प्रथमोऽङ्कः
एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासम्मिश्रदेहोऽप्यविशयमनसां यः परस्ताद्यतीनाम्, अश्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ।
(नान्द्यन्ते ।)
सूत्रधारः - (नेपथ्याभिमुखमवलोक्य) मारिश इतस्तावत् ।
(प्रविश्य ।)
पारिपार्श्विकः - भाव्! अयमस्मि ।
सूत्रधारः - अभिहितोऽस्मि विद्वत्परिषदा कालिदासग्रथितवस्तु मालविकाग्निमित्रं नाम नाटकमस्मिन् वसन्तोत्सवे प्रयोत्कव्यमिति ।
तदारभ्यतां सङ्गीतकं ।
पारिपार्श्विकः - मा तावत् ।
प्रथितयशसाम् भासकविपुत्रसौमिल्लकादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदो बहुमानः ।
सूत्रधारः - अयि विवेकविश्रान्तमभिहितम् ।
पश्य ।
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्षान्यतरद्भजन्ते मूडः परप्रत्ययनेयबुद्धिः ।
पारिपार्श्विकः - आर्यमिश्राः प्रमाणम् ।
सूत्रधारः - तेन हि त्वरतां भवान् ।
शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ।
(इति निष्कान्तौ ।)
प्रस्तावना ।
(ततः प्रविशति चेटी ।)
चेटी - आज्ञप्तास्मि देव्या धारिण्या ।
अचिरप्रवृत्तोपदेशं चलितं नाम नाट्यमन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् ।
तत्तावत्सङ्गीतशालां गच्छामि ।
(इति परिक्रामति ।)
(ततः प्रविशत्याभरणहस्ता द्वितीया चेटी ।)
प्रथमा - (द्वितीयां दृष्ट्वा ।)
सखि कौमुदिके कुतस्त इयं धीरता यत्समीपेनाप्यतिक्रामन्तीतो दृष्टिं न ददासि ।
द्वितीया - अहो बकुलावलिका ।
सखि इदं देव्याः शिल्पिसकाशादानीतं नागमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि ।
बकुलावलिका - स्थाने खलु सज्जति दृष्टिः ।
अनेनाङ्गुलीयकेन उद्भिन्नकिरणकेसरेण कुसुमित इव तेऽग्रहस्तः प्रतिभाति ।
कौमुदिका - सखि कुत्र प्रस्थितासि ।
बकु - देव्या वचनेन नाट्याचार्यमार्यगणदासमुपदेशग्रहणे कीदृशी मालविकेति प्रष्टुम् ।
कौमु - सखि ईदृशेन व्यापारेणासन्निहितापि दृष्टा किलसा भर्त्रा ।
बकु - आम् ।
देव्याः पार्श्वगतः स जनश्चित्रे दृष्टः ।
कौमु - कथमिव ।
बकु - शृणु ।
चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामाचार्यस्यावलोकयन्ती तिष्ठति ।
तस्मिन्नन्तरे भर्तोर्पस्थितः ।
कौमु - ततस्ततः ।
बकु - ततश्चोपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नतरां (-चरां) तां प्रेक्ष्य देवी पृष्टा ।
कौमु - किमिव ।
बकु - अपूर्वेयं दारिका आसन्ना च देव्या आलिखिता किन्नामधेयेति ।
कौमु - आकृतिविशेषेष्वादरः पदं करोति ।
ततस्ततः ।
बकु - ततोऽवधीरितवचनो भर्ता शङ्कितो देवीं पुनः पुनरप्यनुबन्द्धुं प्रवृत्तः ।
ततो यावद्देवी न कथयति तावत्कुमार्या वसुलक्ष्म्याख्यातम् ।
आवुत्त एषा मालविकेति ।
कौमु - (सस्मितम् ।)
सदृशं खलु बालभावस्य ।
अतः परं कथय ।
बकु - किंअन्यत् ।
साम्प्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते ।
कौमु - सखि अनुतिष्ठ आत्मनो नियोगम् ।
अहमप्येतदङ्गुलीयकं देव्या उपनेष्यामि ।
(इति निष्क्रान्ता ।)
बकु - (परिक्रम्यावलोक्य च ।)
एष नाट्याचार्य आर्यगणदासः सङ्गीतशालातो निष्क्रामति ।
यावदस्मायात्मानं दर्शयामि ।
(इति परिक्रामति ।)
(प्रविश्य ।)
गणदासः - कामं खलु सर्वस्यापि कुलविद्या बहुमता ।
