पिअसहिविओअविमणा सहिसहिआ वाउला समुल्लवै ।
सूरकरफंसविअसिअतामरसे सरवरूसङ्गे ॥१॥
सहजन्याचित्रलेखयोः प्रावेशिकी आक्षिप्तिका ।
ततः प्रविशति सहजन्या चित्रलेखा च ।
चित्रलेखा - प्रवेशान्तरे द्विपदिकया दिशोऽवलोक्य ।
सहअरिदुक्खालिद्धअं, सरवरअम्मि सिणिद्धअं ।
बाहोवग्गिअणअणअं, तम्मै हंसीजुअलअं ॥२॥
सहजन्या -सखेदम् ।
सहि चित्तलेहे, मिलाअमाणसअवत्तकसणा दे मुहच्छाआ हिअअस्स असुत्थदं सूएदि ।
ता कहेहि मे अणिव्वुदिकारणं जेण दे समदुक्खा होमि ।
चित्रलेखा -सकरुणम् ।
सहि, अच्छरावारपज्जाएण तत्थभवदो सुज्जस्स उवट्ठाणे वट्टती पिअसहीए विणा वसन्तूसवो आगदो त्ति बलिअं उक्कठिदम्हि ।
सहजन्या - सहि, जाणामि वो अण्णोण्णगदं पेम्मं ।
तदो तदो ।
चित्रलेखा - तदो इमेसु दिअसेसु को णओ वुत्तन्तो वट्टदि त्ति पणिधाणट्ठिदाए मए अच्चाहिदं उवलद्धं ।
सहजन्या - सहि,केरिसं तं ।
चित्रलेखा - सकरुणम् ।
उव्वसी किल तं राएसिं लच्छीसणाहं अमच्चेसु णिवेसिदकज्जधुरं गेण्हिअ केलाससिहरुद्देसं गन्धमादणं वणं विहरिदुं गदा ।
सहजन्या - सश्लाघम् ।
सहि, सो सम्भोओ जो तारिसेसु प्पदेसेसु ।
तदो तदो ।
चित्रलेखा - तदो तहिं मन्दाइणीतीरे सिकदापव्वदेहिं कीलमाणा उदअवदी णाम विज्जाहरदारिआ तेण राएसिणा चिरं णिज्झाइद त्ति कदुअ कुविदा मे पिअसही उव्वसी ।
सहजन्या - असहणा खु सा ।
दूरारूढो अ से पणओ ।
ता भविदव्वदा एत्थ बलवदी ।
तदो तदो ।
चित्रलेखा - तदो भत्तुणो अणुणअं अप्पडिवज्जमाणा गुरुसावसम्मूढहिअआ विसुमरिददेवदाणिअमा अम्मकाजणपरिहरणीअं कुमारवणं पविट्ठा ।
पवेसाणन्तरं च काणणोवन्तवत्तिलदाभावेण परिणदं से रूवं ।
सहजन्या - सशोकम् ।
सव्वधा णत्थि विहिणो अलङ्घणीअं णाम जेण तारिसस्स अणुराअस्स अण्णारिसो एव्व परिणामो संवुत्तो ।
तदो तदो ।
चित्रलेखा - तदो सोवि तस्सिं एव्व काणने पिअदमं अण्णेसन्तो उम्मत्तीभूदो इदो उव्वसी तदो उव्वसि त्ति कदुअ अहोरत्ताइं अदिवाहेदि ।
नभोऽवलोक्य ।
इमिणा उण णिव्वुदाणं वि उक्कण्ठाकारिणा मेहोदएण अप्पडीआरो भविस्सदि त्ति तक्केमि ।
अनन्तरे जम्भलिका ।
सहअरिदुक्खालिद्धअं, सरवरअम्मि सिणिद्धअं ।
अविरलबाहजलोल्लअं, तम्मै हंसीजुअलअं ॥३॥
सहजन्या - ण तारिसा आकिदिविसेसा चिरं दुक्खभाइणो होतिं ।
ता अवस्सं कोवि आणुग्गहणिमित्तभूदो समाअमोवाओ भविस्सदि त्ति तक्केमि ।
प्राचीं दिशमवलोक्य ।
ता एहि उदौम्मुहस्स भअवदो सुज्जस्स उवट्ठाणं करेम्ह ।
अनन्तरे खण्डधारा ।
चिन्तादुम्मिअमाणसिआ, सहअरिदंसणलालसिआ ।
विअसिअकमलमणोहरए, विहरै हंसी सरवरए ॥४॥
इति निष्क्रान्ते ।
प्रवेशकः ।
गहणं गैन्दणाहो पिअविरहुम्माअपलिअविआरो ।
विस�?? तरुकुसुमकिसलअभूसिअणिअदेहपब्भारो ॥५॥
पुरूरवसः प्रावेशिकी आक्षिप्तिका ।
ततः प्रविशत्याकाशबद्धलक्ष्यः सोन्मादो राजा ।
