तृतीयोऽङ्कः

(तदेव दृश्यम्। मञ्चकः रंगस्य मध्ये स्थापितः। तस्य अभितः आसन्द्यः स्थापिताः। मञ्चकस्योपरि दीपो ज्वलति। प्रवेशकोष्ठद्वारमपावृतं दृश्यते। उपरि कोष्ठात् नृत्यगीतं श्रूयते। लिण्डगृहिणी कस्यचन पुस्तकस्य पृष्ठानि चालयन्ती पठनं यतमाना चलचित्ता दृश्यते। सा वारं वारं प्रवेशद्वारस्य दिशि कमपि शब्दमाशंसन्ती आकर्णयन्ती दृश्यते।)

लिण्डगृ : (स्वमणिबन्धघटिकामवलोकयन्ती) अधुनापि न। वेला अत्येत्यैव। यदि केवलं सः- - (पुनः आकर्णयति) आहा, आगतः (प्रवेशकोष्ठं गत्वा द्वारं मन्दमुद्घट्टयति। सोपाने लघुपादाघाताः श्रूयन्ते। मन्दस्वरेण वदति।) आगच्छ, न कोऽप्यत्रास्ति।

क्रोग्स्टः : (द्वार्येव) तव पत्रकमद्राक्षम्। तस्य कोऽर्थः।

लिण्डगृ : मम त्वया सह सम्भाषणमत्यवश्यम्।

क्रोग्स्टः : परमार्थतः? इदमप्यवश्यं किम् यत् सम्भाषणं अत्रैव सम्पद्येत?

लिण्डगृ : यत्राहं निवसामि तत्र असाध्यम्। नैजप्रवेशद्वारं नास्ति। अन्तरागच्छ। नकोऽप्यत्रास्ति। सेविका स्वपिति। हेल्मेरदम्पती उपरिकोष्ठे नृत्ये निरतौ।

क्रोग्स्टः : (कोष्ठं प्रविशन्) तत्त्वतः हेल्मेरदम्पती नृत्ये प्रवृत्तौ किम्?

लिण्डगृ : बाढम्। कुतो न?

क्रोग्स्टः : असंशयम्, कुतो न?

लिण्डगृ : नील्स, इदानीं सम्भाषावहै।

क्रोग्स्टः : किमप्यस्ति यदुद्दिश्य आवां सम्भाषावहे।

लिण्डगृ : सम्भाषणीयं भूर्यस्ति।

क्रोग्स्टः : अहं तथा न भावयामि।

लिण्डगृ : वस्तुतः मां त्वं न जानासि।

क्रोग्स्टः : लोकस्य स्पष्टं यद्विदितं तद्विहाय किमन्यदासीत् ज्ञातुम्। निर्दया स्त्री समुपस्थिते अधिकलाभकरप्रसङ्गे पुमांसं धिक्करोतीति केवलम्।

लिण्डगृ : कच्चिदहं तथा निर्दया इति मनुषे? मया यत्कृतं तस्य कारणं मम कठोरहृदयमिति कच्चिन्मनुषे?

क्रोग्स्टः : अन्यत् किं?

लिण्दे : नील्स, त्वं वस्तुतः तथाचिन्तयः किम्?

क्रोग्स्टः : यद्यन्यथा आसीत् तर्हि त्वं कुतो वा तथा मां प्रति अलिखः?

लिण्डगृ : मम अन्यः मार्गः नासीत्। यदा आवयोरन्योन्यसंसर्गच्छेदनमवश्यमभवत् तदा तव मयि बद्धस्य अनुरागस्य ध्वंसनं मम कर्तव्यमभवत्।

क्रोग्स्टः : (हस्तं हस्तेन निष्पिषन्) अतस्तथा चरितं खलु। तत्सर्वं काञ्चनार्थमेव केवलम्।

लिण्डगृ : मा विस्मर। मम असहाया माता अनुजौ च आसन्। नील्स, तदानीं तव भविष्यं निराशाजनकमासीत्। अस्माकं प्रतीक्षणसामर्थ्यं नासीत्।

क्रोग्स्टः : तत् सम्भाव्यं भवेत्। कस्यचिदन्यस्य कृते मम धिक्करणे तव नासीदधिकारः।

लिण्डगृ : न जाने। असकृदहमात्मानमपृच्छम् यत्तथा कर्तुं मम अधिकारः कच्चिदस्ति।

क्रोग्स्टः : (मृदुतरम्) यदाहं त्वया विना कृतः तदा मम पादौ आधारभूतभूतलाद्वियुक्ताविव अभासताम्। इदानीं पश्य, भग्नपोतः पोतशकलमवलम्बमान इवास्मि।

लिण्डगृ : परं तु साहाय्यं सन्निहितं भवेत्।

क्रोग्स्टः : सन्निहितमासीत्। त्वमागम्य मार्गे मामरुणः।

लिण्डगृ : अनुद्दिष्टं खलु। नील्स, अद्यैव मया विदितमभवत् यदहं तव उद्योगपदे नियुक्ता भविष्यामीति।

क्रोग्स्टः : यदि त्वं तथा वदसि तर्ह्यहं त्वयि विश्वसिमि। विदितवृत्तान्ता त्वमधुना मत्कृते तमुद्योगं निराकुरुषे कच्चित्?

लिण्डगृ : न, मम निराकरणात् तुभ्यं न कोऽपि लाभो भविता।

क्रोग्स्टः : अहो, लाभः लाभः, – लाभो भविता वा न वा मया निराकृतं स्यात्।

लिण्डगृ : दूरदर्शितया जीवनं मया अवगतम्। जीवनं तथा कठोरतिक्तावश्यकता मां बोधयतः।

क्रोग्स्टः : जीवितं ललितभाषणानि न विश्वसनीयानीति मामबोधयत्।

नोरा : जीवितं त्वां न्याय्यमेव अबोधयत्। परंतु कर्माणि विश्वसनीयानि खलु।

क्रोग्स्टः : तव वचसा किमवगमनीयम्?

नोरा : त्वमवदः खलु “भग्नपोतः पोतशकलमवलम्बमान इवास्मि” इति।

क्रोग्स्टः : मम तथाभाषणस्य कारणमासीत्।

लिण्डगृ : अहमपि भग्नपोता पोतशकलमवलम्बमाना इवास्मि। न कोऽप्यस्ति परिदेवकः, न वा रक्षकः।

क्रोग्स्टः : तत्तव वरणमेव।

लिण्डगृ : मम नासीद्विकल्पः।

क्रोग्स्टः : अथ किमद्य?

लिण्डगृ : नील्स, यद्यावां भग्नपोतौ संभूय करवाव।

क्रोग्स्टः : का तव विवक्षा?

लिण्डगृ : पोतशकलमेकमवलम्बमानौ द्वौ प्रत्येकपोतशकलमवलम्बमानाभ्यां द्वाभ्यां जीवितरक्षणे सफलतरौ भवेतां खलु?

क्रोग्स्टः : क्रिस्टीने,

लिण्डगृ : येन उद्देशेन अहं नगरमागता स कः स्यादिति कच्चिन्मनुषे?

क्रोग्स्टः : तव मनः मामस्मरदिति कच्चित्?

लिण्डगृ : उद्योगं विना मया जीवितधारणमसाध्यम्। मम स्मरणं यावत् कालं गच्छति आतावत्कालं अहमुद्योगे निरताऽस्मि। उद्योग एव केवलं मह्यं भूयिष्ठं सुखं ददाति। परं तु इदानीमहमेकाकिनी भवामि। मम जीवनं शून्यताव्याप्तम्। अहं लोकपरित्यक्ता उद्योगे ईषदपि सुखं न विन्दामि। नील्स, देहि मे किञ्चन लक्ष्यं यदर्थमहमुद्योगनिरता भविष्यामि।

क्रोग्स्टः : अहं न विश्वसिमि। तत् स्त्रियः विस्तृतवदान्यता एव केवलं यत् त्वयि आत्मसमर्पणं चोदयति।

लिण्डगृ : कदापि त्वया मयि तादृशी भावना समीक्षिता कच्चित्?

क्रोग्स्टः : यस्मिन् चिकीर्षा अस्ति तत्कर्तुं समर्थासि कच्चित्? वद, त्वं मम गतजीवितं जानासि कच्चित्?

लिण्डगृ : बाढम्।

क्रोग्स्टः : अत्र जनः मां कीदृशमामनन्तीति त्वयावगतं किम्?

लिण्डगृ : यद्यहं तावकीनाभविष्यं तदा त्वमन्यःकोऽपि अभविष्यः इति मनुषे कच्चित्?

क्रोग्स्टः : तथैव निस्संशयम्।

लिण्डगृ : अद्य समयः अतीतः किम्?

क्रोग्स्टः : क्रिस्टीने! विमृश्य वदसि कच्चित्? आम्, निःसंशयम्, तव वदनं वदति। तव धृतिरस्ति किम्?

