ततः प्रविशति विदूषकः ।
विदूषकः - हि हि भो, णिमन्तणोवाअणेण बम्हणो विअ राअरहस्सेण फुट्टमाणो ण सक्कुणोमि जणाइण्णे अत्तणो जीहं रक्खिदुं ।
ता जाव तत्थभवं वअस्सो कज्जासणादो उट्ठेदि दाव इमस्सिं विरलजणसम्पादे विमाणुच्छङ्गपरिसरे चिट्ठिसं ।
परिक्रम्य स्थितः ।
चेटी - प्रविश्य ।
आणत्तम्हि देवीए कासिराअपुत्तीए हञ्जे णिउणिए, जदोपहुदि भअवदो सुज्जस्स उवट्ठाणं कदुअ पडिणिवुत्तो अज्जौत्तो, तदोपहुदि सुण्णहिअओ विअ लक्खीअदि ।
ता तस्स पिअवअस्सादो अज्जमाणवआदो जाणाहि दाव से उक्कण्ठाकारणं ति ।
कहं खु मए बम्हबन्धू अदिसन्धेओ ।
अहवा विरलतिणग्गलग्गं विअ ओसाअसलिलं चिरं तस्सिं रहस्सं ण चिट्ठदि ।
जाव णं अण्णेसामि ।
परिक्रम्य अवलोक्य च ।
एसो आलेक्खवाणरो विअ किं पि तुण्हिम्भूदो अज्जमाणवओ चिट्ठदि ।
जाव णं उवसप्पामि ।
उपसृत्य ।
अज्ज, वन्दामि ।
विदूषकः - सोत्थि भोदीए ।
आत्मगतम् ।
इमं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि ।
प्रकाशम् ।
णिउणिए, सङ्गीदवावारं उज्झिअ कहिं पत्थिदासि ।
निपुणिका - देवीए वअणेण अज्जं एव्व पेक्खिदुं ।
विदूषकः - किं तत्थभोदी आणवेदि ।
निपुणिका - देवी भणादि, सदा वि अज्जो मै पक्खवादी ण मं अणुइदवेअणादुक्खिदं उवेक्खदि त्ति ।
विदूषकः - णिउणिए, किं वा वअस्सेण तत्थभोदीए पडिऊलं आअरिदं ।
निपुणिका - जण्णिमित्तं भट्टा उक्कण्ठिदो ताए इत्थिआए णामेण भट्टिणा देवी आलविदा ।
विदूषकः - स्वगतम् ।
कहं ।
सअं एव्व तत्थभवदा रहस्सभेदो किदो ।
किं दाणिं अहं जीहाजन्तणेण दुक्खं अणुहवामि ।
प्रकाशम् ।
किं आमन्तिदा तत्थभोदी उव्वसि त्ति।
ताए दंसणेण उम्मादिदो तथभवं ण केवलं तथभोदिं, मं पि विणोदविमुहो दढं पीडेदि ।
निपुणिका - आत्मगतम् ।
किदं मए भेदणं भट्टिणो रहस्सदुग्गस्स ।
प्रकाशम् ।
अज्ज, किं दाव देवीए णिवेदेमि ।
विदूषकः - णिउणिए, विण्णवेहि तत्थभोदिं, जदामि दाव मिअतिण्हिआदो णिवत्तेदुं वअस्सं, तदो देवीए मुहं पेक्खिस्सं ति ।
निपुणिका - जं अज्जो आणवेदि ।
इति निष्क्रान्ता ।
नेपथ्ये वैतालिकः - जयतु देवः ।
आ लोकान्तात् प्रतिहततमोवृत्तिरासां प्रजानां, तुल्योद्योगस्तव दिन्कृतश्चाधिकारो मतो नः ।
तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये, षष्ठे भागे त्वमपि दिवसस्यात्मनश्छन्दवर्ती ॥१॥
विदूषकः - कर्णं दत्वा ।
एसो कज्जासणादो उट्ठिदो इदो एव्व आअच्छदि वअस्सो ।
जाव से पासपरिवत्ती होमि ।
इति निष्क्रान्तः ।
प्रवेशकः ।
ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च ।
राजा - आ दर्शनात् प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम् ।
बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥२॥
विदूषकः - आत्मगतम् ।
सम्पीडिदा खु दाव तवस्सिणी कासिराअपुत्ती ।
राजा - अपि रक्ष्यते भवता रहस्यनिक्षेपः ।
विदूषकः - सविषादमात्मगतम् ।
अदिसन्धिदोम्हि दासीए ।
अण्णधा ण वअस्सो एव्वं पुच्छदि ।
राजा - किं भवांस्तूष्णीमास्ते ।
विदूषकः - एव्वं मए णिअन्तिदा जीहा जं भवदो वि सहसा पडिवअणं ण देमि ।
राजा - युक्तम् ।
अथ क्वेदानीमात्मानं विनोदयेयम् ।
विदूषकः - महाणसं गच्छम्ह ।
राजा - किं तत्र ।
विदूषकः - तहिं पञ्चविहस्स अब्भवहारस्स उवणदसम्भारस्स जोअणं पेक्खमाणेहिं सक्कं उक्कण्ठा विणोदेदुं ।
राजा - तत्रेप्सितसन्निधानाद् भवान् रंस्यते ।
मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः ।
विदूषकः - णं भवं तत्थभोदीए उव्वसीए दंसणपहं गदो ।
राजा - ततः किम् ।
विदूषकः - ण क्खु सा दुल्लह त्ति समत्थेमि ।
राजा - पक्षपातोऽयमवधार्यताम् ।
विदूषकः - एव्वं वड्ढदि मे कोदूहलं ।
किं तत्थभोदी उव्वसी अदुदिआ रूवेण , अहं विअ विरूवदाए ।
राजा - माणवक, प्रत्यवयवमशक्यवर्णनां तामवेहि ।
समासतः श्रूयताम् ।
विदूषकः - अवहिदोम्हि ।
राजा - आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥३॥
विदूषकः - अदो क्खु भवदा दिव्वरसाहिलासिणा चादअव्वदं गहिदं ।
राजा - वयस्य, विविक्तादृते नान्यदुत्सुकस्य मनसः शरणमस्ति ।
तद्भवान् प्रमदवनमार्गमादेशयतु ।
विदूषकः - आत्मगतम् ।
की गदी ।
प्रकाशम् ।
इदो इदो भवं ।
परिक्रम्य ।
एदेण पमदवणचोदिदेण विअ पच्चुग्गदो भवं आअन्तुओ दक्खिणमारुदेण ।
राजा - विलोक्य ।
उपपन्नं विशेषणमस्य वायोः ।
अयं हि निषिञ्चन् माधवीमेतां लतां कौन्दीं च नर्तयन् ।
स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥४॥
विदूषकः - ईदिसो एव्व दे अहिणिवेसो ।
परिक्रामितकेन ।
एदं पमदवणदुवारं ।
पविसदु भवं ।
राजा - प्रविशाग्रतः ।
उभौ प्रविशतः ।
राजा - अग्रतो विलोक्य ।
वयस्य, न मया साधु समर्थितमापत्प्रतीकारः किल प्रमदवनोद्यानप्रवेश इति ।
विविक्षुर्यदहं तूर्णमुद्यानं तापशान्तये ।
स्रोतोजवोह्यमानस्य प्रतीपतरणं हि तत् ॥५॥
विदूषकः - कहं विअ ।
राजा - इदमसुलभवस्तुप्रार्थनादुर्निवारं, प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातोन्मूलितापाण्डुपत्रैर्, उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥६॥
विदूषकः - अलं परिदेविदेण ।
ऐरेण इच्छिदसम्पादैत्तओ अणङ्गो एव्व दे सहाओ भविस्सदि ।
राजा - प्रतिगृहीतं ब्राह्मणवचनम् ।
इति परिक्रामतः ।
