प्रथमोऽङ्कः

दृश्यम् (सुखकरमाह्लादकरं परंतु अनतिव्ययकरं यथा भवति तथा सज्जितः कोष्ठः। पृष्ठे दक्षिणेन प्रवेशकोष्ठ1द्वारम्, वामेन हेल्मेरस्य अध्ययनकोष्ठद्वारम्, मध्ये पियानो2वाद्यं स्थापितम्। वामभित्तेर्मध्ये द्वारमेकम्, तत्पश्चात् वातायनम्। वातायनस्य समीपे वर्तुलो मञ्चकः3 आसनमासन्दी च। दक्षिणभित्तेः पृष्ठभागे अपरं द्वारम्। तस्मिन् पार्श्व एव एका चुल्ली द्वे आसने दोलकासनं च। चुल्लीद्वारयोर्मध्ये ह्रस्वो मञ्चकश्च। भित्तौ तक्षितचित्राणि च। चायचषका लघुवस्तूनि कानिचन च पेटिकायां वर्तन्ते। सुग्रथितपुस्तकभरिता ह्रस्वा पुस्तकपेटिका च। कुथास्तीर्णा भूमिः। चुल्ल्यामग्निर्ज्वलति। शिशिरकालः।

entrance hall

piano

table

द्वारघण्टा ध्वनति। अनन्तरं द्वारमुद्घाटितं श्रूयते। नोरा गुञ्जन्ती उल्लसिता अटनसमुचितपरिधानं दधाना प्रविशति। सा काश्चनपोटलिका वहन्ती ता दक्षिणपार्श्वस्थ मञ्चके निवेशयति। द्वारमुद्घाटितमेव वर्तते। द्वाराद्बहिः क्रिस्तोत्सववृक्षं तथा स्यूतमेकं च वहन् भारवाहक एको दृश्यते। या सेविका द्वारमुदघाटयत् तस्यै स तौ प्रयच्छति।)

नोरा : हेलने, क्रिस्तोत्सवस्य वृक्षं सावधानं पिधेहि। आसायं बाला असज्जितं तं यथा न पश्यन्ति तथा कुरु। (वाहकं प्रति) कति मूल्यम्?

वाहकः: षट् पेन्सानि4

नोरा : इहास्ति शिलिन्ग5मेकम्। शेषं तुभ्यमेव। (वाहकः धन्यवादान् समर्प्य निर्गच्छति. नोरा द्वारं पिधत्ते। हसन्ती शिरोभूषणमपवाह्य परिधानकोशात् कतिचन मकरूना6न्युद्धृत्य खादति भर्तुः कोष्ठस्य द्वारं शनैरुपगम्य आकर्णयति) बाढं, स वर्तते। (गुञ्जन्ती दक्षिणस्थ मञ्चकस्य निकटं गच्छति।)

pence

shilling

sweet biscuit

हेल्मेरः (स्वकोष्ठादेव शब्दायति) तत्र सा किं मम कोकिला?

नोरा: (कतिचन पोटलिका उद्घाटयन्ती) बाढम्, अहमिहास्मि।

हेल्मेरः: मम चमरपुच्छी किमु इतस्ततो धावन्ती?

नोरा : अथकिम्।

हेल्मेरः : मम चमरपुच्छी कदा गृहमागतवती?

नोरा : अधुनैव (मकरूनपोटलिकां परिधानकोशे निवेश्य वक्त्रं परिमार्ज्य) टूर्वल, अत्रागच्छतु। पश्यतु कानि मया क्रीतानीति।

हेल्मेरः : कार्यनिरतोऽस्मि। मा विघ्नमाचर। (क्षणेषु गच्छत्सु द्वारमुद्घाट्ट्य कोष्ठे दृष्टिं प्रसार्य लेखनीहस्तः) क्रीतानि किम्? एतानि सर्वाणि?। ममातिव्ययिनी तन्वी पुनरपि धनक्षयं कृतवती किम्?

नोरा : बाढम्, परं तु, टूर्वल, ऐषम ईषदपि नियममतिक्रम्य व्ययं कर्तुं शक्नुवः खलु। अयमेव प्रथमः क्रिस्तोत्सवो यदा आवाभ्यां मितव्ययो नावश्यः।

हेल्मेरः : तथापि, आवां निःशङ्कं व्ययं कर्तुं न शक्नुव इति तव विदितमेव।

नोरा : बाढम्। टूर्वल, आवां स्वल्पमपि मितिमवगणय्य व्ययं कर्तुं शक्नुवः। न शक्नुवः किम्? तव वेतनं बहुगुणं वर्धिष्यते खलु? भूरि धनमर्जयिष्यसि खलु?

हेल्मेरः : बाढम्। नववर्ष एव। वेतनं तु वर्षस्य प्रथमपादान्त एव देयं भविष्यति।

नोरा : तदवधि ऋणं कर्तुं शक्यं ननु?

हेल्मेरः : नोरे, (तस्या अन्तिकं गत्वा सलीलं तस्याः कर्णं गृह्णाति) सैव विहगमस्तिष्कवती त्वम्। भावय, यदि इदानीं पञ्चाशत् पौण्डानि7 ऋणं करोमि, त्वं तत्सर्वं क्रिस्तोत्सवसप्ताहे व्यययिष्यसि, अथ नववर्षागमे यदि मम शिरसि इष्टिकायाः पतनादहं विगतासुर्भविष्यामि, अथ - -

pound

नोरा : (स्वहस्ताभ्यां तस्य वक्त्रं पिधाय) अहो, भद्रं ते, मा श्रावय तादृग्वचांसि।

हेल्मेरः : तथापि, भावय, तदापद्यते यदि –

नोरा : तदापन्नं चेत् अधमर्णा न वा न मम कोऽपि भेदः।

हेल्मेरः : परं तु उत्तमर्णानां का कथा?

नोरा : तेषां? मम किम्? ते के इति नाहं ज्ञास्यामि।

हेल्मेरः : तत्स्त्रीसदृशं खलु। अलघु वदामि। मम चिन्तनं तु : न कदापि ऋणं ऋणग्रहणं च। कुटुम्बस्य सुषमा स्वतन्त्रता च न भवेताम् यद्यधमर्णौ भवेय। वयमद्यावधि धैर्येण ऋजुपथे गच्छन्तौ स्वः। तथैव आगामिन्यपि काले विनायासेन गच्छाव।

नोरा : (चुल्ल्याः समीपं गच्छन्ती) यथेच्छसि, टूर्वल।

हेल्मेरः : (तामनुसृत्य) मैवम्, मम हंस्याः पक्षौ नम्रौ न भवेताम्। किमेतत्? अपि मम चमरपुच्छी कुपिता? (स्ववित्तस्यूतमुद्धृत्य) नोरे, अपि वेत्सि अत्र किमस्तीति?

नोरा : (सपदि परिवृत्य) वित्तम्!

हेल्मेरः : यथेष्टं खलु! (किञ्चिद्धनं ददाति) अपि चिन्तयसि नाहं वेद्मि क्रिस्तोत्सवकाले गृहनिर्वहणाय कियद्धनमवश्यमिति?

नोरा : (गणयन्ती) दश शिलिङ्गानि, एकं पौण्डम्, द्वे पौण्डे, बहूपकृतोऽस्मि, टूर्वल, इदं वित्तं अनल्पकालं व्ययाय भविष्यति।

हेल्मेरः : अवश्यं भवेत्।

नोरा : बाढं, बाढम्, भविष्यति। अत्र आगच्छ, तुभ्यं दर्शयानि मया क्रीतं

सर्वम्। तदपि सर्वमल्पमूल्यम्। पश्य इदं नवं परिधानं ईवाराय, खड्गाश्वतूर्याणि च बाबाय, पुत्रिका पुत्रिकामञ्चश्च एम्यै एते सरला एव। कथञ्चित् सा तान् द्राक् खण्डयिष्यति। अथ अत्र सन्ति परिधानवस्त्राणि करवस्त्राणि च सेविकाभ्यः। वृद्धा आना समीचीनतरं अन्यत् किमपि लब्धुमर्हति।

हेल्मेरः : अस्यां पोटलिकायां किमस्ति?

नोरा : (साक्रन्दम्) मा, मा, आसायं तन्मापश्येः।

हेल्मेरः : अस्तु। परं तु इदानीं श्रावय माम्, तन्वि व्ययशीले, आत्मार्थं किं वाञ्छसि?

नोरा : मह्यं? मह्यं सर्वथा न किमपि वाञ्छामि।

हेल्मेरः : बाढं, परं तु त्वया काचिदप्युचिता वाञ्छा वक्तव्या।

नोरा : मम मनसि न किमप्यायाति। अथवा, टूर्वल,

हेल्मेरः : ब्रूहि।

नोरा : (लीलया तस्य कञ्चुककुड्मलान्8 स्पृशन्ती नम्रवदना) यदि दद्याः - -

Coat buttons

हेल्मेरः : ब्रूहि।

नोरा : (झटिति वदन्ती) वित्तं दद्याः यथाशक्ति। इदानीमन्यतमे दिने अहं तेन किञ्चित् क्रेष्यामि।

हेल्मेरः : परं तु नोरे।

नोरा : कृपया दद्याः। तत् सुन्दरसौवर्णकागदे वेष्टयित्वा क्रिस्तोत्सववृक्षे लम्बयामि। तदाकर्षकं भवेत् खलु।

हेल्मेरः : वित्तक्षयपराणां किमभिधानम्?