लिण्डगृ : कस्यापि माता भवितुमिच्छामि। तव अपत्यानि मातरं वाञ्छन्ति। आवां परस्परं वाञ्छावः। नील्स, तव नैजशीले श्रद्दधामि। त्वया सह किमपि कर्तुं शक्नोमि।

क्रोग्स्टः : (तस्याः पाणी गृह्णाति) धन्योऽस्मि, धन्योऽस्मि, क्रिस्टीने। अधुना लोकस्य दृष्ट्या मामुद्धारयितुं यते। अहो, विस्मरामि।

लिण्डगृ : (आकर्णयन्ती) तूष्णीं भव, तरान्तेला, गच्छ, गच्छ।

क्रोग्स्टः : कुतः? तत्किम्?

लिण्डगृ : तत्र उपरि तान् शृणोषि कच्चित्? यदा शब्दः विरमति तदा तौ पुनरागच्छतः।

क्रोग्स्टः : बाढम्,बाढम्, अहं गच्छामि, परंतु तेन न किमपि प्रयोजनम्। हेल्मेरदंपतीसम्बद्धविषये मया यदनुष्ठितं तत्त्वं न जानासि।

लिण्डगृ : सर्वमहं जानामि।

क्रोग्स्टः : तथापि त्वं धैर्येण - -

लिण्डगृ : त्वादृशः नैराश्येन कियत्पर्यन्तं प्रचोदितो भवतीत्यहमवगच्छामि।

क्रोग्स्टः : यन्मया कृतं तदन्यथाकर्तुं यद्यहं समर्थः अभविष्यम् - -

लिण्डगृ : न समर्थोऽसि। तव पत्रं पत्रपेटिकायां इदानीं वर्तते।

क्रोग्स्टः : दृढं मन्यसे कच्चित्?

लिण्डगृ : दृढं मन्ये। परं तु - -

क्रोग्स्टः : (तां परिशीलयन्निव पश्यन्) तत्सर्वस्य अर्थः अयमेव किम्? कच्चित् त्वं तव वयस्यां कथञ्चिदपि रक्षितुं यतसे? निर्व्याजं वद माम्।

लिण्डगृ : नील्स, न कापि स्त्री सकृत् परार्थे आत्मविक्रयणं कृतवती पुनः तत्कर्मणि प्रवर्तते।

क्रोग्स्टः : मम पत्रस्य निर्यातनाय पृच्छामि।

लिण्डगृ : न हि, न हि

क्रोग्स्टः : बाढम्, पृच्छाम्येव। अत्र हेल्मेरं प्रतीक्षे। “मम पत्रं मम उद्योगान्निष्कासनमुद्दिश्य लिखितम्। तत् त्वया न पठनीयम्। तन्निवर्तय” इति प्रार्थये।

लिण्डगृ : मैवम्, नील्स, पत्रनिर्यातनं मा भूत्।

क्रोग्स्टः : परं तु कथय माम्। तदर्थमेव त्वमत्र मम आगमनमैच्छः।

लिण्डगृ : बाढम्, भीताहं प्रथमक्षणे तव आगमनमैच्छम्। तत्प्रभृति घटिकानां चतुर्विंशतिर्याता। अस्मिन् समये अस्मिन् गृहे मया प्रत्ययातीतविषया दृष्टाः। हेल्मेरः तत्सर्वं ज्ञातुमर्हति। असन्तोषकररहस्यस्य अपावरणं भवेत्। यावदिमानि कैतवानि गूहनानिच वर्तन्ते तावत् तयोः अवश्यः अन्योन्यसद्भावः न जायते।

क्रोग्स्टः : तथैव भवतु यदि प्रष्टव्यता तावकीना भवेत्। मया शक्यं कार्यम् एकमस्ति। तदधुनैव करोमि।

लिण्डगृ : (आकर्णयन्ती) त्वर, द्राक् गच्छ। नर्तनं समाप्तम्। क्षणमात्रेण अरक्षितौ भवाव।

क्रोग्स्टः : अधस्त्वां प्रतीक्षे।

लिण्डगृ : बाढम्, तथैव कुरु। मद्गृहद्वारपर्यन्तं मत्सहायो भवन् त्वमागच्छेः।

क्रोग्स्टः : मम जीविते तादृशसौभाग्यं मया नानुभूतम्। (बाह्यद्वारा निष्क्रमते। प्रवेशकोष्ठद्वारमपावृतं वर्तते)

लिण्डगृ : (कोष्ठं शुद्धीकुर्वती स्वशिरस्त्रं बाह्यकञ्चुकं च सज्जीकुर्वती) आः, कियत्सुखावहमिदं पार्थक्यम्। कस्यापि कृते कर्म जीवितं च। निर्वृत्यानयनाय स्वगृहमेकम्। मया तत् क्रियते ननु। सद्य एव आगच्छन्तौ तौ काङ्क्षामि। (आकर्णयति) आम्, आगतौ। इदानीं सज्जामि। (स्वशिरस्त्रं बाह्यकञ्चुकं च गृह्णाति। नोराहेल्मेरयोः कण्ठध्वनिः श्रूयते। कुञ्चिकाघूर्णनशब्दः। हेल्मेरः बलादिव नोरां कोष्ठमानयति। सा इटलीदेशीयपरिधानधारिणी कृष्णवर्णोर्णपरिच्छ्दावृता दृश्यते। सः सन्ध्यापरिधानधरः गलितबन्धकृष्णप्रच्छादनधरश्च1)

Black domino which is flying open

नोरा : (बलाद्द्वारमवलम्बमाना हेल्मेरेण सह चेष्टमाना) न हि न हि नहि, मा नय माम्। सोपानमारुह्य पुनः उपरिकोष्ठं गन्तुमिच्छामि। नियतकालात्पूर्वमेव नर्तनान्निर्वर्तयितुं नेच्छामि।

हेल्मेरः : परं तु, मम प्रियतमे नोरे,

नोरा : कृपया, प्रिय टूर्वल, कृपया अतःपरं एकघटिकामात्रमेव।

हेल्मेरः : न निमेषाधिकमपि। मधुरे नोरे, आवयोः संवित्तथैवाभूत्। कोष्ठमागच्छ, तत्र तिष्ठन्ती शैत्येन क्लाम्यसि। (तां शनैः तस्याः निरुन्धत्याः कोष्ठमानयति।)

लिण्डगृ : शोभना सायं सन्ध्या।

नोरा : क्रिस्टीने।

हेल्मेरः : त्वमत्र, परिणतसमये, लिण्डगृहिणि।

लिण्डगृ : अथ किम्। क्षमां याचे। नोरां नृत्यपरिधानं दधानां द्रष्टुमुत्सुकाहम्।

नोरा : मां प्रतीक्षमाणा तिष्ठन्ती वर्तसे किम्?

लिण्डगृ : बाढम्, मन्दभाग्या विलम्बेन आगताहम्। त्वमुपरितनकोष्ठं गतवती आसीः। त्वामदृष्ट्वा गमनं मह्यं न रोचते स्म।

हेल्मेरः : (नोरायाः ऊर्ध्वपरिच्छदमपावृत्य) तां दीर्घमवलोकय। अवलोकनार्हा खलु सा। सा मनोहरा ननु?

लिण्डगृ : बाढम्, सा मनोज्ञा दृश्यते।

हेल्मेरः : सा अपूर्वसुन्दरी दृश्यते ननु। नर्तने सर्वे तां तथैव अमनिषत। परंतु इयं मधुरा तन्वी भूयिष्ठा स्वच्छन्दवर्तिनी। वयमनयासह किं कर्तुं शक्नुमः? त्वं तस्मिन् श्रद्दधासि किं यन्मया बलादेव अत्र आनीता।

नोरा : टूर्वल, घटिकार्धं केवलं नर्तनकोष्ठे स्थातुं मां त्वं नानुमनुषे यदि पश्चादनुतापं गमिष्यसि।

हेल्मेरः : लिण्डगृहिणि, शृणु ताम्, इयमात्मनः तरन्तेलानृत्यमनृत्यत् यत् सर्वथा अर्हणीयं साफल्यमविन्दत्। परंतु निर्वर्तने यथार्थता अतीतकलापरिमितिः समधिका स्यात्। परं तु इदमेव मुख्यं यत् तस्याः नर्तनम् अनर्घसाफल्यमविन्दत्। ततः परं तत्र तस्याः उपस्थितिः न प्रशस्या इत्यमनिषि। मद्भुजावलम्बिनी सपदि अभितः अवलोकयन्ती बद्धाञ्जलिः सभ्यान् नमस्कृत्य कथासु देवता इव तिरोहिताभवत्। निष्क्रमणं सदा फलवद्भवेत्। परं तु, लिण्डगृहिणि, नोरामिदमवगमयितुं न शक्नोमि। अयं कोष्ठः तपति। (प्रच्छादनं आसन्द्यां क्षिपति, स्वकोष्ठस्य द्वारं विघट्टयति।) अहो! अत्र तमः, क्षमां याचे। (अन्तः प्रविश्य दीपपादपान्2 दीपयति)

candle

नोरा : (ससाध्वसं मन्दस्वरेण) किमभूत्?

