ततः प्रविशतो भरतशिष्यौ ।
प्रथमः - सखे पल्लव, महेन्द्रसदनं गच्छतोपाध्यायेन त्वमासनं परिग्राहितः ।
अग्निशरणसंरक्षणाय स्थापितोऽहम् ।
अतः पृच्छामि ।
अपि गुरोः प्रयोगेण दिव्या परिषदाराधिता ।
द्वितीयः - गालव, ण आणो आराहिदा ण व त्ति ।
तस्सिं उण सरस्सदीकिदकव्वबन्धे लच्छीसअंवरे तेसु तेसु रसन्तरेसु उव्वसी तम्मआ आसि ।
प्रथमः - सदोषावकाश इव ते वाक्यशेषः ।
द्वितीयः - आम ।
तहिं उव्वसीए वअणं पमादक्खलिदं आसि ।
प्रथमः - कथमिव ।
द्वितीयः - लच्छीभूमिआए वट्टमाणा उव्वसी वारुणीभूमिआए वट्टमाणाए मेणआए पुच्छिदा ।
सहि, समाअदा एदे तेल्लोक्कपुरिसा सकेसवा लोअवाला ।
कदमंस्सि दे भावाहिणिवेसो त्ति ।
प्रथमः - ततस्ततः ।
द्वितीयः - तदो ताए पुरिसोत्तमे त्ति भणिदव्वे पुरूरवसि त्ति णिग्गदा वाणी ।
प्रथमः - भवितव्यतानुविधायीनीन्द्रियाणि ।
न खलु तामभिक्रुद्धो गुरुः ।
द्वितीयः - सत्ता उवज्झाएण ।
महिन्देण उण अणुग्गहिदा ।
प्रथमः - कथमिव ।
द्वितीयः - जेण मम उवदेसो तुए लङ्घिदो तेण ण दे दिव्वं ठाणं भविस्सदि त्ति उवज्झाअस्स सावो ।
पुंरदरेण उण लज्जावणदमुहिं उव्वसिं पेक्खिअ एव्वं भणिदं - जस्सिं बद्धभावा सि तुमं तस्स मे रणसहाअस्स राएसिणो पिअं करणीअं ।
सा तुमं पुरूरवसं जहाकामं उवचिट्ठ जाव सो परिदिट्ठसन्ताणो भोदि त्ति ।
प्रथमः - सदृशं पुरुषान्तरविदो महेन्द्रस्य ।
द्वितीयः - सूर्यमवलोक्य ।
कधापंसगेण अवरद्धा अहिसेअवेला उवज्झाअस्स ।
ता एहि ।
से पासपरिवत्तिणो होम्ह ।
इति निष्क्रान्तौ ।
मिश्रविष्कम्भकः ।
ततः प्रविशति कञ्चुकी ।
कञ्चुकी - सर्वः कल्ये वयसि यतते लब्धुमर्थान् कुटुम्बी, पश्चात् पुत्रैरपहृतभरः कल्पते विश्रमाय ।
अस्माकं तु प्रतिदिनमियं सादयन्ती शरीरं, सेवाकारा परिणतिरहो स्त्रीषु कष्टोऽधिकारः ॥१॥
परिक्रम्य ।
आदिष्टोऽस्मि सनियमया काशिराजपुत्र्या व्रतंसपादनार्थं मया मानमुत्सृज्य निपुणिकामुखेन पूर्वं याचितो महाराजः ।
तदेव मद्वचनाद्विज्ञापयेति ।
यावदिदानीमवसितसन्ध्याजाप्यं महाराजं पश्यामि ।
परिक्रम्य अवलोक्य च ।
रमणीयः खलु दिवसावसानवृत्तान्तो राजवेश्मनि ।
इह हि उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो, धूपैर्जालविनिःसृतैर्वलभयः सन्दिग्धपारावताः ।
आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः, सन्ध्यामङ्गलदीपिका विभजते शुद्धान्तवृद्धो जनः ॥२॥
नेपथ्याभिमुखं दृष्ट्वा ।
अये इति एव प्रस्थितो देवः ।
परिजनवनिताकरार्पिताभिः, परिवृत एष विभाति दीपिकाभिः ।
