हास्यार्णवप्रहसनम्

[[हास्यार्णवप्रहसनम् Source: EB]]

[

[TABLE]

To be had From Pandit Jibananda Vidyasagara, B. A.
Superintendent, Free Sanskrit College,
No, 2. Ramanatha Majumdar’s Street, Calcutta.

हास्यार्णवप्रहसनम्।

<MISSING_FIG href="../books_images/U-IMG-1723959526Screenshot(14"/>.png)

श्रीजगदीश्वरभट्टाचार्यविरचितम्।

कलिकातासंस्कृतविद्यामन्दिरस्य

वेदान्ताध्यापकेन

श्रीश्रीनाथवेदान्तवागीशभट्टाचार्य्येण

विरचितया टीकया समलङ्कृतम्।

<MISSING_FIG href="../books_images/U-IMG-1723959425Screenshot(13"/>.png)

द्वितीयसंस्करणम्।

कलिकातानगरे

कलिकाता यन्त्रे
मुद्रितम्।
<MISSING_FIG href="../books_images/U-IMG-172706830614.png"/>

१८९६।

हास्यार्णवप्रहसनम्।

<MISSING_FIG href="../books_images/U-IMG-1723957532Screenshot(12"/>.png)

प्रथमोऽङ्कः।

स्वेदस्यन्दितसान्द्रचन्दनचयं दोर्वंल्लिबन्धश्रमात्
ऊर्द्धश्वासपरिस्खलत्स्मरकथं सन्दष्टदन्तच्छदम्।


यः कुलामपि नात्यजत् परबधूयोनोक्षणातिक्षणः
कन्दर्पस्तनयश्च यस्य रमणीं मात्रीयमाणामपि।

नप्ता यस्य नृपात्मजारतिविधौ रुद्धोऽनिरुद्धो बलैः
रङ्गस्थान् रसिकान् करोतु रसिकः कृष्णः स कामाकरः॥१॥

माधवीमाधवावीशौ नत्वा टीका वितायते।
विदग्धह्लादिनी नाम्रा हो–हो–रव–तरङ्गिणी॥२॥

इह हि हास्यरसस्य आनन्दजनकत्वात् प्राचुर्य्येण तमभिप्रेप्सून् सहृदयान् विलासिनः अवलोक्य प्रचुररसाशयार्णवमिवप्रहसनं प्रारीप्सुर्ग्रन्थकर्त्ता ग्रन्थस्यनिर्विघ्नपरिसमाप्तये, अविगीतशिष्टाचारदर्शनाद्वा मङ्गलाचरणस्यआवश्यकत्वेन तदाचरणन्तु विधेयमित्यभिप्रेत्य प्रहसनस्य दृश्यकाव्यान्तर्भावात् सूत्रधारपाठ्याष्टपादात्मकनान्दीरूपमङ्गलमाचरति स्वेदेति। मृड़ानीपतेः गिरिशस्य पार्वत्यां गिरिजायां सुरतं शृङ्गारः रसवतां रसभावविशेषचतुराणां मुदे हर्षाय आस्तां भवतु। एतेन गिरिशस्य गिरिजायां सुरतव्यापारः योग्यनायकनायिकाजनकत्वेन रसवतां अतिशयाह्लादजनक इति सङ्गच्छते। तत् पुनः कीदृशम्? स्वेदस्यन्दितसान्द्रचन्दनचयं स्वेदस्यन्दितेन सुरतश्रमजनितधर्मचरणेन सान्द्रः गाढ़ःघनीभूत इत्यर्थः चन्दनचयः शरीरलिप्तचन्दनसमूहो यस्मिन् तत् तथोक्तम्। अधुनापि सुरतव्यापारे गन्धद्रव्यव्यवहारोदृश्यते। पुनः कीदृशम्? दोर्वलिबन्धश्रमात् दोषौहस्तौ वल्ल्यौलते इव इत्युपमितसमासः।

शीत्काराञ्चितलोचनं सुपुलकं भ्रान्तभ्रु नृत्यत्करं
पार्वत्यां सुरतं मुदे रसवतामास्तां मृडानीपतेः॥१॥

अपिच।

स्वर्भानुः सुरवर्त्मनाऽनुसरति ग्रासाभिलाषादसा–
विन्दोरिन्दुमुखि! ग्रसेत किमुत भ्रान्त्या भवत्या मुखम्।

इत्यं नाथगिरा नभोऽर्पितदृशो वक्ते भवान्या भृशं
भामिन्याः कृतचुम्बनस्त्रिनयनः स्तादिष्टेगद्ध्यैसताम्॥२॥


ताभ्यां यो बन्धः बन्धनं तेन जनितः यः श्रमः परिश्रमः तस्मात् परस्परबाहुलतागाढालिङ्गनपरिश्रमवशात्, ऊर्द्धश्वासपरिस्खलत्स्मरकथं ऊर्द्धश्वासेन दीर्घनिःश्वासानां नियतपरित्यागेन परिस्खलन्ती अस्फुटं निःसरन्ती स्मरकथा शृङ्गारविधौ रसाश्रितकथा “त्वमसि जीवनं त्वमसि भूषणं" इत्यादिवाक्यंयस्मिन् तत् तथोक्तम्। पुनः कीदृशम्? सन्दष्टदन्तच्छदं सन्दष्टौ चुम्बितौदन्तच्छदौ ओष्ठाधरौ यस्मिन् तत् तथोक्तम्। “ओष्ठाधरौ तु रदनच्छदौ दशनवाससी” इत्यमरः। पुनः कीदृशम्? शीत्काराञ्चितलोचनं शीत्कारेण शृङ्गारनिपुणरसिकवेद्येनअञ्चितानि उन्मीलितनिमीलितानि लोचनानि यस्मिन् तत् तथोक्तम्। अतः सपुलकं पुलकेन रोमाञ्चेन सह वर्त्तमानं रोमाञ्चितशरीरमित्यर्थः। पुनः कीदृशम्? भ्रान्तभ्रु भ्रान्ते भ्रमन्त्यौ भुवौयस्मिन् तत् तथोक्तम्। पुनः कीदृशम्? नृत्यत्करं नृत्यन्तौ करौ यस्मिन् तत् तथोक्तं कामोद्दीपकभ्रूभङ्गिकरविक्षेपणादिसहितमित्यर्थः। शार्दूलविक्रीडितं वृत्तम्॥१॥

स्वर्भानुरिति। त्रिनयनःत्रीणि नयनानि यस्य सः त्र्यम्बकः सतां रसभावविशेषचतुराणां साधूनां इष्टसिद्ध्यैअभिलषितवस्तुप्राप्तये स्तात् भवतु (अस्तेर्लोटि रूपम्)। सः कीदृशः? “हे इन्दुमुखि! चन्द्रानने! स्वर्भानुः राहुः इन्दोः चन्द्रस्य ग्रासाभिलाषात् कवलाभिप्रायेण सुरवर्त्मना आकाशमार्गेण अनुसरति गच्छति। असौस्वर्भानुः भ्रान्त्या चन्द्रभ्रमेण भवत्याः मुखं किं ग्रसेत? उत इति तर्कयामि” इत्थम् एतादृशया नाथगिरा नाथस्य पत्युर्गिरा वाचा नम्रमुख्या; मानिन्याः मुखोन्नमनाय कौशलवाक्येन इत्यर्थः। नभोऽर्पितदृशः

[नान्द्यन्ते सूत्रधारः] (क)।
अलमतिविस्तरेण (ख) यस्य (ग)।

हास्यप्रस्फुटदन्तमौक्तिकचयच्छायामनोज्ञानना
नानालङ्कृतिसत्कृता रसवतां चित्तप्रमोदस्थली।
सच्छन्दं वरवर्णिनीरसवती सीमन्तिनीव स्वयं
रम्या श्री जगदीश्वरस्य कविता सच्चित्तमानन्दयेत् ॥३॥


नभसिआकाशे अर्पिताः दृशःनयनानि ययातस्याःत्रिनयननिपुणवचनोन्नमितवदनायाः मानिन्याः केनचित् कारणेन मानग्रस्तायाः भवान्याः वक्त्रेवदने भृशं वारंवारं यथा तथा कृतचुम्बनः कृतं चुम्बनं येन सः। शार्दूलविक्रीडितं वृत्तम् ॥२॥

नान्द्यन्त इति। “सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रितः” इति नियमात् नान्द्याःअन्ते, रङ्गद्वारमाश्रित्य नान्दीपाठानन्तरं सूत्रधारःनाटकं अवतारयति इति अभिप्रायः (क)।

अलमिति। अतिविस्तरेण अतिबाहुल्लेन अलं व्यर्थं नान्दीपाठस्य इति शेषः। नान्दीपाठस्यातिशय्येन शुश्रूश्रूणां रसिकानां विरक्तिः सूत्रधारं प्रति द्वेषः सञ्जायते इत्यभिप्रेत्य “अलमतिविस्तरेण” इति उच्यते इत्यर्थः (ख)।

यस्येति। श्रीजगदीश्वरस्य कवेर्विशेषणम् (ग)।

हास्येति। श्रीजगदीश्वरस्य एतद्ग्रन्थकर्तुः कविता स्वयं सीमन्तिनी इव वनिता इव सच्चित्तं सतां साधूनां रसिकानां चित्तं मनः सच्छन्दं यथा तथा आनन्दयेत् आह्लादयिष्यति। यथोक्तलक्षणा वनिता सच्छन्दविहारादिना रसिकानां चित्तं यथा आनन्दयति श्रीजगदीश्वरस्य कवेः कवितापि तथा आनन्दयिष्यति इति भावः। सा च कविता, हास्यप्रस्फुटदन्तमौक्तिकचयच्छायामनोज्ञानना हास्येन प्रस्फुटस्य प्रकाशितस्य दन्तमौक्तिकचयस्य दन्तमुक्तापङ्क्तेः छायया कान्त्या मनोज्ञानि सुन्दराणि आननानि यस्याः सा तथोक्ता इति पञ्चम्यन्तान्यपदार्थबहुव्रीहिः। यस्याःकवितायाः श्रवणमात्रेण रसिकानाम् आननानि दन्तबहिष्करणपूर्वकहास्येन सुन्दरदृश्यानि भवन्तीत्यर्थः। वनितापक्षेतु षष्ठ्यन्तान्यपदार्थबहुव्रीहिः। तथा नानालङ्कृतिसत्कृता नानालङ्कृता उपमाद्यलङ्कारेण वनितापक्षेतु नानाविधभूषणेन च सत्कृता भूषिता। पुनश्च रसवतां रसिकानां चित्तप्रमोदस्थली

अस्ति च तस्य कवेर्निजकुलकमलप्रकाशकदिनकरस्य त्रिपुरहरचरणप्रणामचन्द्रमःप्रकाशितकवित्वकैरवस्य माम् प्रति निदेशः (घ)।

“त्वमिह सुरभिसमयोचितेनास्मद्विरचितेन हास्यार्णवनाम्ना प्रहसनेन विदग्धसमुदायानां हृदयानन्दमुत्पादय” इति (ङ)।


चित्तविनोदस्थानमित्यर्थः अन्यत्र तु समानम्। पुनः कीदृशी? वरवर्णिनी व्याकरणादिपरिशुद्धतया श्रेष्ठा, अन्यत्र तु सर्वावयवानवद्यतया श्रेष्ठा। पुनः कीदृशी? रसवती हास्यादिरसविशिष्टा अन्यत्र तु रसविशेषचतुरा, पुनः च रम्या सुखावगम्यत्वेन मनोहारिणीअन्यत्र तु हावभावप्रकाशादिना मनोहारिणी। शार्दूलविक्रीड़ितं वृत्तम् ॥२॥

अस्तीति। निजकुलकमलप्रकाशकदिनकरस्य निजकुलमेव कमलं तस्य प्रकाशकः दिनकरः सूर्य्य इव, तादृशस्य निजवंशसमुज्ज्वलकारिणः इत्यर्थः। तथा त्रिपुरहरस्य शिवस्य चरणेषु प्रणामरूपेण चन्द्रमसा प्रकाशितं प्रकटीकृतं कवित्वमेव कुमुदं यस्य तादृशस्य, हराराधनेन स्फुरितकवित्वशक्तेरित्यर्थः। तस्य श्रीजगदीश्वरस्य कवेः मां प्रति निदेशःआज्ञा अस्ति वर्त्तते (घ)।

सः कः? इत्यपेक्षायामाह त्वमिति। इह रङ्गे सुरभिसमयोचितेन वसन्तकालयोग्येन मत्कृतेन अस्मद्विरचितेन हास्यार्णवनाम्ना हास्यमेव अर्णवःहास्यार्णव इति नाम यस्य तेन यथा बहुतरतरङ्गिणीनां निर्गमनेनापि सागररसानाम् अल्पत्वं न दृश्यते तद्वदत्रापि हास्यरसप्राचुर्य्यात् कदाचिदपि हास्यरसानामल्पत्वंनानुभूयते अतः हास्यार्णवनाम्नाभिहितमिदम्।

“भाणवत् सन्धिसन्ध्यङ्गलास्वाङ्गाङ्कैर्विनिर्मितम्।
भवेत् प्रहसनं वृत्तं निन्द्यानां कविकल्पितम्।
वृत्तंबहूनां भृष्टानां सङ्घीर्णंकेचिदूचिरे।
तत् पुनर्भवति ह्यङ्गमथवैकाङ्क्षनिर्मितम्॥”

इत्यादिप्रमाणमवलम्ब्यरचितेनाङ्कद्वयात्मकेन हास्यरसाङ्गिना प्रहसनेन विदग्धसमुदायानां रसानुभवचतुरनिचयानां हृदयानन्दं मनस आह्लादम् उत्पादय जनय इति (ङ)।

अवश्यमेतत् शासनमनुष्ठेयम्। यतो विदग्धजनमण्डितायां संसदि रसवत्या वाचा विलसितुं नर्त्तितुञ्चममापि चित्ते कौतूहलमस्ति। अतस्तत् सङ्गीतकमवतारयामि (च)।

(परिक्रम्यावलोक्य च) (छ)

अहो कुसुमसमयरमणीयता चेतो हरति। यतः (ज)।

चञ्चति चन्दनपवनेध्वनति च मधुमत्तमधुव्रते मधुरम्।
कूजति कोकिलनिकरे न हरति सुरभिर्मनः कस्य?॥४॥


अवश्यमिति। एतत् शासनम् आदेशः अनुष्ठेयं पालयितव्यम्। आज्ञाकारिभिः अस्माभिः एषा आज्ञा अवश्यमेव पालयितव्या इत्यर्थः। यतः यस्मात् विदग्धजनमण्डितायां विद्वज्जनभूषितायां संसदि सभायां रसवत्या वाचा रसात्मकेन वाक्येन विलसितुं रसान् उद्दीपयितुंउद्भावयितुं नर्त्तितुं च ममापि चित्ते मनसि कौतूहलम् औत्सुक्यमस्ति। रसिकबहुलशोभितायां सभायां रसात्मकवाक्येन रसोद्दीपनाय नर्त्तनाय च ममापि चित्ते औत्सुक्यं वर्त्तते इत्यर्थः। अतः तत् रसात्मकं सङ्गीतकं नृत्यंवाद्यं गीतञ्च अवतारयामि प्रारभे “नृत्यंतौर्य्यत्रिकं गीतं त्रिभिः सङ्गीतमुच्यते” इति (च)।

परीति। परिक्रम्यावलोक्य च रङ्गमध्ये इतस्ततो भ्रमणं चतुर्दिक्षु दृष्टिविक्षेपञ्च नाटयित्वा (छ)।

अहो इति। अहोइति विस्मये । कुसुमसमयरमणीयता कुसुमसमयस्य वसन्तकालस्य रमणीयता सौन्दर्यं चेतो हरति आकुलीकरोति रसास्वादनतत्पराणां रसिकानां मनो विमोहयतीत्यर्थः। यतः यस्मात् विमोहयति (ज)।

चञ्चतीति। चन्दनपवने चन्दनवनसंसर्गिमलयमारुते चञ्चति प्रवहति सति मधुमत्तमधुव्रते मधुपानमत्तमधुकरे च मधुरं मनोहरं यथा तथा ध्वनति गुञ्जति सति कोकिलनिकरे कुहुरवसमूहे कूजति कुहुरवान् कुर्वति सति सुरभिः वसन्तसमयः कस्य जनस्य मनश्चेतो नहरति? न विमोहयति? सर्वेषामपि मनो विमोहयतीत्यर्थः। आर्य्या ॥४॥

अन्यच्च।

उड्डीयते स्खलति गुञ्जति कुञ्जमध्ये
पुष्पाणि चुम्बति परिष्वजते द्विरेफीम्।
घूर्णन् भ्रमत्यपि परागविधूषराङ्गो
भृङ्गोऽद्य किं न कुरुते मधुपानमत्तः?॥५॥

तत् कथमत्र ललनां विना विनोदः? (झ)। (परिक्रम्य नेपथ्याभिमुखं पठति) (ञ)।

भृङ्गारसक्तनलिनीदलसत्कटाक्षे!
पीयूषरश्मिवदने! मदनेषुतुल्ये!


अन्यच्चअपिच पुनरपि विशिनष्टि उड्डीयत इति। अद्य वसन्तसमये भृङ्गः भ्रमरः मधुपानमत्तः मधुपानेन मत्तः सन् किं न कुरुते? मत्तानां सर्वानपि धर्मान् आचरति इत्यर्थः। तथाहि उड्डीयते आकाशमार्गेण गच्छति कदाचिदिति शेषः। कदाचिदिति सर्वासु क्रियासु ऊहनीयम्। स्खलति आकाशपथात् व्रजति। कुञ्जमध्ये लतागृहाभ्यन्तरे गुञ्जति मधुरं ध्वनति पुष्पाणि चुम्बति पुष्परसाननुभवति। द्विरेफींभ्रमरीं परिष्वजते आलिङ्गति। परागविधूषराङ्गः परागेण पुष्परजसा विधूषराणि पाण्डरवर्णानि अङ्गानि शरीराणि यस्य सः, पुष्परजसा पाण्डुरवर्णशरीरः सन् इत्यर्थः घूर्णन्नपि भ्रमति इतस्ततश्चलति। भ्रमर एताभिरुड्डयनादिक्रियाभिः मत्तधर्मान् प्रकाशयतीति भावः। वसन्ततिलकं वृत्तम् ॥५॥

तत् तस्मात् वसन्तसमये तिर्य्यक्जातीनामपि एतादृशव्यवहारदर्शनात्। कथं केन प्रकारेण ललनां रमणीं विना विनोदः? चित्तस्य सुखं भवेदिति शेषः(झ)।

परीति। परिक्रम्य इतस्ततो भ्रमणं नाटयित्वा नेपथ्याभिमुखं नाट्यशालामभिलक्षीकृत्य नाट्यशालाभिमुखीभूय इत्यर्थः। नेपथ्यंनाट्यशालायां नेपथ्यञ्च विभूषणे इत्यमरः। पठति, कथयति (ञ)।

भृङ्गेति। भृङ्गाणां आरःगतिः तेन सक्ता युक्ता या नलिनी तस्याः दले इव सतीसुन्दरेकटाक्षेअपाङ्गदेशेयस्याः तादृशे चञ्चलतारकाशोभिनयने! इत्यर्थः। पुनः कीदृशी? पीयूषाण्येव रश्मयो यस्य सः चन्द्रः वदनं यस्याः तादृशे!

कन्दर्पसर्पपरिदृष्टसुधे! विदग्धे!
स्निग्धे! प्रिये! त्वरितमागमनं विधेहि ॥६॥

(प्रविश्य) (ट) नटी

अज्जउत्त! एसम्बि दे आस्माणियोअएण समाअदो ता अणुग्गहबअणं पसादीकरीअदु (ठ)।
सूत्रः। आर्य्ये! पश्य (ड)।

आशासु प्रसरन्ति कोकिलकलस्वाना निकुञ्जान्तरे
गुञ्जन्तो भ्रमराः समुत्कमनष्चुम्बन्ति पुष्पावलीम्।


आर्य्यपुत्र! एषास्मि ते आज्ञानियोगेन समागता तस्मादनुग्रहवचनं प्रसादीकुरु (ठ)।


शशिमुखि! इत्यर्थः। पुनः मदनस्य कामस्य इषवः शराः एव तुल्यंतुलना यस्याः तादृशे! कामबाणस्वरूपे! इत्यर्थः। पुनः, कन्दर्प एव सर्पः तेन दष्टा प्रथमम् आस्वादिता या सुधा शरीरलावण्यादिरूपा यस्याः तादृशे! यस्याः कन्दर्पसर्पगरलमिश्रितशरीरलावण्यादिदर्शनेनैव कन्दर्पसर्पगरलस्य तीक्ष्णप्रभावतया सर्वेषामपि धैर्य्यलोपादिकं सञ्जायते किं पुनः सेवया? इति भावः। पुनः, विदग्धे। युवजनमनोरञ्जनकुशले! पण्डिते! इत्यर्थः। पुनः स्निग्धे! औद्धत्यादिदोषरहिते! मृदुलवचनकथननिपुणे! इति भावः।हे प्रिये! प्रियतमे! त्वरितं शीघ्रं यथा तथा आगमनं विधेहि कुरु अत्र शीघ्रमागच्छ इत्यर्थः। वसन्ततिलकं वृत्तम् ॥५॥

प्रविश्य इति। प्रविश्य नाट्यभूमौ प्रवेशानन्तरम् (ट)।

किं तत् इत्याशयेनाह आर्य्येति। हे आर्य्यपुत्र! ते तव आज्ञानियोगेन आदेशेन एषा अहं समागतास्मि तस्मात् अनुग्रहवचनं कृपावाक्यं प्रसादीकुरु कृपया वाक्यम् आज्ञापय इति भावः(ठ)।

कथयतीति शेषः। किं तत्? इत्याह आर्य्येति। आर्य्ये! प्रियतमे! पश्य अवलोकय (ड)।

आशस्विति। आशासु दिक्षु कोकिलकलस्वानाःकोकिलानां मधुरध्वनयः प्रसरन्ति कोकिलाः कुहुरवैःकर्णकुहरान् पूरयन्तीत्यर्थः। अपिच। निकुञ्जान्तरे कुञ्जमध्ये

स्पर्शोत्सारितमल्लिकापरिमलःश्रीखण्डवायुर्वह-
त्येवं कं न करोत्ययं स्मरशराक्रान्तं वसन्तोदयः?॥७॥

अन्यच्च (ढ)।

हृष्टान्यपुष्टमधुरध्वनिभिर्नवोढाम्
अध्यापयन्ति किल माधविका व्रतत्यः।
आलिङ्ग्य चूतमसकृत् कलकण्ठशब्दं
नूत्नप्रसूनपुलकं कुसुमागमेऽस्मिन् ॥८॥

नटी।(किञ्चिदन्यचित्ततां नाटयति) (ण)।


गुञ्जन्तः शब्दायमानाः भ्रमराः द्विरेफाः, समुत्कमनसः समुत्कानि व्यग्राणि मनांसि येषां ते तादृशाः सन्तः मधुपाने व्यग्रचित्ताः इति यावत्। पुष्पावलींकुसुमश्रेणीं चुम्बति पुष्पात् पुष्पान्तरं गत्वा रसमनुभवन्ति इत्यर्थः। स्पर्शेन उत्सारितः विकीर्णः विक्षिप्तःमल्लिकापरिमलःमल्लिकापुष्पसङ्घट्टजनितगन्धो येन तादृशः श्रीखण्डवायुः मलयमारुतः वहति इतस्ततः प्रसरति इत्यर्थः। एवम् अयं वसन्तोदयः वसन्तकालसमागमः कं जनं स्मरशराक्रान्तं कामशराधीनं न करोति? सर्वानपि कुसुमायुधशराधीनान् करोतीत्यर्थः। शार्दूलविक्रीड़ितं वृत्तम् ॥७॥

अन्यश्च पुनरप्याह इत्यर्थः (ढ)।

हृष्टेति। अस्मिन् कुसुमागमे कुसुमानां पुष्पाणाम् आगमो यस्मिन् तादृशे वसन्तसमये एताःमाधविका व्रतत्यःमाधविका लताःमूलानि नूतनानि प्रसूनानि पुष्पाणि एवपुलकानि यस्मिन् तत् यथा तथा चूतं रसालवृक्षम् आलिङ्ग्यपरिष्वज्यहृष्टा आह्लादिता अतएव कलकण्ठशब्दम् अव्यक्तमधुरध्वनि यथा तथा अन्यपुष्टमधुरध्वनिभिः कोकिलानां मधुरकूजनैः असकृत् वारंवारं नवोढांनववधूम् अध्यापयन्ति शिक्षयन्ति किल किल इति उत्प्रेक्षायाम्। एवम् आलिङ्गनमधुरवचनादिभिः पतिम् अनुरञ्जय इति नवपाणिग्रहणां बधूं शिक्षयन्ति इत्यर्थः। वसन्ततिलकं वृत्तम्॥८॥

किञ्चिदिति। किञ्चिदन्यचित्ततां नाटयति ईषदन्यमनस्कताम् अभिनयति इत्यर्थः (ण)।

सूत्रः। आर्य्ये! किमिति अन्यचित्तासि? (त)।
नटी। णसुणिदं अज्जउत्तेण? (थ)
सूत्रः। किं तत्?
नटी। अज्ज ! अज्जेव णियदान्तउरबासिला अणअसिन्धुणाणरबइणा मण्डलविआरणा कादब्बा तेणअस्पचित्तह्मि। (द)
सूत्रः। कान्ते ! किमेतत् सत्यम्? (ध)
नटी। अध इं। (न)

नेपथ्ये (प)।

घटयत घटजालं तोयशून्यं पुरस्तात्।
पथि तुषनखलेखा क्षिप्यतां भो नियुक्ताः!।


न श्रुतं आर्य्यपुत्रेण? (थ)।
आर्य्य! अद्यैवनियतान्तःपुरवासिना अनयसिन्धुनानरपतिना मण्डलविचारणाकर्त्तव्या तेनान्यचित्तास्मि (द)।
अथ किं (न)।


कथयतीति आर्य्ये इति। आर्य्ये! हे प्रिये! किमिति कथं अन्यचित्तासि? अन्यमनस्कासि? त्वमिति शेषः (त)।

नेति। भवता किं न श्रुतम् इत्यर्थः(थ)।

आर्य्यइति। आर्य्य! प्रिय ! नियतं यथा तथा अन्तःपुरवासिना सर्वदा अन्तःपुरस्थायिना अनयसिन्धुना अनयानां नीतिविरुद्धकर्मणां सिन्धुः सागरः इव इति अन्वर्थनामकेन अनयसिन्धुनानरपतिनानृपेण मण्डलविचारणा मण्डलस्य राज्यस्य विचारणा विचारः कर्त्तव्या करणीया तेन अन्यचित्तास्मि अन्यमनस्कास्मि(द)।

कान्ते इति। कान्ते ! प्रिये ! एतत् किं सत्यम्? (ध)
सत्यमेव इत्यर्थः (न)।
नेपथ्ये इति। नेपथ्ये नाट्यशालाभ्यन्तरे केनापि पठ्यते इति शेषः (प)।
घटयतेति। अयम् अनयसिन्धुनामको नृपतिः राजा निजपुरपरिचर्च्चां

निजपुरपरिचर्चां कर्त्तुमेवायमुत्को
नृपतिरनयसिन्धुस्तूर्णमागच्छतीह ॥९॥

सूत्र। (आकाशे कर्णं दवा आकर्ण्य च) (फ)

नीतिर्भीतिमती दिगन्तमभजत् क्षिप्रं समं साधुभि-
र्धूर्त्तानां पटुतापरं परधनाकृष्टं न केषां मनः?
कान्ता कस्य बलान्नकेन रमिता राज्ये यदीयेऽधुना?
तस्य क्षौणिपतेः समागतिरिह स्थातुं न युक्तं प्रिये॥१०॥

तदितोऽन्यत्र गच्छावः (इति उक्त्वानिष्कान्तौ)।
(इति प्रस्तावना)। (ब)


कर्त्तुमेव पर्य्यवैक्षणार्थमेव कुत्रचित् किं वृत्तंशुभम् अशुभं वा जातम् इत्यादि द्रष्टुमेव उत्कः उत्कण्ठितः सन् इह संसदि तूर्णं शीघ्रम् आगच्छति आयाति राज्यस्य शुभाशुभदर्शनार्थम् अन्तःपुरमध्यात् इह शीघ्रमायाति इत्यर्थः। अतः अनयसिन्धोः राज्ञः यात्राकालोचितं सौयात्रिकं द्रव्यजातम् आहर्त्तव्यमित्याशयेनाह घटयतेत्यादि। भो!नियुक्ताः! हे राजकर्मचारिणः! पुरस्तात् पथि अग्रपथि बहिर्निःसरणसम्मुखमार्गे तोयशून्यं वारिविहीनं शुष्कमित्यर्थः। घटजालं घटसमूहं घटयत सज्जीकुरुत यूयमिति शेषः, तुषसहिता नखलेखा तुषनखलेखा मध्यपदलीपिकर्मधारयः तुषनखलेखा च क्षिप्यतां विकीर्य्यतां युष्माभिरिति शेषः। मालिनीवृत्तम् ॥९॥

आकाशे इति। आकाशे कर्णंदत्त्वा आकर्ण्य च। श्रवणार्थं आकाशे तिर्य्यक्भावेन कर्णदानमभिनीय श्रवणमभिनीय च (फ)।

नीतिरिति। हे प्रिये ! यदीये राज्ये यस्य राज्य इत्यर्थः नीतिः सदाचारःभीतिमती सतीसाधुभिः समं सह क्षिप्रं शीघ्रं दिगन्तं दूरदेशम् अभजत् दूरदेशे अपससार। अपिच केषां धूर्त्तानां पटुतापरं चातुर्य्यनिपुणं मनःश्चित्तं परधनाकृष्टं परधनैराकृष्टं न भवति इति शेषः सर्वेषामपि भवति इत्यर्थः। पुनः कस्य कान्ता रमणीबलात् बलंप्रकाश्य ल्यप्लोपे पञ्चमी केन न रमिता उपभुक्ता सर्वेषामपि रमणीसर्वैरपि परस्परं बलपूर्वकमुपभुज्यते इत्यर्थः। शार्दूलविक्रीड़ितं वृत्तम्॥१०॥

तदिति। तत् तस्मात् इतः अस्मात् स्थानात् अन्यत्र गच्छावः यावः

(ततः प्रविशति सानुचरो नरपतिःअनयसिन्धुः)। (भ)

राजा। (स्वगतम्)। अहो दुर्दैवं कुसुमशरशरनिकरजर्जरशरीरेण रात्रिन्दिवं परवनिता निधुवनविलीनमनसा कियत्कालं पौरपरिचर्चा न कृता। (प्रकाशम्।) (म)

अये चरश्रेष्ठ! अयथार्थवादिन्! निरूप्यतां तावत् मण्डलम्। (य)


आवामिति शेषः। इति राजागमनम् एवम्प्रकारैःप्रस्तुताक्षेपिभिर्वाक्यैः सूचयित्वा निष्क्रान्तौ नाट्यस्थानादपसृतौ। इति प्रस्तावना। तल्लक्षणं यथा। “नटी विदूषको वापि पारिपार्श्विक एव वा।सूत्रधारेण सहिताः संलापं यत्र कुर्वते। चित्रैर्वाक्यैःस्वकार्य्योत्थैःप्रस्तुताक्षेपिभिर्मिथः। आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा” (ब)॥

तत इति। ततः प्रस्तावनानन्तरमेव सानुचरः सभृत्यवर्गः, नरपतिः राजा, अनयसिन्धुः अनयानाम् अविनयानां सिन्धुः समुद्रः अन्वर्थनामा (भ)।

स्वगतमिति। स्वगतम् आत्मगतम्। लक्षणं यथा “आश्राव्यं’ खलु यद्वस्तु तदिह स्वगतं मतम्।” अश्राव्यम् इति यत् अभिनेतृभिरश्राव्यं परन्तु श्रोतृभिः श्राव्यमेव। किं तत्? इत्याशयेनाह अहो इति। अहो इति विस्मये। दुर्दैवं किं दुरदृष्टमित्यर्थः। कुसुमान्येव शराः बाणाःयस्य तस्य शरनिकरेण बाणसमूहेन जर्जरं प्रपीड़ितं शरीरं यस्य तेन पुष्पबाणप्रपीड़ितशरीरेण अतः रात्रिन्दिवम् अहर्निशं परवनितायां पररमण्यां यत् निधुवनं शृङ्गारः तस्मिन् विलीनं मग्नंमनो यस्य तादृशेन मया इति शेषः कियत्कालं व्याप्य पौरपरिचर्चा मण्डलविचारःन कृता, कामबाणजर्जरीकृतशरीरत्वेन नियतपररमणीरमणेन च मया राजकार्य्यमपि विस्मृतमिति भावः। प्रकाशम् सर्वश्राव्यं यथा तथा आह इति शेषः। प्रकाशस्य लक्षणन्तु “सर्वश्राव्यं प्रकाशं” स्यात्।” इति (म)

तत् किम्? इत्याशयेनाह अये इति। अये! इति सम्बोधनम्। अयथार्थवादिन्! असत्यवचनचतुर ! चरश्रेष्ठ! मण्डलं राज्यंतावत् निरूप्यतां परिज्ञायताम्। मया तु बहुकालं राज्येकिं वृत्तं तन्नावगनम् इदानींतत् ज्ञात्वा मामावेदय इति भावः(य)।

चरः। जं देओआणवेदि। (र)
(इति निष्कम्य समन्तादवलोक्य च पुनः प्रविश्य नृपकर्णसमीपे उच्चैः (ल)।)
देओजाणिदं मण्डलरहस्मम्। (व)
राजा। कथय कथय (श)।
चरः। चिरआलं अविआलणार मण्डले सब्बो ज्जेब बबाहारो अत्तं गदो त्ति (ष)।
राजा। (सक्रोधं) कुतः? (स)
चरः। (संस्कृतमाश्रित्य) देव! यतः।

आलिङ्गन्ति निजाङ्गनां परबधूंहित्वा जनाः साम्प्रतं
नीचः सीव्यति सत्युपानहमहो सद्ब्राह्मणानां गणे।