लिण्डगृ : (मन्दस्वरेण) तमवादिशम्।

नोरा : अथ

लिण्डगृ : नोरे, तव भर्त्रे सर्वमपि निवेदितव्यम्।

नोरा : (अव्यञ्जककण्ठे) मया विज्ञातमेव।

लिण्डगृ : क्रोग्स्टात् भयं नास्ति। सर्वं तव भर्त्रे निवेदय।

नोरा : अहं तं न वक्ष्यामि।

लिण्डगृ : परंतु पत्रं वक्ष्यति।

नोरा : उपकृतास्मि। इदानीं मया यत् करणीयं तज्जानामि। तूष्णीं भव।

हेल्मेरः : (पुनः प्रविश्य) लिण्डगृहिणि, सा त्वया प्रशस्ता कच्चित्?

लिण्डगृ : अथ किम्। इदानीं व्याहरामि, “शुभा रात्रिर्भूयात्”।

हेल्मेरः : किम्? अधुनैव? कच्चित् तवेदं सूत्रग्रथनम्?

लिण्डगृ : (तद्गृहीत्वा) बाढम्, उपकृतास्मि, विस्मृतप्रायमेव आसीत्।

हेल्मेरः : त्वया ग्रथ्यते?

लिण्डगृ : अथ किम्।

हेल्मेरः : जानासि कच्चित्? त्वया वस्त्रशिल्पं3 करणीयम्।

embroidery

लिण्डगृ : वस्तुतः? कुतः?

हेल्मेरः : बाढम्, तत् गौरवतरम्। इदानीं प्रदर्शयामि। वस्त्रं वामे हस्ते गृह्णासि। सूची दक्षिणहस्तादुपयुज्यते। -इत्थम्- दीर्घसुकरप्रसरैः। पश्यसि कच्चित्?

लिण्डगृ : बाढम्, संभाव्यम्।

हेल्मेरः : ग्रथनकर्म तु कथमपि न चारु। अत्र पश्य। भुजौ परस्परमाश्लिष्टौ, ग्रथनसूच्यः उर्ध्वमधः गच्छन्ति। चीनाप्रभाव इव। तैर्दत्तं द्राक्षासवं महत्तमम्।

लिण्डगृ : अथ, -शुभा रात्रिर्भूयात्- नोरे, अद्यप्रभृति न स्वच्छन्दवर्तिनी भूयाः।

हेल्मेरः : तत्समुचितम्, लिण्डगृहिणि।

लिण्डगृ : शुभा रात्रिः, हेल्मेरवर्य।

हेल्मेरः : (आद्वारं तया सह गच्छन्) शुभा रात्रिः, शुभा रात्रिः, त्वं तव गृहं समासीदसीत्याशासे। त्वया सह अहमपि- परं तु तव गृहं नातिदूरम्। शुभा रात्रिः, शुभा रात्रिः, (सा बहिर्गच्छति, द्वारं संघट्टयति पुनः आगच्छति च) आह्, अन्ते तस्या विमोचनं विन्दावः। सा स्त्री निस्सारवाचाला।

नोरा : टूर्वल, कच्चित् क्लान्तोऽसि?

हेल्मेरः : नहि, सर्वथा न।

नोरा : सुषुप्ससि कच्चित्?

हेल्मेरः : ईषदपि न। प्रत्युत अहम् अतितरामुल्लसितोऽस्मि। त्वं तु क्लान्ता स्वापाक्रान्ता दृश्यसे।

नोरा : अथ किम्। अहमतितमां क्लान्ता सद्य एव स्वपितुमिच्छामि।

हेल्मेरः : मया तत्र इतः परं तव उपस्थितेरवरोधनं समीचीनमेव।

नोरा : टूर्वल, यत्किमप्याचरसि तत् समीचीनमेव।

हेल्मेरः (तां ललाटे चुम्बन्) इदानीं मम कोकिला सविवेकं वदति। सायं रङ्कः कथं समुल्लसितमना आसीदिति त्वमवालोकयः किम्?

नोरा : वस्तुतः? स तथासीत्? अहं तेन सह न समभाषिषि।

हेल्मेरः : अहमपि स्तोकमेव। बहुकालात् तं तथाविधसमुल्लासं दर्शयमानं नापश्यम्। (तां कतिपयक्षणानवलोकयति तामुपसर्पति च) आवयोः स्वगृहे मिथः स्थितिः आनन्दप्रदा। इदानीं मोहिन्या मम प्रियतन्व्या सह मिथ उपस्थानेन मम मनस्तुष्यति।

नोरा : तथा मां मा द्राक्षीः, टूर्वल।

हेल्मेरः : मम अनन्यः श्रेष्ठनिधिः कुतो वा मया नावलोकनीयः?

नोरा : (मञ्चकस्य अपरपार्श्वं गच्छन्ती) अस्यां रात्रौ मां तथाविधवचोभिः मा वादीः।

हेल्मेरः : (तामनुसरन्) तव शोणिते अधुनापि तरान्तेलानृत्यं सञ्चरति। अत एव त्वं मोहनतरा दृश्यसे। अतिथयः जिगमिषन्ति। (मन्दस्वरेण) नोरे, सर्वः निलयः नीरवो भवति।

नोरा : बाढम्, तदेव अहमाशासे।

हेल्मेरः : बाढम्, मम निजप्रिये नोरे, यदाहं त्वया सह ईदृशभोजनोत्सवे उपस्थितो भवामि तदा त्वां स्तोकमेव वदामि, त्वत्तः दूरे भवामि, कदापि त्वां मुषितकटाक्षैर्वीक्षे। कुत इत्थं करोमीति जानासि किम्? तस्य कारणमिदम्। आवां रहस्यनुरक्तौ, त्वं मम रहसि प्रतिश्रुता वधूः, अस्मदनुरागः न केनाप्यन्येन शङ्कितः इति मनस्यैव कल्पयामि।

नोरा : बाढं, बाढम्। त्वं सदा मामेव चिन्तयसीति जानामि।

हेल्मेरः : किञ्च, प्रतिनिवर्तनसमये यदा तव सुन्दरबाहू मोहनकण्ठं च राङ्कवेन आच्छादयामि, तदा त्वां प्रथमं अस्मद्गृहमानयामि, प्रथमं लज्जावनम्रप्रियया त्वया सह मिथः अस्मि इत्येव मनसा कल्पयामि। अस्यां सन्ध्यायां तव समागममेव काङ्क्षामि। तरन्तेलायाः प्रलोभकमूर्तीः पश्यतः मम शोणितं तपति स्म। मम तितिक्षा हता। अत एव अचिरमेव मया अधः त्वमानीता।

नोरा : टूर्वल, आत्मानमपनायय। नाहम् - -

हेल्मेरः : किमिदम्? मम तन्वि, नोरे, विनोदयसि किम्? तव भर्ता नाहं कच्चित्?

(बाह्यद्वारे प्रहारशब्दः) नोरा : (जिगमिषन्ती) कच्चित् त्वया श्रुतम्?

हेल्मेरः : (बाह्यकोष्ठं गच्छन्) कोऽस्ति?

रङ्कः : (बहिरेव) अहमस्मि। क्षणमात्रमन्तरागच्छानि किम्?

हेल्मेरः: (क्लेशसूचककण्ठे मन्दम्) अहो, सः किमिदानीं वाञ्छति? (उच्चैः) क्षणं प्रतीक्षस्व। (द्वारमपावृणोति) आगच्छ, हृष्टोऽस्मि तवागमनेन।

रङ्कः : तव वाणी श्रुता इव। अतः अन्तरागम्य पृच्छानि इत्यागतः। (परितः दृष्टिं प्रचाल्य) अहो, एतेषु कोष्ठेषु युवां ससुखं रमेथे।

हेल्मेरः : त्वमुपरिकोष्ठे स्वसुखसन्तर्पणे निरत आसीरिति भाति।

रङ्कः : निःसंशयम्। तत्र को दोषः? लोकेऽस्मिन् मर्त्यः यथाशक्ति यथासमयं सुखमनुभवेन्ननु। द्राक्षापानं श्रेष्ठमासीत्।

हेल्मेरः : विशेषतः षाम्पानम्4 अत्युत्तममासीत्।

champaigne

रङ्कः : त्वया तदपि संवीक्षितम्? प्रत्ययातीतप्रमाणं पानं मया पीतम्।

नोरा : अद्य रात्रौ टूर्वलः अपि प्रभूतं षांपानमपात्।

रङ्कः : सः अपात् कच्चित्?

नोरा : अथ किम्, सर्वदा पश्चात् सः प्रफुल्लवदनः दृश्यते।

रङ्कः : भवतु, दिनस्य सद्विनियोगं कृत्वा दिनात्यये विलासपूर्णसमयान् कुतः न क्षपयेत्?

हेल्मेरः : दिनस्य सद्विनियोगः? अस्मिन् प्रशंसां नार्हामि।

रङ्कः : (हेल्मेरस्य वक्षःपृष्ठं5 लघु ताडयन्) अर्हाम्यहम्।

back

नोरा : अद्य कस्मिंश्चित् विज्ञानपरिशीलने निरतः स्याः कच्चित्।

रङ्कः : तथैव।

हेल्मेरः : आकर्णय, तन्वी नोरा विज्ञानपरिशीलनमुद्दिश्य वदति!

