तृतीयोऽङ्कः ।
(ततः प्रविशति परिव्राजिकायाः परिचारिको ।)
परिचारिका - आज्ञप्तास्मि भगवत्या उपायनार्थं बीजपूरकं गृहीस्त्वागच्छेति ।
तद्यावत्प्रमदवनपालिकां मधुकरिकामन्विष्यामि ।
(परिक्रम्यावलोक्य च ।)
एषा तपनीयाशोकमवलोकयन्ती मधुकरिका तिष्ठति ।
यावदेनामुपसर्पामि ।
(ततः प्रविशत्युद्यानपालिका ।)
प्रथमा - (उपसृत्य ।)
मधुकरिके अपि सुखस्त उद्यानव्यापारः ।
द्वितीया - अहो समाभृतिका ।
सखि स्वागतं ते ।
समा - सखि भगवत्याज्ञापयति ।
अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्राष्टव्या ।
तद्बीजपूरकेण शुश्रूषितुमिच्छामीति ।
मधुक - ननु सन्निहितं बीजपूरकं ।
कथय तावदन्योन्यसङ्घर्षितयोर्नाट्याचार्ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसित इति ।
समा - द्वावपि किलागमिनौ प्रयोगनिपुणौ च ।
किं तु शिष्यागुणविशेषेणोन्नमितो गणदासः ।
मधु - अथ मालविकागतं कौलीनं किं श्रूयते ।
समा - बलवत्खलु साधिलाषो तस्यां भर्ता ।
केवलं देव्या धारिण्याश्चित्तं रक्षन्नात्मनः प्रभुत्वं न दर्शयति ।
मालविकाप्येषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लायमाना लक्ष्यते ।
अतः परं न जाने ।
विसृज माम् ।
मधु - एतच्छाखावलम्बितं बीजपूरकं गृहाण ।
समा - (नाट्येन गृहीत्वा ।)
सखि त्वमप्यतः पेशलतरं सधुजनशुश्रूषायाः फलमनुभविष्यसि ।
(इति प्रस्थिता ।)
मधु - सखि सममेव गच्छावः ।
अहमप्यस्य चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ।
समा - युज्यते ।
अधिकारः खलु तव ।
(इति निष्क्रान्ते ।)
प्रवेशकः ।
(ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।)
राजा - (आत्मानं विलोक्य ।)
शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदय परितापं वहसि किम् ॥
विदूषकः - अलं भवतो धीरतामुज्झित्वा परिदेवितेन ।
दृष्टा खलु मया तत्रभवत्या मालविकायाः प्रियसखी बकुलावलिका ।
श्राविता च मया यद्भवता सन्दिष्टम् ।
राजा - ततः किमुक्तवती ।
विदूषकः - विज्ञापय भर्तारम् ।
अनुगृहीतास्म्यनेन नियोगेन ।
किं तु सा तपस्विनी देव्याधिकतरं रक्ष्यमाणा नागरक्षित इव निधिर्ना
सुखं समासादयितव्या ।
तथापि घटयिष्यामीति ।
राजा - भगवन् सङ्कल्पयोने प्रतिबन्धवत्स्वपि विषयेष्वभिनिवेश्य किं तथा प्रहरसि यथा जनोऽयं कालान्तरक्षमो न भवति ।
(सविस्मयम् ।)
क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् ।
मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥
विदूषकः - ननु भणामि तस्मिन्साधनीये कृत उपक्षेप इति ।
तत्पर्यवस्थापयतु भवानात्मानम् ।
राजा - अथेमं दिवसशेषमुचितव्यापारपराङ्मुखेन चेतसा क्व नु खलु यापयामि ।
विदूषकः - नन्वद्यैव प्रथमं वसन्तावतारसूचकानि रक्ताशोककुसुमान्युपायनं प्रेष्य नववसन्तोत्सवापदेशेन इरावत्या निपुणिकामुखेन प्रार्थितो भवानिच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति ।
भवताप्यस्यै रतिज्ञातम् ।
तत्प्रमदवनमेव गच्छावः ।
राजा - न क्षममिदम् ।
विदूषकः - कथमिव ।
राजा - वयस्य निसर्गनिपुणाः स्त्रियः ।
कथं मामन्यसङ्क्रान्तहृदयमुपलालयन्तमपि ते सखी न लक्षयिष्यति ।
