०५

पञ्चमोऽङ्कः ।
(ततः प्रविशत्युद्यानपालिका ।)
उद्यानपालिका - उपक्षिप्तो मया कृतसत्कारविधेस्तपनीयाशोकस्य वेदिकाबन्धः ।
यावद्दनुष्टितनियोगमात्मानं देव्यै निवेदयामि ।
(परिक्रम्य ।)
अहो दैवस्यानुकम्पनीया मालविका ।
तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति ।
कुत्र नु खलु भवेद्देवी ।
(विलोक्य ।)
अहो एष देव्याः परिजनाम्यन्तरः किमपि जतुमुद्रालाञ्छितां मञ्जूषां गृहीत्वा चतुःशालातः कुब्जः सारसको निष्क्रामति ।
प्रक्ष्यामि तावदेनम् ।
(ततः प्रविशति यथानिर्दिष्टः कुब्जः ।)
उद्यानपालिका - (उपसृत्य ।)
सारसक कुत्र प्रस्थितोसि ।
सारसकः - मधुकरिके विद्यापारगामिनां ब्राह्मणानां नित्यदक्षिणा दातव्या ।
तामार्यपुरोहितस्य हस्तं प्रापयितुम् ।
उद्यानपालिका - किन्निमित्तम् ।
सारसकः - यदाप्रभृति श्रुतं सेनापतिना यज्ञतुरङ्गरक्षणे नियुक्तो भर्तृदारको वसुमित्र इति तदाप्रभृति तस्यायुर्निमित्तमष्टादशसुवर्णपरिमाणां देवी दक्षिणीयैः परिग्राहयति ।
उद्यानपालिका - युज्यते ।
अथ कुत्र देवी ।
किं वानुतिष्ठति ।
सारसकः - मङ्गलगृह आसनस्था भूत्वा विदर्भविषयाद्भ्रात्रा वीरसेनेन प्रेषितं लेखकरैर्वाच्यमानं लेखं शृणोति ।
उद्यानपालिका - कः पुनर्विदर्भराजवृत्तान्तः ।
सारसकः - वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः ।
मोचितश्चास्य दायादो माधवसेनः ।
दूतश्च तेन महासाराणि रत्नवाहनानि शिल्पकारिकाभूयिष्ठं परिजनं चोपायनीकृत्य भर्तुः सकाशं प्रेषितः श्वः किल भर्तारं पश्यतीति ।
उद्यानपालिका - गच्छ ।
अनुतिष्ठात्मनो नियोगम् ।
अहमपि देवीं प्रेक्षिष्ये ।
(इति निष्क्रान्तौ ।)
प्रवेशकः ।
(ततः प्रविशति प्रतीहारी ।)
प्रतीहारी - आज्ञप्तास्म्यशोकसत्कारव्यापृतया देव्या ।
विज्ञापय आर्यपुत्रम् ।
इच्छाम्यार्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुमिति ।
तद्यावद्धर्मासनगतं देवं प्रतिपालयामि ।
(इति परिक्रामति ।)
(नेपथ्ये)
वैतालिकौ - दिष्ट्या दण्डेनारिशिरःसु वर्तते देवः ।
प्रथमः - परभृतकलव्याहारेषु त्वमात्तरतिर्मधुं
नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान् ।
विजयकरिणामालानत्वं गतैः प्रबलस्य ते
वरद वरदारोधोवृक्षैः सहावनतो रिपुः ॥
द्वितीयः - विरचितपदं वीरप्रीत्यासुरोपम सूरिभिश्चरितमुभयोर्मध्येकृत्य स्थितं कथकैशिकान् ।
तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं
परिधगुरुभिर्दोर्भिः शौरेः प्रसह्य च रुक्मिणीम् ॥