नोरा : तव परिशीलनमन्तमगमदिति त्वां श्लाघितुं अर्हामि किम्?

रङ्कः : अर्हसि ननु।

नोरा : परिशीलनफलमनुकूलमभवत् किम्?

रङ्कः : बाढम्, निःसंशयम्, वैद्यरुग्णयोश्च।

नोरा : (तूर्णं मार्गयन्तीव) निःसंशयम्?

रङ्कः : अथ किम्। निःसंशयम्, तत्पश्चात् मम सायंविलासः समुचितः खलु?

नोरा : अथ किम्। निःसंशयं वैद्य रङ्क।

हेल्मेरः : यावत् प्रातः त्वया न किमपि देयं भवेत् तर्हि अहमपि तथैव भावयामि।

रङ्कः : जीविते न किमपि त्वया प्राप्यते यत्प्राप्तये न किमपि देयं भवति।

नोरा : वैद्य रङ्क, तव चित्रपरिधानोत्सवे6 आसक्तिरस्ति किम्?

Fancydressball

रङ्कः : बाढम्। यदि बहूनि मनोज्ञानि परिधानानि सन्ति चेत्।

नोरा : वद माम्। आगामिन्युत्सवे आवां किं परिधानं परिधत्तः?

हेल्मेरः: मूढे, आगाम्युत्सवं प्रति चिन्तयसि किम्?

रङ्कः : आवाम्? बाढम्, त्वं मङ्गलकरदेवतावत् दृश्यसे।

हेल्मेरः : तत्पात्रे किमुचितं परिधानं भवेत्?

रङ्कः : तव भार्या सामान्यदिनपरिधानमेव परिदधती गच्छतु।

हेल्मेरः : तव सूचना समुचितैव। कथयसि कच्चित्तव वेषः किंविधः भवेदिति?

रङ्कः : बाढम्, मम प्रियमित्र, तस्मिन् विषये मया निर्धारितमेव।

हेल्मेरः : वद।

रङ्कः : आगामिनि चित्रवेषोत्सवे अहमदृश्यो भविष्यामि।

हेल्मेरः : सः समीचीनः विनोदः।

रङ्कः : पृथु कृष्णशिरस्त्रमेकं वर्तते। यदा तत् परिदधासि तदा न कोऽपि त्वां द्रष्टुं शक्नोति।

हेल्मेरः : (मन्दहासं रुन्धन्) बाढम्, त्वं सत्यं वदसि।

रङ्कः : यत्कृते अहमत्र आगतवान् तदेव विस्मरामि। हेल्मेर, कृष्णहवाना7भिधां तमाखुनाली8मेकां देहि।

Black havana

cigar

हेल्मेरः : सहर्षं ददामि।

(तमाखुनालीपेटिकां तस्मै दर्शयति)

रङ्कः : (तमाखुपेटिकायाः नालीमेकां उद्धरति, अन्तं छिनत्ति) उपकृतोऽस्मि।

नोरा (अग्नियष्टिं9 दीपयन्ती) ज्वालां दर्शयामि।

match

रङ्कः : (नोरा ज्वालया नालीं दीपयति) शुभमस्तु यावत् पुनर्मिलाम।

हेल्मेरः : शुभमस्तु, शुभमस्तु प्रिय वृद्ध।

नोरा : वैद्य रङ्क, सुखं स्वपिहि।

रङ्कः : अनुगृहीतोऽस्मि तव आशंसाभिः।

नोरा : मामपि तथैव आशास्स्व।

(रङ्कः ताभ्यां शिरः आनम्य निष्क्रमते)

हेल्मेरः : (नमितकण्ठे) स उचितपरिमाणमतीत्य पीतवान्।

नोरा : (शून्यमानसा) भवेत्। (हेल्मेरः स्वकञ्चुककोषात् कुञ्चिकागुच्छं10 ग्रहीत्वा प्रवेशकोष्ठं प्रति सरति) टूर्वल, तत्र किं कुरुषे?

Bunch of keys

हेल्मेरः : पत्रपेटिकां रिक्तीकरोमि। सा पर्याप्ता। प्रातः दिनपत्रिकाया अपि अवकाशो नास्ति।

नोरा : अद्य रात्रौ उद्योगनिरतो भवसि किम्?

हेल्मेरः : त्वं जानास्येव। नाहम् - - किमेतत्? कोऽपि तालं छेत्तुं - -

नोरा : छेत्तुम् - -?

हेल्मेरः : अथ किम्। कोऽपि। अस्य कोऽवगमः? मम चिन्तनातीतम्, सेविका - - अत्र भिन्ना केशसूची वर्तते। सा तवैव एका।

नोरा : (सत्वरम्) अपत्यानां कार्यं भवेत्।

हेल्मेरः : तानि सम्यक् शिक्षितुमर्हसि। अन्ततः अहं पत्रपेटिकामुद्घाटयितुं शक्नोमि। (पेटिकायाः पत्राणि उद्धृत्य महानसदिशि वदति) हेलने, हेलने, प्रवेशद्वारदीपं निर्वापय। (कोष्ठं प्रविश्य, प्रवेशकोष्ठस्य द्वारं पिदधाति। पत्रपूर्णं हस्तं प्रसार्य) पश्य, पत्रराशिरेव। (पत्राणि चालयित्वा) किमिदम्?

नोरा : (वातायने) पत्रम्। न! टूर्वल, न!

हेल्मेरः : द्वे दर्शनपत्रे11 रङ्कस्य।

Visiting card

नोरा : वैद्यस्य रङ्कस्य?

हेल्मेरः : (ते अवलोकयन्) नाम्नः उपरि कृष्णचतुष्पथचिह्नम्12। तत्र अवलोकय। असुखकरी भावना। आत्मनः मृतिं सूचयतीव।

Black cross

नोरा : तथैव।

हेल्मेरः : किम्? त्वं किमपि वेत्सि कच्चित्? तुभ्यं किमपि न्यवेदयत्?

नोरा : बाढम्, तयोः पत्रयोः प्राप्तिः मम आप्रच्छनं सूचयत इति सः मामवादीत्। सः आत्मानं सन्निरुद्ध्य असून् त्यक्तुं निश्चिनोति।

हेल्मेरः : मम प्रियबाल्यमित्रम्। सः अस्माभिः सह बहुकालं न वर्तते इति विदितमासीत्। परं तु इयत् तूर्णम्! व्रणितपशुरिव प्रच्छन्नस्तिष्ठति।

नोरा : यदीदं भवितव्यं तर्हि वाचं विना भवेदिति हि समीचीनम्। त्वं तथा भावयसि न कच्चित्, टूर्वल।

हेल्मेरः : (अत इतः चलन्) अस्मज्जीविते तथा रूढ इव आसीत् यथाहं ततः निरगादिति चिन्तयितुं न शक्नुयाम्। एकाकी दुःखभाक्च सः अस्मद्भास्वरसुखजीविते मेघावृतपश्चाद्भूमिरिव आसीत्। यदापन्नम् तद् तस्य भूत्यै एव इति मन्ये। (स्थिरं तिष्ठन्) नोरे, आवामिदानीं अन्योन्यं बद्धावभवाव (बाहुभ्यां तामालिङ्ग्य) मम प्रिये भार्ये, यथा यथा त्वां गाढमालिङ्गामि तथा तथा गाढतरमालिङ्गितुमिच्छामि। नोरे, त्वया अवगतं यत् त्वय्यापदि पतितायां अहं मम सर्वस्वं प्राणान्श्च त्वदर्थं त्यक्तुं सिद्धो भवेयमित्यसकृच्चिन्तयामि।

नोरा : (आत्मानं तस्य बन्धात् मोचयन्ती तं दृढं वदति) इदानीं त्वं तव पत्राणि पठ, टूर्वल।

हेल्मेरः : न हि, न हि, नाद्य रात्रौ, त्वया सह स्थातुमिच्छामि, मम प्रियभार्ये।

नोरा : तव मित्रस्य मृतिं चिन्तयन् - -

हेल्मेरः : तव वचनं साधु। आवां तेन प्रभाविताः। आवयोर्मध्ये किमपि विकृताकारं समागतम्। मरणरौद्रताचिन्तनानि मनसः निष्कासितव्यानि। तावत्पर्यन्तमावां निजकोष्ठे गच्छाव।

नोरा : (तस्य कण्ठे अवलम्बमाना) शुभा रात्रिः, टूर्वल, शुभा रात्रिः

हेल्मेरः : (तां ललाटे चुम्बन्) शुभा रात्रिः, मम तन्वि कोकिले, सुखं स्वपिहि, नोरे, इदानीं मम पत्राणि पठामि। (पत्राणि गृहीत्वा स्वकोष्ठं प्रविशति, कोष्ठद्वारं पिदधाति च)

नोरा : (संक्षुब्धमानसा अत इतः परामृशन्ती हेल्मेरस्य प्रच्छादनेन आत्मानमाच्छाद्य आक्षेपकमन्द्रस्वरेण सत्वरं जल्पति) न कदापि तं द्रक्ष्यामि, न कदापि, मम अपत्यानि च न कदापि द्रक्ष्यामि, न कदापि, शीतलकृष्णजलं, अगाधम्, यदि तदन्तं गच्छेत्, इदानीं तत् तस्य हस्तगतम्, पठन् अस्ति। शुभं भूयात्, टूर्वल, मदपत्यानि! (यावत् सा सत्वरं प्रवेशकोष्ठद्वारा बहिर्गन्तुमुद्यता तावदेव हेल्मेरः तूर्णं स्वकोष्ठद्वारमपावृत्य अपावृतपत्रं हस्ते गृहीत्वा तिष्ठति)

हेल्मेरः : नोरे!