नोरा : अतिव्यया, अहं जानामि। टूर्वल, यथा सूचयसि तथैव करवाव। तदा मम अवश्यतमं किमिति चिन्तयितुमवकाशो लभ्यते। इयमुचिता योजना खलु।

हेल्मेरः इयमुचिता नूनम्। अर्थात्, यदि मद्दत्तवित्तात् त्वया किमपि वित्तं रक्ष्यते, रक्षितवित्तात् त्वया आत्मार्थं किमपि क्रीयते तदा तव योजना समुचिता। अन्यथा यदि सर्वं कुटुम्बभरणाय अनवश्यवस्तुक्रये च व्यययसि चेत् मया पुनः वित्तं देयं भविष्यति।

नोरा : अहो, परं तु, टूर्वल

हेल्मेरः : निराकरणेनालम्, मम प्रियबाले नोरे, (स्वहस्ताभ्यां तस्या मध्यमालिङ्ग्य) इयं स्पृहणीयबाला अतिव्यया भूरि व्यययति खलु। को नु जानाति त्वादृशा बालाः कियती व्ययपरा भवन्तीति।

नोरा : कथं न लज्जसि तथा वक्तुम्? अहं निस्संशयं यावत् शक्यं तावद्वित्तं रक्षामि।

हेल्मेरः (प्रहसन्) तत् सत्यं खलु। यावत् शक्यं तावत् रक्षसि। परं तु न किमपि शक्यम्।

नोरा : (सहर्षं मन्दं स्मयमाना) टूर्वल, त्वं न जानासि खल्वस्माकं कोकिलानां चमरपुच्छीनां व्ययहेतवः कियन्त इति।

हेल्मेरः : त्वमनन्या बाला नूनम्। त्वज्जनकसदृशी त्वम्। सर्वदा केनापि नूत्नमार्गेण मां संस्तुत्य धनं कर्षसि। यावद्धनं लब्धं तावदेव तद्द्रवतीव। न जानासि कुत्र गतमिति। सहजगुणवतीं त्वां मन्ये। नोरे, अन्वयानुगता गुणा नूनम्।

नोरा : अहो, मम पितुर्बहवो गुणा मयि भूयासुरित्येव मम तीव्रा वाञ्छा।

हेल्मेरः : सहजगुणवती यथैवासि तथैव त्वं मह्यं रोचसे, मम बालकोकिले। परं तु, जानासि किं, अद्य त्वां ईषत्कुण्ठितहर्षामिव पश्यामि।

नोरा : अहं कुण्ठितहर्षा?

हेल्मेरः सत्यम्। मम दृग्भ्यां तव नयने बधान।

नोरा : (तं पश्यन्ती) किम्?

हेल्मेरः : (तामुद्दिश्य स्वाङ्गुलिं धुन्वन्) अद्य नगरे स्वादुभक्षणशीला नियमानुल्लङ्घयन्ती दृश्यते खलु।

नोरा : कथं तथा चिन्तितं त्वया?

हेल्मेरः : मिष्टान्नगृहं गतवती खलु?

नोरा : सर्वथा न। मयि विश्वसिहि, टूर्वल।

हेल्मेरः : स्वादुभक्ष्यानि शनैः खादितानि?

नोरा : न हि। सर्वथा न।

हेल्मेरः : नापि कतिचनमकरूनानि?

नोरा : न, मयि विश्वसिहि।

हेल्मेरः तत्तु मम परिहासविजल्पितम्।

नोरा : (दक्षिणस्थमञ्चकस्य समीपं गत्वा)[दक्षिणस्थमञ्चकस्य समीपं गत्वा] त्वद्वाञ्छां विरुद्ध्य न मया किञ्चिदपि क्रियते।

हेल्मेरः : अहं सर्वथा जानामि। किञ्च त्वया प्रतिज्ञातम्। (तस्याः समीपं गत्वा) क्रिस्तोत्सवस्य यान्य- -ल्पीयानि गोपनीयानि तानि गोपाय, प्रिये। यदा रात्रौ क्रिस्तोत्सववृक्षो दीप्यते तदा सर्वं निःसंशयं प्रत्यक्षीभवति।

नोरा : अपि विना विस्मरणं त्वया वैद्यो रङ्क आमन्त्रितः?

हेल्मेरः : न हि, आमन्त्रणमनवश्यम्। रात्रिभोजनाय स आगमिष्यत्येव।

तथापि यदा प्रातः आगच्छति तदा तमामन्त्रयामि। मया उत्तमद्राक्षारस आदिष्टश्च। त्वं न जानासि अस्या रात्र्याः प्रतीक्षणे ममोत्सुकताम्।

नोरा : अहमप्युत्सुका। टूर्वल, अपत्यानि भूरि विनोदाननुभवन्ति खलु।

हेल्मेरः : क्षेमकर उद्योगः प्रभूतं वेतनं च ह्लादयति खलु चेतः।

नोरा : अथ किम्। सत्यमाह्लादयति।

हेल्मेरः : कच्चित् स्मरसि परुत् क्रिस्तोत्सवार्थं त्रयः सप्ताहाः प्रतिसायं चरमयामपर्यन्तं क्रिस्तोत्सववृक्षस्य अलङ्करणार्थमस्मान् विस्मापयितुं रहस्याभूषणानि कुर्वाणा आसीः? तान् दिवसानहं निरानन्दं व्यत्यायम्।

नोरा : मम तु निरानन्दा नाभवन्।

हेल्मेरः : (मन्दं स्मयमानः) अन्ते तव श्रमो निष्फल अभवत् खलु।

नोरा : त्वया तदुद्दिश्य मम पीडनं न कार्यम्। अहं किं कुर्यां यदि मार्जालः सर्वं नाशयति चेत्?

हेल्मेरः : सत्यम्। त्वया अस्मत्प्रीणनार्थं हि सर्वं कृतम्। तदेव मुख्यम्। दिष्ट्या अस्मत्कृच्छ्रकालाः व्यतीताः।

नोरा : अथकिम्। हर्षं तनोति।

हेल्मेरः : ऐषमः किंकर्तव्यतामूढो जर्जरितो नोपविशामि। कोमलनेत्रया त्वयापि तावककोमलकराभ्यां सीवनं न कार्यम्।

नोरा : (हस्तावास्फाल्य) नहि, टूर्वल, इतः परं मया न कार्यं खलु। त्वमिदं श्रावयसीति यत्तन्मां भूरि हृष्यति। (तस्य हस्तौ धृत्वा) कथं वस्तूनां विन्यासः करणीय इति यच्चिन्तयामि तत् श्रावयामि। क्रिस्तोत्सवानन्तरं (प्रवेशकोष्ठे घण्टा ध्वनति) अहो घण्टा (कक्षशोधने ईषन्निरता भवति) कोऽपि द्वार्युपस्थितः। कण्टकः।

हेल्मेरः : मां द्रष्टुं कोऽप्यागतो यदि तं वद स गृहाद्बहिर्गतवानिति।

सेविका : (देहलीस्थिता) काचित् भवतीं द्रष्टुमागता, आर्ये, काचिदागन्तुका।

नोरा : प्रवेशय ताम्।

सेविका : (हेल्मेरमुद्दिश्य) सपदि वैद्योऽपि आगतः, आर्य।

हेल्मेरः : सः अजिम्हपथा मम कोष्ठं प्रविष्टवान् किम्?

सेविका : बाढम्, आर्य।

(हेल्मेरः स्वकोष्ठं प्रविशति सेविका अटनोचितपरिधानवतीं लिण्डगृहिणीं प्रवेशयति)

लिण्डगृ : (ह्रीतविषण्णस्वरेन) अपि कुशलम्, नोरे?

नोरा : कुशलम्। अपि कुशलम् तव?

लिण्डगृ : मां नाभिजानासीति भाति।

नोरा : न। न जानामि, (द्राक्) क्रिस्टीना, नूनं खलु त्वम्?

लिण्डगृ : आम्, सैवाहम्।

नोरा : क्रिस्टीने, कथं मया विस्मृता? परं तु कथं मया — (सौम्यवचोभिः) अन्येव भूरि परिवर्तिता भासि।

लिण्डगृ : अथकिम्। दशसु वर्षेष्वहं भूरि परिवर्तिता।

नोरा : अस्मद्मिलनात् पश्चात् दश वर्षाणि यातान्यहो? यायुः। मम गतानि अष्टौ वर्षाणि सुखमयान्यासन्। अधुना नगरमायाता त्वम्। शिशिरे दूरप्रयाणं कृतवती। धीरा नूनम्।

लिण्डगृ : अद्य प्रात एव बाष्पचलितपोतेन आगच्छामि।

नोरा : मां हृष्यति यत् क्रिस्तोत्सवकालं ससुखं क्षपयितुमागच्छेः। आवां सलीलं कालं क्षपयाव। निर्वेष्टय तवोत्तरीयम्। कच्चित् शैत्यं नानुभवसि? (निर्वेष्टने साहाय्यं ददाति) इदानीं चुल्ल्याः समीप उपविशाव। त्वमस्मिन्नासने उपविश, अहमासन्द्यामुपविशामि। (तस्याः हस्तौ गृहीत्वा) अधुना त्वं यथावत् दृश्यसे। प्रथमदर्शने किञ्चिन्म्लानमासीत् तव वदनम्। कृशतरा भूयाः, क्रिस्टीने।

लिण्डगृ : प्रकामं जरिता च, नोरे।

नोरा : ईषज्जरिता जातु नाधिकम्। (सपदि विरमति, सगौरवं वदति)

धिङ्ममासंवेदनशीलताम्। अहमेवं लघु संलपामि। क्षमस्व माम्।

लिण्डगृ : त्वं किम् विवक्षसि?