प्रतीहारी - एष जयशब्दसूचितप्रस्थानो भर्तेत एवागच्छति ।
अहमपि तावदस्य प्रमुखात्किञ्चिदपसृत्यैतन्मुखालिन्दतोरणं समाश्रिता भवामि ।
(इत्येकान्ते स्थिता ।)
(ततः प्रविशति सवयस्यो राजा ।)
राजा - कान्तां विचिन्त्य सुलभेतरसम्प्रयोगां
श्रुत्वा विदर्भपतिमानमितं बलैश्च ।
धाराभिरातप इवाभिहतं सरोजं
दुःकायते च हृदयं सुखमश्नुते च ॥
विदूषकः - यथाहं पश्यामि तथैकान्तसुखितो भवान्भविष्यति ।
राजा - कथमिव ।
विदूषकः - अद्य किल देव्या पण्डितकौशिकी भणिता ।
भगवति यत्त्वं प्रसाधनगर्वं वहसि तद्दर्शय मालविकायाः शरीरे वैदर्भं विवाहनेपथ्यमिति ।
तथा च सविशेषालङ्कृता मालविका ।
तत्रभवती कदाचित्पूरयेद्भवतोऽपि मनोरथम् ।
राजा - सखे मदपेक्षानुवृत्त्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः सम्भाव्यते एतत् ।
प्रतीहारी - (उपगम्य ।)
जयतु भर्ता ।
देवी विज्ञापयति ।
तपनीयाशोकस्य कुसुमसौभाग्यदर्शनेन ममारम्भः सफलः क्रियतामिति ।
राजा - ननु तत्रैव देवी ।
प्रतीहारी - अथ किम् ।
यथार्हसम्मानसुखितमन्तःपुरं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति ।
राजा - (सहर्षं विदूषकं विलोक्य ।)
जयसेने गच्छाग्रतः ।
प्रतीहारी - इत इतो देवः ।
(सर्वे परिक्रामन्ति ।)
विदूषकः - (विलोक्य ।)
भो वयस्य किम्चित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते ।
राजा - यथाह भवान् ।
अग्रे विकीर्णकुरबकफलजालकभिद्यमानसहकारम् ।
परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥
विदूषकः - (परिक्रम्य ।)
भो अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः ।
अवलोकयतु भवान् ।
राजा - स्थाने खल्वयं प्रसवमन्थरोऽभूत् ।
यदिदानीमनन्यसाधारणीं शोभामुद्वहति ।
पश्य ।
सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम् ।
निर्वृत्तदोहदेऽस्मिन्सङ्क्रान्तानीव कुसुमानि ॥
विदूषकः - भोः विस्रब्धो भव ।
अस्मासु सन्निहितेष्वपि धारिणी पार्श्वपरिवर्तिनीं मालविकामनुमन्यते ।
राजा - (सहर्षम् ।)
सखे पश्य ।
मामियमभ्युत्तिष्ठति देवी विनयादुपेस्थिता प्रियया ।
विस्मृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव ॥
(ततः प्रविशति धारिणी परिव्राजिका मालविका विभवतश्च परिवारः ।)
मालविका - (आत्मगतम् ।)
जानामि निमित्तं कौतुकालङ्कारस्य ।
तथापि बिसिनीपत्रगतमिव सलिलं वेपते मे हृदयम् ।
अपि च दक्षिणेतरदपि मे नयनं बहुशः स्फुरति ।
विदूषकः - भो वयस्य विवाहनेपथ्येन सविशेषं खलु शोभते अत्रभवती मालविका ।
राजा - पश्याम्येनाम् ।