राजा - सक्रोधम् ।
आः दुरात्मन्, रक्षः, तिष्ठ तिष्थ ।
क्व मे प्रियतमामादाय गच्छसि ।
विलोक्य ।
कथम् ।
शैलशिखराद्गगनमुत्पत्य बाणैर्मामभिवर्षति ।
लोष्टं गृहीत्वा हन्तुं धावन् ।
अनन्तरे द्विपदिकया दिशोऽवलोक्य ।
हिअआहिअपिअदुक्खओ, सरवरए धुअपक्खओ ।
बाहोवग्गिअणअणओ, तम्म�?? हंसजुआणओ ॥६॥
विभाव्य ।
सकरुणम् ।
कथम् ।
नवजलधरः सन्नद्धोऽयं, न दृप्तनिशाचरः, सुरधनुरिदं दूरक्र्ष्टं, न नाम शरासनम् ।
अयमपि पटुर्धारासारो, न बाणपरम्परा, कनकनिकषस्निग्धा विद्युत्, प्रिया न ममोर्वशी ॥७॥
इति मूर्च्छितः पतति ।
द्विपदिकयोत्थाय निःश्वस्य ।
मैं जाणिअ मिअलोअणि, णिसिअरु कोइ हरेइ ।
जाव ण णवतलि सामल, धाराहरु वरिसेइ ॥८॥
सकरुणं विचिन्त्य ।
तत् क्व नु खलु गता स्यात् ।
तिष्ठेत् कोपवशात् प्रभावपिहिता, दीर्घं न स कुप्यति, स्वर्गायोत्पतिता भवेत्, मयि पुनर्भावार्द्रमस्या मनः ।
सरोषम् ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं, सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥९॥
द्विपदिकया दिशोऽवलोक्य ।
निःश्वस्य ।
सास्रम् ।
अये, परावृत्तभागधेयानां दुःखं दुःखानुबन्धि ।
कुतः ।
अयमेकपदे तया वियोगः, प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्, भवितव्यं च निरातपत्वरम्यैः ॥१०॥
अनन्तरे चर्चरी ।
जलहर संहर एहु को पैं आढत्तओ, अविरलधारासार दिसामुहकन्तओ ।
ए मैं पुहवि भमन्ते जै पिअ पेक्खिमि, तव्वे जं जु करीहिसि तं तु सहीहिमि ॥११॥
चर्चरिकया विचिन्त्य ।
वृथा खलु मया मनसः सन्तापवृद्धिरुपेक्ष्यते यदा मुनयोऽप्येवं व्याहरन्ति राजा कालस्य कारणमिति ।
तत् किमहं जलधरसमयं न प्रत्यादिशामि ।
विहस्योथाय ।
यदा मुनयोऽप्येवं व्याहरन्तीति पठित्वा ।
भवतु ।
प्रत्यादिशामि ।
अनन्तरे चर्चरी ।
गन्धुम्माइअमहुअरगीएहिं, वज्जन्तेहिं परहुअतूरेहिं ।
पसरिअपवणुव्वेल्लिअपल्लवणिअरु [अरु], सुललिअविविहपआरे णच्चै कप्पअरु ॥१२॥
तेन नर्तित्वा ।
अथवा न प्रत्यादिशामि, यदा प्रावृषेण्यैरेव चिह्नैः सम्प्रति मम राजोपचारः क्रियते ।
विहस्य ।
पुनर्गन्धुम्माइअ इति नर्तित्वा ।
कथमिति ।
विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाभ्रं, व्याधूयन्ते निचुलतरुभिर्मञ्जरीचामराणि ।
घर्मच्छेदात् पटुतरगिरो बन्दिनो नीलकण्ठा, धारासारोपनयनपरा नैगमाः सानुमन्तः ॥१३॥
भवतु ।
किं परिच्छदश्लाघया ।
यावदस्मिन्कानने तां प्रियामन्वेषयामि ।
पुनश्चर्चरी ।
पाठस्यान्ते भिन्नकः ।
दैआरहिओ अहिअं दुहिओ, विरहाणुगओ परिमन्थरओ ।
गिरिकाणणए कुसुमुज्जलए , गअजूहवई तह झीणगई ॥१४॥
अनन्तरे द्विपदिकया परिक्रम्यावलोक्य च सहर्षम् ।
हन्त हन्त ।
व्यवसितस्य मे संवर्धनं संवृत्तम् ।
कुतः ।
आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैः ।