नोरा : हताशे क्रिस्टीने, त्वं विधवासि।

लिण्डगृ : अथकिम्। त्रीणि वर्षाणि गतानि।

नोरा : जानाम्यहम्। मया वृत्तपत्रिकायां दृष्टम्। नैकवारं तुभ्यं पत्रं प्रेषयितुं संकल्पः कृतः। कथमपि सः कार्यगतः नाभवत्। इदं वा अन्यत् विघ्नकरमभवत्।

लिण्डगृ : अहमवगच्छामि, प्रिये।

नोरा : समुचितं नाचरितं मया। क्रिस्टीने, अमाये। कथमिव कृच्छ्राण्यनुभूतानि त्वया। न किमपि रिक्थम्?

लिण्डगृ : न किमपि।

नोरा : नापत्यानि च?

लिण्डगृ : न।

नोरा : न किमपि, ततः किम्?

लिण्डगृ : स्मरणार्थं न सन्तापः परितापो वा।

नोरा : (अविश्वसन्तीव तां पश्यन्ती) परंतु, क्रिस्टीने, अपि तत् संभाव्यम्?

लिण्डगृ : (विषण्णा स्मयमाना आत्मनः केशालकान् स्पृशन्ती) तत् कदापि संपद्यते, नोरे।

नोरा : ततस्त्वमेकाकिनी। एकाकित्त्वं दारुणं दुःखमयं भवेत्। मम त्रीणि सुभगान्यपत्यानि। तव दृष्टिपथं नागच्छन्ति। इदानीमेव धात्र्या सह बहिरगमन्। श्रावय मां तत्सर्वम्।

लिण्डगृ : न हि, न हि। त्वां श्रोतुमिच्छामि ननु।

नोरा : न, प्रारभस्व, अद्य मया स्वहितपरता न कार्या। मया त्वद्व्यापाराण्येव चिन्तनीयानि। परं तु इदमेकं संवृत्तं मया कथनीयम्। जानासि यदिदानीमेव अस्माकं शुभं समपद्यत।

लिण्डगृ : न, तत्किम्?

नोरा : भावय, मम भर्ता बाङ्क9स्य निर्वाहकपदे न्ययोज्यत।

bank

लिण्डगृ : तव भर्ता? कियत्सौभाग्यम्!

नोरा : बाढम्, न्यायवादिनो वृत्तिरव्यवस्थिता ननु। विशेषेण अस्वादुव्यवहारा नापेक्ष्यन्ते यदि। टूर्वलः प्रकृत्या तान् नेच्छतीति यत् तन्ममापि सम्मतम्। भावय वयं कियत्सुखमनुभवामः। नूतने वर्षे तेन नवोद्योगो निर्वहणीयः। स भूरिवेतनमर्जति व्यवहारोचितधनमपि स्वीकरिष्यति च। आगामिनि काले अपूर्वरीत्या यथेच्छं जीवनं कर्तुं शक्नुमः। अहं सुतरां हृष्टा। क्रिस्टीने, प्रभूतधनप्राप्त्या निश्चिन्ताः भविष्यामः। कच्चिदङ्गीकुरुषे?

लिण्डगृ : बाढम्, कथञ्चिदवश्यकधनप्राप्तिः सुखावहा एव।

नोरा : न हि, न केवलम् यदवश्यकं धनस्य सञ्चया अपि।

लिण्डगृ : (स्मयमाना) नोरे, नोरे, कच्चित् त्वया न बुध्यते? शालादिनेषु त्वमतिव्ययिनी आसीः।

नोरा : (विहसन्ती) बाढम्, इदानीं टूर्वलः तदेव वदति (तां प्रति स्वाङ्गुलीं विधूनयन्ती)। परं तु, यथा “नोरे, नोरे” इति वदन्ती चिन्तयसि न तथा बालिशम्। अस्मत्स्थितिर्न तथासीद्यथाहमपव्ययं करोमि स्म। आवाभ्यां धनार्जनमवश्यमभवत्।

लिण्डगृ : त्वयापि?

नोरा : बाढं, सीवनं सूचिकर्म इत्यादि। (मन्दस्वरेण) अन्यच्च। अस्मद्विवाहसमये टूर्वलः उद्योगमत्यजत् । तत्र उद्योगपदोत्कर्ष: असम्भव आसीत्। पूर्वतोऽप्यधिकं वित्तं अर्जनीयमभवत्। विवाहानन्तरं प्रथमवर्ष एव उद्योगकर्मण आधिक्यं तावानभवत् यस्मात् स रोगपीडित अभवत्। वैद्यैः दक्षिणदेशेषु निवसनमवश्यमिति सूचितं च।

लिण्डगृ : युवां वर्षपर्यन्तं इटलीदेशे न्यवसतं खलु?

नोरा : अथ किम्। पर्यटनं न सुखकरमासीत्। तदा ईवरः स्तनंधय आसीत्। आवयोः पर्यटनं अनिवार्यमासीत्। परं तु पर्यटनं विस्मयकरमाह्लादकरं च आसीत्। टूर्वलस्य जीवनमरक्षच्च। परं तु भूरि धनव्ययः अभवत्।

लिण्डगृ : अहमपि तथा भावयामि।

नोरा : पञ्चाशदधिकद्विशतं पौण्डानि। तद्धनं भूरि खलु?

लिण्डगृ : बाढम्, भाग्यमेव यत्तादृशि आपत्काले अवश्यधनं लब्धम्।

नोरा : अवश्यं धनमावाभ्यां मत्पिता ददौ।

लिण्डगृ : अवगतम्। कच्चित् तस्मिन्नेव काले तव पिता दिवमगात्?

नोरा : अथकिम्। भावय, तस्य शुश्रूषा मया न कृता यतः आपन्नसत्त्वा प्रतिदिनं ईवरस्य जननं प्रतीक्षमाणा आसम् तथा रुग्णस्य टूर्वलस्य आरोग्यरक्षणमपि मया कर्तव्यमासीत्। मम पितरं पुनः नापश्यम्, क्रिस्टीने। विवाहात् प्रभृति मम दुःखतमदिनानि तानि।

लिण्डगृ : पितर्यतिस्नेहवती अभव इत्यहं जानामि। अथ कच्चित् त्वमिटलीदेशं गतवती?

नोरा : बाढम्। आवां धनवन्तावास्व। वैद्या यात्रा शीघ्रमेव भवेदित्यवदन्। अतः मासात् पश्चात् अयनोन्मुखावभवाव।

लिण्डगृ : तव भर्ता कुशली पुनरागतः खलु।

नोरा : अथकिम्। वज्रकायः।

लिण्डगृ : परं तु, वैद्यः?

नोरा : को वैद्यः?

लिण्डगृ : मयि आगतवत्यां य आगतवान् स वैद्यः खलु। तव सेविकया तथा श्रावितं खलु?

नोरा : बाढम्। स वैद्यो रङ्कः। सः अस्मत्स्वास्थ्यपालनार्थमत्र नागच्छति। सः आवयोः गाढं मित्रम्। स दिने सकृदपि तावदागच्छति। तत्प्रभृति टूर्वलः न कदापि आमयबाधितः। आवयोः अपत्यानि दृढानि स्वस्थानि च। अहमपि तथैव। (उत्पतति करतालं करोति च।) क्रिस्टीने, क्रिस्टीने, सुखमयजीवनं आह्लादकरं ननु। धिङ्माम्। मद्व्यापाराण्येव जल्पामि। (तस्याः समीपं पादपीठे उपविशति बाहू आत्मन जान्वोः निवेश्य)। मह्यं मा कुपः। कच्चित् सत्यं ते त्वद्भर्ता प्रियो नासीत्? कुतस्त्वं तं पर्यणयः?

लिण्डगृ : मम माता जीवन्ती असहाया शय्याग्रस्ता आसीत्। मम अवरौ भ्रातरौ पोषणीयावास्ताम्। तस्य विवाहप्रार्थनायाः तिरस्करणमनुचितमिति मे अभात्।

नोरा : त्वया समुचितं कृतम्। तदा स धनिको भवेत्।

लिण्डगृ : स धनीति मम विश्वास आसीत्। परं तु तस्य व्यापारः अस्थिर आसीत्। तस्मिन् उपरते तस्य व्यापारोऽप्युपरतः । न किञ्चिदपि मम हस्तगतम्।

नोरा : ततः किम्?

लिण्डगृ : तदा यदुद्योगः लब्धः तद्गृहीतः। आदौ लघ्वापणः, तदनु लघ्वी पाठशाला्। अतीतास्त्रयो वर्षा विरामं विना दीर्घव्यवहारदिनमिव यापिताः। इदानीमन्तमभजत्। नोरे, मम अमाया माता दिवं गता मम साहाय्यं नापेक्षते। अनुजावुद्योगिनौ स्वतन्त्रौ।

नोरा : अधुना कियतीं निर्भरतामनुभवसि!