नोरा : आह्!

हेल्मेरः : किमिदम्? अस्मिन् पत्रे किं लिखितमिति त्वं वेत्सि कच्चित्?

नोरा : अथ किम्। अहं वेद्मि। गच्छान्यहम्, बहिर्गच्छान्यहम्।

हेल्मेरः (तां निरुन्धन्) कुत्र गच्छसि?

नोरा : मां न रक्षेः टूर्वल।

हेल्मेरः (भ्रान्तः) तथ्यं किम्? यदत्र पठामि तत् तथ्यं किम्? भयानकम्, न हि, न हि, तन्न तथ्यम्, असाध्यम्।

नोरा : तत् तथ्यमेव। लोके अनन्यपरा त्वयि अहमनुरक्ता।

हेल्मेरः : अहो, ईदृशतुच्छहेतुभिरलम्।

नोरा : (तमनु पदमेकं चलन्ती) टूर्वल!

हेल्मेरः : तुच्छजन्तो! किमकार्षीः।

नोरा : मम गमनमनुजानीहि। मदर्थं तव क्लेशं मा भूत्। मम धुरावहनं तव मा भूत्।

हेल्मेरः : दुरन्तनटनैरलम्। (प्रवेशद्वारमर्गलयति) अत्र स्थित्वा मां सर्वमवगमयसि। त्वया यत्कृतं तदवगच्छसि कच्चित्? प्रतिवद माम्। त्वया यत्कृतं तदवगच्छसि किम्?

नोरा : (स्थिरदृशा तमवलोकयति, तस्या वदने वर्धमानायां विरक्ततायां वदति) बाढम्, इदानीमेव मम आमूलमवगमः जायमानः अस्ति।

हेल्मेरः : (कोष्ठे इतस्ततः चलन्) कियद्भयानकः ज्ञानोदयः! आ वर्षेभ्यः अष्टभ्यः या मम सुखदा आत्मविश्वासदा च आसीत् सा दाम्भिकी अनृतभाषिणी संवृत्ता- तस्या अपि जघन्या,जघन्या-घोरपातकिनी। अहो संवृत्तस्य सर्वस्य अवाच्यता, दुष्कीर्तिः। (नोरा मौनमाश्रित्य तं धीरं विलोकयति। स तस्याः संमुखमागच्छति) एवंविधघटनं संभवनीयमिति मया शङ्कनीयमासीत्। अनागतस्य दर्शनं मया कार्यमासीत्। तव पितुर्नयविहीनता त्वयि दृश्यते। न धर्मः, न नीतिः, न कर्मपरता। तदा तस्य दुष्कर्माण्यविगणय्य इदानीं दण्डनमनुभवामि। त्वदर्थे तन्मया कृतम्। एवं त्वया प्रत्युपकृतोऽस्मि।

नोरा : अथ किम्। त्वया सम्यगुक्तम्।

हेल्मेरः : अधुना त्वया मम सर्वः आनन्दः विनाशितः। मम भविष्यं विध्वंसितम्। इदमचिन्तनीयं भयानकम्। अस्य दुर्जनस्य अधीनो भवामि। सः स्वच्छन्दं मयि वर्तेत। मया तस्य इच्छा अनुसरणीया। मया तस्य आज्ञापालकः भवितव्यम्। अस्याः अविवेकिन्याः कृते अहं अगाधदुःखे मज्जामि।

नोरा : मयि तव मार्गाद्दूरं गतायां त्वं स्वतन्त्रो भविष्यसि।

हेल्मेरः : अलं चारुभाषणैः। तव पितुरपि तादृशभाषणानि बहून्यासन्। यदि त्वं दूरं गच्छसि चेत् तेन मम किम्? न किमपि। स इमं प्रसंगं सर्वत्र विदितं कुर्यात्। तदा तव दण्ड्यकर्मणि अहमपि सहायः अभवमिति लोकश्चिन्तयेत्। इदमपि सम्भाव्यं यत् लोकः अहमेव एतत्कर्मणि सूत्रधारः अभवम् इति चिन्तयेत्। सर्वः अयं या आविवाहान्मया आराध्या आसीः तस्यास्तव अनुग्रह एव। त्वया मदर्थं किं कृतमित्यधुना अवगच्छसि कच्चित्?

नोरा : (भावशून्यशान्तस्वरेण) बाढम्।

हेल्मेरः : इदमविश्वसनीयम् असह्यम्। परं तु अस्मिन्विषये आवाभ्यां ऐकमत्येन करणीयमस्ति। तव ऊर्णाच्छादनमवतारय, शृणु, अवतारय। कथमपि सः मया प्रीणनीयः। प्रसङ्गः कथमपि गूहनीयः। आवयोः मिथः सम्बन्धस्तु लोकस्य दृष्ट्या यथातथं दृश्येत। त्वं मद्गृहे एव निवससि। परं तु अपत्यानां योगक्षेमं त्वं न कुर्याः। त्वां तत्कर्मण्यहं न विश्वसिमि। या मया एवं निर्दिश्यते सा मम उत्कटप्रेमभाजनमासीत्, अद्यापि – न हि - तत्सर्वमन्तमगमत्। अद्यप्रभृति आनन्दस्य प्रश्न एव नोदेति। अवशेषस्य, छिन्नस्य बाह्यरूपस्य एव रक्षणं कार्यम्। (प्रवेशद्वारे द्वारघण्टा ध्वनति)

हेल्मेरः (चकितः)) कोऽयम्? परिणतरात्रौ? स किम्? नोरे अन्तरिता भव, अस्वस्थाहमिति वद।

(नोरा निश्चला उपतिष्ठति, हेल्मेरः प्रवेशद्वारं गत्वा निरर्गलयति)

सेविका (अपूर्णपरिधाना द्वारमागच्छति) आर्यायै पत्रम्।

हेल्मेरः : देहि मे। (पत्रं गृहीत्वा द्वारं पिदधाति) आम्, तस्मादागतम्। त्वं न प्रतीच्छसि, अहमेव पठामि।

नोरा : बाढम्, त्वमेव पठ।

हेल्मेरः : (दीपस्य समीपे उपतिष्ठन्) गलितधैर्योऽहम्। आवयोः पलायनमेव शरणं भवेत्। नहि, मया ज्ञेयमेव। (पत्रकोशं विदलयन्, पत्रस्य प्रथमपङ्क्तिषु दृष्टिं चालयन्, संलग्न पत्रमेकं विलोक्य सानन्दमुच्चैः स्वनति)

नोरा : (प्रश्नमुखी तं विलोकयति)

हेल्मेरः : नोरे, न, अप्यैकवारं पठानि, बाढम्, सत्यमेव, अहं रक्षितोऽस्मि, नोरे, अहं रक्षितोऽस्मि।

नोरा : अहमपि?

हेल्मेरः : त्वमपि। सुनिश्चितम्। आवाम् रक्षितौ। सः तव ऋणपत्रं तुभ्यं प्रेषते। “दुःखितोऽस्मि, क्षमां याचे” इति वदति। तस्य जीविते सुखमयपरिवर्तनम्। तस्य कत्थनेन आवयोः किम्। आवां सुरक्षितौ। नोरे, न कोऽपि तव हानिं कुरुते। अहो, नोरे, नोरे – न, प्रथममिमानि दूष्यानि मया ध्वंसितव्यानि। (ऋणपत्रमवलोकते) न, न, नाहमवलोकये। सर्वः दुःस्वप्न इव भवेत्। (ऋणपत्रं पत्रं च छिनत्ति, तत्सर्वं चुल्ल्यां प्रहरति च, दह्यमाने ते विलोकयति) अहो, अधुना तन्नास्ति। “आक्रिस्तोत्सवादेते त्रयो दिवसास्तव भयानका भवेयु”रिति वदति।

