रत्नावली

महाकविश्रीहर्षदेवविरचिता रत्नावली ।
प्रथमोऽङ्कः ।
पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रतां शम्भोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने ।
ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्नमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥१॥
अपि च ।
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥२॥
अपि च ।
क्रोधेद्धैर्दृष्टिपातैर्मुहुरुपशमिता वह्नयोऽमी त्रयोऽपि त्रासार्ता ऋत्विजोऽधश्चपलगणहृतोष्णीषपट्टाः पतन्ति ।
दक्षः स्तौत्यस्य पत्नी विलपति करुणं विद्रुतं चापि देवैः शंसन्नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः ॥३॥
किं च ।
जितमुडुपतिना नमः सुरेभ्यो द्विजवृषभा निरुपद्रवा भवन्तु ।
भवतु च पृथिवी समृद्धसस्या प्रतपतु चन्द्रवपुर्नरेन्द्रचन्द्रः ॥४॥
(नान्द्यन्ते ।)
सूत्रधारः - अलमतिविस्तरेण ।
अद्याहं वसन्तोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः ।
यथा - “अस्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालङ्कृता रत्नावली नाम नाटिका कृतेत्यस्माभिः श्रोत्रपरम्परया श्रुता ।
न तु प्रयोगतो दृष्टा ।
तत्तस्यैव राज्ञः सकलजनहृदयाह्लादिनो बहुमानादस्मासु चानुग्रहबुध्द्या यथावत्प्रयोगेण त्वया नाटयितव्या” इति ।
तद्यावदिदानीं नेपथ्यरचनां कृत्वा यथाभिलषितं सम्पादयामि ।
अये, आवर्जितानि सकलसामाजिकानां मनांसीति मे निश्चयः ।
यतः ।
श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वैकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनर्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥५॥
तद्यावद्गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनुतिष्ठामि ।
(परिक्रम्य नेपथ्याभिमुखमवलोक्य च ।)
इदमस्मदीयं गृहम् ।
यावत्प्रविशामि ।
(प्रविश्य ।)
आर्ये, इतस्तावत् ।
(प्रविश्य ।)
नटी - अज्जौत्त, इअह्मि ।
आणवेदु अज्जो को णिओओ अणुचिट्ठीअदुत्ति ।
सूत्रधारः - आर्ये, रत्नावलीदर्शनोत्सुकोऽयं राजलोकः ।
तद्गृह्यतां नेपथ्यम् ।
नटी - (सोद्वेगम् ।)
अज्जौत्त, णिच्चिन्तो दाणिं सि तुमं ।
ता कीस ण णच्चसि ।
मह मन्दभाइणीए उण एक्कज्जेव्व दुहिदा ।
सा वि तुए कहिं पि देसन्तरे दिण्णा ।
कधं एव्वं दूरदेसठ्ठिदेण जामादुणा सह से पाणिग्गहणं भविस्सदित्ति इमाए चिन्ताए अप्पा वि मे ण पडिभादि ।
किं उण णच्चिदव्वं ।
सूत्रधारः - आर्ये, दूरस्थितेनेत्यलमुद्वेगेन ।
पश्य ।
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥६॥
(नेपथ्ये ।)
साधु ।
भरतपुत्र, साधु ।
एवमेतत् ।
कः सन्देहः ।
(“द्वीपात्-” इत्यादि पठति ।)
सूत्रधारः - (आकर्ण्य नेपथ्याभिमुखमवलोक्य च ।)
आर्ये किमतःपरं विलम्बसे ।
नन्वयं मम यवीयान्भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव ।
तदेहि ।
आवामपि नेपथ्यग्रहणाय सज्जीभवावः ।
(इति निष्क्रान्तौ ।)
इति प्रस्तावना ।
(ततः प्रविशति यौगन्धरायणः ।)
यौगन्धरायणः - एवमेतत् ।
कः सन्देहः ।
(“द्वीपात्-” इति पुनः पठित्वा ।)
अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गमग्नोत्थितायाः फलकासादनम् ।
क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः सम्भावनम् ।
रत्नमालाचिह्नायाः प्रत्यभिज्ञानादिहानयनं च ।
(सहर्षम् ।)
सर्वथा स्पृशन्ति नः स्वामिनमभ्युदयाः ।
(विचिन्त्य ।)
मयापि चैनां देवीहस्ते सगौरवं निक्षिपता युक्तमेवानुष्ठितम् ।
श्रुतं च मया बाभ्रव्योऽपि कञ्चुकी सिंहलेश्वरामात्येन वसुभूतिना सह कथं कथमपि समुद्रादुत्तीर्य कोसलोच्छित्तये गतस्य रुमण्वतो मिलित इति ।
तदेवं निष्पन्नप्रायमपि प्रभुप्रयोजनं न मे धृतिमावहतीति कष्टोऽयं खलु भृत्यभावः ।
कुतः प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे ।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तुः ॥७॥
(नेपथ्ये कलकलः ।)
यौगन्धरायणः - (आकर्ण्य ।)
अये यथायमभिहन्यमानमृदुमृदङ्गानुगतसङ्गीतमधुरः पुरः पौराणां समुच्चरति चर्चरीध्वनिस्तथा तर्कयामि यदेनं मदनमहमहीयांसं पुरजनप्रमोदमवलोकयितुं प्रासादाभिमुखं प्रस्थितो देव इति ।
(ऊर्ध्वमवलोक्य ।)
अये कथमधिरूढ एव देवः प्रासादम् ।
य एष विश्रान्तविग्रहकथो रतिमाञ्जनस्य चित्ते वसन्प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥८॥
तद्यावद्गृहं गत्वा कार्यशेषं चिन्तयामि ।
(इति निष्क्रान्तः ।)
इति विष्कम्भकः ।
(ततः प्रविशत्यासनस्थो गृहीतवसन्तोत्सववषो राजा विदूषकश्च ।)
राजा - (सहर्षमवलोक्य ।)
सखे वसन्तक ।
विदूषकः - आणवेदु भवं ।
राजा - राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥९॥
विदूषकः - (सहर्षम् ।)
भो वअस्स, एव्वं णेदं ।
अहं उण जाणामि ण भवदो ण कामदेवस्स ममज्जेव्व एक्कस्स बम्हणस्स अअं मअणमहूसवो जेण पिअवअस्सेण एव्वं मन्तीअदि ।
(विलोक्य ।)
ता किं इमिणा ।
पेक्ख दाव इमस्स महुमत्तकामिणीजणसअङ्गाहगहिदसिङ्गकजलप्पहारणच्चन्तणाअरजणजणिदकोदूहलस्स समन्तदो संवुत्तमद्दलोद्दामचच्चरीसद्दमुहररच्छामुहसोहिणो पैण्णपडवासपुञ्जपिञ्जरिज्जन्तदिसामुहस्स ससिरीअत्तणं मअणमहूसवस्स ।
राजा - (सहर्षं समन्तादवलोक्य ।)
अहो, परां कोटिमधिरोहति प्रमोदः पौराणाम् ।
तथा हि ।
कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरैर्हेमालङ्कारभाभिर्भरनमितशिखैः शेखरैः कैङ्किरातैः ।
एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥१०॥
अपि च ।
धारायन्त्रविमुक्तसन्ततपयःपूरप्लुते सर्वतः सद्यः सान्द्रविमर्दकर्दमकृतक्रीडे क्षणं प्राङ्गणे ।
उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः सैन्दूरीक्रियते जनेन चरणन्यासैः पुरः कुट्टिमम् ॥११॥
विदूषकः - (विलोक्य ।)
एदं पि दाव सुविअद्धजणापूरिदसिङ्गकजलप्पहारमुक्कसिक्कारमणोहरं वारविलासिणीजणविलसिदं आलोएदु पिअवअस्सो ।
राजा - (विलोक्य ।)
वयस्य, सम्यग् दृष्टं त्वया ।
अस्मिन्प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ्मणिविभूषणरश्मिजालैः ।
पातालमुद्यतफणाकृतिशृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः ॥१२॥
विदूषकः - (विलोक्य ।)
भो वअस्स, पेक्ख पेक्ख ।
एसा क्खु मअणिआ मअणवसविसण्ठुलं वसन्ताभिणअं णच्चन्ती चूदलदिआए सह इदोज्जेव्व आअच्छदि ।
(ततः प्रविशतो मदनलीलां नाटयन्त्यौ द्विपदीखण्डं गायन्त्यौ चेट्यौ ।)
चेट्यौ - कुसुमाउहपिअदूअओ मौलाइअबहुचूअओ ।
सिढिलिअमाणग्गहणओ वाऐ दाहिणपवणओ ॥१३॥
विरहविवढ्ढिअसोअओ कङ्क्खिअपिअअणमेलओ ।
पडिवालणअसमत्थओ तम्मै जुअईसत्थओ ॥१४॥
इह पढमं महुमासो जणस्स हिअआइं कुणै मौआइं ।
पच्छा विज्झै कामो लद्धप्पसरेहिं कुसुमबाणेहिं ॥१५॥
राजा - (निर्वर्ण्य ।)
अहो, मधुरोऽयमासां निर्भरः क्रीडारसः ।
तथा हि ।
स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ ।
व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥१६॥
विदूषकः - भो वअस्स, अहं पि एदाणं बद्धपरिअराणं मज्झे णच्चन्तो मअणमहूसवं माणैस्सं ।
राजा - (सस्मितम् ।)
वयस्य, एवं क्रियताम् ।
विदूषकः - जं भवं आणवेदि ।
(इत्युत्थाय चेट्योर्मध्ये नृत्यति ।)
भोदि मअणिए, भोदि चूदलदिए, मं पि एदं चच्चरिअं सिक्खावेध ।
मदनिका - (विहस्य ।)
अरे हदास, ण एसा चच्चरी ।
विदूषकः - ता किं खु एदं ।
भदनिका - हदास, दुवदीखण्डं खु एदं ।
विदूषकः - (सहर्षम् ।)
किं एदिणा खण्डेण मोदआ करीअन्ति ।
भदनिका - (विहस्य ।)
णहि णहि ।
पढीअदिक्खु एदं ।
विदूषकः - (सविषादम् ।)
जै पढीअदि ता अलं एदिणा ।
वरं पिअवअस्सस्सज्जेव्व सआसं गमिस्सं ।
(इति गन्तुमुद्यतः ।)
उभे - (हस्ते गृहीत्वा ।)
हदास, कहिं गच्छसि ।
इधज्जेव्व कीलम्ह ।
(इति विदूषकं बहुविधमाकर्षतः ।)
विदूषकः - (हस्तमाकृष्य प्रपलाय्य राजानमुपसृत्य ।)
वअस्स, णच्चिदोम्हि ।
णहि णहि कीलिअ पलाइदोम्हि ।
राजा - साधु कृतम् ।
चूतलतिका - हञ्जे मअणिए, चिरं खु अम्हेहिं कीलिदं ।
ता एहि ।
णिवेदेम्ह दाव भट्टिणीए सन्देसं महाराअस्स ।
मदनिका - चूदलदिए सुट्ठुक्खु तुए सुमरिदं एदं ।
एव्वं करेम्ह ।
उभे - (परिक्रम्योपसृत्य च ।)
जेदु जेदु भट्टा ।
भट्टा, देवी आणवेदि (इत्यर्धोक्ते लज्जां नाटयन्त्यौ ।)
णहि णहि ।
विण्णवेदि ।
राजा - (सहर्षं विहस्य सादरम् ।)
मदनिके, नन्वाज्ञापयतीत्येव रमणीयम् ।
विशेषतोऽद्य मदनमहोत्सवे ।
तत्कथय किमाज्ञापयति देवी ।
विदूषकः - आः दासीए धीए, किं देवी आणवेदि ।
चेट्यौ - एव्वं भट्टिणी विण्णवेदि ।
जधा क्खु अज्ज मए मअरन्दुज्जाणं गदुअ रत्तासोअपाअवदलसण्ठ्ठाविदस्स भअवदो कुसुमाउहस्स पूआ णिव्वत्तैदव्वा ।
तहिं अज्जौत्तेण सण्णिहिदेण होदव्वन्त्ति ।
राजा - (सानन्दम् ।)
वयस्य ननु वक्तव्यमुत्सवादुत्सवान्तरमापतितमिति ।
विदूषकः - भो वअस्स, ता उट्ठेहि ।
तहिं जेव्व गच्छम्ह जेण तहिं गदस्स मम वि बम्हणबालअस्स सोत्थिवाअणं किम्पि भविस्सदि ।
राजा - मदनिके, गम्यतां देव्यै निवेदयितुम् ।
अयमहमागत एव मकरन्दोद्यानमिति ।
चेट्यौ - जं भट्टा आणवेदि ।
(इति निष्क्रान्ते ।)
राजा - वयस्य एहि ।
अवतरावः ।
(इत्युभौ प्रासादावतरणं नाटयतः ।)
वयस्य, आदेशय मकरन्दोद्यानस्य मार्गम् ।
विदूषकः - एदु एदु भवं ।
(इति परिक्रामतः ।)
विदूषकः - (अग्रतोऽवलोक्य ।)
भो एदं मअरन्दुज्जाणं ।
ता एहि ।
पविसह्म ।
(इति प्रविशतः ।)
विदूषकः - (दृष्ट्वा ।
सविस्मयम् ।)
भो वअस्स, पेक्ख पेक्ख ।
एदं तं मलअमारुदान्दोलिदमौलन्तसहआरमञ्जरीरेणुपडलपडिबद्धपडविदाणं मत्तमहुअरणिअरमुक्कझङ्कारमिलिदमहुरकोइलालावसङ्गीदसुहावहं तुह आगमणदंसिदाअरं विअ मअरन्दुज्जाणं लक्खीअदि ।
ता अवलोएदु पिअवअस्सो ।
राजा - (समन्तादवलोक्य ।)
अहो रम्यता मकरन्दोद्यानस्य ।
इह हि उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृङ्गालीविरुतैः कलैरविशदव्याहारलीलाभृतः ।
घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहुर्भ्रान्तिं प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमाः ॥१७॥
अपि च ।
मूले गण्डूषसेकासव इव बकुलैर्वास्यते पुष्पवृष्ट्या मध्वाताम्रे तरुण्या मुखशशिनि चिराच्चम्पकान्यद्य भान्ति ।
आकर्ण्याशोकपादाहतिषु च रसितं निर्भरं नूपुराणां झङ्कारस्यानुगीतैरनुकरणमिवारभ्यते भृङ्गसार्थैः ॥१८॥
विदूषकः - (आकर्ण्य ।)
भो वअस्स, ण एदे महुअरा णेउरसद्दं अणुहरन्ति ।
णेउरसद्दोज्जेव्व एसो देवीए परिअणस्स ।
राजा - वयस्य, सम्यगवधारितम् ।