गिरिरिव गतिमानपक्षलोपाद्, अनुतटपुष्पितकर्णिकारयष्टिः ॥३॥
यावदेनमवलोकनमार्गे स्थितः प्रतिपालयामि ।
ततः प्रविशति यथानिर्दिष्टो राजा विदूषकश्च ।
राजा - आत्मगतम् ।
कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण ।
अविनोददीर्धयामा कथं नु रात्रिर्गमयितव्या ॥४॥
कञ्चुकी - उपगम्य ।
जयतु जयतु देवः ।
देवी विज्ञापयति ।
मणिहर्म्यपृष्ठे सुदर्शनश्चन्द्रः ।
तत्र सन्निहितेन देवेन प्रतिपालयितुमिच्छामि यावच्चन्द्ररोहिणीयोग इति ।
राजा - विज्ञाप्यतां देवी यस्तव छन्द इति ।
कञ्चुकी - तथा ।
इति निष्क्रान्तः ।
राजा - वयस्य, किं परमार्थत एव देव्या व्रतनिमित्तोऽयमारम्भः स्यात् ।
विदूषकः - भो, तक्केमि जादपच्छादावा तत्थभोदी वदावदेसेण तत्थभवदो पणिपादलङ्घणं पमज्जिदुकाम त्ति ।
राजा - उपपन्नं भवानाह ।
तथा हि ।
अवधूतप्रणिपाताः पश्चात् सन्तप्यमानमनसोऽपि ।
निभृतैर्व्यपत्रपन्ते दयितानुनयैर्मनस्विन्यः ॥५॥
तदादेशय मणिहर्म्यपृष्ठमार्गम् ।
विदूषकः - इदो इदो भवं ।
इमिणा गङ्गातरङ्गसस्सिरीएण फलिहमणिसोवाणेण आरोहदु भवं पदोसावसररमणीअं मणिहम्मिअं ।
राजा - आरोहाग्रतः ।
सर्वे सोपानारोहणं नाटयन्ति ।
विदूषकः - विलोक्य ।
भो, पच्चासण्णेण चन्दोदएण होदव्वं ।
जधा तिमिररेईअमाणं पुव्वदिसामुहं आलोअसुहअं दीसदि ।
राजा - सम्यगाह भवान् ।
उदयगूढशशाङ्कमरीचिभिस्, तमसि दूरतरं प्रतिसारिते ।
अलकसंयमनादिव लोचने, हरति मे हरिवाहनदिङ्भुखम् ॥६॥
विदूषकः - हि हि भो, एसो खण्डमोदअसस्सिरीओ उदिदो राआ दुआदीणं ।
राजा - सस्मितम् ।
सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः ।
प्राञ्जलिः प्रणिपत्य ।
भगवन् क्षपानाथ ।
रविमावसते सतां क्रियायै, सधुया तर्पयते सुरान् पितॄंश्च ।
तमसां निशि सूर्च्छतां निहन्त्रे, हरचूडानिहितात्मने नमस्ते ॥७॥
विदूषकः - भो, बम्हणसङ्कामिदक्खरेण दे पिदामहेण अब्भणुण्णादो आसणट्ठिदो होहि जाव अहं पि सुहासीणो होमि ।
राजा - विदूषकवचनं परिगृह्य उपविष्टः ।
परिजनं विलोक्य ।
अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्त्येन ।
विश्राम्यन्तु भवत्यः ।
परिजनः - जं देवो आणवेदि ।
इति निष्क्रान्तः ।
राजा - चम्द्रमवलोक्य ।
वयस्य, परं मुहूर्तादागमनं देव्याः ।
तद् विविक्ते कथयिष्यामि स्वामवस्थाम् ।
विदूषकः - णं दीसदि एव्व सा ।
किं तु तारिसं अणुराअं पेक्खिअ सक्कं आसाबन्धेण अत्ताणं धारेदुं ।
राजा - एवमेतत् ।
बलवान् पुनर्मम मनसोऽभितापः ।
नद्या इव प्रवाहो विषमशिलासङ्कटस्खलितवेगः ।
