द्वितीयोऽङ्कः
तदेव दृश्यम्- पियानोपार्श्वे कोणे स्थितः क्रिस्तोत्सववृक्षः भूषणैः हीनः। वृक्षस्य विस्रस्तशाखासु दीपा ज्वलितशमितवर्तयः। नोराया ऊर्ध्वपरिधानं1 शिरस्त्राणं च आसन्द्यां वर्तेते। एकाकिनी सा कोष्ठे अशान्तचित्ता चलन्ती आसन्द्याः समीपे विरम्य आत्मन ऊर्ध्वपरिधानं गृह्णाति।
overcoat
नोरा : (ऊर्ध्वपरिधानं निपातयति) कोऽपि आगच्छतीव अधुना। (द्वारस्य सकाशं गत्वा आकर्णयति) न हि, कोऽपि नास्ति। अद्य क्रिस्तोत्सवदिनम्। कोऽपि नागमिष्यति। न श्वश्च। (द्वारमुद्घाट्ट्य अभितः दृष्टिं प्रसारयति)
न हि, न किमपि पत्रपेटिकायाम्। सा रिक्ता। (अग्रे आगच्छति) सत्त्वहीनम्। स यदवोचत् तदविवक्षितं स्यात्। न तत् संभाव्यम्। मम त्रीण्यपत्यानि।
(वामपार्श्वस्थकोष्ठात् धात्री पत्रफलकपेटिकां2 गृहीत्वा प्रविशति। )
cardboardbox
धात्री : अन्ततः विचित्रपरिधानपूर्णा पेटिका मया गवेषिता।
नोरा : उपकृतोऽस्मि। तां मञ्चके स्थापय।
धात्री : (तथा कुर्वन्ती)परं तु परिधानं पुनःस्वस्थीकरणं प्रतीक्षते।
नोरा : तत् शतसहस्रं खण्डानि कर्तुमिच्छामि।
धात्री : कीदृशी वाञ्छा! तस्य स्वस्थीकरणं सुकरम्। किञ्चित्सहनमवश्यम्।
नोरा : बाढम्, अहमिदानीं गन्तास्मि। लिण्डगृहिणीमानयामि तस्याः साहाय्येन
परिधानस्वस्थीकरणं कर्तुम्।
धात्री : किमिदम्? भवती पुनर्बहिर्गन्तुमिच्छति अस्मिन् दुःखकरवाताहतकाले? भवती शैत्यरोगेण बाधिष्यते।
नोरा : परं तु, ततोऽप्यसुखकरं सम्पद्येत। अपत्यानि कथं वर्तन्ते?
धात्री : अमायानि क्रिस्तोत्सवोपायनैः खेलन्ति, परं तु।
नोरा : मह्यं स्पृहयन्ति किम्?
धात्री : तेषां सदा स्वमातुः समभ्याशः परिचितो वर्तते ननु।
नोरा : अथ किम्। यथापूर्वं तेभ्यः सह उपस्थातुं न शक्नोमि।
धात्री : शिशूणां केनापि सह परिचयः सुकरः।
नोरा : तथा चिन्तयसि किम्? यदि तेषां माता तान्विहाय गता चेत् ते तां विस्मरन्ति किम्?
धात्री : शान्तं पापम्। माता तान्विहाय गता यदि?
नोरा : धात्रि, श्रावय माम्। कदाचिदहं चिन्तयामि काचन माता अपरिचितेष्वात्मनः शिशुं समर्पयितुं शक्नोति किमिति।
धात्री : नोरायाः शिशोः धात्री भवितुं मया तदेव करणीयमभवत्।
नोरा : कथं वा तव मनसा तत्कार्यम् अनुज्ञातम्?
धात्री : कथं निषिद्ध्यते? अन्यथा मया तथाविध उद्योगः कथं सम्पाद्यते?
निर्धना क्च्छ्रगता युवती हृष्येदेव। स दुर्जनः मदर्थं न किमप्यकरोत्।
नोरा : तव दुहित्रा त्वं विस्मृता भवेः।
धात्री : न हि, न विस्मृताहं तया। यदा सा उद्योगमलभत तथा यदा सा परिणीता तदा मह्यं पत्रं समदिशत्।
नोरा : (आत्मनः बाहू तस्याः कण्ठे प्रसार्य) मम चिरप्रिये आने, यदाहं शिशुरभवम् तदा त्वं मम समुचितमाता अभवः।
धात्री : प्रिये नोरे, भवत्याः शैशवे मां विहाय नान्या माता आसीन्ननु।
नोरा : यदि मम शिशूनां नान्या माता अभविष्यत्, त्वमेव — किमिदमसम्बद्धमहं वदामि। (पेटिकामावृणोति) इदानीं त्वं तेषां सकाशं गच्छ। मया गन्तव्यम्। श्वः त्वं मम मनोहरत्वं पश्यसि।
धात्री : आर्ये, नर्तनोत्सवे3 नान्या सौन्दर्ये भवत्याः समा भविष्यतीति निःशङ्कं वदामि।
Ball-dance
(वामपार्श्वस्थकोष्ठं प्रति गच्छति)
नोरा : (पेटिकातः वस्तूनि बहिरानेतुं प्रारभते, परं तु तूर्णं पेटिकां दूरीकरोति) यद्यहं बहिर्गन्तुं प्रभवेयम्, यदि नान्य अत्र आगच्छेत्, यद्यत्रान्तरे न किञ्चिदपि सम्भविष्यतीति निःशङ्का भवेयम् –कोऽयमसम्बद्धप्रलापः- न कोऽप्यागमिष्यति। न मया चिन्तनीयम्। मम मुखं प्रसाधयामि। कियती सुन्दरे हस्तत्राणे! अपसरत मम मनसः, अपसरत मम मनसः। एकम्, द्वे, त्रीणि, चत्वारि, पञ्च, षट् (क्रन्दति)
हा, कश्चन आगच्छति। (द्वारं प्रति गन्तुं यतते परं तु अनिर्धारा तिष्ठति।)
(लिण्डगृहिणी ऊर्ध्वपरिधानं शिरस्त्राणं च अपनीय प्रवेशकोष्ठात् प्रविशति।)
नोरा : अहो! त्वम्, क्रिस्टीने, अन्ये केऽपि सन्ति किम्?, तवागमनं तव सौजन्यं सूचयति।
लिण्डगृ : त्वं मां द्रष्टुं मद्गृहमागतवतीति अहं श्राविता।
नोरा : बाढम्, अहं तव गृहस्य निकटे आगमम्। कस्मिंश्चित् कार्ये तव साहाय्यमपेक्षे। अत्र आसन्द्यामुपविशाव। श्वः मन्निलयस्य उपरितनतले स्टेन्बोर्ग्-कुटुम्ब4स्य गृहे विचित्रपरिधाननृत्यं सम्पद्यते। टूर्वल इच्छति यदहं नेपल्स्नगर्याः5 मत्स्यविक्रेत्री इव समुचितपरिधानं परिधाय काप्रिनगरे6 मया शिक्षितं टारेन्टला7नामनृत्यं नृत्येयम्।
Stenborg family
Naples city
Capri city
Tarantella dance
लिण्डगृ : अहो! त्वया मत्स्यविक्रेत्रीवत् नटनीयम्।
नोरा : बाढम्। अत्रास्ति परिधानं यत् टूर्वलः तदा मदर्थम् अकारयत्। अधुना तत् जीर्णं रन्ध्रमयं च। कथम् अस्य स्वस्थीकरणं सम्पद्यते —
लिण्डगृ : आवां तत् समीचीनं कर्तुं शक्नुवः। तत्र तत्र किञ्चित् सीवनम् कार्यम्।
नोरा : उपकृतोऽस्मि।
लिण्डगृ : (सीवन्ती) श्वः त्वं परिधानवती शोभायमाना दृश्यसे। अहमागत्य क्षणकालं त्वां मनोहरपरिधानवतीं पश्यामि। ह्यः त्वं मम सायं सन्ध्यां मनोहरां कृतवती। तदर्थं तुभ्यं कृतज्ञतासमर्पणं मया विस्मृतम्।
नोरा : (उत्थाय रंगं क्राम्यति) दिनावसानं सामान्यतः यथा रोचकं भवति स्म तथा ह्यः नाभवत्। क्रिस्टीने, त्वया पूर्वमेव नगरमागन्तव्यमासीत्। टूर्वलः गृहालङ्करणकलां सम्यक् जानाति।
लिण्डगृ : त्वमपि। तव पितुर्दुहिता खलु। परं तु वद, ह्यः यथा वैद्यः रङ्कः निर्विण्णः दृश्यते स्म तथा अन्यदिनेष्वपि दृश्यते किम्?