यद्देव ज्ञापयति (र)।
देव! ज्ञातं मण्डलरहस्यम् (व)।
चिरकालं अविचारणया मण्डले सर्व एव व्यवहारः अस्तं गतः इति (ष)।


यदिति। महाराज ! यदाज्ञापयति यथादिशति तथा करोमीति भावः (र)।

इति निष्क्रम्य राजसकाशात् किञ्चिद्दूरं गत्वा गमनमभिनीय समन्तादवलोक्य च चतुर्दिक्षुअवलोकनमभिनीय च पुनः प्रविश्य राजसन्निधिं आगत्य च नृपकर्णसमीपे मुखं नीत्वा उच्चैःतारस्वरेण आह इति शेषः (ल)।

देव इति। देव ! हे महाराज ! मण्डलरहस्यं मण्डलस्य रहस्यंतत्त्वं ज्ञातम् अवगतं मया इति शेषः(व)।

कथयेति। कथय कथय वद वद इति सम्भ्रमे द्विरुक्तिः (श)।

चिरकालमिति। चिरकालं बहुकालं व्याप्य अविचारणयाविचाराभावेन मण्डले राज्ये सर्वएव व्यवहारः आचारः अस्तं गतः इति (ष)।

सक्रोधंसकोधंयथा तथाह इति शेषः। कुतः इति। कथं व्यवहारो लुप्तः इतिज्ञायते इति शेषः(स)।

वन्दन्तेद्विज मन्त्यजे निवसति व्रीड़ाविहीना जना
एवं मण्डलवैपरीत्यमधिकं जातं महाभूपतेः ॥१०॥

अपिच।

नारीणां नयनेऽञ्जनं न जघने सिन्दूरभामण्डिते
सीमन्ते न च नूपुरौ पदयुगे यावोऽपि नैवेक्षणे।
वक्षोजे मणिमञ्जरी न चरणे काञ्ची कटौ नाधरे
चेत्थंवेशविपर्य्ययः प्रतिगृहं दृष्टः सकष्टं मया ॥११॥

राजा। (आकर्ण्य आत्मगतम्) चिरकालाविचारणया अयमव्यवहारो जातः पौराणां भवतु दण्डं विधास्यामि। (ह)


आलिङ्गन्तीति। साम्प्रतम् अधुना जनाः सर्वे लोकाः, परबधूं पररमणीं हित्वा विहाय निजाङ्गनां निजबधूंआलिङ्गन्ति परिष्वजन्ते चालिङ्गनमित्युपलक्षणं उपभुञ्जते इत्यर्थः, अहो इति विस्मये, सद्ब्राह्मणानां विद्वद्विप्राणां गणे समूह सति विद्यमाने नीचः अन्त्यजः चर्मकारः उपानहं चर्मपादुकां सीव्यति आरादिभिरस्त्रैः निर्मिमीते, पुनः व्रीडाविहीना, निर्लज्जाः जनाः अन्त्यजे नीचे निवसति वर्त्तमाने सति द्विजं ब्राह्मणं वन्दन्ते अभिवादयन्ते प्रणमन्ति इत्यर्थः। एवं इत्थंप्रकारैः–महाभूपतेःमहाराजस्य—भवतःमण्डलवैपरीत्यंराज्यस्य विपरीतव्यवहारः अधिकं यथा तथा जातं वृत्तम्। शार्दूलविक्रीड़ितं वृतम् ॥१०॥

नारीणामिति। नयने नेत्रे अञ्जनं कज्जलं दत्तं जघने जङ्घायां, तथा सिन्दूरभामण्डिते सिन्दूरशोभाभूषिते सीमन्ते ललाटोर्द्धस्थितकेशविभागप्रदेशे च न दत्तम्। नूपुरौ सशब्दचरणालङ्कारौ, यावोऽपि अलक्तकं च पदयुगे चरणयुगले च दत्तःईक्षणे नयने नैव नच दत्तः। मणिमञ्जरी मणिनिर्मितः हारः वक्षोजे कुचयुगोपरि दत्ता, चरणे न दत्ता, काञ्ची मेखला कटौ नितम्बे दत्ता अधरे वदने न च दत्ता। इत्थं अनेन प्रकारेण प्रतिगृहंगृहे गृहे नारीणां कामिनीनां बेशविपर्य्ययः भूषणव्यत्यासः सकष्टं सक्लेशं यथा तथा मया दृष्टः अवलोकितः। शार्दूलविक्रीड़ितं वृत्तम् ॥११॥

चिरेति। चिरकालाविचारणया बहुकालं व्याप्य अविचारणया विचारा

(प्रकाशम्) अये! आहूयतां कुमतिवर्माख्यो मन्त्री। (क्ष)
चरः। जं देओआणबेदि (क)।

(इति निष्क्रम्य तेन सह पुनः प्रविष्टः) (ख)।

(प्रविश्य कुमतिवर्मा वामपाणिना नृपतिं नमस्कृत्य अपृष्टोऽपि सन् प्रस्फुटम्) आज्ञापयतु महाराज! किं अनुष्ठेयम्?(ग)।
राजा। मन्त्रिन् ! आस्थानोचितस्थानं विना चिरं मण्डलचर्चा न क्रियते (घ)।


यत् देव आज्ञापयति (क)।


भावेन पौराणां पुरवासिनाम् अयम् अव्यवहारःअत्याचारः जातः संवृत्तः। भवतु तावदस्तु दण्डं शास्तिं विधास्यामि करिष्यामि (ह)।

प्रकाशं सर्वश्राव्यम् यथा स्यात्तथाह — अये भो ! आहूयतां आकार्य्यतां कुमतिवर्माख्यो कु कुत्सिता मतिः बुद्धिर्यस्य सः वर्मा वर्मोपाधिकः स एव आख्या नाम यस्य सः इति मन्वर्थनामा मन्त्री अमात्यः(च)।

देवः महाराजः भवान् यत् आज्ञापयति आदिशति तत् करोमि इत्यर्थः (क)।

इति उक्त्वा इति शेषः निष्क्रम्य नेपथ्याभ्यन्तरं गत्वा तेन मन्त्रिणा सह पुनःप्रविष्टः तत्रागतःइत्यर्थः (ख)।

कुमतिवर्मा प्रविश्य राजसन्निधिं गत्वा वामपाणिना वामहस्तेन वामहस्तमुत्तोल्य नृपतिं राजानं नमस्कृत्य आह इति शेषः। किं तदित्यपेक्षायामाह अपृष्ट इति। अपृष्टोऽपि सन् अजिज्ञासितः सन्नपि प्रस्फुटं सुव्यक्तंयथा तथा आज्ञापयतु आदिशतु हे महाराज ! किं अनुष्ठेयं? किं कर्त्तव्यंमया इति (ग)।

मन्त्रिन्! हे अमात्य! आस्थानोचितं आस्थानस्य सभायाः उचितं योग्यं स्थानं विना घटते चिरं चिरकालं व्याप्य मण्डलचर्चा मण्डलस्य चर्चा पर्यालोचना विचारःन क्रियते कुत्र स्थित्वा विचारं करोमि एतादृशं स्थानं निर्दिश्यतामिति भावः(घ)।

मन्त्री। (ससम्भ्रमं) देव! अत्रैव अस्ति परमरमणीयं स्थानम् (ङ)।
राजा। निवेदय निवेदय (च)।
मन्त्री। बन्धुरायाः कुट्टिन्याः प्राङ्गणम् (छ)।
राजा। (साट्टहासम्) कुमतिवर्मन्! मम चित्तेन सममभिमन्त्र्य संसदि प्रविष्टवानसि। यतो देव्या गलितकुचस्पर्शविमुखस्य वाराङ्गनालिङ्गनाय ममापि अभिलाषः। यतः उदरपतितस्तनीषु कुतः स्मरावस्थितिः? (ज)।

तथाच।

उत्तुङ्गस्तनशैलदुर्गविषमे वामेक्षणानां हृदि
स्थित्वा यत्र बलाद्भिनत्ति हृदयं यूनां सुतीक्ष्णैःशरैः।


ससम्भ्रमं सत्वरमाह देव! महाराज! अत्रैवअस्मिन्नेव अस्ति वर्त्तते परमरमणीयम् अतीव सुन्दरं स्थानं भवतां विचारयोग्यःप्रदेशः(ङ)।

निवेदय निवेदय कथय कथय इति सम्भ्रमे द्विरुक्तिः (च)।

प्राङ्गणं चत्वरम् (छ)।

साट्टहासं सोच्चहासं यथा तथा ग्राह इति शेषः। कुमतिवर्मन्निति। हे कुमतिवर्मन्! मम चित्तेन समं मम मनसा सह अभिमन्त्र्यविचार्य्य संसदि सभायां प्रविष्टवानसि आगतोऽसि, यतः देव्याः महिष्याः गलितकुचस्पर्शविमुखस्य पतितकुचस्पर्शरहितस्य पतितकुचयोःस्पर्शमपि न कृतवतः ममापि वाराङ्गनालिङ्गनाय वेश्याङ्गनासङ्गार्थम् अभिलाषः इच्छा वर्त्तते यतः उदरपतितस्तनीषु उदरे पतितौ स्तनौ यासां तासु कुचचुम्बितनाभिदेशासु स्त्रीषु कुतः कथं स्मरावस्थितिः स्मरस्य पुष्पायुधस्य अवस्थितिःअवस्थानं सम्भवेदिति शेषः। परन्तु पलायत इति भावः(ज)।

तदेव प्रमापयति। उत्तुङ्ग इति। यत्तदोः नित्यसम्बन्धात् यत्शब्द ऊहनीयः। यःपुष्पायुधः पुष्पधन्वा वामेक्षणानां वामलोचनानां रमणीनां उत्तुङ्गस्तनशैलदुर्गविषमे उत्तुङ्गस्ततनशैलदुर्गेणउच्चतररकुचपर्वतदुर्गेण विषमे दुष्प्रवेश्ये

तस्मिन्मन्मथयुद्धमर्दनवशात् पातं प्रयाते स्तने
मन्ये दुर्गपराजयादपसरेद्भीरुः स पुष्पायुधः ॥१२॥

मन्त्री। तदुपसर्पावः (झ)।
राजा। (सोल्लासं मन्त्रिणा सह परिक्रामति) (ञ)।
चरः। (परिक्रम्य) (ट)।
देअ! एत्थ ज्जेब पूरदो घणदरघणसारसुरहिचन्दणमियणाभिबिबिह कुसुमपरिमलो ओसरदु ता एदं बन्धुराए मन्दिरं तक्केमि इदो अणुसरदु देओ(ठ)।


देव! अत्रैवपुरतोघनतरघनसारसुरभिचन्दनमृगनाभिविविधकुसुमपरिमलोऽपसरति तस्मादिदं बन्धुराया मन्दिरमिति तर्कयामि इतोऽनुसरतु देवः(ठ)।


यत्र यस्मिन् हृदि हृदये स्थित्वा अवस्थाय सुतीक्ष्णैः शितैः शरैः नारीणां कटाक्षवाणैरित्यर्थः यूनां युवकानां हृदयं बलात् बलं प्रकाश्य भिनति विदारयति। तस्मिन् स्तने कुचदुर्गे मन्मथयुद्धमर्दनवशात् मदनयुद्धे रतिक्रियारूपमदनसंग्रामे मर्दनवशात् पीड़नहेतोः मर्दनन्तूपलक्षणं पतनयोग्याधःखननादिव्यापार इत्यभ्युपगम्यते पातं पतनं प्रयाते प्राप्ते सति पतिते सति इत्यर्थः दुर्गपराजयात् युद्धकरणयोग्यस्थाननाशात् स भीरुः सन् अपसरेत् अपेयात् पलायेत इति यावत् इत्यहं मन्ये यथा राजा दुर्गपराजयात् राज्यं परित्यज्य अपसरति तद्वत् पुष्पायुधः कुचदुर्गपतनात् रमणीराज्यं परित्यज्य कुत्रस्थित्वा युद्धं करिष्यामि इति विचिन्त्य अपसरेत् इति भावः। शार्दूलविक्रीडितं वृत्तम् ॥१२॥

तस्मात् वाराङ्गनाङ्गसंसर्गात् उपसर्पावः गच्छावः आवाम् (झ)।

सोल्लासं सोत्साहंयथा स्यात् तथा मन्त्रिणासह परिक्रामति गमनं नाटयति (ञ)।

परिक्रम्य गमनंनाटयित्वा आह (ट)।

देव! हे महाराज! घनतरः घनसारःकर्पूरः सुरभिचन्दनञ्च सुगन्धचन्दनं मृगनाभिञ्चमृगमदः विविधकुसुमानि च नानाविधपुष्पाणि तेषां परिमलः

राजा। (प्राङ्गणमनुसृत्य सप्रमोदं) इदं बन्धुरायाः प्राङ्गणम्, प्राप्तम् मया तीर्थशतपर्य्यटनपुण्यम् (ड)।
मन्त्री। क्व सा बन्धुरा कुट्टिनी? (ढ)।

(ततः प्रविशति भुजङ्गशतपरिवेष्टिता बन्धुरा) (ण)।

अहो! अच्चरीयं अच्चरीयम्। णणु रे भुजङ्गा! प्रणयसिन्धुणरबइणो धूत्ताणां चक्कबट्टिणोसमागमो बट्टदि ता कधं तालजुओलभिल्लोमहणमिलिदाइंबसन्तसमय मुद्दिसिय गीदाइं गाइदुंबिलम्बौअद (त)।


अहो! आश्चर्य्यम् आश्चर्य्यम्। ननु रे भुजङ्गाः! अमयसिन्धुनरपतेर्धूर्तानां चक्रवर्त्तिनः समागमो वर्त्तते तत्कथं तालयुगलझिलीमर्दनमिलितानि वसन्तसमयमुद्दिश्य गीतानि गातुं विलम्बयत (त)।


गन्धः अपसरति वहति आयाति इत्यर्थः तस्मात् कर्पूरादिसुगन्धसम्पर्किवायुवहनात् इदम् अदूरवर्त्ति बन्धुरायाः कुट्टिन्याः मन्दिरं गृहम् इति तर्कयामि सम्भावयामि देव! हे राजन्। इतः अस्यां दिशि अनुसरतु आगच्छतु (ठ)।

प्राङ्गणम् अनुसृत्य बन्धुरायाः चत्वरप्राप्तिम् अभिनीय सप्रमोदं सामोदम् इत्यर्थः आह।बन्धुरायाः इदं प्राङ्गणं चत्वरम्। तीर्थशतपर्य्यटनपुण्यं बहुतीर्थपर्य्यटनेन यादृशं पुण्यं तादृशं मया प्राप्तं लब्धंबन्धुरायाः एकप्राङ्गणप्राप्त्याशतशततीर्थपर्य्यटनफलं मया लब्धमिति भावः(ड)।

क्व कुत्र सा बन्धुरा कुट्टिनी (ढ)।

ततः मन्त्रिणा आह्वानानन्तरं प्रविशति रङ्गभूमौ आयाति भुजङ्गशतपरिवेष्टिता, भुजङ्गशतेन जारशतेनपरिवेष्टिता मिलिता सती माह चेत्यूह्यम् (ण)।

अहोइति विस्मये आश्चर्य्यम् आश्चर्य्यम्। अभूतपूर्वमेतत्।

ननु रे इति तुच्छसम्बोधने (ह्याँरेइति भाषा) भुजङ्गाः! जाराः! धूर्तानां शठानां चक्रवर्त्तिनः अधिपस्य अनयसिन्धुनरपतेः अनयसिन्धुराजस्यसमागमःआगमनं वर्त्तते भवति तत् कथं किमर्थं वसन्तसमयं सुरभि-

(उपसृत्य भुजङ्गाः। सहर्षम्) (थ)

महुमत्तमहुब्बदराअयुतौकलकण्ठविलासिणिगाणरुतो।
युअचित्तविआरणपञ्चशरो तुह भोदु महब्बहुपोदिअरो ॥१३॥

(इति पुनः पुनर्नाटयति) (द)

राजा। (आकर्ण्य कर्णेस्वैरं) हे कुमतिवर्मन्! किञ्चिदियं प्रार्थयते (ध)।
कुमतिः। निखिले जगति महापातकिनो भवन्त एव, तत्सर्वान् विहाय ते शिरसि भविष्यति वज्रपातः (न)।


           ***

मधुमत्तमधुव्रतरागयुतः कलकण्ठविलासिनीगानरुतः।
युवचित्तबिदारणपञ्चशरः तव भवतु मधुर्बहुप्रीतिकरः ॥१३॥


           ***

कालम् उदिश्य तालयुगलझिल्लोमर्दनमिलितानि तालयुगलं कांस्यनिर्मितः वाद्यविशेषः झिल्लीच (झाँज्) मर्दनं च (मादल) तैःलयप्रदवाद्यविशेषैः मिलितानि सङ्गतानि गीतानि गानानि गातुम् उपकण्ठयितुं विलम्बयत चिरयत यूयमिति शेषःजिज्ञासायां लोट् (त)।

भुजङ्गाः जाराःउपसृत्य समीपं गत्वा सहर्षं साह्लादं यथा तथा आह (थ)।

मधुमत्तेति। मधुमत्तानां मधुपानोन्मत्तानां मधुव्रतानां मधुमात्रपायिनां भ्रमराणां रागेण मञ्जुमुञ्जनेन युतः युक्तः, पुनःकलकण्ठविलासिनीनां मनोहरकण्ठध्वनिविशिष्टानां कामिनीनां गानस्य रुतं शब्दः यस्मिन् सः, तथा यूनां युवकानां चित्तविदारणःहृदयविदारकः पञ्चशरः पुष्पायुधो यस्मिन् सः, मधुः वसन्तः तव बहुप्रीतिकरोऽतिसुखकरी भवतु आस्ताम् ॥१२॥

इति सङ्गीतकं पुनः पुनः वारंवारं नाटयति अभिनयति (द)।

आकर्ण्य श्रुत्वा कर्णेश्रुतिसमीपे स्वैरं मन्दं मन्दं यथा स्यात्तथा आह इति शेषः। हे कुमतिवर्मन्! इव बन्धुरा किञ्चित् प्रार्थयते याचते अभिलषति इत्यर्थः (ध)।

निखिलेजगति इह चराचरे भवन्त एव महापातकिनः महापापाचारिणः तत् तस्मात् सर्वान् जनान् विहाय परित्यज्यते तव शिरसि मूर्ध्नि वज्रपातः अशनि-

राजा। न ज्ञायते किमेवं भविष्यति, तदा किं विधेयम्? (प)
मन्त्री। दैन्यं प्रकटीकृत्य अत्रैव उपवासत्रयं विधेयमिति। (फ)
राजा। (आत्मगतम्) अलं भयेन, प्रणम्य एनां प्रतारयामि। (ब)

(प्रकाशम्।)

मातर्बन्धुरे! अयमहं प्रणमामि। (भ)
बन्धुरा। मियङ्गलेहा दे सुप्पसणा भोदु (म)।
राजा। (सहर्षमात्मगतं) निस्तीर्णोऽस्मि महापातकात्न प्रार्थितमनया किञ्चित्। (य)


     ***

मृगाङ्कलेखा ते सुप्रसन्ना भवतु (म)।


     ***

पतनं भविष्यति। ये व्ययं कर्तुमुद्यताः त एव अशनिपतनेन आत्मपातमपि न गणयन्ति, सुतरां त एव महापातकिनः इत्यहं मन्ये (न)।

किमेवं भवेत् इति न ज्ञायते न अवगम्यते मया इति शेषः।तदा तर्हि किं विधेयं? किमनुष्ठेयम् ? (प)।

दैन्यं दरिद्रतां प्रकटीकृत्य आश्रित्य अत्रैवअस्मिन्नेव तीर्थे, उपवासत्रयं विधेयमनुष्ठेयमिति (फ)।

अलं भयेन? भयेन किं? प्रणम्य प्रणामं कृत्वा एनां बन्धुरां प्रतारयामि वञ्चयामि प्रणामेनैव चस्याः सन्तोषमुत्पादयामीति भावः(ब)।

मातर्बन्धुरे! अयम् अहम् एषोऽहं प्रणमामि चभिवादये (भ)।

मृगाङ्गलेखा नाम्नी काचित् नायिका, ते तव सुप्रसन्ना सन्तुष्टा भवतु इति आशीर्वादवचनम् आह)(म)।

अपितु महापातकभयात् महापापकस्यात् निस्तीर्णोऽस्मि मम महापातकाशङ्का नास्तियतः अनया बन्धुरया किञ्चित् किमपि न याचितं प्रार्थितम् (य)।

(प्रकाशं) क्व सा मृगाङ्गलेखा? (र)
ततः प्रविशति विशेषालङ्कृतशरीरलतिका मृगाङ्गलेखा। (ल)
मृगा। (सस्मितम्) अम्ब! को एषो? (व)।
बन्धुरा। पुत्ति! णआणासि ? अणयसिन्धु भुमिस्मरोदे दंशनत्थी (श)।
मृगा। (सस्मितं) इदो अहिअंकिं पुणम्?(ष)
राजा। (नायिकामवलोक्य) अहो! आश्चर्य्यमस्याः। (स)

सञ्जातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं
भ्रान्तभ्रूलतमैणनाभितिलकं श्रीखण्डपत्रालकम्।


           ***

अम्ब! क एषः(व)।
पुत्रि! न जानासि? अनयसिन्धुःभूमीश्वरः ते दर्शनार्थी। (श)।
इतोऽधिकं किं पुण्यं? (ष)


           ***

क्व कुत्र सा मृगाङ्कलेखा? (र)।

ततः प्रविश्यति इत्यादि स्पष्टम् (ल)।

अम्ब! हे मातः! (व)।

पुत्रि! वत्से! एनं न जानासि न अवगच्छसि। एषः अनयसिन्धुःभूमीश्वरः नृपतिः ते तव दर्शनार्थी दर्शनाभिलाषी, त्वां द्रष्टुमागत इति भावः(श)।

इतः अस्मात् मत्कर्मकदर्शनादन्यत् अधिकं किं पुण्यं? मत्कर्मकदर्शनादृते पुष्यंनास्तीति भावः(ष)।

अहोइति विस्मये(स)।

सञ्जातेति। अस्याः मृगाङ्कलेखायाः वरतनोः अनवद्याङ्ग्याःआश्वर्यम् अपूर्वम् आस्यम् बदनं कस्य जनस्य प्रियं मनोहारि न भवति? अपि तु सर्वेषामेव भवतीत्यर्थः। तदास्यं विशिनष्टि। सञ्जातेन्दुपराभवं सञ्जातः सम्भूतः इन्दोश्चन्द्रस्य पराभवः पराजयो यस्मात् तथाभूतम् अस्याः सर्वावयवानवद्यवदनदर्शनेन इन्दुरपि पराभवममन्यतेति भावः। तथा परिलसद्व्यालोलनेत्राञ्जनंपरिलसत् संशोभि

बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं
त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यंन कस्य प्रियम्?॥१४॥

अपिच।

अस्या धामसरोवरे भुजविसे वक्त्रारविन्दे भ्रम-
न्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले।
वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपेत्य द्रुतं
मग्नश्चित्तमतङ्गजः कथमसावुत्थाय निर्य्यास्यति? ॥१५॥


         ***

व्यालोलनेत्रयोः चञ्चलनयनयोः अञ्जनं कज्जलं यस्मिन् तथाभूतं तथा भ्रान्तभूलतं भ्रान्ते घूर्णतौ भ्रूलते यस्मिन् तथाभूतं भूविक्षेपादियुतमित्यर्थः। तथा ऐणनाभितिलकम् ऐणनाभिः मृगमदः तन्निर्मितं तिलकं यस्मिन् तथाभूतं तथा श्रीखण्डपत्रालकं श्रीखण्डःचन्दनविशेषः तेन रचितं पत्रालकं यस्मिन् तत् तादृशं ललाटन्यस्तचन्दनविन्दुशोभि इत्यर्थः। तथा बन्धूकाधरसुन्दरं बन्धूकं रक्तवर्णपुष्यविशेषः तद्वत्योऽधरः तेन सुन्दरं मनोज्ञं तथा सुरमुनिव्यामोहि वाक्यामृतं सुराणां मुनीनाञ्च व्यामोहि मोहजनकं वाक्यामृतं वचनपीयूषं यस्मिन् तत् यथा त्रैलोक्याद्भूतपङ्कजं त्रैलोक्ये विभुवने अद्भूतपङ्कजमिव अभूतपूर्वसरोजस्वरूपमित्यर्थः। वदनमीदृक् न मया कदाप्यवलोकितमिति भावः। शार्दूलविक्रीडितं वृतम् ॥१४॥

अस्या इति। अस्याःमृगाङ्कलेखायाः सुयौवनजले सुयौवनं तारुण्यमेव जलं यस्मिन् तथाभूते कस्तूरिकापङ्किले मृगमदरूपपङ्कान्विते तथा तथा वक्त्रारविन्दे वक्त्रमुखमेव अरविन्दं पद्मंयस्मिन् तथाभूते, तथा भुजविसे भुजौ करावेव विसे मृणाले यस्मिन् तथाभूते, तथा भ्रमन्नेत्रभ्रूभ्रमरे समन्तौनेत्रभूभ्रमरौयस्मिन्तादृशे धामसरोवरे देहसरसि वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधात् वक्षोजौ कुचावेव प्रतिकुम्भिनः प्रतिद्वन्द्विदन्तिनः यौ कुम्भौ तयोर्दलनाय मर्दनाय उत्पन्नः यः क्रोधः कोपः तस्मात् द्रुतं सरभसम् उपेत्य गत्वा मग्नः चित्तमतङ्गजःमनोमजः कथंकेन प्रकारेण उत्थाय देहसरोवरादिति शेषः। निर्यास्यति? निर्गमिष्यति? न केनापि प्रकारेण उत्थातुं समर्थोभविष्यति इति भावः। शार्दूलविक्रीडितं वृत्तम् ॥१५॥

(पुनर्बन्धुरामन्यमनस्कामवलोक्य) बन्धुरे। कथमन्यहृदयासि? (ह)।

बन्धु।देओमिअङ्कलेहां मम्महतन्तं अज्झाबणत्थंबीस्मभण्ड उअज्झाओआगमिस्मदि एदेणअणहिअआस्मि । (क्ष)

राजा। (सहर्षम्) अस्माकं कुलपुरोहितः स एव। (अ)

नेपथ्ये।

दिनोपवासी तु निशामिषाशी
जटाधरः सन् कुलटाभिलाषी।
अयं कषायाम्बरचारुदण्डः
शठाग्रणीः सर्पति विश्वभण्डः॥ १९॥


         ***

देव! मृगाङ्कलेखाया मन्मथतन्त्रमध्यापयितुंविश्वभण्डःउपाध्याय आगमिष्यति एतेन अन्यहृदयास्मि (क्ष)।


         ***

कथं अन्यहृदयासि? अन्यमनस्कासि? (ह)

देव! महाराज! मृगाङ्गलेखां मम सुतां मन्मथतन्त्रं कामशास्त्रम् अध्यापयितुं पाठयितुं विश्वभण्डःविश्वस्य भण्ड इति अन्वर्थनामा उपाध्यायःअध्यापकः आगमिष्यति एतेन हेतुना अन्यहृदयास्मि अन्यमनस्कास्मि (क्ष)।

अस्माकं कुलपुरोहितःवंशपुरोधाः(अ)।

नेपथ्ये रङ्गशालाभ्यन्तरे पठति दिनोपवासीति। दिनोपवासीदिवा अनाहारी, तु पुनः निशामिषाशीनिशायां रात्रौ आमिषाशीमत्स्यमांसादिभोजी तथा जटाधरः जटिलः सन् कुलटाभिलाषीवेश्यागमनोत्सुकः तथा कषायाम्बरचारुदण्डः कषायं गैरिकादिना रक्तम् अम्बरं वस्त्रंयस्य स, तथा चारुः सुन्दरः दण्डःयष्टिः यस्य स चेति “विशेषणेन च” इति सूत्रेण कर्मधारयः। तथा शठाग्रणीः शठानां धूर्तानां अग्रणीः अग्रेसरः विश्वभण्डःतन्नामा अध्यापकः सर्पति गच्छति। उपेन्द्रवज्रावृत्तम् ॥१९॥

(ततः प्रविशति विश्वभण्डः कलहाङ्कुरेणछात्रेण अनुगम्यमानः परिक्रम्य समन्तादवलोक्य च)।(क)

विश्वः। अहो! अभिनवकुसुमकालो वर्त्तते।

अपिच।

कुसुमशरसखो विनोदिबन्धु-
र्विविधविलासकलापमानधामा।
मदयति हृदयान्ययं जनानां
सुरभिरिवासवसञ्चयः सुगन्धिः॥१७॥

(पुनःछात्रमवलोक्य पठति।)

आकाशे प्रसरन्ति तालयुगलस्वानाः सझिल्लीरवाः
सर्व्वाशामुखरो ध्वनत्यविरतं मन्दं मृदङ्गध्वनिः।


         ***

कलहाङ्कुरेण कलहस्य विवादस्य अङ्कुरः वीजभूतः इति सार्थकनामधेयेन छात्रेण अन्तेवासिना (क)।

अहो! विस्मये, अभिनवकुसुमकालः नूतनसुरभिसमयः। तं विशिनष्टि अपिचेति। अपिच पुनरपि। कुसुमशरसखः कुसुमशरस्य कामस्य सखा सुहृत्, “राजाहः सखिभ्यष्टच्” इति टच् समासान्तः। तथा विनोदिबन्धुः विनोदिनांविलासिनांबन्धुः। तथा विविधविलासकलापानां बहुविधरतिशास्त्रपण्डितानां मानस्य धाम प्रभावो यस्मात् तथाभूतः। “धाम रश्मौगृहे देहे स्थाने जन्मप्रभावयोरिति” मेदिनी। अयं सुरभिः वसन्तसमयः सुगन्धिः सुरभिः आसवसञ्चयः मदसमूह इव जनानां विलासिनां हृदयानि मनांसि मदयति विक्षेपयति। उपमेयसुरभिपदविशेषणानि उपमानासवसञ्चय इतिपदेऽपि योज्यानि। आसवेन विलासिनां यथा चित्तविकारो जायते तथा अनेन सुरभिणापि। पुष्पिताग्रावृत्तम् ॥१७॥

वसन्ताविर्भावमुपवर्णयन्नाह आकाश इति। तालयुगलस्वानाःतालयुगलस्य कांस्यनिर्मितवाद्यविशेषस्य स्वानाः ध्वनयः, सझिल्लीरवाः झिल्लीरवैः कांस्यनिर्मितवाद्यविशेषध्वनिभिः सह वर्त्तमानाः सन्तः आकाशे नभसि प्रसरन्ति तालयुगलध्वनयः झिल्लीरवैः सह गगनमण्डलं पूरयन्ति इत्यर्थः। तथासर्वाशामुखरः

कर्पूरागुरुगन्धबन्धु रनिलो व्याप्नोति सर्व्वा दिशो
गेहे कस्य महोत्सवोऽद्य नियतं वत्स! द्रुतं ज्ञायताम् ॥१८॥

(परिक्रम्य कलहाङ्कुरः) भअबं! बधुराए कुट्टिणीए णिलए महुस्मबो बट्टदि) (ख)।

विश्वः। (सहर्षं) वत्स!पूर्वसंवत्सरे भोजयितुं तया निमन्त्रिता वयम् तदयमवसरः (ग)।

(इति परिक्रम्य बन्धुरायाः प्राङ्गणं प्रविष्टः।)

बन्धु। उअज्झाअ! एदं भग्गासणं उबबिसदु अज्जो। (घ)
विश्वः। (नाट्येन उपविश्य ससम्भ्रमं) मातर्बन्धुरे! प्रणमामि (ङ)।


       ***

भगवन् ! बन्धुरायाः कुट्टिन्याः निलये महोत्सवो वर्त्तते ( ख ) \।
उपाध्याय ! इदं भग्नासनम् उपविशतु आर्यः (घ ) \।


        ***

सर्वासु आशासु दिक्षु मुखरः सञ्चारी मृदङ्गध्वनिः मुरजरवः मन्दं यथा तथा अविरतं निरन्तरं ध्माति शब्दायते। तथा अनिलो वायुः कर्पूरागुरुगन्धबन्धुः कर्पूरागुरुचन्दनगन्धसहचरः सन् सर्वाः दिशःव्याप्नोति परिपूरयति सर्वाषु दिक्षु वहतीत्यर्थः। हे वत्स! अद्य कस्य गेहे गृहे नियतं निरन्तरं महोत्सवःमहाह्लादजनकः व्यापारः भवति? तत् द्रुतं शीघ्रंज्ञायताम् अवगम्यताम्। शार्दूलविक्रीड़ितं वृतम् ॥१८॥

भगवन्। प्रभो! महोत्सवःमहामोदजनकव्यापारःवर्त्तते, भवति (ख)।

पूर्वसंवत्सरे गतवत्सरे, तया कुट्टिन्या, निमन्त्रिताः सुब्राह्मणबुद्ध्या आहूताः इत्यर्थः। तदयमवसरः तत् तस्मात् अयं समयः पूर्ववत्सरे यदा आहूताः वयम्, अस्मिन् वर्षे सोऽयं समयः अतस्तत्र गन्तव्यमिति भावः (ग)।

उपाध्याय! हे आचार्य्य! इदं भग्नासनं जीर्णकाष्ठासनम् उपविशतु अधितिष्ठतु (घ)।

मातर्बन्धुरे! कुट्टिन्यां मातृसम्बोधनमुचितम्, नायिकायोजिकतया मातृसम्बोधनव्यवहारः अद्यापि दृश्यते। प्रणमामि अभिवादये (ङ)।

पुत्त! मअणसमुद्दसन्तरणं भोदु (च)।
विश्वः। (नायिकामवलोक्य।)

मदनपयोनिधितरणं भवति तदा पीवरकुचकुम्भो मे।
यद्यवलम्बितुमस्या लभ्यत एवैणनेत्रायाः ॥१९॥

नायिका। (सस्मितमालोकयति)।
राजा। (स्वगतं) महामहोपाध्यायो विश्वभण्डः। (छ)

कुलटाकुलार्च्चिताया बन्धुराया लब्धाशीर्वादः पार्श्वतः समुपविष्टः शुभाशीर्वादं संग्रहीतुम्। (प्रकाशं) भगवन्! प्रणमामि (ज)।