कोपादन्तर्बाष्पे स्मरयति माम् लोचने तस्याः ॥१५॥
इतो गतेति कथं मया तत्रभवती सूचयितव्या ।
पद्भ्यां स्पृशेद्वसुमतीं यदि सा सुगात्री, मेघाभिवृष्टसिकतासु वनस्थलीषु ।
पश्चन्नता गुरुनितम्बतया ततोऽस्या, दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का ॥१६॥
द्विपदिकया परिक्रम्यावलोक्य च ।
सहर्षम् ।
हन्त हन्त ।
उपलब्धमुपलक्षणं येन तस्याः कोपनाया मार्गोऽनुमीयते ।
हृतौष्थरागैर्नयनोदबिन्दुभिर्, निमग्ननाभेर्निपतद्भिरङ्कतम् ।
च्युतं रुषा भिन्नगतेरसंशयं, शुकोदरश्याममिदं स्तनांशुकम् ॥१७॥
भवतु ।
आदास्ये तावत् ।
परिक्रम्य विभाव्य च सास्रम् ।
कथम् ।
सेन्द्रगोपं नवशाद्वलमिदम् ।
तत्कुतोऽस्मिन्विपिने प्रियाप्रवृत्तिमागमयेयम् ।
दृष्ट्वा ।
अये, अयमासारोच्छ्वसितशैलतटस्थलीपाषाणमधिरूढः ।
आलोकयति पयोदान् प्रबलपुरोवातनर्तितशिखण्डः ।
केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥१८॥
उपेत्य ।
यावदेनं पृच्छामि ।
अनन्तरे खण्डकः ।
सम्पत्तविसूरणओ, तुरिअं परवारणओ ।
पिअअमदंसणलालसओ, गअवरु विम्हिअमाणसओ ॥१९॥
तेन खण्डकान्तरे चर्चरी ।
बंहिण पैं इअ अब्भत्थेमि आअक्खहि मं ता, एत्थ वण भमन्ते जै दिट्ठी सा महु कन्ता ।
णिसमाहि मिअङ्कसरिसे वअणे हंसग�??, ए चिण्हे जाणीहिसि आअक्खिउ तुज्झ मैं ॥२०॥
चर्चरिकयोपविश्याञ्जलिं बद्ध्वा ।
नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन् वनिता त्वया ।
दीर्घापाङ्गा सितीपाङ्ग दृष्टा दृष्टिक्षमा भवेत् ॥२१॥
चर्चरिकयावलोक्य ।
कथम् ।
अदत्वैव प्रतिवचनम् नर्तितुमारब्धः ।
पुनश्चर्चरी ।
किं नु खलु हर्षकारणमस्य ।
आम्, ज्ञातम् ।
मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्, घनरुचिरकलापो निःसपत्नोऽस्य जातः ।
रतिविगलितबन्धे केशहस्ते सुकेश्याः, सति कुसुमसनाथे किं करोत्येष बर्ही ॥२२॥
भवतु ।
परव्यसननिर्वृतं न खल्वेनं पृच्छामि ।
द्विपदिकया दिशोऽवलोक्य ।
अये, इयमातपान्तसन्धुक्षितमदा जम्बूविटपमध्यास्ते परभृता ।
विहरेषु पण्डितैषा जातिः ।
यावदेनां पृच्छामि ।
अनन्तरे खुरकः ।
विज्जज्झरकाणणअल्लीणओ, दुक्खविणिग्गअबाहुप्पीडओ ।
दूरोसारिअहिअआणन्दओ, अम्बरमाणे भम�?? गंइदओ ॥२३॥
खुरकान्ते चर्चरी ।
हेले हेले ।
पुरहुअ महुरपलाविणि कन्ती, णन्दणवण सच्छन्द भमन्ती ।
ज�?? प�??ं पिअअम सा महु दिट्ठी, ता आअक्खहि महु परपुट्ठी ॥२४॥
एतदेव नर्तित्वा वलन्तिकयोपसृत्य जानुभ्यां स्थित्वा ।
भवति ।
त्वां कामिनो मदनदूतिमुदाहरन्ति, मानावभङ्गनिपुणं त्वममोघमस्त्रम् ।
तामानय प्रियतमाम् मम वा समीपं, मां वा नयाशु कलभाषिणि यत्र कान्ता ॥२५॥
वाङ्केन किञ्चिद्वलित्वा ।
आकाशे ।
किमाह भवती ।
कथं त्वामेवमनुरक्तं विहाय गतेति ।
शृणोतु भवती ।
