
अलातचक्रप्रतिमं विहङ्गस्, तद्रागलेखावलयं तनोति ॥२॥
किं नु खलु कर्तव्यम् ।
विदूषकः - उपेत्य ।
भो, अलं एत्थ घिणाए ।
अवराही सासणीओ ।
राजा - सम्यगाह भवान् ।
धनुर्धनुस्तावत् ।
परिजनः - जं भट्टा आणवेदि ।
इति निष्क्रान्तः ।
राजा - न दृश्यते विहङ्गः ।
विदूषकः - इदो दक्खिअन्तेण चलिदो स??णिहदासो ।
राजा - परिवृत्य अवलोक्य ।
दृष्ट इदानीम् ।
प्रभापल्लवितेनासौ करोति मणिना खगः ।
अशोकस्तबकेनेव दिङ्भुखस्यावतंसकम् ॥३॥
यवनी - प्रविश्य चापहस्ता ।
भट्टा, एदं हत्थावावसहिदं सरासणं ।
राजा - किमिदानीं धनुषा ।
बाणपथातीतः क्रव्यभोजनः ।
तथा हि ।
आभाति मणिविशेषो दूरमिदानीं पतत्रिणा नीतः ।
नक्तमिव लोहिताङ्गः परुषघनच्छेदसंयुक्तः ॥४॥
कञ्चुकिनं विलोक्य ।
आर्य लातव्य, मद्वचनादुच्यन्तां नागरिकाः सायं निवासवृक्षाश्रयी विचीयतां विहगदस्युरिति ।
कञ्चुकी - यदाज्ञापयति देवः ।
इति निष्क्रान्तः ।
विदूषकः - उवविसदु भवं सम्पदं ।
कहिं गदो रअणकुम्भीलओ भवदो सासणादो मुच्चिस्सदि ।
राजा - विदूषकेण सहोपविश्य ।
रत्नमिति न मे तस्मिन् मणौ प्रियत्वं विहङ्गमाक्षिप्ते ।
प्रियया तेनास्मि सखे सङ्गमनीयेन सङ्गमितः ॥५॥
ततः प्रविषति सशरं मणिमादाय कञ्चुकी ।
कञ्चुकी - जयतु जयतु देवः ।
अनेन निर्भिन्नतनुः स वध्यो, रोषेण ते ंआर्गणतां गतेन ।
प्राप्यापराधोचितमन्तरिक्षात्, समौलिरत्नः पतितः पतत्री ॥६॥
सर्वे विस्मयं रूपयन्ति ।
कञ्चुकी - अद्भिः प्रक्षालितो मणिः कस्मै प्रदीयताम् ।
राजा - किराति, अग्निशुद्धमेनं कृत्वा पेटकं प्रवेशय ।
किराती - जं भट्टा आणवेदि ।
इति मणिं गृहीत्वा निष्क्रान्ता ।
राजा - लातव्य, अपि जानीते भवान् कस्यायं बाण इति ।
कञ्चुकी - नामाण्कितो दृश्यते ।
न तु मे वर्णविभावनसहा दृष्टिः ।
राजा - तेन ह्युपनय शरम् ।
कञ्चुकी तथा करोति ।
राजा नामाक्षराण्यनुवाच्य सापत्यतां रूपयति ।
कञ्चुकी - यावन्नियोगमशून्यं करोमि ।
इति निष्क्रान्तः ।
विदूषकः - किं भवं विआरेदि ।
राजा - शृणु तावत् प्रहर्तुर्नामाक्षराणि ।
वाचयति ।
उर्वशीसम्भवस्यायमैलसूनोर्धनुर्भृतः ।
कुमारस्यायुषो बाणः प्रहर्तुर्द्विषदायुषाम् ॥७॥
विदूषकः - सपरितोषम् ।
दिट्ठिआ सन्ताणेण वड्ढदि भवं ।
राजा - सखे, कथमेतत् ।
अन्यत्र नैमिषीयसत्रादवियुक्तोऽहमुर्वश्या ।
न च मया गर्भव्यतिकरो लक्षितः ।
कुत एव प्रसूतिः ।
किं तु आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् ।
तानि दिनानि वपुरभूत् केवलमलसेक्षणं तस्याः ॥८॥
विदूषकः - मा भवं सव्वं माणुसीधम्मं दिव्वासु सम्भावेदु ।
पभावगूढाइं ताणं चरिदाइं ।