(ततः प्रविशति वासवदत्ता, काञ्चनमाला, गृहीतपूजोपकरणा सागरिका, विभवतश्च परिवारः ।)
वासवदत्ता - हञ्जे कञ्चणमाले, आदेसेहि मअरन्दुज्जाणस्स मग्गं ।
काञ्चनमाला - एदु एदु भट्टिणी ।
वासवदत्ता - (परिक्रम्य ।)
हञ्जे कञ्चणमाले, अध केत्तिअदूरे दाणिं सो रत्तासोअपाअवो जहिं मए भअवदो कुसुमाउहस्स पूआ णिव्वत्तैदव्वा ।
काञ्चनमाला - भट्टिणि, आसण्णोज्जेव्व ।
किं ण पेक्खदि भट्टिणी ।
इअं खु सा णिरन्तरुब्भिण्णकुसुमसोहिणी भट्टिणीए परिग्गहिदा माहवी लदा ।
एसा विक्खु अवरा णोमालिआ लदा जाए अआलकुसुमसमुग्गमसद्धालुणा भट्टिणा अणुदिणं आआसीअदि अप्पा ।
ता एदं अदिक्कमिअ दीसदिज्जेव्व सो रत्तासोअपाअवो जहिं देवी पूअं णिव्वत्तैस्सदि ।
वासवदत्ता - ता एहि ।
तहिञ्ज्जेव्व लहुं गच्छम्ह ।
काञ्चनमाला - एदु एदु भट्टिणी ।
(सर्वाः परिक्रामन्ति ।)
वासवदत्ता - अअं सो रत्तासोअपाअवो जहिं अहं पूअं णिव्वत्तैस्सं ।
तेण हि मे पूआणिमित्ताइं उवअरणाइं उवणेहि ।
सागरिका - (उपसृत्य ।)
भट्टिणि, एदं सव्वं सज्जं ।
वासवदत्ता - (निरूप्यात्मगतम् ।)
अहो पमादो परिअणस्स ।
जस्स दंसणपधादो पअत्तेण रक्खीअदि तस्सज्जेव्व दिट्ठिगोअरे पडिदा भवे ।
भोदु एव्वं दाव भणिस्सं ।
(प्रकाशम् ।)
हञ्जे साअरिए, कीस तुमं अज्ज मअणमहूसवपरिहीणे परिअणे सारिअं उज्झिअ इध आअदा ।
ता तहिं जेव्व लहुं गच्छ ।
एदं पि सव्वं पूओवअरणं कञ्चणमालाए हत्थे समप्पेहि ।
सागरिका - जं भट्टिणी आणवेदि ।
(तथा कृत्वा कतिचित्पदानि गत्वात्मगतम् ।)
सारिआ उण मए सुसङ्गदाए हत्थे समप्पिदा ।
एदं पि अत्थि मे पेक्खिदुं कोदूहलं, किं जधा तादस्स अन्तेउरे भअवं अणङ्गो अच्चीअदि, इध वि तहज्जेव्व आदु अण्णहत्ति ।
ता अलक्खिदा भविअ पेक्खिस्सं ।
(परिक्रम्यावलोक्य च ।)
ता जाव इध पूआसमओ होदि ताव अहं पि भअवन्तं मअणं जेव्व पूइदुं कुसुमाइं अवचिणिस्सं ।
(इति कुसुमावचयं नाटयति ।)
वासवदत्ता - कञ्चणमाले, पडिट्ठावेहि असोअमूले भअवन्तं पज्जुण्णं ।
काञ्चनमाला - जं भट्टिणी आणवेदि ।
(इति तथा करोति ।)
विदूषकः - (परिक्रम्यावलोक्य च ।)
भो वअस्स, जधा वीसन्तो णेउरसद्दो तधा तक्केमि आअदा देवी असोअमूलन्त्ति ।
राजा - वयस्य, सम्यगवधारितम् ।
पश्येयं देवी ।
या किलैषा कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम् ।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥१९॥
तदेहि ।
उपसर्पावः ।
(उपसृत्य ।)
प्रिये वासवदत्ते ।
वासवदत्ता - (विलोक्य ।)
कधं अज्जौत्तो ।
जअदु जअदु अज्जौत्तो ।
अलङ्करेदु इमं देसं आसणपडिग्गहेण ।
एदं आसणं ।
एत्थ उवविसदु अज्जौत्तो ।
(राजा नाट्येनोपविशति ।)
काञ्चनमाला - भट्टिणि, सहत्थदिण्णेहिं कुसुमकुङ्कुमचन्दणथासएहिं सोहिदं कदुअ रत्तासोअपाअवं अच्चीअदु भअवं पज्जुण्णो ।
वासवदत्ता - उवणेहि मे पूओवअरणाइं ।
(काञ्चनमालोपनयति ।
वासवदत्ता तथा करोति ।)
राजा - प्रिये वासवदत्ते, प्रत्यग्रमज्जनविशेषविविक्तकान्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता ।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपिप्रभवा लतेव ॥२०॥
अपि च ।
स्पृष्टस्त्वयैष दयिते स्मरपूजाव्यापृतेन हस्तेन ।
उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥२१॥
अपि च ।
अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम् ।
यदनेन न सम्प्राप्तः पाणिस्पर्शोत्सवस्तव ॥२२॥
काञ्चनमाला - भट्टिणि, अच्चिदो भअवं पज्जुण्णो ।
ता करेहि भट्टिणो उइदं पूआसक्कारं ।
वासवदत्ता - तेण हि उवणेहि मे कुसुमाइं विलेवणं च ।
काञ्चनमाला - भट्टिणि, एदं सव्वं सज्जं ।
(वासवदत्ता नाट्येन राजानं पूजयति ।)
सागरिका - (गृहीतकुसुमा ।)
हद्धी हद्धी ।
कधं कुसुमलोहाक्खित्तहिअआए मए अदिचिरं किदं ।
ता इमिणा सिन्दुवारविडवेण ओवारिअसरीरा भविअ पेक्खिस्सं ।
(विलोक्य सविस्मयम् ।)
कधं पच्चक्खोज्जेव्व भअवं कसुमाउहो पूअं पडिच्छदि ।
ता अहं पि इमेहिं कुसुमेहिं इधट्ठिदज्जेव्व भअवन्तं कुसुमाउहं पूऐस्सं ।
(इति कुसुमानि प्रक्षिपति ।)
णमो दे भअवं कुसुमाउह, अमोघदंसणो मे भविस्ससि ।
दिट्ठं जं दट्ठव्वम् ।
(इति प्रणमति ।)
अच्छरीअं ।
दिट्ठो वि पुणो पेक्खिदव्वो ।
ता जाव ण को वि मं पेक्खदि दाव ज्जेव्व गमिस्सं ।
(इति कतिचित्पदानि गच्छति ।)
काञ्चनमाला - अज्ज वसन्तअ, एहि ।
सम्पदं तुमं पि सोत्थिवाअणं पडिच्छ ।
(विदूषक उपसर्पति ।)
वासवदत्ता - (विलेपनकुसुमाभरणदानपूर्वकम् ।)
अज्ज, एदं सोत्थिवाअणं ।
(इत्यर्पयति ।)
विदूषकः - (सहर्षं गृहीत्वा ।)
सोत्थि भोदीए ।
(नेपथ्ये वैतालिकः पठति ।)
अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवावास्थानीं समये समं नृपजनः सायन्तने सम्पतन् ।
सम्प्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥२३॥
सागरिका - (श्रुत्वा सहर्षं परिवृत्य राजानं दृष्ट्वा सस्पृहम् ।)
कधं अअं सो राआ उदअणो जस्स अहं तादेण दिण्णा ।
(दीर्घं निश्वस्य ।)
ता परपेसणदूसिदं वि मे सरीरं एदस्स दंसणेण अज्ज बहुमदं संवुत्तं ।
राजा - कथमुत्सवापहृतचेतोभिः सन्ध्यातिक्रमोऽप्यस्माभिर्नोपलक्षितः ।
देवि, पश्य ।
उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥२४॥
देवि तदुत्तिष्ठावः ।
आवासाभ्यन्तरमेव प्रविशावः ।
(सर्व उत्थाय परिक्रामन्ति ।)
सागरिका - कधं पट्ठिदा देवी ।
भोदु ।
ता अहं वि तुरिदं गमिस्सं ।
(राजानं सस्पृहं दृष्ट्वा निश्वस्य च ।)
हद्धी हद्धी ।
मए मन्दभाइणीए पेक्खिदुं वि चिरं ण पारिदो अअं जणो ।
(इति निष्क्रान्ता ।)
राजा - (परिक्रामन् ।)
देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् ।
श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेषु शनकैः सञ्जातलज्जा इव ॥२५॥
(इति निष्क्रान्ताः सर्वे ।)
इति मदनमहोत्सवो नाम प्रथमोऽङ्कः ।
द्वितीयोऽङ्कः ।
(ततः प्रविशति सारिकापञ्जरव्यग्रहस्ता सुसङ्गता ।)
सुसङ्गता - हद्धी हद्धी ।
अध कहिं दाणिं मम हत्थे इमं सारिअं णिक्खिविअ गदा मे पिअसही साअरिआ भविस्सदि ।
(अन्यतो दृष्ट्वा ।)
एसा क्खु णिउणिआ इधज्जेव्व आअच्छदि ।
ता जाव एदं पुच्छिस्सं ।
(ततः प्रविशति निपुणिका ।)
निपुणिका - उअलद्धो क्खु मए भट्टिणो वुत्तन्तो ।
ता जाव गदुअ भट्टिणीए णिवेदेमि ।
(इति परिक्रामति ।)
सुसङ्गता - हला णिउणिए, तुमं कहिं दाणिं विम्हआक्खित्तहिअआ विअ इधट्ठिदं मं अवहीरिअ कुदो अदिक्कामसि ।
निपुणिका - कधं सुसङ्गदा ।
हला सुसङ्गदे, सुट्ठु तुए जाणिदं ।
एदं क्खु विम्हअस्स कारणं ।
अज्ज किल भट्टा सिरिपव्वदादो आअदस्स सिरिखण्डदासणामहेअस्स धम्मिअस्स सआसादो अआलकुसुमसञ्जणणदोहलं सिक्खिअ अत्तणो परिग्गहिदं णोमालिअं कुसुमसमिद्धिसोहिअं करिस्सदि त्ति एदं वुत्तन्तं जाणिदुं देवीए पेसिदह्मि ।
तुमं उण कहिं पट्ठिदा ।
सुसङ्गता - पिअसहिं साअरिअं अण्णेसिदुं ।
निपुणिका - दिट्ठा मए दे पिअसही साअरिआ गहिदसमुग्गअचित्तफलअवट्टिआ समुव्विग्गा विअ कअलीघरं पविसन्ती ।
ता गच्छ पिअसहिं ।
अहं वि देवीसआसं गमिस्सं ।
(इति निष्क्रान्ते ।)
इति प्रवेशकः ।
(ततः प्रविशति गृहीतचित्रफलकवर्तिका मदनावस्थां नाटयन्ती सागरिका ।)
सागरिका - (निःश्वस्य ।)
हिअअ, पसीद पसीद ।
किं इमिणा आआसमेत्तफलएण दुल्लहजणप्पत्थणाणुबन्धेण ।
अण्णं च ।
जेणज्जेव्व दिट्ठेण ईदिसो सन्दावो णं वड्ढदि पुणो वि तं जेव्व पेक्खिदुं अहिलससित्ति अहो दे मूढदा ।
ऐ णिसंस हिअअ, जम्मदो पहुदि सह संव्वड्ढिदं इमं जणं परिच्चैअ क्खणमेत्तदंसणपरिचिदं जणं अणुगच्छन्तो ण लज्जेसि ।
अधवा को तुह दोसो ।
अनङ्गसरपडणभीदेण तुए एव्वं अज्झवसिदं ।
भोदु ।
अणङ्गं दाव उवालहिस्सं ।
(सास्रम् ।)
भअवं कुसुमाउह, णिज्जिदसअलसुरासुरो भविअ इत्थिआजणं पहरन्तो कधं ण लज्जेसि ।
(विचिन्त्य ।)
अहवा अणङ्गो सि ।
सव्वधा मम मन्दभाइणीए इमिणा दुण्णिमित्तेण अवस्सं मरणं उवट्ठिदं ।
(फलकमवलोक्य ।)
ता जाव इध को वि ण आअच्छदि दाव आलेक्खसमप्पिदं तं अहिमदं जणं पेक्खिअ जधासमीहिदं करिस्सं ।
(सावष्टम्भमेकमना भूत्वा नाट्येन फलकं गृहीत्वा निःश्वस्य ।)
जै वि अदिसद्धसेण वेवदि अअं अदिमेत्तं मे अग्गहत्थो तधावि तस्स जणस्स अण्णो दंसणोवाओ णत्थित्ति जधातधा आलिहिअ णं पेक्खिस्सं ।
(इति नाट्येन लिखति ।)
(ततः प्रविशति सुसङ्गता ।)
सुसङ्गता - एदं क्खु कअलीघरं ।
ता जाव पविसामि ।
(प्रविश्यावलोक्य च सविस्मयम् ।)
एसा मे पिअसही साअरिआ ।
किं उण एसा गरुआणुराआक्खित्तहिअआ किं पि आलिहन्ती ण मं पेक्खदि ।
भोदु ।
ता जाव दिट्ठिपधं से परिहरिअ णिरूवैस्सं ।
(स्वैरं पृष्ठतोऽस्याः स्थित्वा दृष्ट्वा च सहर्षम् ।)
कधं भट्टा आलिहिदो ।
साहु साअरिए साहु ।
अधवा ण कमलाअरं वज्जिअ राअहंसी अण्णस्सिं अहिरमदि ।
सागरिका - (सबाष्पम् ।)
आलिहिदो मए एसो ।
किं उण णिवडन्तबाहसलिला मे दिट्ठी पेक्खिदुं ण प्पहवदि ।
(मुखमुत्तानीकृत्याश्रूणि संहरन्ती सुसङ्गतां दृष्ट्वोत्तरीयेण फलकं प्रच्छादयन्ती स्मितं कृत्वा ।)
कधं पिअसही सुसङ्गदा ।
सहि सुसङ्गदे, इदो उवविस ।
सुसङ्गता - (उपविश्य बलात्फलकमाकृष्य दृष्ट्वा च ।)
सहि, को एसो तुए आलिहिदो ।
सागरिका - (सलज्जम् ।)
पौत्तमहूसवो भअवं अणङ्गो ।
सुसङ्गता - (सस्मितम् ।)
अहो दे णिउणत्तणं ।
किं उण सुण्णं विअ चित्तं पडिभादि ।
ता अहं पि आलिहिअ रदिसणाधं करिस्सं ।
(वर्तिकां गृहीत्वा नाट्येन रतिव्यपदेशेन सागरिकामालिखति ।)
सागरिका - (विलोक्य सक्रोधम् ।)
सहि, कीस तुए एत्थ अहं आलिहिदा ।
सुसङ्गता - (विहस्य ।)
सहि, किं अआरणे कुप्पसि ।
जादिसो तुए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा ।
ता अण्णधासम्भाविणि, किं तुह एदिणा आलविदेण ।
कधेहि सव्वं वुत्तन्तं ।
सागरिका - (सलज्जा स्वगतम् ।)
णं जाणिदह्मि पिअसहीए ।
(प्रकाशम् ।)
पिअसहि, महदी क्खु मे लज्जा ।
ता तधा करेसु जधा ण को वि अवरो एदं वुत्तन्तं जाणादि त्ति ।
सुसङ्गता - सहि, मा लज्ज ।
ईदिसस्स कण्णारअणस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं ।
तधा वि जधा ण को वि अवरो एदं वुत्तन्तं जाणिस्सदि तधा करेमि ।
एदाए उण मेधाविणीए सारिआए एत्थ कारणेण होदव्वं ।
कदावि एसा इमस्स आलावस्स गहिदक्खरा कस्स वि पुरदो मन्तैस्सदि त्ति ।
सागरिका - सहि, अदो वि मे अधिअदरं सन्दावो वट्टदि ।
(इति मदनावस्थां नाटयति ।)
सुसङ्गता - (सागरिकाया हृदये हस्तं दत्वा ।)
सहि, समस्सस समस्सस ।
जाव इमाए दिग्घिआए णलिणीवत्ताइं मुणालिआओ अ गेण्हिअ लहुं आअच्छामि ।