अतः पश्यामि ।
उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः ।
उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥
विदूषकः - नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
राजा - (विचिन्त्य ।)
तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः - इत इतो भवान् ।
(उभौ परिक्रामतः ।)
विदूषकः - वसन्तः किलैताभिः पवनचलिताभिः पल्लवाङ्गुलीभिस्त्वरयतीव भवन्तमेतत्प्रमदवनं प्रविशेति ।
राजा - (स्पर्शसुखं रूपयित्वा ।)
अभिजातः खलु वसन्तः ।
सखे पश्य ।
आमत्तानां श्रवणसुब्ःअगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥
विदूषकः - प्रविश निर्वृतिलाभाय ।
(उभौ प्रविशतः ।)
विदूषकः - भो वयस्य अवधानेन तावद् दृष्टिं देहि ।
एतत्खलु
भवन्तमिव विलोभयितुकामया मधुलक्ष्मया युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।
राजा - ननु विस्मयादवलोकयामि ।
रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः
प्रत्याख्यातविशंषकं कुरवकं श्यामावदातारुणम् ।
आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विर् फाञ्चनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥
(उभौ उद्यानशोभां निर्वर्णयतः ।)
(ततः प्रविशति पर्युत्सुका मालविका ।)
मालविका - अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावल्लज्जे ।
कुतो विभवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् ।
न जानेऽप्रतीकारगुरुकां वेदनां कियन्तं कालं मदनो मां नेष्यतीति ।
(कतिचित्पदानि गत्वा ।)
कुत्र नु प्रस्थितास्मि ।
(विचिन्त्य ।)
आम् सन्दिष्टास्मि देव्या ।
गौतमचापलाद्दोलापरिभ्रष्टायाः सरुजौ मे चरणौ ।
त्वं तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तय ।
यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति ततोऽहं - (अन्तरा निःश्वस्य ।)
- अभिलाषपूरयितृकं प्रसादं दास्यामीति ।
यावन्नियोगभूमिं प्रथमं गता भवामि ।
यावदनुपदं मम चरणालङ्कारहस्तया बकुलावलिकयागन्तव्यं परिदेवयिष्ये तावद्विस्रबधं मुहूर्तकम् ।
(इति परिक्रामति ।)
विदूषकः - (दृष्ट्वा ।)
हि हि इयं खलु शीधुपानोद्वेजितस्य मत्स्यण्डिका उपनता ।
राजा - अयि किमेतत् ।
विदूषकः - एषा खलु नातिपर्याप्तवेषा पर्युत्सुकेवैकाकिनी मालविका अदूरे वर्तते ।
राजा - (सहर्षम् ।)
कथं मालविका ।
विदूषकः - अथ किम् ।
राजा - शक्यमिदानीं जीवितमवलम्बितुम् ।
त्वदुपलभ्य समीपगतां प्रियां हृदयमुच्छ्वसितं मम विक्लवम् ।
तरुवृतां पथिकस्य जलार्थिनः सरितमारसितादिव सारसात् ॥
अथ क्व तत्रभवती ।
विदूषकः - एषा ननु तरुराजिमध्यान्निष्क्रान्ता इव एव परिवर्तमाना दृश्यते ।
राजा - (विलोक्य सहर्षम् ।)
वयस्य पश्याम्येनाम् ।
विपुलं नितम्बबिम्बे मध्ये क्षामं समुन्नतं कुचयोः ।
अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥
सखे पूर्वस्मादवस्थान्तरमुपारूढा तत्रभवती ।
तथा
हि ।
शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा ।
माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥
विदूषकः - एषापि भवानिव मदनव्याधिना परामृष्टा भविष्यति ।
राजा - सौहार्दमेवं पश्यति ।
मालविका - अयं स ललितदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममानुकरोत्यशोकः ।
यावदस्य प्रच्छायशीतले शिलापट्टके निषण्णत्मानं विनोदयामि ।
विदूषकः - श्रुतं भवता ।
उत्कण्ठितास्मीति तत्रभवत्या मन्त्रितम् ।
राजा - नैतावता भवन्तं प्रसन्नतर्कं मन्ये ।
कुतः ।
वोढा कुरबकजसां किसलयपुटभेदशीकरानुगतः ।
अनिभित्तामुत्कण्ठामपि जनयति मलयवातोऽयम् ॥
(मालविकोपविष्टा ।)
राजा - वयस्य इतस्तावत् ।
आवां लतान्तरितौ भवावः ।
विदू - इरावतीमिव दूरे समर्थये ।
राजा - न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः ।
(इति विलोकयन्स्थितः ।)
मालविका - हृदय निरवलम्बादतिभूमिलङ्घिनो मनोरथाद्विरम ।
किं मामायासयसि ।
(विदूषको राजानमवेक्षते ।)
राजा - प्रिये पश्य वामतां स्नेहस्य ।
औत्सुक्यहेतुं विवृनोषि न त्वं तत्त्वावबोधैकरसो न तर्कः ।
तथापि रम्भोरु करोमि लक्ष्यमात्मानमेषां परिदेवितानाम् ॥
विदूषकः - साम्प्रतं भवतो निःसंशयं भविष्यति ।
एषार्पितमदनसन्देषा विविक्ते ननु बकुलावलिकोपस्थिता ।
राजा - अपि स्मरेदस्मदभ्यर्थनाम् ।
विदूषकः - किमिदानीमेषा दास्या दुहिता तव गुरुकं सन्देशं विस्मरिष्यति ।
अहमपि तावन्न विस्मरामि ।
(प्रविश्य चरणालङ्कारहस्ता ।)
बकुलावलिका - अपि सुखं सख्याः ।
मालविका - अहो बकुलावलिका ।
सखि स्वागतं ते ।
उपविश ।
बकुलावलिका - (उपविश्य ।)
सखि त्वमिदानीं देव्या योग्यतया नियुक्ता ।
तस्मादेकं चरणमुपनय ।
यावत्सालक्तकं सनूपुरं च करोमि ।
मालविका - (आत्मगतम् ।)
हृदय अलं सुखिततया अयं विभव उपस्थित इति ।
कथमिदानीमात्मानं मोचयेयम् ।
अथ वैतदेव मम मृत्युमण्डनं भविष्यति ।
बकुलावलिका - किं विचारयसि ।
उत्सुका खल्वस्य तपनीयाशोकस्य कुसुमोद्गमे देवी ।
राजा - कथमशोकदोहदनिमित्तोऽयमारम्भः ।
विदूषकः - किं खलु न जानास्यकारणाद्देवीमामन्तःपुरनेपथ्येन नसंयोजयिष्यतीति ।
मालविका - सखि मर्षय तावदेनम् ।
(इति पादमुपहरति ।)
बकुलावलिका - अयि शरीरमसि मे ।
(नाट्येन चरणसंस्कारमारभते ।)
राजा - चरणान्तनिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम् ।
प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवद्रुमस्य ॥
विदूषकः - चरणानुरूपः खलु तत्रभवत्या अधिकार उपक्षिप्तः ।
राजा - सम्यगाह भवान् ।
नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।
अकुसुमितमशोकं दुहदापेक्षया वा
प्रणमितशिरसं वा कान्तमार्द्रापराधम् ॥
विदूषकः - प्रहरिश्यति तत्रभवती त्वामपराद्धम् ।
राजा - प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य ।
(ततः प्रविशति युक्तमदा इरावती चेटी च ।)
इरावती - हञ्जे निपुणिके शृणोमि बहुशो मदः किल स्त्रीजनस्य विशेषमण्डनमिति ।
अपि सत्यो लोकवादोऽयम् ।
निपुणिका - प्रथमं लोकवाद एव ।
अद्य सत्यः संवृत्तः ।
इरावती - अलं स्नेहभणितेन ।
कुत इदानीमवगतं दोलागृहं प्रथमं गतो भर्ता इति ।
निपुणिका - भट्तिन्या अखण्दितात्प्रणयात् ।
इरावती - अलं सेवया ।
मध्यस्थतां परिगृह्य भण ।