कुपिता, न तु कोपकारणं, सकृदप्यात्मगतं स्मराम्यहम् ।
प्रभुता रमणेषु योषितां, न हि भावस्स्वलितान्यपेक्षते ॥२६॥
ससम्भ्रममुपविश्य ।
अनन्तरं जानुभ्यां स्थित्वा कुपितेति पठित्वा विलोक्य ।
कथम् ।
कथाविच्छेदकारिणी स्वकार्य एव व्यासक्ता ।
अथवा सुष्ठु खल्विदमुच्यते ।
महदपि परदुःखं शीतलं सम्यगाहुः, प्रणयमगणथित्वा यन्ममापद्गतस्य ।
अधरमिव मदान्धा पातुमेषा प्रवृत्ता, फलमभिनवपाकं राजजम्बूद्रुमस्य ॥२७॥
तदेवं गतेऽपि प्रियेव मे मञ्जुस्वनेति न मे कोपोऽस्याम् ।
सुखमास्तां भवती ।
साधयामस्तावत् ।
उत्थाय द्विपदिकया परिक्रम्यावलोक्य च ।
अये, दक्षिणेन वनधारां प्रियाचरणनिक्षेपशंसी नूपुरशब्दः यावदेनमनुगच्छामि ।
परिक्रम्य ।
पिअअमविरहकिलामिअवअणओ, अविरलबाहजलाउलणअणओ ।
दूसहदुक्खविसण्ठुलगमणओ, पसरिअगुरुतावदीविअङ्गओ ॥
अहिअं दुम्मिअमाणसओ ।
काणणे भम�?? ग�??न्दओ ॥२८॥
ककुभेन षडुपभङ्गाः ।
अनन्तरे द्विपदिकया दिशोऽवलोक्य ।
पिअकरिणीविच्छोइअओ, गुरुसोआणलदीविअओ ।
बाहजलाउललोअणओ, करिवरु भम�?? समाउलओ ॥२९॥
सकरुनम् ।
हा धिक् ।
कष्टम् ।
मेघश्यामा दिशो दृष्ट्वा मानसोत्सुकचेतसा ।
कूजितं राजहंसेन नेदं नूपुरशिञ्जतम् ॥३०॥
भवतु ।
यावदेते मानसोत्सुकाः पतत्रिणः सरसोऽस्मान्नोत्पतन्ति तावदेतेभ्यः प्रियाप्रवृत्तिमागमयेयम् ।
वलन्तिकयोपसृत्य जानुभ्यां स्थित्वा ।
हंहो जलविहङ्गमराज ।
पश्चात् सरः प्रतिगमिष्यसि मानसं त्वं, पाथेयमुत्सृज बिसं ग्रहणाय भूयः ।
मां टावदुद्धर शुचो दयिताप्रवृत्त्या, स्वार्थात् सतां गुरुतरा प्रणयिक्रियैव ॥३१॥
तिर्यगवलोक्य ।
अये, यथोन्मुखमालोकयति तथा व्यक्तं प्रवासोत्सुकमनसा मया न दृष्टेत्याह ।
उपविश्य ।
चर्चरी ।
रेरे हंसा किं गोइज्ज�??, इति नर्तित्वोत्थाय ।
यदि हंस गता न ते नतभ्रूः, सरसो रोधसि दर्शनं प्रिया मे ।
मदखेलपदं कथं नु तस्याः, सकलं चोर गतं त्वया गृहीतम् ॥३२॥
पुनश्चर्चरी ।
ग�??अणुसारे म�?? लक्खिज्ज�?? ।
चर्चरिकयोपसृत्याञ्जलिं बद्ध्वा ।
हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता ।
विभावितैकदेशेन देयं यदभियुज्यते ॥३३॥
पुनश्चर्चरी ।
क�?? प�??ं सिक्खिउ ए ग�?? लालस, सा प�??ं दिट्ठी जहणभरालस ॥३४॥
पुनश्चर्चरी ।
हंस प्रयच्छेत्यादि पठित्वा ।
द्विपदिकया निरूप्य ।
विहस्य ।
एष स्तेनानुशासी राजेति भयादुत्पतितः ।
यावदन्यमवकाशमवगाहिष्ये ।
द्विपदिकया परिक्रम्यावलोक्य च ।
अये, प्रियासहायश्चक्रवाकस्तिष्ठति ।
यावदेनं पृच्छामि ।
अनन्तरे कुटिलिका ।
मम्मररणिअमणोहरए, मल्लघती ।
कुसुमिअतरुवरपल्लवए ।
चर्चरी ।
दैआविरहुम्माइअओ, काणणे भम�?? ग�??न्दओ ॥३५॥
द्विलयान्ते चर्चरी ।
गोरोअणवण्णा, चक्का भण इ म�?? ।
महु सर कीलन्ती, धणिअ ण दिट्ठि प�??ं ॥३६॥
चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा ।
