वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी, यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते, स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥१॥
नान्द्यन्ते ।
सूत्रधारः - नेपथ्याभिमुखमवलोक्य ।
मारिष, इतस्तावत् ।
प्रविश्य ।
पारिपार्श्वकः - भाव, अयमस्मि ।
सूत्रधारः - मारिष, बहुशस्तु परिषदा पूर्वेषां कवीनां दृष्टः प्रयोगबन्धः ।
सोऽहमद्य विक्रमोर्वशीयं नामापूर्वं नाटकं प्रयोक्ष्ये ।
तदुच्यतां पात्रवर्गः स्वेषु स्वेषु पाठेष्वसम्मूढैर्भवितव्यमिति ।
पारिपार्श्वकः - यदाज्ञापयति भावः ।
इति निष्क्रान्तः ।
सूत्रधारः - यावदिदानीमार्यमिश्रान् विज्ञापयामि ।
प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् ।
शृणुत मनोभिरवहितैः क्रियामिमां कालिदासस्य ॥२॥
नेपथ्ये ।
अज्जा, परित्ताअध परित्ताअध ।
सूत्रधारः - कर्णं दत्वा ।
अये, किं नु खलु मद्विज्ञापनानन्तरमार्तानां कुररीणामिवाकाशे शब्दः यश्रूते ।
विचिन्त्य ।
भवतु ।
ज्ञातम् ।
ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री, कैलासनाथमुपसृत्य निवर्तमाना ।
बन्दीकृता विबुधशत्रुभिरर्धमार्गे, क्रन्दत्यतः करुणमप्सरसां गणोऽयम् ॥३॥
इति निष्क्रान्तः ।
प्रस्तावना ।
ततः प्रविशन्त्यप्सरसः ।
अप्सरसः - अज्जा, परित्ताअध परित्ताअध ।
जो सुरपक्खवादी जस्स वा अम्बरदले गदी अत्थि ।
ततः प्रविशत्यपटीक्षेपेण रथारूढो राजा सूतश्च ।
राजा - अलमलमाक्रन्दितेन ।
सूर्योपस्थानात् प्रतिनिवृत्तं पुरूरवसं मामुपेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति ।
रम्भा - असुरावलेवादी ।
राजा - किं पुनरसुरावलेपेन भवतीनामपराद्धम् ।
मेनका - सुणादु महाराओ ।
जा तवोविसेसपरिसङ्किदस्स सुउमारं पहरणं महिन्दस्स, पच्चादेसो रूवगव्विदाए सिरीए, अलङ्कारो सग्गस्स, सा णो पिअसही अव्वसी कुबेरभवणादो णिवट्टमाणा केणावि दाणवेण चित्तलेहादुदिआ अद्धपथं ज्जेव बन्दिग्गाहं गहिदा ।
राजा - अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्मः ।
सहजन्या - पुव्वुत्तरेण ।
राजा - तेन हि मुच्यतां विषादः ।
यतिष्ये वः सखीप्रत्यानयनाय ।
अप्सरसः - सरिसं एदं सोमवंससम्भवस्स ।
राजा - क्व पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।
अप्सरसः - इमस्सिं हेमकूडसिहरे ।
राजा - सूत, ऐशानीं दिशं प्रति चोदयाश्वानाशुगमनाय ।
सूतः - यदाज्ञापयत्यायुष्मान् ।
इति यथोक्तं करोति ।
राजा - रथवेगं निरूपयन् ।
साधु साधु ।
अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमप्यासादयेयम्, किं पुनस्तमपकारिणं मघोनः ।
मम हि अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्, चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिम् ।
चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं, यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥४॥
निष्क्रान्तो रथेन राजा सूतश्च ।
रम्भा - हला, जहणिद्दिट्ठं पदेसं सङ्कमम्ह ।
इति शैलावतरणं नाटयित्वा स्थिताः ।
रम्भा - अवि णाम सो राएसी समुद्धरे णो हिअअसल्लं ।
मेनका - मा दे संसओ भोदु ।
णं उवट्ठिदसम्पहारो महिन्दो मज्झमलोआदो सबहुमाणं आणाविअ तं एव्व विअअसेणामुहे णिओजेदि ।
रम्भा - सव्वहा विअई भोदु ।
सहजन्या - क्षणमात्रं स्थित्वा ।
हला, समस्ससध समस्ससध ।
एसो उच्चलिदहरिणकेदणो तस्स राएसिणो सोमदत्तो रहो दीसदि ।
ण क्खु सो अकिदत्थो णिवत्तिस्सदि ।