यैषा
अनतिलम्बिदुकूलनिवासिनी बहुभिराभरणैः प्रतिभाति मे ।
उड्डगणैरुदयोन्मुखचन्द्रिका गतहिमैरिव चैत्रविभावरी ॥
देवी - (उपेत्य ।)
जयत्वार्यपुत्रः ।
विदूषकः - वर्धतां भवती ।
परिव्राजिका - विजयतां देवः ।
राजा - भगवति अभिवादये ।
परिव्राजिका - अभिप्रेतसिद्धिरस्तु ।
देवी - (सस्मितम् ।)
आर्यपुत्र एष तेऽस्माभिस्तरुणीजनसहायस्याशोकः सङ्केतगृहं कल्पितः ।
विदूषकः - भोः आराधितोऽसि ।
राजा - (सव्राडमशोकमभितः परिक्रामति ।)
नायं देव्या भाजनत्वं न नेयः सत्काराणामीदृशानामशोकः ।
यः सावज्ञो माधवश्रीनियोगे पुष्पैः शम्सत्यादरं त्वत्प्रयत्ने ॥
विदूषकः - भो विस्रब्धो भूत्वा त्वं यौवनवतीमिमां पश्य ।
देवी - काम् ।
विदूषकः - भवति तपनीयाशोकस्य कुसुमशोभाम् ।
(सर्व उपविशन्ति ।)
राजा - (मालविकां विलोक्य ।
आत्मगतम् ।)
कष्टः खलु सन्निधिवियोगः ।
अहं रथाङ्गनामेव प्रिया सहचरीव मे ।
अननुज्ञातसम्पर्का धारिणी रजनीव नौ ॥
(प्रविश्य ।)
कञ्चुकी - विजयतां देवः ।
देव अमात्यो विज्ञापयति ।
तस्मिन् विदर्भविषयोपायने द्वे शिल्पकारिके मार्गपरिश्रमादलधुशरीरे इति पूर्वं न प्रवेशिते ।
सम्प्रति देवोपपस्थानयोग्ये संवृत्ते ।
तदाज्ञां देवो दातुमर्हतीति ।
राजा - प्रवेशय ते ।
कञ्चुकी - यदाज्ञापयति देवः ।
(इति निष्क्रम्य ताभ्यां सह पुनः प्रविश्य ।)
इत इतो भवत्यौ ।
प्रथमा - (जनान्तिकम् ।)
सखि मदनिके अपूर्वमपीदं राजकुलं प्रविशन्त्याः प्रसीदति मे हृदयम् ।
द्वितीया - ज्योत्स्निके ममाप्येवमेव ।
अस्ति खलु लोकप्रवादः आगामि सुखं दुःखं वा हृदयसमवस्था कथयतीति ।
प्रथमा - स सत्य इदानीं भवतु ।
कञ्चुकी - एष देव्या सह देवस्तिष्ठति ।
उपसर्पतां भवत्यौ ।
(उभे उपसर्पतः ।)
(मालविका परिव्राजिका च चेट्यौ दृष्ट्वा परस्परमवलोकयतः ।)
उभे - (प्रणिपत्य ।)
जयतु भर्ता ।
जयतु भट्टिनी ।
(राजाज्ञया उभे उपविष्टे ।)
राजा - कस्यां कलायामभिविनीते भवत्यौ ।
उभे - भर्तः सङ्गीतेऽभ्यन्तरे स्वः ।
राजा - देवि गृह्यतामनयोरन्यतरा ।
देवी - मालविके इतः पश्य ।
कतरा ते सङ्गीतसहकारिणी रोचते ।
उभे - (मालविकां दृष्ट्वा ।)
अहो भर्तृदारिका ।
(प्रणम्य ।)
जयतु जयतु भर्तृदारिका ।
(इति तया सह बाष्पं विसृजतः ।)
(सर्वे सविस्मयमवलोकयन्ति ।)
राजा - के भवत्यौ ।
का वेयम् ।
उभे - देव इयमस्माकं भर्तृदारिका ।
राजा - कथमिव ।
उभे - शृणोतु भर्ता ।
यः स भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो माधवसेनो नाम तस्येयं कनीयसी भगिनी मालविका नाम ।