नोरा : नहि, ह्यः तस्य निर्विण्णता गोचरा आसीत्। तमपायकरः रोगो बाधते। पृष्ठास्थिक्षयेण बाधितः। तस्य पिता दुर्मार्गचर आसीत्। अत एव तस्य पुत्रः आजन्म रुग्ण अभवत्। कच्चिदवगच्छसि?
लिण्डगृ : (सीवनाद्विरम्य) परं तु प्रिये नोरे, कथं वा त्वं तथाविधविषयान् जानासि?
नोरा : (अत इतः चलन्ती) यदा त्वमपत्यत्रयस्य माता भवसि तदा गृहिण्यः या वैद्यशास्त्रे किञ्चित् जानन्ति कदापि गृहमागच्छन्ति। ता यद्वा तद्वा जल्पन्ति।
लिण्डगृ : (सीवने मग्ना क्षणानि मौनमाश्रयति) कच्चिद्वैद्यः रङ्कः प्रतिदिनमत्रागच्छति?
नोरा : प्रतिदिनम्। सः टूर्वलस्य नेदिष्ठं मित्रम्। ममापि च। बन्धुरिव।
लिण्डगृ : कथय माम्। सः निष्कपटः किम्? यथा अन्ये आत्मानं स्नेहशीलं मन्यन्ते तथा आचरितुं यतते।
नोरा : न कदापि। कथमेवं चिन्तयसि?
लिण्डगृ : ह्यः यदा मां तस्य परिचितां अकरोस्तदा सः अवादीत् तव नाम अस्मिन्गृहे असकृत् कथितं मया श्रुतमिति। परं तु पश्चात् तव भर्तुः काहमस्मीत्यपि नावगतमित्यहमवागमम्। कथं वा वैद्यः रङ्कः - -
नोरा : क्रिस्टीने, तत् समीचीनमेव। मयि टूर्वलस्य प्रेम अगाधम्। अत एव यदा अहं मम कुटुम्बजनस्य नाम कथयामि तदा स ईर्ष्यया बाधितो भवति स्म। अतः तथा नामकथनात् व्यरमम्। परं तु वैद्येन रङ्केन सह तथा कथालापं करोमि यतः तस्मै तथाकथनश्रवणं रोचते।
लिण्डगृ : नोरे, शृणु माम्। नैकव्यवहारेषु त्वं शिशुरिव वर्तसे। अहं त्वत्तः बहुविधया ज्यायसी। अहं त्वत्तः किञ्चित् सानुभवतराऽस्मि। वैद्येन रङ्केन सह तत् छेत्तुमर्हसि।
नोरा : किं वा छेत्तुमर्हामि?
लिण्डगृ : द्वे वस्तुनी। ह्यः त्वं कस्यचिद्धनिनः कामिनः विषये येन आत्मनः मरणानन्तरं मरणपत्रद्वारा तुभ्यं धनदानः प्रतिज्ञातः किञ्चिदसम्बद्धमवादीः।
नोरा : दुरदृष्टवशात् स न वर्तते। परं तु ततः?
लिण्डगृ : वैद्यः रङ्कः धनी किम्?
नोरा : अथकिम्। धनी।
लिण्डगृ : तस्य अन्यः कोऽपि धनस्य उत्तराधिकारी न वर्तते।
नोरा : बाढम्, न कोऽपि, परं तु।
लिण्डगृ : प्रतिदिनमत्रागच्छति?
नोरा : मया तत् कथितं खलु।
लिण्डगृ : अभिजातः स कथं वा तथा चातुर्यहीनो वर्तेत?
नोरा : अहं नावगच्छामि।
लिण्डगृ : अपह्नुतिं त्यक्त्वा वद। नोरे, कः तुभ्यं पञ्चाशदधिकद्विशतं पौन्डानि ऋणरूपेन ददौ इति ऊहां न कर्तुं शक्नोमि किम्?
नोरा : कच्चित् त्वं भ्रान्ता? कथं वा तथाविधचिन्तनं करोषि? सःअस्माकं मित्रं प्रतिदिनमत्रागच्छति। त्वं कच्चिदवगच्छसि तदा कियती दुस्सहा परिस्थितिर्भवेदिति?
लिण्डगृ : तदा स तव उत्तमर्णो न भवति?
नोरा : सर्वथा न भवति। तथाविधचिन्तनं मम मनः न प्राविशत्। किञ्च तदा सः धनी न आसीत्। पश्चादेव धनी बभूव।
लिण्डगृ : यदि तथा चेत् त्वं अदृष्टवती एव।
नोरा : न, तथा चिन्तनं मम मनः न कदापि प्राविशत्। मम शङ्का नास्ति यत् यद्यहं तं प्रार्थयिष्यं तर्हि स मह्यमदास्यत्।
लिण्डगृ : त्वं तु न प्रार्थयेः।
नोरा : अथ किम्। मया तादृशप्रार्थना आवश्यकी भवेदिति चिन्तनं निष्कारणम्। निःसंशयं यद्यहं वैद्यं रङ्कं प्रार्थयेयम् —
लिण्डगृ : यथा तव भर्ता न जानाति?
नोरा : मया अन्यविषयस्यान्तमपि करणीयम्। तदपि यथा स न जानाति तथा।
लिण्डगृ : तदेव श्वः मया कथितं खलु।
नोरा : (अत इतः चलन्ती) पुरुषस्य स्त्रियाया अपि सुकरं तत् कर्म।
लिण्डगृ : बाढम्, भर्तुरेव।
नोरा : अनर्थकमिदम्। (स्थिरं तिष्ठन्ती) यदा ऋणकर्त्रा धनं निर्वर्त्यते तदा सः ऋणपत्रं लभते खलु?
लिण्डगृ : अथ किम्। निःसंशयम्।
नोरा : तत्पत्रं शतसहस्रधा शकलीकर्तुं प्रभवामि खलु।
लिण्डगृ : (तीक्ष्णदृष्ट्या तां पश्यति, सीवनकर्म निरुद्ध्य शनैरुत्तिष्ठति) नोरे, त्वं मत्तः किञ्चिदपह्नुषे।
नोरा : कच्चिन्ममेङ्गितानि तथाविधानि?
लिण्डगृ : ह्यः प्रातःप्रभृति तव किमप्यापतितमिति भासते।
नोरा : (तस्याः समीपं गत्वा) क्रिस्टीने! (आकर्णयति) तूष्णीं भव, कृपया त्वं मम अपत्यकोष्ठं गच्छ। टूर्वलाय परिधानरचनवीक्षणं न रोचते। आना त्वत्सहाया भवतु।
लिण्डगृ : (कानिचिद्वस्तूनि संग्राह्य) निःसंशयम्। परं तु नाहं गन्तास्मि यावदावयोः सर्वं नावगतं भविष्यति। (सा वामपर्श्वस्थकोष्ठम् यावत्गच्छति तावदेव हेल्मेरः प्रवेशकोष्ठात् प्रविशति).
नोरा : (हेल्मेरं समीप्य) प्रिय टूर्वल, तुभ्यमुत्कण्ठितास्मि।
हेल्मेरः : कच्चित् सा परिधानरचयित्री?
नोरा : न, सा क्रिस्टीना, मम परिधानसज्जीकरणे सहाया भवति। मां सुवेषां द्रक्ष्यसि।
हेल्मेरः : तन्मम चिन्तनमासीत् खलु।
नोरा : सत्यम्। यत्त्वया काङ्क्षितं तदनुसृत्य मया करणं श्लाघ्यं ननु।
हेल्मेरः : श्लाघ्यम्? यतः भर्तुः काङ्क्षां पालयसीति? अहो, प्रतीपे, सा तव विवक्षा नासीदिति मे निश्चयः। अधुना तव क्षोभनं न समुचितम्। तव परिधानवेष्टने त्वं मग्ना भवेः।
नोरा : त्वं कार्यमग्नो भवेः।
हेल्मेरः : अथ किम्। (पत्रगुच्छं दर्शयति) पश्य, इदानीमेव बाङ्कादागच्छामि। (स्वकोष्ठं गन्तुं परिभ्रमति)
नोरा : टूर्वल।
हेल्मेरः : हुम्।
नोरा : यदि तव चमरपुच्छी प्रणयादृता त्वां किञ्चित् प्रार्थयेत
हेल्मेरः : ततः किम्?
नोरा : कच्चित् तत् कुरुषे?
हेल्मेरः : आदौ किं तदिति श्रोतुमिच्छामि।
नोरा : तव चमरपुच्छी तवेच्छामनुसृत्य धावन्ती क्रीडेद्यदि त्वं तस्या इच्छां पूरयसि?
हेल्मेरः : स्पष्टं वद।
नोरा : तव कोकिला तस्याः गाने उत्पतति पतति च सति प्रतिकोष्ठं किलकिलीकुरुते।
हेल्मेरः : मम कोकिला कथमपि तथा करोत्येव।
नोरा : टूर्वल, त्वदर्थं देवतायाः भूमिकायां ज्योत्स्नायां नर्तनं कुर्याम्।
हेल्मेरः : अद्य प्रातः यन्मां प्रार्थयथाः तदुद्दिश्य किम्?