विश्वः। भो कलहाङ्कुर! द्रुतं देहि राज्ञे आशीर्वादम् (झ)।


     ***

पुत्र! मदनसमुद्रसन्तरणं भवतु (च)।


      ***

मदनसमुद्रसन्तरणं मदनसमुद्रे कामसागरे सन्तरणं भवतु ते इति शेषः। त्वं कामसागरस्रोतसि सन्तर इति भावः। यथा मदनसमुद्रस्य कामसागरस्य सन्तरणं पारगमनं भवतु ते। कामसागरस्य पारं गच्छ इति भावः(च)।

मे मम मदनपयोनिधितरणं कामसागरे सन्तरणं कामसागरस्य सन्तरणं वा भवति तदा तस्मिन् सन्तरणसमये यदि अस्याः एणनेत्रायाः मृगाक्ष्याः पीबरकुचकुम्भः पीनोन्नतकुचकलसः अवलम्बितुं आश्रितुं लभ्यते यदि अस्याः पीनोत्तुङकुचकलसलामः स्यात् तर्हि कामसागरसन्तरणं घटेत, अन्यथा कथं सम्भवेत्? इति भावः। आर्य्यावृत्तम्॥१९॥

महामहेति। महामहोपाध्यायः उपाध्यायाग्रगण्यः विश्वभण्डः(छ)।

यतः कुलटायाः कुलं समूहः तेन अर्चितायाः पूजितायाः सकलगणिकामान्यायाः बन्धुरायाः लब्धाशीर्वादःप्राप्ताशीर्वादः सन् पुनः शुभाशीर्वादं संग्रहीतुंलब्धुं पार्श्वतः अस्याः पार्श्वे समुपविष्टः। भगवन्! प्रभो! प्रणमामि अभिवादये (ज)।

दुतं सत्वरं, राज्ञे महाराजाय, आशीर्वादम् आशीर्वचनं देहि ददस्व(झ)।

कलहाङ्कुरः। (साट्टहासं शक्राशनमृक्षितंदूर्वाक्षतमादाय संस्कृतमाश्रित्य उच्चैः) नेत्रे पुष्पोदयो भवतु भवताम्। (ञ)

अपिच।

शत्रोर्वृद्धिर्भियो वृद्धिर्वृद्धिर्व्याधेर्ऋणैनसाम्।
दुर्गतेर्दुर्मतेर्वृद्धिः सन्तु ते सप्त वृद्धयः ॥२०॥

(इति पठित्वा राजशिरसि दूर्वाक्षतमर्पयति।)

राजा। भगवन्! कोऽयं दुष्टवटुः? (ट)
विश्वः। अयमविदितो भवता?। (ठ)

निजवंशधूमकेतुर्भृशमघसेतुः प्रमादचयहेतुः।
परवित्तहरणशूरः कुमतिः कलहाङ्कुरः क्रूरः ॥२१॥


       ***

(शक्राशनेति। शक्राशनमृक्षितं शक्राशनेन भङ्ग्या मृक्षितं युक्तं दूर्वाक्षतं दूर्वासहिततण्डुलम् आदाय गृहीत्वा भवतां नेत्रेनयने पुष्पाणां अश्रूणामुदयः प्रकाशो भवतु, भवतां नयनजलाविष्कारो भवतु इत्यर्थः (अ)।

शत्रोरिवि। शत्रोः रिपोः वह्निः प्रवलता, तथा भियः भयस्य वृद्धिः आतिशय्यं तथा रोगस्य वृद्धिःप्राबल्यं तथा ऋणानाम् एनसां पापानाञ्च वृद्धिःबहुलता दुर्गतेः दुर्दशायाः आतिशय्यंदुर्मतेः दुष्टबुद्धेः वृद्धिः वर्धनं, ते तव एताः सप्त वृद्धयः उत्कर्षाः सन्तु भवन्तु। अनुष्टुप् वृत्तम् ॥२०॥

दुष्टवटुः कुत्सितब्राह्मणः(ट)।

अविदितः अज्ञातः भवता एष न ज्ञायते इत्यर्थः (ठ)।

ब्राह्मणं विवृणोति निजेति। अयं निजवंशधूमकेतुः स्ववंशनाशहेतुः यथा धूमकेतुः लोकनाशाय उदेति तत् अयं स्ववंशनाशाय सञ्जातः। तथा अघसेतुः अघानां पापानां सेतुःसोपानं भृशं अतिशयं यथा स्यात् तथा पापप्रवत्तको भवति इत्यर्थः। तथा प्रमादचयहेतुः प्रमादचयस्यअसत्कार्य्यसमूहस्य हेतुः कारणं, तथा परवित्तहरणशूरः परधनापहरणदक्षः। तथा कुमतिः कु कुत्सिता मतिर्यस्य सः कुबुद्धिरित्यर्थः क्रूरः खलः, कलहाङ्कुरः इति प्रसिद्धनामा। आर्य्यावृत्तम् ॥२१॥

(पुनर्बन्धुरामवलोक्य) भो वत्स! कलहाङ्कुर।

प्रलम्बितपयोधरा क्षतरजा विकारास्पदं
सदा विगतहंसका तिमिरलुप्ततारारुचिः।
तिरस्कृतनिशाकरा गतवया इयं बन्धुरा
सदा सपदि दृश्यतां जलधरागमश्रीरिव ॥२२॥


         ***

बन्धुरां विशिनष्टि प्रलम्बितेति। इयं बन्धुरा सदा जलधराममश्रीरिव जलधराणां मेघानां आगमः उदयो यस्मिन् सः प्रावृट्काल इत्यर्थः तस्य श्रीरिव शोभेव सपदि हठात् दृश्यताम् अवलोक्यतां हठात् दर्शनेन वर्षाकालश्रीरिव लक्ष्यते इति भावः। सा प्रलम्बितपयोधरा प्रलम्बितौ पतितौ पयोधरौस्तनौ यस्याः सा कुचचुम्बितनाभिदेशा इत्यर्थः। अन्यत्र तु प्रलम्बिताः जलभारेण नम्रीभूताः पयोधराः मेघाः यत्र सा। तथा क्षतरजाःक्षतं नष्टं रजो यस्याः सा वयोऽधिकत्वेन निवृत्तरजस्का इत्यर्थः। अन्यत्र क्षतानि नष्टानि रजांसि पांशवो यस्याः सा पञ्चम्यन्ताम्यपदार्थबहुव्रीहिःदृष्टिबाहुलेन नष्टधूलिका इत्यर्थः। तथा विकारास्पदं विकाराणां बीभत्सानाम् आस्पदं स्थानं सर्वबीभत्सभूमिरित्यर्थः। अन्यत्र तु विकाराणां रोगादीनाम् आस्पदम् आकरःवर्षासु प्रायेण शरीरिणां विकृतिबाहुलदर्शनात् विकारास्पदमिति सङ्गच्छते। तथा सदा विगतहंसका सदा विगतौ सर्वदा विरहित हंसकौपादकटको नूपुरौ इत्यर्थः यस्याः सा सर्वदा चरणभूषणरहिता इत्यर्थः। अन्यत्र सदा विगताः अन्तर्हिताः हंसाःमरालाः जलचरपक्षिविशेषाः इत्यर्थः यत्रवर्षाबाहुल्यात् हंससमागमरहिता इत्यर्थः। तथा तिमिरलुप्ततारारुचिः, तिमिरेण चक्षूरोगविशेषेण लुप्ता नष्टतारारुचिः कणीनिकाकान्तिर्यस्याः सा नेत्ररोगयुक्ता इत्यर्थः। अन्यत्र तिमिरेण मेघबाहुल्यात् गाढ़ान्धकारेण लुप्ताः अदृष्टाः ताराणां नक्षत्राणांरुचयः दीप्तयो यत्र सा। तथा तिरस्कृतनिशाकरा तिरस्कृताः भर्त्मिताःनिशाकराःपेचकाः यया यद्वातिरस्कृता निशायाः रजन्याः कराः अंशवः अन्धकाराः इत्यर्थः यया सा अन्धकारविनिन्दितवर्षा इत्यर्थः। अन्यत्र तिरस्कृतः आच्छादितः निशाकरः शशधरो यया सा अदृष्टशशधरा इत्यर्थः। तथा गतवयाः गतम् अतीतं वयो यौवनकालं यस्याः सा अतिवृद्धाइत्यर्थः। अन्यत्र

वत्स! वन्दनीयतरां बन्धुरामुपसृत्य नमस्कुरु। (ड)

कलहः। (सहर्षोल्लासं परिक्रम्य बन्धुरायाश्चरणद्वयमध्यमागतो दण्डवत्प्रणम्य पुनरुर्द्ध्वजघनमालोक्य सहस्ततालमुच्चैर्विहस्य संस्कृतमाश्रित्य)

भो महामहोपाध्याय! आश्चर्यमस्या बन्धुराया अधोमुखे श्मश्रुश्रेणी। (ढ)

अपिच।

स्तनौ तुङ्गौ निपतितौ कामसंग्राममर्दितौ।
पुरस्तादवलोक्यास्या भगं शुष्कं भयादिव॥२३॥

बन्धु।(सस्मितं) णट्टो बटुओसत्थकं कलहाङ्कुराहिधाणो इमस्य। (ण)


                              ***

नष्टोवटुः सार्थकं कलहाङ्कुराभिधानमस्य (ण)।



गतानि स्वस्थानप्रस्थितानि वयांसि पक्षिणः यत्रसा। एवं समासवैचित्र्येण विशेषणानि उभयत्र योज्यानि। पृथ्वीवृत्तम्॥२२॥

वन्दनीयतरा परमपूजनीयाम् उपसृत्यसमीपं गत्वा नमस्कुरु प्रणम (ख)।

महामहोपाध्याय! हे गुरो! आश्चर्यम्अद्भुतमेतत्। यत् अधोमुखे भगे श्मश्रुश्रेणीदाड़िका विराजतेइति शेषः। भगे श्मश्रुवत् लोमराजिविशिष्टत्वेनभयजनितशुष्कत्वादिधर्मवत्तया च मुखत्वारोपः इति कवेरभिप्रायः(ढ)।

भगस्य शुष्कत्वधर्मवत्तां प्रकटयति अपि चेति। अस्याः भगं, पुरस्तात् पुरोभागे कामसंग्राममर्दितौस्मरयुद्धदलितौतुङ्गौउन्नतौ स्तनौ कुचौ निपतितौ अवलोक्य दृष्ट्वा भयात् भयं प्राप्य इव शुष्कम् अभवत् इति शेषः। यथा भयजनकव्यापारं दृष्ट्वा जनानां मुखं शुष्यति तद्वत्शुष्कमभवदिति भावः। अनुष्टुप् वृत्तम्॥२३॥

नष्ट इति। नष्टः भ्रष्टः वटुः ब्राह्मणः अस्य कलहाङ्कुराभिधानं, कलहानांविवादानाम् अङ्कुरःवीजभूतः एव अभिधानं नाम सार्थकं अर्थानुरूपम् (ण)।

विश्वः। (नायिकामवलोक्य) अहो! तरुण्या भावप्रकर्षः। (त)

स्वैरं सस्मितमीक्षते क्षणमलं व्याजृम्भते वेपते
रोमाञ्चं तनुते मुहुस्तनतटे व्यालम्बते नाम्बरम्।
आलिङ्गत्यपरां तनोति चिकुरं प्रत्युत्तरं याचते
केयं कामकला विलासवसतिर्लोलेक्षणा भाविनी? ॥२४॥

अपिच। खेलत्खञ्जननेत्रया परिलसत्स्वर्णारविन्दास्यया
पीनोत्तुङ्गनिरन्तरस्तनभरव्यालोलसन्मध्यया।


       ***

अहो इति विस्मयार्थकमव्ययम्। तरुण्याः युवत्याः भावप्रकर्षः, निर्विकारचित्तस्य प्रथमविक्रियायाः आतिशय्यम्। निर्विकारचित्तस्य प्रथमविक्रियायाः एतादृशीउन्नतिः मया कदापि न दृष्टा इति भावः। भावस्य लक्षणं “निर्विकारात्मके चित्ते भावः प्रथमविक्रिया॥” (त)।

भावप्रकर्षं विशिनष्टि स्वैरमिति। विलासवसतिः विलासानां भावादीनां वसतिः आश्रयः, तथा लोलेक्षणा चञ्चलनयना भाविनी रसविशेषचतुरा, इयं कामकला रतिस्वरूपा यद्वा, कामस्य पुष्पायुधस्यकला अंशरूपा इत्यर्थः। विधात्रा कामनिर्माणसामग्र्यवशेषेण निर्मिता इति भावः। का? या स्वैरं मन्दं मन्दं सस्मितं समृदुहासं यथा तथा ईक्षते अवलोकयति दृष्ट्या स्वाभिलाषं प्रकटयति इत्यर्थः। तथा क्षणं व्याप्य अलम् अत्यर्थं व्याजृम्भते जृह्मणेन स्मरभावं प्रकाशयतीत्यर्थः। तथा वेपते कम्पते च तथा रोमाञ्चं रोमहर्षं तनुते प्रकटयतिसात्त्विकभावाविर्भावेन कम्पनं रोमहर्षञ्च प्रकाशयतीति भावः। तथा मुहुर्वारंवारं स्तनतटे कुचतटे अम्बरं वसनं न व्यालम्बते न धारयति कुचतटात् वसनं संनीस्रंश्यते इति भावः। तथा अपरांसखीम् आलिङ्गति परिष्वजते, तथा चिकुरं कुन्तलं समोति विस्तारयति, तथा प्रत्युत्तरं प्रतिवचनं याचते प्रार्थयते किञ्चिन्नोक्तापि स्वसखीभ्यः प्रतिवचनमभिलषतीति भावः। शार्दूलविक्रीडितं वृत्तम् ॥२४॥

पुनरपि वर्णयति अपि चेति। खेलत्खञ्जननेत्रया खेलत्खञ्जनस्य क्रीड़त्-खञ्जनपक्षिविशेषस्य इव नेत्रेनयने यस्याःतया क्रीड़त्खञ्जनगञ्जननयनया इत्यर्थः।

स्फीतस्फीतनितम्बया क्षणमपि व्यालोकिश्चावानया
किं न स्याद्वशिनां वरः स्मरहरः स्मारैः शरैर्जर्जरः?॥२५॥

बन्धु। उअज्झाष! एषा मियङ्गलेहा मे पुत्ती मन्मह तन्तं पठिदुं सुसज्जिदा बट्टदि। (थ)
विश्वः। (विहस्य) अस्माकमध्यापनशून्यमन्दिरं एववर्त्तते। (द)


                              ***

उपाध्याय! एषा मृगाङ्कलेखा मे पुत्रीमन्मथतन्त्रं पठितुं सुसज्जिता वर्त्तते (थ)।


                             ***

तथा परिलसत्स्वर्णारविन्दास्वयापरिलसत् शोभमानं स्वर्णारविन्दं स्वर्णकमलमिव आस्यम् आननं यस्याः तथाभूतया तथा पीनोत्तुङ्गनिरन्तरस्तनभरव्यालोलसन्मध्यया, पीनयोः पीबरयोः उत्तुङ्गयोः प्रत्युच्छ्रितयोः निरन्तरयोः निरवकाशयोः स्तनयोः कुचयोः भरेण भारेण व्यालोलः आभुग्रःसन् सुन्दरः क्षीणात् क्षीणतरः इति यावत्, मध्यः मध्यभागः कटिः यस्याःतया स्फीतस्फीतनितम्बया स्फीतस्फीतःअतिविशालःनितम्बः पश्चाद्भागो यस्याः तथाभूतया अनया भाविन्या मृगाङ्गलेखया इति यावत्। क्षणमपि क्षणकालमात्रमपि व्याप्य व्यालोकितः प्रेक्षितः सन् वशिनां वरः श्रेष्ठः महायोगीत्यर्थः स्मरहरः स्मरारिः उमापतिः स्मारैःस्मरसम्बन्धिभिः शरैः कामबाणैरित्यर्थः जर्जरःमर्मताड़ितः किं न स्यात्? अपि तु स्यादेव। एतया अवलोकितस्य स्मरहरस्यापि हरस्य धैर्य्यच्युतिः स्यात् का कथा अन्येषाम् इति भावः। शार्दूलविक्रीड़ितं वृत्तम् ॥२५॥

मे पुत्रीमम कन्या मन्मथतन्त्रम् अनङ्गशास्त्रंपठितुम् अध्येतुं सुसज्जिता भूषिता सती वर्त्तते (थ)।

अध्यापनशून्यंपाठनावर्जितं मन्दिरं पाठशाला। इदानीम् अस्मत्पाठशाला छात्ररहिता तस्माद् त्वत्सुतायाः पाठनाव्याघातः कदापि न स्यात् एनाम् अहर्निशं पाठयिष्यामि इति भावः(द)।

मृगा। अम्ब! एसो बुट्टसाद्दुलो बिअगलिदणखदसणो जआजीणपञ्जरो अदिहदब्बीड़ो अहस्मिमं मं विड़म्बेदि। (ध)

कलहः। (सक्रोधम्) आः पामरि! गणिए! परपुत्तबित्तहारिणि! अह्माणं उअज्झाअंदिट्टा ण कुरु कुब्बबसइणं यस्म णिहुअणअणुरत्ता बह्मणी णत्तंदिवं बिअट्टाणां ठाणे बन्धणिबहं सिक्खे अन्तो अज्जबि भमइ अइसिणेहेण उअज्झाअपुरदो बेहव्यमण्डणं कदुअणिच्चं अणुमरणत्थं सुसज्जिदा भोदि तं वुठ्डं जप्पेसि। अबिअ अज्जबि उअज्झाोलज्जाउलो वसणं पलिहलिअजणस्मङ्के सअणं कुण्डइ एणंहदब्बीडं जप्पेसि। (न)


           ***

मातः! एष वृद्धशार्दूल इव गलितनखदशनःजराजीर्णपञ्जरोऽतिहतव्रीड़ोऽर्निशं मां विडम्बयति (ध)।

आः पामरि गणिके! परपुत्रवित्तहारिणि! अस्माकम् उपाध्यायं दृष्ट्वा न कुरु कुव्यवसायिनम्। यस्य निधुवनानुरक्ता ब्राह्मणो नक्तन्दिवं विदग्धानां स्थाने बन्धनिवह शिक्षमाणा अद्यापि भ्रमति अतिस्नेहेन उपाध्यायपुरतः वैधव्यमण्डनं कृत्वा नित्यमनुमरणार्थं सुसज्जिता भवति तं वृद्धं जल्पसि। अपिच अद्यापि उपाध्यायः लज्जाकुलः वसनं परिहृत्य जनन्यङ्के शयनं करोति एनं हतव्रीड़ं लज्जसि (न)।


       ***

एष अयम् वृद्धशार्दूलइव वृद्धव्याघ्र इव, गलितनखदशनःजीर्णनखदन्तः तथा जराजीर्णपञ्जरः, वार्द्धक्येन जीर्णशरीरान्तरास्थिसमूहःअतिहतव्रीड़ःअतिनष्टलज्जः। अहर्निशं सर्वदा मां विडम्बयति उपहसति (घ)।

पामरि! पापिष्ठे! परपुत्रवित्तहारिणि परतनयधनापहारिके! कुव्यवसायिनं कुकार्य्यासक्तं न कुरुअस्य बुद्धिं कुत्सिते कर्मणि मा प्रचोदय इति भावः। यस्य उपाध्यायस्य निधुवनानुरक्ता निधुवने क्रीड़ायाम् अनुरक्ता अनुरागिणी सुरतव्यापारानुरागिणीत्यर्थः। ब्राह्मणी पत्नीति यावत् नक्तन्दिवम् अह-

(इति सक्रोधं नाटयति।)

मृगा। (विहस्य) धस्मासा बह्मणी सिस्मोबि धस्मोतहा उआज्झाओ। (प)
बन्धुरा। पुत्ति! एदं ण भणिदब्बंमन्ददमं उअज्झाअं ण आणासि बुट्टोबि मअणकमलपआसो दिणणाहो अज्ज वीसभण्डो धुत्ताणां उअजझाओ। (फ)


     ***

धन्या सा ब्राह्मणी शिष्योऽपि धन्यः तथा उपाध्यायः(प)।

पुत्रि! इदं न भणितव्यं मन्दतमम् उपाध्यायं न जानासि वृद्धोऽपि मदनकमलप्रकाशो दिननाथ आर्य्यःविश्वभण्डः धूर्त्तानामुपाध्यायः (फ)


     ***

र्निशं विदग्धानां रसिकानां स्थाने सविधे बन्धनिवहं बन्धानां रतिशास्त्राणां निवहं समूहं शिक्षमाणा अधीयमाना सततमेव सा कार्य्यजातं विहाय रतिशास्त्रनिपुणविदग्धसमीपे सुरतशास्त्रमालोचयन्ती इत्यर्थः। अद्यापि अधुनापि भ्रमति नवं नवं गुरुमनुसन्दधतीइति भावः। अतिस्नेहेन निरतिशयानुरागेण, उपाध्यायस्य पुरतः मदीयाचार्य्यस्य अग्रे वैधव्यमण्डनं विधवोचितभूषणं कृत्वा परिधाय नित्यं सदा अनुसरणार्थं सहमरणार्थं सुसज्जिता कृतोद्योगा भवति नित्यमेव सा पतिभक्तिं प्रदर्श्य“भवतश्चितारोहणसमयः समायातः भवता सह चितारोहणंकरिष्यामि” इति संभाष्य च विधवाभूषणेन आत्मानं भूषयन्ती तत्सन्निधौ अवतिष्ठते इत्यर्थः। तं आसन्नमरणोचितकालमित्यर्थः गुरुमपि वृद्धं जराक्रान्तंजल्पसि वदसि अपिच एव अद्यापि उपाध्यायःअध्यापकः लज्जाकुलःत्रपावान् सन् वसनं वस्त्रंपरिहृत्य परित्यज्य जनन्यङ्केमातृक्रोड़े शयनं करोति शेते एनम् एतादृशलज्जाशीलं हतव्रीडं निर्लज्जं जल्पसि कथयसि (न)।

धन्या प्रशंसनीया, सा ब्राह्मणी शिष्योऽपि छात्रोऽपि धन्यः प्रशंसार्हः। तथा ताट्टक उपाध्यायःआचार्यः(प)।

पुत्रिवत्से! इदं मन्दतमं दुर्वचःन भणितव्यं न वाच्यम्। नजानासि तत्वतो नावगच्छसीत्यर्थः। धूर्तानां शठानाम् उपाध्यायः आचार्य्यः, वृद्धोऽपि स्थविरोऽपि मदनकमलप्रकाशःदिननाथः स्मरसरोरुहविकाशसूर्य्यः(फ)।

विश्वः। (आकर्ण्य आत्मगतं) अहो! आश्चर्य्यम्। (ब)

प्राप्ता प्रस्फुटकाशपुष्पपदवी केशैस्तथैव भ्रुवा
सम्यक्लोचनपक्ष्मणा च जरसा जीर्णा च दन्तावली।
शुष्कं मन्मथमन्दिरं निपतितौ शुष्कातिशुष्कौ स्तनौ
एतस्याः सुतरां तथापि वचने जागर्त्ति पुष्पायुधः ॥२६॥

भवतु एषापि क्व यास्यति। (भ)

(प्रकाशम्)

बन्धुरे! जरातुरा वेपमाना दृश्यसे। (म)
बन्धुरा। सच्चं पूब्बअणुरत्तसिणेहाणं बिअड्टाणां गुणं सुस्मरन्ती अणङ्गज्वराउला क्खु अहं। (य)


    ***

सत्यंपूर्वानुरक्तस्नेहानां विदग्धानां गुणं सुस्मरन्तीअनङ्गज्वराकुला खलु अहम् (य)।


   ***

अहो! आश्चर्य्यं आश्चर्य्यमद्भूतमिदम्(ब)।

आश्चर्य्यत्वं विवृणोति प्राप्तेति। एतस्याः बन्धुरायाः केशैः कुन्तलैः प्रस्फुटकाशपुष्पपदवीप्रस्फुटानां विकसितानां काशपुष्पाणां काशकुसुमानां पदवी आख्या शोभा इति यावत् प्राप्ता लब्धाभुवा भूयुगलेनापि तथा तादृशीशोभा लब्धा, लोचनपक्ष्मणा नेत्रलोम्नासम्यक् यथा तथाच लब्धा, सर्ववहिर्लोम्नांशुक्लत्ववर्णनेनैव अन्तर्लोम्नामपि शुक्लत्वत्वमनुसन्धेयमित्यभिप्रायः। तथा जरसा वार्द्धक्येन दन्तावली दन्तपंक्तिः जीर्णा दंशनादावसमर्था तथा मन्मथमन्दिरं कामभवनं भगमिति यावत् शुष्कं नीरसतामुपगतम् असकृल्लिङ्गप्रेरणेनापि रसो न निःसरतीति भावः। तथा स्तनौ अपि वक्षोजावपिशुष्कातिशुष्कौ अत्यन्तशिथिलौसन्तौ निपतितौ नितरामधःखननेन नितान्तविमर्दनेन च चुम्बितनाभिदेशावित्यर्थः। तथापि परिणतदशामुपागताया अपि वचनेवाचि पुष्पायुधः रतिपतिः सुतराम् अत्यर्थं जागर्ति, एतस्यावचनमाकर्ण्यतांसर्वेषामेव कामोद्भवो भवतीत्यर्थः। शार्दूलविक्रीडितं वृत्तम् ॥२६॥

एषा बन्धुरा क्व कुत्र यास्यति गमिष्यति? (भ)।

वेपमाना कम्पमाना दृश्यसे अवलोक्यसे त्वमिति शेषः (म)।

विश्वः। (विहस्य) भो महाराज! मदनज्वरातुरा बन्धरा।
राजा। तत् कथं न आहूयते आतुरान्तकसुतो महावैद्यो व्याधिसिन्धुः? (र)
विश्वः। अपि न ज्ञायते आतुरान्तकसुतोऽसौ किञ्च अस्य गुणा न ज्ञायन्ते? (ल)
राजा। भवतापि न विदितं तस्य उपचारवचनम्?(व)

नेत्रे तप्ता शलाका जठरगुरुगदे श्लीपदे छित्तिरङ्घ्रे-
रश्मर्य्यां नासिकायां वड़िशमतिशितं तप्ततैलञ्च शूले।


       ***

पूर्वानुरक्तस्नेहानां पूर्वं प्रथमम् अनुरक्ते अनुरागिजने स्नेहः प्रेम येषां तादृशानां विदग्धानां रसिकानां सुस्मरन्तीविचिन्तयन्ती अनङ्गज्वराकुला स्मरतापपीड़िता खलु एव (य)।

तत् तस्मात् मदनज्वरशान्तये कथं कस्मात् न आहूयते न आकार्य्यतेआतुरान्तकसुतः चातुराणाम् अन्तकस्य इति अन्वर्थनामधेयस्य सुतः पुत्रः महावैद्यःदुर्वैद्यः। तथाच “शङ्केतैले तथा मांसे वैद्ये ज्योतिषिके द्विजे। यात्रायां पथि निद्रायां महत् शब्दोन युज्यते॥” इति। व्याधिसिन्धुःव्याधीनां सिन्धुः सागरः इव इति अन्वर्थनामा (र)।

अपि प्रश्नेन ज्ञायते न अवगम्यते भवतेति शेषः। किञ्च अपि च अस्य गुणाः चिकित्सासामर्थ्यानि (ल)।

न विदितं न ज्ञातं? व्याधिसिन्धोः उपचारवचनम् उपचारस्य चिकित्सोपयोगिसामग्र्याःवचनं कीदृद्रोगेषु कीदृक् द्रव्याणि किं रूपेण प्रयोक्तव्यानि इत्येवंरूपवाक्यम् (च)।

उपचारवचनं विशिनष्टि नेत्रेइति। जठरगुरुगदेजठरस्य उदरस्य गुरुगदे महति रोगे प्रबलोदरामये सञ्जाते सति इत्यर्थः नेत्रेनयने तप्ता अग्निवर्णाशलाका प्रयोक्तव्या, श्लीपदे चरणस्य स्फीतत्वादिरोगे सञ्जाते सति अङ्घ्रेः चरणस्य छित्तिः छेदः कर्त्तव्यः, अश्मर्य्यांमूत्रलच्छरोगभेदे (पाथुरि) सञ्जातायां सत्यां नासिकायां

हृद्रोगे यन्त्रदारुद्वयनिविड़तरं बन्धनं सुष्कदेशे
ऽप्येतैः रम्योपचारैर्नयति पितृवनं रोगिणं कं न चाशु?॥२७॥

अपिच।

कासे धूमस्तुषाणां बलवति मरुति स्वेदभेदोपवासा
वह्नेर्मान्द्येच पिष्टं सपिशितमनिशं वारिपानं कफार्तौ।
पितार्त्तावारनालं त्रिकटुरपि जलद्रोणिका सन्निपाते
किं ब्रूमो व्याधिसिन्धोर्गुणमिह सुतरामेकवक्त्रेण सम्यक्?॥२८॥


                             *** ***             ***

नसि अतिशितं शाणितं तीक्ष्णमित्यर्थः वड़िशं मत्स्यबेधनं प्रेरयितव्यंवड़िशेन नासिकावेधनं कर्त्तव्यमित्यर्थः। शूलेशूलरोगे सञ्जाते सति तप्ततैलम् उणातैलं प्रयोक्तव्यंपाययितव्यमिति भावः। हृद्रोगे हृदयरोगे सञ्जाते सति मुष्कदेशे अण्डकोषे यन्त्रदारुद्वयनिविड़तरंयन्तदारुद्वयस्य निविड़तरम्अतिशयान्तरान्तरावकाशशून्यं यथा तथा बन्धनं विधेयमित्यर्थः, यन्त्रयुक्तकाष्ठद्वयेनअत्यन्तपेषणं कर्त्तव्यमिति भावः। एतैः रम्योपचारैःसुन्दरभैषज्यसाधनैः कं रोगिणम् आतुरं पितृवनं श्मशानभूमिं आशु शीघ्रं न नयति? न प्रापयति? सर्वानपीत्यर्थः। एवं चिकित्सया सर्वानपि रोगिणः आशु यमालयं प्रापयतीति भावः। शार्दूलविक्रीडितं वृत्तम् ॥२७॥

कास इति। कासे कासरोगे सञ्जाते सति तुषाणां धूमः प्रयोक्तव्यः, मरुति वायौ बलवति प्रबले सति वायुरोगे सम्यक् जातेसति इत्यर्थः। स्वेदभेदोपवासाः स्वेदः धर्मश्च भेदःविरेचनञ्च उपवासः लङ्घनञ्च ते कारयितव्याः इति शेषः। वह्नेः जठराग्नेःमान्द्ये अल्पीभावे मन्दाग्नावित्यर्थः। सपिशितं पिष्टंमांससहितपिष्टकं भोजनाय दातव्यमिति शेषः। कफार्त्तौश्लेष्मजनितपीड़ायाम् अनिशं सततं वारिपानं जलसेवनं कारयितव्यमिति शेषः। पित्तार्त्तौपित्तजनितपीडायाम् आरनालं काञ्जिका त्रिकटुरपिशुण्ठीपिप्पलीमरिचरूपः प्रयोक्तव्यः इति शेषः, सन्निपाते विदोप्रजात्मके विकारे सञ्जाते जलद्रोणिका जलानां द्रोणिका चतुराढकपरिमाणं स्नानाद्यर्थंदातव्याइति शेषः। इह जगति व्याधिसिन्धोः सुतरां एतादृशसुष्ठुतरं गुणम् एकवक्रेणएकमुखेन सम्यक् साकल्येन किं कथं ब्रूमः वयमिति शेषः। व्याधिसिन्धोरेतादृशंगुणम् एकमुखेन सम्यक् वक्तुं केनापि न शक्यत इति भावः॥२८॥

नेपथ्ये।

पानीयस्थूलपादे कथमपि धरया धारित साङ्गुरौघे
हस्तन्यस्ताञ्चलाग्रप्रचलितपवनैर्वारयन् मक्षिकालीं
कासात् कण्ठस्वनोघैः सपदि मुखरयन् दिङ्मुखं व्योमवीथी-
मप्येष व्याधिसिन्धुः प्रविशति सरुजामन्तको राजवैद्यः॥२८॥

(व्याधिसिन्धुः प्रविश्य शनैः परिक्रम्य सगर्वम्।)

वैऽद्योहं व्याधिवर्गाणामाश्रयोऽप्यथशोनिधिः।
मया चिकित्सितःसद्यो मार्कण्डेयो न जीवति ॥३०॥

अपिच।

सर्वौषधानि तिष्ठन्तु चिकित्सापि च तिष्ठतु।
मम दर्शनतो रोगी किल प्राणैर्विमुच्यते ॥३१॥


           ***

नाट्यशालाभ्यन्तरोच्चरितवचनं विवृणोति पानीयेति। साङ्गुरौधे अङ्कुराणाम् उडुम्बरवत् वर्त्तुलाकारमांसपेशीनाम् औघैः समूहैःसह वर्त्तमाने। धरया धरण्या कथमपि कृच्छ्रेण धारिते धृते। पानीयस्थूलपादे पानीयेन रसाविभावेन स्थूलपादे स्फीतपादे उपविष्टामिति शेषः मक्षिकालींमक्षिकासमूहं हस्तन्यस्ताञ्चलाग्रप्रचलितपवनैः हस्तन्यस्तेन हस्तधृनेन अञ्चलाग्रेण परिधेयवसनाग्रभागेन प्रचलिता सञ्चरिताः से पवनाः वायवः तैः वारयन् निराकुर्वन् सन् कासात् कासरीगाद्धेतोः कण्ठस्वनीघैः कण्ठध्वनिसमूहैः दिङ्मुखं दिङ्मण्डलं व्योमवीथीञ्च आकाशमार्गञ्च सपदि तत्क्षणादेव मुखरयन् ध्वनयन् सन् एषः सरुजां रोगिणाम् अन्तकः नाशकः राजवैद्यः राजचिकित्सकः प्रविशति रङ्गभूमौ आगच्छति। स्रग्धरावृत्तम् ॥२९॥