रथाङ्गनामन् सन्त्यक्तो रथाङ्गश्रोणिबिम्बया ।
अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥३७॥
अयं कः क इत्याह ।
न खलु विदितोऽहमस्य ।
सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥३८॥
कथं ।
तूष्णीं स्थितः ।
भवतु ।
उपालप्स्ये तावदेनम् ।
जानुभ्यां स्थित्वा ।
तद्युक्तं तावदात्मानुमानेन वर्तितुम् ।
कुतः ।
सरसि नलिनीपत्रेणापि त्वमावृतविग्रहां, ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः ।
इति च भवतो जायास्नेहात् पृथक्स्थितिभीरुता, मयि च विधुरे भावः कोऽयं प्रवृत्तिपराङ्भुखः ॥३९॥
उपविश्य ।
सर्वथा मदीयानां भाग्यविपर्ययाणामयं प्रभावः ।
यावदन्यमवकाशमवगाहिष्ये ।
पदान्तरे स्थित्वा ।
भवतु ।
न तावद्गच्छामि ।
द्विपदिकया परिक्रम्यावलोक्य च ।
अये ।
अदं रुणद्धि मां पद्ममन्तःक्कणितषट्पदम् ।
मया दष्टाधरं तस्याः ससीत्कारमिवाननम् ॥४०॥
इतो गतस्यानुशयो मा भूदित्यस्मिन्नपि कमलसेविनि भ्रमरे प्रणयं करिष्ये ।
अस्यान्तरे अर्धद्विचतुरस्रकः ।
एक्कक्कमवड्ढिअ -, गुरुअरपेम्मरसे ।
सरे हंसजुआणओ, कील�?? कामवसे ॥४१॥
चतुरस्रकेण उपविश्याञ्जलिं बद्ध्वा ।
मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं, वरतनुरथवासौ नैव दृष्टा प्रिया मे ।
यदि सुरभिमपास्यस्तन्मुखोच्छ्वासगन्धं, तव रतिरभविष्यत् पुण्डरीके किमस्मिन् ॥४२॥
द्विपदिकया परिक्रम्यावलोक्य च ।
एष नीपस्कन्धनिषण्णहस्तः करिणीसहायो नागराजस्तिष्ठति ।
अस्मात् प्रियोदन्तमुपलप्स्ये ।
यावदुपसर्पामि ।
कुटिलिका ।
करिणीविरह (हे), सन्ताविअओ ।
मल्लघटी ।
काणणे गण्डु -, द्धुअमहुअरओ ॥४३॥
अतोऽन्तरे अवलोक्य ।
अथवा न तावदयमुपसर्पणकालः ।
अयमचिरोद्गतपल्लवमुपनीतं प्रियतमाग्रहस्तेन ।
अभिलषतु तावदासवसुरभिरसं सल्लकीभङ्गम् ॥४४॥
स्थानकेनावलोक्य ।
अये, कृताहारकः संवृत्तः ।
भवतु ।
समीपमस्य गत्वा पृच्छामि ।
अनन्तरे चर्चरी ।
ह??ं प�??ं पुच्छिमि अक्खहि गअवरु, ललिअपहारे णासिअतरुवरु ।
दूरविणिज्जिअससहरकन्ती, दट्ठी पिअ प�??ं सम्मुह जन्ती ॥४५॥
पदद्वयं पुरत उपसृत्य ।
मदकल युवतिशशिकला गजयूथप यूथिकाशबलकेशी ।
स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥४६॥
सहर्षमाकर्ण्य ।
अहह ।
अनेन प्रियोपलब्धिशंसिना मन्द्रकण्ठगर्जितेन समाश्वासितोऽस्मि ।
साधर्म्याच्च भूयसी मे त्वयि प्रीतिः ।
मामाहुः पृथिवीभृतामधिपतिं नागाधिराजो भवान्, अव्युच्छिन्नपृथुप्रवृत्ति भवतो दानं ममाप्यर्थिषु ।
स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा, सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः ॥४७॥
सुखमास्तां भवान् ।
द्विपदिकया परिक्रम्यावलोक्य च ।
अये, अयमसौ सुरभिकन्दरो नाम विशेषरमणीयः सानुमान् प्रियाश्चाप्सरसाम् ।