नोरा : (तं समीप्य) बाढम्, टूर्वल, नम्रा याचे।
हेल्मेरः : धैर्येण पुनः तद्विषयमुद्घाटयितुं समर्थासि किम्?
नोरा : बाढम्, यन्मया प्रार्थितं तत्त्वया करणीयमेव। यथा क्रोग्स्टः उद्योगभ्रष्टो न भवति तथा त्वया कार्यम्।
हेल्मेरः : प्रिये नोरे, तस्य उद्योगस्थाने एव श्रीमती लिण्डगृहिणी नियुक्ता भविता।
नोरा : बाढम्, तस्या विषये त्वं कृपालुरेव। परं तु, क्रोग्स्टं विहाय अन्यः कोऽपि कायस्थः निष्कास्येत।
हेल्मेरः : अयं खलु अचिन्त्यदुराग्रह एव। यतस्त्वया “त्वदर्थं प्रार्थये” इति तस्मै विवेकविरहितप्रतिश्रवः कृतः, मयाधुना —
नोरा : न तत् कारणम्। टूर्वल, त्वदर्थमेव प्रार्थये। त्वमेव मामवदः यदयं दुर्वाच्यवृत्तपत्रिकासु लिखतीति। स त्वामवाच्यं पीडयेत्। तस्मान्नितरां भीतास्मि।
हेल्मेरः : अहमवैमि। भूतस्मरणानि त्वां भीषयन्ते।
नोरा : का ते विवक्षा?
हेल्मेरः : तव पित्रे यदापतितं तत्स्मरसि।
नोरा : बाढम्, बाढम्, मम पितरमुद्दिश्य पिशुनैस्तैः कथं पत्रिकासु लिखितं, कथमपभाषितं, तत्सर्वं स्मर। यद्युद्योगविभागः8 त्वां परिशीलनार्थं न न्ययोजयिष्यत् तथा त्वं सदयं तस्य सहायो नाभविष्यः तर्हि ते तस्य निष्कासने सफला अभविष्यन्।
department
हेल्मेरः : प्रिये नोरे, तव पितुर्मम च प्रधानमन्तरमस्ति। सर्वजनीनोद्योगे तव पितुः ख्यातिरकलङ्किता नासीत्। परं तु मम तथा न। यावदुद्योगभारं निवहामि तावन्मम तु अकलङ्किता वर्तते इत्याशासे।
नोरा : एतैर्जनैः करिष्यमाणा पीडा अनूह्या। अस्माकं गृहे, आवामस्मदपत्यानि च, निश्चिन्ताः शान्तचित्ताः श्रीमन्तः भूयासुः। अत एव त्वां सप्रश्रयं प्रार्थये।
हेल्मेरः : तदर्थं त्वं मां प्रार्थयसे इति यत् तदेव तस्य उद्योगस्थिरीकरणे मामशक्तं करोति। क्रोग्स्टः उद्योगान्निष्कास्यते इति बाङ्के सर्वेभ्यो विदितमेव। नवनिर्वाहकेन भार्यया प्रचोदितेन स्वनिश्चयः व्यत्यस्त इति वदन्ति खलु।
नोरा : ततः किम्?
हेल्मेरः : यदीयं प्रतीपा तन्वी स्वलक्ष्यप्राप्तौ सफला भवेत् –। मदधीनैरहमपहसितो भवेयम्। परेभ्यः प्रभावितो भवत्ययमिति मां लोको मन्यते। तस्य परिणामश्च तूर्णं मया अनुभूयते। किञ्च अन्यदस्ति येन यावदहं बाङ्कनिर्वाहकः वर्तिष्ये तावत् क्रोग्स्टः बाङ्के उद्योगी भवितुं नार्हति।
नोरा : किं तदन्यत्?
हेल्मेरः : यद्यवश्यं भवेत्तदा अहं तस्य नैतिकावगुणान् अविगणयेयम्।
नोरा : अथ किम्। त्वमविगणयेः।
हेल्मेरः : स उद्योगे दक्ष इति च शृणोमि। बाल्यात् तं जानामि। कदाप्यविमृश्यकृता मैत्री पश्चाद्दुःखं जनयेत्। तेन सह मम मैत्री तथाविधा। पुरा तेन सह मम मैत्री गाढैवासीत्। परं तु अयमचतुरः अन्यजनानां समक्षमनियन्त्रितः सन् पुरातनमैत्री मया सह वर्तयितुं स्वातत्न्त्र्यं प्रयच्छतीति चिन्तयति। किञ्च क्षणे क्षणे “हेल्मेर, मम बाल्यमित्र” इत्येव मां सम्बोधयति। तथा संबोधनं मां भृशं व्यथयति। बाङ्के मम स्थितिरसह्या भवति।
नोरा : टूर्वल, तत्तव चिन्तनं भवेदिति भावयितुं मया न शक्यम्।
हेल्मेरः : न शक्यम्? कुतः?
नोरा : यतः तत् सङ्कुचितदृष्ट्या अवलोकनं खलु।
हेल्मेरः : किं वदसि? मम सङ्कुचितदृष्टिरिति चिन्तयसि किम्?
नोरा : न हि, प्रिय। तद्विरुद्धम्। तेनैव हेतुना।
हेल्मेरः : तव विवक्षा अभिन्ना। मम दृष्टिः सङ्कुचिता अतः “त्वं सङ्कुचितचित्तोऽसि” इति वदसि। तथास्तु। अहमस्य अन्तं गमयेयम्। (प्रवेशकोष्ठद्वारं समीप्य आह्वयति) हेलने,
नोरा : किं चिकीर्षसि?
हेल्मेरः : (स्वपत्रेषु दृष्टिं संगम्य) अन्तं गमयामि। (सेविका प्रविशति) पश्य, इदं पत्रं गृहाण। झटिति पत्रमादाय सोपानमवरुह्य कञ्चित्पत्रदूतं पत्रं प्रापयितुं समादिश। बाह्यनाम पत्रमुखेऽस्ति, इदं वित्तम्।
सेविका : यथाज्ञापयत्यार्यः। (पत्रेण सह निष्क्रमते)
हेल्मेरः (स्वपत्राणि सञ्चयन्) अथ, प्रतीपे तन्वि।
नोरा : (कृशप्राणा) टूर्वल, किंनाम तत्पत्रम्?
हेल्मेरः : क्रोग्स्टस्य अधिकारभ्रंशः।
नोरा : टूर्वल, निर्वर्तय ताम्। अद्याप्यवकाशः अस्ति। मदर्थम्, त्वदर्थं, अस्मदपत्यर्थं कुरु। कच्चित् शृणोषि माम्, टूर्वल। निर्वर्तय ताम्। तत्पत्रं किमापादयेदिति न जानासि।
हेल्मेरः : अतीतः कालः।
नोरा : अथ किम्। अतीतः कालः।
हेल्मेरः : प्रिये नोरे, तव मनोविप्लवं क्षमै। कुतोऽहं तस्मात् कृपणात् कायस्थात् बिभेमि? तथा चिन्तनेन त्वं मामवजानासि। परं तु तव चिन्तनं तवागाधप्रेमजनितमिति मत्वा त्वां क्षमे (तामात्मनःस्कन्धेन वेष्टयति) मम प्रिये नोरे, यत्किमप्यापद्येत, अहं धैर्येण बलेन च तदभिगच्छामि, निःशङ्का भव। अहं एकाकी सर्वं जेतुं शक्नोमि।
नोरा : (भयार्ता) तव कोऽर्थः?
हेल्मेरः : यद्यद्वदामि तदेव।
नोरा : (धैर्यमवलम्ब्य) त्वया तत् कदापि करणीयं न भविष्यति।
हेल्मेरः : तत्समीचीनम्। आवां दंपती धुरां धराव। (तां लालयन्) इदानीं तृप्ता अभवः किम्? नहि नहि, भयत्रस्तहरिणी मा भूः। सर्वं तव मनोकल्पितम्। इदानीम् गच्छ, नृत्यसङ्गीताभ्यासे प्रवृत्ता भव। अहं मम कोष्ठं गत्वा द्वारं पिदधामि। न किमपि मम श्रवणपथमागच्छति। त्वं यथेच्छं शब्दं कुरु। (द्वारि परिवृत्य) यदा रङ्कः आगच्छति तदा मम स्थानं तस्मै निर्देशय।
(शिरः कम्पयन् तां पश्यति, स्वपत्राणि गृहीत्वा स्वकोष्ठं गच्छन् द्वारं पिदधाति)
नोरा : (चिन्तया सम्भ्रान्ता रूढमूला इव तिष्ठति मन्दं व्याहरति) स तत्कर्मणि सक्षम आसीत्। स तत् करिष्यति। सर्वमनादृत्य स करिष्यति – न हि, न हि, न कदाचन, न कदाचन, तद्विहाय किञ्चिदप्यन्यं भूयात्, कोऽप्याश्रयः, कोऽप्यन्यमार्गः (द्वारघण्ठा ध्वनति) वैद्यः रङ्कः! तदन्यं किमपि भूयात्, किमपि (सा हस्तौ वदनस्योपरि निवेश्य धैर्यमवलम्ब्य द्वारं समीप्य विघट्टयति। रङ्कः बाह्यकञ्चुकं (कञ्चुकावलम्बके) अवलम्बयन् बहिः दृश्यते। अधस्तनसंभाषणसमये सायं सन्ध्या प्रवर्तते।)
नोरा : स्वागतम्, वैद्य रङ्क, तव रणितमवगच्छामि, टूर्वलमधुना न पश्येः, स कार्यनिमग्नोऽस्ति।
रङ्कः : अथ त्वम्?