वैद्यस्य साहङ्कारवचनं वर्णयति वैद्य इति। अयशोनिधिः अयशः अकीर्त्तिरेव निधिः धनं यस्य सः, अहं वैद्योऽपि चिकित्सकोऽपि व्याधिवर्गाणां अगदसङ्घानाम् आश्रयः आधारः। मार्कण्डेयः(कल्पान्तस्थायी कश्चित् ऋषिः) मया चिकित्सितः सन् सद्यस्तत्क्षणात् न जीवति श्वसिति। मया चिकित्सितः सन्कल्पान्तस्थायी अपि तत्क्षणात् म्रियते, अल्पायुषां तु का कथा इति भावः। अनुष्टुप् वृत्तम् ॥३०॥

पुनर्विवृणोति अपिचेति। सर्वौषधानि सर्वभैषज्यानि तिष्ठन्तु दूरे आसतां

(उपसृत्य (क)) भो भो महामहोपाध्याय! प्रथमहं नमस्करोमि। (ख)

विश्वः। कलहाङ्गुर! देहि भिषजे शुभाशीर्वादम्। (ग)
कलह। [हस्तमुद्यम्य उच्चैः।] (घ)

स्वल्पायुर्भव साम्प्रतं चिररिपु र्मा जीव दण्डद्वयं
वक्षस्तेखरकण्टको निविशतां भीनीगले चुम्बतु।
अन्येषामपराधतस्तवशिरो राज्ञाचसंयम्यतां
हा भक्तोभव सर्वदा तव गृहे वह्निः सदा नृत्यतु ॥३२॥


           ***

चिकित्सापिच रोगनिर्णयोऽपि तिष्ठतु दूरे आस्तां, रोगी आतुरः मम दर्शनतः अवलोकनादेव इत्यर्थः प्रायः विमुच्यते किल वियुज्यते, किल इति निश्चये। रोगनिर्णयपूर्वकभैषज्यप्रयोगादीनां का कथा, मामवलोक्य रोगी अवश्यमेव म्रियते इति भावः। अनुष्टुप् वृत्तम् ॥३१॥

उपसृत्य समीपं गत्वा (क)।

भोभोमहामहोपाध्याय! हे आचार्य्य! अयमहम् एषोऽहं नमस्करोमि अभिवादये (ख)।

भिषजेआतुरान्तकसुताय वैद्यराजाय (ग)।

हस्तमुद्यम्य बाहुमुत्तल्यउच्चैः आह इति शेषः (घ)।

तमाशीर्वादं विशिनष्टि स्वल्पेति। साम्प्रतम् इदानींचिररिपुः आजीवनं सशत्रुः सन् इत्यर्थः स्वल्पायुः अत्यल्पायुर्भव अत्यल्पजीवितकालोऽपि शत्रुजनितक्लेशन् अनुभव इत्यर्थः। स्वल्पशब्दस्य अपेक्षया चिरत्वमायातं तन्निराकरोति दण्डद्वयमिति दण्डद्वयं मुहर्त्तकालं मा जीब मुहूर्त्तं व्याप्य जीवनं ते माभूत् इत्यर्थः। खरकण्टकः तीक्ष्णाग्रकण्टकः ते तव वचःहृदयं निविशतां प्रविशतु! तीक्ष्णाग्रकण्ठकेनहृदययन्त्रणाम् अनुभव इति भावः। भीमो सर्पः गले कण्ठदेशे चुम्बतु सर्पः तव गलदेशं दशतु इत्यर्थः। अन्येषाम् अपरेषाम् अपराधतः अपराधाद्धेतोःपरापराधेन इत्यर्थः। तव शिरः मस्तकं राज्ञा नृपेण संयम्यतो संछिद्यतां, राजा हि परापराधेन तव मस्तकच्छेदं करोतु इत्यर्थः। यदि तु एतदाशीर्वचनं ममोघं तथापि परापराधस्य अनियतकालत्वेन कदा शिरश्छेदोभविष्यति इति असन्दिग्धःसन् आह

व्याधिः। अरे पामर वटो! मामवक्षिपसि। (ङ)
विश्वः। (विहस्य) भो व्याधिसिन्धो! तव पितुः आतुरान्तकस्य अन्तकालयप्राप्तस्य कुशलम्? (च)
व्याधिः।कुतः कुशलं भवद्दर्शनं विना? (छ)

(पुनर्नायिकामवलोक्य)। (ज)

कस्य न लुब्धं हृदयं काञ्चनरुचिना कुचद्वयेनास्याः।
आलोक्य हेमकुम्भौन भवति भुवि कस्य वा लोभः?॥३३॥

विश्वः। भो महावैद्य! कश्चित् चिकित्साप्रश्नोमां मुखरयति। (झ)


          ***

“हा” इत्यादि सर्वदा सर्वस्मिन्नेव समये हा भक्तःहाशब्देन युक्त भक्तम् अन्नंयस्य तादृशोभव सर्वदैव त्वम् अन्नायहा हा इति कुरु, तथा सदा तव गृहे आलये वह्निः अग्निः नृत्यतु ज्वलतु गृहदाहं करोतु इत्यर्थः। शार्दूलविक्रीडितं वृत्तम् ॥३२॥

पामर! पापात्मन्! वटो! ब्राह्मण! अवक्षिपसि तिरस्कारोऽसि (ङ)।

विहस्य हास्यं कृत्वा। अन्तकालयप्राप्तस्य यमालयगतस्य मृतस्य इत्यर्थः कुशलंमङ्गलम् (च)।

भवद्दर्शनं विना भवतः दर्शनमन्तरेण कुतः कथं कुशलं मङ्गलम्? पितुः समीपं गत्वा मङ्गलं विधत्ताम् इति भावः (छ)।

पुनः नायिकां मृगाङ्कलेखाम् अवलोक्य दृष्ट्वाआह इति शेषः (ज)।

किन्तत् इत्याशयेनाह कस्येति। अस्याः मृगाङ्कलेखायाः काञ्चनरुचिना कनककान्तिना कुचद्वयेन कुचयुगलेन कस्य जनस्य हृदयं मनः लुब्धंगृध्नु प्राप्त्याश्या उत्कण्ठितं न भवति? सर्वेषामपि भवतीत्यर्थः। तदेवार्थान्तरन्यासेन द्रढ़यति, भुवि इह भूतले हेमकुम्भौ कनककलसौअवलोक्य दृष्ट्वाकस्य जनस्य लोभः प्राप्त्याशान भवति? न जायते? अपि तु सर्वेषां मनसि जायते इत्यर्थः। आर्य्यावृत्तम् ॥३३॥

भोमहावैद्य! अत्र तु महत्शब्देन वैद्यस्य अवैद्यत्वमाक्षिपति । हे दुश्चिकि-

व्याधिः। (सगर्वम्)। (ञ)

पिण्डाय तण्डुलतिलप्रचयं निधाय
पाणौ खनित्रमपि चार चितार्थमेव।
वैद्योऽस्मि रोगिजनबान्धवसंप्रदायैः
प्रष्टव्य एवं हृदयेषु विमुच्च मोहान् ॥३४॥

विश्वः। (विहस्य) महावैद्योऽसि। (ट)

(पुनःसहर्षम्) महावैद्य! प्रचुरतरशृङ्गाररसप्रागल्भ्यात्श्लेष्मातुरा बन्धुरा तत् क्रियतामस्या उपचारः। (ठ)

व्याधिः। सुतप्तकटुतैलेन कथमस्या गुदे लस्यं न दीयते? तत् अलं विलम्बेन। (ड)


            ***

त्मक इत्यर्थः कश्चित् चिकित्साप्रश्नःकाचित् चिकित्साविषयिणी जिज्ञासा मां मुखरयति वाचालयति काञ्चित्चिकित्सावार्त्तां प्रष्टुमिच्छामि इत्यर्थः (झ)।

सगर्वं साहङ्कारमाह (ञ)।

किं तत् इत्याशयेनाह पिण्डायेति। रोगिजनबान्धवसम्प्रदायः रोगिजनानां आतुरजनानां बान्धवसम्प्रदायैः बन्धुवर्गैःकर्तृभिः हृदयेषु अन्तःकरणेषु ये मोहाः तान् विमुच्य परित्यज्य, हृष्टान्तःकरणैरिति भावः। पिण्डाय चितापिण्डदानार्थं तण्डुलतिलप्रचयं तण्डुलसहिततिलपात्रम्। तथा चारुचितार्थं सुन्दरचिताखनमार्थमेव खनित्रमपि (रङ्गोन्तानामकञ्च) पाणौ हस्ते निधाय कृत्वा, वैद्यः अहम् एव प्रष्टव्योऽस्मि, अधुना किं कर्त्तव्यम् इत्यहमेव विज्ञासितव्योऽस्मीति भावः। वसन्ततिलकं वृत्तम् ॥३४॥

विहस्य हास्यं कृत्वाह, महावेद्योऽसि त्वं महावैद्यः(ट)।

महावैद्य! प्रचुरतरशृङ्गाररसप्रागल्भ्यात् अतिशयशृङ्गाररसस्य प्रावल्यात्प्रकोपादिव्यर्थः। श्लेष्मातुराश्लेष्मणा कफेनआतुरा कातरा बन्धुरा, कुट्टिमी इत्यर्थः। तत् तस्मात् अस्याः उपचारःचिकित्सा क्रियतां विधीयताम् (ठ)।

अस्याः गुदे अपानदेशे मुदं त्वपानंपायुर्ना इत्यमरः। या राढ़देशप्रसिद्धे गुदेयोनिदेशे इत्यर्थः। सुतप्तकटुतैलेन अत्युष्णनूतनसार्षपतैलेन इति यावत्

बन्धु। (विहस्य आत्मगतम् (ढ)एसो बुड्डिरहिदो बेज्जो। (ण)

(प्रकाशम्।) (त)

भअवं! भम्मेणपुछिदम्बो महावेज्जो। (थ)
विश्वः। (आकाशमवलोक्य) आः! सहस्रावधानेन मया विस्तृतः प्रश्नः(विहस्य) वत्सकलहाङ्गुर! स्मारयवैद्यप्रश्नम्। (द)


      ***

एष बुद्धिरहितो वैद्यः (घ)।
भगवन् ! भाग्येन प्रष्टव्योमहावेद्यः। (ङ)


       ***

कथं कस्मात् नस्य न दीयते? एतावान् कालःचिकित्साव्यतिरेकेणकथम् अतिवाहितः इति भावः। तत् तस्मात् विलम्बेन अलं? चिरेणअलं? शीघ्रं नस्य प्रयोजय इति भावः (ङ)।

विहस्यआत्मगतम् अभिनेतृभिरश्राव्यं श्रोतृभिः श्रव्यमित्यर्थः (ढ)।

बुद्धिहीनःनिर्बुद्धिरित्यर्थः (ण)।

प्रकाशंसर्वश्राव्यंयथा तथा आह।(त)

भगवन्हे प्रभो! इतिसम्बोधनं, भाग्येन,दैवबलात् प्रष्टव्यः अधुना किं कर्त्तव्यमिति विश्वासितव्यः महावैद्यः। दैववशात् अद्यजिज्ञासायाः पात्रं लब्धम् इति भावः। (थ)

आकाशमवलम्ब्यऊर्द्धेदृष्टिंनिक्षिप्यविस्मृतिमभिनीय इत्यर्थः। आः! इति विस्मृतिजन्यकोपसूत्रकमव्ययम्। सहसावधानेन सहस्रेषुसुदृढविषयेषु अवधानं मनःसंयोगो यस्यतादृशेन युगपत् सकलविषयेषु अवहितेन इत्यर्थः मया इति शेषः। प्रश्नः जिज्ञासितव्यो विषयःविवृतः। (विहस्य हास्यं कृत्वा) वत्स ! तात! कलहाङ्कुर! स्मारय उद्दीपय वैद्यप्रश्नं वैद्ये जिज्ञासितव्यविषयं स्मृतिपथा रुद्धं कारय इत्यर्थः। (द)

कलहः। (प्रस्फुटं) महाबेज्ज! सिअङ्गलेहाए पउरचन्दणकुङ्कुमकत्थुरिआपरिलेबणेण गात्तकण्डु अणंसमुपपस्मं ता एत्य किं कादम्बं ता भण। (ध)

बन्धु। (स्मितं कृत्वा आत्मगतं) जधा उअज्झाओ सिस्मोबि तधा जुत्तं भस्मपुञ्जेसारमेआबठ्ठाणम्। (न)
व्याधिः।

वारिपर्णोचयैः साकं दृष्ट्वा वृश्चिकमङ्गतः।
दातव्यो वानरीरेणुः सद्यः कण्डुहरो हि सः ॥३५॥

बन्धु।सुट्ठुओसहं। (प)


        ***

महावैद्य ! मृगाङ्कलेखाया प्रचुरचन्दनकुङ्कुमकस्तूरिकापरिलेपनेन गात्रकण्डूयनंसमुत्पन्नं तदत्रकिं कर्त्तव्यं? तद् भण। (ध)

यथा उपाध्यायःशिष्योऽपि तथा, युक्तं भस्मपुञ्जेसारमेयावस्थानम्। (न)
सुष्ठु औषधम् (प)।


          ***

प्रचुरचन्दनकुङ्कुमकस्तूरिकापरिलपनेन प्रभूतमलयजकुङ्कुममृगनाभिव्यवहारेण इत्यर्थः। गात्रकण्डूयनं गात्रेषु शरीरेषु कण्डूयनं कण्डूतिः समुत्पन्नं जातं तत् तस्मात् कण्डूयनजननात् अत्रकण्डूयननिवारणार्थं किं कर्त्तव्यं? किमनुष्ठेयं? तत् भण कथय। (ध)।

उपाध्यायःआचार्य्यःयथा यादृशगुणसम्पन्नः शिष्योऽपि छात्रोऽपि तथा तादृशगुणसम्पन्नः। तदेव अर्थान्तरन्यासेन द्रढयति युक्तमिति भस्मपुञ्जेभस्मराशौ सारमेयावस्थानं सारमेयाणां कुक्कुराणाम् अवस्थानम् अवस्थितिःयुक्तम् उचितम्। (न)

अङ्गतः अङ्गेषु वारिपर्णीनां चयैः समूहैः साकं सह वृश्चिकं शुककीटं (शोया) दृष्ट्वा संतृप्यवानरीरेणुःवानरीणां अतिसूक्ष्मकण्टकाकृतिरेणुविशेषाच्छादितफलानां रेणुःकण्टकाकति सूक्ष्मरजः(आल्कुसी) दातव्यःप्रयोक्तव्यः, सः तादृग्रूपेण प्रयुक्तो वानरीरेणुः हि इति निश्चये। सद्यः तत्क्षणात् करङ्गुहरः कण्डूयननाशको भवति। अनुष्टुप् वृत्तम् ॥३५॥

सृष्ठु, सुन्दरम् औषधम् भैषज्यम् (प) ।

विश्वः। भो शिष्य! भवतापि विस्मृतम्। (फ) कलहः। (स्मृतिमभिनीय (ब)) हुंस्मरिदं। (भ)
महाबेज्ज! सुरदसमरबिमइणादो मुण्डपीड़ातुरा बन्धुरा ता एत्थ ज्जेवकिं करीअदु? (म)
बन्धु। (सस्मितं स्वयमुपसृत्य) (य) महाबेज्ज! जाणिदं दे बिज्जत्तणं तहाबि कहणिग्महत्कंओसहं भण। (र)
व्याधिः। (क्षयं विचिन्त्यही! ही!) कथमेवं न निगद्यते? पुरा राज्ञो मरुत्प्रागल्भ्यात् सिंहासने उपविष्टस्य श्लेष्माजातस्तदा अस्मत्पित्त्रा चरकसुश्रुतवाग्भटनागार्जुनतत्वविदा आतुरान्तकेन नृपतेर्लोचनद्वयं क्षारचूर्णेन निर्मार्ज्य जलौकाशतं प्रदाय श्लेष्माअफ्क्षयितः। (ल)


      ***

हुं स्मृतम् (भ)।

महावैद्य! सुरतसमरविमर्दनात् मुण्डपीड़ातुरा बन्धुरा तदत्रैव किं करोतु? (म)।

महावैद्य! ज्ञातं ते विद्वत्त्वंतथापि कफनिग्रहार्थम् औषधं भण (र)।


       ***

भो। इत्यादि स्पष्टम् (फ)।

स्मृतिमभिनीय स्मरणं नाटयित्वा (ब)।

हुं इति स्मरणार्थमव्ययम् आंज्ञातम् (भ)।

महावैद्य। पुनः पृच्छामीति शेषः सुरतसमरविमर्दनात् अनङ्गसंग्रामसंक्षोभवशात् मुण्डपीड़ातुरा मस्तकपीड़ाकातरा तत् तस्मात् अत्रैव मुण्डपीड़ारोग्यकरणार्थं किं करोतु? किं विधत्ताम् (म)।

उपसृत्य वैद्यसमीपं गत्वा (य)।

हे महावैद्य! ते तव विद्वत्त्वं चिकित्साशास्त्रेषु पाण्डित्यं ज्ञातं मया अवगतं तथापि तव चिकित्साशास्त्रेषु पाण्डित्ये ज्ञातेऽपि कथयामि इत्यर्थः। कफनिग्रहार्थं श्लेष्मानाशनार्थम् औषधंभैषज्यं भणकथय (र)।

हो! हो! इत्यव्ययं उच्चैर्विहस्य इत्यर्थः। एवं कफप्रकोपश्चेत् इत्यर्थः। कथं न निगद्यते? नउच्यते?। पुरा इतः पूर्वमित्यर्थः सिंहासने उपविष्टस्य आसीनस्य

बन्धु। एत्थ ज्जेवकिं कादम्बम्? (व)
व्याधिः। अल्पोपचारसाध्ये अलं गुरूपचारेण। (घ)

वरटो भृङ्गरोलश्चजलौका वाथ वृश्चिकः।
घ्राणे नेत्रे च दातव्याः सद्यः न श्लेष्मविनाशिनः ॥३६॥

बन्धु। (विहस्य) सच्चं आदुरान्तकपुत्तोतुमम्। (ष)

(नेपथ्ये कलकलः।) (स)


        ***

अत्रैवकिं कर्त्तव्यम्? (व) ।

सत्यम् आतुरान्तकपुत्रस्वम् (ष)।


        ***

राज्ञःनृपतेः मरुत्प्रागल्भ्यात् श्लेष्माकफरोगः जातः सम्भूतः। तदा तस्मिन्नेव समये चरकसुश्रुतवाग्भटनागार्जुनतत्वविदा चरकादिचिकित्साशास्त्राणां तत्त्वविदा पारदृश्वना इत्यर्थः आतुरान्तकेन आतुराणामन्तक इति अन्वर्थनामधेयेन, अस्मत्पित्रा अस्मत्तातेन नृपतेः राज्ञःलोचनदयं नयनयुगलं क्षारचूर्णेन क्षारगुण्डिकया निर्माज्यप्रक्षाल्यजलौकाशतं जलौकानां जलवासिकीटविशेषाणां (जोंक्) शतं प्रदाय श्लेष्मशोषणाय तस्योपरि उपवेश्य श्लेष्माकफः अपक्षयितः संशोषितः(ल)।

अत्रैव मम पीड़ाविनाशार्थमेव किं कर्त्तव्यं? किं विधेयम्? (व)।

अल्पोपचारसाध्ये अल्पचिकित्सानाश्ये रोगे इति शेषः। गुरूपचारेण गुरुचिकित्सयाअलं, गुरुचिकित्सायाः प्रयोजनं नास्ति इति भावः (श)।

चिकित्सामाह वरट इति। वरटःकीटविशेषः(वोल्ता) भृङ्गरोलश्च भृङ्गरवकारी कीटः(भीमरुल्) जलौका रक्तपायीकीटः(जोक्) वृश्चिकः कृकलासः, एते वरटादयः नेत्रेनयने घ्राणे नासिकायाश्च दातव्याः उपवेशयितव्याःयतः एते सर्वे सद्यः श्लेष्माविनाशिनः सद्यः कफनाशकाः भवन्ति इत्यर्थः। अनुष्टुप् वृत्तम् ॥३६॥

आतुराणाम् अन्तकः तस्य पुत्रः त्वम् इति सत्यंनोचेत् एतादृक् गुणवान् कथं भवेः इति भावः(ष)।

(नेपथ्ये नाट्यशालाभ्यन्तरे कलकलः कोलाहलःसंवृत्तः (स)।

राजा। (आकाशे कर्णं दत्त्वा आकर्ण्य च प्रकाशम्) अये! प्रतीहार! ज्ञायतामेतत् को मम दर्शनार्थी? तं प्रवेशय। (ह)

प्रती। जं देओआणवेदि (क्ष)। (निष्क्रम्य सम्यगवलोक्य पुनः प्रविष्टः।) देअ! रत्तकल्लोलणामहेओणाबिदो एक्केण पोरजणेण रत्तकलेवरेण अञ्चलगद्दीदो। (क)

राजा। प्रवेशय। (ख)

प्रती। (तथा कृत्वा) देओ!एस रत्तकल्लोलो णाबिदो (ग)।

(ततः प्रविशति रक्तलिप्ताङ्गेन पौरजनेन अञ्चलगृहीतो रक्तकल्लोलः परिक्रम्य संस्कृतमाश्रित्य पठति) (घ)।


      ***

यत् देव आज्ञापयति (क्ष)।

देव! रक्तकल्लोलनामधेयो नापित एकेन पौरजनेन रक्तकलेवरेण अञ्चलगृहीतो वर्त्तते (क)।

देव! एष रक्तकल्लोलः नापितः (ग)।


      ***

अये प्रतीहार! हे द्वारपाल! ज्ञायताम् अवगम्यताम् एतत् किं वृत्तमित्यर्थः। मम दर्शनार्थी दर्शनाभिलाषी कः? तं प्रवेशय मत्समीपमानय इत्यर्थः(ह)।

यत् आदिशति तत् करोमि इत्यर्थः (क्ष)।

देव! महाराज! रक्तकल्लोलनामधेयः*** *** रक्तानां कल्लोलः स्रोतो यस्मात् स नामधेयो यस्य सः इति अन्वर्थनामा चौरकार्य्यकरणवशात् रक्तस्त्रोतोजननात् रक्तकल्लोल इति नाम लब्धवान् इत्यर्थः। नापितः, एकेन रक्तकलेवरेण रक्ताक्तशरीरेण पौरजनेन नगरवासिना कर्त्राअञ्चलगृहीतः अञ्चलेषु वस्त्रप्रान्तेषु गृहीतः धृतः सन् वर्त्तते तिष्ठति (क)।

प्रवेशय मत्समीपमानय (ख)।

एषःअयम् आनीतः इति शेषः (ग)।

संस्कृतमाश्रित्य पठति*** *** संस्कृतवाण्या आत्मनः कार्य्यकुशलत्वं वर्णयति इत्यर्थः (घ)।

मयि क्षुरं गृह्णतिमानुषाणां भवेक्षनाशातनुतामुपैति।
स्ववृत्तिनिर्वाहपरे च रक्तचयोर्मिमालाकुलिता तनुः स्यात् ॥३७॥

अपिच ।

आर्त्तनादमधिकं प्रकुर्वतां हस्तपादगलबन्धपीड़नात्।
यं छिनद्मिनखरं नृणामहं स प्ररोहति पुनर्न जन्मना ॥३८॥

(सभास्थानमवलोक्य दर्पणमर्पयति।) (ङ)

राजा। बन्धुरे! आदौ मुकुरं गृह्णातु भवती। (च)
बन्धु। (गृहीत्वा अवलोक्यच) भअबं! तिमिराउला म्हि


      ***

मयीत्यादि। मयि क्षौरकर्मार्थं क्षुरं गृह्णति धृतवति सति मानुषाणां मानवानां भवक्षणाशासंसारदर्शनाभिलाषः तनुतां क्षीणताम् उपैति प्राप्नोति मानवानां जीविताशा न सम्भवति इत्यर्थः। च परन्तु मयि स्ववृत्तिनिर्वाहपरे क्षौरकर्मकरणप्रवृत्ते सति, तनुःशरीरं रक्तचयोर्मिमालाकुलिता, रक्तचयेनशोषितसमूहेन जाता या ऊर्मिमाला तरङ्गमालाःताभिराकुलिता व्याप्ता स्यात् भवेत्। उपेन्द्रवज्रावृत्तम् ॥३७॥

पुनर्विवृणोति आर्त्तेति। हस्तपादबन्धपीडनात् करचरणगलदेशबन्धनजनितक्लेशात्, अधिकं यथा तथा आर्त्तनादं कातरध्वनिं प्रकुर्वता कातरस्वरेणआक्रन्दताम् इत्यर्थः नृणां मानवानांयं नखरं न अङ्कंछिनद्मि कृन्तामि, सःनखरः जन्मना जन्मान्तरेणापि पुनः न प्ररोहति न जायते नखच्छेदनात् प्राक् करचरणकण्ठबन्धनमन्तरेणतं छेत्तुंन शक्तोमि यतः नखरच्छेदसमये अङ्गुलिछेदमपि करोमि इति भावः। रथोद्धता वृतम् ॥३८॥

सः रक्तकल्लोलः नापितः आस्थानं सभागृहम् अवलोक्य दृष्ट्वादर्पणं मुकुरम् अर्पयति ददाति (ङ)।

हे बन्धुरे! आदौ प्रथमतः मुकुरं दर्पणंगृह्मातु नयतु भवती। भणतीति बन्धुरायाःविशेषणंराज्ञः पूज्यत्वेन न उक्तम् इति भावः(च)।

दप्पणे णकधम्पि मुहाकिदिंपेच्छद्मि तादप्पणंगेहतु अज्जो। (छ)

राजा। भो व्याधिसिन्धो! भवदधिष्ठानेन तिमिराकुला कुट्टिनी। (ज)

व्याधिः। कथम् अग्निवर्णशलाका स्थिरहस्तेन अस्या लोचनतारकामध्ये न दीयते? तर्हि चक्षुषोरभावात् कुतस्तिमिरता। (झ)

मृगा। (विहस्य) पढमदो बेज्जस्तु लोअणेपरीक्वीअदु। (ञ)

व्याधिः। अलमिहावस्थानेन गणिकापि माम् उपहसति

(इति निष्क्रान्तः।) (ट)


      ***

भगवन्। तिमिराकुलास्मि दर्पणे न कथमपि सुखाकृतिं प्रक्षिष्येतद्दर्पणं गृह्णातु आर्य्यः(क)।

प्रथमतः वैद्यस्तु नयने परीक्षते (ञ)।


      ***

तिमिराकुलास्मि अहं तिमिरेण नयनरोगविशेषेण चाकुलास्मिकातरास्मि तस्मात् दर्पणे मुकुरे सुखाकृतिं सुखप्रतिबिम्बमित्यर्थः कथमपि कथञ्चिदपि न प्रेक्षिष्ये द्रक्ष्यामि। तत् तस्मात् दर्पणं मुकिरम् आर्य्यःभवान् गृह्णातु धारयतु (छ)।

भवदधिष्ठानेन भवताम् अधिष्ठानेन उपस्थित्या अत्र उपस्थितिमात्रेणैव इत्यर्थः। तिमिराकुला नयनरोगकातरा (न)।

अग्निवर्णशलाका उत्तप्तलौहशलाका इति यावत् स्थिरहसेन निश्चलहस्तेन, अस्याः बन्धुरायाः लोचनतारकामध्ये नयनकनीनिकाभ्यन्तरे न दीयते न प्रेर्य्यते इत्यर्थः, तहि,चक्षुषोर्नयनयोरभावात् कुतः कथं तिमिरता नयनरोगत्वम् आश्रयाभावे आश्रयिणोऽप्यसम्भवात् नयनरोगक्लेशं न अनुभविष्यति इति भावः(झ)।

वैद्यः प्रथमतः प्राक् नयने रोगिणांनयनद्वयं परोक्षते अवलोकयति पश्चात् अन्यलक्षणं पश्यति इति भावः (ञ)।

इह, अवस्थानेन अलम्? अत्र स्थातुं न युक्तं, यतः गणिकापि वेश्यापि माम् उपहसति तिरस्करोति इत्यर्थः (ट)।

विश्वः। (मुकुरं गृहीत्वा अवलोक्य च ससम्भ्रमं) अहो वार्धक्यं जातम्। (ठ)

शुक्लत्वं जरसा कचेषु दशनाः शीर्षा विशीर्णा तनु-
स्तैमिर्य्यं नयने श्रुतौ नच वचोलब्धिः श्लथत्वं पले।
अस्माकन्तु कथं तथापि विलसद्वाराङ्गनालिङ्गन-
व्यामोहाय मनः सदैव बलते चित्रं चरित्रं विधेः॥ ३९॥

राजा। अरे नापित! ब्रूहि स्वाभिमतम्। (ड)
रक्तः। देअ! एदेण दाब पीड़ाकादरेण समं अह्माणं कलहो बट्टदि। (ढ)


      ***

देव! एतेन तावत् पीड़ाकातरेण सममस्माकं कलहोवर्त्तते (ढ)।


      ***

अहो! इति विस्मये, वार्द्धक्यं वृद्धत्वं जातं संवृत्तम् (ठ)।

वृद्धत्वंविवृणोति शुक्लत्वमिति कचेषु केशेषु शुक्लत्वंशौक्त्यादशनाः दन्ताः शीर्णाः पतनोन्मुखाः, तनुः शरीरं विशीर्णा जीर्णा दुर्बला इति यावत्। नयनैतैमिर्य्यंतिमिररोगः(छानि) श्रुतौ कर्णे न च वचोलब्धिः वचसः वाक्यस्य लब्धिःउपलब्धिः लाभः, पले मांसे श्लथत्वं शिथिलता लोलता इति यावत्, एतत्सर्वम् अस्माकन्तु जरसा वार्द्धक्येन अभवत् इत्यर्थः। तथापि एवंरूपायाम् अवस्थायां सत्यां विलसद्वाराङ्गनालिङ्गनव्यामोहाय, विलसन् देदीप्यमानः वाराङ्गनानां वारनारीणाम् आलिङ्गने परिष्वङ्गे यो व्यामोहः औस्तुक्यंतस्मै, नियतवेश्यालिङ्गनौत्सुक्यार्थम् इति यावत् सदैव सर्वदैव मनः चित्तं बलते चञ्चलं भवति इत्यर्थः। विधेः विधातुः चरित्रं व्यवहारः चित्रम् आश्चर्यम्। एवमवस्थायामपि नियतवेश्यालिङ्गनाय अस्माकं मनः सर्वदैव बभूमौति इति विधातुः चरित्रस्य माहात्म्यंनोचेत् कथमेव भवेदिति भावः॥ ३९॥

अरे इति तुच्छसम्बोधनं नापित! दिवाकीर्त्ते। ब्रूहि कथय स्वाभिमतम् स्वस्य अभिप्रायम् (ड)।

एतेन पौरजनेन, पीड़ाकातरेण आर्त्तेन, समं सह, कलहःविवादः, वर्त्तते अस्ति (ढ)।

राजा। मन्त्रिन्! विचार्य्यतामनयोर्न्यायः। (ण)
मन्त्री। अरे नापित! निगद्यतां प्रथमतः कस्य गोचरः। (त)
रक्तः। पढमं अह्माणं। (थ)
पौरः। ममाङ्केशोणितप्रवाहः प्रथमतोगोचरस्तव। (द)
मन्त्री। अरे नापित! कथं ते गोचरः? (ध)
रक्तः। (आत्मगतं) धन्धोमन्त्रिअरोनरराअजोग्गो। (न)

(प्रकाशम्।)

भअबं! एदस्मज्जेव णअरजणस्मणहरमूलाकस्मणात्यं लोअणमज्झणिहिदं वड़िस भग्गं एदेण कारणेण।(प)


प्रथममस्माकम् (थ)।

धन्यः मन्त्रिवरः नरराजयोग्यः (न)।

भगवन्! एतस्यैव नगरजनस्य नखरमूलाकर्षणार्थं लोचनमध्यनिहितं वड़िश अन्नम् एतेन कारणेन (प)।


मन्त्रिन्! हे अमात्य! विचार्य्यतांनिश्रीयताम् अनयोः नापितपौरजनयोः न्यायः सत्यत्वंधर्माधिकरणोपस्थितस्य विवादस्य प्रथमं सत्यत्वंप्रतिपादय इति भावः(ण)।

निगद्यताम् उच्यतां, प्रथमतः कस्य जनस्य गोचरःइन्द्रियविषयः प्रथमं केन अवलोकितः एष शोणितप्रवाहः? तदुच्यताम इति भावः(त)।

प्रथमं प्राक् अस्माकं गोचरः इति शेषः। प्राक् अस्माभिरेव अवलोकित इति भावः(थ)।

ममअङ्गेशरीरे शोषितप्रवाहः शोणितस्रोतः प्रथमतः प्राक् तवगोचरःतव इन्द्रियविषयः प्राक् त्वया अवलोकित इत्यर्थः (द)।

कथं कस्मात् ते तव गोचरः इन्द्रियविषयः? अरे नापित! श्रूयते, पुरवासिना किमुच्यते त्वया पूर्वमुकम् “अस्माकं गोचरः” इति तत्सर्वमसत्यमिति भावः (ध)।

धन्यः प्रशंसार्हः। नरराजयोग्यःनृपतितुल्योभवानित्यर्थः (न)।

भगवन्! प्रभो। एतस्यैव नगरजनस्य पुरवासिनः नरवरमुलाकर्षणार्थं नख-

मन्त्री। भद्रम् उक्तम् अनेन। अरे पौर! वड़िशमूल्यंदातुमहसि। (फ)

बन्धु। (सस्मितं) धणोमन्तिअरो णरबइजोग्गो। (ब)

(प्रविश्य प्रतीहारः।) (भ)

भअबं! मित्थाणबणामहेयो बम्मणो अज्जंपेक्षिदुमिच्छदि। (म)

विश्वः। प्रवेशय।

प्रती। (तथा करोति)।

(ततः प्रविशति मिथ्यार्णवः।)

मिथ्या। (समन्तादवलोक्य) भो महामहोपाध्याय! अस्मत्प्रतिवासिजामातृप्राङ्गणे कश्चिद् ब्राह्मणचतुर्वेदाध्यायी ब्रह्मचर्य्यनिपुणःसंवत्सरस्नायीमक्षिकापादाहतिव्रणितदेहो