न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम् ।
कुतः ।
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥
बकु - (उपेत्य ।)
आर्य वन्दे ।
गणदासः - भद्रे चिरं जीव ।
बकु - आर्य देवी पृच्छति ।
अप्युपदेशग्रहणे नातिक्लेशयति वः शिष्या मालविकेति ।
गणदासः - भद्रे विज्ञाप्यतां देवी परमनिपुणा मेधाविनी चेति ।
किं बहुना ।
यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥
बकु - (आत्मगतम् ।)
अतिक्रामन्तीमिवेरावतीं पश्यामि ।
(प्रकाशम् ।)
कृतोर्थेदानीं वः शिष्या यस्यां गुरुजन एवं तुष्यति ।
गणदासः - भद्रे तद्विधानामसुलभत्वात्पृच्छामि ।
कुतो देव्यां तत्पात्रमानीतम् ।
बकु - अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम ।
स भर्त्रा नर्मदातीरेऽन्तपालदुर्गे स्थापितः ।
तेन शिल्पाधिकारे योग्येयं दारिकेति भगिन्या उपय्नं प्रेषिता ।
गणदासः - (स्वगतम् ।)
आकृतिविशेषप्रत्ययादेनामनूनवस्तुकां सम्भावयामि ।
(प्रकाशम् ।)
भद्रे मया यशस्विना भवितव्यम् ।
यतः ।
पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥
बकु - अथ कुत्र वः शिष्या ।
गणदासः - इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यतामित्यभिहिता दीर्धिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति ।
बकु - तेन ह्यनुजानातु मामार्यः ।
यावदस्या आर्यस्य परितोषनिवेदनेनोत्साहं वर्धयामि ।
गणदासः - दृश्यतां सखी ।
अहमपि लब्धक्षणः स्वगृहं गच्छामि ।
(इति निष्क्रान्तौ ।)
इति मिश्रविष्कम्भः ।
(ततः प्रविशत्येकान्तस्थितपरिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा ।)
राजा - (अनुवाचितलेखममात्यं विलोक्य ।)
वाहतक किं प्रतिपद्यते वैदर्भः ।
अमात्यः - देव आत्मविनाशम् ।
राजा - सन्देशमिदानीं श्रेतुमिच्छामि ।
अमात्यः - इदमिदानीमनेन प्रतिलिखितम् ।
पुज्येनाहमादिष्टः - पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसम्बन्धो ममोपान्तिकमुपगच्छन्नन्तरा त्वदीयेनान्तपालेनावस्कद्य गृहीतः ।
स त्वया मदपेक्षया सकलत्रसोदर्यो मोक्तव्य इति ।
तन्न वो न विदितं यत्तुल्याभिजनेषु भूमिहरेषुं राज्ञां वृत्तिरीदृशी ।
अतोऽत्र मध्यस्थः पूज्यो भवितुमर्हति ।
सोदर्या पुनरस्य ग्रहणविप्लवे विनष्टा ।
तदन्वेषणाय प्रयतिष्ये ।
अथावश्यमेव माधवसेनो मया पूज्येन मोचयितव्यः श्रूयतामभिसन्धिः ।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम् ।
मोक्ता माधवसेनं ततोऽहमपि बन्धनात्सद्यः ॥
इति ।
राजा - (सरोषम् ।)
कथं कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः ।
वाहतक प्रकृत्यमित्रः प्रतिकूलकारी च मे वैदर्भः ।
तद्यातव्यपक्षे स्थितस्य पूर्वसङ्कल्पितसमुन्मूलनाय वीरसेनप्रमुखं दण्डचक्रमाज्ञापय ।
अमात्यः - यदाज्ञापयति देवः ।
राजा - अथ वा किं भवान्मन्यते ।
अमात्यः - शास्त्रदृष्टमाह देवः ।
कुतः
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूडमूलत्वात् ।
नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥
राजा - तेन ह्यवितथं तन्त्रकारवचनम् ।
इदमेव निमित्तमादाय सम्मुद्योज्यतां सेनापतिः ।
अमात्यः - तथा ।
(इति निष्क्रान्तः ।)
(परिजन्श्च यथाव्यापारं राजानमभितः स्थितः ।)