विदूषकः - पेक्खदु भवं वसन्दोदारसूअअं अहिरामत्तणं पमदवणस्स ।
राजा - ननु प्रतिपादपमेवालोकयामि ।
अत्र हि अग्रे स्त्रीनखपाटलं कुरबकं श्यामं द्वयोर्भागयोर्, बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी, मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥७॥
विदूषकः - एसो मणिसिलापट्टसणाहो अदिमुत्तलदामण्डवो भमरसङ्घट्टपडिदेहिं कुसुमेहिं सअं विअ किदोवआरो भवन्तं पडिच्छदि ।
ता अणुगेण्हीअदु दाव एसो ।
राजा - यथा भवते रोचते ।
इत्युपविशतः ।
विदूषकः - इह सुहासीणो भवं ललिदलदाविलोहीअमाणणअणो उव्वसीगदं उक्कण्ठं विणोदेदु।
राजा - निःश्वस्य ।
मम कुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु ।
चक्षुर्बध्नाति धृतिं तद्रूपालोकदुर्ललितम् ॥८॥
तदुपायश्चिन्त्यतां यथा सफलप्रार्थनो भवेयम् ।
विदूषकः - विहस्य ।
भो, अहल्लाकामुअस्स महिन्दस्स वज्जो, उव्वसीपज्जुच्छुअस्स भवदो अहं, दुवे वि एत्थ उम्मत्तआ ।
राजा - अतिस्नेहः खलु कार्यदर्शी ।
विदूषकः - एसो चिन्तेमि ।
मा उण परिदेविदेण समाधिं भिन्धि ।
चिन्तां रूपयति ।
राजा - निमित्तं सूचयित्वा ।
आत्मगतम् ।
न सुलभा सकलेन्दुमुखी च सा, किमपि चेदमनङ्गविचेष्टितम् ।
अभिमुखीष्विव काङ्क्षितसिद्धिषु, व्रजति निर्वृतिमेकपदे मनः ॥९॥
जाताशस्तिष्ठति ।
ततः प्रविशत्याकाशयानेन उर्वशी चित्रलेखा च ।
चित्रलेखा - हला, कहिं अणिद्दिट्ठकारणं गच्छीअदि ।
उर्वशी - सहि, तदा हेमऊडसिहरे लदाविडवेण खणविग्घिदाआसगमणं मं ओहसिअ किं दाणिं पुच्छसि ।
चित्रलेखा - किं तस्स राएसिणो पुरूरवस्स सआसं पत्थिदासि ।
उर्वशी - अअं मे अवहत्थिदलज्जो ववसाओ ।
चित्रलेखा - को उण सहीए पढमं पेसिदो ।
उर्वशी - हिअअं ।
चित्रलेखा - अदो अवरं णत्थि मे उत्तरम् ।
उर्वशी - तेण हि आदिसदु मे सही मग्गं, जेण गच्छन्तीए ण अन्तराओ भवे ।
चित्रलेखा - सहि, वीसद्धा होहि ।
णं भअवदा देवगुरुणा अवराइदं णाम सिहाबन्धणविज्जं उवदिसन्तेण तिदसपडिवक्खस्स अलङ्घणीआ कदम्ह ।
उर्वशी - सहि, सव्वं सुमरेमि ।
सिद्धमार्गमासाद्य ।
चित्रलेखा - एदं भअवदीए भाईरहीए जमुणासङ्गमपावणेसु सलिलेसु ओलोअन्तस्स विअ अत्ताणअं पैट्ठाणस्स सिहाभरणभूदं राएसिणो भवणम् उवगदम्ह ।
उर्वशी - विलोक्य ।
णं वत्तव्वं ठाणन्तरगदो सग्गो त्ति ।
विचार्य ।
हला, कहिं णु क्खु सो आवण्णाणुकम्पी भवे ।
चित्रलेखा - एदस्सिं णन्दणवणेक्कदेसे विअ पमदवणे ओदरिअ जाणिस्सामो ।
उभे अवतरतः ।
चित्रलेखा - राजानं दृष्ट्वा ।
सहर्षम् ।
हला, एसो क्खु पढमोदिदो विअ चण्दो कोमुदिं विअ तुमं पडिच्छदि ।
उर्वशी - विलोक्य ।