नोरा : (तं कोष्ठस्यान्तः आनीय द्वारं पिदधाति) अहो, त्वदर्थं मम समयः सदा अस्तीति तव सुविदितमेव।
रङ्कः : धन्योऽस्मि। यथाशक्ति तं समयमुपयोक्तुं प्रयते।
नोरा : कुत एवं वदसि? यथाशक्तीति?
रङ्कः : तत्पदं त्वां सन्त्रासयति किम्?
नोरा : तत्पदेन तव मनोगतस्य शंसनम् असामान्यमिव भाति। कच्चित् किमप्यापद्यते?
रङ्कः : बहुकालेन यस्मै अहं सन्नद्धोऽस्मि तद्विना नान्यत्। परं तु तदियदाशु सम्पद्यत इति मया न प्रतीक्षितम्।
नोरा : (तं दृढं हस्ते गृहीत्वा) त्वया किमन्वेषितम्? मां निवेदय।
रङ्कः : (चुल्ल्याः समीपे उपविश्य)सर्वं मामकीनमेव। अन्यथा न भवेत्।
नोरा : (शान्तमनस्का निःश्वस्य) कच्चित्तावकीनमेव?
रङ्कः : कथमन्यथा? आत्मवञ्चनं न कस्मैचिदपि कार्याय। मम रुग्णेष्वहमेव जघन्यः। हेल्मेरगृहिणि, अचिरं स्वकीयधनस्थितिं प्रति चिन्तयामि। निर्धनोऽहम्। मासादर्वाक् क्रिस्तालयाङ्गणे निस्सत्त्वः संविशेयम्।
नोरा : शान्तं पापम्। अमङ्गलं वदसि।
रङ्कः : सर्वथा तदमङ्गलमेव। अहममङ्गलतरमपि प्राप्स्यामि। ततः प्रागपि सकृदहमन्तर्निरीक्षणं करिष्यामि। तदा विलयनरौद्रताया प्रारम्भः कदा भविष्यतीत्यवगमिष्यामि। त्वामिदं वक्तुमिच्छामि। सुसंस्कृतः हेल्मेरः अमङ्गलविषयैर्जुगुप्सितो भवति। मम रुग्णकोष्ठे तस्योपस्थितिं नेच्छामि।
नोरा : परं तु, वैद्य रङ्क —
रङ्कः : सर्वथा तस्योपस्थितिं नेच्छामि। मम कोष्ठद्वारः तस्मै पिहित एव भविष्यति। यदा मम स्वास्थ्यमधस्तमं भविष्यति तदा तुभ्यमहं कृष्णस्वस्तिकचिह्नयुतपत्रं प्रेषये। तदा मह्यं जघन्यमापतितमिति त्वमवगमिष्यसि।
नोरा : अद्य त्वमसम्बद्धं प्रलपसि। त्वां स्मेरमुखं द्रष्टुमिच्छामि।
रङ्कः : मरणे सन्निहिते? अन्यः पापमाचरति अहं दण्ड्ये। कच्चिदत्र न्यायः अस्ति? प्रत्यैकस्मिन् कुटुम्बे येन केनापि प्रकारेण तथाविधप्रतीकारः क्रियमाणः दृश्यते।
नोरा : (कर्णौ हस्ताभ्यां पिधाय) असंगतम्। कृपया हर्षकरं किञ्चित्कथय।
रङ्कः : ओहो, सर्वः हास्यविषयः खलु! मम पितुः तारुण्यजनितविनोदहेतोः मम अमायः कशेरुः बाधामनुभवति।
नोरा : (वामपार्श्वस्थमञ्चकान्तिके उपविश्य) कच्चित् सः शतमूलीं पात-द-फ्वाग्रां9 च भूरि उपयुङ्क्ते स्म इति तव विवक्षा?
Pate d’foisgra
रङ्कः : बाढम्, शिलीन्ध्रं च।
नोरा : कच्चित् शुक्तिमपि?
रङ्कः बाढम्, समुचितमेव।
नोरा : विपुलपरिमाणाः द्राक्षासवाश्च। तादृशानि रुचिकरवस्तूनि अस्मदस्थिषु हानिं कुर्वन्तीति दुःखकरं खलु।
रङ्कः : विशेषेण ये न कदापि तान् भोगानन्वभवन् तेषामस्थीनि हानिमनुभवन्तीति यत् तदतीव दुःखकरम्।
नोरा : बाढम्, तत्तु दुःखतमम्।
रङ्कः : (ताम् अन्वेषयन्निव पश्यन्) हुम्।
नोरा : (क्षणकालमतीत्य) कुतस्त्वं स्मयसे।
रङ्कः : त्वमेव हससि।
नोरा : न, वैद्य रङ्क, त्वमेव स्मयसे।
रङ्कः : (उत्थाय) तव प्रतीपताया इयत्ता मम चिन्तनमतीता।
नोरा : इदानीमहं बालिशमतिरस्मि।
रङ्कः : तथा भाति।
नोरा : (स्वपाणी तस्य स्कन्धे निवेश्य) प्रिय वैद्य रङ्क, अन्तकस्त्वां मम टूर्वलस्य च सकाशान्मा नैषीत्।
रङ्कः : त्वं मां शीघ्रमेव विस्मरसि। मृता विस्मृता भवन्ति।
नोरा : (उद्विग्ना तं पश्यन्ती) कच्चित्तथा त्वं मनुषे?
नोरा : लोको नवबन्धानर्जति। तदा
नोरा : को नवबन्धानर्जति?
रङ्कः : मृते मयि त्वं हेल्मेरश्च नवबन्धानर्जतः। अधुनैव त्वं तत्पन्थानमाश्रितवती। ह्यः रात्रौ लिण्डगृहिण्या किमीप्सितमासीत्?
नोरा : ओहो, त्वं कृपणायास्तस्या मत्सरी किम्?
रङ्कः : बाढम्, गते मयि सा अस्मिन्गृहे मम स्थानमुपैति।
नोरा : तूष्णीं भव। उच्चैर्मा वदीः। सा तस्मिन् कोष्ठे तिष्ठति।
रङ्कः : अद्यापि सात्र? पश्य—
नोरा : मत्परिधानसीवनार्थमेव सा अद्य आगतवती। भद्रं भूयात्। कियत्तव विवेकराहित्यम्। (आसन्द्यामुपविशति) वैद्य रङ्क, इदानीं सौजन्येन वर्तस्व। श्वो मम नर्तनसौन्दर्यं द्रक्ष्यसि। इदमपि भावय। त्वदर्थं टूर्वलाय च अहं नर्तिष्यामि। (पेटिकायाः नैकवस्तूनि बहिरानयति) वैद्य रङ्क, अत्र आगत्य उपविश, तुभ्यं किञ्चिद्दर्शयामि।
रङ्कः : (उपविशन्) किं तत्?
नोरा : पश्यैते
रङ्कः : कौशेयपादावरणे10
नोरा : मांसलोहिते, कच्चिन्न ते सुन्दरे? इदानीं सान्द्रं तमः अस्ति परंतु, श्वः- - न,न,न! पादावेव पश्य । भवतु, तुभ्यं जङ्घादर्शनमप्यनुज्ञातम्।
Silk-stockimgs
रङ्कः : हुम्।
नोरा : कुतस्तथा सूक्ष्मं पश्यसि? सुश्लिष्टे न भवतः किम्?
रङ्कः : मया तद्विषये अभिप्रेतुं न शक्यम्।
नोरा : (तं क्षणमवलोकते) त्वं दुर्वृत्तोऽसि। (तस्य कर्णं पादावरणाभ्यां लघु ताडयति) तत् तव दण्डनार्थम्। (पादावरणे कुञ्चयति)
रङ्कः : किमन्यं सुन्दरं द्रष्टुमनुज्ञातोऽहम्?