भगवन्। मिथ्यार्णवनामधेयो ब्राह्मण आर्य्यं प्रेक्षितुमिच्छति (म)।

छेदनाय, नखरमूलानाम् अङ्गुलीनाम् आकर्षणार्थं लोचनमध्ये नयनमध्ये निहितं दत्तं यत् वडिशं तत् भग्नम्, एतेन कारणेन, नयनप्रविष्टवड़िशस्य भङ्गेन इति यावत् शोणितप्रवाहः रक्तकल्लोलः सञ्जातः। वड़िशभङ्गमन्तरेण कथं एतादृक् शोणितप्रवाहः सम्भवति इति भावः(प)।

भद्रम् उक्तं सुष्ठूक्तं रे पौर! पुरवासिन्! वडिशमूल्यंलयलप्रविष्टभग्नवड़िशस्यमूल्यम् अर्घ्यं दातुम् अर्पयितुम् अर्हसि योग्यस्त्वम् (फ)।

धन्यो मन्त्रिवरो नरपतियोग्यः (ब)।

द्वारपालः(भ)।

मिथ्यानाम् असत्यानाम् अर्णवः सागर इवस एव नामधेयो यस्य स इति अन्वर्थनामाब्राह्मणःआर्य्यंमहामहोपाध्यायं प्रेक्षितुं द्रष्टुमिच्छति अभिलषति (म)।

भो महामहोपाध्याय! इत्यादि। महामहोपाध्यायलक्षणन्तु अस्य पूर्वापरगुणाननुभूय आधुनिकमहामहोपाध्यायानां गुणान् अनुस्मृत्य च बोद्धव्यम्। अस्मत्प्रतिवासि जामातृप्राङ्गणे अस्माकं प्रतिवासी यो जामाता तस्य प्राङ्गणे चत्वरे, यद्वाअस्मत् प्रतिवासिनाम् अस्मत्पल्लीस्थानां जनानां यो जामाता दुहितृृणां पतिः तस्य प्राङ्गणे,

मृतः तेन ब्रह्मबधेन व्याकुलीभूता वयमितस्ततो वेश्याप्राङ्गणे स्मार्त्तपण्डितमन्विष्यन्तो भवदन्तिकमागताः स्म। तदत्र कानि प्रायश्चित्तानि? (य)

विश्वः। (स्मृतिमभिनीय स्वनासापुटेऽङ्गुलिं प्रदाय परमार्थतो निरूप्य आह)।

यदि स्वरूपं ब्राह्मणोमृतस्तदा तद्वनितायाः तस्सुतस्य वा मुखे गोमयजलं वङ्किवर्णं कृत्वा प्रदीयतां तेन उभयोर्दिव्या गतिः।(र)

मिथ्या। (कर्णे स्वैरं) मक्षिकापादाघातेन न मृतः किन्तु रजक्यां रममाणः सर्वैःपौरजनैर्लोष्ट्रपातैर्हतः।(ल)


चतुर्वेदाध्यायी, वेदचतुष्टयाध्ययनतत्परः ब्रह्मवर्च्यनिपुणः ब्रह्मचारी संवत्सरस्नायीसंवत्सरं व्याप्य वाप्यो दीर्घस्थायीइत्यर्थः यद्वासंवत्सरम् अतिक्रम्य स्नायीवत्सरान्तत्यर्थः। कश्चित् ब्राह्मणःमक्षिकापादाहूतिव्रणितदेहः, मक्षिकाणां पादाहत्या चरण्णाघातेन व्रणितःक्षतःदेहः शरीरं यस्य तादृशः सन् मृतः लोकान्तरं गतः। तेन ब्राह्मणबधेन ब्रह्महत्यया व्याकुलीभूताः अतीव कातराः सन्तः, इतस्ततः चतुर्दिक्षुुइत्यर्थः वेश्याप्राङ्गणेवाराङ्गनाचत्वरे स्मार्तपण्डितंस्मृतिशास्त्राध्यापकम् अन्विष्यन्तः अन्वेषणंकुर्वन्तः वयं भवदन्तिकं भवत्समीपं आगताः स्मप्राप्ताः स्म, तत् तस्मात्अत्र ब्राह्मणबधकाण्डे कानि किं विधानि प्रायश्चित्तानि? उच्यन्ताम् इति शेषः(य)।

स्मृतिमभिनीय कारणं नाटयित्वा स्वनासापुटे अङ्गुलिंप्रदाय अङ्गुलिना नासापुटं धृत्वा इत्यर्थः परमार्थतो निरूप्य, नयननिमीलनादिना यथार्थतो निश्चित्यआह। स्वरूपं सत्यं यदि ब्राह्मणः मृतः परलोकं गतः, तदा तर्हि तद्वनितायाःतस्य पत्न्यःतत्सुतस्य वा तत्पुत्रस्य वा मुखे गोमयजलं गोमयमिश्रितजलं वङ्किवर्णन् अत्युष्णमिति यावत् कृत्वा प्रदीयताम् आवर्ज्यताम्तेन तज्जलप्रदानेन उभयोः ब्राह्मणस्य तत्पत्न्याश्च, ब्राह्मणस्य तत्पुत्रस्य वा दिव्या श्रेष्ठा गतिः भवेदिभि शेषः(र)।

कर्णे स्वैरं श्रुतिसमीपे स्वैरं मन्द यथा स्यात्तथाह मक्षिकापादाघातेन

विश्वः। तदा सर्वे निस्तीर्णा निर्मञ्जनंकृत्वा नीयतां तेन पापेन रजकीविलिप्ता। (व)

मृगा। धणंपण्डिदत्तम्। (श)

मिथ्या। [नायिकामवलोक्य।]

केनाराधि सरोरुहैः सुरनदीतीरे मृडानीश्वरः
केनाकारि च सम्बरारिचरणे भक्तिर्नितान्तं सदा।
केनाङ्गं सुरसिन्धुसिन्धुमिलने व्यामोचि निर्मोहतो
यस्यैषाङ्कनायमलङ्करिष्यतिजगद्व्यामोहिमूर्त्तिः क्षणम्॥४०॥

(पुनः सर्वानवलोक्य आत्मगतम्।)

वाराङ्गनालिङ्गनाय मम समागमः किञ्चात्रैव धूर्त्तानां


धन्यंपण्डितत्वम् (श)।


मक्षिकाचरणप्रहारेण नमृतः, किन्तु रजक्यो रजकपत्न्योरममाणः शृङ्गारपरायणः स ब्राह्मणः, सर्वैः पौरजनैः नगरवासिभिः कर्त्तृभिः लोष्ट्रपातैः लोहानांपातैःउत्क्षेपणैः करणैः हतः व्यापादितः (ल)।

तदा तर्हि सर्वे निस्तीर्णापापात् मुक्ताः तेन ब्राह्मणहत्याजनितेन पापेन विलिप्ता युक्ता रजकी, निर्मञ्जनं कृत्वा, संशोध्य नीयताम् गृह्यताम्। (व)

अस्य पण्डितत्वं पाण्डित्यं धन्यं प्रशंसनीयम् (श)।

स्वस्यहृदयगतभावं प्रकटयति केनेति। केन जनेन सरोरुहैः पद्मैःसुरनदीतीरे गङ्गातीरे मृडानीश्वरः शिवः आराधि सम्पूजितः। केन वा शम्बरारिचरणे मदनचरणे सदा सर्वदा अविच्छेदेन इति यावत् नितान्तं निरतिशयं यथा स्यात्तथा भक्तिःमनोनिवेशःअकारि चक्रे। केन वा सुरसिन्धोः गङ्गायाः सिन्धुमिलनेसागरसङ्गमे, गङ्गासागरसङ्गमे इत्यर्थःनिर्मोहतः ज्ञानतः अङ्गंशरीरं व्यामोचि तत्यजे, गङ्गासागरसङ्गमे शरीरं त्यक्ता पुनर्जातः एवंविधः पुण्यवान् कः इति भावः। यस्य अद्धंक्रोडम् एषा जगद्व्यामोहिमूर्त्तिः भुवनमोहिनी इत्यर्थः मृगाङ्गलेखाइदं क्षणकालं व्याप्यअलङ्करिष्यति शोभयिष्यति इत्यहं न जाने इति भावः। शार्दूलविक्रीडितं वृत्तम् ॥४०॥

मम समागमः आगमनं वाराङ्गनालिङ्गनायवेश्याङ्गसङ्गार्थम्। किञ्चपरन्तु

मेलकं न हि जलौकसाम् अङ्गे जलौकानां गतिः तदलमिहावस्थानेन (इति निष्क्रान्तः)। (ष)

राजा। अधुनापि कथं नायातः साधुहिंसको दण्डपालकः? (स)

(ततः प्रविश्य साधुहिंसकः किञ्चित् मुदमभिनीय) असिहत्तमोषएहिं ज्वेब सअलं णअरं ब्याउलं हग्गे परमाणन्दिदो गणित्रासंदंसणत्थंआगदो ह्मि।(ह)

राजा। (समयं चिन्तामभिनीय) मन्त्रिन्! चौरेभ्यो महतीभीतिः किमिदानीम् करणीयम्। (क्ष)

मन्त्री। देव। सैन्यं सुसज्जीकृत्य प्रथमतो मम रक्षणं विधेयं ततो देव्यास्ततः प्रासादस्य च। (क)


असिहस्तमोषकैरेव सकलं नगरं व्याकुलीभूतं, परमानन्दितः गणिकासन्दर्शनार्थम् आगतोऽस्मि (ह)।


अत्रैव कुट्टिन्याः चत्वरे, धूर्त्तानां शठानां मेलकं चक्रं, वर्त्तते इति शेषः। जलौकसां रक्तपायिकीटविशेषाणाम् अङ्गे शरीरे न हि जलौकानां गतिः सङ्गः, तत् तस्मात् इह धूर्त्तसङ्घशोभितसभायाम् अवस्थानेन अलं? स्थितेः प्रयोजनं नास्ति इत्यर्थः (ष)।

अधुनापि इदानीमपि कथं कस्मात् न आयातः सआगतः साधुहिंसकः साधूनां सत्पुरुषाणां हिंसकः इति अन्वर्थनामा दण्डपालः कश्चित् दुष्टशास्ता दण्डदाता इति यावत् (स)।

असिहस्तमोषकै खड्गधारिचौरैः, व्याकुलीभूतम् उत्पीड़ितम्। परमानन्दितः परमाह्लादितः गणिकादर्शनार्थं वाराङ्गनामवलोकयितुम्, आगतोऽस्मिअहमवागतःइत्यर्थः (ह)।

मन्त्रिन्! हे अमात्य! कुमतिवर्मन्! चौरेभ्यः तस्करेभ्यः महतीभीतिः महत् भयम् उपस्थिता इति शेषः इदानीम् अधुना किं करणीयं? किं विधेयम्? (क्ष)।

देव! महाराज! सैन्यं सुसज्जीकृत्य सेनानिवेशं कृत्वा प्रथमतः प्राक् मम,

राजा। (सकष्टम्)।

रात्रौ तारकनायकेक्षणसुखान्यूर्द्धंपिधानं बिना
नित्यं जर्जरभित्तिपातभयतो देव्या समं जागरः।
यस्मिन् भेकरवागतोरगभयात् पाणौ सदैवौषधं
प्रासादः खलु तादृशः प्रथमतः संरक्ष्यतां चौरतः॥४१॥

हन्त! न जाने देव्याः कीदृशी गतिर्भविष्यत्ति? (ख)

बन्धु। अज्ज मन्त्रिअर! किरिसी सा देई नं चिन्तअत् देओविसीददि।(ग)


आर्य्य! मन्त्रिवर! कीदृशी सा देवी यां चिन्तयन् देवः विषीदति (ग)।


ततः पश्चात् दैव्याः महिष्याः ततः तदनन्तरं प्रासादस्य सौधस्य च रक्षणं चौरतःरक्षा इति यावत् विधेयं कर्त्तव्यम् (क)।

रात्रौ इति। यस्मिन् प्रासादे पिधानम् आच्छादनं विना उपर्य्याच्छादनाभावादित्यर्थः। रात्रौ रजन्यां तारकनायकेक्षणसुखानि तारकनायकस्यउडुपतेःईक्षणसुखानि दर्शनजनितसुखानि भवन्ति गृहाभ्यन्तरस्थितस्यापि चन्द्रदर्शनजनितसुखानि भवन्ति इत्यर्थः। तथा, जर्जरभित्तिपातभयतः जर्जरभित्तेः जीर्णदेहस्यपातः पतनं तस्मात् भवं तस्मात् जीर्णदेहलीपतनभयात् इत्यर्थः। नित्यं प्रतिदिनं देव्या समं महिष्या सह जागरः जागरणं भवति। तथा भेकरवागतोरगभयात् मण्डूकध्वनिभिः आगता समायाताः ये उरगाः सर्पाः तेभ्यो यत् भयं तस्मात् भेकरवाहुतसर्पभयादित्यर्थःपाणौहस्ते सदैव सर्वदेव औषधं विषहारकं भैषज्यम् आस्ते इति शेषः। तादृशः पूर्वोक्तप्रकारः प्रासादः प्रथमतः प्राक् चौरतः तत्करात् संरक्ष्यताम् खलु, पश्चात् अन्येषां रक्षणं विधेयमिति भावः। शार्दूलविक्रीड़ितं वृत्तम्॥४१॥

हन्त इति खेदसूचकमव्ययम्। देव्याः महिष्याः कीदृशी गतिः अवस्था भविष्यति भवेत्, नजाने इत्यहं न अवैमि (ख)।

देवःमहाराजः, विषीदति विषणीभवति (ग)।

मन्त्री। तद्गुणवर्णने अनन्त इव कः सहस्रमुखः?।(घ)

बन्धु। अज्ज तधाबिसुणोमि। (ङ)

मन्त्री। भवतु त्वदुपरोधाद्वर्ण्यते संक्षेपेण।

दर्शेन्दुतुल्यवदनाञ्जनपुष्जगौरी
मार्जारचारुनयना घटपीनमध्या।
प्रोत्तुङ्गपीनकुचचुम्बितनाभिदेशा
त्रैलोक्यमोहवसतिः खलु कामिनी सा॥४२॥


आर्य्य! तथापि शृणोमि (ङ)।

तद्गुणवर्णने तस्याः गुणवर्णनायाम् अनन्त इव शेष इव, सहस्रमुखः सहस्रवदनः कः? मनुष्यमध्ये कोऽपि नास्ति? सहस्रवदनश्चेत् वक्तुं समर्थी भवेदिति भावः(घ)।

तथापि तथा चेत् शृणोमि किञ्चित् श्रोतुमभिलषामि इति भावः (ङ)।

दर्शेन्दुतुल्यवदना दर्शः अमावस्यातस्मिन् इन्दुः चन्द्रः तेन तुल्यं समं वदनम् आननं यस्याः सा यथा अमावस्यायां सर्वथैव चन्द्रस्य दर्शनाभावः, तद्वत् अस्याः आननस्य रात्रौ कृष्णवर्णाच्छन्नत्वात् दर्शनाभावः इति भावः। तथा अञ्जनपूर्णगौरी कज्जलराशिवत् गौरी गौरवर्णा गौरीति परिहासोक्तिः कृष्णवर्णा इत्यर्थः। पुनः कीदृशो मार्जारचारुनयना मार्जारस्येव विड़ालस्येव चारुणौ सुन्दरे नेत्रेयस्याः सा विड़ालाक्षीत्यर्थः। घटस्येव पीनः स्थूलः मध्यः कटिदेशो यस्याः सा अतिस्थूलमध्यदेशा इत्यर्थः, तथा प्रोत्तुङ्गपीनकुचाभ्यां अत्युच्चस्थूलस्तनाभ्यां चुम्बितः स्पृष्टः नाभिदेशोउदरस्य निम्नभागः यस्याः सा नाभिदेशपर्य्यन्तदोदुलमानातिपीवरकुचा इत्यर्थः खलु अतएव त्रैलोक्यमोहवसतिः त्रैलोकस्य भुवनस्य मोहवसतिःमोहाश्रयः भुवनमोहिनी इत्यर्थः। वसन्ततिलकं वृत्तम्॥४२॥

बन्धु। भद्दो महीबालो बिअड्डाणां अम्गगणो अविअतुमं कइ चूडामणी। (च)

मन्त्री। देव! चौरभीतिर्महती, पतितः संग्रामसमयः, तत्कथं नाहूयतेरणजम्बूकः सेनापतिः?(छ)

(प्रविश्य रणजम्बूकः परिक्रम्य सगर्वं) देअसुणीअदु अह्माणं बीरत्तणम्। (ज)

राजा। (प्रकाशं) कथय।

रणः। देव! अज्जमए रत्तपुप्परसं पिअन्ती अवलोइदा। (झ)

राजा। ततः?


भद्रो महीपालः विदग्धानाम् अग्रगण्यः। अपिच त्वंकविचूड़ामणिः(च)।

देव! अद्य रक्तपुष्परसं पिबन्ती अवलोकिता (झ)।

ततः सत्वरम् अङ्गेतनुत्वं निवेश्य क्षत्रियचतुष्टयेन समम् अस्त्रं धृत्वा स्थूलचर्मरज्जुभिः आकृष्टा (ञ)।


भद्रः साधुः महीपालःभूपतिः विदग्धानां रसिकानाम् अग्रगण्यः अग्रणीः, त्वमपि च कविचूड़ामणिः पण्डितशिरोरत्नः(च)।

देव! महाराज! महती चौरभीतिः अतीव चौरभयं, सुतरां संग्रामसमयःयुद्धकालः पतितः समायातः तत् तस्मात् कथं रणजम्बुकः रणे जम्बुकः शृगाल इवपलायनतत्परः इति अन्वर्थनामा सेनापतिः न आहूयते? न आकार्य्यते? (छ)।

देव! श्रूयताम् अस्माकं वीरत्वम् (ज)।

देव! हे महाराज! मया रक्तपुष्परसं रक्तवर्णपुष्पस्य रमं मधु पिबन्ती आस्वादयन्तीमधुपानं कुर्वती इत्यर्थः अवलोकिता दृष्टा, भ्रमरीति शेषः (झ)।

ततः तदनन्तरं सत्वरं शीघ्रम् अङ्गे शरीरे तनुत्रंवर्म निवेश्य सन्नह्यदेहं

राजा। सहर्षं ततः ?

रणः। तदो तीक्खखग्गपहारेण चम्मकोसत्तणं णीदा। (ट)

राजा। तत्र कः सन्देहो नागायुतबलोऽसि। (ठ)

मन्त्री। भोः सेनापते। पतितः संग्रामसमयः, तव साहसः कीदृशः? (उ)

रणः। (प्रस्फुटं संस्कृतमाश्रित्य )।

सद्यो दत्तमलक्तकं पदयुगे दृष्ट्वाङ्गनामा रतौ,
रक्तभ्रान्तिवशाद्भयेन नितरां ग्लानेन्द्रियो मेदिनीम्।
पश्यन् दर्शनिशातमिस्रनिकरच्छन्नामिवाशां तथा,
मूर्च्छेयं भुवि का कथा समरतो रक्तास्यसक्तद्विषाम् ?॥४३॥


तवतीक्ष्णखड्गप्रहारेण चर्मकोषत्वं नीता (ट)।


चर्मावृतं कृत्वा इत्यर्थः। क्षत्रियचतुष्टयेन चतुर्भिः योद्धृभिरित्यर्थः समं सह अस्त्रं धृत्वा धनुर्वाणादिकं गृहीत्वा स्थूलचर्मरज्जुभिःपीवरचर्मनिर्मितरज्जुभिः आकृष्टा स्वसमीपमानीता सा इति शेषः (ञ)।

निशितखड्गघातेन चर्मकोषत्वंनीता शिरश्छेदनात् चर्मकोषत्वंनीता प्रापिक्त शरीरम् चर्मनिर्मितकोषवत् अकारि इत्यर्थः (ट)।

तत्र, तव वीरत्वे कः सन्देहः? कोऽपि सन्देहो नास्ति, यतः, नागायुववस्वोऽसि दशसहस्रगजानां वीर्य्यमिव ते वीर्य्यम् इति भावः(ठ)।

भो सेनापते! हे रणजम्बुक! इति यावत् संग्रामसमयःयुद्धकालःपतितःसमायातः, तवसाहसः युद्धक्रियायाम् उत्साहः कीदृशः? कीदृक् आस्ते इति शेषः(ङ)।

युद्धक्रियाभ्यां साहसत्वं वर्णयति सद्य इति। रतौ सुरतसमये अङ्गनायाः रमण्याःपदयुगे चरणयुगले दत्तम् अर्पितम् अलक्तकं लाक्षारामं दृष्ट्वा अवलीका रक्तभ्रान्तिवशात् शोणितभ्रमवज्ञात् भयेन भीत्या नितरां निरतिशयं यथा तथा म्लानेन्द्रियःविह्वलःसन् दर्शनिशया अमारजन्याः तमिस्रनिकरैःअन्धकारसमूहैःगाढ़ान्धकारैरित्यर्थः कन्नाम् आवृतामिव मेदिनींधरां तथ्य

मृगा। (उच्चैर्हसति)।

रणः। (सक्रोधं) आः पामरि गणिए। मं उअहससि ता कुणमए समं समलं। (ढ) (इति रोषं नाटयति।)

(प्रविश्य प्रतीहारःसंस्कृतमाश्रित्य)

देव! महायात्रिको नाम सांवत्सरिको द्वारि वर्त्तते। (ण)

राजा। प्रवेशय।

प्रती। (तथा करोति)।

(प्रविश्य महायात्रिकः पञ्जिकां प्रसार्य्य दक्षिणाभिमुखः पठति)।

भवे भवतु भास्करः सुरगुरुस्तथा रन्ध्रगः।
स्वरांशुतनयोऽष्टमः सपदि मेदिनीनन्दनः।

——————————————————————————————-

आः पामरि! गणिके! माम् उपहससि तत् कुरु मया समं समरम् (ढ)।


तद्वदन्धकारावतां आशां दिशञ्च पश्यन् अवलोकयन् सद्यः तत्क्षणात् भुवि धरायां मूर्च्छेयंचैतन्यशून्योऽभवं रक्तास्यसक्तद्विषां रक्तास्यसक्ताः रक्तवर्णवदनविशिष्टाः ये द्विषः शत्रवः तेषां समरतः संग्रामे का कथा? किमुत वक्तव्यम्? समरे रक्तवर्णमुखयुक्तान् शत्रून् दृष्ट्वा मम किं भवेत् तन्न जाने इति भावः। शार्दूलविक्रीड़ित वृत्तम्॥४३

आः इति कोपसूचकमव्ययम्। पामरि! पापिष्ठे! गणिके! रे वारविलासिनि! माम् उपहससि विड़म्बयसि, तत् तस्मात् मया समं सह, समरं युद्धंकुरु त्वया सह अहं युद्धंकरोमीति भावः(ढ)।

प्रतीहारः द्वारपालः। महायान्त्रिकः महायात्रायां मरणं वदति यः सः इति अन्वर्थनामा, सांवत्सिकः संवत्सरस्य फलं वदति यः सःदैवज्ञः इत्यर्थः द्वारि द्वारदेशे, वर्त्तते तिष्ठति (ण)।

भवे इति। तव इति ऊहनीयम् तव भवे जन्मनि जन्मराशौ इति यावत् भास्करःआदित्यः भवतु तिष्ठतु। तव जन्मराशिस्थितः सन् स्थाननाशं करोतु इति भावः। जन्मराशिस्थितस्यादित्यस्य फलं ज्योतिः शास्त्रेषु उक्तंयथा – “स्थानं जन्मनि नाशये–

दिनेशगृहसंगतः स खलु सैंहिकेयो बली
फलं किमपरैः पुनः शशिकवीन्दुजातैर्ग्रहैः॥४४॥

मन्त्री। श्रुतः शुभाशीर्वादः सम्प्रति संग्रामार्थी देवः तत् क्रियतां महायात्रायाः क्षणः। (त)

महा। पूर्णिमासंयुक्तशनैश्चरवारे श्रवणानक्षत्रे वृश्चिकलग्ने प्रातः समये देवस्य महायात्रा भविष्यति (थ)।


द्दिनकरः” इत्यादि। सुरगुरुः बृहस्पतिः तद्वत् जन्मराशौ तिष्ठतु, जन्मराशिस्थितः सन् भयं विदधातु इति भावः तथाचोक्तं“भयं जन्मन्यार्य्योजनयति” इत्यादि। तथा स्वरांशुतनयः स्वरांशोःसूर्यस्य तनयः पुत्रः, शनैश्वरः, रन्ध्रगः तव जन्मराश्यपेक्षया अष्टमगृहगतो भवतु, अष्टमगृहगतः सन् शरीरपीड़ां करोतु इति भावः, तथाचोक्तं“शरीरपीड़ां निधने” इत्यादि। तथा मेदिनीनन्दनः कुजः सपदि तत्क्षणात् अष्टमः, तवजन्मराश्यपेक्षया अष्टमगृहगतो भवतु निधनगृहगतः सन् तवोपरि शस्त्रवृष्टिं विदधातु इति भावः। तथाचोक्तं “जनयति मरणस्थः शस्त्रधारांधराजः” इत्यादि। स प्रसिद्धः बलीबलवान्, पूर्णदृष्टिरिति यावत् सैंहिकेयःराहुः दिनेशगृहसंगतः तव जन्मराश्यपेक्षया द्वादशगृहगतःअन्त्यगृहगतः इति यावत् भवतु, अन्तरगृहगतः सन् अर्थक्षयादीनि जनयतु इति भावः। तथाचोक्तं“जन्मान्तपञ्चनवरन्ध्र- चतुर्द्विसप्तराशौस्थितो यदि भवेदसुरः कदापि। अर्थक्षयं रिपुभयं बहुकार्य्यहानिं रोगप्रवासमरणाग्निभयं करोति”। एवं चेत् अपरैः अन्यैः शशिकवीन्दुजातैःचन्द्रशुक्रबुधग्रहैःअन्यत् पुनः किं फलं भवेत् पूर्वोक्तादित्यादि ग्रहपञ्चकानां फलस्यापेक्षया एतेषां चन्द्रशुकबुधग्रहाणां फलम् अकिञ्चित्करम् अतः एतेषांफलापेक्षापि नास्तीति भावः। पृथ्वीवृत्तम्॥४४॥

शुभाशीर्वादः मङ्गलाशीर्वादः, सम्प्रति इदानीं संग्रामार्थी समरप्रार्थी देवः महाराजः तत् तस्मात् क्रियताम् अवधार्य्यतां महायात्रायाः अपुनराममनस्य क्षणः समयः महाराजः कदा गमिष्यति तस्य समयःनिरूप्यताम् इति भावः (त)।

पूर्णिमासंयुक्तशनैश्चरवासरे पापयोगादियुक्तदिवसे तथाचोक्तं“शनौपूर्णा च पापदा” (थ)।

कलः। ता एत्थ मरणं जाअदि (द)।

महा। प्रजानामापदं नीत्वा यातु नाम (ध)।

विश्वः। (पूर्वां पश्चिमां दिशश्चावलोक्य)।

भानुविम्बमिदमस्तगामि च प्रोद्यतं कुमुदबन्धुमण्डलम्।
दृश्यते रतिपतेः प्रवासिनां क्रोधरक्तमिव लोचनद्वयम्॥४५॥

(नायिकामवलोक्य सकामम्) वत्सकलहाङ्कुर! प्रवृत्तः सन्ध्यासमयः तदस्याः कर्णे स्वैरं भण यथा मया सार्द्धं निभृतमस्माकं सन्ध्या निर्वहति (न)।


तदत्रमरणं जायते (द)।


अत्रदिवसे गमनात् मरणं मृत्युः जायते भवति (द)।

प्रजानां लोकानाम् आपदं नीत्वा संगृह्ययातु गच्छतु, अस्या अवस्थानेन लोकानां केवलमापत् भविष्यति इति भावः(ध)।

सन्ध्यां वर्णयति भानुविम्बमिति। इदं प्रत्यक्षदृश्यमानं भानुविम्बं सूर्य्यमण्डलम् अस्तगामि अस्ताचलचूड़ावलम्बि च,एवं कुमुदबन्धुमण्डलं चन्द्रविम्बं प्रोद्यतम् उदितम्, उदयास्तसमये उभयोरपि रक्तवर्णत्वं जायते, अत उत्प्रेक्षते प्रवासिनां नायिकासमीपगमनविमुखानां पान्थानां सम्बन्धे रतिपतेः मदनस्य क्रोधसंरक्तं क्रोधेन कोपेन संरक्तंरक्तवर्णं लोचनद्वयं नयनद्वयमिव दृश्यते अवलोक्यते सन्ध्या उपस्थिता रात्रिरागमिष्यति इदानीमपि अत्रस्थित्वा किं क्रियते गृहे गम्यताम्ति इति अभिप्रेत्य रतिपतिः सूर्य्यचन्द्रमण्डलरूपेण क्रोधसंरक्तलोचनद्वयेनेव पान्थान् प्रति अवलोकयतीति भावः। रथोद्धतावृत्तम्॥४५॥

वत्स! कलहाङ्कुर! सध्यासमयः सन्ध्योपासनाकालः प्रवृत्तः उपस्थितःतत् अत्मात् अस्याः नायिकायाः कर्णे श्रवणसमीपे स्वैरं मन्दं यथा स्यात्तथा भणकथय एषायेन प्रकारेणमया सार्द्धं सह निभृतं यथा तथा अस्माकं सन्ध्यासन्ध्योपासना नर्वहति निष्पद्यते, “त्वया सह निर्जने सन्ध्योपासनां कर्त्तुमस्माकमभिलाषः वर्त्तते” इति तां कथमइति भावः(न)।

कलः। (आकर्ण्यात्मगतम्)। संस्कृतमाश्रित्य दुष्टोऽयम् उपाध्यायः तरुणीं रन्तुकामः (प)।

अपिच।

किं मे सद्गुरुसेवनैः प्रतिदिनं? किं व्योमधामार्चनैः ?
किं स्यादध्ययनेन वा? सुरपुरप्राप्त्याथवा किं फलम्?।
एतस्याः कुचकुम्भनिर्भरपरीरम्भप्रभावोद्भव-
स्वेदाम्भोभिरनङ्गवङ्कि रधुना निर्वापितो नो यदि॥४६॥

भवतु तत् अलं विलम्बेन, कथमेषा निर्भरमालिङ्ग्य न चुम्ब्यते (फ)।

(उपसृत्य प्रकाशं) मिअङ्कलेहे! किम्पि जल्पिदुमिच्छेमि (ब)।


मृगाङ्कलेखे! किमपि जल्पितुमिच्छामि (ब)।


दुष्टः मन्दात्मा अयम् एषः, उपाध्यायः अध्यापकः, तरुणीं युवतिं रन्तुकामः लभितुमिच्छति इत्यर्थः (प)।

अपि च आत्माभिलाषं विवृणोति किं मे इति। प्रतिदिनं प्रत्यहं मे मम सद्गुरुसेवनैः सदाचार्य्यपरिचर्य्याभिः किं फलं? किमपि फलं नास्तीति भावः। वा अथवा व्योमधामार्चनैः व्योम्नि नभसि धाम तेजः आश्रयोवा यस्य तस्य सूर्य्यस्य अर्चनैः आराधनैः सूर्य्योपासनाभिरित्यर्थः किं फलं स्यात्? भवेत् किमपि न भवेदित्यर्थः। अध्ययनेन वेदाभ्यासेन वा किं फलम्? अथवा सुरपुरप्राप्त्यासुरपुरस्य स्वर्गस्य प्राप्त्या लाभेन किं फलं भवेत्? यदि अधुना एतस्याः मृगाङ्कलेखायाः कुचकुम्भयोः उत्तुङ्गस्तनकलसयोः निर्भरपरीरम्भप्रभावेण गाढ़ालिङ्गनबलेन उद्भवैः उत्पन्नेः स्वेदाम्भोभिः घर्मजलैः अनङ्गवङ्किःमदनानलःनो निर्वापितः निर्वाणतां न गच्छेत्। एतस्यां रममाणस्य इन्द्राण्युपभोगादिरूपस्वर्गफलमपि अकिञ्चित्करमिति भावः। शार्दूलविक्रीड़ितं वृत्तम्॥४६॥

विलम्बेन चिरेण अलं विलम्बस्य प्रयोजनं नास्ति इत्यर्थः कथं न, केन वा न, एषा मृगाङ्कलेखा निर्भरं गाढ़ं यथा स्यात्तथा आलिङ्ग्यपरिष्यव्यन चुम्ब्यते ओष्ठाधराभ्यां न आस्वाद्यते (फ)।

किमपि किञ्चित् जल्पितुं कथयितुम् इच्छामि अभिलषामि (ब)।

मृगा। जइजुत्तं ता कधं ण भणासि (भ)।

कलः। (संस्कृतमाश्रित्य)

तारुण्यं दिवसानि पञ्च दश वा पीनस्तनोत्तम्भनं
नो जातं पुनरित्यहो! विधुमुखि ! प्राणास्तु न स्थायिनः।
ज्ञात्वैवं समुपेक्ष्यतेऽभ्युपगतो यद्वामदृष्ट्या युवा
न स्थैर्य्यंकुचयोर्हदि स्थिरतरं जागर्त्ति शल्यं हि तत् ॥४७॥

मृगा। [किञ्चित् स्मयति।]