विघ्नितसमागमसुखो मनसिशयः शतगुणीभवति ॥८॥
विदूषकः - जधा परिहीअमाणेहिं अङ्गेहिं अहिअं सोहसि तधा अदूरे पिअसमागमं ते पेक्खामि ।
राजा - निमित्तं सूचयित्वा ।
वयस्य ।
वचोभिराशाजननैर्भवानिव गुरुव्यथम् ।
अयं मां स्पन्दितैर्बाहुराश्वासयति दक्षिणः ॥९॥
विदूषकः - ण क्खु अण्णधा बम्हणस्स वअणं ।
राजा सप्रत्याशस्तिष्ठति ।
ततः प्रविशत्याकाशयानेन अभिसारिकावेषा उर्वशी चित्रलेखा च ।
उर्वशी - आत्मानं विलोक्य ।
सहि, रोअदि दे अअं अप्पाहरणभूसिदो णीलंसुअपरिग्गहो अहिसारिआवेसो ।
चित्रलेखा - णत्थि मे वाआविहवो पसंसिदुं ।
इदं तु चिन्तेमि ।
अवि णाम अहं पुरूरवा भवेअं ति ।
उर्वशी - सहि, मअणो क्खु तुमं आणवेदि ।
सिग्धं मं णेहि तस्स सुहअस्स वसदिं ।
चित्रलेखा - णं एदं पडिवट्टिदं विअ केलाससिहरं पिअदमस्स दे भवणं उवगदम्ह ।
उर्वशी - तेण हि पहावदो जाणाहि दाव कहिं सो मे हिअअचोरो किं वा अणुचिट्ठदि त्ति ।
चित्रलेखा - ध्यात्वा ।
आत्मगतम् ।
भोदु ।
कीलिस्सं दाव एदाए ।
प्रकाशम् ।
हला, मणोरहलद्धपिआसमाअमसुहं अणुहवन्तो उवहोअक्खमे ओआसे चिट्ठदि ।
उर्वशी विषादं नाटयति ।
चित्रलेखा - मुद्धे, का उण अण्णा चिन्ता पिआसमाअमस्स ।
उर्वशी - सोच्छ्वासम् ।
अदक्खिणं सन्दिहदि मे हिअअं ।
चित्रलेखा - विलोक्य ।
एसो मणिहम्मिअगदो वअस्समेत्तसहाओ राएसी ।
ता एहि ।
उवसप्पम्ह णं ।
उभे अवतरतः ।
राजा - वयस्य, रजन्या सह विजृम्भते मदनबाधा ।
उर्वशी - अणिब्भिण्णत्थेण इमिणा वअणेण आकम्पिदं मे हिअअं ।
अन्तरिदा एव्व सुणम्ह से सेरालावं जाव णो संसअच्छेओ भोदि ।
चित्रलेखा - जं दे रोअदि ।
विदूषकः - णं इमे अमिअगब्भा सेवीअन्तु चन्दवादा ।
राजा - वयस्य, एवमादिभिरनुपक्रम्योऽयमातङ्कः ।
पश्य ।
कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो, न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः ।
मनसिजरुजं सा वा दिव्या ममालमपोहितुं, रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥१०॥
उर्वशी - हिअअ दाणिं मं उज्झिअ इदो सङ्कन्तेण तुए फलं उवलद्धं ।
विदूषकः - आम ।
भो, अहं पि जदा सिहरिणिं रसालं च ण लहे तदा णं पत्थअन्तो सङ्कित्तअन्तो आसासेमि ।
राजा - सखे, एवं मन्ये ।
चित्रलेखा - सुणु ।
असन्तुट्ठे, सुणु ।
विदूषकः - कहं विअ ।
राजा - अयं तस्या रथक्षोभादंसेनांसो निपीडितः ।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः ॥११॥
उर्वशी - किं दाणिं अवरं विलम्बिस्सं ।
सहसा उपगम्य ।