हला, दाणिं पढमदंसणादो सविसेसं पिअदंसणो महाराओ पडिहादि ।
चित्रलेखा - जुज्जदि ।
ता एहि, उवसप्पम्ह ।
उर्वशी - तिरक्खरिणीपडिच्छण्णा पासगदा से भविअ सुणिस्सं दाव ।
पासपडिवत्तिणा वअस्सेण सह विअणे किं पि मन्तअन्तो चिट्ठदि ।
चित्रलेखा - जहा दे रोअदि ।
यथोक्तमनुतिष्ठतः ।
विदूषकः - भो, चिन्तिदो मए दुल्लहप्पणैणीसमाअमोवाओ ।
राजा तूष्णीमास्ते ।
उर्वशी - का उण एसा इत्थिआ इमिणा पत्थीअमाणा अत्ताणअं विकत्थेदि ।
चित्रलेखा - किं उण माणुस्सअं विडम्बीअदि ।
उर्वशी - भाआमि सहसा पहावादो विण्णादुं ।
विदूषकः - णम् भणामि चिन्तिदो मए समाअमोवाओ त्ति ।
राजा - तेन हि कथ्यताम् ।
विदूषकः - सिविणसमाअमआरिणिं णिद्दं सेवदु भवं ।
अहवा तत्थभोदीए उव्वसीए पडिकिदिं आलिहिअ ओलोअन्तो चिट्ठ ।
उर्वशी - सहर्षम् ।
हीणसत्त हिअअ, समस्सस समस्सस ।
राजा - उभयमपि अनुपपन्नम् ।
हृदयमिषुभिः कामस्यान्तः सशल्यमिदं सदा, कथमुपलभे निद्रां स्वप्ने समागमकारिणीम् ।
न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां, मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥१०॥
चित्रलेखा - सुदं तुए ।
उर्वशी - सुदं, ण उण पज्जत्तं हिअअस्स ।
विदूषकः - एत्तिओ मे मदिविहवो ।
राजा - सनिःश्वासम् ।
नितान्तकठिनां रुजं मम न वेद सा मानसीं, प्रभावविदितानुरागमवमन्यते वापि माम् ।
अलब्धफलनीरसान् मम विधाय तस्मिञ्जने, समागममनोरथान् भवतु पञ्चबाणः कृती ॥११॥
चित्रलेखा - सुदं तुए ।
उर्वशी - हद्धी हद्धी ।
मं एव्वं अवगच्छदि ।
असमत्थम्हि अग्गदो भविअ से पडिवअणस्स ।
ता पहावणिम्मिदेण भुज्जवत्तेण सम्पादिदुत्तरा होदुं इच्छामि ।
चित्रलेखा - अणुमदं मे ।
उर्वशी - नाट्येनाभिलिख्य क्षिपति ।
विदूषकः - दृष्ट्वा ।
अविहा अविहा ।
भो, किं णु क्खु एदं भुअङ्गणिम्मोअअं विअ सम्मुहे णो णिवडिदं ।
राजा - विभाव्य ।
भूर्जपत्रगतोऽयमक्षरविन्यासः ।
विदूषकः - णं खु अदिट्ठाए उव्वसीए भवदो परिदेविदं सुणिअ समाणाणुराअसूअआइं अक्खराइं विसज्जिदाइं ह्ॐति ।
राजा - नास्त्यगतिर्मनोरथानाम् ।
गृहीत्वा अनुवाच्य ।
सहर्षम् ।
सखे, प्रसन्नस्ते तर्कः ।
विदूषकः - जं एत्थ आलिहिदं तं सुणिदुं इच्छामि ।
उर्वशी - साहु ।
अज्ज, णाअरिओसि ।
राजा - श्रूयताम् ।
वाचयति ।
सामिअ सम्भाविअआ जह अहं तुए अमुणिआ, तह अणुरत्तस्स जै णाम तुज्झ उवरि होमि ।
किं मे लुलिअपारिजाअसअणिज्जअम्मि सुहा, णन्दणवणवादा अवि अच्चुण्हा सरीरए ॥१२॥
उर्वशी - किं णु क्खु सम्पदं भणिस्सदि ।
चित्रलेखा - णं भणिदं एव्व कमलणालाअमाणेहिं अङ्गेहिं ।
विदूषकः - दिट्ठिआ मए विअ बुभुक्खिदेण सोत्थिवाअणं, उवलद्धं भवदा समासासणं ।