(प्रविश्य ।)
विदूषकः - आज्ञप्तोऽस्मि तत्रभवता राज्ञा ।
गौतम चिन्तय तावदुपायं यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति ।
मयापि तत्तथा कृतम् ।
यावदस्मै निवेदयामि ।
(इति परिक्रामति ।)
राजा - (विदूषकं दृष्ट्वा ।)
अयमपरः कार्यान्तरसचिवोऽस्मानुपस्थितः ।
विदूषकः - (उपसृत्य ।)
वर्धतां भवान् ।
राजा - (सशिरःकम्पम् ।)
इत आस्यताम् ।
विदूषकः - (उपविष्टः ।)
राजा - वयस्य कच्चिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः ।
विदूषकः - प्रयोगसिद्धिं पृच्छ ।
राजा - कथमिव ।
विदूषकः - (कर्णे ।)
एवमिव ।
राजा - साधु वयस्य निपुणमुपक्रान्तम् ।
इदानीं दुरधिगमसिद्धावप्यस्मिन्नारम्बे वयमाशंसामहे ।
कुतः ।
अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥
(नेपथ्ये ।)
अलमलं बहु विकत्थ्य ।
राज्ञः समक्षमेवावयोरधरोत्तरव्यक्तिर्भविष्यति ।
राजा - (आकर्ण्य ।)
सखे त्वत्सुनीतिपादपस्य पुष्पमुद्भिन्नम् ।
विदूषकः - फलमप्यचिरेण द्रक्ष्यासि ।
(ततः प्रविशति कञ्चुकी ।)
कञ्चुकी - देव अमात्यो विज्ञापयति ।
अनुष्ठिता प्रभोराज्ञेति ।
एतौ पुनर्हरदत्तगणदासौ
उभावभिनयाचार्यौ परस्परजयोद्यतौ ।
त्वां द्रष्टुभिच्छतः साक्षाद्भावाविव शरीरिणौ ॥
राजा - प्रवेशय तौ ।
कञ्चुकी - यदाज्ञापयति देवः ।
(इति निष्क्रम्य पुनस्ताभ्यां सह प्रविश्य ।)
इत इतो भवन्तौ ।
हरदत्तः - (राजानमवलोक्य ।)
अहो दुरासदो राजमहिमा ।
तथा हि ।
न च न परिचितो न चाप्यगम्यश्चकितमुपैमि तथापि पार्श्वमस्य ।
सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः ॥
गणदासः - महत्खलु पुरुषाकारमिदं ज्योतिः ।
तथा हि ।
द्वारे नियुक्तपुरुषानुमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवर्तितदृष्टिपातैर्वाक्याद्दते पुनरिव प्रतिवारितोऽस्मि ॥
कञ्चुकी - एष देवः ।
उपसर्पतां भवन्तौ ।
उभौ - (उपेत्य ।)
विजयतां देवः ।
राजा - स्वागतं भवद्भयाम् ।
(परिजनं विलोक्य ।)
आसने तावदत्रभवतोः ।
(उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ।)
राजा - किमिदं शिष्योपदेशकाले युगपदाचार्ययोरुपस्थानम् ।
गणदासः - देव श्रूयताम् ।
मया तीर्थादभिनयविद्या शिक्षिता ।
दत्तप्रयोगश्चास्मि ।
देवेन देव्या च परिगृहीतः ।
राजा - द्दडं जाने ।
ततः किम् ।
गणदासः - सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षं नायं मे पादरजसापि तुल्य इत्यधिक्षिप्तः ।
हरदत्तः - देव अयमेव मयि प्रथमं परिवादकरः ।
अत्रभवतः किलमम च समुद्रपल्वलयोरिवान्तरमिति ।
तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु ।
देव एव नौ वेशेषज्ञः प्राश्निकः ।
विदूषकः - समर्थं प्रतिज्ञातम् ।
गणदासः - प्रथमः कल्पः अवहितो देवः श्रोतुमर्हति ।
राजा - तिष्ठतु तावत् ।
पक्षपातमत्र देवी मन्यते ।
तत्तस्याः पण्डितकौशिक्या सहितायाः समक्षमेव न्याय्यो व्यवहारः ।
विदूषकः - सुष्ठु भवान्भणति ।
आचार्यौ - यद्देवाय रोचते ।
राजा - मौद्गल्य अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्धमाहूयतां देवी ।
कञ्चुकी - यदाज्ञापयति देवः ।
(इति निष्क्रम्य सपरिव्राजिकया देव्या सह प्रविष्टः ।)
इत इतो देवी ।
देवी - (परिव्राजिकां विलोक्य ।)