अपि नाम सुतनुरस्योपत्यकायामुपलभ्येत ।
परिक्रम्यावलोक्य च ।
कथमन्धकारः ।
भवतु ।
विद्युत्प्रकाशेनावलोकयामि ।
कथम् ।
मदियैर्दुरितपरिणामैर्मेघोदयोऽपि शतह्रदाशून्यः संवृत्तः ।
तथापि शिलोच्चयमेनमपृष्ट्वा न निवर्तिष्ये ।
अनन्तरे खण्डिका ।
पसरिअखरखुरदारिअमेइणि, वणगहणे अविचल्लु ।
परिसप्पेई पेच्छह लीणो, णिअकज्जुज्जुअ कोल्लु ॥४८॥
अपि वनान्तरमल्पभुजान्तरा, श्रयति पर्वत पर्वसु सन्नता ।
इदमनङ्गपरिग्रहमङ्गना, पृथुनितम्ब नितम्बवती तव ॥४९॥
कथम् ।
तूष्णीमास्ते ।
शङ्के, विप्रकर्षान्न शृणोति ।
भवतु ।
समीपमस्य गत्वा पृच्छामि ।
अनन्तरे चर्चरी ।
फलिहसिलाअलणिम्मलणिज्झरु, बहुविहकुसुमे विर�??असेहरु ।
किण्णरमहुरुग्गीअमणोहरु, देक्खावहि महु पिअअम महिहरु ॥५०॥
चर्चरिकयोपसृत्याञ्जलिं बद्ध्वा ।
सर्वक्षितिभृतां नाथ दृष् आ सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥५१॥
तथैव प्रतिशब्दं शृणोति ।
आकर्ण्य सहर्षम् ।
कथम् ।
यथाक्रमं दृष्टेत्याह ।
भवतु ।
अवलोकयामि ।
दिशोऽवलोक्य ।
सखेदम् ।
कथम् ।
ममैवायं कन्दरान्तरविसर्पी प्रतिशब्दः ।
इति मूर्च्छितः पतति ।
उत्थायोपविश्य सविषादम् ।
अहह ।
श्रान्तोऽस्मि ।
यावदस्या गिरिनद्यास्तीरे तरङ्गवातमासेविष्ये ।
द्विपदिकया परिक्रम्यावलोक्य च ।
इमां नवाम्बुकलुषां स्रोतोवहां पश्यता मया रतिरुपलभ्यते ।
कुतः ।
तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरसना, विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।
यथाविद्धं याति स्खलितमभिसन्धाय बहुशो, नदीभावेनेयं ध्रुवमसहना सा परिणता ॥५२॥
भवतु ।
प्रसादयामि तावदेनाम् ।
अनन्तरे कुटिलिका ।
पसीअ पिअअम सुन्दरिए णए, खुहिआकरुणविहङ्गमए णए ।
सुरसरितीरसमूसुअएणए, अलिउलरअझङ्कारिअ एणए ॥५३॥
तेन कुटिलिकान्तरे चर्चरी ।
पुव्वदिसापवणाहअकल्लोलुग्गअबाहओ, मेहअङ्गे णच्च�?? सललिअ जलणिहिणाहओ ।
हंसविहङ्गमकुङ्कुमसङ्खकआभरणु, करिमअराउलकसणलकमलकआवरणु ॥
वेलासलिलुव्वेल्लिअहत्थदिण्णतालु ।
ओत्थर�?? दसदिस रुन्धेइ णवमेहआलु ॥५४॥
चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा ।
त्वयि निबद्धरतेः प्रियवादिनः, प्रणयभङ्गपराङ्भुखचेतसः ।
कमपराधलवं मम पश्यसि, त्यजसि मानिनि दासजनं यतः ॥५५॥
कथम् ।तूष्णीमास्ते ।
अथवा परमार्थसरिदियं नोर्वशी ।
अन्यथा कथं पुरूरवसमपहाय समुद्राभिसारिणी भवेत् ।
अनिर्वेदप्राप्याणि श्रेयांसि भवन्ति ।
भवतु ।
तमेवोद्देशं गच्छामि यत्र मे नयनयोः सा सुनयना तिरोहिता ।
परिक्रम्यावलोक्य च ।
इमं तावत् प्रियाप्रवृत्तये सारङ्गमासीनमभ्यर्थये ।
अभिनवकुसुमस्तबकिततरुवरस्य परिसरे मदकलकोकिलकूजितरवझङ्कारमनोहरे ।
नन्दनविपिने निजकरिणीविरहानलसन्तप्तो विचरति गजाधिपतिरैरावतनामा ॥५६॥