नोरा : एतान् त्रयो दिवसान् अहं घोरं युद्धमयुत्सि।

हेल्मेरः : असह्यवेदनाः अनन्यमार्गा अन्वभूः। इदानीं ताः न स्मराव। सानन्दमुच्चैः स्वनाव। इदमेव वारं वारं व्याहराव, “सर्वं तदन्तमगमत्, सर्वं तदन्तमगमत्”। नोरे, शृणु माम्। सर्वं समाप्तमिति नावगच्छसि किम्? कथमेवम्? भावशून्यवदना असि? मम अमाये तन्वि नोरे, अहमवैमि, अहं त्वां क्षमे इति त्वं न श्रद्धत्से। परंतु इदं सत्यम्। अहं प्रतिजाने त्वया कृतं सर्वमहं क्षमे। यत्त्वया कृतं तत्सर्वं मयि तव प्रेम एव प्राचोदयत्।

नोरा : तत् सत्यम्।

हेल्मेरः : यथा भार्या भर्तर्यनुरक्ता भवेत्तथैव त्वं मय्यनुरक्तासि। परं तु त्वया उपयुक्तस्य करणस्य समीचीनतायाः निर्णये तव संप्राप्तं ज्ञानं नासीत्। त्वं स्वयमेव कार्यधुरां वोढुं असमर्था अभवः इति यत् तेन कारणेन त्वयि मम अनुरागः क्षीयते इति चिन्तयसि किम्? न हि, न हि, मामवलम्बस्व, अहं त्वामुपदिशामि निर्दिशामि. यदि मम दृष्ट्या तव स्त्रैणी असहायता तव मनोज्ञतां न द्विगुणीकरोति तर्हि अहं पुमान् न भवेयम्। मम प्रथमसन्त्रस्तक्षणे यदा सर्वं मामाक्राम्यतीत्यचिन्तयं तदा मया कठोरवचनानि प्रोक्तानि। तानि त्वया न चिन्तितव्यानि। अहं त्वां क्षमै। अहं प्रतिजाने। अहं त्वां क्षमे।

नोरा : तव क्षमया अहमुपकृतोऽस्मि।

(सा दक्षिणद्वारेण बहिर्गच्छति)

हेल्मेरः : न, मा गा। (अन्तःकोष्ठे दृष्टिं चालयन्) तत्र किं कुरुषे?

नोरा : (कोष्ठोदरात्) मम चित्रवेषं अवतारयन्ती।

हेल्मेरः : (अपावृतद्वारि उपतिष्ठन्) बाढम्, शान्तचित्ता भव। भीते, तन्वि, कोकिले। शान्ता भव। निर्भयतामनुभव। मम विशालपक्षौ त्वां रक्षतः। (उपद्वारं इतस्ततः चरति)। अस्मद्गृहः कियत्शाखप्रदः कियत् सुखदः। अत्रैव तव शरणम्। अत्र त्वां श्येनानुसृतकपोतिकामिव रक्षामि। तवकम्पमानहृदे शान्ति दास्यामि। शनैः शनैरागमिष्यति। नोरे, मयि विश्वसिहि, शर्वर्यां प्रभातायां त्वमन्यप्रकारेण सर्वमवलोकयसि, तूर्णं सर्वं यथातथं भविष्यति। “द्रुतमहं त्वां क्षमे” इति मया दृढीकरणमनवश्यं भविष्यति। त्वमात्मन्येव मम क्षमां प्रति निश्चिता भविष्यसि। कदापि मया त्वं प्रत्याख्याता निन्दिता वा भविष्यसीति भावयसि किम्? सत्त्ववतः पुंसः हृदयं कथंविधमिति त्वं न जानासि। अहं स्वतन्त्रतया मनःपूर्वकं मम भार्यां क्षमे इत्यवगमः पुरुषस्य अनिर्वचनीयमधुरतायाः सफलतायाः कारणं भवति। तस्यां पुंसः स्वता द्विगुणीभवति। सः तस्यै नूत्नं जीवितं ददातीव। सा तस्य न केवलं भार्या तस्य दुहितापि भवतीव। तथैव मम त्वमपि भवेः। भीते, अनन्यसहाये, मम प्रिये, कस्मिन्श्चिदपि विषये उद्विग्ना भवितुं नार्हसि। नोरे, मयि निर्व्याजतया सरलतया वर्तस्व। अहं तव इच्छाशक्तिरूपेण मानसशुद्धिरूपेण च वर्ते।

किमिदम्? शय्यां न गता? परिधानपरिवर्तनं कृतं किम्?

नोरा : (दैनिकपरिधाना) अथ किम्। परिवर्तनं संवृत्तम्।

हेल्मेरः : कुत एवम्? परिणते रात्रौ?

नोरा : अद्य रात्रौ अहं न स्वपिमि।

हेल्मेरः : परं तु मम प्रिये नोरे।

नोरा : (स्वमणिबन्धघटिकामवलोकयन्ती) इदानीं रात्रिः न परिणता। अत्र उपविश। टूर्वल, आवयोः परस्परं कथनं बहु वर्तते।

(सा मञ्चकस्य एकपार्श्वे उपविशति)

हेल्मेरः : किमिदम्? तव वदनं भावशून्यम्?

नोरा : उपविश, मया तुभ्यं कथनं भूर्यस्ति।

हेल्मेरः : (मञ्चकस्य विरुद्धपार्श्वे उपतिष्ठति) नोरे, त्वं मां भीषयसि। त्वामहं नावगच्छामि।

नोरा : न, तत्तथैव, त्वं मां नावगच्छसि। अद्यपर्यन्तं अहमपि त्वां नावगच्छम्। न, मा मामन्तरा प्रतिबधान। टूर्वल, यद्वदामि तत् त्वया श्रोतव्यमेव। इदं मिथः गणनाव्यवस्थापनम्।

हेल्मेरः : तस्य कोऽर्थः?

नोरा : (क्षणं विरम्य) अत्र आवयोः एवमुपवेशने विचित्रमेकमस्तीति तव भाति किम्?

हेल्मेरः : किम् तत्?

नोरा : आविवाहादद्यपर्यन्तं अष्टौ वर्षा याताः। इदमेवप्रथमं यदा आवां दम्पती गभीरसंलापे प्रवृत्तौ इति न भाति कच्चित्?

हेल्मेरः : गभीर इत्यस्य का विवक्षा?

नोरा : इमौ अष्टौ वर्षान्- ततोऽपि द्राघीयः- आप्रथमपरिचयात् गभीरविषयमुद्दिश्य न कदाप्यावयोः मिथः संलापः कृतः।

हेल्मेरः : येषां धुरावाहने त्वं सहाया भवितुमशक्तासि तान् विषयानुद्दिश्य सततं त्वां पीडयानीति संभाव्यं किम्?

नोरा : अहं तव उद्योगविषयमुद्दिश्य न वदामि। आवां न कदापि कञ्चिदपि विषयमुद्दिश्य आमूलं संलापं कृतवन्तौ।

हेल्मेरः : परंतु, प्रियतमे नोरे, तथासंलापेन तव को वा पुरुषार्थः साधितः स्यात्?

नोरा : तत् तथैव। त्वं मां कदापि न अबुद्ध्यथाः। मयि अपराधः आचरितः आदौ मम पित्रा ततः त्वया।

हेल्मेरः : अहो! त्वं यथा आवयोः प्रिया तथा कस्याप्यन्यस्य न भवसि।

नोरा : (शिरः कम्पयन्ती) मयि त्वं कदापि नानुरक्तः। मयि अनुरागभावः हितकर इति केवलं भावयसि।

हेल्मेरः : नोरे, किं श्रावयसि माम्?

नोरा : तत् तथ्यमेव। टूर्वल, यदा अहं मम पितुर्गृहे आसं तदा सः सर्वविषयेषु आत्मनः अभिप्रायान् मह्यं निवेदयति स्म। अतः मम अभिप्रायाः त एव आसन्। यदि मम अभिप्रायः तस्य अभिप्रायाद्भिन्नः अभवत् तदाप्यहं तद्भिन्नतां प्रच्छादयामि स्म। यतः तादृशभिन्नाभिप्रायः तस्मै न रोचते स्म। सः पुत्रिका-बाला इति मां समाह्वयति स्म। यथाहं मम पुत्रिकाभिः सह अखेलयम् तथैव सः मया सह अखेलयत्। यदा अहं त्वया सह निवसितुम् आगच्छं - -

हेल्मेरः : अस्मद्विवाहं प्रति तव किंविधं निरूपणम्?