नोरा : न किञ्चिदपि तव दुर्वर्तनहेतोः। (गुञ्जन्ती तेषु वस्तुषु दृष्टिं चालयति)
रङ्कः : (क्षणं पश्चात्) त्वया सह सुपरिचित इव संलपन् क्षणमात्रमपि मनसा कल्पयितुं न शक्यं यत् किं वा मम प्राप्तिरभविष्यत् यद्यहमिदं गृहं न प्रावेक्ष्यम्।
नोरा : (मन्दं स्मयमाना) अत्र आवाभ्यां सह त्वं स्वगृहे इव वर्तसे इति मन्ये।
रङ्कः : (मन्दस्वरे सरलमवलोकयन्) मया तत्सर्वं उत्सर्जनीयमिति यत्—
नोरा : असंगतम्, त्वं नोत्सृजसि।
रङ्कः : (यथावत्) मयि गतवति न किमपि कृतज्ञताज्ञापकार्थमत्र वर्तिष्यते । किञ्च प्रथममागतः कश्चिदन्यो वा रिक्तस्थानमल्ङ्करिष्यति इति यत्
नोरा : यद्यहमिदानीं प्रार्थयेयमेकम् –। न हि!
रङ्कः : किम्?
नोरा : तव मैत्र्याः बृहत्प्रमाणरूपम्
रङ्कः : बाढम्, बाढम्।
नोरा : अतिगुर्वनुग्रहमभिप्रैमि।
रङ्कः : सकृन्माममितहर्षं करिष्यसि कच्चित्?
नोरा : अधुना किंतदिति त्वं नावगच्छसि खलु।
रङ्कः : न,- परं तु कथय माम्।
नोरा : वैद्य रङ्क, वक्तुं न शक्यम्, तर्कातीतमवबोधनं, साहाय्यं, अनुग्रहश्च अपेक्षितानि।
रङ्कः : बृहत्तरमेव साधुतरम्। किं तदिति मया अनूह्यम्। कथय माम्। मयि न श्रद्धत्से?
नोरा : त्वं मम आप्ततममित्रमित्यवैमि। किंतदिति कथयामि। वैद्य रङ्क, कस्यापि कर्मणः निरोधाय त्वया मह्यं साहाय्यं देयम्। मयि टूर्वलस्य प्रेम कियदगाधं कियद्वचनातीतमिति त्वं जानासि। सः मत्कृते प्राणानपि त्यक्तुं सिद्धोऽस्ति।
रङ्कः : (तस्याः दिशि नम्रीभूत्वा) नोरे, स एक एव केवलमिति जानासि किम्?
नोरा : (ईषच्चकिता) केवलमेक एव?
रङ्कः : त्वत्कृते प्राणानपि परित्यक्तुं सिद्धः एक एव।
नोरा ; (सदुःखम्) तदेवं किम्?——
रङ्कः : इतः मम निर्गमनात्प्राक् त्वमिदं जानीयाः इति मया निश्चितमासीत् यतः इतः गरीयः समयः न कदापि भवेत्। मत्तः विश्वसनीयः न कोऽप्यन्यः स्यादिति इदानीं त्वमवगच्छसि।
नोरा : (शनैर्निःशब्दमुत्तिष्ठति) गच्छानि।
रङ्कः : (स्थानादविचलन् तस्याः गमनाय स्थलं रचयति) नोरे
नोरा : (प्रवेशकोष्ठस्य द्वारि) हेलने, दीपमानय। (चुल्लीमुपगच्छति) प्रिय वैद्य रङ्क, त्वया दारुणं व्याहृतम्।
रङ्कः : मम त्वयि अनुरागः अन्यस्य कस्यापि अनुरागेण समानः इति यत् तद्दारुणं किम्?
नोरा : न, तव निवेदनमेव। निवेदनमनवश्यमासीत्।
रङ्कः : कस्तवार्थः? त्वया अवगतं किम्? (सेविका दीपं गृहीत्वा प्रविशति, तं मञ्चके निवेश्य निष्क्रमते) नोरे, हेल्मेरगृहिणि, कच्चित् त्वं मम मनोगतमबुध्यथाः?
नोरा : कथं जानानि यद्यहमबुध्ये वा न वा? अहं त्वां वक्तुं न शक्तास्मि। कथं वा त्वं तथा अचतुरं वदसि? वैद्य रङ्क, आवां सुखेन वर्तेते स्म।
रङ्कः : इदानीं सर्वस्मिन् देशे काले अहं त्वया आज्ञाप्य इति त्वं वेत्सि ननु। न कथयसि किम्?
नोरा : (तमवलोकयन्ती) किम्, यदापन्नं ततःपश्चात्?
रङ्कः : अहं याचे। किं तदिति कथय।
नोरा : इदानीं किमपि त्वां वक्तुं न शक्नोमि।
रङ्कः : तथाहं त्वया न दण्ड्यः। पुंसा यत्किमपि कर्तव्यं तत्कर्तुं मामनुजानीहि।
नोरा : अधुना मह्यं न किमपि कर्तुं शक्नोषि। किञ्च, मया किमपि साहाय्यं नापेक्षितम्। तत्सर्वं मम कल्पनाजनितमेव। तथैव तत् (दोलकासने उपविश्य समन्दस्मितं तं पश्यति) त्वं सज्जनोऽसि। वैद्य रङ्क, दीपे आगते कच्चित्त्वं न जिह्रेषि?
रङ्कः : ईषदपि न जिह्रेमि। अधुना शश्वन्मया गन्तव्यमिति संभावयामि।
नोरा : सर्वथा न, त्वया न गन्तव्यम्। यथापूर्वं त्वयात्र आगन्तव्यम्। टूर्वलाय त्वया विना न किमपि रोचते।
रङ्कः : बाढम्। तुभ्यं तु?
नोरा : यदा त्वमागच्छसि तदाहं सुभृशं हृष्टा भवामि।
रङ्कः : तदेव मामुत्पथमनयत्। त्वं मे कूटप्रश्नसमाऽसि। यथा हेल्मेराय तथैव मह्यमपि स्पृहयसीति असकृच्चिन्तयामि।
नोरा : बाढम्। केचित्सन्ति येषु प्रेम जायते, अन्ये येषु मैत्री जायते।
रङ्कः : बाढम्। तत्र तव काचिद्विवक्षास्ति।
नोरा : यदाहं मम पितृगृहे आसम्, तदा मम पितरि मम गाढप्रेम आसीत्। परं तु यदा यदा अवकाशः लब्धः तदा उत्सुकतया अहं सेविकानां कोष्ठं गच्छति स्म यतः ताः सदाचारबोधकवार्ताः न कदापि कुर्वत्यः रोचकविषयान् संलपन्ति स्म।
रङ्कः : इदानीं जानामि। अहं तासां स्थाने अस्मीति।
नोरा : (उत्प्लवन्ती तस्य सकाशं गत्वा) न कदापि, प्रिय वैद्य रङ्क, न तद्विवक्षुरहम्। मम टूर्वलेन सह सङ्गः पित्रा सह सङ्ग इव भवतीति त्वमवगच्छसि खलु। (सेविका प्रवेशकोष्ठात् प्रविशति)
सेविका : आर्ये, क्षम्यताम्। (कर्णे कथयति पत्रमेकं प्रयच्छति च)
नोरा : (पत्रे दृष्टिं चालयन्ती) ओह्, (स्वपोतलिकायां पत्रं रक्षति)
रङ्कः किमप्यभद्रम्?
नोरा : सर्वथा न। मम नूत्नं परिधानम्।
रङ्कः : किम्? तव परिधानं तत्रास्ति खलु।
नोरा : बाढम्। परं तु इदमन्यत् मया कारितम्। टूर्वलः एतन्नजानीयात्।
रङ्कः : ओहो, तदेव गाढरहस्यम्?
नोरा : अथ किम्। अधुना टूर्वलेन सह मिल। सः अन्तःकोष्ठे तिष्ठति। यावत्साध्यं तावत् –।
रङ्कः : चिन्तां मा कुरु। यथा स न पलायति तथा करोमि।
नोरा : (सेविकां प्रति) कच्चित् स पाकगृहे समीक्षमाणस्तिष्ठति?
सेविका : बाढम्, सः पृष्ठसोपानमार्गेणागतवान्।
नोरा : कच्चिन्न गृहे कोऽपि नास्तीति त्वया कथितं?
सेविका : अथकिम्। तन्निष्परिणाममभवत्।
नोरा : स न निवर्तते किम्?