सर्वा उच्चक्षुषो विलोकयन्ति ।
ततः प्रविशति राजा रथेन सूतश्च ।
चित्रलेखावलम्बितहस्ता भयनिमीलिताक्षी चोर्वशी ।
चित्रलेखा - समस्ससदु समस्ससदु पिअसही ।
राजा - सुन्दरि, समाश्वसिहि समाश्वसिहि ।
गतं भयं भीरु सुरारिसम्भवं, त्रिलोकरक्षी महिमा हि वज्रिणः ।
तदेतदुन्मीलय चक्षुरायतं, महोत्पलं प्रत्युषसीव पद्मनी ॥५॥
चित्रलेखा - अम्महे, ऊससिदमेत्तजीविदा अज्ज वि सण्णं ण पडिवज्जदि ।
राजा - बलवदत्रभवती परित्रस्ता ।
तथा हि ।
मुञ्चति न तावदस्याः कम्पं कुसुमसमबन्धनं हृदयम् ।
पश्य हरिचन्दनेन स्तनमध्योच्छ्वासिना कथितम् ॥६॥
चित्रलेखा - हला, पज्जवत्थावेहि अत्ताणं ।
अणच्छरा विअ पडिसाह् इ ।
उर्वशी प्रत्यागच्छति राजा - अयि, प्रकृतिमापद्यते ते सखी ।
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिर्, नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा ।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा, गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादं ॥७॥
चित्रलेखा - सहि, वीसद्धा होहि ।
पराभूदा खु तिदसपरिपन्थिणो हदासा ।
उर्वशी - चक्षुषी उन्मील्य ।
किं पहावदंसिणा महिन्देण ।
चित्रलेखा - ण महिन्देण ।
महिन्दसरिसाणुभावेण इमिणा राएसिणा ।
उर्वशी - राजानं विलोक्य ।
आत्मगतम् ।
उवकिदं खु दाणवेहिं ।
राजा - प्रकृतिस्थामुर्वशीं निर्वर्ण्य ।
आत्मगतम् ।
स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसम्भवामिमां दृष्ट्वा व्रीडिताः सर्वा अप्सरस इति ।
अथवा नेयं तपस्विनः सृष्टिर्भवितुमर्हति ।
तथा हि ।
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः, शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पकारः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो, निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥८॥
उर्वशी - हला, सो सहीअणो कहिं खु भवे ।
चित्रलेखा - महाराओ अभअदाई जाणादि ।
राजा - उर्वशीं विलोकयन् ।
महति विषादे वर्तते ।
पश्यतु भवती ।
यदृच्छया त्वं सकृदप्यवन्ध्ययोः, पथि स्थिता सुन्दरि यस्य नेत्रयोः ।
त्वया विना सोऽपि समुत्सुको भवेत्, सखीजनस्ते किमुतार्द्रसौहृदः ॥९॥
उर्वशी - अपवार्य ।
अभिजादं खु से वअणं ।
अहवा चन्दादो अभिअं ति किमेत्थ अच्चरिअं ।
प्रकाशम् ।
अदो एव्व णं पेक्खिदुं तुवरदि मे हिअअं ।
राजा - हस्तेन दर्शयन् ।
एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः ।
प्रत्यागतप्रसादं चन्द्रमिवोपप्लवान्मुक्तम् ॥१०॥
चित्रलेखा - हला, पेक्ख ।
उर्वशी - राजानं सस्पृहं पश्यन्ती ।
समदुक्खो पिबै व्व मं णअणेहिं ।
चित्रलेखा - साकूतम् ।
अयि को ।
उर्वशी - सहीअणो ।
रम्भा - सहर्षम् ।
एसो चित्तलेहादुदिअं उव्वसिं गेण्हिअ विसाहासमीवगदो विअ चन्दो उवट्ठिदो राएसी ।
मेनका - निर्वर्ण्य ।
दुवे वि णो पिआणि उवणदाणि ।
इअं पच्चाणीदा सही, अअं च अपरिक्खदो महाराओ त्ति ।
सहजन्या - सुट्ठु भणासि ।
दुज्जआ खु दाणवा ।
राजा - सूत, इदं तच्छैलशिखरम् ।
अवतार्यतां रथः ।
सूतः - यदाज्ञापयत्यायुष्मान् ।
इति यथोक्तं करोति ।
राजा - चक्रोद्धातं रूपयित्वा ।
आत्मगतम् ।
हन्त, दत्तफलो मे विषमावतारः ।
यदयं रथसङ्क्षोभादंसेनांसो रथोपमश्रोण्याः ।
स्पृष्टः सरोमविक्रियमङ्कुरितं मनसिजेनेव ॥११॥
उर्वशी - सव्रीडम् ।
हला, किञ्चि परदो ओसर ।
चित्रलेखा - सस्मितम् ।
णाहं सक्का ।
रम्भा - एध, सम्भावेम्ह राएसिं ।