लिण्डगृ : न हि। जीवनं लक्ष्यहीनमभवत्। किमर्थं जीवानि? (सोद्वेगमुत्तिष्ठति) अत एव तत्र मम जीवनमसह्यमभवत्। अत्र कोऽप्युद्योगं लभेय यस्मिन् मम मनः निमज्जयिष्यामीत्याशासे। दिष्ट्या कस्मिंश्चिदपि कार्यालये कोऽप्युद्योगो लभ्येत।

नोरा : तत्तु सुतरां क्लाम्यति। त्वं क्लान्ता दृश्यसे। त्वया कुत्रापि विहारस्थलं प्रति गमनं वरम्।

लिण्डगृ : (वातायनस्य समीपं गत्वा) नोरे, मम पिता नास्ति यो महयं धनं मद्विहाराय दद्यात्।

नोरे : (उत्थाय) मह्यं मा कुपः।

लिण्डगृ : (तां समीप्य) त्वया मयि क्रोधो न कार्यः। मम अवस्था तादृशी या मां सुतरामसन्तुष्टां करोति। न कोऽप्यस्ति यस्य हेतोरहं उद्योगं मार्गयेयं तथापि मम मनः कार्यमार्गणे निमज्जति। जीवनार्थं मनुजः स्वार्थो भवति। त्वया यदा तव भाग्योत्कर्षः श्रावितः तदा त्वदर्थमहं तथा हृष्टा नाभवं यथा मदर्थम्।

नोरा : का ते विवक्षा? बाढम्, अवगता। तोर्वाल्दः तुभ्यं किमप्युद्योगं दापयेदिति?

लिण्डगृ : बाढम्, तन्मम चिन्तनमासीत्।

नोरा : तेन कर्तव्यमेव। क्रिस्टीने, अस्य कार्यस्य भारमहं वहामि, मा चिन्तय, कौशलेन यथा सः प्रीतो भवति तथा अस्मिन् विषये तेन सह संलपामि। तव सहाया भविष्यामि यदि, अहं तुष्टा भवामि।

लिण्डगृ : नोरे, त्वं कियती कारुण्यवती? तव कारुण्यं द्विगुणितं यतः त्वं स्वल्पमेव जानासि संसारदुःखानि लोकयात्राधुराः।

नोरा : अहम्? स्वल्पमेव जानामि?

लिण्डगृ : (स्मयमाना) प्रिये, कुटुम्बनिर्वहणव्यसनानि, नोरे, त्वमद्यापि शिशुरेव।

नोरा : (शिरः उन्नम्य रङ्गं सङ्क्रामति) अहं त्वत्तो गरीयसीति मा भावय।

लिण्डगृ : ततः किम्?

नोरा : अहं किमपि अलघुकार्यं कर्तुमक्षमा इति त्वमपि अन्ये इव मन्यसे।

लिण्डगृ : अथ किम्।

नोरा : अहं किमपि संसारव्यसनं नान्वभवमिति?

लिण्डगृ : प्रिये, नोरे, अधुनैव त्वया सूचितं खलु तव सर्वं दुःखम्?

नोरा : अकिञ्चित्करं तत्सर्वम्। अहं अलघुविषयमेकं प्रति अद्यावधि नावोचम्।

लिण्डगृ : अलघु विषयः? कस्तवावगमः?

नोरा : “अहं जनन्यै कृच्छ्राण्यन्वभवम्” इति त्वं मां सगर्वमुपेक्षसे।

लिण्डगृ : सर्वथा अहं कमपि नोपेक्षे। अहं मम जनन्याः परिणतवयसि तां निर्भरां कृतवतीति हृष्टा साभिमाना च।

नोरा : यत् त्वया त्वदनुजेभ्यः कृतं तदनुचिन्त्य त्वं साभिमाना च।

लिण्डगृ : स्थाने ममाभिमान इति भावयामि।

नोरा : अहमपि तथैव भावयामि। परं तु शृणु मां। मयापि किञ्चित्कृतमस्ति यस्मादहमपि हृष्टा साभिमाना भवितुमर्हामि।

लिण्डगृ : निस्संशयम्। परं तु किं तत्?

नोरा : मन्दं वद, टूर्वलः शृणुयात्। तेन न कदापि श्राव्यम्। क्रिस्टीने, त्वां विना नान्यः कोऽपि जानीयात्।

लिण्डगृ : किं तत्?

नोरा : अत्रागच्छ। (तां आसन्दीं प्रति कर्षति आत्मना सह उपवेशयति च) टूर्वलस्य प्राणा मयैव रक्षिता इति हृष्टा अभिमानवती च भवितुं योग्या अहमिति तुभ्यं दर्शयामि।

लिण्डगृ : प्राणा रक्षिताः? कथम्?

नोरा : अस्माकं इटलीदेशयात्रां प्रति मया त्वं श्राविता खलु। टूर्वलः स्वस्थो नाभविष्यत् यद्यावां इटलीदेशं न अगमिष्याव।

लिण्डगृ : आम्, कच्चित् तव पित्रा अवश्यधनं दत्तम्?

नोरा : (स्मयमाना) आम्, टूर्वलः अन्ये च तथैव संभावयन्ति।

लिण्डगृ : परं तु?

नोरा : पिता आवाभ्यां न किञ्चिदप्यददात्। मयैव सर्वं संपादितम्।

लिण्डगृ : त्वया? तत्सर्वं प्रभूतं धनम्?

नोरा : पञ्चाशदधिकद्विशतं शिलिङ्गानि। किं मनुषे?

लिण्डगृ : परं तु, कथमिव त्वया साध्यम्? द्यूतेन पारितोषकरूपेण वा अर्जितं किम्?

नोरा : (सतिरस्कारम्) द्यूतेन? तत्र अहं कथं प्रशस्या भवेयम्?

लिण्डगृ : तदा त्वया कथं लब्धम्?

नोरा : (गुञ्जन्ती गूढमुद्रया स्मयमाना च) हुम्, हुम्, आह्,

लिण्डगृ : त्वया ऋणरूपेण लब्धं न स्यात्।

नोरा : कुतो न स्यात्?

लिण्डगृ : भर्तुरनुमतिं विना भार्या ऋणं स्वीकर्तुं नार्हति।

नोरा : (शिरः उन्नम्य) यदि भार्या व्यवहारविषये दक्षा धीमती स्यात्?

लिण्डगृ : सर्वं तन्नावगच्छामि, नोरे।

नोरा : तव अवगमः नावश्यकः। अहं ऋणमकरवमिति नावदम्। केनापि अन्यमार्गेण धनप्राप्तिः संभवा एव। (आसन्द्यां संविशति) मत्सदृशी सुन्दरी केनापि अन्येन प्रियेन धनं लभेत नूनम्।

लिण्डगृ : तव मतिविभ्रम इति भाति।

नोरा : विषयं ज्ञातुमुत्सुका त्वम्, क्रिस्टीने।

लिण्डगृ : शृणु माम्। प्रिये नोरे त्वया अविवेक आचरित इति भाति।

नोरा : कच्चित् भर्तुः प्राणरक्षणमविवेकं दर्शयति?

लिण्डगृ : भर्तारमनिवेद्य कृतं कर्म इति यत् तद्विवेकहीनम्।

नोरा : अवश्यमासीत् यन्मम भर्ता मम कर्म न जानीयात्। कच्चिदवगतम्? अवश्यमासीद्यत् स न जानीयादात्मनः आरोग्यं कियत्क्षीणमासीत्। तस्य वैद्या मामवदन्,” तव भर्तुर्जीवितस्य अपायः सन्निहितः। दक्षिणदेशेषु वसतिरेव तं रक्षे”दिति।

मम काम्यमर्थम् आत्मार्थमेव इति तं ज्ञापयितुं प्रथममयते। अश्रुमुखी तमवदम्, “अहमपि अन्यनवोढावत् अन्यदेशेषु सञ्चरितुमुत्सुका। मम अवस्थां सकरुणं सानुकम्पं मानय” इति। “अवश्यं भवति चेत् ऋणमपि कुरु” इति च असूचयम्।

तेन सः कुपित अभवत्। सः अवदत्,”त्वमविवेकिनी, तव क्षुल्लकापेक्षाणामवाप्तिः भर्त्रा मया न कार्या” इति। तदा अहमचिन्तयम्,”केनापि मार्गेण मया तस्य प्राणा रक्षणीया” इति। कृच्छ्रान् दूरीकर्तुं तदैव मार्गमेकमचिन्तयम्।

लिण्डगृ : कच्चित् तव पिता “अहं नोरायै धनं न अददाम्” इति तव भर्तारं कदापि ज्ञापितवान्?

नोरा : न हि, न कदापि। तत्समये एव मम पिता असूनत्यजत्। मया चिन्तितमासीत् यन्मम पितरं मद्रहस्यं प्रति सूचयानि तथा रहस्यरक्षणं च प्रार्थयानि। परं तु स नितरामस्वस्थ आसीत्, हन्त, तस्मै मद्रहस्यसूचनमनवश्यमभवत्।

लिण्डगृ : कच्चित् तदारभ्य त्वया तव भर्त्रे तव रहस्यं कदापि न अनावृतम्?