देवी - कथं राजदारिकेयम् ।
चन्दनं खलु मया पादुकापरिभोगेण दूषितम् ।
राजा - अथात्रभवती कथमित्थम्भूता ।
मालविका - (निःश्वस्य ।
आत्मगतम् ।)
विधिनियोगेन ।
द्वितीया - शृणोतु भर्ता ।
दायादवशङ्गतेऽस्माकं भर्तृदारिके माधवसेने तस्यामात्येन आर्यसुमतिना अस्मादृशं परिजनमुज्झित्वा गूडमपनीतैषा ।
राजा - श्रुतपूर्वं मयैतत् ।
ततस्ततः ।
द्वितीया - एतावदेव ।
अतः परं न जानीमः ।
परिव्राजिका - अतः परमहं मन्दभाग्या कथयिष्यामि ।
उभे - भर्तृदारिके आर्यकौषिक्या इव स्वर्संयोगः ।
मालविका - ननु सैव ।
उभे - यतिवेषधारिण्यार्यकौशिकी दुःखेन विभाव्यते ।
भगवति वन्दावहे ।
परिव्राजिका - स्वस्ति भवतीभ्याम् ।
राजा - कथमाप्तवर्गोऽयं भगवत्याः ।
परिव्राजिका - एवमेतत् ।
विदूषकः - तेन हि कथयतु भगवत्यत्रभवत्या वृत्तान्तावशेषम् ।
परिव्राजिका - (सवैक्लव्यम् ।)
श्रूयतां तावत् ।
माधवसेनसचिवं सुमतिं ममाग्रजमवगच्छ ।
राजा - उपलब्धम् ।
ततस्ततः ।
परिव्राजिका - स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भवत्सम्बन्धापेक्षया पथिकसार्थं विदिशागामिनमनुप्रविष्टः ।
राजा - ततस्ततः ।
परिव्राजिका - स चाटव्यन्ते निविष्टो गताध्वा वणिग्जनो विश्रमितुम् ।
राजा - ततस्ततः ।
परिव्राजिका - ततः
तूणीरपट्टपरिणद्धभुजान्तरालमाकर्णलम्बिशिखिपिच्छकलापधारि ।
कोदण्डपाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम् ॥
(मालविका भयं रूपयति ।)
विदूषकः - भवति मा बिभेहि ।
अतिक्रान्तं खलु भगवती कथयति ।
राजा - ततस्ततः ।
परिव्राजिका - ततो मुहूर्तं बद्धयुद्धास्ते पराङ्मुखीकृताः सार्थवाहयोद्धारस्तस्करैः ।
राजा - भगवति अतः परमिदानीं कष्टं श्रोतव्यम् ।
परिव्राजिका - ततः स मत्सोदर्यः
इमां परीप्सुर्दुर्जाते पराभिभवकातराम् ।
भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥
प्रथमा - हा हतः सुमतिः ।
द्वितीय - अतः खलु भर्तृदारिकाया इयं समवस्था सम्वृत्ता ।
(परिव्राजिका बाष्पं विसृजति ।)
राजा - भगवति तनुभृतामीदृशी लोकयात्रा ।
न शोच्यस्तत्रभवान्सफलीकृतभतृपिण्डः ।
ततस्ततः ।
परिव्राजिका - ततोऽहं मोहमुपगता यावत्सम्ज्ञामुपलभे तावदियं दुर्लभदर्शना संवृत्ता ।
राजा - महत्खलु कृच्छ्रमनुभूतं भगवत्या ।
परिव्राजिका - ततो भ्रातुः शरीरमग्निसात्कृत्वा पुनर्नवीभूतवैधव्यदुःखया मया त्वदीयं देशमवतीर्येमे काषाये गृहीते ।
राजा - युक्तः सज्जनस्यैष पन्थाः ।
ततस्ततः ।
