०४

चतुर्थोऽङ्कः ।
(ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च ।)
राजा - (आत्मगतम् ।)
तामाश्रित्य श्रुतिपथगतामास्थया बद्धमूलः सम्प्राप्तायां नयनविषयं रूढरागप्रवालः ।
हस्तस्पर्शो मुकुलित इव व्यक्तरोमोद्गमत्वात्कुर्यात्क्लान्तं मनसिजतरुर्मां रसज्ञं फलस्य ॥
(प्रकाशम् ।)
सखे गौतम ।
प्रतीहारी - जयतु भर्ता ।
असन्निहितो गौतमः ।
राजा - (आत्मगतम् ।)
आम् ।
मालविकावृत्तान्तज्ञानाय मया प्रेषितः ।
(प्रविश्य ।)
विदूषकः - वर्धतां भवान् ।
राजा - जयसेने जानीहि तावत्क्व देवी धारिणी कथं वा सरुजचरणत्वाद्विनोद्यत इति ।
प्रतीहारी - यद्देव आज्ञापयति ।
(इति निष्क्रान्ता ।)
राजा - सखे को वृत्तान्तस्तत्रभवत्यास्ते सख्याः ।
विदूषकः - यो बिडालगृहीतायाः परभृतिकायाः ।
राजा - (सविषादम् ।)
कथमिव ।
विदूषकः - सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूगृहे मृत्युमुख इव निक्षिप्ता ।
राजा - ननु मत्सम्पर्कमुपलम्य ।
विदूषकः - अथ किम् ।
राजा - क एवं विमुखोऽस्माकं येन चण्डीकृता देवी ।
विदूषकः - शृणोतु भवान् ।
परिव्राजिकया मे कथितम् ह्यः ।
किल तत्रभवतीरावती रुजाक्रान्तचरणां देवीं सुखं प्रष्टुमागता ।
राजा - ततस्ततह् ।
विदूषकः - ततह् सा देव्या पृष्टा ।
किं न्ववलोकितो वल्लभजन इति ।
तयोक्तम् ।
मन्दो व उपचारो यत्परिजने सङ्क्रान्तं वल्लभत्वं न ज्ञायते ।
राजा - निर्भेदादृतेऽपि मालविकायामयमुपन्यासः शङ्कयति ।
विदूषकः - ततस्तयानुबध्यमानया भवतोऽविनयमन्तरेण परिगृहीतार्था कृता देवी ।
राजा - अहो दीर्घरोषता तत्रभवत्याः ।
अतः परं कथय ।
विदूषकः - किमतः परम् ।
मालविकाबकुलावलिका च निगडपद्यावदृष्टसूर्यपादं पातालवासं नागकन्यके इवानुभवतः ।
राजा - कष्टं कष्टम् ।
मधुरस्वरा परभृता भ्रमरी च विबुद्धचूतसङ्गिन्यौ ।
कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते ॥
अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात् ।
विदूषकः - कथं भविष्यति ।
यत्सारभाण्डगृहे व्यापृता माधविका देव्या सन्दिष्टा ।
ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या त्वया हताशा मालविका बकुलावलिका चेति ।
राजा - (निःश्वस्य ।
सपरामर्शम् ।)
सखे किमत्र कर्तव्यम् ।
विदूषकः - (विचिन्त्य ।)
अस्त्यत्रोपायः ।
राजा - क इव ।
विदूषकः - (सदृष्टिक्षेपम् ।)
कोऽप्यदृष्टः शृणोति ।
कर्णे ते कथयामि ।
(इत्युपश्लिष्य कर्णे ।)
एवमिव ।
(इत्यावेदयति ।)
राजा - (सहर्षम् ।)
सुष्ठु चिन्तितम् ।
प्रयुज्यतां सिद्धये ।
(प्रविश्य ।)
प्रतीहारी - देव प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति ।
राजा - तेन ह्यस्मत्प्रवेशयोग्योऽयमवसरः ।
विदूषकः - तद्गच्छतु भगवान् ।
अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि ।
राजा - जयसेनायास्तावत्संवेद्य गच्छ ।
विदूषकः - तथा ।
(कर्णे ।)
भवति एवमिव ।
(इत्यावेद्य निष्क्रान्तः ।)
राजा - जयसेने प्रवातशयनमार्गमादेशय ।
प्रतीहारी - इत इतो देवः ।
(ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः ।)
देवी - भगवति रमणीयं कथावस्तु ।
ततस्ततः ।
परिव्राजिका - (सदृष्टिक्षेपम् ।)
देवि अतः परं पुनः कथयिष्यामि ।
आत्रभवान्विदिशेश्वरः सम्प्राप्तः ।
देवी - अहो आर्यपुत्रः ।
(इत्युत्थातुमिच्छति ।)
राजा - अलमलमुपचारयन्त्रणया ।
अनुचितनूपुरविरहं नार्हसि तपनीयपीठकालम्बि ।
चरणं रुजा परीतं कलभाषिञि मां च पीडयितुम् ॥
धारिणी - जयत्वार्यपुत्रः ।
परिव्राजिका - विजयतां देवः ।
राजा - (परिव्राजिकां प्रणम्योपविश्य ।)
देवि अपि सह्या ते वेदना ।
धारिणी - अस्ति मे विशेषः ।
(ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्टः सम्भ्रान्तो विदूषकः ।)
विदूषकः - परित्रायतां परित्रायतां भवान् ।
सर्पेण दष्टोऽस्मि ।
(सर्वे विषण्णाः ।)
राजा - कष्टं कष्टं ।
क्व भवान्परिभ्रान्तः ।
विदूषकः - देवीं द्रक्ष्यामीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि ।
देवी - हा धिक् हा धिक् ।
अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जातास्मि ।
विदूषकः - तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि ।
नन्वेते द्वे दंशपदे ।
परिव्राजिका - तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते ।
स तावदस्य क्रियताम् ।
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणामायुष्याः प्रतिपत्तयः ॥
राजा - सम्प्रति विषवैद्यानां कर्म ।
जयसेने क्षिप्रमानीयतां ध्रुवसिद्धिः ।
प्रतिहारी - यद्देव आज्ञापयति ।
(इति निष्क्रान्ता ।)
विदूषकः - अहो पापेन मृत्युना गृहीतोऽस्मि ।
राजा - मा कातरो भूः ।
अविषोऽपि कदाचिद् दंशो भवेत् ।
विदूषकः - कथं न भेष्यामि ।
सिमसिमायन्ति मेऽङ्गानि ।
(इति विषवेगं रूपयति ।)
देवी - हा दर्शितमशुभं विकारेण (विषारेण ।)
अवलम्बध्वं ब्राह्मणम् ।
(परिजनः ससम्भ्रममवलम्बते ।)
विदूषकः - (राजानं विलोक्य ।)
भोः भवतो बाल्यात्प्रियवयस्योऽस्मि ।
तद्विचार्यापुत्राया मे जनन्या योगक्षेमं वह ।
राजा - मा भैषीः ।
स्थिरो भव ।
अचिरात्त्वां वैद्यश्चिकित्सते ।
(प्रविष्य ।)
जयसेना - देव आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति ।
इहैवानीयतां गौतम इति ।
राजा - तेन हि वर्षवरपरिगृहीतमेनं तत्रभवतः सकाशं प्रापय ।
जयसेना - तथा ।
विदूषकः - (देवीं विलोक्य ।)
भवति जीवेयं वा न वा ।
यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मर्षय ।