राजा - अस्तु तावदेवं यथा भवानाह ।
पुत्रसंवरणे किमिव कारणं तस्याः ।
विदूषकः - मा बुड्ढिं मं राआ परिहरिस्सदि त्ति ।
राजा - कृतं परिहासेन ।
चिन्त्यताम् ।
विदूषकः - को देवदारहस्साइं तक्क�??स्सदि ।
कञ्चुकी - प्रविश्य ।
जयतु जयतु देवः ।
देव, च्यवनाश्रमात् कुमारं गृहीत्वा तापसी सम्प्राप्ता ।
देवः द्रष्टुमिच्छति ।
राजा - उभयमप्यविलम्बितं प्रवेशय ।
कञ्चुकी - यदाज्ञापयति देवः ।
इति निष्क्रम्य चापहस्तेन कुमारेण तापस्या च सह प्रविष्टः ।
कञ्चुकी - इत इतो भवती ।
सर्वे परिक्रामन्ति ।
विदूषकः - विलोक्य ।
णं खु एसो खत्तिअकुमारो जस्स णामङ्किदो गिद्धलक्खवेही णाराओ उवलद्धो ।
तत्थभवदो बहु अणुकरेदि ।
राजा - स्यादेवम् ।
अतः खलु ।
बाष्पायते निपतिता मम दृष्टिरस्मिन्, वात्सल्यबन्धि हृदयं मनसः प्रसादः ।
सञ्जातवेपथुभिरुज्झितधैर्यवृत्तिर्, इच्छामि चैनमदयं परिरब्धुमङ्गैः ॥९॥
कञ्चुकी - भगवति, एवं स्थीयताम् ।
तापसीकुमारौ स्थितौ ।
राजा - भगवति, अभ्वादये ।
तापसी - महाभाअ, सोमवंसवित्थार�??त्तओ होहि ।
आत्मगतम् ।
अहो अणाचक्खिदो वि विण्णादो इमस्स राएसिणो आउस्स अ ओरसो सम्बन्धो ।
प्रकाशम् ।
जाद, पणम दे गुरुं ।
कुमारश्चापगर्भमञ्जलिं करोति ।
राजा - आयुष्मान् भव ।
कुमारः - आत्मगतम् ।
यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति ।
उत्सङ्गवर्धितानां गुरुषु भवेत् कीदृशः स्नेहः ॥१०॥
राजा - भगवति, किमागमनप्रयोजनम् ।
तापसी - सुणादु महाराओ ।
एसो दीहाऊ आऊ जादमेत्तो एव्व उव्वसीए किं वि णिमित्तं अवेक्खिअ मम हत्थे णासीकिदो ।
जं खत्तिअकुमारस्स जादकम्मादिविहाणं तं से भअवदा चवएण असेसं अणुचिट्ठिदं ।
गहिदविज्जो धणुव्वेदे अ विणीदो ।
राजा - सनाथः खलु संवृत्तः ।
तापसी - अज्ज पुप्फसमिदत्थं इसिकुमारएहिं सह गदेण इमिणा अस्समविरुद्धं आअरिदं ।
विदूषकः - कधं विअ ।
तापसी - गहिदामिसो किल गिद्धो पादवसिहरे णिलीअमाणो लक्खीकिदो बाणस्स ।
विदूषको राजानमवलोकयति ।
राजा - ततस्ततः ।
तापसी - तदो उवलद्धवुत्तन्तेण भअवदा चवणेण अहं समादिट्ठा णिज्जादेहि हत्थणासं ति ।
ता इच्छामि उव्वसिं पेक्खिदुं ।
राजा - तेन हि आसनमनुगृह्णातु भगवती ।
तापसी प्रेष्योपनीते आसने उपविशति ।
राजा - लातव्य, आहूयतामुर्वष्शी ।
कञ्चुकी - यदाज्ञापयति देवः ।
इति निष्क्रान्तः ।
राजा - कुमारमवलोक्य ।
एह्येहि वत्स ।
सर्वाङ्गीणः स्पर्शः सुतस्य किल तेन मामुपगतेन ।
प्रह्लादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव ॥११॥
तापसी - जाद, आणन्देहि पिदरं ।
कुमारो राजानमुपगम्य पादग्रहणं करोति ।