निपुणिका - वसन्तोनायनलोलुपेनार्यगौतमेन कथितम् ।
त्वरतां भट्टिनी ।
इरावती - (अवस्थासदृशं परिक्रम्य ।)
हञ्जे मदेन क्लाम्यमानां मामार्यपुत्रदर्शने हृदयं त्वरयति ।
चरणौ पुनर्न मार्गे प्रसरतः ।
निपुणिका - ननु प्राप्ते स्वो दोलागृहम् ।
इरावती - निपुणिके नात्र आर्यपुत्रो दृश्यते ।
निपुणिका - भट्टिन्यवलोकयतु ।
परिहासनिमित्तं कुत्रापि गूढेन भत्रा भवितव्यम् ।
आवामपीमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापट्टकं प्रविशावः ।
इरावती - (तथा करोति ।)
निपुणिका - (परिक्रम्य विलोक्य ।)
अवलोकयतु भट्टिनी ।
चूताङ्कुरं विचिन्वत्योरावयोः पिपीलिकाभिर्दष्टम् ।
इरावती - कथमिव ।
निपुणिका - एषा बकुलावलिका अशोकपादपच्छायायां मालविकायाः चरणालङ्कारं निवर्तयति ।
इरावती - (शङ्कां रूपयित्वा ।)
अभूमिरिय मालविकायाः ।
कथमत्र तर्कयसि ।
निपुणिका - तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्या अशोकदोहदाधिकारे नियुक्ता मालविकेति ।
अन्यथा कथं देवी स्वयं धारितं नूपुरयुगुलं परिजनस्यानुज्ञास्यति ।
इरावती - महती खल्वस्याः सम्भावना ।
निपुणिका - किं पुनर्नान्विष्यते भर्ता ।
इरावती - हञ्जे न मे चरणावन्यतः प्रवर्तेते ।
मनो मम किमपि विकारयति ।
आशङ्कितस्य तावदन्तं गमिष्यामि ।
(मालविकां निर्वर्ण्य आत्मगतम् ।)
स्थाने खलु कातरं मे हृदयम् ।
बकुलावलिका - (चरणं दर्शयन्ती ।)
अपि रोचते तेऽयं रागरेखाविन्यासः ।
मालविका - सखि आत्मनश्चरणगत इति लज्जे एनं प्रशंसितुम् ।
केन प्रसाधनककायामभिविनीतासि ।
बकुलावलिका - अत्र खलु भर्तुः शिप्यास्मि ।
विदूषकः - त्वरय तावदेनां गुरुदक्षिणायै ।
मालविका - दिष्ट्या न गर्वितासि ।
बकुलावलिका - उपदेशानुरूपौ चरणौ लब्ध्वाद्य गर्विता भविष्यामि ।
(आत्मगतम् ।)
हन्त सिद्धं मे दौत्यम् ।
(रागं विलोक्य प्रकाशम् ।)
सखि एकस्य ते चरणस्यावसितो रागनिक्षेपः ।
केवलं मुखमारुतो अम्भयितव्यः ।
अथवा प्रवातमेवैतत्स्थानम् ।
राजा - सखे पश्य पश्य ।
आर्द्रालक्तकमस्याञ्चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः सम्प्रति सेवावकाशो मे ॥
विदूषकः - कुतस्तेऽनुशयः ।
चिरं भवता एतत्क्रमेणानुभवितव्यम् ।
बकुलावलिका - सखि अरुणशतपत्रमिव शोभते ते चरणः ।
सर्वथा भर्तुरङ्कपरिवर्तिनी भव ।
(इरावती निपुणिकामुखमवेक्षते ।)
राजा - ममेयमाशीः ।
मालविका - सखि अवचनीयं मन्त्रयसे ।
बकुलावलिका - मन्त्रयितव्यमेव मया मन्त्रितम् ।
मालविका - प्रिया खल्वहं तव ।
बकुलावलिका - न केवलं मम ।
मालविका - कस्य वाऽन्यस्य ।
बकुलावलिका - गुणेश्वभिनिवेशिनो भर्तुरपि ।
मालविका - अलीकं मन्त्रयसे ।
एतदेव मयि नास्ति ।
बकुलावलिका - सत्यं त्वयि नास्ति ।
भर्तुः कृशेषु ईषत्परिपाण्डुरेषु दृश्यते अङ्गेषु ।
निपुणिका - प्रथमगणितमिव हताशाया उत्तरम् ।
बकुलावलिका - अनुरागोऽनुरागेण परिक्षितव्य इति सुजनवचनं प्रमाणीकुरु ।
मालविका - किमात्मनश्छन्देन मन्त्रयसे ।
बकुलावलिका - नहि नहि ।
भर्तुः खल्वेतानि प्रणयमृदुकान्यक्षराणि बिम्बान्तरितानि ।
मालविका - सखि देवीं विचिन्त्य न मे हृदयं विश्वसिति ।
