०२

द्वितीयोऽङ्कः ।
(ततः प्रविशति सङ्गीतरचनायां कृतायामासनस्थः सवयस्यो राजा धारिणी परिव्राजिका विभवतश्च परिवारः ।)
राजा - भगवति अत्रभवतोराचार्ययोः कतरस्य प्रथममुपदेशं द्रक्ष्यामः ।
परिव्राजिका - ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गणदासः पुरस्कारमर्हति ।
राजा - तेन हि मौद्गल्य एवमत्रभवतोरावेद्य स्वनियोगमशून्यं कुरु ।
कञ्चुकी - यदाज्ञापयति देवः ।
(इति निष्क्रान्तः ।)
(प्रविश्य ।)
गणदासः - देव शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदा ।
तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः ।
राजा - आचार्यबहुमानादवहितोऽस्मि ।
(निष्क्रान्तो गणदासः ।)
राजा - (जनान्तिकम् ।)
वयस्य नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः ।
संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥
विदूषकः - (अपवार्य ।)
भो उपस्थितं नयनमधु सन्निहितमक्षिकं च ।
तदप्रमत्त इदानीं प्रेक्षस्व ।
(ततः प्रविशत्याचार्यप्रत्यवेक्ष्यमाणाङ्गसौष्ठवा मालविका ।)
विदूषकः - (जनान्तिकम् ।)
प्रेक्षतां भवान् ।
न खल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता ।
राजा - (जनान्तिकम् ।)
वयस्य
चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।
सम्प्रति शिथिलसमाधिं मन्ये येनेयमालिखिता ॥
गणदासः - वत्से मुक्तसाध्वसा भव ।
राजा - (आत्मगतम् ।)
अहो सर्वस्थानानवद्यता रूपस्य ।
तथा हि ।
दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावऋआलाङ्गुली
छन्दो नर्तयितुर्यथैव मनसः श्लिष्टं तथास्या वपुः ॥
मालविका - (अपगानं कृत्वा चतुष्पदवस्तु गायति ।)
दुर्लभः प्रियस्तस्मिन्भव हृदय निराशमहो
अपाङ्गको मे प्रस्फुरति किमपि वामः ।
एष स चिरदृष्टः कथमुपनेतव्यो
नाथ मां पराधीनां त्वयि गणय सतृष्णाम् ॥
(इति ।
ततो यथारसमभिनयति ।)
विदूषकः - (जनान्तिकम् ।)
भोः चतुष्पदवस्तुकं द्वारीकृत्य त्वय्युपस्थापित इवात्मा तत्रभवत्या ।
राजा - (जनान्तिकम् ।)
सखे एवमेव ममापि हृदयम् ।
अनया खलु जनमिममनुरक्तं विद्धि नाथेति गेये
वचनमभिनयन्त्या स्वाङ्गनिर्देशपूर्वम् ।
प्रणयगतिमदृष्ट्वा धारिणीसन्निकर्षादहमिव सुकुमारप्रार्थनाव्याजमुक्तः ॥
(मालविका गीतान्ते निष्क्रमितुमिच्छति ।)
विदूषकः - भवति तिष्ठ ।
किमपि वो विस्मृतः क्रमभेदः ।
तं तावत्प्रक्ष्यामि ।
गणदासः - वत्से स्थीयताम् ।
उपदेशविशुद्धा यास्यसि ।
(मालविका निवृत्य स्थिता ।)
राजा - (आत्मगतम् ।)
अहो सर्वास्ववस्थासु चारुता शोभां पुष्यति ।
तथा हि ।
वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥
देवी - ननु गौतमवचनमप्यार्यो हृदये करोति ।
गणदासः - देवि मैवम् ।
देवप्रत्ययात्सम्भाव्यते सूक्ष्मदर्शिता गौतमस्य ।
मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।
पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥
( विदूषकं विलोक्य ।)
तच्छृणुमो विवक्षितमार्यस्य ।
विदूषकः - (गणदासं विलोक्य ।)
साक्षिणीं तावत्पृच्छ ।
पश्चाद्यो मया क्रमभेदो लक्षितस्तं भणिष्यामि ।
गणदासः - भगवति यथादृष्टमभिधीयताम् ।
गुणो वा दोषो वा ।
परिव्राजिका - यथादृष्टं सर्वमनवद्यम् ।
कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥
गणदासः - देवः कथं वा मन्यते ।
राजा - गणदास वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः ।
गणदासः - अद्य नर्तयितास्मि ।
उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः
श्यामायते न विद्वत्सु यः काञ्चनमिवाग्निषु ॥
देवी - दिष्ट्या परीक्षकाराधनेनार्यो वर्धते ।
गणदासः - देवीपरिग्रह एव मे वृधिहेतुः ।
(विदूषकं विलोक्य ।)