नोरा : (अनुद्विग्ना) मम पितुः हस्ताभ्यां तव हस्तयोः अहं केवलं हस्तान्तरं नीता। सर्वं तव रुच्यनुसारमेव संपादितम्। कदापि तव रुचिरेव ममाभवत्। अन्यदा छद्मना तव रुचिरेव मम इति प्राकटयम्। पूर्वं वीक्षे यदि अत्र कयाचन दुर्गतया दीनस्त्रिया इव मया कालः व्यतीत इति भावना उदेति। त्वदर्थे खेलननिर्वर्तनमेव मम जीवितार्थः अभवत्। टूर्वल, तदेव तव इष्टमभवत्। अतः मम पित्रा त्वया च मयि पापमाचरितम्। मम जीवितस्य शून्यतायाः कारणं त्वमेव।

हेल्मेरः : त्वं कियती औचित्यापेता कियती कृतघ्ना खलु। नोरे, अत्र त्वं न सुखिता आसीः?।

नोरा : अथ किम्। न कदापि सुखिता। सुखिताहमिति मन्ये स्म। परं तु न कदाचिदपि सुखिता।

हेल्मेरः : न सुखिता।

नोरा : अथ किम्। केवलं विनोदशीला। त्वं सर्वदा मयि कृपापूर्णः असि। अस्मद्गृहं खेलागृहं केवलम्। अहं तव दयितपुत्रिका यथा मम पितुर्बालपुत्रिका आसम्। मम अपत्यानि मम पुत्रिका अभवन्। यदा त्वं मया सह खेलान्यखेलयः तदाहं तानि विनोदभरितानीति मन्ये स्म, यथा यदा अहं मम अपत्यैः सह अखेलयम् ते मन्यन्ते स्म। तदेव अस्माकं विवाहजीवितम्।

हेल्मेरः : तव वचसि किञ्चित् सत्यमस्ति। अत्युक्तिः कलुषितदृष्टिश्च स्तः। भविष्ये तत् पृथग्भविष्यति। पाठकालः प्रारभेत।

नोरा : कस्य पाठाः? मम वा अपत्यानाम्?

हेल्मेरः :मम प्रिये नोरे, तव अपत्यानां च।

नोरा : हन्त, टूर्वल, मां त्वद्योग्यभार्यां कर्तुं पाठनं त्वया न शक्यम्।

हेल्मेरः : तथा त्वं वक्तुमर्हसि।

नोरा : अपत्यवर्धने कथमहं योग्या?

हेल्मेरः : नोरे।

नोरा : अपत्यवर्धनकार्ये मां नियोजयितुं मयि तव विश्वासः नास्तीति त्वया एव उक्तं खलु क्षणेभ्यः पूर्वम्?

हेल्मेरः : क्रुद्धः आसम्। कुतः तद्गणयसि?

नोरा : त्वं सत्यमेव अवादीः। तत्कार्ये नाहं योग्या। प्रथमं मया अन्यत् कार्यमस्ति। मया विद्यार्जनं यतनीयम्। तत्कार्ये त्वं मम सहायः पुमान् न भवसि। अत एव इदानीं त्वां परित्यक्तुं प्रवृत्ताहम्।

हेल्मेरः : (द्रागुत्थाय) किं वदसि?

नोरा : इतः सद्य एव गच्छामि। क्रिस्तीना तस्याः गृहे इमां रात्रिमुषितुं नियतं मामनुजानीते।

हेल्मेरः : मतिभ्रष्टा त्वम्। अहं त्वां नानुजाने। मया निरुद्धासि।

नोरा : अद्यप्रभृति त्वया मम निरोधनं न कस्मैचिदपि कार्याय। यन्ममस्वं तदेव नयिष्यामि। सद्यः न कदाचिदपि तव स्वं न नयामि।

हेल्मेरः : कीदृशमिदं भ्रान्तचित्तम्!

नोरा : श्वः मद्गृहं गमिष्यामि। मम पुरातनगृहम्। तत्र कस्मिन्श्चिदपि उद्योगे प्रवृत्तिः सुकरतमा।

हेल्मेरः : अन्धा मन्दबुद्धिः स्त्री खलु त्वम्।

नोरा : टूर्वल, मया मम मार्गः अन्वेषितव्यः।

हेल्मेरः : स्वगृहं स्वभर्तारं, स्वापत्यानि च त्यजसि किम्? लोकः किं वदतीति न विचारयसि?

नोरा : तन्मया न विचार्यते। मम गृहत्यागः अवश्य इत्येव जानामि।

हेल्मेरः : आघातोऽयम्। कथमित्थं तव पवित्रतमकर्तव्यानि त्यजसि?

नोरा : मम पवित्रतमकर्तव्यानि कानीति त्वं भावयसि?

हेल्मेरः : तानि कानीति मया वक्तव्यं किम्? तानि कच्चिन्न तव भर्त्रे तव अपत्येभ्यश्च कर्तव्यानि?

नोरा : पावित्र्ये तत्समानानि मम अन्यानि कर्तव्यानि च सन्ति।

हेल्मेरः : न सन्ति। तानि अन्यानि कर्तव्यानि कानि भवेयुः?

नोरा : आत्मने कर्तव्यानि।

हेल्मेरः : तव पत्नीत्वं जननीत्वं प्राथम्यं लभेते खलु।

नोरा : इतः परं तयोः प्राथम्ये मम विश्वासः नास्ति। प्रथमं त्वमिव अहमपि विवेकशीलमनुष्यजातिः। यदि तथा न भवेयं तर्हि तथा भवितुं मया यतनीयमिति मे विश्वासः। प्रायेण लोकस्तव चिन्तनमेव पुरस्करोति। ग्रन्थेषु तादृशचिन्तनानि दृश्यन्ते। इतः परं यल्लोकः पुरस्करोति यद्ग्रन्थेषु दृश्यते वा तत् पुरस्कर्तुं न शक्नोमि। यन्मया कर्तव्यं तन्मयैव चिन्त्यं मयैव अवगम्यम्।

हेल्मेरः : तवैव गृहे तव स्थानं त्वं नावगन्तुं शक्नोषि कच्चित्? तादृशविषयेषु न कोऽप्यस्ति विश्वासार्हः मार्गदर्शी कच्चित्? कमपि धर्मं नानुयासि किम्?

नोरा : टूर्वल, क्षमस्व माम्, धर्मः किंविध इति नावगच्छामि।

हेल्मेरः : किं वा वदसि?

नोरा : धर्मप्रवेशकर्म13णि यत् पुरोहितः14 अवोचत् तद्विहाय अन्यत् किमपि न जानामि। धर्म एवं भवति, इत्थं भवतीत्यवोचत्। यदा एभ्यः विषयेभ्यः दूरं गतास्मि तदा एकाकिनी तान् प्रति चिन्तयिष्यामि। यदि यदुक्तं पुरोहितेन तत् तथ्यं वा न वा, यदि तत् सर्वदा मद्विषये तथ्यं वा न वा इति।

confirmation

clergyman

हेल्मेरः : त्वद्वयसः बाला इत्थं वदतीति यत् तदश्रुतपूर्वम्। यदि धर्मः त्वामुचितमार्गे न नयति चेत्, तव नीतिशीलतां जागरयामि। नीतिबद्धतायां तव कश्चिद्विश्वासः अस्तीति संभावयामि। उत्तरं वद- तादृशविश्वासः तव नास्तीति मया संभाव्यं किम्?

नोरा : टूर्वल, तस्य प्रश्नस्य उत्तरं वचः न सुकरमिति निश्चयेन कथयामि। तत्त्वतः अहं न जानामि। प्रश्नः मयि भ्रान्तिं जनयति। आवयोः दृष्टिकोणौ पृथक् भवतः इति जानामि। शासनं15 मम शासनस्य कल्पनायाः भिन्नमिति अधुनैव अवैमि। शासनं समीचीनमिति निश्चयेन आत्मानं प्रत्याययितुं मया असाध्यमिति मे भाति। शासनानुसारेण स्त्री जरितपरिणतपितुः क्लेशं न्यूनीकर्तुं, भर्तुः जीवरक्षणं वा कर्तुं न अधिकृता। तस्मिन् न मे विश्वासः।

law

हेल्मेरः : त्वं शिशुवद्भाषसे। यस्मिन् जगति त्वं जीवसि तस्य अवस्थाः त्वं न जानासि।

नोरा : बाढम्, न जानामि। परंत्वधुना ताः ज्ञातुं प्रयते। कस्य सत्पथः लोकस्य उत मम इति ज्ञातुं यते।

हेल्मेरः : त्वमस्वस्थासि। नोरे, त्वं भ्रान्तचित्तासि। त्वं मतिभ्रमपीडिता किमु इति शङ्के।

नोरा : न कदापि मे मनस्तथा स्फुटं स्पष्टं च आसीद्यथास्यां रजन्यामस्ति।

हेल्मेरः : स्पष्टस्फुटमनसा त्वं भर्तारमपत्यानि च त्यजसि कच्चित्?

नोरा : बाढम्। तत्तथैव।

हेल्मेरः : यद्येवं तदा तस्य कारणमेकमेव।

नोरा : किं तत्?

हेल्मेरः : अद्यप्रभृति त्वं मयि नानुरक्ता।

नोरा : अथ किम्। तत्तथैव।

हेल्मेरः : नोरे, - त्वं तथा वदसि?

नोरा : टूर्वल, त्वं सर्वदा मयि करुणाशीलः आसीः। एवं कथनं मां दूयते। न मेऽन्यः पन्था। अद्यप्रभृति अहं त्वयि नानुरक्ता।

हेल्मेरः : (स्थैर्यं पुनः प्राप्य) सः स्पष्टः स्फुटः निश्चयः किम्?