देवी - दीर्घायुर्भव ।
(निष्क्रान्तौ विदूषकः प्रतीहारी च ।)
राजा - प्रकृतिभीरुस्तपस्वी ।
ध्रुवसिद्धेरपि यथार्थनाम्नः सिद्धिं न मन्यते ।
जयसेना - जयतु भर्ता ।
ध्रुवसिद्धिर्विज्ञापयति ।
उदकुम्भविधाने सर्पमुद्रितं किमपि कल्पयितव्यम् ।
तदन्विष्यतामिति ।
देवी - इदं सर्पमुद्रितमङ्गुलीयकम् ।
पश्चान्मम हस्ते देह्येतत् ।
(इति प्रयच्छति ।)
(प्रतीहारी गृहीत्वा प्रस्थिता ।)
राजा - जयसेने कर्मसिद्धावाशु प्रतिपत्तिमानय ।
प्रतीहारी - यद्देव आज्ञापयति ।
परिव्राजिका - यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः ।
राजा - भूयादेवम् ।
(प्रविश्य ।)
जयसेना - जयतु देवः ।
निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः ।
देवी - दिष्ट्या वचनीयान्मुक्तास्मि ।
प्रतीहारी - एष पुनरमात्यो वाहतको विज्ञापयति ।
राजकार्यं बहु मन्त्रयितव्यम् ।
तद्दर्शनेनानुग्रहमिच्छामीति ।
देवी - गच्छत्वार्यपुत्रः कार्यसिद्धये ।
राजा - आतपाक्रान्तोऽयमुद्देशः ।
शीतक्रिया चास्या रुजः प्रशस्ता ।
तदन्यत्र नीयतां शयनीयम् ।
देवी - बालिकाः आर्यपुत्रवचनमनुतिष्ठत ।
परिजानः - तथा ।
(निष्क्रान्ता देवी पारिव्राजिका परिजनश्च ।)
राजा - जयसेने गूढेन पथा मां प्रमदवनं प्रापय ।
प्रतीहारी - इत इतो देवः ।
राजा - जयसेने समाप्तकृत्यो ननु गौतमः ।
प्रतीहारी - अथ किम् ।
राजा - इष्टाधिगमनिभित्तं प्रयोगमेकान्तसाधुमपि मत्वा ।
सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः ॥
(प्रविश्य ।)
विदूषकः - वर्धतां भवान् ।
सिद्धानि ते मङ्गलकर्माणि ।
राजा - जयसेने त्वमपि स्वनियोगमशून्यं कुरु ।
प्रतीहारी - यद्देव आज्ञापयति ।
(इति निष्क्रान्ता ।)
राजा - वयस्य क्षुद्रा माधविका ।
न खलु किञ्चिद्विचारितमनया ।
विदूषकः - देव्या अङ्गुलीयकमुद्रां दृष्ट्वा कथं विचारयति ।
राजा - न खलु मुद्रामधिकृत्य ब्रवीमि ।
एतयोर्बद्धयोः किन्निमित्तोऽयं मोक्षः ।
किं देव्याः परिजनमतिक्रम्य भवान्सन्दिष्ट इत्येवमनया प्रष्टव्यम् ।
विदूषकः - ननु पृष्टोऽस्मि ।
पुनर्मन्दस्यापि मे तस्मिन्प्रत्युत्पन्ना मतिः ।
राजा - कथ्यताम् ।
विदूषकः - भणितं मया ।
दैवचिन्तकैर्विज्ञापितो राजा सोपसर्गं वो नक्षत्रं सर्वबन्धनमोक्षः क्रियतामिति ।
राजा - (सहर्षम् ।)
ततस्ततः ।
विदूषकः - तच्छ्रुत्वा देव्येरावतीचित्तं रक्षन्त्या राजा किल मोचयतीत्यहं सन्दिष्ट इति ।
ततो युज्यत इति तथा सम्पादितोऽर्थः ।
राजा - (विदूषकं परिष्वज्य ।)
सखे प्रियोऽहं तव ।
न हि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् ।
कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलभ्यते ॥
विदूषकः - त्वरतां भवान् ।