(निष्क्रम्य पुनः प्रविश्य च नाट्येन नलिनीपत्रैः शयनीयं मृणालैर्वलयानि च रचयित्वा परिशिष्टानि नलिनीपत्राणि सागरिकाया हृदये निक्षिपति ।)
सागरिका - सहि, अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ ।
अलं एदिणा ।
कीस अआरणे अत्ताणं आआसेसि ।
णं भणामि ।
दुल्लहजणअणुराओ लज्जा गरुई परव्वसो अप्पा ।
पिअसहि विसमं प्पेम्मं मरणं सरणं णवरमेक्कं ॥१॥
(इति मूर्च्छति ।)
सुसङ्गता - (सकरुणम् ।)
पिअसहि साअरिए, समस्सस समस्सस ।
(नेपथ्ये कलकलः ।)
कण्ठे कृत्वावशेषं कनकमयमधः शृङ्खलादाम कर्षन्क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः ।
दत्तातङ्कोऽङ्गनानामनुसृतसरणिः सम्भ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥२॥
अपि च ।
नष्टं वर्षधरैर्मनुष्यगणनाभावादपास्य त्रपामन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥३॥
सुसङ्गता - (आकर्ण्याग्रतोऽवलोक्य ससम्भ्रममुत्थाय सागरिकां हस्ते गृहीत्वा ।)
सहि, उठ्ठेहि उठ्ठेहि ।
एसो क्खु दुठ्ठवानरो इदोज्जेव्व आअच्छदि ।
सागरिका - किं दाणिं करेम्ह ।
सुसङ्गता - एहि ।
इमस्सिं तमालविडवन्धआरे पविसिअ एदं अदिवाहेम्ह ।
(परिक्रम्योभे सभयं पश्यन्त्यावेकान्ते पर्यवस्थिते ।)
सागरिका - सुसङ्गदे, कधं तुए चित्तफलओ उज्झिदो ।
कदावि को वि तं पेक्खदि ।
सुसङ्गता - ऐ सुठ्ठिदे, किं अज्ज वि चित्तफलएण करिस्ससि ।
एसो दधिभत्तलम्पडो एदं पञ्जरं उग्घाडिअ दुठ्ठवाणरो अदिक्कन्तो ।
एसक्खु मेहाविणी उड्डीणा अण्णदो गच्छदि ।
ता एहि ।
लहुं अणुसरेम्ह ।
इमस्स आलावस्स गहिदक्खरा कस्स वि पुरदो मन्तैस्सदि ।
सागरिका - सहि, एव्वं करेम्ह ।
(इति परिक्रामतः ।)
(नेपथ्ये ।)
ही ही अच्छरीअं अच्छरीअं ।
सागरिका - (विलोक्य सभयम् ।)
सुसङ्गदे, जाणीअदि पुणो वि दुठ्ठवाणरोज्जेव्व आअच्छदि त्ति ।
सुसङ्गता - (दृष्ट्वा विहस्य ।)
ऐ कादरे, मा भाआहि ।
भट्टिणो परिवासवत्तिक्खु एसो अज्जवसन्तओ ।
(ततः प्रविशति वसन्तकः ।)
वसन्तकः - ही ही अच्छरीअं अच्छरीअं ।
साहु रे सिरिखण्डदास धम्मिअ, साहु ।
(सस्पृहमवलोकयति ।)
सुसङ्गता - सहि, किं एदिणा दिठ्ठेण ।
दूरीभूदा क्खु सारिआ ।
ता एहि ।
अणुसरेम्ह ।
(इति निष्क्रान्ते ।)
वसन्तकः - साहु रे सिरिखण्डदास, धम्मिअ, साहु ।
जेण दिण्णमेत्तेणज्जेव्व तेण दोहलएण ईदिसी णोमालिआ संवुत्ता जेण णिरन्तरुब्भिण्णकुसुमगुच्छच्छादिदविडवा उवहसन्ती विअ लक्खीअदि देवीपरिगहिदं माहवीलदं ।
ता जाव गदुअ पिअवअस्सस्स णिवेदेमि ।
(परिक्रम्यावलोक्य च ।)
एसोक्खु पिअवअस्सो तस्स दोहलअस्स लद्धप्पच्चअदाए परोक्खं वि तं णोमालिअं पच्चक्खं विअ कुसुमिदं पेक्खन्तो हरिसुप्फुल्ललोअणो इदोज्जेव्व आअच्छदि ।
ता जाव णं उवसप्पामि ।
(इति राजानं प्रति गतः ।)
(ततः प्रविशति यथानिर्दिष्टो राजा ।)
राजा - (सहर्षम् ।)
उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणादायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥४॥
विदूषकः - (सहसोपसृत्य ।)
जअदु जअदु पिअवअस्सो ।
भो वअस्स दिठ्ठिआ वड्ढसि ।
(“जेण दिण्णमेत्तेण” इति पुनः पठति ।)
राजा - वयस्य, कः सन्देहः ।
अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः ।
तदादेशय मार्गम् ।
येन वयमद्य तदवलोकनेन चक्षुषः फलमनुभवामः ।
विदूषकः - (साटोपम् ।)
एदु एदु भवं ।
राजा - गच्छाग्रतः ।
(उभौ परिक्रामतः ।)
विदूषकः - (आकर्ण्य सभयं निवृत्य राजानं हस्ते गृहीत्वा ससम्भ्रमम् ।)
भो वअस्स, एहि ।
पलाअम्ह ।
राजा - किमर्थम् ।
विदूषकः - भो, एदस्सिं बौलपाअवे को वि भूदो पडिवसदि ।
राजा - धिङ्मूर्ख, विस्रब्धं गम्यताम् ।
कुत ईदृशानामत्र सम्भवः ।
विदूषकः - फुडक्खरं जेव्व मन्तेदि ।
जै मम वअणं ण पत्तिआअसि ता अग्गदो भविअ सअं जेव्व आअण्णेहि ।
राजा - (तथा कृत्वा श्रुत्वा च ।)
स्पष्टाक्षरमिदं तावन्मधुरं स्त्रीस्वभावतः ।
अल्पाङ्गत्वादनिर्ह्रादि मन्ये वदति सारिका ॥५॥
(ऊर्ध्वं निरूप्य निपुणमवलोक्य ।)
सारिकैव ।
विदूषकः - (विचार्य ।)
कध ।
सच्चं जेव्व सारिआ ।
राजा - (विहस्य ।)
वयस्य, एवम् ।
विदूषकः - भो वअस्स, तुमं भआलुओ ।
जेण सारिअं भूदेत्ति मन्तेसि ।
राजा - धिङ्मूर्ख, यदात्मना कृतं तन्मयि सम्भावयसि ।
विदूषकः - भो, जै एव्वं मक्खु मं णिवारेसु ।
(सरोषं दण्डकाष्ठमुद्यम्य ।)
आः दासीए धीए, तुमं जाणासि सच्चं जेव्व बम्हणो भाअदित्ति ।
ता चिठ्ठ दाव ।
इमिणा पिसुणजणहिअअकुडिलेण दण्डअठ्ठेण पडिपक्कं विअ कैत्थफलं इमादो बौलपाअवादो आहणिअ तुमं पाडैस्सं ।
(इति हन्तुमुद्यतः ।)
राजा - (निवारयन् ।)
मूर्ख, किमप्येषा रमणीयं व्याहरति ।
तत्किमेनां त्रासयसि ।
शृणुवस्तावत् ।
(उभावाकर्णयतः ।)
विदूषकः - (आकर्ण्य ।)
भो वअस्स, सुदं तुए जं एदाए मन्तिदं ।
एसा भणादि ।
सहि को एसो तुए आलिहिदो ।
सहि, णं पौत्तमहूसवो भअवं अणङ्गो ।
पुणो वि एसा भणादि ।
“सहि, कीस तुए एत्थ अहं आलिहिदा” ।
“सहि किं अआरणे कुप्पसि ।
जादिसो तुए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा” ।
ता अण्णधासम्भाविणि, किं तुह एदिणा आलविदेण ।
कधेहि सव्वं वुत्तन्तं ।
ता भो वअस्स, किं णेदं ।
राजा - वयस्य, एवं तर्कयामि ।
कयापि हृदयवल्लभोऽनुरागादभिलिख्य कामदेवव्यपदेशेन सखीपुरतोऽपह्नुतः ।
तत्सख्यापि प्रत्यभिज्ञाय वैदग्ध्यादसावपि रतिव्यपदेशेन तत्रैवालिखितेति ।
विदूषकः - (छोटिकां दत्त्वा ।)
भो वअस्स, जुज्जदिक्खु एदं ।
राजा - भो वयस्य, तूष्णीं भव ।
पुनरपि व्याहरति ।
तच्छृणुवस्तावत् ।
(उभावपि शृणुतः ।)
विदूषकः - भो वअस्स, एसा भणादि ।
“सहि, मा लज्ज ।
ईदिसस्स कण्णारअणस्स अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं” ।
भो, जा एसा आलिहिदा साक्खु कण्णा दंसणीआ ।
राजा - यद्येवं तदवहितौ शृणुवस्तावत् ।
अस्त्यवकाशो नः कुतूहलस्य ।
विदूषकः - (पुनराकर्ण्य ।)
भो वअस्स, सुदं तुए जं एदाए मन्तिदं ।
“सहि, अदो वि मे अधिअदरं सन्दावो वट्टदि” ।
“सहि, अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ ।
अलं एदिणा ।
कीस अआरणे अत्ताणं आआसेसित्ति ।
राजा - वयस्य, न केवलं श्रुतम् ।
अभिप्रायोऽपि लक्षितः ।
विदूषकः - भो वअस्स, मा पण्डिअगव्वं उव्वह ।
अहं दे एदाए मुहादो सुणिअ सव्वं वक्खाणैस्सं ।
अज्ज वि कुरकुराअदि जेव्व एसा सारिआ दासीए धीआ ।
ता सव्वं सुणिअ वक्खाणैस्सं ।
राजा - युक्तमभिहितम् ।
(पुनराकर्णयतः ।)
विदूषकः - भो वअस्स, एसा क्खु सारिआ दासीए धीआ चदुव्वेदी बम्हणो विअ रिचाइं पढिदुं पौत्ता ।
राजा - वयस्य, कथय ।
किमप्यन्यचेतसा मया नावधारितं किमनयोक्तमिति ।
विदूषकः - भो वअस्स, एव्वं भणादि ।
दुल्लहजणअणुराओ लज्जा गरुई परव्वसो अप्पा ।
पिअसहि विसमं प्पेम्मं मरणं सरणं णवरमेक्कं ॥१॥
राजा - (सस्मितम् ।)
वयस्य, एवंविधं भवन्तं ब्राह्मणं मुक्त्वा कोऽन्य एवंविधानामृचामभिज्ञः ।
विदूषकः - तदो किं णु क्खु एदं ।
राजा - ननु गाथिकेयम् ।
विदूषकः - किं गाधिआ ।
तदो किं कहिअं ।
राजा - वयस्य, कयापि श्लाघ्ययौवनया प्रियतममनासादयन्त्या जीवितनिरपेक्षयोक्तम् ।
विदूषकः - (उच्चैर्विहस्य ।)
किं एदेहिं वक्कभणिदेहिं ।
उजुअं जेव्व किं ण भणासि जधा मं जेव्व अणासादअन्तीएत्ति ।
अण्णधा को अण्णो कुसुमचावव्ववदेसेण णिह्णवीअदि ।
(हस्ततालं दत्वोच्चैर्विहसति ।)
राजा - (ऊर्ध्वमवलोक्य ।)
धिङ्मूर्ख, किमुच्चैर्विहसता त्वयेयमुत्रासिता येनोड्डीयान्यत्र क्वापि गता ।
(इति निरूपयतः ।)
विदूषकः - (विलोक्य ।)
भो वअस्स, एसक्खु कअलीघरं गदा ।
ता एहि ।
अणुसरेम्ह ।
(इति परिक्रामतः ।)
राजा - दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् ।
तद्भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥६॥
विदूषकः - भो वअस्स, एदं क्खु कअलीघरं ।
जाव पविसम्ह ।
(इत्युभौ प्रविशतः ।)
विदूषकः - किं एदाए दासीए धीआए सारिआए ।
इध दाव मन्दमारुदुव्वेलन्तबालकअलीदलसीदले सिलादले उवविसिअ मुहुत्तअं वीसमम्ह ।
राजा - यदभिरुचितं भवते ।
(इत्युपविशतः ।
राजा “दुर्वारां” इत्यादि पठति ।)
विदूषकः - (पार्श्वतोऽवलोक्य ।)
भो वअस्स, एदेण उग्घाडिददुवारेण ताए सारिआए पञ्जरेण होदव्वं ।
राजा - वयस्य, निरूप्यताम् ।
विदूषकः - जं भवं आणवेदि ।
(परिक्रम्यावलोक्य च ।)
एसो वि चित्तफलओ ।
जाव णं गेह्णामि ।
(गृहीत्वा निरूप्य च सहर्षम् ।)
भो वअस्स दिट्ठिआ वड्ढसि ।
राजा - (सकौतुकम् ।)
वयस्य, किमेतत् ।
विदूषकः - भो, एदं तं जं मए भणिदं ।
तुमं जेव्व एत्थ आलिहिदो ।
अण्णधा को अण्णो कुसुमचावव्ववदेसेण णिह्णवीअदि त्ति ।
राजा - (सहर्षं हस्तौ प्रसार्य ।)
सखे, दर्शय दर्शय ।
विदूषकः - ण दे दंसैस्सं ।
सावि कण्णआ इधज्जेव्व आलिहिदा ।
ता किं पारितोसिएण विणा ईदिसं कण्णारअणं दंसीअदि ।
राजा - (कटकमर्पयन्नेव बलाद्गृहीत्वा विलोक्य सविस्मयम् ।)
वयस्य, पश्य ।
लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः ।
मानसमुपैति केयं चित्रगता राजहंसीव ॥७॥
अपि च ।
विधायापूर्वपूर्णेन्दुमस्या मुखमभूद्ध्रुवम् ।
धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥८॥
(ततः प्रविशति सागरिका सुसङ्गता च ।)
सागरिका - सहि सुसङ्गदे, ण समासादिदा अम्हेहिं सारिआ ।
चित्तफलअं वि दाव इमादो कअलीघरादो गेण्हिअ लहुं गच्छम्ह ।
सुसङ्गता - सहि, एव्वं करेम्ह ।
(इत्युपसर्पतः ।)
विदूषकः - भो वअस्स, कीस उण एसा ओणदमुही आलिहिदा ।
सुसङ्गता - (आकर्ण्य ।)
सहि, जधा वसन्तओ मन्तेदि तधा तक्केमि भट्टिणा वि इधज्जेव्व होदव्वं ।
ता कअलीगुम्मन्तरिदाओ भविअ सुणम्ह ।
(इत्युभ आकर्णयतः ।)
राजा - वयस्य, पश्य पश्य ।
(“विधायापूर्वपूर्णेन्दुम्” इत्यादि पुनः पठति ।)
सुसङ्गता - सहि, दिठ्ठिआ वड्ढसि ।
एसो दे वल्लहो तुमञ्ज्जेव्व वण्णेदि ।
सागरिका - (सलज्जम् ।)
सहि, कीस परिहाससीलदाए इमं जणं लहुं करेसि ।
विदूषकः - (राजानं चालयित्वा ।)
णं भणामि ।
कीस एसा ओणदमुही आलिहिदा ।
राजा - वयस्य, ननु सारिकयैव सकलमावेदितम् ।
सुसङ्गता - (विहस्य ।)
सहि, दंसिदं क्खु मेहाविणीए अत्तणो मेहावत्तणं ।
विदूषकः - अवि सुहअदि लोअणाइं ण वेत्ति सा ।
सागरिका - (ससाध्वसं स्वतगम् ।)
किं एसो भणिस्सदि त्ति जं सच्चं मरणजीविदाणं अन्तरे वट्टामि ।
राजा - वयस्य, किमुच्यते सुखयतीति ।
कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निष्पन्दतामागता ।
मद्दृष्टिस्तृषितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥९॥
सुसङ्गता - सहि, सुदं तुए ।