नोरा : भद्रं भूयात्। कथमिव त्वया तथा चिन्तितम्? स एषु विषयेषु दृढाभिप्रायवान्। किञ्च पुरुषोचितस्वातन्त्र्यशीलः सः “मम भार्यया उपकृतोऽस्मि” इति ज्ञात्वा अभिभूतः कियतीं वेदनामनुभवेत्। आवयोः परस्परसम्बन्धो विपरीतो भवेत्। आवयोः सुन्दरं गृहं अयथावद्भवेत्।

लिण्डगृ : कच्चित् त्वं कदापि तव रहस्यं प्रति तं न सूचयिष्यसि?

नोरा : (ध्यायन्ती मन्दं स्मयमाना)बाढम्, गच्छत्सु वर्षेषु यदाहं अपचीयमानसौन्दर्या भविष्यामि, मा हसीः, टूर्वलः यदा यथाद्य पत्नीपरायणः अस्ति तथा न भविष्यति, यदा मम नर्तनं गायनं प्रसाधनं च तस्मै न रोचिष्यते तदा, तदा (वाचः स्तम्भयन्ती) अलमसम्बद्धप्रलापेन, सः समयः न कदाप्यागमिष्यति। क्रिस्टीने, मम महद्रहस्यं प्रति तव चिन्तनं किम्? अपि चिन्तयसि अहं अनुपयोगिनी इति?

अयं व्यवहारः मयि अतीव क्लेशमजनयत्। कॢप्तकाले मम प्रतिबद्धतायाः निर्वहणं दुष्करं भवति स्म। वित्तव्यवहारेषु त्रैमासिकवृद्धिरिति काचन वर्तते। किञ्च ऋणमुक्तये नियतकाले भागशः वित्तं च देयं भवति। तेषां निर्वाहः दुष्करः। तदर्थं यत्र साध्यम् तत्र मया गार्हव्यये सङ्कोचनं कृतम्। सङ्कोचनसाध्यता स्वल्पा हि। टूर्वलः पुष्कलं भोजनमपेक्षते। अपत्यानां परिधानानि वरार्हाणि भवेयुरिति मम आशा। अतः यद्द्रव्यं टूर्वलेन दत्तं तत्सर्वमपि व्ययितमभवत्।

लिण्डगृ : कच्चित् गार्हवित्तादेव सर्वं संपादितम्, नोरे।

नोरा : अथ किम्। सर्वः भारः मयैव ऊढः। यदा यदा टूर्वलः मह्यं नूत्नपरिधानार्थं धनमदात् तदा मया तदर्धादधिकं न व्ययितम्। अहमल्पमूल्यानि सरलानि परिधानान्येव अक्रीणाम्। दिष्ट्या यत्किमपि परिदधामि तत् सुन्दरायते। टूर्वलेन परिधानवैलक्षण्यं न जातु ज्ञातम्। क्रिस्टीने, परंतु अहमेव दुःखिता अभवम् यतः वरार्हपरिधानानां धारणमाह्लादकरम्। कच्चिदेवं मन्यसे?

लिण्डगृ : अथ किम्।

नोरा : अथ धनार्जनाय अन्यमार्गा अपि मया अन्वेषिताः। दिष्ट्या गतशिशिरे प्रभूतं प्रतिलिपिकार्याणि मम हस्तं गतानि। आत्मानं कोष्ठे बन्धयित्वा प्रतिसायं आचरमयामं व्यलिखम्। कदाप्यहं क्लान्ता अभवम्। परंतु कार्यमानन्दकरमभवत्। पुरुषवत् स्थित्वा धनस्य अर्जनं तोषयति खलु।

लिण्डगृ : इत्थमर्जितेन धनेन ऋणं कियत् सङ्कुचितम्?

नोरा : सूक्ष्मतया वक्तुं न शक्नोमि। व्यवहारेषु संख्यानं सुदुष्करम्। एकैकं पेन्सं संरक्ष्य अहमदामिति वेद्मि। नैकवारं किंकर्तव्यतामूढा अभवम् (स्मयते)। तदा अहमत्र उपविश्य धनी वृद्ध एकः मया सह मोहमुपागतो भवेद्यदि इत्यचिन्तयम्।

लिण्डगृ : किम्? को वा स आसीत्?

नोरा : मन्दं वद। अहमुत्प्रैक्षे स उपरतः, यदा तस्य इच्छापत्रमुद्घाटितं तदा तत्र तस्य निर्देशः बृहदक्षरेषु लिखित आसीत्,”सुन्दर्यै नोरायै हेल्मेरगृहिण्यै काञ्चनरूपेण मम सर्वस्वं सद्य एव देयम्” इति।

लिण्डगृ : स को भवेत्।

नोरा : कष्टं भोः, कच्चिन्नावगच्छसि? वृद्धः कोऽपि न आसीत्। यदा मया कोऽपि धनार्जनमार्गः न दृष्टः, तदा अत्रोपविश्य तमुत्प्रैक्षे। स वृद्धः यत्रास्ति तत्रैव तिष्ठतु। तेन वा तस्य इच्छापत्रेण वा न मे कार्यम्। इदानीं वीतचिन्ता अस्मि। (उत्प्लवति) क्रिस्टीने, चिन्ताराहित्यं कियदानन्दकरम्! अपत्यैः सह क्रीडनम्, टूर्वलः यथेच्छति तथा गृहस्य अलङ्करणम् – अहो, वसन्तऋतुर्जिगमिषति, नीलं गगनम्, कुत्रापि जातुचित् पर्यटामः, समुद्रं पुनः प्रेक्षिष्ये। अहो, जीवन्ती आनन्दमयीति भावना विस्मयं जनयति। (प्रवेशकोष्ठे घंठा ध्वनति)

लिण्डगृ : अथ द्वारघण्ठा ध्वनति, अहं गच्छानि।

नोरा : न हि, न हि, मा स्म गाः, नकोऽप्यागमिष्यत्यत्र। टूर्वलाय एव भवेत्।

सेवकः (प्रवेशकोष्ठद्वारि) मां क्षमताम्, आर्ये, कश्चिदार्यः स्वामिनं द्रष्टुमपेक्षते परं तु स्वामी वैद्येन सह अस्ति।

नोरा : स कः?

क्रोग्स्टः : (द्वारे) अहमेव, हेल्मेरगृहिणि। (लिण्डगृहिणी सोद्वेगं कम्पते। वातायनमुद्वीक्षते।)

नोरा : (तं प्रति पदमेकं गत्वा मन्दं लज्जान्वितम् भाषते) त्वम्? किं कारणम्? किमुद्दिश्य मम भर्तारं वीक्षितुमिच्छसि?

क्रोग्स्टः : बाङ्कस्य व्यवहारमुद्दिश्य। बाङ्के अहं कस्मिन्श्चिल्लघूद्यो्गे नियुक्तोऽस्मि। तव पतिः अस्माकं प्रमुखो भवितेति श्रुतम्।

नोरा : तत् तथैव।

क्रोग्स्टः : शुष्कबाङ्कव्यवहारं विना न कश्चिदस्ति।

नोरा : कृपया त्वमध्ययनकोष्ठं प्रवेष्टुमर्हसि। (उदासीना तं प्रणमति प्रवेशकोष्ठद्वारं पिदधाति च निवर्त्य चुल्ल्यां काष्ठं प्रहरति)

लिण्डगृ : स पुरुषः कः?

नोरा : न्यायवादी क्रोग्स्टनामा।

लिण्डगृ : कच्चिदयं सः?

नोरा : कच्चित्त्वं तं जानासि?

लिण्डगृ : पुरा तमजानाम्। पुरा मम नगरे सः न्यायवादिनः सहाय आसीत्।

नोरा : बाढम्। स आसीत्।

लिण्डगृ : स भूरि परिवर्तितो भाति।

नोरा : तस्य गृहस्थजीवनमसुखकरमासीत्।

लिण्डगृ : अधुना स विधुरः कच्चित्?

नोरा : बाढम्। बह्वपत्यकः। पश्य, अधुना अग्निर्ज्वलति। (चुल्ल्याः कवाटं पिदधाति दोलकासन्दीं चालयति)

लिण्डगृ : बहुषु उद्योगेषु निरत इति श्रुतम्।

नोरा : एवम् किम्? जातु चित्। अहं किमपि न जानामि। उद्योगान् प्रति न भाषावहे। मनः क्लाम्यति।

वैद्यः रङ्कः : (हेल्मेरस्य अध्ययनकोष्ठात् बहिरागच्छति। कवाटपिधानात्पूर्वं तं वदति)न हि, तुभ्यं विघ्नं नाचरामि, अल्पकालं तव पत्न्या सह लघु संलपामि। (द्वारं पिदधाति लिण्डगृहिणीं पश्यति) क्षमां याचे। दुःखितोऽस्मि तुभ्यमपि विघ्नमाचरामि।

नोरा : न कदाचित्। (परस्परपरिचयमुत्पादयन्ती) अयं वैद्यः रङ्कः, इयं लिण्डगृहिणी।

रङ्कः : अत्र संवादेषु तव नाम असकृत् श्रुतम्। यदा त्वमागतवती तदा त्वां सोपानपथे अहमपश्यम् लिण्डगृहिणि।

लिण्डगृ : मम सोपानारोहणमसुकरम्। मन्दमारोहामि।

रङ्कः : भवेदङ्गदौर्बल्यम्।

लिण्डगृ : न हि, मम शक्तिमतिक्रम्य उद्योगेषु प्रवृत्तास्मि।

रङ्कः : तावदेव किम्? अथ इदं नगरमागता केवलं मनोरञ्जनार्थमिति भाति।

लिण्डगृ : अत्र आगतास्मि उद्योगं विचिन्वन्ती।

रङ्कः : अमितोद्योगप्रवृत्त्यै तत् भेषजं किम्?