राजा - समाश्वासनमिति किमुच्यते ।
तुल्यानुरागपिशुनं ललितार्थबन्धं, पत्रे निवेशितमुदाहरणं प्रियायाः ।
उत्पक्ष्मणो मम सखे मदिरेक्षणायास्, तस्याः समागतमिवाननमाननेन ॥१३॥
उर्वशी - एत्थ णो समविभाआ पीदी ।
राजा - वयस्य अङ्गुलीस्वेदेन दूष्येरन्नक्षराणि ।
धार्यतामयं प्रियायाः स्वहस्तलेखः ।
विदूषकः - गृहीत्वा ।
किं दाणिं तथभोदी उव्वसी भवदो मणोरहाणं कुसुमं दंसिअ फले विसंवददि ।
उर्वशी - हला, जाव अहिगमणकादरं हिअअं पज्जवत्थावेमि दाव तुमं से अत्ताणं दंसिअ जं मे खमं तं भणाहि ।
चित्रलेखा - तह ।
इति तिरस्करिणीमपनीय राजानमुपेत्य ।
जेदु जेदु महाराओ ।
राजा - सहर्षम् ।
स्वागतं भवत्यै ।
भद्रे ।
न तथा नन्दयसि मां सख्या विरहिता तया ।
सङ्गमे पूर्वदृष्टेव यमुना गङ्गया विना ॥१४॥
चित्रलेखा - णं पढमं मेहराई दीसदि ।
पच्छा विज्जल्लदा ।
विदूषकः - अपवार्य ।
कहं ण एसा उव्वसी ।
तत्थभोदीए अहिमदा सहअरी ।
चित्रलेखा - उव्वसी महाराअं सिरसा पणमिअ विण्णवेदि ।
राजा - किमाज्ञापयति ।
चित्रलेखा - मह सुरारिसम्भवे दुज्जादे महाराओ एव्व सरणं आसि ।
सा अहं तुह दंसणसमुत्थेण मअणेण बलिअं बाहिअमाणा भूओ वि महाराएण अणुकम्पणीअ त्ति।
राजा - भद्रमुखि ।
पर्युत्सुकां कथयसि प्रियदर्शनां ताम्, आर्थिं न पश्यसि पुरूरवसस्तदर्थाम् ।
साधारणोऽयमुभयोः प्रणयः स्मरस्य, तप्तेन तप्तमयसा घटनाय योग्यम् ॥१५॥
चित्रलेखा - उर्वशीमुपेत्य ।
हला,एहि ।
तुवत्तो वि णिद्दअदरं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवुत्ता ।
उर्वशी - तिरस्करिणीमपनीय ।
अम्महे, लहुअं तुए उज्झिदम्हि ।
चित्रलेखा - सस्मितम् ।
अदो मुहुत्तादो जाणिस्सं का कं परिच्चैस्सदि त्ति ।
आआरं दाव पडिवज्ज ।
उर्वशी - सव्रीडम् ।जेदु जेदु महाराओ ।
राजा - सुन्दरी ।
मया नाम जितं यस्य त्वयायं समुदीर्यते ।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥१६॥
हस्ते गृहीत्वा एनामुपवेशयति ।
विदूषकः - भोदि, रण्णो पिअवअस्सो बम्हणो किं ण वन्दीअदि ।
उर्वशी - सस्मितं प्रणमति ।
विदूषकः - सोत्थि भोदीए ।
नेपथ्ये ।
देवदूतः - चित्रलेखे, त्वरयोर्वशीम् ।
मुनिना भरतेन यः प्रयोगो, भवतीष्वष्टरसाश्रयो नियुक्तः ।
ललिताभिनयं तमद्य भर्ता, मरुतां द्रष्टुमनाः सलोकपालः ॥१७॥
सर्वे आकर्णयन्ति ।
उर्वशी विषादं नाटयति ।
चित्रलेखा - सुदं तुए देवदूदस्स वअणं ।
अणुमाणीअदु महाराओ ।
उर्वशी - णत्थि मे वाआविहवो ।
चित्रलेखा - महाराअ, परवसो अअं जणो ।
ता महाराएण अब्भणुण्णादा इच्छदि देवेसु अणवरद्धं अत्ताणअं कादुं ।