कलः। मिअङ्कलेहे! किम्पि रहस्संजप्पेमि। सुणादु भोदी (म)।


यदि युक्तंतत् कथं न भणसि (भ)।

मृगाङ्गलेखे! किमपि रहस्यंजल्पामि शृणोतु भवती (म)।


यदि युक्तम् उचितं चेत् कथं केन वा न भणसि कथयसि (भ)।

जल्पनं विवृणोति तारुण्यमिति। विधुमुखि! चन्द्रानने! तारुण्यं यौवनं पञ्च, दश दिवसानि दिनानि व्याप्य स्थास्यति इति शेषः। इति एवं चेत् अहो! इति खेदसूचकमव्ययम्। पीनस्तनोत्तम्भनं पीनस्तनयोःपीवरकुचयोः उत्तम्भनम् उन्नतिःनो जातम् यौवने अतीते पीवरकुचयोः पतनात् परं कदा कस्याःअपि पुनरुन्नतिः न अभवत् अतः तवापि इह जन्मनि पुनरुन्नतिर्न भविष्यति इति भावः। तु पुनः प्राणाः न स्थायिनःस्थितिशीलाः, प्राणनिर्यानन्तु अवश्यं भवेत्। एवं जीवनयौवनादीनाम् अस्थिरत्वंज्ञात्वा अवेत्य, अभ्युपगतः रिरंसया उपस्थितःयुवा युवकः यत् यस्मात् वामदृष्ट्या वामनयनया रमण्या, उपेक्ष्यते परित्यज्यते तत् तस्मात् युवकपरित्यागजनितपापात्, इत्यर्थः तस्याः वामनयनायाः कुचयोः पीनस्तनयोः स्थैर्य्यं स्थिरत्वंहृदि मनसि स्थिरतरं निश्चलंशल्यमिव न जागर्त्ति न प्रकाशते अपि तु जागर्त्त्येव, उपेक्षितयुवकायाः कामिन्याःयावत्कुचयोः स्थिरत्वंवर्त्तते तावदेव शल्यमिव सर्वेषां मनसि क्लेशं ददाति इति भावः। शार्दूलविक्रीडितं वृत्तम्॥४७॥

किमपि किञ्चित्, रहस्यंगोप्यं, जल्पामि भणामि (म)।

(इति श्रुतिमूले मिलित्वा निर्भरमालिङ्ग्य उच्चैश्चुचुम्ब संस्कृतमाश्रित्य) (य)।

स्वादितं सुदशनच्छदसीधु नामरैर्विधुरबुद्धिभिरस्याः।
यद्विधुन्तुदमुखादवशिष्टः पीयते प्रमुदितैर्हरिणाङ्गः॥४५॥

विश्वः। (सक्रोधं) अरे पामर वटो! मत्काङ्क्षितां नायिकामालिङ्गसि चुम्बसि च अतः प्रायश्चित्ती त्वम् (र)।

कलः। अहं ण तुमं, जदो सिस्मालिङ्गिदां णाइमां मक्काङ्क्षिदां जप्पेसि (ल)।


अहं न त्वं, यतः शिष्यालिङ्गितां नायिकां, मत्काङ्क्षितां जल्पसि (ल)।


श्रुतिमूले कर्णमूले मिलित्वा संगत्य, निर्भरं गाढ़म् आलिङ्ग्य परिष्वज्य उच्चैः सशब्दंचुचुम्ब, संस्कृतम् आश्रित्य, गीर्वाणवाण्या आह च इत्यर्थः (य)।

स्वादितमिति। अस्याः मृगाङ्गलेखायाः सुदशनच्छदसीषु सुन्दरौष्ठाधरामृतं विधुरबुद्धिभिः, “अत्रएतादृशममृतं नास्ति वयं किं कुर्मः, बहुप्रार्थनयापि न प्राप्स्यामः” इति चिन्तया दुःखितान्तःकरणैः सद्भिरित्यर्थः। अमरैःदेवैःन स्वादितं च उपभुक्तम्। यत् यस्मात् एतादृशसुन्दरौष्ठाधरामृतस्य अलाभात् इत्यर्थः। “अस्माकम् एष एव सुष्ठुः,” इति निश्चित्य प्रमुदितैः सद्भिरिति यावत् विधुश्चलमुखात् विधुन्वुदो राहुःतस्य मुखात् वदनात् अवशिष्टः भ्रष्टः उच्छिष्टः इति यावत् हरिणाद्धः सुधांशुःपीयते आस्वाद्यते कदाचित् अस्याः अधरसुधालाभश्चेत्तर्हि अमराणां राहूच्छिष्टे अमृतमये शशिनिएतादृशी प्रीतिः न स्यात् इति भावः। स्वागतावृत्तम्॥४५॥

अरे इति नीचसम्बोधनम्। पामर। पापिष्ठ। बटो! ब्राह्मण! मत्काङ्क्षितां मत्प्रार्थितां नायिकां मृगाङ्कलेखाम् आलिङ्गसि परिष्वजसे चुम्बसि अधरसुधारसं पिबसि, अतः उपाध्यायोपभोग्यायां यथेष्टाचरणात् इत्यर्थः त्वं प्रायश्चित्ती प्रायश्चित्तार्हः(र)।

अहं न, त्वं प्रायश्चित्तार्हः इति शेषः। शिष्यालिङ्गितां छात्रपरिष्वक्तां छात्रोपभुक्तामित्यर्थः नायिकां, मत्काङ्क्षितां मदभिलषितां जल्पसि भणसि (ल)।

विश्वः। यस्याङ्गस्य योगाद् गजो हस्तीत्युच्यते तदभिधानमङ्गं तव छेद्यंभवति येन गुरुवाञ्छिता नायिका स्पृष्टा (व)।

कलः। अङ्गणाजहणरज्जणणामहेअंअङ्गं तुह बिच्छेज्जंभोदि जेण सिस्मपरिचुम्बिदां नाइकां स्वबाञ्छिदां जप्पेसि (श)।

विश्वः। अधरो यस्याच्छादनं तस्योत्पाटनं युक्तं येन अस्या अधरःपीड़ितः (ष)।


अङ्गनाजघनरञ्जननामधेयम् अङ्गंतवविच्छेद्यं भवति येन शिष्यपरिचुम्बितांनायिका स्ववाञ्छितां जल्पसि (श)।


यस्य अङ्गस्य अवयवस्य हस्तस्य इति यावत् योगात् सम्पर्कात् गजः हस्ती इति उच्चते हस्तोऽस्यअस्तीति व्युत्पत्त्या नाम्नाहस्ती इति निगद्यते इत्यर्थः। तव तदभिधानं तन्नामकम् अङ्गम् अवयवं हस्तं इति यावत् छेद्यंकर्त्तनीयं भवति येन अङ्गेनहस्तेनइति यावत् गुरुवाञ्छिता गुरुकाङ्क्षिता नायिका रमणीस्पृष्टा, त्वया आलिङ्गनायहस्तेन आकृष्टा इत्यर्थः(ब)।

अङ्गनाजघनरञ्जननामधेयम् अङ्गनानां कामिनीनां जघनं नितम्बं रञ्जयति तत्रनियतार्पणेन शोभयति येन, तत् नामधेयं नाम यस्य तत् अङ्गंरमणीनितम्बदेशे निरन्तरशोभि वदनमित्यर्थः तत् विच्छेद्यं विकर्त्तनीयं यत् वदनं रमणीनितम्बदेशे अर्पयित्वा सर्वदेव तिष्ठसि तत् वदनं विकर्त्तनीयमिति भावः। येन अङ्गेन अङ्गनाजघनरञ्जननामधेयेन वदनेन इति यावत्, शिष्यपरिचुम्बितां छात्रेण आस्वादितां नायिकां स्ववाञ्छितां स्वकाङ्क्षितां जल्पसि भणसि (श)।

अधरः ओष्ठःयस्य आच्छादनम् आवरणं तस्य उत्पाटनं पातनं दन्तोत्पाटनम्यावत् युक्तम् उचितं, येन दन्तेन इत्यर्थः अस्याः नायिकायाः अधरःपीड़ितःदंशितः (ष)।

कलः। लिगि ष्पेरणेति धातुणी रच् पश्चएस्म अं रूपं सिज्झंभोदि तुह तस्स उप्पाटणं जोग्गंजेण सिस्मचुम्बिदां णाइआं पेच्छसि (स)।

(इति अन्योन्यं कलहं कुर्वाणौनृत्यतः सर्वे हसन्ति)।

[नेपथ्ये वैतालिकः।] शुभसन्ध्यासमयोऽस्तु दिवसस्य (ह)।

गाढ़ं प्रौढ़ाङ्गनाभिः सुरतरतमनः सम्मदोत्सारिताक्षम्
मुग्धाभिस्त्रस्तनेत्रंरतिसमरभयं चिन्तयन्तीभिरेवम्।
पान्थानामङ्गनाभिः ससलिलनयनं शून्यचित्ताभिरुच्चैः
कष्टं दृष्टोऽस्तशैलं भृशमसजदयं मण्डलश्चण्डरश्मेः॥४८॥


लिगि प्रेरणे इति धातो रच् प्रत्ययेन यद्रूपं सिद्धं,भवति “लिङ्गम्”इति भवति, तव तस्य उत्पाटनं योग्यं येन शिष्यचुम्बितां नायिकां पेक्ष्यसि (स)।


लिगि धातोः अच् प्रत्ययेन यद्रूपं सिद्धं भवति “लिङ्गम्” इति भवति, तब तस्य लिङ्गस्यउत्पाटनम् उन्मूलनं योग्यम् उचितं येन लिङ्गेन कारणेन शिष्यचुम्बितं शिष्यास्वादितां नायिकां रमणींपेक्ष्यसि पेषणंकरिष्यति इत्यर्थः। यतः शिष्यास्वादितां रमणीं लिङ्गप्रेरणेन उत्पीड़यिष्यसि, अतः तव लिङ्गच्छेदनं विधेयमिति भावः(स)।

वैतालिकः स्तुतिपाठकः। शुभसन्ध्यासमयः शुभसन्ध्याकालः, अस्तु भवतु (ह)।

तं वर्णयति गाढ़ेति। गाढ़ं यथा स्यात् तथा प्रौढ़ाङ्गनाभिः अतिशयसुरतमर्वितप्रवीणरमणीभिः, सुरते शृङ्गारे रतः यो मनःसम्मदः मनसो गर्वः तेन उत्सारिते इतस्ततः विक्षिप्तेअक्षिणीनयने यस्मिन् तत् यथा स्यात्तथा कदा सूर्य्योऽस्तनेष्यति अहं शृङ्गारेणनायकं जेष्यामिइति गर्वेण इतस्ततः विक्षिप्तनयनं यथा तथा इति भावः। एवं तथा रतिसमरभयं रतिसमरे सुरतसंग्रामे भयं, नायकेन बराभवमेष्यामि इति भयं चिन्तयन्तीभिः ध्यायन्तीभिः मुग्धाभिः नवनायिकाभिः वस्त्रनेत्रंयथा तथा, तथा शून्यचित्ताभिः कातरान्तःकरणाभिः आन्तविरहेण शून्यमयं जगत् अवलोकयन्तीभिरित्यर्थः। पान्थानां प्रवासिनां अङ्गनाभिः

अपिच।

गतवति दिननाथे पश्चिमक्ष्माधारान्तम्
शिशिरकरमयूखैर्निर्भरं दह्यमाना।
परिहृतमिलितालिः पान्यकान्तेव दीना
सपदि कमलिनीयं हास्यहीना बभूव॥५०॥

अपिच। द्वितीयो वन्दी।

क्वै तत् मार्त्तण्डविम्बं? सरसि सरसिजश्रेणिहास्यं क्व यातं?
क्वै ते याता रथाङ्गाः? सपदि गतक्रियः क्व प्रविष्टा मरालाः ?।
सन्ध्यारागारुणाङ्गः कुपित इव पतिः प्रोद्यतोऽयं हिमांशुः
मन्ये हर्षादिवेयं हसति कुमुदिनी जाग्रतो वालिनादैः॥५१॥


विरहिणीभिरित्यर्थः। ससलिलनयनं कान्तः कदा आगमिष्यति इति चिन्तया सजलनयनं यथा स्यात्तथा उच्चैः कष्टम् अतिक्लेशंयथा तथा दृष्टः अवलोकितः सन् अयं चण्डरश्मेः सूर्य्यस्य मण्डलः विम्बम् अस्तशैलम् अस्ताचलं भृशम् असृजत् समगच्छत् लोकानां नयनपथमत्यजत् इत्यर्थः। स्नग्धरावृत्तम्॥४६॥

गतेति। दिननाथे दिनमणौपश्चिमक्ष्माधरान्तंपश्चिमाचलम् अस्ताचलमिति यावत् गतवति याते सति दिनमणौअस्ताचलचूड़ावलम्बिनि सति इत्यर्थः, इयं प्रत्यक्षपरिदृश्यमाना नलिनी पद्मिनी, दीना दुःखिता पान्थकान्ता पान्थरमणी इव शिशिरकरमयूखैः चन्द्रकिरणैः निर्भरं निरतिशयं यथा तथा दह्यमाना मलिना, अन्यत्र कान्तविरहेण क्लिश्यमाना, परिहृतमिलितालिः परिहृताः परित्यक्ताः मिलितालयःसंसक्तभ्रमराः यया सा अन्यत्रपरिहृताः परित्यक्ताः मिलितानां सहचरीणाम् आलयः श्रेणयः यया सा सहचरीगणमपि परित्यज्य निर्जने कान्तं चिन्तयन्ती इति भावः। सपदि सहसा हास्यहीना प्रकाशरहिता अन्यत्र हर्षशून्या बभूव संवृत्ता सायंकाले यथा पान्थरमण्याः दशा सञ्जाता तथा पद्मिन्या अपि इति शेषः। मालिनीवृत्तम्॥५०॥

पुनःसायंकालं वर्णयति क्वेति। एतत् अधुना दृश्यमानंमार्त्तण्डविम्बम् आदित्यमण्डलं क्व कुत्र? गतम् इति शेषः। तथा सरसि सरोवरे सरसिजश्रेणीनां

अपिच।

स्वर्धामामृतपानचारुचषकं? किं कामदेवाङ्गना-
क्रीड़ाकन्दुक एष? किं सुरनदीहिण्डीरपिण्डः किमु?।
किं कुत्रं स्मरभूपतेः? किमु यशःपुञ्जंपुरस्तादिदं ?
चेतःसंशयकारकं समुदितं शीतद्युतेर्मण्डलम्॥५२॥

मन्त्री। प्रवृत्तः सन्ध्याकालः तत् कथं नित्यक्रियायै न गम्यते (क्ष)।


कमलराजीनां हास्यं विकाशःक्व? कुत्र यातं गतम्। तथा एते, ये सम्प्रति कूजन्ति, रथाङ्गाः चक्रवाकाः पक्षिविशेषाः क्व कुत्र? याताः गताः, गतक्रियः परिहृतलज्जाः अधुना त्यक्तलज्जाः सन्तः ये क्रीड़न्ति ते इत्यर्थः, मरालाःहंसाःक्व? कुत्रप्रविष्टाः अन्तर्हिताः, सन्ध्यारागेण सन्ध्याकालजनितरक्तवर्णेन अरूणाङ्गः रक्तमूर्त्तिः, अन्यत्र सन्ध्यारागेण सन्ध्यासमये सदाचाररहितायाः कान्तायाःशासननिमित्तकोपेन इत्यर्थः अरुणाङ्गः रक्तवर्णशरीरः, कुपितः क्रुद्धः पतिरिव नायक इव, अयं हिमांशुः शीतरश्मिः प्रोद्यतः उदितः अन्यत्रसमायातः, तथा इयं कुमुदिनी, अलिनादैः भ्रमरध्वनिभिः जाग्रती गतनिद्रा सतीहर्षात् हर्षं मुदं प्राप्य, “ल्यप्लोपे पञ्चमी” हसति इव, इति च अहं मन्ये तर्कयामि। स्रग्धरावृत्तम् ॥५१॥

स्वरिति। पुरस्तात् अग्रे समुदितं प्रोद्यतम् इदं शीतद्युतेः शीतरश्मेः मण्डलं विम्बंचेतसः सन्देहजनकं भवति इति शेषः। कस्तावत् सन्देहः तं विवृणोति। इदं किं स्वर्धामानां स्वर्गवासिनाम् अमृतपानाय सुधास्वादनाय चारुचषकं सुन्दरपानपात्रं? किंवा कामदेवानायाः रत्याः क्रीड़ाकन्दुकः क्रीड़ार्थं लोष्ट्राकृतिक्रीड़नद्रव्यविशेषः, एषः?, किमुकिं भो सुरनद्याः गङ्गायाः हिण्डीरपिण्डः फेणराशिःएषः?, किंवा स्मरभूपतेः अनङ्गराजस्य इदं कुत्र? किन्तुकिं भो इदं यशःपुञ्जं? यशोराशिः?। शार्दूलविक्रीडितं वृत्तम्॥५२॥

प्रवृत्तः उपस्थितः, तत् तस्मात् कथं केन हेतुना नित्यक्रियायैसायंकालोचितनित्यक्रियार्थम् (क्ष)।

राजा। किं तेन चौरचक्रभयात् चिन्ताकुलोऽस्मि, भवतु तथापि यास्यामि क्षणंविरम दृश्यता मनयोर्गुरुशिष्ययोर्विरोधः(क)।

विश्वः। [दण्डहस्तः सामर्षं धावति] (ख)।

कलः। \उच्चैः शीत्कृत्य सर्वाङ्गंपुलकयति[^1]।

(ततोऽन्योन्यं नायिकाञ्चलं गृहीत्वा मम इयम् इति उच्चार्य्य कलहायमानौ नृत्यतः (घ)।

बन्धु। (पुरःपरिक्रम्य) अज्ज भअबं। चिट्टटुअज्ज कलहो, समीअबहिणी रअणो बट्ठदि पत्तुसहोमात्यं मअणान्धमिस्सो आगमिस्सदि सो क्खु जं आदिसदि तं कादब्बं(ङ)।


आर्य्य! भगवन्! तिष्ठतु अद्य कलहः। समीपवर्त्तिनी रजनी वर्त्तते, प्रत्यूषहोमार्थं मदनान्धमिश्रः आगमिष्यति स खलु यदादिशति तत् कर्त्तव्यम् (ङ)!

किं तेन? नित्यकर्मणा किं भवेत्? चौरचक्रभयात् तस्करमण्डलभयात् चिन्ताकुलोऽस्मि उत्कण्ठितोऽस्मि, क्षणं विरम तिष्ठ दृश्यताम् अवलोक्यताम् अनयोःगुरुशिष्ययोः छात्राध्यापकयोः विरोधः विवादः(क)।

दण्डहस्तः सयष्टिकः सामर्षं सक्रोधं धावति प्रहर्तुं वेगेन गच्छति इत्यर्थः (ख)।

उच्चैः शीत्कृत्य दीर्घरूपेण शीत्कारं कृत्वा सर्वाङ्गं सर्वशरीरं प्रहारनिवारणाय स्वस्य विलासिभावं प्रकटय्य दीर्घशीत्कारेण रोमाञ्चयति इति भावः(ग)।

ततः एवमुभयोरभिनयानन्तरम्, अन्योन्यंपरस्परं नायिकाञ्चलं नायिकायाःमृगाङ्गलेखायाः अञ्चलं वस्त्रप्रान्तं गृहीत्वा धृत्वा मम इयम् नायिका इति उच्चार्य्यकथयित्वा कलहायमानौ कलहं कुर्वन्तौ, नृत्यतःनृत्यंकुरुतः(घ)।

आर्य्य! भगवन् प्रभो! अद्य कलहःविवादः तिष्ठतु आस्तां समीपवर्त्तिनी सम्मुखीनारजनीरात्रिः वर्त्तते भवति प्रत्यूषहोमार्थं प्रातर्होमार्थं श्वः प्रातः होमं

उभौ। तथा अस्तु (च)।

इति निष्क्रान्ताः सर्वे।

इति हास्यार्णवे प्रहसने सभानिर्णयो नाम
प्रथमोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172732256214.png"/>

द्वितीयोऽङ्कः।
<MISSING_FIG href="../books_images/U-IMG-172732262168.png"/>

ततः प्रातः प्रविशति विश्वभण्डः शिष्यश्च।

विश्वः। (प्राचीमवलोक्य) अहो दिगङ्गनाशिरःसिन्दूरशोभेव दिनकरकिरणावली दृश्यते (क)।

(परिक्रम्य पुरो वापोमवलोक्य च) (ख)।

अन्यत्र वञ्चितनिशं परिलोहिताङ्ग-
मन्याङ्गनागतमिवागतमुष्णरश्मिम्।


कर्त्तुमित्यर्थः मदनान्धमिश्रःमदनेन कामेन अन्धः, इति अन्वर्थनामा कश्चित् अध्यापकः आगमिष्यति आयास्यति, स खलु यत् आदिशति आज्ञापयति तत् कर्त्तव्यम् विधेयम् भवद्भिरिति शेषः(ङ)।

तथा अस्तु, तदेव भवतु (च)।

<MISSING_FIG href="../books_images/U-IMG-172732256214.png"/>

अहो! इति विस्मयसूचकमव्ययम्। दिगङ्गनायाः दिक्रूपनायिकायाः शिरसिललाटे सिन्दूरशोभा इव दिनकरकिरणावली भास्करकिरणश्रेणीदृश्यते अवलोक्यते (क)।

पुरः अग्रे वापींदीर्घिकाम् अवलोक्य दृष्ट्वा (ख)।

प्रातःकालं वर्णयति अन्यत्रेति। इयं पद्मिनी नलिनी, कुपिता इव खण्डितनायिका इवइत्यर्थः, अन्यत्र लोकालोकपर्वतान्तराले वञ्चितनिशं यापितरात्रिं, नायिकापक्षे

प्रातर्निरीक्ष्यकुपितेव हि पद्मिनीयम्
उत्पुल्लहल्लकसुलोहितलोचनाऽभूत्॥१॥

अपिच।

नारीणां मृगनाभिकुङ्कुमरसप्रक्षालनश्यामलान्
सम्भोगश्रमशीकरान् परिहरन्नाकम्पयन् कुन्तलान्।
पुष्पामोदमनोरमान् विगलितामन्भोजगन्धं वहन्
प्रातस्त्यः पवनो वहत्ययमतिस्वान्तप्रमोदप्रदः॥२॥


अन्यत्र अन्यनायिकासमीपे क्रीडया यापितरात्रिम् इत्यर्थः परिलोहिताङ्गम् उदयकाले सम्यक्शोणितवर्णमूर्त्तिं, नायिकापक्षेरात्रिजागरणेन सम्यक् रक्तवर्णनयनाद्यङ्गम् आगतम् उदितम् अन्यत्र समीपमागतम् अन्याङ्गनागतम् अन्यनायिकासक्तंनायकमिव इत्यर्थः उणरश्मिंस्वरांशुंप्रातः निरीक्ष्य दृष्ट्वा, उत्फुल्लानि विकसितानि हल्लकानि वापीस्थितरक्तकह्लारपुष्पाणि एव नयनानि यस्याःसा अन्यत्रउत्फुल्ले विकसिते हल्लके रक्तकञ्जारपुष्पे इव नयने यस्याः सा अभूत् अभवत्। यथा खण्डितनायिका अन्यसङ्गतं पतिं प्रातरागतंदृष्ट्वा कोपेन भारक्तवर्णनयना भवति तद्वत् पद्मिनी प्रातरुदितं भास्करम् अवलोक्यकोपेन इव समीपवर्त्तिविकसितकाह्लारपुष्परूपनयना अभवत् इति भावः। वसन्ततिलकं वृत्तम्॥१॥

नारीणामिति। अति अतिशयं यथा स्यात्तथा स्वान्तप्रमोदप्रदः स्वान्तस्य मनसः प्रमोदप्रदः प्रीतिदायकःअयं प्रातस्यःप्रातःकालीनः पवनः मलयजः, नारीणांरमणीनां मृगनाभिकुङ्कुमरसानां प्रक्ष्ालनेन धौतक्रियया श्यामलान् कृष्णलोहितवर्णान् सम्भोगश्रमशीकरान् सुरतश्रमजनितवारिविन्दून् परिहन् गृह्णन् पुनः पुष्पामोदेन पुष्यगन्धेन मनोरमान् मनोहरान् विगलितान् स्खलितकवरीबन्धान्कुन्तलान् मूर्द्धजान् आकम्पयन् व्याधुनन्, तथा अम्भोलस्य नायिकाक्रीड़ापद्मस्य इति यावत् गन्धम् आमोदं वहन् हरन् वहति शैत्यमान्द्यसौगन्धगुणविशिष्टो वायुः इतस्ततः सञ्चरतिइत्यर्थः। शार्दूलविक्रीड़ितंवृत्तम्॥२॥

(उभौ परिक्रम्य बन्धुरायाः प्राङ्गणमुपसृत्य प्रविष्टौ युगपत्)। क्व सा बन्धुरा नायिका च (ग)।

(ततः प्रविशति बन्धुरा नायिका च।)

(विश्वः। मृगाङ्कलेखामवलोक्य।)

अस्याः शरच्छशधरप्रतिमाननायाः
किञ्चित्कटाक्षमिलिता यदि नैव दृष्टिः।
तत् केन लक्ष्यत इदं किल कर्णलग्न-
मिन्दीवरं मृदुलमञ्जनपत्ररम्यम्॥३॥

अपिच।

निद्रया परिघूर्णनशीला बलवदूर्द्धतारका लीलाः।
अस्या नयननिपाताः दुःसहनीया हरस्यापि॥४॥


युगपत् एकदैव गुरुशिष्यौ ऊचतुरिति शेषः, किं तत्, क्व कुत्रसा बन्धुरा कुट्टिनीनायिका मृगाङ्कलेखा च (ग)।

अस्याः इति। शरच्छशधरप्रतिमं शरच्चन्द्रसदृशम् आननं यस्याः तादृश्याः अस्याः मृगाङ्कलेखायाः दृष्टिः, नयनं किञ्चित् कटाक्षमिलिता ईषदपाङ्गावलोकनसहिता ईषत् वक्रभावादिचातुर्य्यसहिता इति यावत् यदि नैव भोभवेश्चेत् इत्यर्थः तत् तर्हि इदं कर्णलग्नं कर्णावतंसभूतं मृदुलं कोमलम् अञ्चलपत्ररम्यम् अल्पनपत्रैः नीलवर्णदलैः रम्यंसुन्दरं नीलवर्णदलत्वेन अतिमनोहरम् इत्यर्थः, इन्दीवरं नीलपद्मं “इन्दीवरञ्च नीलेऽस्मिन्” इत्यमरः केनलक्ष्यते दृश्यते केनापि न इत्यर्थःइन्दीवरापेक्षया अस्याः नयनयोरपाङ्गावलोकनादिभिरतीवसौन्दर्य्यमिति भावः। वसन्ततिलकं वृत्तम्॥३॥

निद्रयेति। अस्याः मृगाङ्कलेखायाः निद्रया निद्रावशेन बलवत्, अतिशयं यथा तथा परिघूर्णनशीलाःबंधस्यमायाः ऊर्द्धतारकाः नयनयोरूर्द्धभागे स्थिता तारकाः येषु ते, लीलाः चपलाःनयननिपाताः कटाक्षपातैःहरस्यापि धैर्य्यच्युतिर्भवति अन्येषान्तु का कथा इति भावः। आर्य्या॥४॥

कलः। बन्धुरे! दाणिम्पि णाआदो मअणान्धमिस्सो(घ)।

(नेपथ्ये।)

वेश्याङ्गरागरसलोहितयज्ञसूत्रः
शक्राशनाशनविलोहिततारनेत्रः
आभालपूर्णतिलको हृतधर्मकृच्छ्रः
संसर्पति स्वयमयं मदनान्धमिश्रः॥५॥

(ततः प्रविशति शिष्येण कुलालनामधेयेन अनुगम्यमानो मनदान्धमिश्रः)।

(समन्तादवलोक्य) अहो! भ्रमद्भ्रमरावलीवलयितरसालवकुलः कोकिलकलध्वनिजनितविषादविरहिणीजनपीवर-निश्वासानिलः कुसुमकालो वर्त्तते (ङ)।


बन्धु रे! इदानीमपि मायातो मदनान्धमिश्रः(घ)।


इदानीमपि अधुनापि नायातः न आगतः(घ)।

मदनान्धमिश्रस्य प्रवेशं सूचयति वेश्येति। वेश्यानां वारनारीणाम् अङ्गरागरसेन अलक्तकादिरागेण लोहितं रक्तवर्णं यज्ञसूत्रंयस्य सः, शक्राशनस्य भङ्गाचूर्णस्य अशनेन पानेन विलोहिते रक्तवर्णे तारनेत्रेसतारकनयने यस्य सः आभालम् आललाटं यथा तथा पूर्णम् अविच्छिन्न तिलकं यस्य सः हृतं परित्यक्तंधर्मकृच्छ्रं “धर्मोपार्जननिमित्तक्लेशो येन, सः अयं मदनान्धमिश्रः स्वयं संसर्पति गच्छति। वसन्ततिलकं वृत्तम्॥५॥

अहो इति विस्मयसूचकमव्ययम्। भ्रमन्त्या इतस्ततो धावन्त्या भ्रमरावल्या मधुकरश्रेण्या वलयिताः वेष्टिताःरसालाःचूताः वकुलाश्च यस्मिन् सः, तथा कोकिलानां पिकानां कलध्वनिभिः मधुरकूजनैः जनितःउत्पन्नः यो विषादः खेदः त्वेन विरहिणीजनानां पान्थरमणीनां पीवरनिःश्वासः दीर्घनिःश्वासः इव अनिलः वायुर्यस्मिन् सः कुसुमकालः पुष्पसमयः वसन्तः इति यावत् वर्त्तते (ङ)।

अपिच।

कावेरीनीरखेलद्युवतिहतिभवच्छीकरासङ्गशीतः
श्रीखण्डामोदवाही प्रमुदितमदनप्राणविश्रामधामा।
किञ्चिद्व्याधूतचूतद्रुममुकुलकुलः पुष्पवत्या लताया
भीतः स्पर्शादिवायं प्रसरति पवनो दक्षिणो मन्दमन्दम्॥६॥

(आत्मगतं) कथं मया अस्मिन् मधौ गणिकां विना जीवनीयम् (च)।

(प्रकाशं) वत्स कुलाल! पश्य मध्याङ्कःसंवृत्तः।

मार्त्तण्डश्चण्डतापैः प्रतपति वसुधां पविणः कुञ्जसंस्थाः
प्रोत्फुल्लाम्भोजराजीतलशरणगता निश्चला राजहंसाः।
पान्थाःश्रान्ताश्च कान्ताचिरविरहशिखिज्वालया प्लुष्टचित्ताः
स्थास्तुच्छायासु लीनाः क्षितिलिखनपराः सन्ततं निश्वसन्ति॥७॥


कावेरीति। कावेरीतीरे कावेरीनदीतोये खेस्वन्तीनां क्रीड़न्तीनां युवतीनां हत्या आघातेन भवन्तः उत्पद्यमानाः ये शीकराः वारिविन्दवः तेषाम् आसङ्गेन सम्पर्केण शीतःशीतलः, तथा श्रीखण्डस्य चन्दनस्य आमोदं वहति यः सः इति णिन् प्रत्ययः। चन्दनगन्धवाही इत्यर्थः प्रमुदितमदनस्य प्रत्याह्लादितकामस्य प्राणानां विश्रामधामा विश्रामाश्रयः, किञ्चित् व्याधूतः ईषत् कम्पितः चूतद्रुमाणां रसालवृक्षाणां मुकुलकुलः मञ्जरीसमूहःयेन सः अयं दक्षिणः पवनः मलयमारुतः इतियावत् पुष्पवत्याः कुसुमितायाःलतायाः स्पर्शात् संसर्गात् भीत इव भयकातर इव पुष्पवत्याः इति विशेषणेन रजस्वला इति व्यज्यते तस्याः संसर्गात् भीतित्वमुपपन्नम् इति ध्वनिः। मन्दं मन्दं स्तोकं स्तोकं प्रसरति इतस्ततःसञ्चरति वहति इत्यर्थः। स्रग्धरावृत्तम्॥६॥

अस्मिन् मधौअस्मिन् वसन्तसमये गणिकां वारविलासिनींविना मया कथंजीवनीयम् जीविना भवितव्यम् (च)।

मार्त्तण्ड इति। मार्त्तण्डःसूर्य्यःचण्डतापैःप्रचण्डकिरणैःवसुधां पृथ्वीं प्रतप्रति सन्तापक्लिष्टां करोति, तथा पत्रिणः पक्षिणः कुञ्जसंस्थाः लतामण्डपाभ्यन्तरगताः भवन्ति इति शेषः राजहंसाः प्रोत्फुल्लाम्भोजराजीनां विकसित-

वत्स! कस्याश्रमे भोजनसिद्धिः अस्तु (छ)।

कुला। अज्ज! अत्थिदाब एत्थज्जेव णअरे बन्धुरा णाम कुट्टिणी सा क्तुअदिधीणं परिचज्जंकरेदि त्तिमुणीअदि ता अज्जतत्त ज्जेव भोअणसिम्भि(ज)।

मदनः। कुलीना सा? (झ)।

कुला। एत्थको सस्सेहो चण्डालोबि अस्मघरे पाणीअं ण पीअदि (ञ)।


आर्य्य! अस्ति तावत् अत्रैव नगरे बन्धुरा नाम कुट्टिनी सा खलु अतिथीनां परिचर्य्यांकरोति इति श्रूयते तदद्य तत्रैव भोजनसिद्धिः(ज)।

अच कः सन्देहः चण्डालोऽपि अस्याः गृहे पानीयं न पिवति (ञ)।


सरोजश्रेणीनां तलमेव निम्नस्थानमेव शरणम् आश्रयं गताः प्राप्ताः, खरकरकिरणभयेन विकसितपद्म- श्रेणीतलरूपाश्रयस्थिताः सन्तः निश्चलाः निश्चेष्टाः भवन्ति इति शेषः। तथा श्रान्ताः क्लान्ताः पान्थाःपथिकाश्च, कान्ताचिरविरहशिखिज्वालया कान्तायाः प्रियायाः चिरविरहशिखिनः चिरविच्छेदानलस्य या ज्वाला शिखा तथा प्लुष्टचित्ताःदग्धमानसाः सन्तः स्थाणुच्छायासु शाखादिविहीनवृक्षच्छायासु लीनाः संसक्ताःउपविष्टाः इति यावत्, तथा क्षितिलिखनपराः क्षितौ भूमौ लिखने रेखाविन्यासे पराः आसक्ताः चिन्तया भूमिलिखनतत्पराः सन्तः, भूमिलिखनन्तु चिन्तालक्षणम् इति प्रसिद्धम्। सततं नियतं निःश्वसन्ति सुदीर्घमुच्छ्वसन्ति। स्रग्धरावृत्तम्॥७॥

वत्स! कस्य आश्रमे गृहे भोजनसिद्धिः भोजनक्रियासिद्धिः अस्तु भवेदित्यर्थःI अस्तु इति इच्छाप्रकाशने (छ)।