बकुलावलिका - मुग्धे भ्रमरसम्बाध इति वसन्तावतारसर्वस्वं कि न चूतप्रसवोऽवतसयितव्य ।
मालविका - त्वं तावद्दुर्जातेऽत्यन्तं सहाया भव ।
बकुलावलिका - विमर्दसुरमिर्बकुलावलिका खल्वहम् ।
राजा - साधु बकुलावलिके साधु ।
भावज्ञानान्तर स्तुनेन प्रत्याख्याने दत्तयुक्तोत्तरेण ।
वाक्येनेयं स्थापिता स्वे निदेशे स्थाने प्राणाः कामिनां दूत्यधीनाः ॥
इरावती - हञ्ज पश्य ।
कारितैव बकुलावलिकयैतस्मिन् पदं मालविका ।
निपुणिका - भट्टिनि निर्विकारस्याप्युत्सुकताजनक उपदेशः ।
इरावती - स्थाने खलु शङ्कितं मे हृदयम् ।
गृहीतार्था अनन्तरं चिन्तयिष्यामि ।
बकुलावलिका - एष द्वितीयोऽपि ते निर्वृत्तपरिकर्मा चरणः ।
यावद्वावपि सनूपुरौ करोमि ।
(इति नाट्येन नूपूरयुगलमामुच्य ।)
हला उत्तिष्ठ अनुतिष्ठ देव्या अशोकविकासयितृकं नियोगम् ।
(उभे उत्तिष्ठतः ।)
इरावती - श्रुतो देव्या नियोगः ।
भवत्विदानीम् ।
बकुलावलिका - एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते ।
मालविका - (सहर्षम् ।)
किं भर्ता ।
बकुलावलिका - (सस्मितम् ।)
न तावद्भर्ता ।
एषोऽशोकशाखाबलम्बी पल्लवगुच्छकः ।
अवतंसयैनम् ।
विदूषकः - अपि श्रुतं भवता ।
राजा - सखे पर्याप्तमेतावता कामिनाम् ।
अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति ।
परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥
(मालविका रचितपल्लवावतंसा सलीलमशोकाय पदं प्रहिणोति ।)
राजा - वयस्य
आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति ।
उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये ॥
मालविका - अपि नाम आवयोः सम्भावना सफला भवेत् ।
बकुलावलिका - सखि नास्ति ते दोषः निर्गुणोऽयमशोको यदि कुसुमोद्भेदमन्थरो भवेद्य ईदृशं चरणसत्कारं लभते ।
राजा - अनेन तनुमध्यया मुखरनुपूराराविणा नवाम्बुरुहकोमलेन चरणेन सम्भावितः ।
अशोक यदि सद्य एव कुसुमैर्न सम्पत्स्यसे
वृथा वहसि दोहदं ललितकामिसाधारणम् ॥
सखे वचनावसरपूर्व प्रवेष्टुमिच्छामि ।
विदूषकः - एहि ।
एनां परिहासयिष्यामि ।
(उभौ प्रवेशं कुरुतः ।)
निपुणिका - भट्टिनि भर्तात्र प्रविषति ।
इरावती - एतत्प्रथमं मम चिन्तितं हृदयेन ।
विदूषकः - (उपसृत्य ।)
भवति युक्तं नाम अत्रभवतः प्रियवयस्यः अयमशोकः वामपादेन ताडयितुम् ।
उभे - (ससम्भ्रमम् ।)
अहो भर्ता ।
विदूषकः - बकुलावलिके गृहीतार्थया त्वया अत्रभवती ईदृशमविनयं कुर्वती कस्मान्न निवारिता ।
(मालविका भयं रूपयति ।)
निपुणिका - भट्टिनि पश्य ।
किं प्रवृत्तमार्यगौतमेन ।
इरावती - कथं खलु ब्रह्मबन्धुरन्यथा जीविष्यति ।
बकुलावलिका - आर्य एषा देव्या नियोगमनुतिष्ठति ।
एतस्मिन्नतिक्रमे परवतीयम् ।
प्रसीदतु भर्ता ।
(इत्यात्मना सहैनां प्रणिपातयति ।)
राजा - यद्येवमनपराद्धासि ।
उत्तिष्ठ भद्रे ।
(इति हस्तेन गृहीत्वा उत्थापयति ।)
विदूषकः - युज्यते ।
देव्यत्र मानयितव्या ।
राजा - (विहस्य ।)
किसलयमृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे ।
चरणस्य न ते बाधा सम्प्रति वामस्य वामोरु ॥
(मालविका लज्जां नाट्यति ।)
इरावती - (सासूयम् ।)
अहो नवनीतहृदय आर्यपुत्रः ।