षमुद्रगृहे सखीसहिता मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि ।
राजा - अहमेनां सम्भावयामि ।
गच्छाग्रतः ।
विदूषकः - एतु भवान् ।
(परिक्रम्य ।)
इदं समुद्रगृहम् ।
राजा - (साशङ्कम् ।)
वयस्य एषा कुसुमावचयव्यग्रहस्ता सख्यास्ते इरावत्याः परिचारिका चन्द्रिका सन्निकृष्टमागच्छति ।
इतस्तावदावां भित्तिगूढौ भवावः ।
विदूषकः - अहो कुम्भीलकैः कामुकैश्च परिहरणीया खलु चन्द्रिका ।
(उभौ यथोक्तं कुरुतः ।)
राजा - गौतम कथं नु ते सखी मां प्रतिपालयति ।
एहि ।
एना गवाक्षमाश्रित्य विलोकयावः ।
विदूषकः - तथा ।
(उभौ विलोकयन्तौ तिष्ठतः ।)
(ततः प्रविशति मालविका बकुलावलिका च ।)
बकुलावलिका - सखि प्रणम भर्तारं ।
राजा - मन्ये प्रतिकृतिं मे दर्शयति ।
मालविका - (सहर्षम् ।)
नमस्ते ।
(द्वारमवलोक्य ।
सविषादम् ।)
सखि मां विप्रलम्भयसि ।
राजा - सखे हार्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि ।
सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य ।
वदनेन सुवदनायास्ते समवस्थे क्षणादूढे ॥
बकुलावलिका - नन्वेष चित्रगते भर्ता ।
उभे - (प्रणिपत्य ।)
जयतु भर्ता ।
मालविका - सखि तदा सम्मुखस्थिता भर्तू रूपदर्शनेन न तथा वितृष्णास्मि यथाद्य ।
मया विभावितश्चित्रगतदर्शनो भर्ता ।
विदूषकः - श्रुतं भवता ।
अत्रभवती चित्रे यथा दृष्टस्तथा न दृष्टो भवानिति मन्त्रयते ।
मुधेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसि ।
राजा - सखे कुतूहलवानपि निसर्गशालीनः स्त्रीजनः ।
पश्य ।
कार्त्स्न्येन निर्वर्णयितुं च
रूपमिच्छन्ति तत्पूर्वसमागमानाम् ।
न च प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि ॥
मालविका - सखि कैषाः पार्श्वपरिवृत्तवदनेनं भर्त्रा स्निग्धया दृष्ट्या निध्यायते ।
बकुलावलिका - नन्वियं पार्श्वगतेरावती ।
मालविका - सखि अदक्षिण इव भर्ता मे प्रतिभाति यः सर्वं देवीजनमुज्झित्वैकस्या मुखे बद्धलक्ष्यः ।
बकुलावलिका - (आत्मगतम् ।)
चित्रगतं भर्तारं परमार्थतो गृहीत्वासूयति ।
भवतु ।
क्रीडिष्यामि तावदेतया ।
(प्रकाशम् ।)
सखि भर्तुर्वल्लभैषा ।
मालविका - ततः किमिदानीमात्मानमायासयिष्यामि ।
(इति सासूयं परावर्तते ।)
राजा - सखे पश्य ।
भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं सासूयमाननमितः परिवर्तयन्त्या ।
कान्तापराधकुपितेष्वनया विनेतुः
सन्दर्शितेव ललिताभिनयस्य शिक्षा ॥
विदूषकः - अनुनयसज्ज इदानीं भव ।
मालविका - आर्यगौतमोऽप्यत्रैव सेवत एनम् ।
(पुनः स्थानान्तराभिमुखी भवितुमिच्छति ।)
बकुलावलिका - (मालविकां रुद्ध्वा ।)
न खलु कुपितेदानीं त्वम् ।
मालविका - यदि चिरं कुपितामेव मां मन्यस एष प्रत्यानीयते कोपः ।
राजा - (उपेत्य ।)
कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेतन्मे ।
ननु तव साक्षादयमहमनन्यसाधारणो दासः ॥
बकुलावलिका - जयतु भर्ता ।
मालविका - (आत्मगतम् ।)
कथं चित्रगतो भर्ता मयासूयितः ।
(इति सव्रीडवदनाऽज्जलिं करोति ।)
(राजा मदनकातर्यं रुपयति ।)
विदूषकः - किं भवानुदासीन इव ।
राजा - अविश्वसनीयत्वात्सख्यास्तव ।
विदूषकः - अत्रभवत्यामयं तवाविश्वासः ।
राजा - श्रूयताम् ।
पथि नयनयोः स्थित्वा स्वप्ने तिरोभवति क्षणात्सरति
सहसा बाह्वोर्मध्यं गतापि सखी तव ।
मनसिजरुजा क्लिष्टस्यैवं समागममायया
कथमिव सखे विश्रब्धं स्यादिमां प्रति मे मनः ॥
बकुलावलिका - सखि बहुशः किल भर्ता विप्रलब्धः ।
इदानीं तावदात्मा विश्वसनीयः क्रियताम् ।
मालविका - सखि मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तुर्दुर्लभ आसीत् ।
बकुलावलिका - भर्ता कथयत्वस्या उत्तरम् ।
राजा - उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥
बकुलावलिका - अनुगृहीते स्वः ।
विदूषकः - (परिक्रम्य ससम्भ्रमम् ।)
बकुलावलिके एष बालाशोकवृक्षस्य पल्लवानि लङ्घयति हरिणः ।
एहि निवारयाव एनम् ।
बकुलावलिका - तथा ।
(इति प्रस्थिता ।)
राजा - वयस्य एवमेवास्मिन्रक्षणक्षणेऽवहितेन त्वया भवितव्यम् ।
विदूषकः - एवमपि गौतमः सन्दिश्यते ।
बकुलावलिका - (परिक्रम्य ।)
आर्य गौतम अहमप्रकाशे तिष्ठामि ।
त्वं द्वाररक्षको भव ।
विदूषकः - युज्यते ।
(निष्क्रान्ता बकुलावलिका ।)
विदूषकः - इदं तावत्स्फटिकस्थलमाश्रितो भवामि ।
(तथा कृत्वा ।)
अहो सुखस्पर्शता शिलाविशेषस्य ।
(इति निद्रायते ।)
(मालविका ससाध्वसं तिष्ठति ।)
राजा - विसृज सुन्दरि सङ्गमसाध्वसं तव चिरात्प्रभृति प्रणयोन्मुखे ।
परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥
मालविका - देव्या भयेनात्मनः प्रियं कर्तुं न परयामि ।
राजा - अयि न भेतव्यम् ।
मालविका - (सोपालम्भम् ।)
यो न बिभेति स मया भट्टिनीदर्शने दृष्टसामर्थ्यो भर्ता ।
राजा - दाक्षिण्यं नाम बिम्बोष्ठि बैम्बिकानां कुलव्रतम् ।
तन्मे दीघाक्षि ये प्राणास्ते त्वदाशनिबन्धनाः ॥
तदनुगृह्यतां चिरानुरक्तोऽयं जनः ।
(इति संश्लेषमभिनयति ।)
(मालविका नाट्येन परिहरति ।)
राजा - (आत्मगतम् ।)
रमणीयः खलु नवाङ्गनानां मदनविषयव्यापारः ।
तथा हि ।
हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलङ्गुलिं हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलचक्षुरुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे ॥
(ततः प्रविशतीरावती निपुणिका च ।)
इरावती - हञ्जे निपुणिके सत्यं त्वं परिगतार्था चन्द्रिकया समुद्रगृहालिन्दे शयित एकाकी आर्यगौतमो दृष्ट इति ।
निपुणिका - अन्यथा कथं भाट्टिन्यै विज्ञापयामि ।