अत्रैव अस्मिन्नेव नगरे, अस्ति वर्त्तते सा कुट्टिनी, अतिथीनाम् अभ्यागतानां, परिचर्य्यां सत्कारं तत्र कुट्टिनीगृहे, भोजनसिद्धिःभोजनक्रियासिद्धिःभविष्यतिइति शेषः (ज)।

सा कुट्टिनी, कुलीना? सत्कुलसम्भवा (झ)।

अत्रअस्याः सद्वंशजातत्वे कः सन्देहः कोऽपि सन्देहो नास्ति यतः अस्याः कुट्टिन्याःगृहे निलये पानीयं जलं चण्डालोऽपि न पिबति (ञ)।

मदः। (सोत्साहं।) वत्स! तदुपसर्पावः।

(इत्युभौ परिक्रम्य बन्धुरायाः प्राङ्गणमुपसृत्य उपविष्टौ।) (ट)

बन्धुरा। अज्ज! एदं भद्दासणं अअविसदु मिस्सो (ठ)।

मदः। (नाट्येन उपविश्य सर्वानवलोक्य च आत्मगतम्)।

अहो! आश्चर्य्यंपुरतो नायिकारत्नम् (ड)।

सायं चन्द्रकलायुतोदयनिरिस्पर्द्धांदधानौ स्तनौ
शैलोत्तुङ्गतरौ नखाङ्गरुचिरौ शोणाम्बराभ्यन्तरे।
अस्याः कं न विलोकनोत्कमकरोत् तीक्ष्णः कटाक्षःक्षणं
भृङ्गाकृष्टगरिष्ठकेतकदलभ्रान्तिं वहन्रप्ययम्॥८॥


आर्य्य! इदं भद्रासनम्, उपविशतु मिश्रः (ढ)।


बत्स! तत् तस्मात् उपसर्पावः आवामिति शेषः। बन्धुरायाः कुहिन्याः प्राङ्गणं चत्वरम् (ट)।

इदं भद्रासनम् उत्तमासनम् उपविशतु, अत्र आस्तां मिश्रः मदान्धमिश्रः, इति यावत् (ठ)।

पुरतःअग्रे आश्चर्य्यम् अद्भुतं नायिकारत्नंविराजतेइति शेषः(ड)।

तद्वर्णयति सायमिति। अस्याः नायिकायाः शोणाम्बराभ्यन्तरे रक्तवस्त्रमध्ये शैलोत्तुङ्गतरौ, शैलवत् उत्तुङ्गतरौउन्नततरौतथा नखाङ्कुरुचिरौनखाङ्केन नखचिह्नेन रुचिरौमनोज्ञौस्तनौ पयोधरौ, सुतरां सायं चन्द्रकलायुतस्य, सायंकालोदितचन्द्रविम्बयुक्तस्य, उदयगिरेः उदयाचलस्य स्पर्द्धांगौरवं दधानौबिभ्रतौ, सुन्नत्या रक्तवर्णनखचिह्नेन च सायंकालोदितचन्द्रकलायुक्तोदयाचलस्य गौरवं बिभ्रतौतिष्ठत इति शेषः। तथा अयं तीक्ष्णःखरतरः कटाक्षोऽपि भ्रूभङ्गियुक्तावलोकनमपि क्षणं क्षणकालं व्याप्य भृङ्गाकृष्टं भ्रमरविक्षिप्तं यत् गरिष्ठकेतकदलं दीर्घकेतकपुष्पपत्रं, तस्य भ्रान्तिं भ्रमं वहन् दधानः जनयन् इत्यर्थः। कं जनं विलोकनोत्कंविलोकनायदर्शनाय उक्तम् उत्कण्ठितं न अकरोत्, सर्वानपि उत्कण्ठितान् अकरोदित्यर्थः। शार्दूलविक्रीडितं वृत्तम्॥८॥

अपिच।

उत्तुङ्गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली
भीमं देहवनं स्फुरङ्गुजलतं लोमालिजालाकुलम्।
व्याधः पञ्चशरः किरत्यतितरां स्तीक्ष्णान् कटाक्षाशुगान्
तन्मे ब्रूहि मनः कुरङ्ग! शरणं कं साम्प्रतं यास्यसि॥९॥

(पुनःसविमर्षं) कथमेतौ कितवौ वचनीयौ। भवतु तावदात्मनो वैष्णवत्वं प्रकटीकृत्य वञ्चयामि (ढ)। (प्रकाशम्)।

जिह्वे! निशं हरिरिति स्मरंलोचन! त्वं
व्याप्तं विलोक्य जगद्धरिणा समस्तम्।


पुनरपि तद्रूपं वर्णयति उत्तुङ्गेति। अस्याः देहवनं शरीरवनं शरीरं काननमिव विभाति इत्यर्थः। यतः उरः वक्षःस्थलम् उत्तुङ्गस्तनशैलदुस्तरम् अत्युच्चकुचं पर्वताभ्यां दुस्तरं दुर्गमं तथा नाभिस्थली नाभिदेशःअतिनिम्नाअतिगम्भीरा, तथा स्फुरन्तौ विकाशमाने भुजलते बाहुलते यस्मिन् तत् तथोक्तं बाहुलताभ्यां विराजितमित्यर्थः, लोमभिरेव लोमावलिभिरेव अलिजालैःभ्रमरसमूहैः आकुलं व्याप्तम्, अतः भीमं भयजनकं पुनरिति ऊहनीयम्। पञ्चशरः पञ्चवाणःकामः इति यावत्, व्याधः किरातरूपी सन् तीक्ष्णान् शाञ्चितान् कटाक्षाशुगान् नयनबाणान्अतितरां अतिशयं यथा तथा किरति विक्षिपति, साम्प्रतम् इदानीं हेमनःकुरङ्ग! हे वित्तहरिण! कं शरणं रक्षितारं “शरणं गृहरक्षित्रीः” इत्थमरः। यास्यसि प्राप्स्यसि तत् रक्षाप्राप्तिस्थानं मे मह्यं ब्रूहि भण, मया तु इदानीं गन्तव्यस्थानं न दृश्यते इति भावः। शार्दूलविक्रीड़ितं वृत्तम्॥८॥

कथं केन प्रकारेण एतौ विश्वभण्डकलाहाङ्कुरौकितवौधूर्तौवञ्चनीयौ? प्रतार्य्यौ? भवतु तावत् आस्तां तावत्, आत्मनः स्वस्य वैणवत्वंविष्णुपराजयत्वंप्रकटीकृत्यप्रदर्श्य वञ्चयामि प्रतारयामि (ढ)।

स्वस्यवैणवत्वं दर्शयति जिह्वेइति हेजिह्वे! हे रसने! त्वम् अनिशं नियतंहरिरिति स्वर नियतहरि नामोच्चारणं कुरु इत्यर्थः। हेलोचन! हे नयन! त्वं

आकर्णय श्रवण! कीर्त्तिकथा मुरारे-
र्नारायणं शरणमाश्रय चित्त! नूनम्॥१०॥

(पुनरात्मगतम्) आः जातं हरिस्मरणेन महापातकं किं करिष्यामि प्रायश्चित्तमात्मनः (ण)।

विश्वः। (आकर्ण्यात्मगतं) धूर्त्तोऽयं मिश्रःकैतवं प्रकटयति। भवतु अहमपि किञ्चित् प्रकटयामि (त)। (प्रकाशं)

त्रैलोक्यमौलिमुकुटाञ्चितनीलरत्नं
पद्मालयावदनतामरसद्विरेफम्।
दैत्याङ्गनानयनतोयनिपातधूमं
कृष्णंसदैव मनसा परिचिन्तयामि॥११॥


हरिणा विष्णुनाव्याप्तं मिलितं विष्णुमयम् इत्यर्थः समस्तं निखिलं जगत् विश्वं विलोक्य पश्य। श्रवण! हे कर्ण! त्वंमुरारेः कृष्णस्य कीर्त्तिकथा यशः कीर्त्तनम् आकर्णय शृण्व, हे चित्त! हे मनः! त्वंनूनं मिश्रितम् शरणम् आश्रयन्रक्षितारम् इत्यर्थः नारायणं हरिम् आश्रयअवलम्बस्व। वसन्ततिलकं वृत्तम् ॥१०॥

आःइति कोपसूचकमव्ययम्। हरिस्मरणेन ईश्वरचिन्तया महापातकं जातम् अभवत् आत्मनः स्वस्य किं प्रायश्चित्तं, करिष्यामि आचरिष्यामि कीदृशप्रायश्चित्तेन एवं विधपातकस्य क्षयोभवेत् तन्न जाने इति भावः(ण)।

धूर्तःशठः अयं मिश्रःमदनान्धमिश्रः,कैतवं धूर्त्ततां प्रकटयति दर्शयति भवतु आस्तां तावत् अहमपि किश्चित् धूर्त्तत्वंप्रकटयामि दर्शयामि (त)।

त्रैलोक्यमिति। त्रैलोक्यमौलिमुकुटस्य भुवनशिरोभूषणस्य नित्यधाम्नः बैकुण्ठत्वं इति यावत् अश्चितं पूजितं महामूल्यमित्यर्थः।नीलरत्नं नीलकान्तमणिस्वरूपं, तथा पद्मालयायाःलक्ष्म्याःवदनतामरसस्य मुखाम्बुजस्य द्विरेफंभ्रमरस्वरूपं, तथा दैत्याङ्गनानां दैत्यपत्नीनां नयनतोयनिपातस्य नेत्रजलपतनस्य धूमं धूमस्वरूपं दानवपत्नीनांनयनजलपतनस्य कारणं दैत्यनाशकमित्यर्थः। कृष्णं हरिं मनसा चेतसा सदैवपरिचिन्तयामि सर्वदैव स्मरामि। वसन्ततिलकं वृत्तम् ॥११॥

मदः। (सरोषं) वत्स! कुलाल! पठ वैष्णवधर्मम्

कुला। अज्ज! जं आणवेदि (थ)। (इति संस्कृतमाश्रित्य पठति।)

आयुः क्षीणमिदं परं कलियुगे दैवाञ्चतः पामरैः
लोकैरप्युपवासकष्टविधिना व्यर्थं वपुः क्षीयते।
ज्ञात्वैवं सुधियो विहाय विविधक्लेशव्रतं निष्फलं
नाना भोगविलासिनीरसयुतं धर्मं भजन्ते द्रुतम् ॥१२॥

विश्वः। (सक्रोधं) वत्स कलहाङ्कुर! पठ वैष्णवधर्मम्।

कलः। (संस्कृतमाश्रित्य पठति)।

कृत्वा लोकभयात् नृणां जडधियां कष्टोपवासं निशा-
काले प्राणविनाशसंशयकरीं सोढ्वापि मर्मव्यथाम्।
प्रातश्चेद्यदि जीवितं स्थितमिह प्राप्तिस्तथाप्यन्धसः
साक्षाज्जीवनसंशयः प्रथमतो मुक्तिः परोक्षा क्व सा॥१३॥


आर्य्य! मदाज्ञापयति (थ)।

आर्य्य! भगवन्! यत् आज्ञापयति आदिशति तथा करोमि इत्यर्थः (थ)।

वैष्णवधर्मं पठन्तिआयुरिति। देवात् कर्मफलवशात् कलियुगेअस्मिन् कलिकाले इदंआयुः जीवितकालः परं क्षीणम् अतिक्षीणंस्वल्पम् इति यावत् ततोऽपि अल्पजीवनादपि पामरैः पापिष्ठैः लोकैः, उपवासकष्टविधिना अनाहारजनितक्लेशविधानेन व्यर्थं निरर्थकं यथा स्यात्तथा वपुः शरीरं क्षीयते अपचीयते शरीरनाशः क्रियते इत्यर्थः एवं ज्ञात्वा तथा देहक्षयम् अवेत्य सुधियः पण्डिताः, निष्फलं निष्प्रयोजनं विविधक्लेशव्रतंनानादुःखप्रदं नियमं विहाय परित्यज्य नानाभोगविलासिन्याःनानाभोगविहारिण्याः वाराङ्गनायाः इति यावत् रसेनयुतं धर्मं दुतं शीघ्र यथा तथा अविलम्बेन इत्यर्थः भजन्ते सेवन्ते। शार्दूलविक्रीडितं वृत्तम्॥१२॥

कलहाङ्कुरोऽपि वैष्णवधर्मं पठति, कृत्वेति। जड़विद्यां मन्दबुद्धीनां मुर्खाणाम् इति यावत् नृपांमानवानां, लोकभयात् लोकनिन्दाभयं प्राप्य कष्टोपवासं कष्टेन कृच्छ्रेणउपवासं भोजनचतुष्टयनिवृतिं कृत्वा चनुष्ठाय, निशाकाले रजन्यां प्राण-

अपिच।

क्लेशोपवासविधिना सुकृतं वदन्ति
ये तन्मुखं सपदि पूरय भस्मपुञ्जैः।
एकः प्रसीदति यदा जगदीशशम्भुः
मुक्तिस्तदा पिशितमीनसुराङ्गनाभिः॥१४॥

मदः। (आकर्ण्यात्मगतं धूर्तोऽयम् उपाध्यायो वञ्चयितुम् अशक्यो जीर्णमार्जारं काञ्जिकया प्रतारयितुं न शक्यते। भवतु विनयेन वञ्चयामि। (प्रकाशं) भगवन्! अय महमभिवादये (द)।


विनाशसंशयकरींमरणविधायिनींमर्मव्यथाम् अन्तःकरणपीड़ां सोढ्वापिसंसह्यापि प्रातश्चेत् प्रातःकालेऽपि जीवितम् आयुः यदि स्थितं यदि स्यात् तथापि तर्हि इह संसारे अन्धसः अन्नस्य प्राप्तिः लाभः स्यात् प्रथमतः आदौएव साक्षाज्जीवनसंशयः प्रत्यक्षमरणव्यापारः, सम्भवति इति शेषः। सा परोक्षाअप्रत्यक्षा मुक्तिः क्व? कुत्रयदि उपवासादिना मरणं स्यात् तर्हि अप्रत्यक्षा मुक्तिः कुत्र सम्भवेदिति भावः। शार्दूलविक्रीडितं वृत्तम्॥१३॥

पुनः पठति क्लेशेति। क्लेशोपवासविधिना दुःखप्रदीपवासानुष्ठानेन सुकृतं पुण्यं भवेत् इति ये पण्डिताः वदन्ति कथयन्ति सपदि तत्क्षणमेव तन्मुखं तेषां पण्डितानां मुखंभस्मपुञ्जैःभस्मराशिभिः पूरय परिपूर्णतां प्रापय। यदा यस्मिन् समये एकः अद्वितीयःजगदीशशम्भुः जगत्प्रभुः शिवः पिशितमीनसुराङ्गनाभिःमांसमत्स्यमद्यरमणीभिः प्रसीदति सन्तुष्येत् तदा तस्मिन्नेव समये मुक्तिः मोक्षः स्यात् इत्यर्थः। वसन्ततिलकं वृतम्॥१४॥

अयम् उपाध्यायः एषः अध्यापकःधूर्त्तः कितवःवञ्चयितुमशक्यः अप्रतार्य्यः, अप्रतार्य्यत्वम् अर्थान्तरेण द्रढयति जीर्णेति। जीर्णमार्जारं वृद्धविडालं काञ्जिकया आरनालेन पर्य्युषितान्नजलेन इति यावत् प्रतारयितुंवञ्चयितुं न शक्यते, भवतु अस्तु तावत् विनयेन विनीतभावेन वञ्चयामि प्रतारयामि, अयमहम् एषोऽहम् अभिवादये प्रणमामि(द)।

विश्वः। (उच्चैः) आयुष्मान् भव सौम्य किञ्च अयुक्तमेतत्भवादृशां यद्वाराङ्गनाग्रतो मयि प्रथममभिवादनम् (ध)।

मदः। अहो वेश्याभ्रमेण भवत्सु प्रणामःकृतः (न)।

विश्वः। (विहस्य) सत्यमेव मदनान्धोऽसौ यतः पुंसि अपि वेश्याभ्रमः (प)।

मदः। (उपसृत्य) वाराङ्गने। त्वामहं प्रणमामि।

बन्धु। पुत्ति! उट्ठिअआसिसंकुण (फ)।

मृगा। (उत्थाय) गोरी दे सुप्पसस्माहोदु ( ब )।

(इति लज्जां नाटयति।)

मदः। अहो! आश्चर्य्यमस्याः।

पादाभ्यामतिविपुलो नितम्ब एषः
प्रोद्वोढुं कथमपि शक्यते मृगाक्ष्याः।


पुत्रि! उत्थाय आशिषं कुरु (फ)।

गौरी ते सुप्रसन्ना भवतु (ब)।


आयुष्मान् भव दीर्घायुर्भव, किञ्च पुनः कथयामि इत्यर्थः भवादृशां भवद्विधानाम् प्रयुक्तमेतत् अनुचितमिदं यत् वाराङ्गनाग्रतः वैश्यासमीपे मयि प्रथमम् अभिवादनं प्रणामः कृतः वेश्यायांविद्यमानायां कथं मयि प्रथमः प्रणामःकृतःशिक्षितानाम् एतत् न उचितमिति भावः(ध)।

अहो विस्मयसूचकमव्ययम्। वेश्याभ्रमेण वारनारीभ्रान्त्या भवत्सु प्रणामः अभिवादनं कृतः (न)।

सत्यमेव यथार्थमेव असौ मदनान्धः, एषः मदनेनअन्धः यतः पुंसि अपि पुरुषेऽपि वेश्याभ्रमः वाराङ्गनाभ्रान्तिः (प)।

आशिषम् आशीर्वादम् (फ)।

गौरी गौरवर्णा रमणी अथवा अष्टवर्षीया अक्षतयोनिरिति भावः। कन्यापि तव तृप्तये, सुप्रसन्ना सन्तुष्टा भवतु (ब)।

पादाभ्यामिति। अस्याः मृगाक्ष्याःहरिणनयनायाःमृगाङ्कलेखायाइति यावत्

एकाकी बहति कथं तु मध्यभागः
प्रोत्तुङ्गस्तनकरिकुम्भयुग्मभारम् ॥१५॥

बन्धु। अज्ज ! बिप्पअर! बिज्जबेमि अज्जअह्माणं गेहे कन्दप्पहोमो बट्टदि तं णिब्बाहयदु मिस्प्रो(भ)।

मदः। (सहर्षमात्मगतमङ्गनामवलोक्य)।

वेदी सज्जघनञ्च यत्परिसरे कुण्डं वराङ्गं फलं
नैवेद्याय कुचद्वयं मृगदृशः कामानलः प्रोज्ज्वलः।
होताऽहं खलु शुक्रहव्यनिवहः शेफस्रुवं वर्त्तते
नित्यं पञ्चशराध्वरं त्यजति कः सद्यः सुखं यत् फलम् ॥१३॥


आर्य्य! बिप्रवर! विज्ञापयामि अद्य अस्माकं गृहे कन्दर्पहोमो वर्त्तते तं निर्माहयतु मिश्रः। (भ)।


एषः अतिविपुलः अतिपीवरःनितम्बः कट्याःपश्चाद्भागःपादाभ्यां पादयुगलेन कथमपि कृच्छ्रेण प्रोद्वोढुंदु धारयितुं शक्यते, एतादृशःस्थूलनितम्बः पादद्वयेन कृच्छ्रेण धार्यते इत्यर्थः। तथा मध्यभागःकटिदेशःएकाकी असहायः सन् कथं केन प्रकारेण नु प्रोत्तुङ्गस्तनकरिकुम्भयुग्मभारम् अत्युच्चकुचद्वयरूपकरिगण्डद्वयभारं वहति विभर्त्ति? अहो आश्चर्य्यमिति गद्येन अन्वयः। प्रहर्षणीवृत्तम्॥१५॥

कन्दर्पहोमःकन्दर्पस्य कामस्य तृप्तिजनकः होमःतं होमं निर्वाहयतु निष्पादयतु (भ)।

होमद्रव्यजातानि मनसा कल्पयति वेदीति। मृगदृशः मृगाक्ष्याः सज्जघनं सुन्दरनितम्बः, वेदीयज्ञभूमिः तत्परिसरे तन्मध्यभागे, वराङ्गंव्रियते विलासिभिःप्रार्थ्यते वत् तत् वरं प्रार्थनीयम् अङ्गं योनिरिति यावत्, कुण्डम् आहुतिस्थानं, तथा नैवेद्याय नैवेद्यार्थं फलं कुचद्वयं कुचयुगलं, कामानलःमदनानलःप्रोज्जलः, देदीप्यमानो वह्निः। तथा अहम् होता ऋत्विक्, शुक्रव्यनिवहः शुक्राणि रेतांसि एव हव्यनिवहः, हवनद्रव्यजातम् आज्यनिचयः इत्यर्थः। उपस्थः लिङ्गमेव बुहुःस्रुवोवर्त्तते। एतेषु द्रव्येषु सत्सवपि को जनः पञ्चशराध्वरं

(प्रकाश) बन्धुरे! त्वमतिजीर्णा अकार्य्यकुशला च तन्नियोजय स्वपुत्रीं यज्ञसामग्रीकरणाय (म)।

बन्धु। पुत्ति! तुमं विप्पअरशासणं कुण (य)।

(मृगा। गृहं प्रविशति। उपसृत्य कलहाङ्कुरः।) पडमं अह्माणं गुरुसिस्माणं सायं बिचारीअदु अज्जमिस्सो(र)।

मदः। वत्स! क्षणं विरम यावत् क्रतुक्रिया निवर्त्तते (ल)।

(इति गृहं प्रविश्य निर्भरं सुरतं निर्वाह्य सहर्षम्)।

आश्लेषपीड़ितकुचं श्रमधर्मितास्य
दष्टाधरं ललितशीत्कृतमीलिताक्षम्।
चाटूक्तिचारुललितभ्रुचलत्कटाक्षं
वेश्यारतं जनिशतार्जितपुण्यलभ्यम्॥१७॥


पुत्रि! त्वंविप्रवरशासनं कुरु (य)।


कन्दर्पयज्ञंत्यजति? परिहरति? यत् फलं यस्य फलं सद्यःसुखंभवति इति श्लेषः। शार्दूलविक्रीड़ितं वृत्तम्॥१६॥

अतिजीर्णा अतिवृद्धा च एवम् अकार्य्यकुशला कुकर्मतत्परा तत् नियोजय आदिश स्वपुत्रींस्वतन्यां यज्ञसामग्रीकरणाय यज्ञद्रव्याहरणाय इत्यर्थः (म)।

विप्रवरस्य शासनम् आज्ञां कुरु प्रतिपालय (य)।

प्रथमं गुरुशिष्याणां न्यायं विचारयतु आर्य्यमिश्रः(र)।

क्षणंक्षणकालं विरम तिष्ठ तावत्, यावत् यज्ञक्रिया यज्ञकार्य्यंनिवर्त्तते निष्पद्यते, यज्ञकार्य्यस्य आसमाप्तेः स्थिरो भव इति भावः(ल)।

यज्ञनिर्वाहं वर्णयति आश्लेषेति। आश्नेषेण आलिङ्गनेन पीड़ितो मर्दितो कुचौ स्तनौयस्मिन् तत्, तथा श्रमेण परिश्रमेण घर्मितं स्वेदयुक्तम् आस्यम् आननं यस्मिन् तत्, तथा दष्टौ चुम्बितो अधरौ यस्मिन् तत् तथा ललितशीत्कृतेन मनोहरेण शीत् इत्याकारध्वनिना मीलिते मुद्रिते अक्षिणीनयने यस्मिन् तत् चाटूक्त्या “त्वंप्राणेभ्योऽपि गरीयसी” इत्यादि विलासवाक्येन चार्वौमनोज्ञे

(परिक्रम्य बहिः गच्छति नायिका च परिक्रामति)।

विश्वः। (नायिकामवलोक्य आत्मगतम्)

यन्नेत्रंगलिताञ्जनं सुललितं निर्मुक्तरागोऽधरो
धम्मिल्लःश्लथबन्धनःश्रमजलप्रक्षालितं चन्दनं
निष्पन्दं जघनं भुजे शिथिलता वक्षःस्थलं कम्पते
तत् सत्यं सुरतं विधाय सुतरामेषा समागच्छति॥१८॥

कुला। (पुरःसाट्टहासम्।) अज्ज। एक्केण णिब्बाहिदा कदुक्किआ(व)।

मदः। (दक्षिणाक्षिसङ्कोचं निवारयति।)


आर्य्य! एकेन निर्वाहिता क्रतुक्रिया (व)।


ललितभ्रुवौयस्मिन् तत्, तथा चलत् घूर्णत् कटाक्षम् अपाङ्गावलोकनं यस्मिन् तत् एतादृशंवेश्यारतं वाराङ्गनारमणंजनिशतार्जित पुण्यलभ्यं जनिशतेन शतजन्मना अर्जितम् उपार्जितं यत् पुण्यं तेन लभ्यं प्राप्यं भवति इति शेषः। शतजन्मपुण्योपार्जनेन विना एतादृशफललाभो कदापि न भवेदितिभावः। वसन्ततिलकं वृत्तम्॥१७॥

यदिति। एषा मृमाङ्कलेखा, सत्यंयथार्थमेव सुतरां सम्यक् यथा स्यात्तथा सुरतं रतिक्रियां विधाय सम्पाद्य समागच्छति समायातियत् यस्मात् अस्याः, इति ऊह्यं, सुललितं सुन्दरं नेत्रं नयनंगलिताञ्जनं चुम्बनादिनाप्रेमाश्रुपतनेन गलिताञ्जनं स्यन्दितकज्जलं तथा अधरः ओष्ठः चुम्बनादिना निर्मुक्तः परिहतः रागः दत्रिमालक्तकादिरागः यस्य तादृशः तथा धम्मिल्लःकवरीश्लथबन्धनः स्खलितबन्धनः तथा चन्दनं सुरतसमये श्रमजलेन श्रमवारिणा प्रक्षालितं धौतं, तथा जघनं नितम्बदेशःनिष्पन्दं जन्मनाघातेन निष्पन्दं स्पन्दनादिरहितं तथा भुजेकरे शिथिलता बेष्टनादिक्रियानिमित्तेन दौर्बल्यंतथा वक्षःस्थलंहृदयं कम्पते स्फुरति नृत्यतीत्यर्थः। शार्दूलविक्रीडितं वृत्तम्॥१५॥

निर्वाहिता समापिता (ब)।

कुला। किं णिआरणेण? अणम्म पुणेण किं अणोपूदो भोदि? (श)।

मदः। वत्स! क्षणं विरम (ष)।

विश्वः। (सस्मितं) महामिश्र! ज्ञातेयं ते क्रतुक्रिया भवतु तथापि विचार्य्यतामावयोर्न्यायः। (कर्णे स्वैरं) यथेयं मृगाङ्कलेखा मया परिणीता भवति तदनुष्ठेयम् (स)।

मदः। आवाभ्यां परिणेतव्या एषा (ह)।

विश्वः। को दोषः पश्य (क्ष)।

धर्मादिपञ्चपतिभिः खलु पाण्डुना च
युक्ता सतीभवति भोजसुताहि कुन्ती।
धर्मात्मजादिभिरिहोपगता च कृष्णा
एका बहून् यदि भजेत् वद कोऽत्र दोषः ?॥१९॥


किं निवारणेन? अन्यस्य पुण्येन किम् अन्यः पूतो भवति? (श)।


निवारणस्य प्रयोजनं नास्ति भवतां क्रतुक्रियया अन्यस्य क्रतुक्रियाफलं न सम्भवतीतिभावः (श)।

क्षणंक्षणमात्रं, विरम तिष्ठ (ष)।

महामिश्र! ते तव इयं क्रतुक्रिया यज्ञक्रिया ज्ञाता मया इति शेषः भवतु आस्तांतावत् आवयोः गुरुशिष्ययोः न्यायः विवादः विचार्य्यतां निश्चीयताम्। यथा येन प्रकारेण मया इयं मृगाङ्कलेखा परिणीता उद्वाहिता भवति तत् अनुष्ठेयं विधेयम् (स)।

आवाभ्यां त्वया मया च, एषा मृगाङ्कलेखा परिणेतव्या विवाह्या(ह)।

को दोषः। कोऽपि दोषः आवां न आक्रमिष्यति इति भावः पश्य तन्निदर्शनम् अवलोकय (क्ष)।

धर्मेति। इह जगति भोजसुता भोजराजनन्दिनीकुन्तीपापडुस्त्री धर्मादिभिः धर्मपवनेन्द्राश्विनीकुमारैः पञ्चभिः पतिभिः स्वामिभिः तथा पाण्डुना तदाख्येनपतिना युक्ता सती पतिव्रता भवति पातिव्रत्येन विख्याता हि आसीत्।

कुला। (आत्मगतम्) आभ्यां धूर्त्ताभ्यां मिलितं भवतु अहमपि कलहाङ्कुरेण समं सख्यं करोमि (क)।

(इति परिक्रम्य कलहाङ्कुरस्य कण्ठमालिङ्ग्य कर्णे स्वैरम्)। बअस्म! पेक्खस्म एदेहिं गुरुएहिं मिलिदं एषा मिअङ्कलेहा एदेहिं ज्जेब परिणेदव्या ता कधं अह्मेहिं एसा बन्धुरा णोपरिणोअदि? (ख)

कलः। बअस्म! भद्दं ण भणिदम्। जदो अह्माणं बि बुढ्वासुरदं ण बिस्मादंकिं उणएक्कं पअमं दुःखं एसा तिहुअण मोहिणी बुट बेहिं परिणेदब्या णहि मालइमाला बाणरहत्थगदा सोहइणहि कत्थुरिआगुणग्गामं कुग्गामिणो जायन्ति णहि गलिदजोब्बणाए वक्खत्थले मोत्तिअमाला सोहद (ग)।


वयस्य! प्रेक्षस्वएताभ्यां गुरुभ्यां मिलितम्, एषा मृगाङ्गलेखा एताभ्यामेव परिणेतव्या तत् कथमावाभ्याम् एषा बन्धुरा न परिणीयते (ख)।

वयस्य! भद्रं न भणितं यतः अस्माकमपि वृद्धासुरतं न ज्ञातं किं पुनरेकं परमं दुःखम्, एषा त्रिभुवनमोहिनी वृद्धाभ्यां परिणेतव्या, न हि मालतीमालावानरहस्तगता शोभते, न हि कस्तूरिकागुणग्रामं कुग्रामिणो जानन्ति न हि गलितयौवनायाः वक्षःस्थले मौक्तिकमाला शोभते (ग)।


तथा कृष्णा द्रौपदी धर्मात्मजादिभिः युधिष्ठिरभीमार्जुननकुलसहदेवैः उपगता सङ्गता च। अतः एका यदि बहून् भजेत् अत्र कोदोषः? तत् वद ॥१९॥

आभ्याम् अध्यापकाभ्यां धूर्त्ताभ्यां शठाभ्यां मिलितं सङ्गतं भवतु अहमपि कलहाङ्कुरेण विश्वभण्डस्य शिष्येण समंं सह सख्यंबन्धुतां करोमि (क)।

वयस्य! सखे! एताभ्यामेव गुरुभ्यामेव एषा मृगाङ्कलेखा परिणेतव्या विवाह्या तत् तर्हि कथं कस्मात् आवाभ्यां छात्राभ्याम् एषा बन्धरा कुट्टिनीन परिणीयते विवाह्यते (ख)।

वयस्य! सखे! भद्रंन सुष्ठु भणितम् उक्तम्। यतः यस्मात् अस्माकं वृद्धासुरतं

कुला। बअस्म! एदेहि ज्जेवबुढ्बेहिं कत्तिदिणंजीबिदम्बं? पदाणंलोआन्तरगमणेएसा अह्मेहिं परिणेदव्या (घ)।

कलः। सच्चं तथाबिपढमं दुःखं (ङ)।

कुलाः। एहिम्पिपदिबासरं पदाणंभिक्खाटणसमये एसा गेहवट्टिणीभविस्सदि बन्धुरा तु तिमिराउललोअणा तदो अह्माणं मणोरथसिज्झि(च)।


वयस्य! एताभ्यामेव वृद्धाभ्यां कतिदिनानि जीवितव्यम्? एतयोः लोकान्तरगमने एषा आवाभ्यां परिणेतव्या (घ)।

सत्यंतथापि प्रथमं दुःखम् (ङ)।

इदानीमपि प्रतिवासरम् एतयोः भिक्षाटनसमये एषा गृहवर्त्तिनी भविष्यति बन्धुरा तु तिमिराकुललोचना तदा अस्माकं मनोरथसिद्धिः(च)।


वृद्धयां सुरतं रतिक्रिया न ज्ञातं न अभ्यस्तम्। पुनः एकं परमं दुःखं महत् कष्टम्, यत् एषा त्रिभुवनमोहिनी त्रिलोकसुन्दरी मृगाङ्कलेखा वृद्भाभ्यां गुरुभ्यां परिणेतव्या विवाह्यामहद्दुःखम् अर्थान्तरन्यासेन द्रढयति न हि इत्यादि। न हि मालतीमाला मालतीपुष्पमाला वानरहस्तगता मर्कटकरगता सतीशोभते विराजते। कुग्रामिण्यःकुत्सितग्रामवासिनः जनाः कस्तूरिकागुणग्रामं मृगनाभिगुणसमूहं न हि जानन्ति न विदन्ति न हि गलितयौवनायाः वृद्धायाः वक्षस्थले हृदये मौक्तिकमालामुक्ताहारयष्टिःशोभते विराजते (ग)।

एतयोः गुर्व्वोःलोकान्तरगमने मरणे सति आवाभ्यां छात्राभ्याम् एषा मृगाङ्कलेखा परिणेतव्या विवाह्या (घ)

तथापि तथा चेत् प्रथमम् आपाततः दुःखम् (ङ)।

इदानीमपि यत् कर्त्तव्यं तत् शृणु इति भावःप्रतिवासरं प्रतिदिनम् एतयोः गुर्व्वोःभिक्षाटनसमये भिक्षागमनकाले एषा मृगाङ्कलेखा गृहवर्त्तिनी भविष्यति गृहे स्थाास्यति इत्यर्थः, बन्धुरा तु तिमिराकुललोचना अन्धप्रायाः, तदा तस्मिन्नेव समये अमाकं मनोरथसिद्धिःअभीष्टसिद्धिः भविष्यति इति शेषः (च)।

कलः। भोटु जं भणसि वअस्म। (छ)।

बन्धु। (विहस्य आत्मगतं) मिलिदा सठेहिं ताणं परिचिद भोदि (ज)।

मदः। भो महामहोपाध्याय! कीदृशोयुवयोर्न्यायः क्रियतां प्रश्नः?