राजा - कथम्चिद्वाचं व्यवस्थाप्य ।
नास्मि भवत्योरीश्वरनियोगप्रत्यर्थी ।
स्मर्तव्यस्त्वयं जनः ।
उर्वशी वियोगदुःखं रूपयन्ती सख्या सह निष्क्रान्ता ।
राजा - सनिःश्वासम् ।
सखे, वैयर्थ्यमिव चक्षुषः सम्प्रति ।
विदूषकः - पत्रं दर्शयितुङ्कामः ।
णं एदं - इत्यर्धोक्ते आत्मगतं ।
हद्धी हद्धी ।
उव्वसीदंसणविम्हिदेण मए तं भुज्जवत्तअं पब्भट्ठं पि हत्थादो पमादेण ण विण्णादं ।
राजा - किमसि वक्तुकामः ।
विदूषकः - मा भवं अङ्गाइं मुञ्चदु ।
दढं खु तुइ बद्धभावा उव्वसी ।
ण सा इदोगदं अणुराअं सिढिलेदि ।
राजा - ममाप्येतदाशंसि मनः ।
तया खलु प्रस्थाने अनीशया शरीरस्य हृदयं स्ववशं मयि ।
स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥१८॥
विदूषकः - आत्मगतम् ।
वेवदि मे हिअअं इमं वेलं तत्थभवदा तस्स भुज्जवत्तस्स णाम गेण्हिदव्वं भविस्सदि त्ति ।
राजा - केनेदानीं दृष्टिं विलोभयामि ।
स्मृत्वा ।
आः, उपनय भूर्जपत्रम् ।
विदूषकः - विषादं नाटयति ।
हन्त, ण दीसदि ।
गदं उव्वसीए मग्गेण ।
राजा - सर्वत्र प्रमादी वैधेयः ।
ननु विचिनोतु भवान् ।
विदूषकः - उत्थाय ।
णं इदो भवे ।
इदो भवे ।
इति विचेतव्यं नाटयति ।
ततः प्रविशति काशिराजपुत्री सपरिवारा ।
देवी - हञ्जे णिउणिए, सच्चं तुए भणिदं इमं लदाघरं पविसन्तो अज्जमाणवअसहाओ अज्ज??तो दिट्ठो त्ति ।
निपुणिका - किं अण्णहा भट्टिणी मए विण्णविदपुव्वा ।
देवी - तेण हि लदन्तरिदा सुणिस्सं दाव से वीसद्धमन्तिदाइं जं तुए कधिदं सच्चं ण व त्ति ।
निपुणिका - जं भट्टिणीए रुच्चदि ।
देवी - परिक्रम्य ।
हञ्जे णिउणिए, किं एदं जिण्णचीरं विअ इदोमुहं दक्खिणमारुदेण आणीअदि ।
निपुणिका - विभाव्य ।
भट्टिणी, पडिवत्तणविभाविदक्खरं भुज्जवत्तं खु एदं ।
हन्त, भट्टिणीए एव्व णेउरकोडीए लग्गं ।
गृहीत्वा ।
कहं ।
वाचीअदु ।
देवी - अणुवाचेहि दाव णं ।
जदि अविरुद्धं तदो सुणिस्सं ।
निपुणिका - तथा कृत्वा ।
भट्टिणि, तं एव्व कोलीणं विअ पडिहादि ।
भट्टारअं उद्दिसिअ उव्वसीए कव्वबन्धो त्ति तक्केमि ।
अज्जमाणवअप्पमादेण अम्हाणं हत्थं गदो त्ति ।
देवी - तेण हि से गहिदत्था होमि ।
निपुणिका राज्ञा पूर्ववाचितं वाचयति ।
देवी - इमिणा एव्व उवाअणेण अच्छराकामुअं पेक्खामि ।
इति परिजनसहिता लतागृहं परिक्रामति ।
विदूषकः - भो वअस्स, किं एदं पवणवसगामी पमदवणसमीवगदकीलापव्वदपेरन्ते दीसदि ।
राजा - उत्थाय ।
भगवन् वसन्तप्रिय दक्षिणवायो ।
वासार्थं हर सम्भृतं सुरमिणा पौष्पं रजो वीरुधां, किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे ।