हला चित्तलेहे, अग्गदो वि मै ट्ठिदाए उदासीणो विअ महाराओ ।
चित्रलेखा - सस्मितम् ।
अतिदुवरिदे, असङ्खित्ततिरक्खरिणीआ सि ।
नेपथ्ये ।
इदो इदो भट्टिणी ।
सर्वे कर्णं ददति ।
उर्वशी सह सख्या विषण्णा ।
विदूषकः - अविहा अविहा ।
उवठिदा देवी ।
ता वाअंअमो होहि ।
राजा - भवानपि संवृताकारमास्ताम् ।
उर्वशी - हला, किं एत्थ करणीअं ।
चित्रलेखा - अलं आवेएण ।
अन्तरिदा वअं ।
विहिदणिअमवेसा राअमहिसी दीसदि ।
ता एसा चिरं ण चिट्ठिस्सदि ।
ततः प्रविशति धृतोपहारपरिजना देवी ।
देवी - चन्द्रमसमवलोक्य ।
हञ्जे णिउणिए, एसो रोहिणीसञ्जोएण अहिअं सोहदि भअवं मिअलञ्छणो ।
चेटी - णं सम्पज्जिसदि भट्टिणीसहिदस्स भट्टिणो विसेसरमणीअदा ।
इति परिक्रामतः ।
विदूषकः - दृष्ट्वा ।
भो, ण जाणामि सोत्थिवाअणं देदि त्ति, आदु भवन्तं अन्तरेण वदावदेसेण मुक्करोसा, अज्ज मे अच्छीणं सुहदंसणा देवी ।
राजा - सस्मितम् ।
उभयमपि घटते ।
यत्तु पश्चादभिहितं तन्मां प्रतिभाति ।
यदत्रभवती ।
सितांशुका मङ्गलमात्रभूषणा, पवित्रदूर्वाङ्कुरलाञ्छितालका ।
व्रतापदेशोज्झितगर्ववृत्तिना, मयि प्रसन्ना वपुषैव लक्ष्यते ॥१२॥
देवी - उपगम्य ।
जेदु जेदु अज्ज??त्तो ।
परिजनः - जेदु जेदु भट्टा ।
विदूषकः - सोत्थि भोदीए ।
राजा - देवी, स्वागतं ।
हस्ते गृहीत्वोपवेशयति ।
उर्वशी - हला, ठाणे इअं देवीसद्देण उवअरीअदि ।
ण किं पि परिहीअदि सचीदो ओजस्सिदाए ।
चित्रलेखा - साहु, असूआपरम्मुहं मन्तिदं तुए ।
देवी - अज्ज??त्तं पुरोकदुअ को वि वदविसेसो मए सम्पादणीओ ।
ता मुहुत्तं उवरोहो सहीअदु ।
राजा - मा मैवम् ।
अनुग्रहः खलु ।
नोपरोधः ।
विदूषकः - ईरिसो सोत्थिवाअणवन्तो उवरोहो बहुसो भोदु ।
राजा - किन्नामधेयमेतद्देव्या व्रतम् ।
देवी निपुणिकामवेक्षते ।
निपुणिका - भट्टा, पिअणुप्पसादणं णाम ।
राजा - देवीं विलोक्य ।
यद्येवम् ।
अनेन कल्याणि मृणालकोमलं, व्रतेन गात्रं ग्लपयस्यकारणम् ।
प्रसादमाकाङ्क्षति यस्तवोत्सुकः, स किं त्वया दासजनः प्रसाद्यते ॥१३॥
उर्वशी - महन्तो क्खु से इमस्सिं बहुमाणो ।
चित्रलेखा - ऐ मुद्धे, अण्णसङ्कन्तप्पेम्माणो नाअरिआ अहिअं दक्खिणा ह्ॐति ।
देवी - इमस्स वदस्स अअं पहावो जं एत्तिअं मन्ताविदो अज्ज??त्तो ।
विदूषकः - विरमदु भवं ।
ण जुत्तं सुहासिदं पच्चाखादुं ।
देवी - दारिआओ, उवणेध ओवहारिअं जाव मणिहम्मिअगदे चन्दवादे अच्चेमि ।
परिजनः - जं देवी आणवेदि ।
एसो उवहारो ।
देवी -नाट्येन कुसुमादिभिश्चन्द्रपादानभ्यर्च्य ।
हञ्जे, इमे ओवहारिअमोदए अज्जमाणवअं लम्भावेहि ।