सेविका : आर्ये, स वदति यावन्नार्यां न पश्यामि तावन्नापसरामीति।
नोरा : भवतु। तमानाययितुमर्हसि परं तु रहस्येव। हेलने, त्वया न कस्मै अपि किमपि अस्मिन्विषये निवेदितव्यम्। मम भर्ता विस्मायितो भवेत्।
सेविका : यथाज्ञापयति। अहमवगच्छामि। (निष्क्रमते)
नोरा : इयं भयानका घटना सम्पित्सते। (हेल्मेरस्य कोष्ठस्य द्वारं पिदधाति। सेविका क्रोग्स्टाय प्रवेशकोष्ठद्वारम् उद्घाटयति, तस्मिन् प्रविष्टवति पिदधाति च। सः ऊर्णकञ्चुकं पादत्रे11 ऊर्णशिरस्त्रं च परिदधानः प्रविशति)
boots
नोरा : (तमभिचरन्ती) मन्दं वद। मम भर्ता गृहे वर्तते।
क्रोग्स्टः : तेन न किमपि।
नोरा : मया तुभ्यं किं कर्तव्यम्?
क्रोग्स्टः : कस्यचन विषयस्य विवरणम्।
नोरा: कः सः। शीघ्रं वद।
क्रोग्स्टः : अहमुद्योगान्निष्कासित इति त्वया अवगतं भवेत्।
नोरा : अहं तस्य निवारणे असमर्था अभवम्। त्वदर्थमहं भूरि प्रायते। परं त्वसफलाभवम्।
क्रोग्स्टः : त्वयि तव भर्तुरनुराग इयदल्पीयः कच्चित्। मया ते कियदपायः सम्भवेदिति सः जानाति। तथापि साहसं कर्तुं यतते।
नोरा : सः अवैतीति कथं त्वं मनुषे?
क्रोग्स्टः : नाहं तथा मन्वे। तथाविधं धैर्यं दर्शयितुमसमर्थः खलु अस्मत्प्रियः टूर्वलः हेल्मेरः।
नोरा : क्रोग्स्टवर्य, मम भर्त्रे किञ्चिद्गौरवं दर्शयितुमर्हसि।
क्रोग्स्टः : निःसंशयम्। तेन अर्हणीयं सकलगौरवं तस्मै दर्शयामि। परं तु स विषयः त्वयि निगूढः वर्तते। त्वया किं कृतमितिविषयस्य अद्यतनावगमः श्वस्तनावगमात् स्तोकं स्पष्टतरं भवेदिति भावयामि।
नोरा : त्वया यद्बोध्येत ततोऽप्यधिकं मयावगतम्।
क्रोग्स्टः : बाढम्। अहमदक्षः न्यायवादी खलु।
नोरा : त्वया मत्तः किमपेक्ष्यते।
क्रोग्स्टः : तव कुशलं प्रष्टुं केवलमहमागतोऽस्मि, हेल्मेरगृहिणि। त्वामुद्दिश्य आसायं चिन्तयन्नस्मि। अह् तु केवलं कायस्थः वित्तविभाजक12 एव। मत्समः पुमानपि संवेदनशीलो भवति।
cashier
नोरा : यदि त्वं तथाविधः, दर्शय तव संवेदनशीलताम्। मम अपत्यकान्युद्दिश्य चिन्तय।
क्रोग्स्टः : मदपत्यकानुद्दिश्य त्वया तव भर्त्रा वा कच्चिच्चिन्तितम्? तद्विस्मराव, इदमेव निवेदयितुमागतोऽस्मि यदयं विषयः त्वया गाढं न चिन्तनीयः। प्रथमतया मया नकोऽप्यपवादः क्रियते।
नोरा : तदुचितमेव। अहमपि तथा दृढं मन्ये।
क्रोग्स्टः : सर्वं मित्रभावेन समाप्येत। न किमपि कारणमस्त्यस्य यदयं विषयः अन्यैर्विदितं भवेत्। अस्मासु त्रिषु रहस्यं स्थीयते।
नोरा : मम भर्त्रा न कदापि किमपि विदितं भवेत्।
क्रोग्स्टः : तस्य अवगमः कथं निरुद्ध्यते। अधुना शेषं ऋणं दीयते कच्चित्?
नोरा : न, नाधुना।
क्रोग्स्टः : अवश्यधनस्य प्रापणाय कोऽप्युपायः वर्तते कच्चित्?
नोरा : न कोऽपि मदुपयोगयोग्यः।
क्रोग्स्टः : भवतु। न केनापि प्रकारेण स उपयुक्तो भवेत्। नाहं ऋणपत्रं निवर्तयेयं यदि त्वं मह्यं प्रभूतं धनं प्रदातुं सिद्धा स्या अपि।
नोरा : कथय माम्। त्वया तदृणपत्रं कथमुपयुज्यते।
क्रोग्स्टः : तदहं मम स्वमिव रक्षामि केवलम्। अस्मिन् विषये यः कोऽपि न सम्बद्धः सः न किमपि वेदिष्यति। अतः यदि नैराश्यचोदितव्यवसायं चिन्तयन्त्यसि- -
नोरा : चिन्तयन्त्येवाहम्।
क्रोग्स्टः : गृहात्पलायनं तव मनःपटले प्रादुरभूद्यदि
नोरा : तथैव।
क्रोग्स्टः : अथवा तस्मादपि घोरतरं चिन्तनं- -
नोरा : कथं त्वमवगच्छेः।
क्रोग्स्टः : त्यज तच्चिन्तनम्।
नोरा : मया यच्चिन्तितं तत्त्वया कथमवगतम्?
क्रोग्स्टः : आदौ सर्वे वयं तदेव चिन्तयामः। मयापि तथैव चिन्तितम्। परं तु अहमधीरोऽभवम्।
नोरा : (अस्फुटस्वरेण) अहमपि तथैवाभवम्।
क्रोग्स्टः : (निरस्तोद्वेगस्वरेण) न हि, तथा हि। त्वमधीराभवः खलु?
नोरा : अथ किम्।
क्रोग्स्टः : किञ्च, स महान् प्रमादो भवेत्। यदा गृहे प्रथमचण्डवातः उपशाम्यति - - इदानीं तवभर्त्रे उद्दिष्टम् मया लिखितं पत्रं मम कञ्चुकपोटलिका13यामस्ति।
Coat pocket
नोरा : यत्र सर्वमनावृतम्?
क्रोग्स्टः : यावत्साध्यं तावदपरुषम्।
नोरा : (तूर्णम्) तत्पत्रं तस्य हस्तगतं न भवेत्। तत् शकलीकुरु। केनापि मार्गेण धनं लभे।
क्रोfस्टडः : क्षमस्व माम्। हेल्मेरगृहिणि, इदानीं मया कथितमेव।
नोरा : यदहं तुभ्यं धारयामि तत्प्रति न वदामि। कथय, मम भर्तुः कियद्धनमपेक्षसे। तन्मत्तः प्रतीच्छसि।
क्रोग्स्टः : नैकमपि पेन्नीं तव भर्तारं पृच्छामि।
नोरा : तदनु, किमपेक्ष्यते त्वया?
क्रोग्स्टः : कथयामि। मम जीवनस्य पुनरुद्धारं वाञ्छामि। हेल्मेरगृहिणि, जीवने पुनः प्रवृत्तिमिच्छामि।
तत्कार्ये तव भर्तुः साहाय्यं वान्छामि। गतसार्धैकवर्षं मया न किञ्चिदप्यनुचितमनुष्ठितम्। प्रयासेन नियन्त्रितदशास्वपि कालं यापितम्। सोपाने पदात्पदमारोढुं यते स्म। इदानीम् उद्योगान्निष्कासितः
केवलं तव भर्तुः कृपापोषणपात्रं भवितुं नेच्छामि। पुनः बाङ्के उन्नततरपदवीमधिरोढुमिच्छामि। तव भर्ता तादृक्पदवीं सृजेत्।
नोरा : स न कदापि तत् कुरुते।
क्रोग्स्टः : स करिष्यत्येव। अहं तं वेद्मि। स रोद्धुं न शक्नोति। यदाहं तेन सह भवितास्मि वर्षात्प्रागेव बाङ्कनिर्वाहकस्य आप्ताधिकारी भविष्यामि। बाङ्कस्य निर्वहणं मयैव क्रियते न तेन।
नोरा : तन्न कदापि भवेत्।
क्रोग्स्टः : कच्चिन्मन्यसे त्वं धैर्येण –?
नोरा : इदानीं धीरास्मि –
क्रोग्स्टः : तथा त्वया मां भीषयितुं न शक्यम्। त्वं सुकुमारी अतिलालिता रमणी।
नोरा : त्वं द्रक्ष्यसि, त्वं द्रक्ष्यसि।
क्रोग्स्टः : हिमसंहतेरधः भवेत्? शीते खनिजाङ्गारकृष्णे अगाधे जले? ततः वसन्ते जलतले प्लावनं अनभिज्ञेया अभिकिरत्केशपाशा
नोरा : त्वं मां भीषयितुं न समर्थः।
क्रोग्स्टः : न च त्वं माम्। हेल्मेरगृहिणि, लोकः तादृक्कर्मणि न प्रवर्तते। किञ्च, तदप्रयोजकं भवेत्। तथापि सः संपूर्णं मत्प्रभावाधीनः भवेत्।
नोरा : अनन्तरम्? यदा न भवेयम्?