राजा - कुमारं परिश्वज्य पादपीठे चोपवेश्य ।
वत्स, इतस्तव पितुः प्रियसखं ब्राह्मणमशङ्कितो वन्दस्व ।
विदूषकः - किं ति सङ्किस्सदि ।
अस्समवासपरिचिदो एव्व साहामिओ ।
कुमारः - सस्मितम् ।
तात, वन्दे ।
विदूषकः - सोत्थि भवदो ।
ततः प्रविशत्युर्वशी कञ्चुकी च ।
कञ्चुकी - इतो इतो भवती ।
उर्वशी - कुमारमवलोक्य ।
को णु क्खु एसो सबाणासणो पादपीठे सअं महाराएण सञ्जमीअमाणसिहण्डो चिट्ठदि ।
तापसीं दृष्ट्वा ।
अम्मो ।
सच्चवदीसूइदो मे पुत्तओ आऊ ।
महन्तो क्खु संवुत्तो ।
परिक्रामति ।
राजा - उर्वशी दृष्ट्वा ।
वत्स ।
इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
स्नेहप्रस्नवनिर्भिन्नमुद्वहन्ती स्तनांशुकम् ॥१२॥
तापसी - जाद, एहि ।
पच्चुग्गच्छ मादरं ।
कुमारः उर्वशीं प्रत्युद्गच्छति ।
उर्वशी - अम्ब, पादवन्दणं करेमि ।
तापसी - वच्छे, भत्तुणो बहुमदा होहि ।
कुमारः - अम्ब, अभिवादये ।
उर्वशी - कुमारमुन्नमितमुखं परिष्वज्य ।
वच्छ, पिदरं आराधअन्तो होहि ।
राजानमुपेत्य ।
जेदु जेदु महाराओ ।
राजा - स्वागतं पुत्रवत्यै ।
इत आस्यताम् ।
अर्धासनं ददाति ।
उर्वशी उपविशति ।
सर्वे यथोचितमुपविशन्ति ।
तापसी - एसो गहिदविज्जो आऊ सम्पदं कवअहरो संवुत्तो ।
ता एदस्स दे भत्तुणो समक्खं णिज्जादिदो हत्थणिक्खेवो ।
ता विसज्जिदं अत्ताणअं इच्छामि ।
उवरुज्झदि मे अस्समधम्मो ।
उर्वशी - कामं चिरस्स पेक्खिअ विरहुक्कण्ठिदम्हि ।
ण उण जुज्जदि धम्मावरोधे वट्टिदुं ।
ता गच्छदु अज्जा पुणोदंसणाअ ।
राजा - अम्ब, भगवते च्यवनाय मां प्रणिपातय ।
तापसी - एव्वं भोदु ।
कुमारः - आर्ये, यदि सत्यमेव निवर्तसे मामप्याश्रमं नेतुर्महसि ।
राजा - वत्स, उषितं त्वया पूर्वस्मिन्नाश्रमे ।
द्वितीयमध्यासितुं तव समयः ।
तापसी - जादु, गुरुणो वअणं अणुचिट्ठ ।
कुमारः - तेन हि यः सुप्तवान् मदङ्के शिखण्डकण्डूयनोपलब्धसुखः ।
तं मे जातकलापं प्रेषय मणिकण्ठकं शिखिनम् ॥१३॥
तापसी - विहस्य ।एव्वं करेमि ।
सोत्थि भोदु तुम्हाणं ।
इति निष्क्रान्ता ।
राजा - कल्याणि ।
अद्याहं पुत्रिणामग्र्यः सत्पुत्रेणामुना तव ।
पौलोमीसम्भवेनेव जयन्तेन पुरन्दरः ॥१४॥
उर्वशी स्मृत्वा रोदिति ।
विदूषकः - किं णु क्खु तत्थभोदी एक्कवदे अस्सुमुही संवुत्ता ।
राजा - सावेगम् ।
किं सुन्दरि प्ररुदितासि ममोपपन्ने, वंशस्थितेरधिगमान्महति प्रमोदे ।
पीनोन्नतस्तनविसर्पिभिरानयन्ती, मुक्तावलीविरचनापुनरुक्तिमस्रैः ॥१५॥
बाष्पमस्याः प्रमार्ष्टि ।
उर्वशी - सुणादु महाराओ ।
पढमं उण पुत्तदंसणसमुत्थिदेण आणन्देण विसुमरिदम्हि ।