जानीते हि मनोविनोदनफलैरेवंविधैर्धारितं, कामार्तं जनमञ्जनां प्रति भवानालक्षितप्रार्थनः ॥१९॥
निपुणिका - भट्टिणि, एदस्स एव्व भुज्जवत्तस्स अण्णेसणा वट्टदि ।
देवी - पेक्खामि ।
विदूषकः - भो, मिलाअमाणकेसरच्छविणा मोरपिच्छेण विप्पलद्धो म्हि ।
राजा - सर्वथा हतोऽस्मि ।
देवी - उपेत्य ।
अज्ज??त्त, अलं आवेएण ।
एदं तं भुज्जवत्तं ।
राजा - ससम्भ्रमम् ।
अये, इयं देवी ।
स्वागतं देव्यै ।
विदूषकः - अपवार्य ।
दुरागदं दाणिं संवुत्तं ।
राजा - जनान्तिकम् ।
सखे, किमत्र प्रतिविधेयम् ।
विदूषकः - लोत्तेण गहिदस्स कुम्भीलअस्स अत्थि वा पडिवअणं ।
राजा - अपवार्य ।
मूढ, नायं परिहासकालः ।
प्रकाशम् ।
देवि, नेदं मया मृग्यते ।
तत् खलु मन्त्रपत्रं यदन्वेषणाय ममायमारम्भः ।
देवी - जुज्जदि अत्तणो सोहग्गं पच्छादेदुं ।
विदूषकः - भोदि, तुवरेहि से भोअणं जं पित्तोवसमणसमत्थं भोदि ।
देवी - णिउणिए, सोहणं खु बम्हणेन आसासिदो वअस्सो ।
विदूषकः -भोदि, णं पेक्ख ।
सव्वो आसासिदो चित्तभोअणेण ।
राजा - मूर्ख, बलादपराधिनं मां प्रतिपादयसि ।
देवी - णत्थि भवदो अवराहो ।
एत्थ अहं एव्व अवरद्धा जा पडिऊलदंसणा भविअ अग्गदो दे चिट्ठामि ।
णिउणिए,एहि गच्छम्ह ।
कोपं नाटयित्वा प्रस्थिता ।
राजा - अपराधी नामाहं प्रसीद रभ्भोरु विरम संरम्भात् ।
सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥२०॥
इति पादयोः पतति ।
देवी - आत्मगतम् ।
मा खु लहुहिअआ अहं अणुणअं बहु मण्णे ।
किं तु दक्खिण्णकिदस्स पच्छादावस्स भाएमि ।
राजानमपहाय सपरिवारा निष्क्रान्ता ।
विदूषकः - पाउसणदी विअ अप्पसण्णा गदा देवी ।
उट्ठेहि ।
राजा - उत्थाय ।
नेदमनुपपन्नम् ।
पश्य ।
प्रियवचनशतोऽपि योषितां, दयितजणानुनयो रसादृते ।
प्रविशति हृदयं न तद्विदां, मणिरिव कृत्रिमरागयोजितः ॥२१॥
विदूषकः - अणुऊलं एत्थ भवदो एदं ।
ण हु अक्खिदुक्खिदो अहिमुहे दीवसिहं सहेदि ।
राजा - मा मैवम् ।
उर्वशीगतमनसोऽपि मे स एव देव्यां बहुमानः ।
किं तु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्भिष्ये ।
विदूषकः - चिट्ठदु दाव भवदो धीरदा ।
बुभुक्खिदस्स बम्हणस्स जीविदं अवलम्बदु भवं ।
समओ क्खु दे ण्हाणभोअणं सेविदुं ।
राजा - ऊर्ध्वमवलोक्य ।
गतमर्धं दिवसस्य ।
अतः खलु ।
उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी, निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः ।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते, क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥२२॥
इति निष्क्रान्ताः सर्वे ।
इति महाकविकालिदासविरचिते विक्रमोर्वशीये द्वितीयोऽङ्कः ।