परिव्राजिका - तत इयमप्याटविकेभ्यो वीरसेनं वीरसेनाच्च देवीं गता देवीगृहे लब्धप्रवेशया मया पुनर्दृष्टा ।
इत्येतदवसानं कथायाः ।
मालविका - (आत्मगतम् ।)
किं नु खलु साम्प्रतं भर्ता भणति ।
राजा - अहो परिभवोपहारिणो विनिपाताः ।
कुतः ।
प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती ।
स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते ॥
देवी - भगवति त्वयाभिजनवतीं मालविकामनाचक्षाणयाऽसाम्प्रतं कृतम् ।
परिव्राजिका - शान्तं पापं शान्तं पापम् ।
कारणेन खलु मया नैभृत्यमवलम्बितम् ।
देवी - किमिव तत्कारणम् ।
राजा - यदि वक्तव्यं कथ्यताम् ।
परिव्राजिका - श्रूयताम् ।
इयं पितरि जीवति केनापि लोकयात्रागतेन सिद्धादेशेन साधुना मत्समक्षमादिष्टा सम्वत्सरमात्रमियं प्रेष्यभावमनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति ।
तदवश्यम्भाविनमादेशमस्यास्त्वत्पादशुश्रूषया परिणमन्तमवेक्ष्य कालप्रतीक्षया मया साधु कृतमिति पश्यामि ।
राजा - युक्ता प्रतीक्षा ।
कञ्चुकी - देव कथान्तरेणान्तरितम् ।
अमात्यो विज्ञापयति ।
विदर्भगतमनुष्ठेयमवधारितमस्माभिः ।
देवस्य तावदभिप्रेतं श्रोतुंइच्छामीति ।
राजा - मौद्गल्य तत्रभवतोर्भ्रात्रोर्यज्ञसेनमाधवसेनयोर्द्वैराज्यमिदानीमवस्थापयितुकामोऽस्मि ।
तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे ।
नक्तम्दिवं विभज्योभौ शीतोष्णकिरणाविव ॥
कञ्चुकी - देव एवममात्यपरिषदे निवेदयामि ।
राजा - (अङ्गुल्या अनुमन्यते ।)
(निष्क्रान्तः कञ्चुकी ।)
प्रथमा - (जनान्तिकं ।)
भर्तृदारिके दिष्ट्या भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमिष्यति ।
मालविका - एतत्तावद्बहु मन्तव्यं यज्जीवितसंशयान्मुक्तः ।
(प्रविश्य ।)
कञ्चुकी - विजयतां देवः ।
देव अमात्यो विज्ञापयति ।
कल्याणी देवस्य बुद्धिः ।
मन्त्रिपरिषदोऽप्येवमेव दर्शनम् ।
कुतः ।
द्विधा विभक्तां श्रियमुद्वहन्तौ धुरं रथाश्वाविह सङ्ग्रहीतुः ।
तौ स्थास्यतस्ते नृपती निदेशे परस्परावग्रहनिर्विकारौ ॥
राजा - तेन हि मन्त्रिपरिषदं ब्रूहि ।
सेनापतये वीरसेनाय लिख्यतामेवं क्रियतामिति ।
कञ्चुकी - यदाज्ञापयति देवः ।
(इति निष्क्रम्य सप्राभृतकं लेखं गृहीत्वा पुनः प्रविष्टः ।)
अनुष्ठिता प्रभोराज्ञा ।
अयं पुनरिदानीं देवस्य सेनापतेः पुष्पमित्रस्य सकाशात्सप्राभृतको लेखः प्राप्तः ।
प्रत्यक्षीकरोत्वेनं देवः ।
(राजा सहसोत्थाय सोपचारं गृहीत्वा प्राभृतकं परिजनायार्पयति ।)
(लेखं च नाट्येनोद्वेष्टयति ।)
देवी - (आत्मगतं ।)
अहो ततोमुखमेव नो हृदयम् ।