लिण्डगृ : मर्त्येन जीवितव्यं खलु, वैद्यमहोदय।

रङ्कः : मर्त्यैः जीवितव्यमिति सर्वैः संभाव्यते।

नोरा : वैद्यमहोदय, त्वं जीवितुमिच्छसि खलु।

रङ्कः : निःसंशयम्, हताशतायां पतितोऽपि अहं तामवस्थां दीर्घीकर्तुं यते। मम रुग्णा अपि तथैव यतन्ते। नैतिकरोगैः पीडिता अपि। तेष्वन्यतमः, सुतरां पीडित इदानीं हेल्मेरेण साकं वर्तते।

लिण्डगृ : (सशोकम्) हन्त

नोरा : कमुद्दिश्य वदसि?

रङ्कः : क्रोग्स्टनामा न्यायवादी यः तव अपरिचितः। हेल्मेरगृहिणि, स नैतिकरोगार्तः। सोऽपि मम जीवनं बह्वमूल्यम्, अत एव जीवितुमुत्सहे इति भाषते स्म।

नोरा : कच्चित् तथा भाषते स्म? किमुद्दिश्य स टूर्वलं भाषते स्म।

रङ्कः : न जाने। बाङ्कमुद्दिश्य इति मात्रम् अहं श्रुतवान्।

नोरा : एतन्न मया ज्ञातम्। तस्य नाम किम्? क्रोग्स्टः? क्रोग्स्टः बाङ्केन सम्बद्ध इति न मया ज्ञातम्।

रङ्कः : बाढम्, तत्र स कश्चिदुद्योगी। (लिण्डगृहिणीमुद्दिश्य)कच्चित् तावकीनदेशेषु च केचन जनाः सन्ति ये नैतिकरोगपीडितान् विचिन्वन्तः तादृशान् लाभकरपदवीषु नियोज्य तत्पथा लाभं विन्दन्ति? तदा सज्जना दूरीक्रियन्ते।

लिण्डगृ : तथापि, रक्षणार्हा एव रोगपीडिता इति भावयामि ।

रङ्कः : (स्कन्धौ विधूनन्) सम्यगवदः, तादृशचिन्तनमेव समाजं रुग्णालयं कुरुते।

(नोरा तदवधि चिन्तामग्ना सपदि नियन्त्रितस्मिता करताडनं करोति)

रङ्कः : कुतस्त्वं स्मयसे? तव कल्पनायां समाजः किंविधः?

नोरा : अनेन मूढजीर्णसमाजेन मम किं? अहमन्यत् किञ्चिद्विनोदकरं चिन्तयन्ती अहसम्।

रङ्कः : किं तत्त्वां नितरां विनोदयति?

नोरा :(हसन्ती गुञ्जन्ती) स मम विषयः।

(कोष्ठं परिक्रामन्ती) नितरां ह्लादयति यदावां, न, टूर्वल इयज्जनानामुपरि इयदैश्वर्यं दर्शयतीति। (तस्याः कञ्चुकस्यूतात् पोटलिकां गृहीत्वा) वैद्यवर्य रङ्क, मकरूनं वाञ्छसि?)

रङ्कः : किम्? मकरूनानि? तान्यत्र निषिद्धानि इति मम अवगमः।

नोरा : आम्, इमानि कानिचित् क्रिस्टीनया दत्तानि।

लिण्डगृ : किम्? अहम् –

नोरा : मा भैषीः, त्वया न ज्ञातं यदिमानि टूर्वलेन प्रतिषिद्धानीति। यत इमानि मम दन्तान् कुत्सितान् कुर्वन्तीति टूर्वलः शङ्कते। परं तु कदापि सकृत् मकरूनभक्षणं क्षम्यमिति भावयामि। वैद्यवर्य कच्चित् स्वीकुरुषे? अनुजानासि (मकरूनमेकं तस्य वक्त्रे अर्पयति). क्रिस्टीने, तुभ्यमपि एकं वा द्वे। अहमपि एकं वा द्वे परिगृह्णामि। (इतस्ततः चरन्ती) अहं नितरां हृष्टा। इदानीं मया एकमेव कार्यम्।

रङ्कः : तत् किम्?

नोरा : तत् किञ्चिदस्ति शृण्वति तोर्वाल्दे यदुदीरणं मां हृष्यति।

रङ्कः : कुतस्त्वं वक्तुं न शक्नोषि?

नोरा : न हि, तदुद्वेगकरम्।

लिण्डगृ : उद्वेगकरम्?

रङ्कः : तर्हि तदुदीरणं न कार्यमिति मे मतिः। तथापि अस्मत्समक्षमुदीरयेः । तत् किं त्वं विवदिषसि शृण्वति तोर्वाल्दे?

नोरा : तद्व्याहरणं मम प्रियमेव- निन्द्या भवेयम्।

रङ्कः : कच्चित् त्वमुन्मत्ता?

लिण्डगृ : प्रिये, नोरे।

रङ्कः : इदानीं, व्याहर, एष आगच्छति।

नोरा : (पोतलिकां पिधाय) शान्तं शान्तम्। (हेल्मेरः स्कन्धे ऊर्ध्वकञ्चुकं10 हस्ते शिरस्त्राणं11 च धृत्वा स्वकोष्ठादागच्छति।)

Coat buttons

hat

नोरा : प्रिय टूर्वल, तमपानयः किम्?

हेल्मेरः : बाढं, इदानीमेव गतः।

नोरा : परस्परपरिचयं करवाणि। इयं नगरमागता क्रिस्टीना।

हेल्मेरः : क्रिस्टीना? क्षम्यताम्, नाहं जानामि।

नोरा : प्रिय, लिण्डगृहिणी, क्रिस्टीना लिण्डगृहिणी।

हेल्मेरः : मम भार्यायाः सहपाठिनी संभवेत्।

लिण्डगृ : अथ किम्। तदारभ्य आवामन्योन्यं परिचिते।

नोरा : संभावय, त्वां द्रष्टुं दूरादागता।

हेल्मेरः : किं वदसि?

लिण्डगृ : न, वस्तुतः, अहम् –

नोरा : क्रिस्टीना, वित्तसंख्याने12 चतुरा सा। चातुर्यशाणनार्थं कस्यापि कुशाग्रबुद्धेः अधीना भूत्वा उद्योगं कर्तुमिच्छति।

Book keeping

हेल्मेरः : तद्युक्तिपूर्वमेव।

नोरा : यावत् सा “त्वं बाङ्कनिर्वाहकपदव्यां नियुक्त” इत्यशृणोत्- वार्ता दूरतन्त्र्या प्रवाहिता ननु- तावदेव इदं नगरं प्रति प्रयाणमकरोत्। टूर्वल, कच्चित् मदर्थं क्रिस्टीनायै साहाय्यम् कर्तुम् शक्नोषि?

हेल्मेरः : तस्यै साहाय्यं नाशक्यम्। लिण्डगृहिणि, त्वं विधवेति मन्ये।

लिण्डगृ : बाढम्।

हेल्मेरः : वित्तसंख्याने सानुभवा च।

लिण्डगृ : बाढम्, समुचितम्।

हेल्मेरः तुभ्यं किञ्चित् कर्तुं शक्नोमीति मन्ये।

नोरा : (करताडनं कुर्वती) अहं किमवदम्? अहं किमवदम्?

हेल्मेरः : दिष्ट्या त्वमागतवती समुचितसमये।

लिण्डगृ : कथमहं मम कृतज्ञतां प्रकाशयामि!

हेल्मेरः : तदनवश्यम्। (ऊर्ध्वकञ्चुकं धारयति) अद्य क्षमस्व माम्।

रङ्कः : क्षणमेकं प्रतीक्षस्व। त्वया सह अहमागच्छामि। (प्रवेशकोष्ठात् स्वलोमावृतकञ्चुकं13 आनयति अग्नौ तापयति च)

Fur-coat

नोरा : प्रिय टूर्वल, अविलम्बं पुनरागच्छ।

हेल्मेरः : घटिकामेकामेव। नाधिकम्।

नोरा : क्रिस्टीने, त्वमपि गन्तुं व्यवसिता?

लिण्डगृ : (स्वोर्ध्वकञ्चुकं धारयन्ती) बाढम्, अधुना मया गम्यम्। वासार्थं कोष्ठ अन्वेषणीयः।

हेल्मेरः : तदनु आवां सहैव पथि चराव।

नोरा : (तस्याः साहाय्यं कुर्वती) दुःखकरं ननु यत् सङ्कुचितावकाशात् अस्मद्गृहे तव वसतिर्न साध्या।

लिण्डगृ : न तथा चिन्त्यताम्। पुनर्मिलाव, नोरे, भूरि धन्यवादाः।

नोरा : पुनर्मिलाव। सायं पुनरागमिष्यसि। त्वमपि रङ्कमहोदय! यथोचितं कुशली यदि। सुष्ठु आच्छादय शरीरम्। (ते संलपन्तः द्वारं प्रति गच्छन्ति। बालानां वचांसि सोपानपदे14 श्रूयन्ते)

Stair- case

नोरा : मम अपत्यानि, मम अपत्यानि (द्वारमुद्घाटयितुं धावति। धात्री अपत्यैः सह आगच्छति।) आगच्छत,आगच्छत। (प्रह्वा भवन्ती तान् चुम्बति।) मम पुण्यफलानि, क्रिस्टीने, पश्य तानि दयितानि नूनं क्रिस्टीने!