नोरा : अथ किम्। निःसंशयं स्पष्टः स्फुटः निर्णयः। अत एव अद्यप्रभृति, अहमत्र न निवसिष्ये।

हेल्मेरः : मां वद, मया किमाचरितं यत्कारणादहं तव प्रेमभाजनं न भविष्यामि।

नोरा : बाढम्। मया वक्तव्यमेव। अस्यां रजन्यां यदा आश्चर्यजनकः प्रसङ्गः न समभूत् तदा त्वं मया संभावितः पुरुषः नासीरिति अहमद्राक्षम्।

हेल्मेरः : त्वां नावगच्छामि। स्पष्टं विवृणोषि किम्?

नोरा : अहमष्टौ वर्षान् तितिक्षया प्रतीक्षमाणा अस्मि। आश्चर्यकरप्रसङ्गाः प्रतिदिनं न सम्पद्यन्ते इति मया सम्यगवगतमासीत्। तदनु अयं भयानकः दुरदृष्टः समापद्यत। तदा आश्चर्यकरप्रसङ्गः असंशयं सम्पद्यत एव इत्यहं मन्ये स्म। यदा क्रोग्स्टस्य पत्रं तत्र वर्तते स्म तदा त्वमस्य पुंसः नियमानङ्गीकुरुषे इति क्षणमेकमप्यहं नाचिन्तयम्। अहमसंशयं मन्ये स्म यत् “त्वं सर्वस्मिन् जगति तं विषयं प्रकटीकुरु” इति त्वं तं वदिष्यसि। किञ्च, यदा तत्कृतं –

हेल्मेरः : बाढम्, ततः किम्? – यदा मम भार्यां कलङ्कितामपमानिताम् पश्यन्

नोरा : ततः, अहं निःसंशयं मनसि निश्चिता आसं यत् त्वं “मयैव अपराधः कृतः” इति वदन् दोषधुरां आत्मन्यैव न्यस्यसि।

हेल्मेरः : नोरे।

नोरा : त्वत्कृततथाविधत्यागं न कदाप्यहमनुजाने इति मन्यसे खलु? बाढम्, तत्तथैव। परं तु क्व तव वचनानि क्व मम? तमाश्चर्यकरप्रसङ्गमेव आशासे स्म सभयं प्रतीक्षे स्म च। तं रोद्धुमेव आत्महनने न्यस्तचित्ता आसम्।

हेल्मेरः : त्वदर्थमहोरात्रं कर्म कुर्यां, नोरे, दुःखं कृच्छ्रं च सहमानः। परं तु न कोऽपि पुमान् स्वप्रियार्थमात्मगौरवं त्यजेत्।

नोरा : तादृशत्यागं सहस्राणां शतं स्त्रियः कृतवत्यः।

हेल्मेरः : अहो, त्वं प्रमत्तशिशुरिव चिन्तयसि वदसि च।

नोरा : तथैव भवेत्। परं तु त्वमपि मत्शरण्यः पुमानिव न चिन्तयसि वदसि च। यावत्तव भीतिः – सा भीतिः मत्स्थितेः न, परं तु तव संभाव्यस्थितेरेव आसीत्-नष्टाभूत् तावदेव त्वं सर्वं यथास्थितमिव न किमपि संपन्नमिव वर्तसे स्म। यथागतमहं तव तन्वी कोकिला, तव पुत्रिका यां भङ्गुरां कोमलां भविष्यति द्विगुणितावधानं त्वं रक्षेः, अभवम्। (उत्थाय) टूर्वल, तदा एव मम ज्ञानोदय अभवद्यदष्टौ वर्षाण्यहं विचित्रपुरुषेण सह जीवितं क्षपयामि। तेन मयि त्रीण्यपत्यानि जातानि च। अहो! तेषां चिन्तनं मम मनः दुनोति। यद्यहमात्मानं विदलयानि - -

हेल्मेरः : (सदुःखम्) आवयोर्मध्ये गभीरगर्त अनावृतः। तदवितथम्। कच्चित् तद्गर्तं पूरयितुं न शक्यम्?

नोरा : इदानीं तव भार्या नास्मि।

हेल्मेरः : अन्यपुरुषः भवितुं शक्नोमि।

नोरा : यदि तव पुत्रिकया विरहितस्तदा भवेः।

हेल्मेरः : विरहितः! विरहितः न हि, न हि। नोरे, तच्चिन्तनमेव मम मानसाद्दूरम्।

नोरा : (दक्षिणपार्श्वं गच्छन्ती) अत एव तदवश्यमेव कार्यम्।

(स्वबाह्यकञ्चुकं शिरस्त्रं स्यूतकमेकंच गृहीत्वा निवर्तते, तानि मञ्चकपार्श्वस्थ-आसन्द्याम् निवेशयति च)

हेल्मेरः : नोरे, नोरे. नेदानीम्, प्रभातं प्रतीक्षस्व।

नोरा : (बाह्यकञ्चुकं परिदधाना) मया अपरिचितपुरुषस्य कोष्ठे रात्रिः न क्षपयितव्या।

हेल्मेरः : आवाभ्यां सहोदरसहोदरीवत् अत्र जीवितुं न शक्यं कच्चित्?

नोरा : (शिरस्त्रं परिदधाना) तथा जीवनमल्पकालिकमिति त्वं सम्यगवगच्छसि। (राङ्कवेन आत्मानमाच्छादयति) त्वामापृच्छामि, टूर्वल, शुभं भूयात्। शिशून् न पश्यामि। मया यथा रक्ष्येरन् ततोऽप्यतिशयं रक्ष्यन्ते इति जानामि। यथाहमस्मि, तेभ्यः मया न किमपि कार्यम्।

हेल्मेरः : परं कस्मिन्श्चिद्दिने, नोरे-कस्मिन्श्चिद्दिने।

नोरा : कथं मया उच्यते? काहं भविष्यामीति न मे बोधः।

हेल्मेरः : परं तु, किमपि तव सम्पद्यतां त्वं मम भार्या एव भविष्यसि।

नोरा : शृणु, टूर्वल, यदा पत्नी पतिगृहं मद्वत् रहयति, तदा पतिना शासनानुसारं पत्नीं प्रति न किमपि कर्तव्यं वर्तते इति मया श्रुतम्। शासनं यदपि भवेत्, त्वया मां प्रति कर्तव्यैः कर्मभिरहं त्वां मोचयामि। यथाहं त्वां प्रति सर्वकर्तव्यविमुक्ता तथैव त्वमपि मां प्रति सर्वकर्तव्यविमुक्तो भवसि। उभयतः स्वतन्त्रौ भवाव। इदं तवाङ्गुलीयकम्। मामकीनं मह्यं देहि।

हेल्मेरः : तदपि?

नोरा : तदपि।

हेल्मेरः : इदमिह।

नोरा : तत् समीचीनम्। सांप्रतं सर्वं समाप्तम्। अत्रास्ति कुञ्चिकागुच्छः। सेविकाः गृहे सर्वं मत्तोऽपि सम्यक् जानन्ति। श्वः मयि गतायां क्रिस्टीना अत्र आगत्य मम मद्गृहादानीतानि वस्तूनि पिण्डीकरोति। अहं तानि नाययामि।

हेल्मेरः : सर्वं समाप्तम्, सर्वं समाप्तम्। नोरे, त्वं न कदाचिदपि मां स्मरिष्यसि कच्चित्?

नोरा : असकृत् त्वामपत्यानि एतद्गृहं च स्मरिष्यामीत्यहं जानामि।

हेल्मेरः : कच्चिदहं तुभ्यं पत्रं लिखानि?

नोरा : न- न कदापि तत् त्वया कार्यम्।

हेल्मेरः : कनिष्ठतः तुभ्यं प्रहिणवानि - -

नोरा : न किञ्चिदपि।

हेल्मेरः : यदा तव धनाभावः सम्भवेत् तदाहं सहायो भवानि कच्चित्?

नोरा : न हि, अपरिचितात् किमप्यहं न गृह्णामि।

हेल्मेरः : नोरे, अपरिचितान्नेदीयो न भवामि कदापि कच्चित्?

नोरा : (स्वस्यूतं गृहीत्वा) आहा, टूर्वल, यदि सर्वाधिक-आश्चर्यवत् किमपि संपद्यते चेत्।

हेल्मेरः वद माम्, तत् किंविधं भवेत्।

नोरा : आवां उभौ तथा परिवर्तितौ भवेव - - ओह्, टूर्वल, तादृश-आश्चर्यकरप्रसंगानां भवितव्यतायां न मेऽस्ति विश्वासः।

हेल्मेरः : ममास्ति विश्वासः। कथय माम्। कथं परिवर्तितौ भवेव?

नोरा : यथा अस्मद्दाम्पत्यमकृत्रिमं भवेत्। आपृच्छामि। शुभं भूयात्।

(नोरा बाह्यकोष्ठद्वारा निष्क्रमते। हेल्मेरः स्वहस्तयोः मुखं संक्षिप्य द्वारस्थासन्द्यां विषीदति) नोरे, नोरे, (अभितः अवलोकयति, उत्तिष्ठति) शून्यं, सा गता। सर्वाधिक-आश्चर्यवत्?

(अधस्तात् द्वारपिधानशब्दः श्रूयते)