इरावती - तेन हि तत्रैव गच्छामः संशयान्मुक्तमार्यपुत्रस्य प्रियवयस्यं प्रष्टुं च ।
निपुनिका - सावशेषमिव भट्टिन्या वचनम् ।
इरावती - चित्रगतमार्यपुत्रं प्रसादायितुं च ।
निपुणिका - अथ कथमिदानीं भर्तैव न प्रसाद्यते ।
इरावती - मुग्धे यादृशश्चित्रगतस्तादृश एवान्यसङ्क्रान्तहृदय आर्यपुत्रः ।
केवलमुपचारातिक्रमं प्रमार्जितुमयमारम्भः ।
निपुणिका - इत इतो भट्टिनी ।
(उभे परिक्रामतः ।)
(प्रविश्य ।)
चेटी - जयतु भट्टिनी ।
देवी भणति ।
न मे एष मत्सरस्य कालः ।
तव खलु बहुमानः वर्धयितुं वयस्यया सह निगडबधने कृता मालविका ।
यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तुं तथा करोमि ।
यत्तवेष्टं तन्मे भणेति ।
इरावती - नागरिके विज्ञापय देवीम् ।
का वयं भट्टिनीं नियोजयितुम् ।
परिजननिगडनेन दर्शितो मय्यनुग्रहः ।
कस्य वान्यस्य प्रसादेनायं जनो वर्धत इति ।
चेटी - तथा ।
(इति निष्क्रान्ता ।)
निपुणिका - (परिक्रम्यावलोक्य च ।)
भट्टिनि एष द्वारदेशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौतम आसीन एव निद्रायते ।
इरावती - अत्याहितम् ।
न खलु सावशेषो विषविकारो भवेत् ।
निपुणिका - प्रसन्नमुखवर्णो दृश्यते ।
अपि च ध्रुवसिद्धिना चिकित्सितः ।
तदस्याशङ्कनीयं पापम् ।
विदूषकः - (उत्स्वप्रायते ।)
भवति मालविके -
निपुणिका - श्रुतं भट्टिन्या ।
कस्यैष आत्मनीनो हताशः कितवः ।
सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा साम्प्रतं मालविकामुत्स्वप्नायते ।
विदूषकः - इरावतीमतिक्रामन्ती भव ।
निपुणिका - एतदत्याहितम् ।
इमं भुजङ्गभीरुकं ब्रह्मबन्धुमनेन भुजङ्गकुटिलेन दण्डकाष्ठेन स्तम्भान्तरिता ब्ःआययिष्यामि ।
इरावती - अर्हत्येव कृतघ्न उपद्रवस्य ।
(निपुणिका विदूषकस्योपरि दण्डकाष्टं पातयति ।)
विदूषकः - (सहसा प्रबुध्य ।)
अविधा अविधा ।
भो वयस्य सर्पो म उपरि पतितः ।
राजा - (सहसोपसृत्य ।)
सखे न भेतव्यं न भेतव्यम् ।
मालविका - (अनुसृत्य ।)
भर्तः मा तावत्सहसा निष्क्राम ।
सर्प इति भण्यते ।
इरावती - हा धिक् हा धिक् ।
भर्तेत एव धावति ।
विदूषकः - (सप्रहासम् ।)
कथं दण्डकाष्ठमेतत् ।
अहं पुनर्जाने यन्मया केतकीकण्टकैदंशं कृत्वा सर्पस्य इव दंशः कृतस्तन्मे फलितमिति ।
(प्रविष्य पटाक्षेपेण ।)
बकुलावलिका - मा तावद्भर्ता प्रविषतु ।
इह कुटिलगतिः सर्प इव दृष्यते ।
इरावती - (स्तम्भान्तरिता राजानमुपेत्य ।)
अपि निर्विघ्नमनोरथो दिवासङ्केतो मिथुनस्य ।
(सर्वे इरावतीं दृष्ट्वा सम्भ्रान्ताः ।)
राजा - प्रिये अपूर्वोऽयमुपचारः ।
इरावती - बकुलावलिके दिष्ट्या दूत्याधिकारविषया सम्पूर्णा ते प्रतिज्ञा ।
बकुलावलिका - प्रसीदतु भट्टिनी ।