क्रोग्स्टः : कच्चित् त्वं विस्मरसि यत् तव प्रथायाः रक्षकः अहमेव? (नोरा तमवलोकयन्ती निर्वचना स्तम्भीभवति) भवतु, इदानीं त्वां प्रबोधयामि। मौढ्यजनितं किमपि मा कार्षीः। यदा हेल्मेरः मम पत्रं प्रतीच्छति तदा तस्य प्रत्युत्तरं प्रतीक्षे। किञ्च त्वया न विस्मृतव्यं यत् तव भर्ता एव मम शिष्टाननुमतपथे चलनाय कारणम्। तदर्थमहं तं न कदापि क्षमै। हेल्मेरगृहिणि, भद्रं भवेद्यावत् पुनर्दर्शनम्। (प्रवेशकोष्ठमार्गेण निष्क्रमते)
नोरा : (बहिर्द्वारं गत्वा ईषदावृणोति आकर्णयति च)
सः गच्छत्येव। पत्रं पत्रपेटिकायां14 न विसर्जति। न हि न हि तन्न सम्भाव्यम्। (शनैः शनैः द्वारमावृणोति।) किमेतत्। स बहिस्तिष्ठति। स न गच्छति। अधस्तले कुतः स दोलायति? तेन शक्यं किम्? (पत्रं पेटिकायां पतति। क्रोग्स्टस्य पदाघातशब्दः तथा तथा क्षीयमाणः श्रूयते यथा यथा क्रोग्स्टः सोपानमवरोहति। नोरा नियन्त्रितं क्रन्दति, धावन्ती आसन्दीसमीपस्थमञ्चकं प्रति कोष्ठं क्रामति। अल्पविरामः)
Letter-box
नोरा : पत्रपेटिकायां (प्रवेशकोष्ठद्वारं प्रति चोर इव क्रामति) तत्र वर्तते-टूर्वल, टूर्वल, अस्माकं न काप्याशा।
(लिण्डगृहिणी परिधानं गृहीत्वा वामकोष्ठात्प्रविशति।)
लिण्डगृ : अहो, न किञ्चिदप्यस्ति शोधनीयम्। अधुना परिधातुमिच्छसि किम्?
नोरा : (कर्कशं उपांशु वदति) क्रिस्टीने, अत्रागच्छ।
लिण्डगृहिणी: (परिधानमासन्द्यां क्षिपन्ती) किमापतितम्? त्वं विह्वला दृश्यसे।
नोरा : अत्रागच्छ, त्वं तत्पत्रं पश्यसि किम्? तत्र पश्य, पत्रपेटिकायाः काचद्वारा दृश्यते।
लिण्डगृहिणी: बाढम्, पश्यामि।
नोरा : तत्पत्रं क्रोग्स्टात्।
लिण्डगृ : नोरे, क्रोग्स्टः खलु तुभ्यं धनं ऋणरूपेण ददौ।
नोरा : अथ किम्। टूर्वलः सर्वं ज्ञास्यति।
लिण्डगृ : शृणु माम्। युवयोः तदेव श्रेयस्करम्।
नोरा : त्वं सर्वं न जानासि। अहं कपटलेखेन नामलिखितमन्वकरम्।
लिण्डगृ : भद्रं ते!
नोरा : इदमेव त्वां वक्तुमिच्छामि, क्रिस्टीने, त्वं मम साक्षिणी भवेः।
लिण्डगृ : तव साक्षिणी? किं निवेदयितुमिच्छसि? मया किम्- -
नोरा : मां यदि मतिभ्रमः बाधेत। सः सुकरं सम्भवेत्।
लिण्डगृ : नोरे
नोरा : अथवा किमप्यन्यत् मम भविता। उदाहरणार्थं यदि केनापि कारणेन मया अत्र उपस्थितिः न साध्या।
लिण्डगृ : नोरे, त्वं मतिभ्रष्टा खलु।
नोरा : यदीदम् भविता यत् कश्चन प्रष्टव्यतां निन्दां च वोढुं यतेत- - त्वमवगच्छसि खलु?
लिण्डगृ : बाढम्,बाढम्-परंतु कथं त्वं भावयसि-?
नोरा : तदा त्वं मम साक्षिणी भवेः “नोरा एव निन्दनीया, न कोऽप्यन्यः निन्दनीय” इति वक्तुम्। क्रिस्टीने, नाहं मतिभ्रष्टा, इदानीं स्तिमितचित्ताऽस्मि, नकोऽप्यन्यः अस्मिन् विषये किञ्चिदपि वेत्ति। मा विस्मर, मया एकाकिन्या एव सर्वं कृतम्।
लिण्डगृ : न विस्मरामि। परंतु इदं सर्वं मया नावगतम्।
नोरा : कथमिव त्वमिदमवगच्छसि? किमप्याश्चर्यकरं भविता।
लिण्डगृ : आश्चर्यकरम्?
नोरा : अथ किम्, आश्चर्यकरम्, परं तु तत् भीषणं, भवितुं नार्हति।
लिण्डगृ : सद्य एव गत्वा क्रोग्स्टं पश्यामि।
नोरा : तं माऽसदः। सः तव हानिं कुर्यात्।
लिण्डगृ : आसीत् कालः यदा स मह्यं किमपि सहर्षं कुर्यात्।
नोरा : सः?
लिण्डगृ : स कुत्र वसति?
नोरा : मया कथं ज्ञातव्यम्? (कञ्चुकपोटलिकां स्पृशन्ती) अत्रास्ति तस्यसङ्केतपत्रम्15। परंतु पत्रम्, पत्रम्
Calling card
हेल्मेरः : (स्वकोष्ठादाह्वयन्, द्वारं प्रहरन्) नोरे!
नोरा : (सोद्वेगं क्रन्दति) किमेतत्? किं वा वाञ्छसि?
हेल्मेरः मा भैषीः। आवामन्तर्नागच्छावः। द्वारमर्गलितम्। नवपरिधानं परिदधाना किम्?
नोरा : अथ किम्। टूर्वल, अहं भृशं दर्शनीया भविष्यामि।
लिण्डगृ : (सङ्केतपत्रं पठित्वा) स समीपे एव वसति।
नोरा : बाढम्, परंतु कार्ये न युज्यते, निराशाजनकम्। पत्रं तत्र पत्रपेटिकायामेव वर्तते।
लिण्डगृ : अथ तव भर्ता कुञ्चिकां रक्षति कच्चित्?
नोरा : अथ किम्, सर्वदा।
लिण्डगृ : क्रोग्स्टः अपठितं पत्रं तव भर्तुराप्नुयात्। किमपि कारणं सृजेत्।
नोरा : सामान्यतः टूर्वलः दिनस्यास्यां वेलायामेव
लिण्डगृ : तमासाद्य कथमपि तं विलम्बय यावदहं पुनरागच्छामि।
(सा सत्वरं प्रवेशकोष्ठद्वारा निर्गच्छति)
नोरा : (हेल्मेरकोष्ठद्वारमासाद्य तद्विघट्टयति प्रच्छन्नं विलोकयति) टूर्वल!
हेल्मेरः : (अन्तःकोष्ठात्) आत्मनःकोष्ठमागन्तुं मे शक्यं भवति किम्? रङ्क,आगच्छ, अधुना द्रक्ष्यसि (द्वार्येव तिष्ठन्) परं तु, किमेतत्?
नोरा : प्रिय, किं किम्?
हेल्मेरः : रङ्कः उज्ज्वलपरिवर्तनं प्रतीक्षितुं मां प्राचोदयत्।
रङ्कः : (द्वारि तिष्ठन्) मया तथावगतम्, मम अवगमः सदोष अभवत्।
नोरा : बाढम्, श्वो यावत्, न कोऽपि नवपरिधानं परिदधानां मां श्लाघितुं प्रभवति।
हेल्मेरः : परं तु, मम प्रिये नोरे, त्वं क्लान्ता दृश्यसे। कच्चिदतिमात्रमभ्यस्यसि?
नोरा : न हि, अहं मनागपि नाभ्यस्यामि।
हेल्मेरः : परं तु, त्वया अभ्यसनीयम्।
नोरा : बाढम्, अहमभ्यस्यामि । परं तु त्वत्साहाय्येन विना न किमपि मया साध्यम्। मया सर्वं विस्मृतम्।
हेल्मेरः : अहो, पुनःअभ्यस्याव।
नोरा : बाढम्। मम सहायो भव। टूर्वल, सहायो भवामीति प्रतिश्रवं कुरु। कम्पनशीलाऽहम्। यूयं सर्वे मत्कार्ये नियुक्ता भवेयुः। प्रिय टूर्वल, पाणौ लेखनीमपि न गृह्णामीति प्रतिश्रवं कुरु।
हेल्मेरः : मम अनन्यशरण्ये तन्वि मर्त्ये, अद्य सायं मम समयः त्वत्सेवायामेव प्रयुज्यते इति प्रतिश्रवं करोमि। परंतु, इदानीं प्रथमतः अहं (प्रवेशकोष्ठद्वारस्य समीपं गच्छति)
नोरा : तत्र किं कुरुषे?