सागरिका - (विहस्य ।)
तुमं जेव्व सुणु ।
जाए आलेक्खविण्णाणं वण्णीअदि ।
विदूषकः - (फलकं निर्वर्ण्य ।)
भो वअस्स, जस्स उण ईदिसीओ वि एव्वं पिअसमागमं बहु मण्णन्ति तस्स दे अत्तणो उवरि को परिहवो ।
जेण एत्थ जेव्व ताए आलिहिदं अत्ताणअं ण पेक्खसि ।
राजा - (निर्वर्ण्य ।)
वयस्य, अनया लिखितोऽहमिति यत्सत्यमात्मन्येव बहुमानः ।
तत्कथं न पश्यामि ।
पश्य ।
भाति पतितो लिखन्त्यास्तस्या बाष्पाम्बुसीकरकणौघः ।
स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि ॥१०॥
सागरिका - (श्रुत्वा स्वगतम् ।)
हिअअ, समस्सस समस्सस ।
मणोरधो वि दे दाणिं एत्तिअं भूमिं ण गदो ।
सुसङ्गता - सहि तुमं जेव्व एक्का सलाहणीआ जाए भट्टा एव्वं सन्दोसीअदि ।
विदूषकः - (पार्श्वतोऽवलोक्य ।)
एदं अवरं सरसकमलिणीदलमुणालविरैदं ताए मअणावत्थासूअअं सअणीअं लक्खीअदि ।
राजा - वयस्य, निपुणमभिलक्षितम् ।
तथा हि ।
परिम्लानं पीनस्तनजघनसङ्गादुभयतस्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति नलिनीपत्रशयनम् ॥११॥
अपि च ।
स्थितमुरसि विशालं पद्मिनीपत्रमेतत्कथयति न तथान्तर्मन्मथोत्थामवस्थाम् ।
अतिशयपरितापम्लापिताङ्ग्या यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥१२॥
विदूषकः - (नाट्येन मृणालिकां गृहीत्वा ।)
भो वअस्स, अअं क्खु उवलद्धो अवरो ताएज्जेव्व पीणत्थणकिलिस्सन्तकोमलमुणालहरो ।
ता पेक्खदु भवं ।
राजा - (गृहीत्वोरसि विन्यस्य ।)
अयि जडप्रकृते, परिच्युतस्तत्कुचकुम्भमध्यात्किं शोषमायासि मृणालहार ।
न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः कथं स्यात् ॥१३॥
सुसङ्गता - (आत्मगतम् ।)
हद्धी ।
गरुआणुराआक्खित्तहिअओ भट्टा असम्बद्धं मन्तिदुं पौत्तो ।
ता अदो अवरं उण ण जुत्तं उवेक्खिदुं दाव ।
भोदु एव्वं दाव ।
(प्रकाशम् ।)
सहि, जस्स किदे तुमं आअदा सो अअं दे पुरदो चिठ्ठदि ।
सागरिका - (सासूयम् ।)
सहि, कस्स किदे अहं आअदा ।
सुसङ्गता - (विहस्य ।)
ऐ अण्णसङ्किदे, णं चित्तफलअस्स ।
ता गेण्ह एदं ।
सागरिका - (सरोषम् ।)
औसलम्हि तुह ईदिसाणं आलावाणं ।
ता अण्णदो गमिस्सं ।
(इति गन्तुमिच्छति ।)
सुसङ्गता - (सागरिकां गृहीत्वा ।)
ऐ असहणे, इध दाव मुहुत्तअं चिट्ठ ।
जाव इमादो कअलीघरादो चित्तफलअं गेण्हिअ आअच्छामि ।
(सुसङ्गता कदलीगृहाभिमुखं परिक्रामति ।)
विदूषकः - (सुसङ्गतां दृष्ट्वा ससम्भ्रमम् ।)
भो वअस्स, पच्छादेहि एदं चित्तफलअं ।
एसा क्खु देवीए परिचारिआ सुसङ्गदा आअदा ।
(राजा पटान्तेन फलकमाच्छादयति ।)
सुसङ्गता - (उपसृत्य ।)
जअदु जअदु भट्टा ।
(सुसङ्गतोपविशति ।)
राजा - सुसङ्गते, कथमिहस्थोऽहं भवत्या ज्ञातः ।
सुसङ्गता - (विहस्य ।)
ण केवलं देवो ।
चित्तफलएण सह सव्वो वुत्तन्तोवि मए विण्णादो ।
ता देवीए गदुअ णिवेदैस्सं ।
(इति गन्तुमिच्छति ।)
विदूषकः - (अपवार्य सभयम् ।)
भो वअस्स सव्वं सम्भावीअदि ।
मुहरा क्खु एसा गब्भदासी ।
ता परितोसेहि णं ।
राजा - युक्तमुक्तं भवता ।
(सुसङ्गतां हस्ते गृहीत्वा ।)
सुसङ्गते, क्रीडामात्रमेतत् ।
अकारणे त्वया देवी न व्यथयितव्या ।
इदं ते पारितोषिकम् ।
(इति कर्णाभरणं समर्पयति ।)
सुसङ्गता - (प्रणम्य सस्मितम् ।)
अलं सङ्काए ।
मएवि भट्टिणो पसादेण कीलिदं जेव्व ।
ता किं कण्णाहरणएण ।
एसोज्जेव्व मे गरुओ पसाओ जं कीस तुए अहं एत्थ चित्तफलए आलिहिदत्ति कुविदा मे पिअसही साअरिआ ।
ता एसज्जेव्व पसादीअदु ।
राजा - (ससम्भ्रममुत्थाय ।)
क्वासौ क्वासौ ।
सुसङ्गता - एदु एदु भट्टा ।
(सर्व उत्तिष्ठन्ति ।)
विदूषकः - भो ।
अहं गेण्हामि चित्तफलअं ।
कदावि एदिणा पुणो वि कज्जं भविस्सदि ।
(सर्वे कदलीगृहान्निष्क्रामन्ति ।)
सागरिका - (राजानं दृष्ट्वा सहर्षं ससाध्वसं सकम्पं च स्वगतम् ।)
एदं पेक्खिअ अदिसद्धसेण ण सक्कणोमि पदादो पदं वि गन्तुं ।
ता किं दाणिं एत्थ करिस्सं ।
विदूषकः - (सागरिकां दृष्ट्वा ।)
ही ही भो, अच्छरीअं अच्छरीअं ।
ईदिसं पि णाम कण्णआरअणं मणुस्सलोए दीसदि ।
ता तक्केमि पआवदिणो वि एदं णिम्मिअ विम्हओ समुप्पण्णो त्ति ।
राजा - वयस्य, ममाप्येवं मनसि वर्तते ।
दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चतुर्भिरपि साधु साध्विति मुखैः समं व्याहृतम् ।
शिरांसि चलितानि विस्मयवशाद्ध्रुवं वेधसो विधाय ललनां जगत्त्रयललामभूतामिमाम् ॥१४॥
सागरिका - (सासूयं सुसङ्गतामालोक्य ।)
सहि, ईदिसो चित्तफलओ तुए आणीदो ।
(इति गन्तुमिच्छति ।)
राजा - दृष्टिं रुषा क्षिपसि भामिनि यद्यपीमां स्निग्धेयमेष्यति तथापि न रूक्षभावम् ।
त्यक्त्वा त्वरां व्रज पदैः स्खलितैरयं ते खेदं गमिष्यति गुरुर्नितरां नितम्बः ॥१५॥
सुसङ्गता - भट्टा, अदिकोवणा क्खु एसा ।
ता हत्थे गेह्णिअ पसादेहि णं ।
राजा - (सानन्दम् ।)
यथाह भवती ।
(सागरिकां हस्ते गृहीत्वा स्पर्शसुखं नाटयति ।)
विदूषकः - भो, एसा क्खु तुए अपुव्वा सिरी समासादिदा ।
राजा - वयस्य, सत्यम् ।
श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवम् ॥१६॥
सुसङ्गता - सहि, अदक्खिणा सि दाणिं तुमं ।
जा एव्वं भट्टिणा हत्थे अवलम्बिदा अज्ज वि कोवं ण मुञ्चेसि ।
सागरिका - (सभ्रूभङ्गम् ।)
ऐ सुसङ्गदे, अज्ज वि ण विरमेसि ।
राजा - अयि प्रसीद न खलु सखीजने युक्तमेवंविधं कोपानुबन्धं कर्तुम् ।
विदूषकः - भोदि, बुभुक्खिदो बम्हणो विअ किं कुप्पसि ।
सागरिका - सहि, तुए सह ण बोलैस्सं ।
राजा - अयि कोपने, नैतद्युक्तं समानप्रतिपत्तिषु सखीषु ।
विदूषकः - एसा क्खु अवरा देवी वासवदत्ता ।
(राजा सचकितं सागरिकाया हस्तं मुञ्चति ।)
सागरिका - (ससम्भ्रमम् ।)
सुसङ्गदे, किं दाणिं एत्थ करिस्सं ।
सुसङ्गता - सहि एदाए तमालवीधिआए अन्तरिदाओ भविअ णिक्कमम्ह ।
(इति निष्क्रान्ते ।)
राजा - (पार्श्वतोऽवलोक्य सविस्मयम् ।)
क्वासौ देवी वासवदत्ता ।
विदूषकः - भो, ण जाणामि क्व सा ।
मए एसा क्खु अवरा देवी वासवदत्ता अदिदीहरोसदाए त्ति भणिदं ।
राजा - धिङ्मूर्ख, प्राप्ता कथमपि दैवात्कण्ठमनीतैव सा प्रकटरागा ।
रत्नावलीव कान्ता मम हस्ताद्भ्रंशिता भवता ॥१७॥
(ततः प्रविशति वासवदत्ता काञ्चनमाला च ।)
वासवदत्ता - हञ्जे कञ्चणमाले, अध केत्तिअदूरे दाणिं सा अज्जौत्तेण परिगहिदा णोमालिआ ।
काञ्चनमाला - एदं कअलीघरं अदिक्कमिअ दीसदिज्जेव्व ।
ता एदु भट्टिणी ।
(इति परिक्रामतः ।)
राजा - वयस्य, क्वेदानीं प्रियतमा द्रष्टव्या ।
काञ्चनमाला - भट्टिणि, जधा समीवे भट्टा मन्तेदि तधा तक्केमि भट्टिणीं जेव्व पडिवालअन्तो चिठ्ठदि ।
ता उवसप्पदु भट्टिणी ।
वासवदत्ता - (उपसृत्य ।)
जअदु जअदु अज्जौत्तो ।
राजा - (अपवार्य ।)
वयस्य, प्रच्छादय चित्रफलकम् ।
(विदूषको गृहीत्वा कक्षे निक्षिपति ।)
वासवदत्ता - अज्जौत्त, कुसुमिदा णोमालिआ ।
राजा - (सविस्मयम् ।)
देवि, प्रथममप्यागतैरस्माभिस्त्वं चिरयसीति कृत्वा न दृष्टा ।
तदेहि ।
सहितावेव तां पश्यावः ।
वासवदत्ता - (निर्वर्ण्य ।)
अज्जौत्तमुहरागादो जेव्व मए जाणिदं जधा कुसुमिदा णोमालिअत्ति ।
ता ण गमिस्सं ।
विदूषकः - भोदि, जै एव्वं ता जिदं अम्हेहिं ।
(इति बाहू प्रसार्य नृत्यति ।
कक्षात्पतितं फलकं दृष्ट्वा विषादं नाटयति ।)
(राजापवार्याङ्गुल्या विदूषकं तर्जयति ।)
विदूषकः - (अपवार्य ।)
भो मा कुप्प ।
अहं जेव्व एत्थ जाणिस्सं ।
काञ्चनमाला - (फलकं गृहीत्वा ।)
भट्टिणि, पेक्ख दाव किं एत्थ चित्तफलए आलिहिदं ।
वासवदत्ता - (निर्वर्ण्य स्वगतम् ।)
अअं अज्जौत्तो ।
इअं उण साअरिआ ।
(प्रकाशं राजानं प्रति ।)
अज्जौत्त, किं णेदं ।
राजा - (सवैलक्ष्यमपवार्य ।)
वयस्य किं ब्रवीमि ।
विदूषकः - भो मा चिन्तेहि ।
अहं उत्तरं दाइस्सं ।
(प्रकाशम् ।)
भोदि, मा अण्णधा सम्भावेहि ।
अप्पा किल दुक्खं आलिहीअदित्ति मम वअणं सुणिअ पिअवअस्सेण एदं आलेक्खविण्णाणं दंसिदं ।
राजा - यथाह वसन्तकस्तथैव तत् ।
वासवदत्ता - (फलकं निर्दिश्य ।)
अज्जौत्त, एसा वि जा अवरा तुह समीवे आलिहिदा ता किं वसन्तअस्स विण्णाणं ।
राजा - (सवैलक्ष्यस्मितम् ।)
देवि, अलमन्यथाशङ्कया ।
इयं हि कापि कन्यका स्वचेतसैव परिकल्प्य लिखिता ।
न तु दृष्टपूर्वा ।
विदूषकः - सच्चं ।
सबामि बम्हसुत्तेण जै कदा वि अम्हेहिं ईदिसी दिट्ठपुव्वा ।
काञ्चनमाला - (अपवार्य ।)
भट्टिणि, घुणक्खरं पि कदावि संवददि ।
ता अलं कोपेण ।
वासवदत्ता - (अपवार्य ।)
ऐ उजुए, एदस्स वक्कभणिदाइं ण जाणासि ।
वसन्तओ क्खु एसो ।
(प्रकाशम् ।)
अज्जौत्त, मम उण एदं चित्तं पेक्खन्तीए सीसवेअणा समुप्पण्णा ।
ता सुहं चिट्ठदु अज्जौत्तो ।
अहं गमिस्सं ।
(इत्युत्थाय गन्तुमिच्छति ।)
राजा - (पटान्तेन गृहीत्वा ।)
देवि, प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः ।
न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥१८॥
वासवदत्ता - (सविनयं पटान्तमाकर्षन्ती ।)
अज्जौत्त, मा अण्णधा सम्भावेहि ।
सच्चं मं सीसवेअणा बाधेदि ।
ता गमिस्सं ।
(इति निष्क्रान्ते ।)
विदूषकः - भो, दिट्ठिआ वड्ढसि ।
क्खेमेण अम्हाणं अदिक्कन्ता अआलवादावली ।
राजा - धिङ्मूर्ख, अलं परितोषेण ।
आभिजात्यान्निगूढो न लक्षितस्त्वया देव्याः कोपानुबन्धः ।
पश्य ।
भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रतामीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥१९॥
तदेहि ।
देवीसकाशमेव गच्छावः ।
(इति निष्क्रान्तौ ।)
इति कदलीगृहं नाम द्वितीयोऽङ्कः ।
तृतीयोऽङ्कः ।
(ततः प्रविशति मदनिका ।)
मदनिका - (आकाशे ।)
कोसम्बिए, अवि दिट्ठा तुए भट्टिणो सआसे कञ्चणमाला ण वेत्ति ।
(आकर्ण्य ।)
किं भणासि “को वि कालो ताए आअच्छिअ गदाए” त्ति ।
ता कहिं दाणिं पेक्खिस्सं ।
(अग्रतोऽवलोक्य ।)
कधं ।
एसा क्खु कञ्चणमाला इदोज्जेव्व आअच्छदि ।
ता जाव णं उवसप्पामि ।
(ततः प्रविशति काञ्चनमाला ।)
काञ्चनमाला - (सोत्प्रासम् ।)
साहु रे वसन्तअ, साहु ।
अदिसैदो तुए अमच्चजोअन्धराअणो वि इमाए सन्धिविग्गहचिन्ताए ।
मदनिका - (सस्मितमुपसृत्य ।)
हला कञ्चणमाले, किं अज्जवसन्तएण किदं जेण सो एव्वं सलाहीअदि ।
काञ्चनमाला - हला मअणिए किं तुह एदिणा पुच्छिदेण पओअणं ।
ण तुमं इमं रहस्सं रक्खिदुं पारेसि ।
मदनिका - सवामि देवीए चरणेहिं जै कस्स वि पुरदो पआसेमि ।
काञ्चनमाला - जै एव्वं ता सुणु ।
अज्जक्खु मए राऔलादो पडिणिवत्तन्तीए चित्तसालिआदुवारे वसन्तअस्स सुसङ्गदाए समं आलावो सुदो ।
मदनिका - (सकौतुकम् ।)
सहि कीदिसो ।
काञ्चनमाला - जधा “सुसङ्गदे, णहि साअरिअं वज्जिअ पिअवअस्सस्स अण्णं किं पि अस्सत्थदाए कारणं ।