किं नु खलु दर्दुरा व्याहरन्तीति देवः पृथिवीं विस्मरति ।
विदूषकः - मा तावत् ।
भवत्या दर्शनमात्रेणात्रभवान्प्रणिपातलङ्घनं विस्मृतः ।
भवती पुनरद्यापि प्रसादं न गृह्णाति ।
इरावती - कुपितेदानीमहं किं करिष्यामि ।
राजा - अस्थाने कोप इत्यनुपपन्नं त्वयि ।
तथा हि ।
कदा मुखं वरतनु कारणादृते
तवागतं क्षणमपि कोपपात्रताम् ।
अपर्वणि ग्रहकलुषेन्दुमण्डला
विभावरी कथय कथं भविष्यति ॥
इरावती - अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण ।
अन्यसङ्क्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयं ततो हास्या भवेयम् ।
राजा - त्वमन्यथा कल्पयसि ।
अहं पुनः सत्यमेव कोपस्थानं न पश्यामि ।
कुतः ।
नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो बन्धम् ।
इति मोचिते मयैते प्रणिपतितुं मामुपगते च ॥
इरावती - निपुणिके गच्छ देवीं विज्ञापय ।
दृष्टो भवत्याः पक्षपातो नन्वद्येति ।
निपुणिका - तथा ।
(इति निष्क्रान्ता ।)
विदूषकः - (आत्मगतम् ।)
अहो अनर्थः सम्पतितः ।
बन्धनभ्रष्टो गृहकपोतो चिल्लाया मुखे पतितः ।
(प्रविश्य ।)
निपुणिका - (अपवार्य ।)
भट्टिनि यदृच्छादृष्टया माधविकया आख्यातम् ।
एवं खल्वेतन्निर्वृत्तमिति ।
(इति कर्णे कथयति ।)
इरावती - (आत्मगतम् ।)
उपपन्नम् ।
सत्यमम्यमत्र ब्रह्मबन्धुना कृतः प्रयोगः ।
(विदूषकं विलोक्य ।
प्रकाशम् ।)
इयमस्य कामतन्त्रसचिवस्य नीतिः ।
विदूषकः - भवति यदि नीतेरेकमप्यक्षरं पठेयं तदा गायत्रीमपि विस्मरेयम् ।
राजा - (आत्मगतम् ।)
कथं नु खल्वस्मात्सङ्कटादात्मानं मोचयिष्यामि ।
(प्रविश्य ।)
जयसेना - (सावेगम् ।)
देव कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवत्त्रासिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना न किमपि प्रकृतिं प्रतिपद्यते ।
राजा - कष्टम् ।
कातरो बालभावः ।
इरावती - (सावेगम् ।)
त्वरतामार्यपुत्र एनां समाश्वासयितुम् ।
मास्याः सन्त्रासजनितो विकारो वर्धताम् ।
राजा - अयमेनां सञ्ज्ञापयामि ।
(इति सत्वरं परिक्रामति ।)
विदूषकः - (आत्मगतम् ।)
साधुरे पिङ्गलवानर ।
साधु परित्रातस्त्वया सङ्कटात्स्वपक्षः ।
(निष्क्रान्तः सवयस्यो राजा इरावती निपुणिका प्रतीहारी च ।)
मालविका - सखि देवीं चिन्तयित्वा वेपते मे हृदयम् ।
न जानेऽतः परं किं वानुभवितव्यं भविष्यतीति ।
(नेपथ्ये ।)
आश्चर्यमाश्चर्यम् ।
अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः सन्नद्धस्तपनीयाशोकः ।
यावद्देव्यै निवेदयामि ।
(श्रुत्वा प्रहृष्टे ।)
बकुलावलिका - आश्वसितु सखी ।
सत्यप्रतिज्ञा देवी ।
मालविका - तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः ।
बकुलावलिका - तथा ।
(इति निष्क्रान्ते ।)
इति चतुर्थोऽङ्कः ।