हेल्मेरः : यानि कान्यपि पत्राणि आगतानि किमिति द्रष्टुम्।
नोरा : न हि, न हि। तन्माकार्षीः, टूर्वल।
हेल्मेरः : कुतो न कुर्याम्।
नोरा : टूर्वल, कृपया मा कुरु। तत्र किमपि नास्ति।
हेल्मेरः : अथ पश्यानि (पत्रपेटिकां गन्तुं प्रतिनिवर्तते। नोरा पियानों गत्वा तरन्तेलानृत्यस्य प्रथमस्वराणि वादयति। हेल्मेरः द्वार्येव विरमति)आहा
नोरा : यद्यहं त्वया सह नाभ्यस्यामि तदा श्वः मया नर्तनमसाध्यं भविष्यति।
हेल्मेरः (तां समीप्य) प्रिये, त्वयि तत् तादृग्भयं जनयति किम्?
नोरा : बाढम्, अहं भृशं भीता। इदानीमेव अभ्यस्यामि। रात्र्यशनात्पूर्वं समयः अस्ति। उपविश्य मदर्थं वादय। प्रिय टूर्वल, छिद्राण्यन्विष यथा यथा वादयामि तथा तथा समाधत्स्व।
हेल्मेरः सहर्षम् यदि वाञ्छसि। (पियानोसमीपे उपविशति)
नोरा : (पेटिकायाः पटहकमेकं दीर्घमूर्णाच्छादनं च बहिरानयति। सा आत्मानमूर्णाच्छादने आच्छाद्य रङ्गमञ्चाग्रं प्रति द्रुतं प्लवति, व्याहरति च) इदानीं मदर्थं वादय. अहं नृत्यामि। (हेल्मेरः वादयति, नोरा नृत्यति च। रङ्कः पियानोसमीपे हेल्मेरस्य पृष्ठे तिष्ठन्नवलोकते)
हेल्मेरः : (वादयन्) मन्दम्,मन्दम्।
नोरा : मया अन्यथा न साध्यम्।
हेल्मेरः: न तथा तीव्रम्, नोरे।
नोरा : इत्थमेव।
हेल्मेरः: (वादनाद्विरमति) न,न, नेषदपि साधु।
नोरा : (हसन्ती पटहकं दोलयन्ती) तथा मया पूर्वमेव उक्तं खलु?
रङ्कः : तस्यै अहं वादयानि।
हेल्मेरः : (उत्थाय) बाढम्, तथा कुरु, तदा साधुतरं समादधामि।
(रङ्कः पियानोवाद्यस्य अभिमुखमुपविश्य वादयति। नोरा अनियन्त्रितं नृत्यति। हेल्मेरः चुल्ल्याः समीपे तिष्ठति, तस्यां नृत्यन्त्यां असकृत् तामुपदिशति च। तस्योपदेशाः तया न श्रुता इति भाति। तस्याः पतत्केशपाशः भुजावलम्बी भवति। नोरा तं न गणयन्ती नृत्यन्ती वर्तते। लिण्डगृहिणी प्रविशति।)
लिण्डगृ : (दिङ्मूढा द्वारि तिष्ठन्ती) अहो!
नोरा : (नृत्यन्ती) विनोदमयमिदम्, क्रिस्टीने।
हेल्मेरः : मम प्रिये नोरे! तव जीवितमेव तदधीनमिव नृत्यसि।
नोरा : तथ्यम्, तदधीनमेव।
हेल्मेरः : विरम, रङ्क, अयमुन्माद एव केवलम्, विरम। (रङ्कः वादनाद्विरमति. नोरा सद्यः निश्चला तिष्ठति. हेल्मेरः तामासीदति) मया विश्वसितुमशक्यं भवेत्। नोरे, मया उपदिष्टं सर्वं त्वया विस्मृतम्।
नोरा : (पटहकं विक्षिपन्ती) तथैव खलु।
हेल्मेरः : तव भूरि शिक्षणमवश्यं भवति।
नोरा : अथ किम्। मम शिक्षणावश्यकता इदानीं ते अवगता। अन्त्यक्षणावधि त्वं मामध्यापयेः। त्वं प्रतिज्ञां कुरु, टूर्वल।
हेल्मेरः : मयि विश्वसिहि।
नोरा : न किमपि मदन्यं त्वं चिन्तयेः अद्य वा श्वो वा। त्वया न किमपि पत्रं पठनीयम्, पत्रपेटिकापि न उद्घाट्यते।
हेल्मेरः : अम्हो, त्वमद्यापि तस्मात् भीता?
नोरा : अथ किम्।
हेल्मेरः : नोरे, तव दृष्टिर्मां कथयति यत्तेन प्रेषितं पत्रं तस्यां पत्रपेटिकायां वर्तते।
नोरा : न जाने। तत्रास्तीति चिन्तयामि। इदानीं त्वया तादृक्किञ्चिदपि न पठनीयम्। यावदिदं सर्वं अन्तमेति तावदावयोर्मध्ये न किमपि दारुणमागच्छेत्।
रङ्कः (हेल्मेरस्य कर्णान्तिकम्) तां मा रुधः।
हेल्मेरः : (तां हस्ते गृहीत्वा) यथाज्ञापयति बाला। परं तु श्वः रात्रौ तव नर्तनानन्तरं
नोरा : तदा त्वं स्वतन्त्रः। (सेविका दक्षिणद्वारे दृश्यते)
सेविका : आर्ये, रात्र्यशनं सिद्धम्।
नोरा : हेलने, द्राक्षासवमपि सिद्धं भवतु।
सेविका: यथाज्ञापयति भवती, आर्ये (निष्क्रमते)।
हेल्मेरः : अहो, भोजनमहः किम्?
नोरा : अथ किम्। द्राक्षासवोत्सवः आप्रत्यूषम्। (उच्चैर्घोषयति) हेलने, कानिचन मकरूनानि च, न, बहूनि मकरूनानि सकृदेव।
हेल्मेरः :, कुतस्तथाविधकातरता? यथापूर्वं मम तन्वी कोकिला वर्तस्व।
नोरा : बाढं, प्रिय, तथैव वर्तिष्ये। इदानीं गृहान्तः गच्छ, वैद्य रङ्क त्वमपि। क्रिस्टीने, त्वया मम केशप्रसाधने साहाय्यं कार्यम्।
रङ्कः (बहिर्गच्छतोः तयोः हेल्मेरस्य कर्णान्तिकम्) न किञ्चिदस्तीति चिन्तयामि। तया न किमपि आशंसितम्?
रङ्कः : मम प्रिय वयस्य, मया कथितपूर्वं बालिशकातरत्वमेव, नान्यत् किञ्चित्। (तौ दक्षिणपार्श्वस्थ कोष्ठं प्रविशतः)
नोरा : अथ
लिण्डगृ : स नगराद्बहिर्गतः।
नोरा : तव वदनमेव कथयतीव।
लिण्डगृ : श्वो सायं स्वगृहमागमिष्यति। तस्मै पत्रकमेकमलेखिषम्।
नोरा : भव्यं भवतु। न किञ्चिदपि रुन्द्धि। भविष्यदाश्चर्यकरप्रतीक्षणं सुखावहं ननु।
लिण्डगृ : किं तत् यत्त्वं प्रतीक्षसे?
नोरा : अहो, तत्त्वया नावगम्यम्। गच्छ, ताभ्यां सह मिल। क्षणार्धे आगच्छामि। (लिण्डगृहिणी भोजनगृहं गच्छति। क्षणानि नोरा आत्मानं संस्तम्भयितुमिव अचला तिष्ठति, पश्चात् स्वमणिबन्धघटी16मवलोकते)
Wrist-watch
इदानीं पञ्चघटिकाः, आमध्यरात्रि सप्त घटिकाः। तदनन्तरं चतुर्विंशतिः घटिकाः आगामिमध्यरात्रिपर्यन्तम्। तदा तरन्तेलानृत्यम्। सप्ताधिकचतुर्विंशतिः घटिकाः, अर्थात् एकत्रिंशद्घटिकाः जीवितुम्।
हेल्मेरः (दक्षिणद्वारात्) कुत्र मम तन्वी कोकिला?
नोरा : (भुजौ प्रसार्य तमुपसर्पन्ती) इहैव सा। - -