रङ्कः : अस्माभिरत्र शीतवाताभिमुखं न स्थेयम्।

हेल्मेरः : लिण्डगृहिणि, आगच्छ, इदानीं मात्रा एव स्थानमिदं सह्यं भवेत्।

(हेल्मेरः,रङ्कः लिण्डगृहिणी च सोपानमार्गेण अधः गच्छन्ति। धात्री बालैः सह पुरत आगच्छति। नोरा द्वारं पिदधाति।)

नोरा : अहो अम्लानाः स्वस्था यूयं दृश्यध्वे! ईदृशारुणकपोलाः सेब15निभाः गुलाबि16निभाः (तस्यां तान् वदन्त्यां सर्वे बालाः सपदि भाषन्ते) कच्चित् क्रीडाकौतुकमनुभूतम्? तदभिनन्द्यम्? कच्चित् त्वं एम्मीबाबौ क्रीडायाने17 अकर्षः? सपदि तौ? त्वं प्रगल्भः बालकः, ऐवार। आने,शिशुं गृह्णानि। मम मधुरवत्से, (शिशुं सेविकायाः गृह्णाति, उच्चैः नीचैः शिशुं नर्तयति) अम्बा बाबेन सह नृत्यति। किम्, हिमकन्दुकैरक्रीडत? मयापि युष्माभिः सह तत्र क्रीडनं कार्यमासीत्। न हि, न हि, आने, अहमेव तेषां परिधानानि उन्मोचयानि। कियानानन्दः! आने, गच्छ, शिलीभूतदेहार्धा दृश्यसे। चुल्ल्यां तुभ्यं काफ़ी18 वर्तते। (धात्री वामपार्श्वस्थकोष्ठं गच्छति। बालेषु सपदि तां वदत्सु, नोरा तेषां परिधानानि उन्मोच्य परितः क्षिपति।)

apple

rose

sledge

coffee

नोरा : सत्यं किम्? बृहत्कायः सारमेयः त्वामभ्यधावत्? परं तु सः त्वां नादशत्? सारमेयाः शोभनसुन्दरबालान् न दशन्ति। पोटलिकां न पश्येत। ऐवार, तानि कानि? ज्ञातुमिच्छसि खलु? न हि, न हि, तत्किञ्चित् अशुद्धम्। आगच्छ, क्रीडाम। कां क्रीडाम? गोपनान्वेषणक्रीडाम्? बाढं तां क्रीडाम। आदौ बाबः गोपायति। आदौ अहं गोपायानि? बाढम्, अहमेव गोपायिष्यामि।

(सा बालाश्च हसन्ति उच्चैर्नदन्ति। कोष्ठं प्रविशन्तः निर्गच्छन्तः उद्धतं खेलन्ति। अन्ते नोरा मञ्चकस्य अधः गुप्ता भवति। बालाः प्रविशन्ति, तां न पश्यन्ति परं तु तस्याः नियन्त्रितहासं शृण्वन्ति, मञ्चकं प्रति धावन्ति, मञ्चकाच्छादनमनावृत्य तां पश्यन्ति। सर्वे उच्चैः हसन्ति। नोरा मञ्चकस्य अधस्तात् सर्पन्ती तान् भयार्तान् कर्तुमिव नटति। पुनः उच्चैः हासः। अत्रान्तरे द्वारविघट्टनं भवति, कोऽपि न शृणोति। द्वारार्धः उद्घाटितः दृश्यते। द्वारे क्रोग्स्टः दृश्यते। सः क्षणं प्रतीक्षते। बालानां क्रीडा पुरतः प्रवर्तते। )

क्रोग्स्टः क्षमां याचे। हेल्मेरवर्यः?

नोरा : (निरुद्धेन आक्रन्देन सह परिवर्त्य जानुभ्यामुत्तिष्ठति) अहो, त्वं किं वाञ्छसि?

क्रोग्स्टः : अग्रद्वारं अपावृतमासीत्। केनापि पिधानं विस्मृतं भवेत्।

नोरा : (उत्थाय) मम भर्ता बहिर्गतः क्रोग्स्टवर्य।

क्रोग्स्टः : अहं जानामि।

नोरा : तदा किं वाञ्छसि?

क्रोग्स्टः : त्वया सह संबिभाषिषुरस्मि।

नोरा : मया सह? (बालानुद्दिश्य मन्दम्) इदानीमन्तः गच्छत। किम्? न हि न हि सःअपरिचितः मातरं न हिनस्ति। तस्मिन् गच्छति वयं पुनः खेलामः। (सा बालान् वामपार्श्वस्थकोष्ठं नयति। ततः प्रवेशकोष्ठस्य द्वारं पिदधाति) मया सह संभाषितुमिच्छसि?

क्रोग्स्टः : अथ किम्।

नोरा : अद्य? मासस्य प्रथमदिनं नास्ति खलु?

क्रोग्स्टः : न हि, क्रिस्तोत्सवस्य पूर्वरात्रिः। कथंविधस्तव क्रिस्तोत्सवो भविष्यतीति यत् तत् त्वामेवावलम्बते।

नोरा : किं वाञ्छसि त्वम्? अद्य तु मया न साध्यम्।

क्रोग्स्टः : तदुद्दिश्य इदानीमेव न संवदाव। मम विवक्षा त्वन्या। क्षणकालं मया सह संभाषितुं तव शक्यं खलु?

नोरा : अस्तु, अस्तु परंतु।

क्रोग्स्टः : अहम् ओल्सनस्य उपाहारगृहे आसम् यदा तव भर्तारं

नोरा : किम्?

क्रोग्स्टः : कयाचित् स्त्रिया सह मार्गे गच्छन्तमपश्यम्।

नोरा : तेन किम्?

क्रोग्स्टः : कच्चित् सा लिण्डगृहिणी भवेदिति त्वां पिप्रच्छिषुरस्मि?

नोरा : बाढम्। सा लिण्डगृहिणी एव।

क्रोग्स्टः : सा इदं नगरमचिरमागतवती भवेत्।

नोरा : बाढम्। अद्यैव।

क्रोग्स्टः : कच्चित् सा तव प्रियवयस्या?

नोरा : अथ किम्। ततः किम्?

क्रोग्स्टः : सा मम परिचितासीच्च पुरा।

नोरा : अहं जानामि।

क्रोग्स्टः : अतः सर्वं त्वया ज्ञातमिति मन्ये। अलं व्यर्थवाक्यैः। कच्चित् लिण्डगृहिणी बाङ्के उद्योगं लभते?

नोरा : क्रोग्स्टवर्य! कथं त्वं तदुद्दिश्य मां प्रष्टुमधिकृतोऽसि? त्वं मम भर्तुरधीनानामन्यतमः खलु। पृच्छसीति त्वां कथयामि। बाढम्, लिण्डगृहिणी बाङ्के उद्योगं लभिष्यते। तदर्थं मया मम भर्ता अनुनीतः।

क्रोग्स्टः : मया यदूहितं तत् सत्यमभवत्।

नोरा : (इतस्ततः रङ्गस्थले विचरन्ती) कदाचित् किञ्चित्त् स्वल्पं प्रभाववत् भवतीत्याशासे। तत् स्त्री इत्येव कारणात् - - -। क्रोग्स्टवर्य, अवरस्थाने उद्योगं कुर्वन् पुरुषः न पीडयेत् कमपि –

क्रोग्स्टः : प्रभावशालिनं?

नोरा : तत्त्वतः।

क्रोग्स्टः : (आत्मनः वाणीं परिवर्तयन्) हेल्मेरगृहिणि! कृपया मदर्थं त्वद्भर्तरि ते प्रभावं उपयोक्तुमर्हसि।

नोरा : किम्? का ते विवक्षा?

क्रोग्स्टः : कृपया यथाहं बाङ्के मम गौणोद्योगात् न निष्कासितो भविष्यामि तथा त्वं कर्तुमर्हसि।

नोरा : कस्तवावगमः? को वा तव उद्योगं छेत्तुमुद्युक्तः?

क्रोग्स्टः : अहो! अनभिज्ञताव्याजेन अलम्। अहमवगच्छामि यत् तव वयस्या मया सह उद्योगं कर्तुं नेच्छति। मया ज्ञातं च को वा अस्य हेतुरिति?

नोरा : परं तु निश्चयेन कथयामि।

क्रोग्स्टः : कथयेः। इदानीमवसरः समागतः यदाहं त्वां ज्ञापयामि त्वत्प्रभावेण तत् परिहर्तव्यमिति।

नोरा : परं तु, क्रोग्स्टवर्य, अस्मिन् विषये नाहं प्रभावशालिनी।

क्रोग्स्टः : प्रभावशालिनी नासि? अधुनैव तथा त्वया कथितं खलु।

नोरा : मम विवक्षा तथा नासीत्। कथमिव त्वं चिन्तयसि यदहं तथा मम भर्तरि प्रभावं कर्तुं प्रभवामीति?