भगवति हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि ।
परिव्राजिका - अलं स्वपक्षावसादशङ्कया ।
न परिहीयते प्रतिद्वन्द्विनो गणदासः ।
देवी - यद्यप्येवं तथापि राजपरिग्रहोऽस्य प्रधानत्वमुपहरति ।
परिव्राजिका - अजि राज्ञीशब्दभाजनमात्मानमपि तावच्चिन्तयतु भवती ।
पश्य ।
अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥
विदूषकः - अपिहा अपिहा ।
उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी धारिणी ।
राजा - पश्याम्येनाम् ।
यौषा
मङ्गलालङ्कृता भाति कौशिक्या यतिवेषया ।
त्रयी विग्रहवत्येव सममध्यात्मविद्यया ॥
परिव्राजिका - (उपेत्य ।)
विजयतां देवः ।
राजा - भगवति अभिवादये ।
परिव्राजिका - महासारप्रसवयोः सदृशक्षमयोर्द्वयोः ।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥
धारिणी - जयत्वार्यपुत्रः ।
राजा - स्वागतं देव्यै ।
(परिव्राजिकां विलोक्य ।)
भगवति त्रियतामासनपरिग्रहः ।
(सर्वे यथोचितमुपविशन्ति ।)
राजा - भगवति अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञानसङ्घर्षो जातः ।
तदत्र भगवत्या प्राश्निकपदमध्यासितव्यम् ।
परिव्राजिका - (सस्मितम् ।)
अलमुपालम्भेन ।
पत्तने विद्यमानेऽपि ग्रामे रत्नपरीक्षा ।
राजा - मा मैवम् ।
पण्डितकौशिकी खलु भगवती ।
पक्षपातिनावनयोरहं देवी च ।
आचार्यौ - सम्यगाह देवः ।
मध्य्स्था भगवती गुणदोषौ नः परिच्छेत्तुमर्हति ।
राजा - तेन हि प्रस्तूयतां विवादः ।
परिव्राजिका - देव प्रयोगप्रधानं हि नाट्यशास्त्रम् ।
किमत्र वाग्व्यवहारेण ।
कथं वा देवी मन्यते ।
देवी - यदि मां पृच्छसि एतयोर्विवाद एव न मे रोचते ।
गणदासः - देवी न मां समानविद्यतः परिभवनीयमवगन्तुमर्हसि ।
विदूषकः - भवति पश्याम उरभ्रसम्पातम् ।
किं मुधा वेतनदानेन ।
देवी - ननु कलहप्रियोऽसि ।
विदूषकः - मैवम् ।
अन्योन्यकलहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः ।
राजा - ननु स्वाङ्गसौष्ठवाभिनयमुभयोर्दृष्टवती भगवती ।
विदूषकः - अथ किम् ।
राजा - तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् ।
परिव्राजिका - तदेव वक्तुकामास्मि ।
शिष्टा क्रिया कस्यचिदात्मसंस्था ।
सङ्क्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥
विदूषकः - श्रुतमार्याभ्यां भगवत्या वचनम् ।
एष पिण्डितार्थ उपदेशदर्शनेन निर्णय इति ।
हरदत्तः - परमुचितं नः ।
गणदासः - देवि एवं स्थितम् ।
देवी - यदा पुनर्मन्दमेधा शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो नु ।
राजा - देवि एवमापद्यते ।
विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति ।
देवी - (स्वगतम् ।)
कथमिदानीम् ।
अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा ।
(गणदासं विलोक्य ।
प्रकाशम् ।)
विरम निरर्थकादारम्भात् ।
विदूषकः - सुष्ठु भवती भणति ।
भो गणदास सङ्गीतापदेशेन सरस्वत्युपायनमोदकान्खादतः किं ते सुलभनिग्रहेण विवादेन ।
गणदासः - सत्यमयमेवार्थो देवीवचनस्य ।
श्रूयतामवसरप्राप्तमिदम् ।
लब्धास्पदोऽस्मीति विवादभीरोस्थितिक्षमाणस्य परेण निन्दाम् ।
यस्यागमः केवलजीविकायै तं ज्ञानपण्य वणिजं वदन्ति ॥
देवी - अचिरोपनीता ते शिष्या ।
तदपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रकाशनम् ।