मालविका - बकुलावलिके एहि ।
अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।
बकुलावलिका - तेन हि विज्ञापय भर्तारं विसर्जयेति ।
राजा - भद्रे यास्यसि ।
मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावलिका - अवहिता शृणु ।
आज्ञापयतु भर्ता ।
राजा - धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति ।
स्पर्शामृतेन पूरय दोहदमस्याप्यनन्यरुचेः ॥
इरावती - (सहसोपसृत्य ।)
पूरय पूरय ।
ननु अशोकः कुसुमं दर्शयति ।
अयं पुनः पुष्प्यति फलति च ।
(सर्वे इरावतीं दृष्ट्वा सम्भ्रान्ताः ।)
राजा - (अपवार्य ।)
वयस्य का प्रतिपत्तिरत्र ।
विदूषकः - किमन्यत् ।
जङ्घाबलमेव ।
इरावती - बकुलावलिके साधु त्वयोपक्रान्तम् ।
मालविके त्वं तावत् सफलप्रार्थनं कुर्वार्यपुत्रम् ।
उभे - प्रसीदतु भट्टिनी ।
के आवां भर्तुः प्रणयपरिग्रहस्य ।
(इति निष्क्रान्ते ।)
इरावती - अहो अविश्वसनीयाः पुरुषाः ।
मया खलु आत्मनो वञ्चनावचनं प्रमाणीकृत्य व्याधगीतरक्तया हरिण्येवाशङ्कितयैतन्न विज्ञातम् ।
विदूषकः - (जनान्तिकम् ।)
प्रतियोजयेदानीं किमपि ।
कर्मगृहीतेन कुम्भीलकेन सन्धिच्छेदने शिक्षितोऽस्मीति वक्तव्यं भवति ।
राजा - सुन्दरि न मे मालविकया कश्चिदर्थः ।
मया त्वं चिरयासीति यथाकथञ्चिदात्मा विनोदितः ।
इरावती - विश्वसनीयोऽसि ।
मया न विज्ञातमीदृशं विनोदवस्तु आर्यपुत्रेणोपलब्धमिति ।
अन्यथा मन्दभागिन्यैवं न क्रियते ।
विदूषकः - मा तावदत्रभवती अत्रभवतो दक्षिण्यस्योपरोधं भणतु ।
समापत्तिदृष्टेन देव्याः परिजनेन सङ्कथापि यदि अपराधः स्थ्याप्यते अत्र त्वमेव प्रमाणम् ।
इरावती - ननु सङ्कथा नाम भवतु ।
किमित्यात्मानमायासयिष्यामि ।
(इति रुषा प्रस्थिता ।)
राजा - (अनुसरन् ।)
प्रसीदतु भवती ।
इरावती - (रशनासन्दितचरणा व्रजत्येव ।)
राजा - सुन्दरि न शोभते प्रणयिनि जने निरपेक्षता ।
इरावती - शठ अविश्वसनोयहृदयाऽसि ।
राजा - शठ इति मयि तावदस्तु ते परिचयवत्यवधीरणा प्रिये ।
चरणपतितया न चण्डि तां विसृजसि मेखलयापि याचिता ॥
इरावती - इयमपि हताशा त्वामेवानुसरति ।
(इति रशनामादाय राजानं ताडयितुंइच्छति ।)
राजा - एषा ।
बाष्पासारा हेमकाञ्चीगुणेन श्रोणीबिम्बादव्यपेक्षाच्युतेन ।
चण्डी चण्डं हन्तुमभ्युद्यता मां विद्युद्दाम्ना मेघराजीव विन्ध्यम् ॥
इरावती - किं मामेवं भूयोऽप्यपराद्धां करोषि ।
(इतिसरशनं हस्तमवलम्बते ।)
राजा - अपराधिनि मयि दण्डं संहरसि किंउद्यतं कुटिलकेशि ।
वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ॥
नूनमिदमनुज्ञातम् ।
(इति पादयोः पतति ।)
इरावती - न खल्विमौ मालविकायाश्चरणौ यौ ते स्पर्शदोहदं पूरयिष्यतः ।
(इति निष्क्रान्ता सचेटी ।)
विदूषकः - उत्तिष्ठ ।
कृतप्रसादोऽसि ।
राजा - (उत्थाय ।
इरावतीमपष्यन् ।)
कथं गतैव प्रिया ।
विदूषकः - वयस्य दिष्ट्या अनेनाविनयेनाप्रसन्ना गतैषा ।
तद्वयं शीघ्रमपक्रमामः ।
यावदङ्गारको राशिमिवानुवक्रं प्रतिगमनं न करोति ।
राजा - अहो मदनस्य वैषम्यम् ।
मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥
(इति निष्क्रान्तः सह वयस्येन ।)
इति तृतीयोऽङ्कः ।