दाणिं महिन्दसङ्कित्तणेण समओ मह हिअअं आआसेदि ।
राजा - कथ्यतां समयः ।
उर्वशी - अहं पुरा महाराअगहिदहिअआ महिन्देण आणत्ता ।
राजा - किमिति ।
उर्वशी - जदा सो मम पिअवअस्सो तुइ समुप्पण्णस्स वंसकरस्स मुहं पेक्खिस्सदि तदा तुए भूओ वि मम समीवं आअन्तव्वं ति ।
तदो मए महाराअविओअभीरुदाए जादमेत्तो एव्व विज्जागमणिमित्तं भअवदो चवणस्स अस्समपदे अज्जाए सच्चवदीए हत्थे अप्पआसं णिक्खित्तो ।
अज्ज पिदुणो आराहणसमत्थो संवुत्तो त्ति कलअन्तीए णिज्जादिदो मे दीहाऊ ।
ता एत्तिओ मे महाराएण संवासो ।
सर्वे विषादं रूपयन्ति ।
राजा - सनिःश्वासम् ।
अहो सुखप्रत्यर्थिता दैवस्य ।
आश्वासितस्य मम नाम सुतोपलब्ध्या, सद्यस्त्वया सह कृशोदरि विप्रयोगः ।
व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या, वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम् ॥१६॥
विदूषकः - अअं सो अत्थो अणत्थाणुबन्धो संवुत्तो ।
सम्पदं तक्केमि तत्थभवदा वक्कलं गेण्हिअ तवोवणं गन्तव्वं ति ।
उर्वशी - मं पि मन्दभाइणिं किदविणअस्स पुत्तस्स लाभाणन्तरं सग्गारोहणेण अवसिदकज्जं महाराओ समत्थ�??स्सदि ।
राजा - मा मैवम् ।
न हि सुलभवियोगा कर्तुमात्मप्रियाणि, प्रभवति परवत्ता, शासने तिष्ठ भर्तुः ।
अहमपि तव सूनावायुषि न्यस्तराज्यो, विचरितमृगयूथान्याश्रयिष्ये वनानि ॥१७॥
कुमारः - नार्हति तातः पुङ्गवधारितायां धुरि दम्यं नियोजयितुम् ।
राजा - अयि वत्स ।
शमयति गजानन्यान् गन्धद्विपः कलभोऽपि सन्, भवति सुतरां वेगोदग्रं भुजङ्गशिशोर्विषम् ।
भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं, न खलु वयसा जात्यैवायं स्वकार्यसहो भरः ॥१८॥
लातव्य, मद्वचनादमात्यपरिषदं ब्रूहि सम्भ्रियतामायुषो राज्याभिषेक इति ।
कञ्चुकी - यदाज्ञापयति देवः ।
इति दुःखितो निष्क्रान्तः ।
सर्वे दृष्टिविघातं रूपयन्ति ।
राजा ।
आकाशमवलोक्य ।
किं नु खलु निरभ्रे विद्युत्सम्पातः ।
उर्वशी - विलोक्य ।
अम्मो, भअवं णारदो ।
राजा - अये भगवान् नारदः ।
य एष गोरोचनानिकषपिङ्गजटाकलापः, संलक्ष्यते शशिकलामलवितसूत्रः ।
मुक्तागुणातिशयसम्भृतमण्डनश्रीर्, हैमप्ररोह इव जङ्गमकल्पवृक्षः ॥१९॥
अर्घ्यमस्मै ।
उर्वशी - यथोक्तमादाय ।
इदं भअवदो अग्घं ।
ततः प्रविशति नारदः ।
नारदः - विजयतां मध्यमलोकपालः ।
राजा - उर्वशीहस्तादर्घ्यमादाय, आवर्ज्य ।
भगवन्, अभिवादये ।
उर्वशी - भअवं, पणमामि ।
नारदः - अविरहितौ दम्पती भूयास्ताम् ।
राजा - आत्मगतम् ।
अपि नामैवं स्यात् ।
प्रकाशम् ।
कुमारमाश्लिष्य ।
वत्स, भगवन्तमभिवादयस्व ।
कुमारः - भगवन्, और्वशेय आयुः प्रणमति ।