परिजनः - जं देवी आणवेदि ।
अज्जमाणवअ, एदं दाव दे ।
विदूषकः - मोदकशारावं गृहीत्वा ।
सोत्थि भोदीए ।
बहुफलो दे उववासो भोदु ।
देवी - अज्ज??त्त, इदो दाव ।
राजा - अयमस्मि ।
देवी - राज्ञः पूजामभिनीय प्राञ्जलिः प्रणिपत्य ।
एसा अहं देवदामिहुणं रोहिणीमिअलञ्छणं सक्खीकरिअ अज्ज??त्तं अणुप्पसादेमि ।
अज्जप्पहुदि जं इत्थिअं अज्ज??त्तो पत्थेदि जा अज्ज??त्तस्स समाअमप्पणैणी ताए मए पीदिबन्धेण वत्तिदव्वं ति ।
उर्वशी - अम्महे, ण आणे किम्परं से वअणं ति ।
मम उण विस्सासविसदं हिअअं संवुत्तं ।
चित्रलेखा - सहि, महाणुहावाए पदिव्वदाए अब्भणुण्णादो अणन्तराओ दे पिअसमाअमो भविस्सदि ।
विदूषकः - अपवर्य ।
छिन्नहत्थो मच्छे पलाइदे णिव्विण्णो धीवरो भणादि धम्मो मे भविसदि त्ति प्रकाशम् ।
भोदि, किं उदासीणो तथभवं ।
देवी - मूढ, अहं खु अत्तणो सुहावसाणेण अज्ज??त्तं णिव्वुदसरीरं कादुं इच्छामि ।
एत्तिएण चिन्तेहि दाव पिओ वा ण वेत्ति ।
राजा - दातुं वा प्रभवसि मामन्यस्मै कर्तुमेव दासम् ।
नाहं पुनस्तथा त्वं यथा हि मां शङ्कसे भीरु ॥१४॥
देवी - होहि वा मा वा ।
जहाणिद्दिट्ठं सम्पादिदं पिआणुप्पसादणं वदं ।
दारिआओ, एध ।
गच्छम्ह ।
राजा - प्रिये, न खलु प्रसादितोऽस्मि यदि सम्प्रति विहाय गम्यते ।
देवी - अज्ज??त्त, अलङ्घिदपुव्वो मए णिअमो ।
निष्क्रान्ता सपरिवारा देवी ।
उर्वशी - हला, पिअकलत्तो राएसी ।
ण उण हिअअं णिवत्तेदुं सक्कुणोमि ।
चित्रलेखा - किं तुए णिरासाए णिवत्तीअदि ।
राजा - आसनमुपेत्य ।
वयस्य, न खलु दूरं गता देवी ।
विदूषकः - भण विस्सद्धं जं सि वत्तुकामो ।
असज्झो त्ति परिछिन्दिअ, आदुरो विअ वेज्जेण अ�??रेण मुक्को तत्थभवं भोदीए ।
राजा - अपि नाम, उर्वशी - उर्वशी - अज्ज किदत्था भवे ।
राजा - गूढा नूपुरशब्दमात्रमपि मे कान्ता श्रुतौ पातयेत्, पश्चादेत्य शनैः करम्बुजवृते कुर्वीत वा लोचने ।
हर्म्येऽस्मिन्नवतीर्य साध्वसवशान्मन्दायमाना बलाद्, आनीयेत पदात् पदं चतुरया सख्या ममोपान्तिकम् ॥१५॥
उर्वशी - हला, इमं दाव से मणोरहं सम्पादैस्सं ।
पृष्ठतो गत्वा राज्ञो नयने संवृणोति ।
चित्रलेखा विदूशकं स??ज्ञापयति ।
राजा - स्पर्शं रूपयित्वा ।
सखे, नारायनोरुसम्भवा सेयं वरोरूः ।
विदूषकः - कहं भवं अवगच्छदि ।
राजा - किमत्राज्ञेयम् ।
अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् ।
नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् ॥१६॥
उर्वशी - हस्तावपनीय उत्तिष्ठति ।