ता एत्थ पडिआरं चिन्तेहि” त्ति ।
मदनिका - तदो सुसङ्गदाए किं भणिदं ।
काञ्चनमाला - एव्वं भणिदं “अज्ज क्खु देवीए चित्तफलअवुत्तन्तसङ्किदाए साअरिअं मम हत्थे समप्पअन्तीए जं णेवत्थं मे पसादीकिदं तेण जेव्व विरैददेवीवेसं साअरिअं गेण्हिअ अहं पि कञ्चणमालावेसधारिणी भविअ पदोसे इध आगमिस्सं ।
तुमं पि चित्तसालिआदुआरे मं पडिवालैस्ससि ।
तदो माहवीलदामण्डवे ताए सह भट्टिणो समागमो भविस्सदि” त्ति ।
मदनिका - सुसङ्गदे, हदासा क्खु तुमं जा एव्वं परिअणवच्छलं देविं वञ्चेसि ।
काञ्चनमाला - हला तुमं दाणिं कहिं पट्ठिदा ।
मदनिका - अस्सत्थसरीरस्स भट्टिणो कुसलवुत्तन्तं जाणिदुं गदा तुमं चिरअसित्ति उत्तम्मन्तीए देवीए पेसिदम्हि ।
काञ्चनमाला - अदिउजुआ सा देवी जा एव्वं पत्तिआअदि ।
(परिक्रम्यावलोक्य च ।)
एसोक्खु भट्टा अस्सत्थदामिसेण अत्तणो मअणावत्थं पच्छादअन्तो दन्ततोरणवलहीए उवरि उवविठ्ठो चिट्ठदि ।
ता एहि ।
एदं वुत्तन्तं भट्टिणीए णिवेदेम्ह ।
(इति निष्क्रान्ते ।)
इति प्रवेशकः ।
(ततः प्रविशति मदनावस्थां नाटयन्नुपविष्टो राजा ।)
राजा - (निःश्वस्य ।)
सन्तापो हृदय स्मरानलकृतः सम्प्रत्ययं सह्यतां नास्त्येवोपशमोऽस्य तां प्रति पुनः किं त्वं मुधा ताम्यसि ।
यन्मूढेन मया तदा कथमपि प्राप्तो गृहीत्वा चिरं विन्यस्तस्त्वयि सान्द्रचन्दनरसस्पर्शो न तस्याः करः ॥१॥
अहो महदाश्चर्यम् ।
तथा हि ।
मनश्चलं प्रकृत्यैव दुर्लक्ष्यं च तथापि मे ।
कामेनैतत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥२॥
(ऊर्ध्वमवलोक्य ।)
भोः कुसुमधन्वन्, बाणाः पञ्च मनोभवस्य नियतास्तेषामसङ्ख्यो जनः प्रायोऽस्मद्विध एव लक्ष्य इति यल्लोके प्रसिद्धिं गतम् ।
दृष्टं तत्त्वयि विप्रतीपमधुना यस्मादसङ्ख्यैरयं विद्धः कामिजनः शरैरशरणो नीतस्त्वया पञ्चताम् ॥३॥
(विचिन्त्य ।)
न तथाहमेतदवस्थमात्मानमनुचिन्तयामि यथान्तर्गूढकोपसम्भाराया देव्या लोचनगोचरगतां तामेव तपस्विनीं सागरिकाम् ।
तथाहि ।
ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥४॥
कथं तद्वार्तान्वेषणाय गतश्चिरयति वसन्तकः ।
(ततः प्रविशति हृष्टो वसन्तकः ।)
वसन्तकः - (सपरितोषम् ।)
ही ही भोः ।
कोसम्बीरज्जलाहेण वि ण तादिसो पिअवअस्सस्स परितोसो आसि जादिसो मम सआसादो पिअवअणं सुणिअ भविस्सदित्ति तक्केमि ।
ता जाव गदुअ पिअवअस्सस्स णिवेदैस्सं ।
(परिक्रम्यावलोक्य च ।)
कधं एसो पिअवअस्सो जधा इमं जेव्व दिसं अवलोअअन्तो चिट्ठदि तधा तक्केमि मं जेव्व पडिवालेदि ।
ता जाव णं उवसप्पामि ।
(इत्युपसृत्य ।)
भो वअस्स, दिट्ठिआ वड्ढसि समीहिदकज्जसिद्धीए ।
राजा - (सहर्षम् ।)
वयस्य, अपि कुशलं प्रियायाः सागरिकायाः ।
विदूषकः - (सगर्वम् ।)
भो वअस्स, ऐरेण सअं जेव्व पेक्खिअ जाणिस्ससि ।
राजा - (सपरितोषम् ।)
वयस्य, दर्शनमपि भविष्यति प्रियायाः ।
विदूषकः - (साहङ्कारम् ।)
भोः, कीस ण भविस्सदि ।
जस्स दे उवहसिदबिहप्फदिबुद्धिविभवो अअं अमच्चो ।
राजा - (विहस्य ।)
न खलु किञ्चिन्न सम्भाव्यते त्वयि ।
तत्कथय ।
विस्तरतः श्रोतुमिच्छामि ।
विदूषकः - (कर्णे ।)
एव्वं एव्वं ।
राजा - (सपरितोषम् ।)
साधु वयस्य साधु, इदं ते पारितोषिकम् ।
(इति हस्तादवतार्य कटकं ददाति ।)
विदूषकः - (कटकं परिधायात्मानं निर्वर्ण्य ।)
भोदु ।
एव्वं दाव ।
इमं सुद्धसुवण्णकडअमण्डिदहत्थं अत्तणो बम्हणीए गदुअ दंसैस्सं ।
राजा - (निवारयन् ।)
सखे, पश्चाद्दर्शयिष्यसि ।
ज्ञायतां तावत् किमवशिष्टमह्न इति ।
विदूषकः - (विलोक्य ।)
भोः, पेक्ख ।
एसो क्खु गरुआणुराआक्खित्तहिअओ सञ्झावहूदिण्णसङ्केदो विअ अत्थगिरिसिहरकाणणं अणुसरदि भअवं सहस्सरस्सी ।
राजा - (विलोक्य सहर्षम् ।)
सखे, सम्यगुपलक्षितम् ।
पर्यवसितमहः ।
तथाहि ।
अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्रातः प्राप्तुं रथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः ।
सङ्घ्यामृष्टावशिष्टस्वकरपरिकरस्पष्टहेमारपङ्क्तिर्व्याकृष्यावस्थितोऽस्तक्षितिभृति नयतीवैष दिक्चक्रमर्कः ॥५॥
अपि च ।
यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती प्रतिबोधनीया ।
प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति ॥६॥
तदुत्तिष्ठ ।
तत्रैव माधवीलतामण्डपे गत्वा प्रियतमासङ्केतावसरं प्रतिपालयावः ।
विदूषकः - सोभणं भणिदं ।
(इत्युत्तिष्ठति ।
विलोक्य ।)
भो वअस्स, पेक्ख पेक्ख ।
एसो क्खु बहलीकिदविरलवणराइसण्णिवेसो गहिदघणपङ्कपीवरवणवराहमहिसकसणच्छवी ओसरदि पुव्वदिसं पच्छादअन्तो तिमिरसङ्घादो ।
राजा - (सहर्षं समन्ताद्विलोक्य ।)
वयस्य, सम्यगुपलक्षितम् ।
तथाहि ।
पुरः पूर्वामेव स्थगयति ततोऽन्यामपि दिशं क्रमात्क्रामन्नद्रिद्रुमपुरविभागांस्तिरयति ।
उपेतः पीनत्वं तदनु भुवनस्येक्षणपथं तमःसङ्घातोऽयं हरति हरकण्ठद्युतिहरः ॥७॥
तदादेशय मार्गम् ।
विदूषकः - एदु एदु पिअवअस्सो ।
(इति परिक्रामतः ।)
विदूषकः - (निरूप्य ।)
भो वअस्स, एदं क्खु समासण्णं बहलपादवदाए पिण्डीकदन्धआरं विअ मअरन्दुज्जाणं ।
ता कधं एत्थ मग्गो लक्खीअदि ।
राजा - (गन्धमाघ्राय ।)
वयस्य, गच्छाग्रतः ।
ननु सुपरिज्ञात एवात्र मार्गः ।
तथाहि ।
पालीयं चम्पकानां नियतमयमसौ सुन्दरः सिन्दुवारः सान्द्रा वीथी तथेयं बकुलविटपिनां पाटला पङ्क्तिरेषा ।
आघ्रायाघ्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन्व्यक्तिं पन्थाः प्रयाति द्विगुणतरतमोनिह्नुतोऽप्येष चिह्नैः ॥८॥
(इति परिक्रामतः ।)
विदूषकः - भो वअस्स, एदं क्खु निवडन्तमत्तमहुअरबहलकुसुमामोदवासिददिसामुहं मसिणमरअदमणिसिलाकुट्टिमसुहाअन्तचरणसञ्चारसूइदं तं जेव्व माहवीलदामण्डवं सम्पत्तम्ह ।
ता इधज्जेव्व चिठ्ठदु भवं जाव अहं देवीवेसधारिणिं साअरिअं गेह्णिअ लहुं आअच्छामि ।
राजा - वयस्य, तेन हि त्वर्यताम् ।
विदूषकः - वअस्स, मा उत्तम्म ।
एसो आअदोम्हि ।
(इति निष्क्रान्तः ।)
राजा - यावदहमप्यस्यां मरकतशिलावेदिकायामुपविश्य प्रियायाः सङ्केतसमयं प्रतिपालयामि ।
(उपविश्य सचिन्तम् ।)
अहो, कोऽपि कामिजनस्य स्वगृहिणीसमागमपरिभाविनो जनमभिनवं प्रति पक्षपातः ।
तथाहि ।
प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो रमयतितरां सङ्केतस्था तथापि हि कामिनी ॥९॥
अये, कथं चिरयति वसन्तकः ।
तत्किं नु खलु विदितः स्यादयं वृत्तान्तो देव्या ।
(ततः प्रविशति वासवदत्ता काञ्चनमाला च ।)
वासवदत्ता - हञ्जे कञ्चणमाले, सच्चञ्ज्जेव्व मम वेसं कदुअ साअरिआ अज्जौत्तं अहिसरिस्सदि ।
काञ्चनमाला - कधं अण्णधा भट्टिणीए णिवेदीअदि ।
अधवा चित्तसालिआदुवारे ठ्ठिदो वसन्तओ जेव्व दे पच्चअं उप्पादैस्सदि ।
वासवदत्ता - तेण हि तहिं जेव्व गच्छम्ह ।
काञ्चनमाला - एदु भट्टिणी ।
(इति परिक्रामतः ।)
(ततः प्रविशति कृतावगुण्ठनो वसन्तकः ।)
विदूषकः - (कर्णं दत्त्वा ।)
जधा चित्तसालिआदुवारे पदसद्दो सुणीअदि तधा तक्केमि आअदा साअरिअत्ति ।
काञ्चनमाला - भट्टिणि, इयं सा चित्तसालिआ ।
ता जाव वसन्तअस्स सण्णं देमि ।
(इति छोटिकां ददाति ।)
विदूषकः - (सहर्षमुपसृत्य सस्मितम् ।)
सुसङ्गदे, सरिसो क्खु तुए किदो कञ्चणमालाए वेसो ।
अध साअरिआ दाणिं कहिं ।
काञ्चनमाला - (अङ्गुल्या दर्शयन्ती ।)
णं एसा ।
विदूषकः - (दृष्ट्वा सविस्मयम् ।)
एसा फुडं जेव्व देवी वासवदत्ता ।
वासवदत्ता - (साशङ्कमात्मगतम् ।)
कधं जाणिदम्हि ।
विदूषकः - भोदि साअरिए, इदो एहि ।
(वासवदत्ता विहस्य काञ्चनमालामवलोकयति ।)
काञ्चनमाला - (अपवार्याङ्गुल्या विदूषकं तर्जयन्ती ।)
हदास, सुमरिस्ससि एदं वअणं ।
विदूषकः - तुवरदु तुवरदु साअरिआ ।
एसोक्खु पुव्वदिसादो उग्गच्छदि भअवं मिअलञ्छणो ।
(सर्वे परिक्रामन्ति ।)
राजा - (सोत्कण्ठमात्मगतम् ।)
अये, उपस्थितप्रियासमागमस्यापि किमिदमत्यर्थमुत्ताम्यति मे मनः ।
अथवा ।
तीव्रः स्मरसन्तापो न तथादौ बाधते यथासन्ने ।
तपति प्रावृषि नितरामभ्यर्णजलागमो दिवसः ॥१०॥
विदूषकः - (आकर्ण्य ।)
भोदि साअरिए, एसो क्खु पिअवअस्सो तुमञ्ज्जेव्व उद्दिसिअ उक्कण्ठाणिब्भरं मन्तेदि ।
ता णिवेदेमि से तुह आगमणं ।
(वासवदत्ता शिरःसञ्ज्ञां ददाति ।)
विदूषकः - (राजानमुपसृत्य ।)
भो वअस्स, एसा क्खु मए आणीदा साअरिआ ।
राजा - (सहर्षं सहसोत्थाय ।)
वयस्य, क्वासौ क्वासौ ।
विदूषकः - (सभ्रूभङ्गम् ।)
णं एसा ।
राजा - (उपसृत्य ।)
प्रिये सागरिके, शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ ।
इत्याह्लादकराखिलाङ्गि रभसान्निःशङ्कमालिङ्ग्य मामङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥११॥
वासवदत्ता - (अपवार्य ।)
कञ्चणमाले, एव्वं सअं मन्तेदि अज्जौत्तो ।
पुणो वि मं कहं आलविस्सदित्ति अहो अच्छरीअं ।
काञ्चनमाला - (अपवार्य ।)
भट्टिणि, एव्वं णेदं ।
किं उण साहसिआणं पुरिसाणं ण सम्भावीअदि ।
विदूषकः - भोदि साअरिए, वीसद्धा भविअ पिअवअस्सं आलवेहि ।
अज्ज दाव ताए णिच्चरुठ्ठाए देवीए वासवदत्ताए दुव्वअणेहिं कडुइदा कण्णा सम्पदं सुहावीअन्तु तुह मौमहुरवअणेहिं ।
वासवदत्ता - (अपवार्य सरोषस्मितम् ।)
हञ्जे कञ्चणमाले, अहं ईदिसी कडुभासिणी ।
अज्जवसन्तओ उण पिअंवदो ।
काञ्चनमाला - (अपवार्याङ्गुल्या तर्जयन्ती ।)
हदास, सुमरिस्ससि एदं वअणं ।
विदूषकः - (विलोक्य ।)
भो वअस्स, पेक्ख पेक्ख ।
एसोक्खु कुविदकामिणीकवोलसण्णिहो सव्वं जेव्व दिसं पआसअन्तो उदिदो भअवं मिअलञ्छणो ।
राजा - (निरूप्य सस्पृहम् ।)
प्रिये, पश्य पश्य ।
आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः ।
प्रतिकर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥१२॥
ननु प्रिये, दर्शितमनेनोद्गच्छता जडत्वम् ।
कुतः ।
किं पद्मस्य रुचं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते दर्पः स्यादमृतेन चेदिह तवाप्यस्त्येव बिम्बाधरे ॥१३॥
वासवदत्ता - (सरोषमवगुण्ठनपटमपनीय ।)
अज्जौत्त, सच्चं जेव्व अहं साअरिआ ।
तुमं उण साअरिआक्खित्तहिअओ सव्वं जेव्व साअरिआमअं पेक्खसि ।
राजा - (दृष्ट्वा सवैलक्ष्यमपवार्य ।)
कथं देवी वासवदत्ता ।
वयस्य, किमेतत् ।
विदूषकः - (सविषादम् ।)
भोः किं अवरं ।
अम्हाणं जीविदसंसओ जादो एसो ।
राजा - (उपविश्याञ्जलिं बद्ध्वा ।)
प्रिये वासवदत्ते, प्रसीद प्रसीद ।
वासवदत्ता - (अश्रूणि विधारयन्ती ।)
अज्जौत्त, मा एव्वं भण ।
अण्णगदक्खु एदे अक्खरा ।
विदूषकः - (आत्मगतम् ।)
किं दाणिं एत्थ करिस्सं ।
भोदु ।
एव्वं दाव ।
(प्रकाशम् ।)
भोदि, महाणुभावा खु तुमं ।
ता खमीअदु दाव एक्को अवराहो पिअवअस्सस्स ।