गलितकः ।
जानुभ्यां स्थित्वा ।
कृष्णसारच्छविर्योऽयं दृश्यते काननश्रिया ।
वनशोभावलोकाय कटाक्ष इव पातितः ॥५७॥
विलोक्य ।
अयमन्तिकमायान्तीं शिशुना स्तनपायिना ।
अनन्यदृष्टिस्तामेव मृगीं रुद्धां निरीक्षते ॥५८॥
इति नर्तित्वा चर्चरी ।
सुरसुन्दरि जहणभरालस पीणुत्तुङ्गघणत्थणी थिरजोव्वण तणुअसरीरि हंसग�?? ।
गअणुज्जलकाणणे मिअलोअणि भमन्ते दिट्ठ प�??ं तह विरहसमुद्दन्तरे उत्तारहि म�??ं ॥५९॥
उपसृत्याञ्जलिं बद्ध्वा ।
हंहो हरिणपते ।
अपि दृष्टवानसि मम प्रियां वने, कथयामि ते तदुपलक्षणं शृणु ।
पृथुलोचना सहचरी यथैव ते, सुभगा तथैव खलु सापि वीक्ष्यते ॥६०॥
विलोक्य ।
कथम् ।
अनादृत्य मद्वचनं कलत्राभिमुखं स्थितः ।
सर्वथा उपपद्यते ।
परिभवास्पदं विधिविपर्ययः ।
यावदन्यमवकाशमवगाहिष्ये ।
परिक्रम्यावलोक्य च ।
हन्त दृष्टमुपलक्षणं तस्या मार्गस्य ।
रक्तकदम्बः सोऽयं प्रियया घर्मान्तशंसि यस्येदम् ।
कुसुममसमग्रकेसरविषममपि कृतं शिखाभरणं ॥६१॥
परिक्रम्यावलोक्य च ।
तत् किं नु खलु शिलाभेदगतं नितान्तरक्तमिदमालोक्यते ।
प्रभालेपी नायं हरिहतगजस्यामिषलवः, स्फुलिङ्गः स्यादग्नेर्गहनमभिवृष्टं पुनरिदम् ।
अये रक्ताशोकस्तबकसमरागो मणिरयं, यमुद्धर्तुं पूषा व्यवसित इवालम्बितकरः ॥६२॥
भवतु ।
आदास्ये तावत् ।
इति ग्रहणं नाटयति ।
पणैणिबद्धासाअओ, बाहाउलणिअणअणओ ।
गअव�?? गहणे दुहिअओ, भम�?? क्खामिअवअणओ ॥६३॥
द्विपदिकयोपसृत्य गृहीत्वा ।
आत्मगतम् ।
मन्दारपुष्पैरधिवासितायां, यस्याः शिखायामयमर्पणीयः ।
सैव प्रिया सम्प्रति दुर्लभा मे, नैवेनमश्रूपहतं करोमि ॥६४॥
इत्युत्सृजति ।
नेपथ्ये ।
वत्स, गृह्यतां गृह्यताम् ।
सङ्गमनीयो मणिरिह शैलसुताचरणरागयोनिरयम् ।
आवहति धार्यमाणः सङ्गममाशु प्रियजनेन ॥६५॥
राजा - कर्णं दत्त्वा ।
को नु खलु मामेवमनुशास्ति ।
दिशोऽवलोक्य ।
अये, अनुकम्पते मां कश्चिन्मृगचारी सुनिर्भगवान् ।
भगवन्, अनुगृहीतोऽस्म्यहमुपदेशाद्भवतः ।
मणिमादाय ।
हंहो सङ्गमनीय ।
तया वियुक्तस्य निमग्नमध्यया, भविश्यसि त्वं यदि सङ्गमाय मे ।
ततः करिश्यामि भवन्तमात्मनः, शिखामणिं बालमिवेन्दुमीश्वरः ॥६६॥
परिक्रम्यावलोक्य च ।
किं नु खलु कुसुमरहितामपि लतामिमां पश्यता मया रतिरुपलभ्यते ।
अथवा स्थाने मम मनो रमते ।
इयं हि तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः, शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते, चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥६७॥
यावदस्यां प्रियानुकारिण्यां लतायां परिष्वङ्गप्रणयी भवामि ।
लए, पेक्खेविणु हिअए भावमि, ज�?? विहिजोए पुणि तहि पावमि ।
ता रण्णेविणु करिमि णिभन्ती, पुणु ण इ मेल्ल�?? ताह कअन्ती ॥६८॥
इति चर्चरिकयोपसृत्य लतामालिङ्गति ।