विश्वः। अस्मत्काङ्क्षितां मृगाङ्गलेखां अयं परिणेतुमिच्छति (झ)।

मदः। भो कलहाङ्कुर! तव प्रत्युत्तरं कीदृशम्? (ञ)।

कलः। एसा मिअङ्कलेहा मए आलिङ्गिदा परिचुम्बिदा तधावि एष इमां परिणेदु मिच्छति (ट)।

मदः। अलं शुष्कचर्वणेन ज्ञातं न्यायतत्त्वम्। एषा प्रथमत उपाध्यायेन कल्पिता एतेन कथमपि अंशैकेन अस्य भवति


भवतु यत् भणसि वयस्य ! (छ)।

मिलितं शठाभ्यां तयोः परिचितं भवति (ज)।

एषा मृगाङ्कलेखा मया आलिङ्गिता, परिचुम्बिता तथापि एष इमां परिणेतुम् इच्छति (ट)।


भवतु तथास्तु यत् कथयसि (छ)।

शठाभ्यां धूर्त्ताभ्यां, तयोः शठयोः परिचितं परिचयः आलाप इति यावत् (ज)।

अस्मात्काङ्क्षिताम् अस्मदभिलषितां मृगाङ्कलेखाम् अयं मम शिष्यः इति यावत् परिणेतुम् उद्वोढुम् इच्छति अभिलषति (झ)।

भी कलहाङ्कुर! तव प्रत्युत्तरं प्रतिवचनं कीदृशम्? किं रूपम् उत्तरं ददासि इति शेषः (ञ)।

आलिङ्गिता चाविष्टा, परिचुम्बिता आस्वादिताधरसुधा च तथापि शिष्योपमुक्तापि एषः गुरुः इमां मृगाङ्गलेखां परियेतुम् उद्वोढुम् इच्छति अभिलषति (ट)।

शुष्कचर्वणेन अलं वृथा निरसविषयचिन्तया, स्वायतत्त्वं याथार्थ्यंमया ज्ञातम्

व्यवस्थापकत्वात् समन्तादस्माकं भवति। (पुनःससम्भ्रमं) भो भो वत्स! यथा त्वं द्वादशवर्षीयो वर स्तथा च बन्धुरा उपपतिगणनालेखामिव लेखां शरीरतो दधती कन्या इयं तव योग्या वर्षशतात् किञ्चिदपि अधिका (ठ)।

(उपसृत्य कुलालः। संस्कृतम् माश्रित्य) व्यवस्थापकशिष्यत्वात् ममापि एषा भवति (ड)।

मदः। भो वत्स! कलहाङ्कुर भवतु एवं भवता मच्छिष्येण समम् एषा परिणीयताम् (ढ)।

कलः। जधा सासणं बिप्पअरस्म(ण)।


यथा शासनं विप्रवरस्य (ण)।

अवगतम्। एषा मृगाङ्कलेखा प्रथमतः प्राक् उपाध्यायेन गुरुणा कल्पिता अभिलषिता एतेन, एतावता कथमपि केनापि प्रकारेण अस्य उपाध्यायस्य एषा अशैकेन भागैकेन भवति। उपाध्यायस्तु प्रथमाभिलाषेण अस्याः मृगाङ्गलेखायाःकिचिन्मात्राधिकारी भवति इति भावः। अस्माकन्तु व्यवस्थापकत्वात् विचारकत्वात्समन्तात् सम्यक् भवति अहमपि विचारकत्वेन सम्यक् अधिकारी भवामि इति भावः। भोभोवत्स! हे कलहाङ्कुर! यथा यादृक्त्वंद्वादशवर्षीयःद्वादशवर्षवयस्कः वरः परिणेता, तथा तादृशी बन्धुरा च शरीरतः शरीरे उपपतिगणनालेखामिव“एतावत्सु वर्षेषु मया कति उपपतयः कृताः” इति निरूपणार्थं दत्ता या रेखा तामिव लेखां लुलितमांससंकोचवशात् सञ्जातरेखां दधती विभ्रती, इयं कन्या पात्री, तव योग्या उपयुक्ता, एषा तु वर्षशतात्किञ्चिदपि अधिका वर्षशताधिकवयस्का भवति (ठ)।

व्यवस्थापकशिष्यत्वात् विचारकशिष्यत्वात्, मम एव भवति विचारकस्य भवतः शिष्योऽहम् अतः ममैव एषापि भवति इत्यर्थः (ड)।

भोवत्स! मच्छिष्येण कुलालेन समं सह एषा बन्धुरा परिणीयताम् उद्वाह्यताम् (ढ) \।

यथा शासनम् चादेशः तथा करोमि इति भावः (ण)।

बन्धु। (सहर्षम् आत्मगतं संस्कृतमाश्रित्य) अहो! मयि प्रसन्नः प्रजापतिः यतो वार्द्धक्येऽपि तरुणपतिद्वयलाभः (त)।

विश्वः। (कलहाङ्कुरम् अवलोक्यसस्मितम् आत्मगतम्।)

निष्क्रामति शिशोः कायो येन रन्ध्रेण योषितः।
किं करिष्यति तवायं वटुः शिश्नशलाकया॥२०॥

(पुनः प्रकाशम्।) प्रत्यासन्नोविवाहोत्सवस्तत् कथं न आहूयते दक्षिणराढ़ीयो महानिन्दकाचार्य्यः (थ)।

(प्रविश्य महानिन्दकाचार्य्यः। सर्वानवलोक्य सदम्भम्।)

ब्रह्माण्डे के द्विजाः सन्ति पाण्डित्येन कुलेन वा।
ये स्पर्द्धितुंमया सार्द्धंकिञ्चिदावर्जितोद्यमाः?॥ २१ ॥

(पुनः सगर्वं) मया रचिताश्चत्वारो वेदाः।


वार्द्धक्येऽपि वृद्धावस्थायामपि तरुणपतिद्वयलाभः नवीनपतिद्वयप्राप्तिः (त)।

निष्क्रामतीति। योषितः नार्य्याःयेन रन्ध्रेण गर्त्तेन भनेनेत्यर्थः। शिशोः बालकस्य कायो देहः निष्क्रामति निर्गच्छति। अयं बटुः बालकः शिन्नशलाकया उपस्थखड़िकया क्षुद्रखड़िकावदुपस्थेन इत्यर्थः तत्र रन्ध्रेभगे किं करिष्यति? किञ्चिदपि कर्त्तुं न समर्थो भविष्यति? उपस्थचालनेन सुखं न अनुभविष्यति न वा अनुभावयिष्यति इति भावः। अनुष्टप्वृत्तम्॥२०॥

प्रत्यासन्नःनिकटवर्ती विवाहोत्सवः परिणयोत्सवः कथं कुतः न आहूयते न आकार्य्यते दक्षिणराढीयः दक्षिणराढदेशीयः महानिन्दकाचार्य्यःमहानिन्दकानाम् आचार्य्यःगुरुः, इति अन्वर्थनामा कश्चित् ब्राह्मणः(थ)।

ब्रह्माण्डेइति। ब्रह्माण्डेइह जगति के द्विजाः ब्राह्मणाः सन्ति पाण्डित्येन विद्यावत्तया कुलेन वंशमर्य्यादया वा ये मया सार्द्धं सह किञ्चित् स्पर्धितुम् आक्रन्दितुंवचसा योद्धुम् इत्यर्थः। आवर्जितोद्यमाः कृतोद्योगा च भवन्ति? केऽपि न सन्ति इत्यर्थः। अनुष्टुब्वृत्तम् ॥११॥

कलः। अज्ज! बह्ममुहणिग्गदा बेआ ता कधंभवदा बिअइदा? (द)।

महा। (सक्रोधं) आः क्षुद्रबुद्धिंब्रह्माणं गणयसि? शृणु, तत्कौलिन्यपरीक्षार्थं स्वर्गगतेन मया (ध)।

पाद्यं विष्णुपदीजलेन चरणे दत्तं शिरोवर्त्तिना
तत्क्रोधेन करप्रहारनिकरैःसन्ताड़ितः शङ्करः।
आयुष्मान् न कृतो भयात् प्रणमति ब्रह्मण्यवज्ञावशात्
नो दृष्ट स्त्रिदशप्रतिग्रहपरः पापास्पदो गोष्पतिः॥२२॥


आर्य्य! ब्रह्ममुखनिर्गताः वेदाः तत्कथं भवता विरचिता? (द)।


ब्रह्ममुखनिर्गताःविधिवदनप्रचारिताः वेदाःतत्कथं भवता विरचिताः? कृताः? (द)।

आ इति। कोपसूचकमव्ययम्। क्षुद्रबुद्धिम् अल्पबुद्धिं ब्रह्माणं विधिं गणयसि सम्मन्यसे शृणु अवगच्छ तत् तत्कौलिन्यपरीक्षार्थं ब्रह्मणं वंशमर्य्यादां ज्ञातुं स्वर्गगतेन दिवं गतेन मया यत्कृतम् (ध)।

पाद्यमिति। शिरोवर्त्तिना शिरःस्थितेन विष्णुपदीजलेन मन्दाकिनीजलेन पाद्यं पादप्रक्षालनार्थं परिकल्प्यचरणे मम पादे दत्तम् अर्पितम्। तत् क्रोधेन मम चरणे शिरःस्थितगङ्गाजलसम्पादितपाद्यार्पणजनितकोपेन, करप्रहारनिकरैःहस्तताड़नादिभिः शङ्करः शिवः सन्ताड़ितः तर्जितः कुतः मम चरणे मस्तकजटाभ्यन्तरगतत्वेन मलिनत्वादिदूषितं जलम् अर्पितम् इत्युक्त्वामया सक्रोधंमुष्टिचपेटाघातादिभिःताड़ितःशिवःइति भावः। भयात् भयं प्राप्य ब्रह्मणि अजेप्रणमति प्रणामं कुर्वति सति आयुष्मान् दीर्घायुः न कृतः आयुष्मान् भव इति आशीर्वादःन विहितः। तथा गौष्पतिः देवगुरुः त्रिदशप्रतिग्रहपरःविदधानां देवानां दानग्रहणशीलः अतः पापास्पदःपापाश्रयः इति अवज्ञावशात् इति अश्रद्धया न दृष्टः न अवलोकितः। शार्दूलविक्रीड़ितं वृत्तम्॥२२॥

मदः। अलं वाग्विस्तरेण? निर्वाह्यताम् अस्माकं विवाहद्वयम् (न)।

महा। अहम् अप्रतिग्राही (प)।

कुला। गणिआप्पतिग्गेहे को दोषः? (फ)

महा। भद्रमुक्तम् एतत् पूर्वं न ज्ञायते कुलीना इयं वेश्या (सादरं) भगवन्! कया सह कस्य विवाहः? (ब)।

विश्वः।

आवां योग्यावुपाध्यायौ वरावस्यामृगीदृशः।
शिष्यावेतावमुष्या स्तु तिमिराकुलचक्षुषः॥२३॥

महा। (विहस्य आत्मगतम्।) अहो आश्चर्य्यम् (भ)।


गणिकाप्रतिग्रहे को दोषः ? (फ)।


अलं वाग्विस्तरेण? वचनबाहुल्येन अलम्? प्रयोजनं नास्ति। निर्वाह्यतां सम्पाद्यताम् अस्माकं विवाहृदयम्, आवयोः शिष्ययोश्च मृगाङ्गलेखया, बन्धुरया च सह, एतत् विवाहृदयम् (न)।

अहमप्रतिग्राही, प्रतिग्रहपराङ्मुखः कस्मादपि किञ्चित् न प्रतिगृह्णामि इत्यर्थः (प)।

गणिकायाः वैश्यायाः प्रतिग्रहे दानग्रहणे को दोषः? कोऽपि दोषो नास्ति इत्यर्थः (फ)।

भद्रमुक्तंसुष्ठुभणितमेतत्, पूर्वं प्राक् न ज्ञायते नावगम्यते। इयं वेश्या कुलीना सत्कुलोत्पन्ना। भगवन् प्रभो ! एतेषां मध्ये कया कन्यया सह कस्य वरस्य विवाहः भविष्यति इति शेषः (ब)।

आवामिति। अस्याःमृगीदृशः मृगाक्ष्याः, आवाम् उपाध्यायौ अध्यापकौयोग्यौ समुचितौ वरौ परिणेतारौ तु पुनः तिमिराकुलचक्षुषःतिमिरान्धनयनायाः असख्याः बन्धुरायाः इति यावत् एतौ कुलालकलहाङ्कुरनामानौशिष्यौयोग्यौ परिणेतारौ इत्यर्थः॥२३॥

अहोआश्चर्य्यं। अध्यापकयोरतादृक्व्यवहारः इत्यर्थः (भ)।

(पुनः मृगाङ्गलेखामवलोक्य) आश्चर्य्यम् अस्याः(म)।

प्रविशति कटाक्षविशिखे तीक्ष्णतरे भेदके च हृदयानाम्।
तथापि लक्ष्यीभूय स्थातुमपेक्षा भवेन्न कस्यापि?॥२४॥

अपिच।

दुग्धसमुद्रसमुत्थितविषमिव परिदुःसहा हरस्यापि।
अस्या दृशि विमलायां तरलतरतारकातिभीमा॥२५॥

किञ्चास्या निर्भरपरिरम्भणं विना न मया इदानीं जीवनीयम् (य)।

(प्रकाशम्)

एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित-
ज्योत्स्नाभिर्न भजत्यदी मृगदृशः शङ्के प्रकाशं पुनः।


अस्याः वेश्यायाः आश्चर्य्यं किमद्भूतमवलोकयामि इति शेषः (म)।

प्रविशतीति। अस्याः मृगाक्ष्याः, हृदयानां भेदके विदारके तीक्ष्णतरे खरतरे कटाक्षविशिखे नयनबाणे प्रविशति मर्म स्पृशति सति तथापि लक्ष्यीभूय, प्रहरणाय शरव्यो भूत्वापि स्थातुं तत्समीपे वर्त्तितुं कस्य जनस्य अपेक्षा इच्छा न भवेत्। यद्यपि अस्याः नयनशरघातेन प्राणाःअयास्यन्, तथापि अस्याःसमीपे अहम् अस्थास्यमितीच्छा सर्वेषामपि भवेदिति भावः। आर्य्या॥२४॥

पुनरपि वर्णयति दुग्धेति। अस्याः मृगाक्ष्याः विमलायां स्वच्छायां दृशि‍ नयने अतिभीमा हृदयविदारिणी तरलतरतारका, अतिचञ्चलकनीनिका, दुग्धसमुद्रसमुत्थितविषमिव क्षीरोदसागरमन्थनोत्पन्नगरलमिव हरस्यापि नीलकण्ठस्यापि परिदुःसहा दुःसहनीया। अस्याः अतिचञ्चलनयनतारकादर्शनेनैव महादेवस्यापि धैर्य्यच्युतिः स्यात् अस्माकन्तु का कथा इति भावः। आर्य्या॥२५॥

किश्च परन्तु अस्याःनिर्भरपरिरम्भणं गाढालिङ्गनं विना इदानीम् अधुना मया न जीवनीयं न प्राणितव्यम् (य)।

एतस्याः मृगदृशः मृगाक्ष्याः स्तनपद्मकोरकयुगं कुचपङ्कजमुकुलयुगलं यस्य आननेन्दोःमुखचन्द्रस्यसितज्योत्स्नाभिः शुक्लवर्णचन्द्रिकाभिः हास्यरूपशुक्लवर्ण-

तस्मिँश्लोचनपङ्कजं विकसितं भ्रूभङ्गसंसेवितं
स्वान्ते संशयमातनोति सुतरामेतन्ममैवासकृत् ॥२६॥

अपिच।

अहो! मूढास्ते।

     **पानायाधरतोऽमृतं वसतयेऽप्यस्याः स्तनक्ष्माधरो-  
     ऽधस्तात् सज्जघनान्तकन्दरधरः सख्याय चक्षुर्मृगः।  
     जप्योमन्त्रवरो मनोहरकथा ध्यानाय वक्ताम्बुजं  
     चेत्थंदेहतपःस्थले सति कथं सन्तो वनान्तं गताः?॥२७॥**

किरणैरेवेत्यर्थः। प्रकाशं विकाशं न भजति न प्रस्फुटति कोरकाकारेणैव तिष्ठति इत्यर्थः। अदः इदं शङ्के इत्यहं मन्ये। पुनः किन्तु तमिन् मुखचन्द्रे भ्रूभङ्गसंसेवितं भ्रकुटियुक्तं विकशितं प्रस्फुटितं लोचनपङ्कजं नयनकमलं मम स्वान्ते मनसि सुतरां सम्यक् असकृत् वारंवारमेव सशयं सन्देहम् आतनोति प्रकटयति मुखचन्द्रस्य हास्यरूपशुक्लवर्णचन्द्रिकाभिः कुचपङ्कजमुकुलयुगलं न प्रस्फुटति परन्तु मुखचन्द्रोपरिस्थितं नयनकमलं प्रस्फुटितं किमिदं? इत्येवं सन्देहः मम मनसि सर्वदैव जायते इति भावः। शार्दूलविक्रीडितं वृत्तम् ॥२६॥

पानायेति। अस्याः मृगदृशःअधरतः ओष्ठविम्बे अमृतं सुधा पानाय पानार्थं वर्त्तते। तथा अधस्तात् सज्जघनस्य अधःस्थितपीवरनितम्बदेशस्य अन्ते शेषभागे कन्दरं गह्वरं धरति यः तादृशः स्तनक्ष्माधरः कुचगिरिरपि वसतये वासाय वर्त्तते। तथा चक्षुः नयनं मृगः हरिणः सख्याय बन्धुत्वाय विद्यते। तथा मनोहरकथा सुन्दरवाक्यम् जप्यः जपार्हःमन्त्रवरः मन्त्रश्रेष्ठः विद्यते। तथा वक्ताम्बुजं वदनकमलं ध्यानायएकाग्रचेतसा चिन्तनाय वर्त्तते च। इत्थं देहतपःस्थले एवंविधशरीरतपोवने सति विद्यमाने सन्तः पण्डिताः कथं केन हेतुना वनान्तंवनमध्यं गताः? याताः। तपस्विनाम् आवश्यकीयद्रव्यनिचयाधारे मृगदृशःशरीरतपोवने विद्यमानेऽपि पण्डिताः केन हेतुना। बनमध्यंवाताः? अहो ते मूढाः पण्डिताभिमानिनः इति गद्येन अन्वयः।शार्दूलविक्रीड़ितं वृत्तम् ॥२७॥

भो भो! विश्वभण्ड! लग्नकरणार्थं कथं न आहूयते महायात्रिकनामा मौहूर्त्तिकः (र)।

(प्रविश्य महायात्रिकः पञ्जिकां प्रसार्य्य) भो भोपण्डित! किं गणनीयम्।

मदः। क्रियतां वैवाहिकक्षणः(ल)।

(महायात्रिकः। भूमौ कठिनीं पातयित्वा।)

यत्र कुत्रापि लग्ने च वासरे यस्य कस्यचित्।
यत्र कुत्रापि नक्षत्रे यद्वातद्वाविधीयताम्॥२८॥

महानिन्दः। (स्वगतम्) योग्य एष दैवज्ञः। (प्रकाशम्) भो भो। सांवत्सरिक कदाचिदनेन वैधव्यं जायते (व)।

महायात्रिकः। किं पुरुषहीना धरणी? यदेतयोर्वैधव्यं भविष्यति (श)।


विवाहलग्ननिरूपणार्थं कथं न आहूयते नाकार्य्यते, महायात्रा मरणं निरुप्यतेयेन, सः मौहूर्तिकः दैवज्ञः(र)।

वैवाहिकक्षणः विवाहयोग्यो लग्नः (ल)।

ज्योतिर्वचनमाह यत्रेति। यत्रकुत्रापि यस्मिन् कस्मिन्नपि अग्नेमेषाद्यन्यतमराश्युदये च, यस्य कस्यचित् ग्रहस्य वासरे दिवसे, तथा यत्र कुत्रापि यस्मिन् कस्मिन् अपि नक्षत्रेअश्विन्याद्यन्यतमनक्षत्रेइत्यर्थः। यद्वातद्वायथेच्छं विधीयताम् अनुष्ठीयताम्। अनुष्टुब्वृत्तम्॥२५॥

योग्यःउपयुक्तः दैवज्ञःज्योतिर्वित्। अनेन लग्नावधारणेन कदाचित् कस्मिन्नपिसमये वैधव्यं पतिहीनत्वं जायते भविष्यति न वा? (व)।

किमिति प्रश्ने। किमियं धरणी पृथिवी, पुरुषहीना? पुरुषरहिता? यत्यस्मात् एतथीः बन्धुरामृगाजलेखयोः वैधव्यंपतिराहित्यंभविष्यति भवेत् पृथिव्यांपुंसि विद्यमाने एतयोः वैधव्यंअशंसम्भवेत् इति भावः(श)।

महानिन्दकः। भो भो विश्वभण्डादयः! विल्वमास्यधारिणो यथोद्दिष्टतल्पे अनुसरथ (ष)।

महायात्रिकः। (सहासं) युक्तं पुरुषाणां बध्यमानानां भूषणम् (स)।

(सर्वे यथोद्दिष्टतल्पे करग्रहं विधाय उपविशन्ति। वृद्धापतिद्वयमध्यगता।)

(नायिका च तथा सविवादम् आत्मगतम्) (ह)।

श्रीगीरी पादपद्माच्चण मतिबिजने जक्किदं सव्वआलं
स्थिश्चंचित्तेण भक्तीदृटतल मणिसं जक्किदा पुप्फबाणे।
तस्माज्जेबं प्पसाओ णिहिलसुरकिदो जो गुरुप्पाणदण्डो
पश्चासस्मोबिहाओ बिसमतररुजा जीणबिप्पेहि दोहिम् ॥२९॥


श्रीगीरीपादपद्मार्चनमतिविजने यत् कृतं सर्वकालं
नित्यंचित्तेन भक्तिर्दृढतरमनिशं यत्कृता पुष्पवाणे।
तस्मादेवं प्रसादो निखिलसुरकृतो यद्गुरुप्राणदण्डः
प्रत्यासन्नोविवाहो विषमतररुजा जीर्णविप्रहयाभ्याम्॥२९॥


विल्वमालधारिणः श्रीफलपत्रमालां बिभ्रतः, सन्तः यथोद्दिष्टतल्पे निर्दिष्टशय्यायाम् अनुसरथ गच्छथ यूयमिति श्लेषः (घ)।

बध्यमानानाम् अवश्यनाश्यानां पुरुषाणां भूषणम् आभरणं युक्तम् सचितम्। एतेवरा विनाशोन्मुखाः इति भावः(स)।

वृद्धा बन्धुरा पतिद्वयमध्यगता, कुलालकलङ्काङ्कुरमध्यस्थिता,नायिका मृगाङ्कलेखा च तथा पतिद्वयमध्यगता अध्यापकचयमध्यगता (ह)।

आत्मवतत्वंविवृणोति। श्रौति। अतिविजने अतिनिर्जने उपविश्य इत्यर्थः। प्रौगौर्य्याः श्रीपार्वत्याः पादपद्माचनं पादपद्मस्य अर्चनं पूजनं सर्वकालं सततं यथा स्यात्तथा कृतम् अनुष्ठितं इति यत् तथा नित्यं प्रतिदिनं वित्तेन मनसा पुष्पबाणे सामदेवे दृढ़तरं प्रगाढ़ यथा स्यात्तथा अहर्निशं निरन्तरं भक्तिः कृता विहिता इति यत्, तस्मात्तंगौरीपदार्चनस्मरभक्तिकरण्यादेव निखिलसुरकृतः सकलदेवजनितः

महानिन्दकः। भुजङ्ग। समानीयतां मधुपर्कः(क्ष)।

(उपसृत्य भुजङ्गः।) अज्ज महुणो अहाबो, अस्थि दुशं णोरम्पि (क)।

महानिन्दः। समानय।

भुजङ्गः। समानीय अर्पयति (ख)।

महानिन्दः। प्रत्येकं वराभिमुखम्।

औं श्मशानानलदग्धोऽसि परित्यक्तोऽसि बान्धवैः।
इदं नीरमिदं क्षीरंस्नात्वा पीत्वा सुखीभव॥३०॥


आर्य्य! मधुनः अभावः, अस्ति दुग्धं नीरमपि (क)।

एवं प्रसादः अनुग्रहः संवृत्तः इत्यर्थः। यत् यस्मात् प्रसादात् अनुग्रहात् इति यावत् हेतोः गुरुप्राणदण्डःगुर्वोःअध्यापकयोः प्राणदण्डः जीवननाशः प्रत्यासन्नःसम्मुखीनःनिकटवर्त्तीइति यावत् भवति इति शेषः। कसतावत्प्रसादः इत्याशयेनाह विषमेति। विषमतररुजा अतिशयविषमरोगेण जीर्णाभ्यां विप्रहायाभ्यां सम्यक् जीर्णब्राह्मणाभ्याम्अतिवृद्धगुरुभ्यामित्यर्थः सह समं विवाहःपरिणयः भवति। स्रग्धरा वृत्तम्॥२९॥

भुजङ्ग! रे उपनायक! आनीयतां समाङ्क्रियताम् मधुपर्कः एतदधिक्षीरमधुशर्करारूपः(क्ष)।

आर्य्य! मधुनः क्षौद्रस्य अभावः, मधु नास्ति। अस्ति वर्त्तते दुग्धं क्षीरं नीरम् अपि जलश्च (क)।

समालय, तत् आनय इत्यर्थः (ख)।

वराभिमुखंवरयोः मुखम् अभिलक्ष्यीकृत्य नीरं क्षीरञ्चगृहीत्वा मृतस्य नीरक्षीरयोर्दानमन्त्रं पठति। ओंइति त्वं श्मशानानलदग्धोऽसि श्मशानाग्निना दग्धोऽसि बान्धवैः बन्धुभिः परित्यक्तोऽसि विरहितोऽसि, अतः इदं नीरं जलम् इदं क्षीरं दुग्धं मया दत्तमिति शेषः। त्वां स्नात्वा अनेन जलेन स्नानं कृत्वा इदं क्षीरं दुग्धं पीत्वा सुखीभव, श्मशानानलदाहजन्यं बान्धवत्यादजन्यं क्लेशञ्चविहाय सुखम् अनुभव इत्यर्थः। अनुष्टुप् वृतम्॥३०॥

(पुनर्दूर्वाक्षतमादाय।)

मरणं प्राणिनां नित्यंजीवनं स्वप्नवद् भुवि।
भवद्भिरिति विज्ञाय कर्त्तव्या नात्रशोचना॥३१॥

(पुनरुत्थाय उच्चैः।)

पितृकाननमेदिन्यां महाशय्यानुशायिभिः।
सुचिरं स्थीयतां नित्यं महानिद्रावलम्बिभिः॥३२॥

(इति सर्वेषां मौलिषु दूर्वाक्षतम् अर्पयति)।

महायात्रिकः। तत् युक्तं वराणां श्मशाने चिताशयनम् (ग)।

महानिन्दः। (उपसृत्य) भो कलहाङ्कुर! दीयतां प्रथमतः शतवर्षकन्यादानदक्षिणा (घ)।

कलः। [शक्राशनलड्डुकमर्पयति] (ङ)।

महानिन्दः। स्वस्ति [इति गृहीत्वा सानन्दं शिरसि निधाय] ओंगायत्र्यैनमः [इति भूमौ किञ्चित् त्यक्का पुनर्भक्षयित्वा सोत्साहम्]।


पुनराशीर्वचनं पठति मरणमिति। भुवि पृथिव्यां प्राणिनां प्राणधारियां मरणं प्राणवियोगः नित्यंसर्वदेव भवति इति शेषः। तथा जीवनं श्वसनं स्वप्नवत् क्षणंतिष्ठति प्रति शेषः। इति विज्ञाय अवगम्य अत्र मरणजीवनविषये भवद्भिःशोचना शोकः न कर्त्तव्या न विधेया। अनुष्टप्वृत्तम्॥३१॥

पुनरुच्चैःपठति। पितृकाननेति। महानिद्रावलम्बिभिः गतप्राप्राप्तैःतथा महाशय्यानुशायिभिः चिताधिरुढाभिः भवद्भिःइति शेषः पितृकाननमेदिन्यां श्मशानभूमौ सुचिरं बहुकालं व्याप्य नित्यंसर्वदा स्थीयताम्, अनुष्टुप् वृत्तम्॥३२॥

वराणां परिणेतृणां श्मशाने पितृभूमौ चिताशयनं चिताशय्यारोहणं तत् युक्तम्उचितम् (ग)।

भो कलहाङ्कुर! प्रथमतः प्राक् शतवर्षकन्यादानदक्षिणा शतवर्षवयस्कायाःकन्यायाः वृद्धायाः बन्धुरायाः इति यावत् आदानस्य ग्रहणस्य दक्षिणादीयतां दक्षिणायामन्तरेण आदानस्य फलं न भवति इति भावः (घ)।

शक्राशनलड्डुकं भङ्गाचूर्णनिर्मितलड्डुकम् अर्पयति ददाति (ङ)।

जनयति सुरतेषु मुदं प्रथयति पीयूषवर्षिणीं वाणीम्।
रचयति लोचनकुतुकं स जयति शक्राशनानन्दः॥३३॥

बन्धु। कुलीणअरो आचाज्जो (च)।

महानिन्दः। (पुनरुपसृत्य) भो भो भगवन् मिश्र! प्रदीयतां कन्यादानदक्षिणा (छ)।

उभौ वदतः। प्रतिपाल्यतामब्दचतुष्टयम् (ज)।

महानिन्दः। तावदेषा बन्धकीभवतु।

(इतिमृगाङ्कलेखाया हस्तं धृत्वा तया सह सहर्षं नृत्यति) (झ)

महायात्रिकः। भो भो महानिन्दकाचार्य्य! किमिदानीं भवतामपेक्षितमस्ति? (ञ) ।

कुलीनवरः आचार्य्यः(च)।


शक्राशमलड्डुकभक्षणानन्तरं तस्य प्रशंसावचनं पठति जनयति इति। सःशक्राशनानन्दः भङ्गाचूर्णनिर्मितलड्डुकभक्षणानन्दः जयति जययुक्तो भवतु यः सुरतेषु शृङ्गारेषु मुदं हर्षंजनयति उत्पादयति। तथा पीयूषवर्षिणीम् अमृतस्यन्दिनींवाणीं वाचम् प्रथयति प्रकटयति। तथा लोचनकुतुकं नयनामोदं रचयति घटयति। आर्य्या॥३३॥

कुलीनश्रेष्ठः आचार्य्यः महानिन्दकाचार्य्यः(च)।

भोभोमिश्र! उपाध्याय! प्रदीयतां कन्यादानदक्षिणा कन्यायाः मृगाङ्कलेखायाःआदानस्य ग्रहणस्य दक्षिणा, कन्यायाः आदानस्य दक्षिणामन्तरेण फलं न भवति इत्यर्थः (छ)।

प्रतिपाल्यताम् अपेक्ष्यताम् अब्दचतुष्टयं वर्षचतुष्टयम् (ज)।

तावत् वर्षचतुष्टयं यावत् इत्यर्थः एषा मृगाङ्कलेखा, बन्धकी भवतु यावत्दक्षिणां नदास्यसि तावत् प्रतिभूत्वेन तिष्ठतु इति भावः। इति मृगाङ्कलेखायाः हस्तं धृत्वा गृहीत्वा तया मृगाङ्कलेखया सह नृत्यति (झ)।

भवताम् इदानींकिम् अपेक्षितं किञ्चिदवशिष्टम् अस्ति वर्त्तते? एतेनापि किंदक्षिणावशेषोवर्त्तते? इति भावः(ञ)।

महानिन्दः। (सहर्षम्)।

लब्धेयं युवतिर्जगज्जनदृशामानन्दभूमिर्भृशं
धूर्त्तानां निकरं प्रवञ्च्य सहसा प्राप्ताश्च हृत्प्रीतयः।
सम्प्रत्युद्भटसम्बरारिसमरं नानारतास्त्राङ्कितं
गत्वा केलिगृहं विधातुमधिकं वाच्छावरीवृत्यते॥३४॥

इति हास्यार्णवनामप्रहसनं समाप्तम्।


अभिलाषं प्रकाशयति लब्धेति। जगज्जनदृशां भुवनजननयनानाम् आनन्दभूमिः आमोदस्थलीइयं युवतिःधूर्त्तानां शठानां निकरं समूहं भृशं प्रवञ्च्यअतिशयं वञ्चयित्वा लब्धामया प्राप्ता, तथा सहसा हठात् प्रीतयश्च मनसः तृप्तयश्चप्राप्ताः, अधिगताः। सम्प्रति अधुना केलिगृहं शृङ्गारमन्दिरं नानारतास्त्रैःबहुविधरमणास्त्रैःनखक्षतादिरूपैरिति यावत् अङ्कितं चित्रितम् उङ्भटसम्बरारिसमरम् अतिशयकामयुद्धंविधातुं कर्त्तुं वाञ्छा इच्छा वरीवृत्यते अतिशयेन वर्त्तते यदि अनया सह मम कामसमरं भवेत् तर्हि अभीष्टसिद्धिःस्यादिति भावः। शार्दूलविक्रीड़ितं वृतम् ॥३४॥

स्वर्गेऽवनिभूधरब्धिसलिले किं कानने केतने
किं वर्णाश्रम धर्मसेवनविधौ किं वा विवेकाश्रये?।
ज्ञाने वा भजने किमेव रसिकाः ध्यायन्ति ये सन्ततं
क्वास्तेसर्वसुखंसदेति हृदि ते मज्जन्तुहास्यार्थ व॥

इति श्रीश्रीनाथवेदान्तवागीशभट्टाचार्य्यविरचिता हास्यार्णवप्रहसनव्याख्या समाप्ता।

]