किञ्चिदुपसृत्य ।
जेदु जेदु महाराओ ।
राजा - सुन्दरि, स्वागतम् ।
एकासने उपवेशयति ।
चित्रलेखा - अवि सुहं वअस्सस्स ।
राजा - नन्वेतदुपपन्नम् ।
उर्वशी - हला,देवीए दिण्णो महाराओ ।
तदो से पणअवदी विअ सरीरसङ्गदम्हि ।
मा खु मं पुरोभाइणिं समत्थेहि ।
विदूषकः - कहं ।
इह एव्व तुम्हाणं अत्थं इदो सुज्जो ।
राजा - उर्वशीमवलोक्य ।
देव्या दत्त इति यदि व्यापारं व्रजसि मे शरीरेऽस्मिन् ।
प्रथमं कस्यानुमते चोरितमेतत् त्वया हृदयम् ॥१७॥
चित्रलेखा - वअस्स, णिरुत्तरा एसा ।
सम्पदं मह विण्णविदं सुणीअदु ।
राजा - अवहितोऽस्मि ।
चित्रलेखा - वसन्ताणन्तरे उण्हसमए भअवं सुज्जो मए उवअरिदव्वो ।
ता जहा इअं मे पिअसही सग्गस्स ण उक्कण्ठेदि तहा वअस्सेण कादव्वं ।
विदूषकः - किं वा सग्गे सुमरिदव्वं ।
ण तथ खादीअदि ण पीअदि ।
केवलं अणिमिसेहिं अच्छीहिं मीणदा अवलम्बीअदि ।
राजा - भद्रे ।
अनिर्देश्यसुखः स्वर्गः कस्तं विस्मारयिष्यति ।
अनन्यनारीसामान्यो दासस्त्वस्याः पुरूरवाः ॥१८॥
चित्रलेखा - अणुग्गहिदम्हि ।
हला उव्वसि, अकादरा भविअ विसज्जेहि मं ।
उर्वशी - चित्रलेखां परिष्वज्य ।
सहि, मा खु मं विसुमरेहि ।
चित्रलेखा - सस्मितम् ।
वअस्सेण सङ्गदा तुमं एव्व एदं मए जाचिदव्वा ।
राजानं प्रणम्य निष्क्रान्ता ।
विदूषकः - दिट्ट्ःइआ मणोरहसम्पत्तीए वड्ढदि भवं ।
राजा - इयं तावद् वृद्धिर्मम ।
पश्य ।
सामन्तमौलिमणिरञ्जितशासनाङ्कम्, एकातपत्रमवनेर्न तथा प्रभुत्वम् ।
अस्याः सखे चरणयोरहमद्य कान्तम्, आज्ञाकरत्वमधिगम्य यथा कृतार्थः ॥१९॥
उर्वशी - णत्थि मे विहवो अदो पिअदरं मन्तिदुं ।
राजा - उर्वशीं हस्तेनावलम्ब्य ।
अहो, विरुद्धसंवर्धन ईप्सितलाभो नाम ।
पादास्त एव शशिनः सुखयन्ति गात्रं, बाणास्त एव मदनस्य ममानुकूलाः ।
संरम्भरूक्षमिव सुन्दरि यद्यदासीत्, त्वत्सङ्गमेन मम तत्तदिवानुनीतम् ॥२०॥
उर्वशी - अवरद्धम्हि चिरआरिआ महाराअस्स ।
राजा - मा मैवम् ।
यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥२१॥
विदूषकः - भो, सेविदा पदोसरमणीआ चन्दवादा ।
समओ क्खु दे वासघरप्पवेसस्स ।
राजा - तेन हि सख्यास्ते मार्गमादेशय ।
विदूषकः - इदो इदो भोदी ।
सर्वे परिक्रामन्ति ।
राजा - सुन्दरि, इयमिदानीं मे प्रार्थना ।
उर्वशी - का विअ ।
राजा - अनधिगतमनोरथस्य पूर्वं, शतगुणितेव गता मम त्रियामा ।
यदि तु तव समागमे तथैव, प्रसरति सुभ्रु ततः कृती भवेयम् ॥२२॥
इति निष्क्रान्ताः सर्वे ।
इति महाकविकालिदासविरचिते विक्रमोर्वशीये तृतीयोऽङ्कः ।