ततस्तदीयस्थानमाक्तम्यैव प्रविष्टा उर्वशी ।
राजा - निमीलिताक्षः स्पर्शं नाटयित्वा ।
अये, उर्वशीगात्रस्पर्शादिव निर्वृतं मे शरीरं ।
न पुनरस्ति विश्वासः ।
कुतः ।
समर्थये यत् प्रथमं प्रियां प्रति, क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने, करोमि न स्पर्शविभावितप्रियः ॥६९॥
शनैरुन्मील्य चक्षुषी ।
कथम् ।
सत्यमेवोर्वशी ।
इति मूर्च्छितः पतति ।
उर्वशी - समस्ससदु समस्ससदु महाराओ ।
राजा - सञ्ज्ञां लब्ध्वा ।
प्रिये, अद्य जीवितम् ।
त्वद्वियोगभवे चण्डि मया तमसि मज्जता ।
दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना ॥७०॥
उर्वशी - मरिसदु मरिसदु महाराओ ।
जं मए कोववसं गदाए अवत्थन्तरं पाविदो महाराओ ।
राजा - नाहं प्रसादनीयस्त्वया ।
त्वद्दर्शनेन प्रसन्ने मे सबाह्यान्तरात्मा ।
तत् कथय कथमियन्तं कालं मया वरिहिता स्थितासि ।
अनन्तरे चर्चरी ।
मोरा परहुअ हंस रहङ्गम, अलि गअ पव्वअ सरिअ कुरङ्गम ।
तुज्झह कारणे रण्ण भमन्ते, को ण हु पुच्छिअ म�??ं रोअन्ते ॥७१॥
उर्वशी - एव्वं ।
अन्तक्करणपच्चक्खीकिदवुत्तन्तो महाराओ ।
राजा - प्रिये, अन्तःकरणमिति न खल्ववगच्छामि ।
उर्वशी - सुणादु महाराओ ।
पुरा भअवदा महासेणेण सासदं कुमारव्वदं गेण्हिअ अअं अकलुसो णाम गन्धमादणकच्छो अज्झासिदो ।
किदा अ थिदी ।
राजा - कीदृशी ।
उर्वशी - जा किल इत्थिआ इमं पदेसं आगमिस्सदि सा लदाभावेण परिणदा भविस्सदि ।
गोरीचतणराअसम्भवं मणिं वज्जिअ लदाभावं ण मुञ्चिस्सदि त्ति ।
तदो अहं गुरुसावसम्मूढहिअआ विसुमरिददेवदाणिअमा अम्मकाजणपरिहरणीअं कुमारवणं पविट्ठा ।
पवेसाणन्तरं अ काणणोवन्तवत्तिलदाभावेण परिणदं मे रूअं ।
राजा - प्रिये, सर्वमिदमुपपन्नम् ।
रतिखेदसुप्तमपि मां शयने या मन्यसे प्रवासगतम् ।
सा त्वमिहैतदवस्थं कथं सहेथाश्चिरवियोगम् ॥७२॥
इदं चैतद्यथाकथितं सङ्गमनिमित्तं पुनरुपलब्धप्रभावमासादितमस्माभिः ।
इति मणिं दर्शयति ।
उर्वशी - कधं ।
सङ्गमणीओ अअं मणी ।
अदो एव्व महाराएण आलिङ्गिदमेत्त एव्व पकिदित्थ म्हि सम्वुत्ता ।
राजा - ललाटे मणिं निवेश्य ।
स्फुरता विच्छुरितमिदं रागेण मणेर्ललाटनिहितस्य ।
श्रियमुद्वहति मुखं ते बालातपरक्तकमलस्य ॥७३॥
उर्वशी - पिअंवद, महन्तो क्खु कालो अम्हाणं प�??ट्ठाणादो णिग्गदाणं ।
कदाइ असूइस्सन्ति पकिदीओ ।
ता एहि, गच्छम्ह ।
राजा - यदाह भवती ।
इत्युत्तिष्ठतः ।
उर्वशी - अध कधं उण महाराओ गन्तुं इच्छदि ।
राजा - अचिरप्रभाविलसितैः पताकिना, सुरकार्मुकाभिनवचित्रशोभिना ।
गमितेन खेलगमने विमानतां, नय मां नवेन वसतिं पयोमुचा ॥७४॥
चर्चरी ।
पाविअसहअरिसङ्गओ, पुलअपसाहिअअङ्गओ ।
सेच्छापत्तविमाणओ, विहर�?? हंसजुआणओ ॥७५॥
इति खण्डधारया निष्क्रान्तौ ।
इति महाकविकालिदासविरचिते विक्रमोर्वशीये चतुर्थोऽङ्कः ।