श्रोष्यामि तावद्गुरुजनस्य कुशलानन्तरं वसुमित्रस्य वृत्तान्तम् ।
अधिकारे खलु मे पुत्रकः सेनापतिना नियुक्तः ।
राजा - (उपविश्य वाचयति ।)
स्वस्ति ।
यज्ञशरणात्सेनापतिः पुष्पमित्रो वैदिशस्थं पुत्रमायुष्मन्तमग्निमित्रं स्नेहात्परिष्वज्यानुदर्शयति ।
विदितमस्तु ।
योऽसौ राजयज्ञदीक्षितेन मया राजपुत्रशतपरिवृतं वसुमित्रं गोप्तारमादिश्य संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोर्दक्षिणरोधसि चरन्नश्वानीकेन यवनानां प्रार्थितः ।
तत उभयोः सेनयोर्महानासीत्सम्मर्दः ।
(देवी विषादं नाटयति ।)
राजा - कथमीदृशं संवृत्तम् ।
(शेषं पुनर्वाचयति ।)
ततः परान्पराजित्य वसुमित्रेण धन्विना ।
प्रसह्य ह्नियमाणो मे वाजिराजो निवर्तितः ॥
देवी - अनेनाश्वस्तं मे हृदयम् ।
राजा - (लेखशेषं वाचयति ।)
सोऽहमिदानीमंशुमतेव सगरः पौत्रेण प्रत्याहृताश्वो यक्ष्ये ।
तदिदानीमकालहीनं विगतरोषचेतसा भवत वधूजनेन सह यज्ञसेवनायागन्तव्यमिति ।
राजा - अनुगृहीतोऽस्मि ।
परिव्राजिका - दिष्ट्या पुत्रविजयेन दम्पती वर्धेते ।
(देवी विलोक्य ।)
भर्त्रासि वीरपत्नीनां श्लाध्यानां स्थापिता धुरि ।
वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः ॥
विदूषकः - भवति परितुष्टोस्मि यत्पितरमनुगतो वत्सः ।
परिव्राजिका - कलभेन खलु यूथपतिरनुकृतः ।
कञ्चुकी - देव अयं कुमारः
नैतावता वीरविजृम्भितेन
चित्तस्य नो विस्मयमादधाति ।
यस्याप्रधृष्यः प्रभवस्त्वमुच्चैरग्नेरपां दग्धुरिवोरुजन्मा ॥
राजा - मौद्गल्य यज्ञसेनश्यालमूरीकृत्य मुच्यन्तां सर्वे बन्धनस्थाः ।
कञ्चुकी - यदाज्ञापयति देवः ।
(इति निष्क्रान्तः ।)
देवी - जयसेने गच्छ ।
इरावतीप्रमुखेभ्योऽन्तःपुरेभ्यः पुत्रस्य विजयवृत्तान्तं निवेदय ।
प्रतीहारी - तथा ।
(इति प्रस्थिता ।)
देवी - एहि तावत् ।
प्रतीहारी - (परिवृत्य ।)
इयमस्मि ।
देवी - (जनान्तिकम् ।)
यन्मयाशोकदोहदनियोगे मालविकायै प्रतिज्ञातं तदस्या अभिजनं च निवेद्य मम वचनेनेरावतीमनुनय ।
त्वयाहं सत्यान्न परिभ्रम्शयितव्येति ।
प्रतीहारी - यद्देव्याज्ञापयति ।
(इति निष्क्रम्य पुनः प्रविश्य ।)
भट्टिनि पुत्रविजयनिमित्तेन परितोषेणान्तःपुराणामाभरणानां मञ्जूषास्मि संवृत्ता ।
देवी - किमत्राश्चर्यम् ।
साधारणः खलु तासां मम चायमभ्युदयः ।
प्रतीहारी - (जनान्तिकं ।)
भट्टिनि इरावती पुनर्विज्ञापयति ।
सदृशं खलु देव्याः प्रभवन्त्या वचनं प्रथमसङ्कल्पितं न युज्यतेऽन्यथा कर्तुमिति ।