नारदः - आयुष्मानेधि ।
राजा - अयं विष्टरोऽनुगृह्यताम् ।
नारदः - तथा ।
उपविष्टः ।
सर्वे नारदमनूपविशन्ति ।
राजा - सविनयम् ।
भगवन्, किमागमनप्रयोजनम् ।
नारदः - राजन्, श्रूयतां महेन्द्रसन्देशः ।
राजा - अवहितोऽस्मि ।
नारदः - प्रभावदर्शी मघवा वनगमनाय कृतबुद्धिं भवन्तमनुशास्ति ।
राजा - किमाज्ञापयति ।
नारदः - त्रिकालदर्शिभिर्मुनिभिरादिष्टः सुरासुरविमर्दो भावी ।
भवांश्च सांयुगीनः सहायो नः ।
तेन त्वया न शस्त्रं सन्न्यस्तव्यं ।
इयं चोर्वशी यावदायुस्तव सहधर्मचारिणी भवत्विति ।
उर्वशी - अपवार्य ।
अम्महे, सल्लं विअ हिअआदो अवणीदं ।
राजा - परवानस्मि देवेश्वरेण ।
नारदः - युक्तम् ।
त्वत्कार्यं वासवः कुर्यात् त्वं च तस्येष्टमाचरेः ।
सूर्यः समेधयत्यग्निमग्निः सूर्यं च तेजसा ॥२०॥
आकाशमवलोक्य ।
रम्भे, उपनीयतां स्वयं महेन्द्रेण सम्भृतः कुमारस्यायुषो यौवराज्याभिषेकः ।
रम्भा - प्रविश्य ।
अअं से अहिसेअसम्भारो ।
नारदः - उपवेश्यतामायुष्मान् भद्रपीठे ।
रम्भा - इदो वच्छ ।
कुमारमुपवेशयति ।
नारदः - कुमारस्य शिरसि कलशमावर्ज्य ।
रम्भे, निर्वर्त्यतामस्य शेषो विधिः ।
रम्भा - यथोक्तं निर्वर्त्य ।
वच्छ, पणम भअवन्तं मादापिदरा अ ।
कुमारो यथाक्रमं प्रणमति ।
नारदः - स्वस्ति भवते ।
राजा - कुलधुरन्धरो भव ।
उर्वशी - पिदुणो आराधैत्तओ होहि ।
नेपथ्ये वैतालिकौ ।
प्रथमः - विजयतां युवराजः ।
अमरमुनिरिवात्रिर्ब्रह्मणोऽत्रेरिवेन्दुर्, बधु इव शिशिरांशोर्बोधनस्येव देवः ।
भव पितुरनुरूपस्त्वं गुणैर्लोककान्तैर्, अतिशयिनि समाप्ता वंश एवाशिषस्ते ॥२१॥
द्वितीयः - तव पितरि पुरस्तादुन्नतानां स्थितेऽस्मिन्, स्थितिमति च विभक्ता त्वय्यनाकम्प्यधैर्ये ।
अधिकतरमिदानीं राजते राज्यलक्ष्मीः, हिमवति जलधौ च व्यस्ततोयेव गङ्गा ॥२२॥
रम्भा - उर्वशीमुपेत्य ।
दिट्ठिआ पिअसही पुत्तस्स जुवराअसिरिं पेक्खिअ भत्तुणो अविरहेण वड्ढदि ।
उर्वशी - णं साहारणो एसो अब्भुदओ ।
कुमारं हस्ते गृहीत्वा ।
एहि वच्छ, जेट्ठमादरं अभिवन्देहि ।
राजा - तिष्ठ ।
सममेव तत्रभवत्याः समीपं यास्यामस्तावत् ।
नारदः - आयुषो यौवराज्यश्रीः स्मारयत्यात्मजस्य ते ।
अभिषिक्तं महासेनं सौनापत्ये मरुत्वता ॥२३॥
राजा - अनुगृहीत्वोऽस्मि मघवता ।
नारदः - किं ते भूयः पाकशासनः प्रियं करोतु ।
राजा - यदि मे मघवा प्रसन्नः किमतः परमिच्छामि ।
तथापीदमस्तु ।
भरतवाक्यम् ।
परस्परविरोधिन्योरेकसंश्रयदुर्लभम् ।
सङ्गतं श्रीसरस्वत्योर्भूतयेऽस्तु सदा सताम् ॥२४॥
इति निष्क्रान्ताः सर्वे ।
इति महाकविकालिदासविरचिते विक्रमोर्वशीये पञ्चमोऽङ्कः ।