वासवदत्ता - अज्ज वसन्तअ, णं पढमसङ्गमे विग्घं करन्तीए मएज्जेव्व एदस्स अवरद्धं ।
राजा - एवं प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि ।
आताम्रतामपनयामि विलक्ष एव लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात् ॥१४॥
(इति पादयोः पतति ।)
वासवदत्ता - (हस्तेन वारयन्ती ।)
अज्जौत्त, उट्ठेहि उट्ठेहि ।
णिल्लज्जो क्खु सो जणो जो अज्जौत्तस्स ईदिसं हिअअं जाणिअ पुणोवि कुप्पदि ।
ता सुहं चिट्ठदु अज्जौत्तो ।
अहं गमिस्सं ।
(इति गन्तुमिच्छति ।)
काञ्चनमाला - भट्टिणि, करेहि पसादं ।
एवं चरणपडिदं महाराअं उज्झिअ गदाए देवीए पच्छादावेण होदव्वं ।
वासवदत्ता - अवेहि अपण्डिदे, किं एत्थ पसादस्स पच्छादावस्स वा कारणं ।
ता गमिस्सं ।
(इति निष्क्रान्ते ।)
राजा - देवि, प्रसीद प्रसीद ।
विदूषकः - भो, उट्ठेहि ।
गदा देवी ।
ता कीस एत्थ अरण्णरुदिदं करेसि ।
राजा - (मुखमुन्नमय्य ।)
कथमकृत्वैव प्रसादं गता देवी ।
विदूषकः - कधं ण किदो पसादो ।
अज्जवि अक्खदसरीरा चिट्ठम्ह ।
राजा - धिङ्मूर्ख, किमेवमुपहससि माम् ।
ननु त्वत्कृत एवायमापतितोऽस्माकमनर्थः ।
कुतः ।
समारूढा प्रीतिः प्रणयबहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।
प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ॥१५॥
विदूषकः - भो, रुट्ठा देवी ण जाणीअदि किं करिस्सदित्ति ।
साअरिआए उण दुक्करं जीविदत्ति तक्केमि ।
राजा - वयस्य, अहमप्येवं चिन्तयामि ।
हा प्रिये सागरिके ।
(ततः प्रविशति वासवदत्तावेषधारिणी सागरिका ।)
सागरिका - (सोद्वेगम् ।)
दिट्ठिआ इमिणा विरैददेवीवेसेण इमादो चित्तसालादो णिक्कमन्ती केणावि ण लक्खिदम्हि ।
ता किं दाणिं करिस्सं ।
(इति सास्रं चिन्तयति ।)
विदूषकः - भोः किं मूढो भविअ चिट्ठसि ।
चिन्तेहि दाव एत्थ पडिआरं ।
राजा - वयस्य, तदेव चिन्तयामि ।
देवीप्रसादं मुक्त्वा नान्यमुपायं पश्यामि ।
तदेहि ।
तत्रैव गच्छावः ।
(इति परिक्रामतः ।)
सागरिका - (सास्रं विमृश्य ।)
वरं दाणिं सअं जेव्व अत्ताणअं उब्बन्धिअ उवरदा भविस्सं ण उण जाणिदसङ्केदवुत्तन्ताए देवीए सुसङ्गदाए सह परिभूदम्हि ।
ता जाव अहं असोअपादवं गदुअ जधासमीहिदं करिस्सं ।
(इति परिक्रामति ।)
विदूषकः - (आकर्ण्य ।)
चिट्ठ दाव चिट्ठ ।
पदसद्दो सुणीअदि ।
जाणामि कदावि गहिदपच्छादावा पुणोवि देवी आअदा भवे ।
राजा - वयस्य, महानुभावा खलु देवी ।
कदाचिदेवमपि स्यात् ।
तत्त्वरितं निरूपय ।
विदूषकः - जं भवं आणवेदि ।
(इति निष्क्रामति ।)
सागरिका - (उपसृत्य ।)
ता जाव इमाए माहवीलदाए पासं विरैअ असोअपादवे अप्पाणअं उब्बन्धिअ वावादेमि ।
(इति लतापाशं रचयन्ती ।)
हा ताद, हा अम्ब, एसा दाणिं अहं अणाधा असरणा विवज्जामि मन्दभाइणी ।
(इति कण्ठे लतापाशमर्पयति ।)
विदूषकः - (विलोक्य ।)
का उण एसा ।
कधं देवी वासवदत्ता ।
(ससम्भ्रममुच्चैः ।)
भो वअस्स, परित्ताहि परित्ताहि ।
एसाक्खु देवी वासवदत्ता अप्पाणअं उब्बन्धिअ वावादेदि ।
राजा - (ससम्भ्रममुपसृत्य ।)
क्वासौ क्वासौ ।
विदूषकः - भो, णं एसा ।
राजा - (उपसृत्य कण्ठात्पाशमपनयन् ।)
अयि साहसकारिणि, किमिदमकार्यं क्रियते ।
मम कण्ठगताः प्राणाः पाशे कण्ठगते तव ।
अतः स्वार्थप्रयत्नोऽयं त्यज्यतां साहसं प्रिये ॥१६॥
सागरिका - (राजानं दृष्ट्वा ।)
अयि कधं एसो भट्टा ।
(सहर्षमात्मगतम् ।)
जं सच्चं एणं पेक्खिअ पुणोवि मे जीविदाहिलासो संवुत्तो ।
अधवा एणं पेक्खिअ कदत्था भविअ सुहेण विअ जीविदं परिच्चैस्सं ।
(प्रकाशम् ।)
मुञ्चदु भट्टा ।
पराहीणो क्खु अअं जणो ।
ण उण ईदिसं अवसरं मरिदुं पावेदि ।
(इति पुनः कण्ठे पाशं दातुमिच्छति ।)
राजा - (निरूप्य सहर्षम् ।)
कथं प्रिया मे सागरिका ।
(इति कण्ठात्पाशमाक्षिप्य ।)
अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् ।
चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥१७॥
(इति कण्ठे बाहुं कृत्वा स्पर्शं नाटयन् ।)
सखे, इयमनभ्रा वृष्टिः ।
विदूषकः - भो, एव्वं णेदं ।
जै अआलवादावली विअ देवी आअच्छिअ अण्णधा ण करिस्सदि ।
(ततः प्रविशति वासवदत्ता काञ्चनमाला च ।)
वासवदत्ता - कञ्चणमाले, तं तधा चरणणिवडिदं अज्जौत्तं अवधीरिअ आअच्छन्तीए मए अदिणिट्ठुरं किदं ।
ता दाणिं सअं जेव्व गदुअ अज्जौत्तं अणुणैस्सं ।
काञ्चनमाला - को अण्णो देविं वज्जिअ एव्वं भणिदुं जाणादि ।
वरं सो एव्व देवो दुज्जणो होदु ।
ण उण देवी ।
ता एदु देवी ।
(इति परिक्रामतः ।)
राजा - अयि मुग्धे, किमद्यापि मध्यस्थतया वयं विफलमनोरथाः क्रियामहे ।
काञ्चनमाला - (कर्णं दत्त्वा ।)
भट्टिणि, जधा समीवे भट्टा मन्तेदि तधा तक्केमि तुमञ्ज्जेव्व अणुणेदुं आअच्छदित्ति ।
वासवदत्ता - (सहर्षम् ।)
ता अलक्खिदा जेव्व पिठ्ठदो गदुअ कण्ठे गेह्णिअ पसादैस्सं ।
विदूषकः - भोदि साअरिए, वीसद्धा भविअ पिअवअस्सं आलवेहि ।
वासवदत्ता - (आकर्ण्य सविषादम् ।)
कञ्चणमाले, साअरिआ वि एत्थ चिठ्ठदि ।
ता सुणम्ह दाव ।
पच्छा उवसप्पिस्सं ।
(इति तथा करोति ।)
सागरिका - भट्टा, किं एदिणा अलिअदाक्खिण्णेण ।
जीविदादोवि अधिअवल्लहाए देवीए पुणोवि अत्ताणअं अवराहिणं करेसि ।
राजा - अयि, मिथ्यावादिनी खल्वसि ।
कुतः ।
श्वासोत्कम्पिनि कम्पितं कुचयुगे मौने प्रियं भाषितं वक्त्रेऽस्याः कुटिलीकृतभ्रुणि तथा यातं मया पादयोः ।
इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः परं प्रेमाबन्धविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि ॥१८॥
वासवदत्ता - (सहसोपसृत्य सरोषम् ।)
अज्जौत्त, जुत्तं एदं ।
सरिसं एदं ।
राजा - (दृष्ट्वा सवैलक्ष्यम् ।)
देवि, न खल्वकारणे मामुपालब्धुमर्हसि ।
त्वामेव मत्वा वेषसादृश्याद्विप्रलब्धा वयमिहागताः ।
तत्क्षम्यताम् ।
(इति पादयोः पतति ।)
वासवदत्ता - (सरोषम् ।)
अज्जौत्त, उट्ठेहि उट्ठेहि ।
किं अज्जवि सहजाभिजादाए सेवाए दुक्खं अणुभवीअदि ।
राजा - (स्वगतम् ।)
किमेतदपि श्रुतं देव्या ।
तत्सर्वथा देवीप्रसादनं प्रति निराशीभूताः स्मः ।
(इत्यधोमुखस्तिष्ठति ।)
विदूषकः - भोदि, तुमं किल अत्ताणअं उब्बन्धिअ वावादेसित्ति वेससारिस्समोहिदेण मए पिअवअस्सो एत्थ आणीदो ।
जै मम वअणं ण पत्तिआअसि ता पेक्ख इमं लदापासं ।
(इति लतापाशं दर्शयति ।)
वासवदत्ता - (सकोपम् ।)
हञ्जे कञ्चणमाले, एदेणज्जेव्व लदापासेण बन्धिअ गेह्ण एणं बम्हणं ।
एदं अ दुठ्ठकण्णअं अग्गदो करेहि ।
काञ्चनमाला - जं भट्टिणी आणवेदि ।
(लतापाशेन वसन्तकं बद्ध्वा ।)
हदास, अणुभव दाव अत्तणो दुण्णअस्स फलं ।
साअरिए, तुमम्पि अग्गदो होहि ।
सागरिका - (स्वगतम् ।)
हद्धी अकिदपुण्णाए मए मरिदुं वि अत्तणो इच्छाए ण पारिदं ।
विदूषकः - (सविषादम् ।
राजानमवलोक्य ।)
भो वअस्स, सुमरेहि मं अणाधं देवीए बन्धणादो विवज्जन्तं ।
(इति राजानमालोकयति ।)
(सर्वानादाय निष्क्रान्ता वासवदत्ता ।)
राजा - (सखेदम् ।)
कष्टं भोः, कष्टम् ।
किं देव्याः कृतदीर्घरोषमुषितस्निग्धस्मितं तन्मुखं त्रस्तां सागरिकां सुसम्भृतरुषा किं तर्ज्यमानां तथा ।
बद्ध्वा नीतमितो वसन्तकमहं किं चिन्तयामीत्यहो सर्वाकारकृतव्यथः क्षणमपि प्राप्नोमि नो निर्वृतिम् ॥१९॥
तत्किमिदानीमिह स्थितेन प्रयोजनम् ।
देवीं प्रसादयितुमभ्यन्तरं प्रविशामि ।
(इति निष्क्रान्तः ।)
इति सङ्केतकं नाम तृतीयोऽङ्कः ।
चतुर्थोऽङ्कः ।
(ततः प्रविशति रत्नमालामादाय सास्रा सुसङ्गता ।)
सुसङ्गता - (सकरुणम् ।)
हा पिअसहि साअरिए, हा लज्जालुए, हा सहीजणवच्छले, हा उदारसीले, हा सोम्मदंसणे, कहिं दाणिं तुमं मए पेक्खिदव्वा ।
(इति रोदिति ।
ऊर्ध्वमवलोक्य निश्वस्य च ।)
अयि देव्वहदअ, जै सा असामण्णरूवसोहा तादिसी तुए णिम्मिदा ता कीस उण ईदिसं अवत्थन्तरं पाविदा ।
इयं अ रअणमाला जीविदणिरासाए ताए कस्सवि बम्हणस्स हत्थे पडिवादेसुत्ति भणिअ मम हत्थे समप्पिदा ।
ता जाव कम्पि बम्हणं अण्णेसामि ।
(परिक्रम्यावलोक्य च ।)
एसोक्खु अज्जवसन्तओ इदो जेव्व आअच्छदि ।
ता जाव एदस्स जेव्व पडिवादैस्सं ।
(ततः प्रविशति हृष्टो वसन्तकः ।)
विदूषकः - ही ही भो अज्जक्खु पिअवअस्सेण पसादिदाए तत्तभोदीए वासवदत्ताए बन्धणादो मोआविअ सहत्थदिण्णेहिं मोदएहिं उदरं मे पूरिदं ।
अण्णं च ।
एदं पट्टंसुअजुअलं कण्णाभरणं अ दिण्णं ।
ता जाव पिअवअस्सं पेक्खामि ।
(इति परिक्रामति ।)
सुसङ्गता - (रुदती सहसोपसृत्य ।)
अज्ज वसन्तअ, चिट्ठ दाव तुमं मुहुत्तअं ।
विदूषकः - (दृष्ट्वा ।)
कधं सुसङ्गदा ।
सुसङ्गदे, एत्थ किण्णिमित्तं रोदीअदि ।
णक्खु साअरिआए अच्चाहिदं किम्पि संवुत्तं ।
सुसङ्गता - एदञ्ज्जेव्व णिवेदैस्सं ।
सक्खु तवस्सिणी देवीए उज्जैणिं पेसिदत्ति प्पवादं कदुअ उवठ्ठिदे अद्धरत्ते ण जाणीअदि कहिं णीदत्ति ।
विदूषकः - (सोद्वेगम् ।)
हा भोदि साअरिए, अदिणिग्घिणं देवीए किदं ।
तदो तदो ।
सुसङ्गता - इयं च रअणमाला ताए जीविदणिरासाए अज्जवसन्तअस्स हत्थे पडिवादेसुत्ति भणिअ मम हत्थे समप्पिदा ।
ता गेण्हदु अज्जो एदं ।
विदूषकः - (सकरुणम् ।)
भोदि, ण मे ईदिसे पत्थावे हत्थो एदं गेह्णिदुं पसरदि ।
(इत्युभौ रुदतः ।)
सुसङ्गता - (अञ्जलिं बद्ध्वा ।)
ताए जेव्व अणुग्गहं करन्तो अङ्गीकरेदु एदं अज्जो ।
विदूषकः - (विचिन्त्य ।)
अधवा ।
उवणेहि ।
जेण इमाएज्जेव्व साअरिआविरहदुक्खिदं पिअवअस्सं विणोदैस्सं ।
(सुसङ्गतोपनयति ।)
विदूषकः - (गृहीत्वा निरूप्य सविस्मयम् ।)
सुसङ्गदे, कुदो उण ताए ईदिसस्स अलङ्कारस्स समागमो ।
सुसङ्गता - अज्ज मएवि कोदूहलेण सा पुच्छिदा जेव्व आसी ।
विदूषकः - तदो ताए किं भणिदं ।
सुसङ्गता - तदो सा उद्धं पेक्खिअ दीहं णिस्ससिअ “सुसङ्गदे, किं तुह इमाए कधाए” त्ति भणिअ रोदिदुं पौत्ता ।
विदूषकः - णं कधिदं जेव्व सामण्णजणदुल्लहेण इमिणा परिच्छदेण ।
सव्वधा महाहिजणसम्भवाए ताए होदव्वं ।
सुसङ्गदे, पिअवअस्सो दाणिं कहिं ।
सुसङ्गता - अज्ज एसो क्खु भट्टा देवीभवणादो णिक्कमिअ फडिअसिलामण्डवं गदो ।
ता गच्छदु अज्जो ।
अहंवि देवीए वासवदत्ताए पासवत्तिणी भविस्सं ।
(इति निष्क्रान्तौ ।)
इति प्रवेशकः ।
(ततः प्रविशत्यासनस्थो राजा ।)
राजा - (विचिन्त्य ।)
सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः ।
प्रत्यासत्तिमुपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्यैव तयैव बाष्पसलिलैः कोपोऽपनीतः स्वयम् ॥१॥
(सोत्कण्ठं निश्वस्य ।)
इदानीं देव्यां प्रसादितायां सागरिकाचिन्तैव केवलं मां बाधते ।
कुतः ।
अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय ।