गौतम वादेदानीं यत्ते मनसि वर्तते ।
विदूषकः - प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या ।
सा ननु वो विस्मृता ।
परिव्राजिका - अहो प्रयोगाभ्यन्तरः प्राश्निकः ।
(सर्वे प्रहसिताः ।
मालविकापि स्मितं करोति ।)
राजा - (आत्मगतम् ।)
आत्तसारश्चक्षुषा मे स्वविषयः ।
यदनेन स्मयमानमायताक्ष्याः किञ्चिदभिव्यक्तदशनशोभि मुखम् ।
असमग्रलक्ष्यकेसरमुच्छ्वसदिव पङ्कजं दृष्टम् ॥
गणदासः - महाब्राह्मण न खलु प्रथमं नेपथ्यसङ्गीतकमिदम् ।
अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
विदूषकः - मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम् ।
परिव्राजिका - एवमेव ।
विदूषकः - तेन हि पण्डितपरितोषप्रत्यया ननु मूढा जातिः ।
यतोऽत्रभवत्या शोभनं भणितं ततोऽस्या इदं पारितोषिकं प्रयच्छामि ।
(इति राज्ञो हस्तात्कटकमाकर्षति ।)
देवी - तिष्ठ तावत् ।
गुणान्तरमजानन्किमिति त्वमाभरणं ददासि ।
विदूषकः - परकीयमिति कृत्वा ।
देवी - (आचार्यं विलोक्य ।)
आर्य गणदास ननु दर्शितोपदेशा ते शिष्या ।
गणदासः - वत्से ।
एहि गच्छाव इदानीम् ।
(मालविका सहाचार्येण निष्क्रान्ता ।)
विदूषकः - (राजानं विलोक्य ।
जनान्तिकम् ।)
एतावान्मे मतिविभवो भवन्तं सेवितुम् ।
राजा - (जनान्तिकम् ।)
अलमलं परिच्छेदेन ।
अद्य हि भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव ।
द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥
विदूषकः - (जनान्तिकम् ।)
साधु त्वं दरिद्र इवातुरो वैद्येनोपनीयमानमौषधमिच्छसि ।
(प्रविश्य ।)
हरदत्तः - देव मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां प्रसादः ।
राजा - (आत्मगतम् ।)
अवसितो दशनार्थाः ।
(दाक्षिण्यमवलम्ब्य ।
प्रकाशम् ।)
हरदत्त ननु पर्युत्सुका एव वयम् ।
हरदत्तः - अनुगृहीतोऽस्मि ।
(नेपथ्ये ।)
वैतालिकः - जयतु जयतु देवः ।
उपारूढो मद्याह्नः ।
तथा हि ।
पत्रच्छायासु हंसा मुकुलितनयना दीर्घकापद्मिनीनां
सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि ।
बिन्दूत्क्षेपान्पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रं सर्वैरुस्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥
विदूषकः - अविहा अविहा ।
ब्राह्मणस्य भोजनवेला संवृत्ता ।
अत्रभवतोऽपि ।
उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति ।
हरदत्त किमिदानीं भणसि ।
हरदत्तह् - नास्ति ।
मद्वचनस्यावकाशोऽत्र ।
राजा - (हरदत्तमवलोक्य ।)
तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः ।
विश्राम्यतु भवान् ।
हरदत्तः - यदाज्ञापयति देवः ।
(इति निष्क्रान्तः ।)
देवी - निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ।
विदूषकः - भवति विशेषेण पानभोजनं त्वरय ।
परिव्राजिका - (उत्थाय ।)
स्वस्ति भवते ।
(इति सपरिजनया देव्या सह निष्क्रान्ता ।)
विदूषकः - भो न केवलं रूपे शिल्पेऽप्यद्वितीया मालविका ।
राजा - वयस्य
अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥
किं बहुना ।
चिन्तयितव्योऽस्मि ।
विदूषकः - भवताप्यहम् ।
दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते ।
राजा - एवमेव भवान्सुहृदर्थे त्वरताम् ।
विदूषकः - गृहीतक्षणोऽस्मि ।
किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना तत्रभवती ।
भवानपि सूनोपरिचरो विहङ्गम इवामिषलोलुपो भीरुकश्च ।
तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे ।
राजा - सखे कथमनातुरो भविष्यामि ।
सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य ।
सा वामलोचना मे स्नेहस्यैकायनीभूता ॥
(इति निष्क्रान्ताः सर्वे ।)
इति द्वितीयोऽङ्कः ।