देवी - भगवति त्वयानुज्ञातेच्छाम्यार्यसुमतिना प्रथमसङ्कल्पितां मालविकामार्यपुत्राय प्रतिपादयितुम् ।
परिव्राजिका - इदानीमपि त्वमेवास्याः प्रभवसि ।
देवी - (मालविकां हस्ते गृहीत्वा ।)
इदमार्यपुत्रः प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु ।
(राजा सव्रीडं जोषमास्ते ।)
देवी - (सस्मितम् ।)
किमवधीरयति मामार्यपुत्रः ।
विदूषकः - भवति एष लोकव्यवहारः सर्वोपि नववरो लज्जातुरो भवति ।
(राजा विदूषकमवेक्षते ।)
विदूषकः - अथ वा देव्या प्रणयविशेषं दत्तदेवीशब्दां मालविकामत्रभवान्प्रतिग्रहीतुमिच्छति ।
देवी - एतस्या राजदारिकाया अभिजनेनैव दत्तो देवीशब्दः ।
किम् पुनरुक्तेन ।
परिव्राजिका - मा मैवम् ।
अप्याकरसमुत्पन्ना मणिजातिरसम्स्कृता ।
जातरूपेण कल्याणि न हि संयोगमर्हति ॥
देवी - (स्मृत्वा ।)
मर्षयतु भगवती ।
अभ्युदयकथयोचितं मया न लक्षितम् ।
जयसेने गच्छ तावत् ।
कौशेयपत्रोर्णमुपनय ।
प्रतीहारी - यद्देव्याज्ञापयति ।
(इति निष्क्रम्य पत्रोर्णं गृहीत्वा पुनः प्रविश्य ।)
देवि एतत् ।
देवी - (मालविकामवगुण्ठनवतीं कृत्वा ।)
आर्यपुत्र इदानीमिमां प्रतीच्छतु ।
राजा - देवि त्वच्छासनादप्रत्युत्तरा वयम् ।
परिव्राजिका - हन्त प्रतिगृहीता ।
विदूषकः - अहो देव्या अत्रभवतोऽनुकूलता ।
(देवी परिजनमवलोकयति ।)
परिव्राजिका - (मालविकामुपेत्य ।)
जयतु भट्टिनी ।
(देवी परिव्राजिकोमवेक्षते ।)
परिव्राजिका - नैतच्चित्रं त्वयि ।
प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम् ॥
(प्रविश्य ।)
निपुणिका - जयतु भर्ता ।
इरावती विज्ञापयति ।
यदुपचारातिक्रमेण तदा भर्तुरपराद्धं तत्स्वयमेव भर्तुरनुकूलं नाम मयाचरितमः ।
साम्प्रतं पूर्णमनोरथेन भर्त्रा प्रसादमात्रेण सम्भावयितव्येति ।
देवी - निपुणिके अवश्यं तस्याः सदेशमनुज्ञास्यत्यार्यपुत्रः ।
निपुणिका - अनुगृहीतास्मि ।
परिव्राजिका - देवाहममुना भवत्सम्बन्धेन चरितार्थं माधवसेनं सभाजयितुमिच्छामि यदि मे तव प्रसादः ।
देवी - भगवति न युक्तमस्मान्परित्यक्तुम् ।
राजा - भगवति मदीयेषु लेखेषु तत्रभवते त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि ।
परिव्राजिका - युवयोः स्नेहेन परवानयं जनः ।
देवी - आज्ञापयत्वार्यपुत्रः किम् भूयोपि प्रियमनुतिष्ठामि ।
राजा - किमतः परमपि प्रियमस्ति ।
तथापीदमस्तु ।
त्वं मे प्रसादसुमुखी भव देवि नित्यमेतावदेव
हृदये प्रतिपालनीयम् ।
(भरतवाक्यम् ।)
आशास्यमीतिविगमप्रभृति प्रजानां
सम्पद्यते न खलु गोप्तरि नाग्निमित्रे ॥
(इति निष्क्रान्ताः सर्वे ।)