सद्यःपतन्मदनमार्गणरन्ध्रमार्गैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥२॥
(विचिन्त्य ।)
योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः ।
तत्कस्याग्रतो बाष्पमोक्षं करिष्ये ।
(इति निश्वसिति ।)
(ततः प्रविशति वसन्तकः ।)
विदूषकः - (राजानं दृष्ट्वा ।)
एसो क्खु प्पिअवअस्सो णिरन्तरुक्कण्ठापरिक्खामं पि सलाहणिअं तणुं समुव्वहन्तो उदिदो दुदिआचन्दो विअ अधिअदरं सोहदि ।
ता जाव णं उवसप्पामि ।
(उपसृत्य ।)
सोत्थि भवदे ।
भो, दिट्ठिआ वड्ढसि ।
देवीहत्थगदेणवि मए पुणोवि एदेहिं अच्छीहिं जं दिट्ठोसि ।
राजा - (दृष्ट्वा सहर्षम् ।)
अये, वसन्तकः प्राप्तः ।
सखे, परिष्वजस्व माम् ।
(विदूषकः परिष्वजते ।)
वेषेणैव निवेदितस्ते देव्याः प्रसादः ।
तत्कथ्यतामिदानीं सागरिकायाः का वार्तेति ।
(विदूषकः सवैलक्ष्यमधोमुखस्तिष्ठति ।)
राजा - वयस्य, किं न कथयसि ।
विदूषकः - अप्पिअन्त्ति णिवेदिदुं ण पारेमि ।
राजा - (सोद्वेगं ससम्भ्रमम् ।)
वयस्य, कथमप्रियम् ।
व्यक्तमेवोत्सृष्टं जीवितं तया ।
हा प्रिये सागरिके ।
(इति मोहं नाटयति ।)
विदूषकः - (ससम्भ्रमम् ।)
समस्ससदु समस्ससदु पिअवअस्सो ।
राजा - (समाश्वस्य सास्रम् ।)
प्राणाः परित्यजत काममदक्षिणं मां रे दक्षिणा भवत मद्वचनं शृणुध्वम् ।
शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदूरमधुना गजगामिनी सा ॥३॥
विदूषकः - भो, मा अण्णधा सम्भावेहि ।
सक्खु देवीए उज्जैणिं पेसिदत्ति सुणीअदि ।
अदो मए अप्पिअन्त्ति भणिदं ।
राजा - अहो निरनुरोधा मयि देवी ।
वयस्य, केन तवैतदाख्यातम् ।
विदूषकः - भो, सुसङ्गदाए ।
अण्णं च ।
मम हत्थे ताए केणवि कज्जेण इअं रअणमाला पेसिदा ।
राजा - किमपरं मां समाश्वासयितुम् ।
तद्वयस्य, उपनय ।
(विदूषक उपनयति ।)
राजा - (गृहीत्वा रत्नमालां निर्वर्ण्य हृदये निधाय ।)
अहह ।
कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥४॥
वयस्य, त्वमेव परिधत्स्व ।
येन वयमेनामपि तावद्दृष्ट्वा धृतिं करिष्यामः ।
विदूषकः - भो, जं भवं आणवेदि ।
(इति कण्ठे परिदधाति ।)
राजा - (सास्रं निश्वस्य ।)
वयस्य, दुर्लभं पुनर्दर्शनं प्रियायाः ।
विदूषकः - (सभयं दिशोऽवलोक्य ।)
भो, मा एव्वं एत्थ उच्चं मन्तेहि ।
कदावि कोवि इध सञ्चरदि ।
(ततः प्रविशति खड्गहस्ता वसुन्धरा ।)
वसुन्धरा - (उपसृत्य ।)
जअदु जअदु भट्टा ।
एसोक्खु रुमण्णदो भाइणेओ विजअवम्मा पिअं किम्पि णिवेदिदुकामो दुआरे चिट्ठदि ।
राजा - वसुन्धरे, अविलम्बितं प्रवेशय ।
वसुन्धरा - जं देवो आणवेदि ।
(निष्क्रम्य विजयवर्मणा सह पुनः प्रविश्य च ।)
विजअवम्म, एसक्खु भट्टा ।
उवसप्पदु अज्जो णं ।
विजयवर्मा - (उपसृत्य ।)
जयतु जयतु देवः ।
देव, दिष्ट्या वर्धसे रुमण्वतो विजयेन ।
राजा - (सपरितोषम् ।)
विजयवर्मन्, अपि जिताः कोसलाः ।
विजयवर्मा - देवस्य प्रभावेण ।
राजा - साधु रुमण्वन्, साधु ।
अचिरान्महत्प्रयोजनमनुष्ठितम् ।
विजयवर्मन्, तत्कथय कथाम् ।
अतिविस्तरतः श्रोतुमिच्छामि ।
विजयवर्मा - देव, श्रूयताम् ।
इतो देवादेशात्कतिपयैरेवाहोभिरनेककरितुरगपत्तिदुर्निवारेण महता बलसमूहेन गत्वा रुमण्वान् विन्ध्यदुर्गावस्थितस्य कोसलनृपतेर्द्वारमवष्टभ्य सेनाः समावेशयितुमारब्धवान् ।
राजा - ततस्ततः ।
विजयवर्मा - ततः कोसलेश्वरोऽप्यतिदर्पात्परिभवमसहमानो हास्तिकप्रायमशेषमात्मसैन्यं सज्जीकृतवान् ।
विदूषकः - भो, लहुं आचक्ख ।
वेवदि मे हिअअं ।
राजा - ततस्ततः ।
विजयवर्मा - देव, कृतनिश्चयश्चासौ योद्धुं निर्गत्य विन्ध्यादभवदभिमुखस्तत्क्षणं दिग्विभागान्विन्ध्येनेवापरेण द्विपपतिपृतनापीडबन्धेन रुन्धन् ।
वेगाद्बाणान्विमुञ्चन्समदगजघटोत्पिष्टपत्तिर्निपत्य प्रत्यैच्छद्वाञ्छिताप्तिद्विगुणितरभसस्तं रुमण्वान्क्षणेन ॥५॥
अपि च ।
अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे क्षणं व्यूढासृक्सरिति स्वनत्प्रहरणे वर्मोद्वमद्वह्निनि ।
आहूयाजिमुखे स कोसलपतिर्भग्ने प्रधाने बले एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ॥६॥
विदूषकः - जअदु भवं ।
जिदं अम्हेहिं ।
(इति नृत्यति ।)
राजा - साधु कोसलपते, साधु ।
मृत्युरपि ते श्लाघ्यः ।
यस्य हि रिपवोऽपि पुरुषकारमेवं वर्णयन्ति ।
ततस्ततः ।
विजयवर्मा - देव, ततो रुमण्वानपि कोसलेषु मद्भ्रातरं ज्यायांसं जयवर्माणं स्थापयित्वा प्रहारव्रणितहास्तिकप्रायमशेषसैन्यमनुवर्तमानः शनैःशनैरागच्छत्येव ।
राजा - वसुन्धरे, उच्यतां यौगन्धरायणः ।
प्रदर्श्यतां मत्प्रसादस्य विभव इति ।
वसुन्धरा - जं देवो आणवेदि ।
(इति विजयवर्मणा सह निष्क्रान्ता ।)
(ततः प्रविशति काञ्चनमाला ।)
काञ्चनमाला - आणत्तम्हि देवीए ।
जधा हञ्जे कञ्चणमाले गच्छ ।
एदं इन्दजालिअं अज्जौत्तस्स दंसेहित्ति ।
(परिक्रम्यावलोक्य च ।)
एसक्खु भट्टा ।
ता जाव णं उवसप्पामि ।
(उपसृत्य ।)
जअदु जअदु भट्टा ।
भट्टा, देवी विण्णवेदि ।
एसक्खु उज्जैणीदो सम्बरसिद्धि णाम इन्दजालिओ आअदो ।
ता पेक्खदु णं अज्जौत्तोत्ति ।
राजा - अस्ति नः कौतुकमैन्द्रजालिके ।
तच्छीघ्रं प्रवेशय ।
काञ्चनमाला - जं भट्टा आणवेदि ।
(इति निष्क्रम्य पिच्छिकाहस्तेनैन्द्रजालिकेन सह प्रविश्य ।)
एदु एदु अज्जो ।
(ऐन्द्रजालिकः परिक्रामति ।)
एसो भट्टा ।
ता उवसप्पदु अज्जो ।
ऐन्द्रजालिकः - (उपसृत्य पिच्छिकां भ्रमयन् ।)
पणमह चलणे इन्दस्स इन्दआलम्मि लद्धणामस्य ।
तह जेव्व सम्बरस्स माआसुपरिट्ठिदजसस्स ॥७॥
देव, किं धरणिए मिअङ्को आआसे महिअरो जले जलणो ।
मज्झह्णम्हिं पओसो दाविज्जौ देहि आणत्तिं ॥८॥
विदूषकः - भो वअस्स, अवहिदो होहि ।
भो, ईदिसो से अवट्ठम्भो जेण सव्वं सम्भावीअदि ।
ऐन्द्रजालिकः - देव, किं जप्पिएण बहुणा जं जं हिअएण महसि सन्दट्ठुं ।
तं तं दंसेमि अहं गुरुणो मन्तप्पहावेण ॥९॥
राजा - भद्र, तिष्ठ तावत् ।
काञ्चनमाले, उच्यतां देवी ।
युष्मदीय एवायमैन्द्रजालिकः ।
विजनीकृतश्चायमुद्देशः ।
तदागच्छ ।
सहितावेव पश्याव इति ।
काञ्चनमाला - जं भट्टा आणवेदि ।
(इति निष्क्रम्य वासवदत्तया सह प्रविशति ।)
वासवदत्ता - कञ्चणमाले, उज्जैणीदो आअदोत्ति अत्थि मे तस्सिं इन्दजालिए पक्खवादो ।
काञ्चनमाला - णादिउलबहुमाणो क्खु एसो देवीए ।
ता एदु भट्टिणी ।
(इति परिक्रामतः ।)
काञ्चनमाला - भट्टिणि, एसो भट्टा ।
ता उवसप्पदु देवी ।
वासवदत्ता - (उपसृत्य ।)
जेदु अज्जौत्तो ।
राजा - देवि, बहुतरमनेन गर्जितम् ।
तदिहस्थावेव पश्यावस्तावत् ।
(वासवदत्तोपविशति ।)
राजा - भद्र, प्रस्तूयतां बहुविधमिन्द्रजालम् ।
ऐन्द्रजालिकः - जं देवो आणवेदि ।
(इति बहुविधं नाट्यं कृत्वा पिच्छिकां भ्रामयन् ।)
हरिहरबम्हप्पमुहे देवे दंसेमि देवराअं अ ।
गअणम्मि सिद्धविज्जाहरवहुसत्थं अ णच्चन्तं ॥१०॥
(सर्वे सविस्मयं पश्यन्ति ।)
राजा - (ऊर्ध्वं दृष्ट्वासनादवतरन् ।)
आश्चर्यमाश्चर्यम् ।
विदूषकः - अच्छरीअं अच्छरीअं ।
राजा - देवि, पश्य ।
एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करोऽयं दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः ।
एषोऽप्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥११॥
वासवदत्ता - अच्छरीअं अच्छरीअं ।
विदूषकः - (अपवार्य ।)
हा दासीए पुत्त इन्दजालिअ, किं एदेहिं देवेहिं अच्छराहिं च दंसिदाहिं ।
जै दे इमिणा परितुट्ठेण कज्जं ता दंसेहि साअरिअं ।
(ततः प्रविशति वसुन्धरा ।)
वसुन्धरा - (राजानमुपसृत्य ।)
जअदु जअदु भट्टा ।
अमच्चो जोअन्धराअणो विण्णवेदि ।
एसक्खु विक्कमबाहुणा पधाणो अमच्चो वसुभूदी कञ्चुइणा सह अणुप्पेसिदो ।
ता अरिहदि देवो इमस्सिं जेव्व सुन्दरमुहुत्तए पेक्खिदुं ।
अहम्पि कज्जसेसं समाविअ आअदोज्जेवत्ति ।
वासवदत्ता - अज्जौत्त, चिट्ठदु दाव पेक्खणं ।
अअं माउलकुलादो अज्ज प्पधाणो अमच्चो वसुभूदी आअदो ।
तं दाव पेक्खदु अज्जौत्तो ।
राजा - यथाह देवी ।
(ऐन्द्रजालिकं प्रति ।)
भद्र, विश्रम्यतामिदानीम् ।
ऐन्द्रजालिकः - जं देवो आणवेदि ।
(निष्क्रामन् ।)
एक्को उण खेडणओ अवस्सं जेव्व देवेण पेक्खिदव्वो ।
राजा - भद्र, एवं द्रक्ष्यामः ।
(इति निष्क्रान्त ऐन्द्रजालिकः ।)
वासवदत्ता - कञ्चणमाले, देहि से पारितोसिअं ।
काञ्चनमाला - जं देवी आणवेदि ।
(निष्क्रान्ता ।)
राजा - वसन्तक, प्रत्युद्गम्य प्रवेश्यतां वसुभूतिः ।
विदूषकः - जं भट्टा आणवेदि ।
(इति निष्क्रान्तः ।)
(ततः प्रविशति वसन्तकेनानुगम्यमानो वसुभूतिर्बाभ्रव्यश्च ।)
वसुभूतिः - (समन्तादवलोक्य ।)
अहो वत्सेश्वरस्यानुभावः ।
तथाहि ।
आक्षिप्तो जयकुञ्जरेण तुरगान्निर्वर्णयन्वल्लभान् सङ्गीतध्वनिना हृतः क्षितिभृतां गोष्ठीषु तिष्ठन्क्षणम् ।
सद्योविस्मृतसिंहलेन्द्रविभवः कक्षाप्रदेशेऽप्यहो द्वाःस्थेनैव कुतूहलेन महता ग्राम्यो यथाहं कृतः ॥१२॥
बाभ्रव्यः - वसुभूते, अद्य खलु चिरात्स्वामिनं द्रक्ष्यामीति यत्सत्यमानन्दातिशयेन किमप्यवस्थान्तरमनुभवामि ।
कुतः ।
विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशादविस्पष्टां दृष्टिं तिरयति पुनर्बाष्पपटलैः ।
स्खलद्वर्णां वाणीं जडयतितरां गद्गदतया जरायाः साहाय्यं मम हि परितोषोऽद्य कुरुते ॥१३॥
विदूषकः - (अग्रे भूत्वा ।)
एदु एदु अमच्चो ।
वसुभूतिः - (विदूषकस्य कण्ठे रत्नमालां दृष्ट्वापवार्य ।)
बाभ्रव्य, जाने सैवेयं रत्नमाला या देवेन राजपुत्र्यै प्रस्थानसमये दत्तेति ।
बाभ्रव्यः - अमात्य, अस्ति सादृश्यम् ।
तत्किं वसन्तकादवगच्छामि प्रभवमस्याः ।
वसुभूतिः - बाभ्रव्य, मा मैवम् ।
महति राजकुले रत्नबाहुल्यान्न दुर्लभो भूषणानां संवादः ।
विदूषकः - (राजानमुद्दिश्य ।)
एसो क्खु महाराओ ।
ता उवसप्पदु अमच्चो ।
वसुभूतिः - (उपसृत्य ।)
जयतु जयतु देवः ।
राजा - (उत्थाय ।)
आर्य, अभिवादये ।
वसुभूतिः - आयुष्मान् भव ।
राजा - आसनमासनमार्याय ।
विदूषकः - (आसनमादाय ।)
भो, एदमासणं ।
ता उवविसदु अमच्चो ।
(वसुभूतिरुपविशति ।)
बाभ्रव्यः - देव, बाभ्रव्यः प्रणमति ।
राजा - (पृष्ठे हस्तं दत्त्वा ।)
बाभ्रव्य, इत आस्यताम् ।
विदूषकः - अमच्च, एसा देवी वासवदत्ता पणमदि ।
वासवदत्ता - अज्ज, पणमामि ।
वसुभूतिः - आयुष्मति, वत्सराजसदृशं पुत्रमाप्नुहि ।
(सर्व उपविशन्ति ।)
राजा - आर्य वसुभूते, अपि कुशलं तत्रभवतः सिंहलेश्वरस्य ।
वसुभूतिः - (ऊर्ध्वमवलोक्य निःश्वस्य च ।)
देव, न जाने किं विज्ञापयामि मन्दभाग्यः ।
(अधोमुखस्तिष्ठति ।)
वासवदत्ता - (सविषादमात्मगतम् ।)
हद्धी हद्धी ।
किं दाणिं वसुभूदी कधैस्सदि ।
राजा - वसुभूते, कथय ।