सर्वा उपसर्पन्ति ।
राजा - सूत, स्थापय रथम् ।
यावत् पुनरियं सुभ्रूरुत्सुकाभिः समुत्सुका ।
सखीभिर्याति सम्पर्कं लताभिः श्रीरिवार्तवी ॥१२॥
सूतस्तथा करोति ।
अप्सरसः - दट्ठिआ महाराओ विअएण वड्ड्ःअदि ।
राजा - भवत्यश्च सखीसमागमेन ।
उर्वशी - चित्रलेखादत्तहस्ता रथादवतीर्य ।
हला, एध ।
पीडिदं मं परिस्सजध ।
न क्खु मे आसा आसि भूओ वि सहीअणं पेक्खिस्सं ति ।
सर्वाः सत्वरं परिष्वजन्ते ।
रम्भा - सव्वहा महाराओ कप्पसदाइं पुहविं पालअन्तो भोदु ।
सूतः - आयुष्मन्, पूर्वस्यां दिशि महता रथवेगेनोपदर्शितः शब्दः ।
अयं च गगनात् कोऽपि तप्तचामीकराङ्गदः ।
अवरोहति शैलाग्रं तडित्वानिव तोयदः ॥१३॥
अप्सरसः - अम्मो, चित्ररहो ।
ततः प्रविशति चित्ररथः ।
चित्ररथः - राजाभिमुखं स्थित्वा ।
दिष्ट्या महेन्द्रोपकारपर्याप्तेन विक्रममहिम्ना वर्धते भवान् ।
राजा - अये, गन्धर्वराजः ।
रथादवतीर्य ।
स्वागतं प्रियसुहृदे ।
परस्परं हस्तौ स्पृशतः ।
चित्ररथः - वयस्य, केषिना हृतामुर्वशीं नारदादुपष्रुत्य प्रत्याहरणार्थमस्याः शतक्रतुना गन्धर्वसेना समादिष्टा ।
ततो वयमन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणमुपश्रुत्य त्वामिहस्थं द्रष्टुमुपागताः ।
स भवानिमां पुरस्कृत्य सहास्माभिर्मघवन्तं द्रष्टुमर्हति ।
महत् खलु तत्रभवतो मघोनः प्रियमनुष्ठितं भवता ।
पश्य ।
पुरा नारायणेनेयमतिसृष्टा मरुत्वते ।
दैत्यहस्तादपाच्छिद्य सुहृदा सम्प्रति त्वया ॥१४॥
राजा - मा मैवम् ।
ननु वज्रिण एव वीर्यमेतद्, विजयन्ते द्विषतो यदस्य पक्ष्याः ।
वसुधाधरकन्दराभिसर्पी, प्रतिशब्दोऽपि हरेर्भिनत्ति नागान् ॥१५॥
चित्ररथः - युक्तमेतत् ।
अनुत्सेकः खलु विक्रमालङ्कारः ।
राजा - नायमवसरो मम शतक्रतुं द्रष्टुम् ।
त्वमेवात्रभवतीं प्रभोरन्तिकं प्रापय ।
चित्ररथः - यथा भवान् मन्यते ।
इत इतो भवत्यः ।
अप्सरसः प्रस्थिताः ।
उर्वशी - जनान्तिकम् ।
हला चित्तलेहे, उवआरिणं पि राएसिं ण सक्कुणोमि आमन्तेदुं ।
ता तुमं मे मुहं होहि ।
चित्रलेखा - जनान्तिकम् ।
महाराअ, उव्वसी विण्णवेदि, महाराएण अब्भणुण्णादा इच्छामि पिअसहिं विअ महाराअस्स कित्तिं महिन्दलोअं णेदुं ।
राजा - गम्यतां पुनर्दर्शनाय ।
सर्वाः सगन्धर्वा आकाशोत्पतनं रूपयन्ति ।
उर्वशी - उत्पतनभङ्गं रूपयित्वा ।
अम्महे, लदाविडवे मे एआवली वेअअन्तिआ लग्गा ।
परिवृत्य ।
चित्तलेहे, मोआवेहि दाव णं ।
चित्रलेखा - सस्मितम् ।
दिढं खु लग्गा ।
दुम्मोआ विअ मे पडिहादि ।
भोदु, जदिस्सं दाव ।
उर्वशी - सुमरेहि दाव एदं अत्तणो वअणं ।
चित्रलेखा नाट्येन मोचयति ।
राजा - स्वगतम् ।
प्रियमाचरितं लते त्वया मे, गमनेऽस्याः क्षणविघ्नमाचरन्त्या ।
यदियं पुनरप्यपाङ्गनेत्रा, परिवृत्तार्धमुखी मयाद्य दृष्टा ॥१६॥
सूतः - आयुष्मन्, अदः सुरेन्द्रस्य कृतापराधान्, प्रक्षिप्य दैत्यान् लवणाम्बुराशौ ।
वायव्यमस्त्रं शरधिं पुनस्ते, महोरगः श्वभ्रमिव प्रविष्टम् ॥१७॥
राजा - तेन ह्युपश्लेषय रथं यावदारोहामि ।
सूतस्तथा करोति ।
राजा नाट्येन रथमारूढः ।
उर्वशी राजानमवलोकयन्ती सनिःश्वासं सह सख्या निष्क्रान्ता चित्ररथश्च ।
राजा - उर्वशीमार्गोन्मुखः ।
अहो दुर्लभाभिलाषी मे मनोरथः ।
एषा मनो प्रसभं शरीरात्, पितुः पदं मध्यममुत्पतन्ती ।
सुराङ्गना कर्षति खण्डिताग्रात्, सूत्रं मृणालादिव राजहंसी ॥१८॥
इति निष्क्रान्ताः सर्वे ।
इति महाकविकालिदासविरचिते विक्रमोर्वशीये प्रथमोऽङ्कः ।