गणदासः - अत एव मे निर्बन्धः ।
देवी - तेन हि द्वावप्युपदेशं भगवत्यौ दर्शयतम् ।
परिव्राजिका - देवि नैतन्न्याय्यम् ।
सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय ।
देवी - (आत्मगतम् ।)
मूढे किं मां जाग्रतीमपि सुप्तामिव करोषि ।
(इति सासूयं परावर्तते ।)
(राजा देवीं परिव्राजिकायै दर्शयति ।)
परिव्राजिका - अनिमित्तमिन्दुवदने किमत्रभवतः पराङ्मुखी भवसि ।
प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥
विदूषकः - ननु सकारणमेव ।
आत्मनः पक्षो रक्षितव्य इति ।
(गणदासं विलोक्य ।)
दिष्ट्या कोपव्याजेन देव्या परित्रातो भवन् ।
सुशिक्षितोऽपि सर्व उपदेशदर्शने न निपुणो भवति ।
गणदासः - देवि श्रूयताम् ।
एवं जनो गृह्णाति ।
तदिदानीम् ।
विवादे दर्शयिष्यन्तं क्रियासङ्क्रान्तिमात्मनः ।
यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥
(आसनादुत्तिष्ठति ।)
देवी - (स्वगतम् ।)
का गतिः ।
(प्रकाशम् ।)
प्रभवत्याचार्यः शिष्यजनस्य ।
गणदासः - चिरमपदे शङ्कितोऽस्मि ।
(राजानमवलोक्य ।)
अनुज्ञातं देव्या ।
तदाज्ञापयतु देवः कस्मिन्नभिनेयवस्तुन्युपदेशं दर्शयिष्यामि ।
राजा - यदादिशति भगवती ।
परिव्राजिका - किमपि देव्या मनसि वर्तते ।
तच्छङ्कितास्मि ।
देवी - भण विस्रब्धम् ।
ननु प्रभविष्याम्यात्मनः परिजनस्य ।
राजा - मम चेति ब्रूहि ।
देवी - भगवति भणेदानीम् ।
परिव्राजिका - देव चतुष्पदोद्भवं चलितं दुष्प्रयोज्यमुदाहरन्ति ।
तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामः ।
तावता ज्ञायत एवात्रभवतोरुपदेशतारतम्यम् ।
आचार्यौ - यदाज्ञापयति भगवती ।
विदूषकः - तेन हि द्वावपि वर्गौ प्रेक्षागृहे सङ्गीतरचनां कृत्वात्रभवतो दूतं प्रेषयतं ।
अथ वा मृदङ्गशब्द एव न उत्थापयिष्यति ।
हरदत्तः - तथा ।
(इत्युत्तिष्ठति ।)
(गणदासो देवीमवलोकयति ।)
देवी - (गणदासं विलोक्य ।)
विजयी भव ।
न खलु विजयप्रत्यर्थिन्यहमाचार्यस्य ।
(उभौ प्रस्थितौ ।)
परिव्राजिका - इतस्तावतादाचार्यौ ।
उभौ - (परिवृत्य ।)
इमौ स्वः ।
परिव्राजिका - निर्णयाधिकारे ब्रवीमि ।
सर्वाङ्गसौष्ठवाभिव्यक्तये विरलनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु ।
उभौ - नेदमप्यावयोरुपदेश्यम् ।
(इति निष्क्रान्तौ ।)
देवी - (राजानमवलोक्य ।)
यदि राजकार्येष्वपीदृश्युपायनिपुणतार्यपुत्रस्य ततः शोभनं भवेत् ।
राजा - अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम् ।
प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥
(नेपथ्ये मृदङ्गशब्दः ।
सर्वे कर्णं ददति ।)
परिव्राजिका - हन्त ।
प्रवृत्तं सङ्गीतकम् ।
तथा ह्येषा जीमूतस्तनितविशङ्किभिर्मयूरैरुद्ग्रीवैरनुरसितस्य पुष्करस्य ।
निर्ह्रादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ॥
राजा - देवि सामाजिका भवामः ।
देवी - (स्वगतम् ।)
अहो अविनय आर्यपुत्रस्य ।
(सर्वे उत्तिष्ठन्ति ।)
विदूषकः - (अपवार्य ।)
भोः धीरं गच्छ ।
मा खल्वत्रभवती धारिणी विसंवादयिष्यति ।
राजा - धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यनादोऽयम् ।
अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव ॥
(इति निष्क्रान्ताः सर्वे ।)
इति प्रथमोऽङ्कः ।