किमेवं मां पर्याकुलयसि ।
बाभ्रव्यः - (अपवार्य ।)
अमात्य, चिरमपि स्थित्वा यत्कथनीयं तदिदानीमेव कथ्यताम् ।
वसुभूतिः - (सास्रम् ।)
देव, न शक्यं निवेदयितुम् ।
तथाप्येष कथयामि मन्दभाग्यः ।
यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामायुष्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती दत्ता ।
राजा - (अपवार्य ।)
देवि, किमिदमलीकं त्वन्मातुलामात्यः कथयति ।
वासवदत्ता - अज्जौत्त, अहं पि ण जाणामि को एत्थ अलिअं मन्तेदित्ति ।
विदूषकः - तदो ताए किं संवुत्तं ।
वसुभूतिः - सा च युष्मदन्तिकमानीयमाना यानभङ्गात् सागरे निमग्ना ।
(इति रुदन्नधोमुखस्तिष्ठति ।)
वासवदत्ता - (सास्रम् ।)
हा हदम्हि मन्दभाइणी ।
हा बहिणिए रअणावलि, कहिं दाणिं सि ।
देहि मे पडिवअणं ।
राजा - समाश्वसिहि समाश्वसिहि ।
दुरवगाहा गतिर्दैवस्य ।
यानभङ्गपतितोत्थितौ नन्वेतावेव ते निदर्शनम् ।
(इति वसुभूतिबाभ्रव्यौ दर्शयति ।)
वासवदत्ता - अज्जौत्त, जुज्जदि एदं ।
परं कुदो मम एत्तिअं भाअधेअं ।
(नेपथ्ये महान्कलकलः ।)
हर्म्याणां हेमशृङ्गश्रियमिव निचयैरर्चिषामादधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः ।
कुर्वन्क्रीडामहीध्रं सजलजलधरश्यामलं धूमपातैरेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ॥१४॥
अपिच ।
देवीदाहप्रवादोऽयं योऽभृल्लावाणके पुरा ।
करिष्यन्निव तं सत्यं मन्ये वह्निः समुत्थितः ॥१५॥
(सर्वे सम्भ्रान्ताः पश्यन्ति ।)
राजा - कथमन्तःपुरेऽग्निः ।
(ससम्भ्रममुत्थाय ।)
कष्टम् ।
देवी वासवदत्ता दग्धा ।
हा प्रिये वासवदत्ते ।
वासवदत्ता - अज्जौत्त, परित्ताअदु, परित्ताअदु ।
राजा - अये, कथमतिसम्भ्रमादिहस्थापि देवी नोपलक्षिता ।
(देव्याः पाणिं गृहीत्वालिङ्ग्य ।)
देवि, समाश्वसिहि समाश्वसिहि ।
वासवदत्ता - अज्जौत्त, मए अत्तणो किदे ण भणिदं ।
किं उण एसक्खु मए णिग्धिणाए इध सञ्जमिदा साअरिआ विवज्जदि ।
ता परित्ताअदु अज्जौत्तो ।
राजा - कथं देवि, सागरिका विपद्यते ।
एष गच्छामि ।
वसुभूतिः - देव, किमकारणमेव पतङ्गवृत्तिः क्रियते ।
बाभ्रव्यः - देव, युक्तमाह वसुभूतिः ।
विदूषकः - (राजानमुत्तरीये गृहीत्वा ।)
भो मक्खु साहसं करेहि ।
राजा - (उत्तरीयमाकर्षन् ।)
अरे धिङ्मूर्ख, सागरिका विपद्यते किमद्यापि प्राणा धार्यन्ते ।
(ज्वलनप्रवेशं नाटयित्वा धूमाभिभवं नाटयन् ।)
विरम विरम वह्ने मुञ्च धूमानुबन्धं प्रकटयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥१६॥
वासवदत्ता - कधं मम दुक्खकारिणीए वअणादो एव्वं अज्झवसिदं अज्जौत्तेण ।
ता अहम्पि अज्जौत्तं जेव्व अणुगमिस्सं ।
विदूषकः - (परिक्रामन्नग्रतो भूत्वा ।)
भोदि, अहंवि दे पधोवदेसओ होमि ।
वसुभूतिः - कथं प्रविष्ट एव ज्वलनं वत्सराजः ।
तन्ममापि दृष्टराजपुत्रीविपत्तेर्युक्तमिहैवात्मानमाहुतीकर्तुम् ।
बाभ्रव्यः - (सास्रम् ।)
हा महाराज, किमिदमकारणमेव भरतकुलं संशयतुलामारोपितम् ।
अथवा किं प्रलापेन ।
अहमपि भक्तिसदृशमाचरामि ।
(इति सर्वेऽग्निप्रवेशं नाटयन्ति ।)
(ततः प्रविशति निगडसंयता सागरिका ।)
सागरिका - (समन्तादवलोक्य ।)
हद्धी हद्धी ।
आसमन्तदो प्पज्जलिदो हुदवहो ।
अज्ज हुदवहो दिट्ठिआ करिस्सदि मे दुक्खावसाणं ।
राजा - अये, इयमासन्नहुतवहा सागरिका वर्तते ।
तत्त्वरितमेनां सम्भावयामि ।
(त्वरितमुपसृत्य ।)
अयि प्रिये, किमद्यापि मध्यस्थतया वर्तसे ।
सागरिका - (राजानं दृष्ट्वात्मगतम् ।)
कधं अज्जौत्तो ।
ता एदं पेक्खिअ पुणोवि मे जीविदासा संवुत्ता ।
(प्रकाशम् ।)
परित्ताअदु परित्ताअदु भट्टा ।
राजा - भीरु, अलं भयेन ।
मुहूर्तमपि सह्यतां बहुल एष धूमोद्गमो हहा धिगिदमंशुकं ज्वलति ते स्तनात्प्रच्युतम् ।
मुहुः स्खलसि किं कथं निगडसंयतासि द्रुतं नयामि भवतीमितः प्रियतमेऽवलम्बस्व माम् ॥१७॥
(कण्ठे गृहीत्वा निमीलिताक्षः स्पर्शसुखं नाटयन् ।)
अहो, क्षणादपगतोऽयं मे सन्तापः ।
प्रिये, समाश्वसिहि समाश्वसिहि ।
व्यक्तं लग्नोऽपि भवतीं न धक्ष्यति हुताशनः ।
यतः सन्तापमेवायं स्पर्शस्ते हरति प्रिये ॥१८॥
(अक्षिणी समुन्मील्य दिशोऽवलोक्य च ।)
अहो महदाश्चर्यम् ।
क्वासौ गतो हुतवहस्तदवस्थमेतदन्तःपुरम् (वासवदत्तां दृष्ट्वा ।)
कथमवन्तिनृपात्मजेयम् ।
वासवदत्ता - (राज्ञः शरीरं परामृशन्ती सहर्षम् ।)
दिट्ठिआ अक्खदसरीरो अज्जौत्तो ।
राजा - बाभ्रव्य एष ।
बाभ्रव्यः - देव, इदानीं प्रत्युज्जीवितोऽस्मि ।
राजा - वसुभूतिरयम् ।
वसुभूतिः - विजयतां महाराजः ।
राजा - वयस्यः ।
विदूषकः - जअदु जअदु भवं ।
राजा - (विचिन्त्य सवितर्कम् ।)
स्वप्ने मतिर्भ्रमति किं न्विदमिन्द्रजालम् ॥१९॥
विदूषकः - भो, मा सन्देहं करेहि ।
इन्दजालं क्खु एदं ।
भणिदं तेण दासीए पुत्तेण इन्दजालिएण जह अवस्सं जेव्व एक्को मे खेडणओ देवेण पेक्खिदव्वोत्ति ।
तं जेव्व एदं ।
राजा - देवि, त्वद्वचनादियमस्माभिरिहानीता सागरिका ।
वासवदत्ता - (सस्मितम् ।)
अज्जौत्त, जाणिदं मए ।
वसुभूतिः - (सागरिकां दृष्ट्वापवार्य ।)
बाभ्रव्य, सदृशीयं राजपुत्र्या ।
बाभ्रव्यः - अमात्य, ममाप्येतदेव मनसि वर्तते ।
वसुभूतिः - (राजानमुद्दिश्य ।)
देव, कुत इयं कन्यका ।
राजा - देवी जानाति ।
वसुभूतिः - देवि, कुतः पुनरियं कन्यका ।
वासवदत्ता - अमच्च एसाक्खु साअरादो पाविदत्ति भणिअ अमच्चजोअन्धराअणेण मम हत्थे णिक्खित्ता ।
अदोज्जेव्व साअरिअत्ति सद्दावीअदि ।
राजा - (स्वगतम् ।)
यौगन्धरायणेन न्यस्तेयम् ।
कथमसौ मामनिवेद्य किञ्चित्करिष्यति ।
वसुभूतिः - (अपवार्य ।)
बाभ्रव्य, यथा सुसदृशी वसन्तकस्य कण्ठे रत्नमाला अस्याश्च सागरात्प्राप्तिः, तथा व्यक्तं सिंहलेश्वरस्य दुहिता रत्नावलीयम् ।
(इत्युपसृत्य प्रकाशम् ।)
आयुष्मति रत्नावलि, त्वमीदृशीमवस्थां गतासि ।
सागरिका - (वसुभूतिं दृष्ट्वा सास्रम् ।)
कधं अमच्चो वसुभूदी ।
वसुभूतिः - हा हतोऽस्मि मन्दभाग्यः ।
(इति भूमौ पतति ।)
सागरिका - हा ताद, हा अम्ब, कहिं सि ।
देहि मे पडिवअणं ।
(इति वसुभूतेरुपरि पतन्ती मोहमुपगता ।)
वासवदत्ता - (ससम्भ्रमम् ।)
अज्ज कञ्चुइ, इयं सा मे बहिणिआ रअणावली ।
बाभ्रव्यः - देवि, इयमेव सा ।
वासवदत्ता - (रत्नावलीमालिङ्ग्य ।)
बहिणिए समस्सस समस्सस ।
राजा - कथमुदात्तवंशप्रभवस्य सिंहलेश्वरस्य विक्रमबाहोरात्मजेयम् ।
विदूषकः - (स्वगतम् ।
रत्नमालां स्पृशन् ।)
पढमं जेव्व मए भणिदं णक्खु ईदिसो सामण्णजणस्स परिच्छदो भोदित्ति ।
वसुभूतिः - (उत्थाय ।)
राजपुत्रि, समाश्वसिहि समाश्वसिहि ।
नन्वियं ज्यायसी ते भगिनी दुःखमास्ते ।
तत्परिष्वजस्वेनाम् ।
रत्नावली - (समाश्वस्य वासवदत्तां दृष्ट्वा स्वगतम् ।)
कदावराहक्खु अहं देवीए ण सक्कणोमि मुहं दंसिदुं ।
(इत्यधोमुखी तिष्ठति ।)
वासवदत्ता - (सास्रं बाहू प्रसार्य ।)
एहि अदिणिट्ठुरे, दाणिं पि दाव सिणेहं दंसेहि ।
(इति कण्ठे गृह्णाति ।)
(रत्नावली स्खलितं नाटयति ।)
वासवदत्ता - (अपवार्य ।)
अज्जौत्त, लज्जेमि अहं इमिणा अत्तणो णिसंसत्तणेण ।
ता अवणेहि से बन्धणं ।
राजा - (सपरितोषम् ।)
यथाह देवी ।
(इति सागरिकाया बन्धनमपयनति ।)
वासवदत्ता - अज्जौत्त, अमच्चजोअन्धराअणेण एत्तिअं कालं दुज्जणीकिदम्हि ।
जेण जाणन्तेणवि ण मे णिवेदिदं ।
(ततः प्रविशति यौगन्धरायणः ।)
यौगन्धरायणः - देव्या मद्वचनाद्यदाभ्युपगतः पत्युर्वियोगस्तदा सा देवस्य कलत्रसङ्घटनया दुःखं मया स्थापिता ।
तस्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभः प्रभोः सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥२०॥
अथवा किं क्रियते ।
ईदृशमत्यन्तमाननीयेष्वपि निरनुरोधवृत्ति स्वामिभक्तिव्रतम् ।
(निरूप्य ।)
अयं देवः ।
यावदुपसर्पामि ।
(उपसृत्य ।)
जयतु जयतु देवः ।
देव, क्षम्यतां यन्मयानिवेद्य कृतम् ।
राजा - कथय किमनिवेद्य कृतम् ।
यौगन्धरायणः - करोत्वासनपरिग्रहं देवः ।
सर्वं विज्ञापयामि ।
(सर्व उपविशन्ति ।)
यौगन्धरायणः - देव, श्रूयताम् ।
येयं सिंहलेश्वरस्य दुहिता सा सिद्धेनादिष्टा ।
यथा योऽस्याः पाणिग्रहणं करिष्यति स सार्वभौमो राजा भविष्यतीति ।
ततस्तत्प्रत्ययादस्माभिः स्वामिनोऽर्थे बहुशः प्रार्थ्यमानेनापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता ।
राजा - तदा किम् ।
यौगन्धरायणः - तदा लावाणकेन वह्निना देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।
राजा - यौगन्धरायण, ततः परं श्रुतं मया ।
अथेयं देवीहस्ते किमित्यनुचिन्त्य स्थापिता ।
विदूषकः - भो, अणाचक्खिदं वि एदं जाणीअदि जेव्व जधा अन्तेउरगदा सुहेण दे दंसणपधं गमिस्सदित्ति ।
राजा - यौगन्धरायण, गृहीतस्तेऽभिप्रायो वसन्तकेन ।
यौगन्धरायणः - यदाज्ञापयति देवः ।
राजा - ऐन्द्रजालिकवृत्तान्तोऽपि मन्ये त्वत्प्रयोग एव ।
यौगन्धरायणः - अन्यथान्तःपुरे बद्धाया अस्याः कुतो देवेन दर्शनम् ।
अदृष्टायाश्च वसुभूतिना कुतः परिज्ञानम् ।
(विहस्य ।)
परिज्ञातायाश्च भगिन्याः सम्प्रति यथा करणीयं तत्र देवी प्रमाणम् ।
वासवदत्ता - (सस्मितम् ।)
अज्ज, फुडं जेव्व किं ण भणासि जधा पडिवादेहि से रअणावलिन्त्ति ।
विदूषकः - भोदि, सुठ्ठ तए जाणिदो अमच्चस्स आसओ ।
वासवदत्ता - (हस्तं प्रसार्य ।)
एहि रअणावलि एहि ।
एत्तिअम्पि दाव मम बहिणिआणुरूवं भोदु ।
(इति रत्नावलीं स्वकीयैराभरणैरलङ्कृत्य हस्ते गृहीत्वा राजानमुपसृत्य ।)
अज्जौत्त एदं रअणावलिं पडिच्छ ।
राजा - (सहर्षं हस्तौ प्रसार्य ।)
को देव्याः प्रसादं न बहु मन्यते ।
(इति सागरिकां गृह्णाति ।)
वासवदत्ता - अज्जौत्त, दूरेक्खु एदाए णादिकुलं ।
ता तधा करेसु जधा बन्धुजणं ण सुमरेदि ।
(इति समर्पयति ।)
राजा - यथाज्ञापयति देवी ।
विदूषकः - (सहर्षं नृत्यति ।)
ही ही भो, जअदु जअदु भवं ।
पुहविक्खु दाणिं हत्थगदा पिअवअस्सस्स ।
वसुभूतिः - देवि, स्थाने देवीशब्दमुद्वहसि ।
बाभ्रव्यः - इदानीं सफलपरिश्रमोऽस्मि संवृत्तः ।
यौगन्धरायणः - देव, किं ते भूयः प्रियमुपकरोमि ।
राजा - किमतःपरमपि प्रियमस्ति ।
यतः ।
नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्यैकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम् ॥२१॥
तथापीदमस्तु ।
(भरतवाक्यम् ।)
उर्वीमुद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिमिष्टामिष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात्समुपचितसुखः सङ्गमः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुर्जया वज्रलेपाः ॥२२॥
(इति निष्क्रान्ताः सर्वे ।)