क्रोग्स्टः : अहो! अस्मद्विद्यार्थिदिनात्प्रभृति तव भर्तारं जानामि। सः अन्यभर्तृभ्यः अधिकं

प्रभावातिक्रमणशील इति न मन्ये।

नोरा : यदि मम भर्तारं प्रत्याख्यासि तर्हि त्वां मद्गृहाद्बहिः गमयिष्यामि।

क्रोग्स्टः : हेल्मेरगृहिणि, त्वं धीरासि।

नोरा : इतः परं त्वत्तः न बिभेमि। आगमिष्यति नववर्षे, अल्पकाले एव तस्मात्सर्वस्मात् मुक्ता भविष्यामि।

क्रोग्स्टः (आत्मानं नियाम्य) हेल्मेरगृहिणि, मां शृणु, यद्यवश्यं भवति तर्हि बाङ्के मम गौणोद्योगार्थं योद्धुमपि शक्नोमि।

नोरा : भवतु।

क्रोग्स्टः : इदं धनार्थमेव न। धनं किञ्चित्करम्। अस्त्यन्यं गुरुतरं कारणम्। त्वयि निवेदनं सम्यगेव। एकदा बहुवर्षेभ्यः प्राक् मया अकार्यं कृतम्।

नोरा : मयापि श्रुतमासीत्।

क्रोग्स्टः : विषयः न कदापि न्यायालयं गतः। तदनन्तरं मम नान्यः पन्था विद्यते स्म। अतः अहं त्वया विदितपूर्वमुद्योगमाश्रितवान्। मम कस्मिन्श्चिदुद्योगे प्रवृत्तिरवश्या आसीत्। तत्त्वतः तदुद्योगपरेषु अहं क्षोदिष्ठानामन्यतमो नासमित्यवैमि । तथापि इदानीं तदुद्योगात् मोक्षं स्पृहयामि। मम पुत्रा वर्धमानाः सन्ति। तदर्थं मया नगरे साध्यं गौरवं सम्पादनीयम्। तद्दिशि बाङ्के अयमुद्योगः प्रथमं पदमासीत्। इदानीं तव भर्ता मां पादाघातेन धूलौ क्षिपति।

नोरा : परं तु, मयि विश्वसिहि, तव सहाया भवितुमहं न शक्नोमि।

क्रोग्स्टः : यतस्त्वं मम सहाया भवितुं नेच्छसि। परं तु बलाद्यथा मम सहाया भविष्यसि तथा कर्तुं शक्तोऽस्मि।

नोरा : का तव विवक्षा? कच्चित् “नोरा मह्यं धनं धारयती”ति मम भर्तारं सूचयसि?

क्रोग्स्टः : हुम्, यद्यहं तं सूचयेयम्?

नोरा : तर्हि तत्तव दुष्कर्म भवेत्। (अश्रूणि मुञ्चन्ती) यदि त्वं मम आनन्दकरं अभिमानकरं रहस्यं तथाविधकुत्सितमार्गेण तं निवेदयेः तर्हि मम स्थितिः दुस्सहा भवेत्।

क्रोग्स्टः : केवलं स्थितिः दुस्सहा?

नोरा : (अविमृश्य सरभसम्) अस्तु। तथैव कुरु। मम भर्ता त्वं कथंविधः दुर्जनः इति स्वयमेव वेदिष्यति। तदा निस्संशयं त्वं तव उद्योगरक्षणे असमर्थः भविष्यसि।

क्रोग्स्टः : त्वं गृहे अनास्वाद्यं दृश्यं भविष्यतीति केवलं भीतासि किम्?

नोरा : यदि मम भर्ता ज्ञास्यति तर्हि मया धार्यमाणं धनं त्वरितं तुभ्यं प्रयच्छति। अस्माकं त्वया न किञ्चिदपि कार्यं भविष्यति।

क्रोग्स्टः : (पदमेकं निकटमागत्य) हेल्मेरगृहिणि, तव स्मरणशक्तिः कुण्ठिता अथवा तव व्यवहारज्ञानं किञ्चित्करं भवेत्। कतिपयविषयानां सविस्तरस्मारणमनिवार्यं भवति।

नोरा : का ते विवक्षा?

क्रोग्स्टः : यदा तव भर्ता रुग्ण अभवत् तदा मत्तः पञ्चाशदधिकद्विशतं पौण्डानि ऋणरूपेण ग्रहीतुं त्वं मामुपगतवती।

नोरा : तदा अन्यं कमपि अहं नाजानाम्।

क्रोग्स्टः : तुभ्यं तद्धनं दीयते इति मया प्रतिश्रुतम्।

नोरा : बाढम्। त्वया तथा प्रतिश्रुतम्।

क्रोग्स्टः : कतिपयनिर्बन्धाननतिक्रम्य धनं मत्तः ग्राह्यमिति मया भणितम्। तदा तव मनः भर्तुरनारोग्येन क्षुब्धमासीत्। त्वं प्रयाणार्थं धनं लब्धुमतीव उत्सुका आसीः। त्वया ऋणसम्बद्धनियमा न सम्यक् परिशीलिता भवेयुः।

नोरा : बाढम्,ऋणपत्रं मया हस्ताक्षरितम्।

क्रोग्स्टः : परंतु तव हस्ताक्षरस्य अधः कतिपय पञ्क्तयः त्वत्पितरं प्रतिभूस्थाने स्थापनार्थं लिखिता आसन्, याः त्वत्पितुः हस्ताक्षरेण योजनीया आसन्।

नोरा : तथा हि। मम पित्रा हस्ताक्षरिता एव।

क्रोग्स्टः : तत्र मया दिनाङ्कस्थानं रिक्तं कृतमासीत्। तव पित्रा एव लेखितव्यमासीत्। कच्चित् तत् स्मरसि?

नोरा : बाढम्, स्मरामि।

क्रोग्स्टः : तदा तदृणपत्रं तव पित्रे डाक्-द्वारा प्रेषणार्थं मया तुभ्यं दत्तम्। कच्चित् स्मरसि?

नोरा : बाढम्।

क्रोग्स्टः : तरसा त्वया तत् प्रेषितं भवेत् यतः पञ्चषदिनेभ्यः पश्चात् त्वं त्वत्पित्रा हस्ताक्षरितं ऋणपत्रं मह्यम् अददाः। तदाहं तुभ्यं धनमददाम्।

नोरा : भवतु। मया नियतक्रमेण धनं दीयमानमस्ति खलु।

क्रोग्स्टः : आम् तथैव। हेल्मेरगृहिणि, तानि दिनानि ते कष्टकराणि भवेयुः।

नोरा : वस्तुत अभवन्।

क्रोग्स्टः : तव पिता नितरां रुग्ण आसीत्। कच्चित् सत्यम्?

नोरा : सः मरणोन्मुख आसीत्।

क्रोग्स्टः : पश्चात्, शीघ्रमेव स उपरतोऽभवत् खलु?

नोरा : बाढम्।

क्रोग्स्टः : हेल्मेरगृहिणि, कस्मिन् मासे, मासस्य कस्मिन् दिने तव पिता असूनत्यजदिति वक्तुं शक्नोषि?

नोरा : मम पिता सप्तम्बरमासस्य एकोनत्रिंशत्तमे दिने दिवं गतः।

क्रोग्स्टः : तदवितथम्। तस्य याथातथ्यं मयाप्युपलब्धम्। किञ्च तत्र (पत्रमेकं स्वकञ्चुकस्यूतादुधृत्य) काचिदसंगतिर्दृश्यते या मया अनिरूप्या।

नोरा : का असंगतिः? नाहं जाने।

क्रोग्स्टः : हेल्मेरगृहिणि, स्वमृतेः त्रिभ्यः दिनेभ्यः पश्चात् अस्मिन् ऋणपत्रे तव पिता स्वहस्ताक्षरं कृतवानित्येव असंगतिः।

नोरा : किं वदसि? नाहमवगच्छामि।

क्रोग्स्टः : तव पिता सप्तम्बरमासस्य एकोनत्रिंशत्तमदिने मृतिमगात्। अत्र पश्य। सः स्वहस्ताक्षरं अक्तोबरमासस्य द्वितीये दिने कृतमित्यलिखत्। तदसंगतं खलु। कच्चिन्मनुषे। (नोरा न किमपि वदति)। त्वं विवरीतुं शक्नोषि किम्?। किञ्च इदमनुपेक्षणीयं किल यत् “अक्तोबरस्य द्वितीयं दिनं” वर्षश्च तव पित्रा न लिखितं परंतु मम कयाचन परिचितया । तस्य विवरणं शक्यम्। तव पित्रा दिनमासवर्षाणां निर्देशः विस्मृतः भवेत्। अन्येन केनचित् त्वत्पितृमरणमजानता अविचार्य लिखितो भवेत्। तत्र बाधा नास्ति यदि तव पित्रैव ऋणपत्रं स्वहस्ताक्षरितं चेत्। कच्चित् तव पित्रैव हस्ताक्षरितम्?

नोरा : (क्षणं विलम्ब्य, शिर उन्नम्य, तमनादरेण पश्यन्ती) नहि, तेन न लिखितम्। मयैव लिखितम्।

क्रोग्स्टः : कच्चित्त्वमवगच्छसि यत् तथा दोषस्वीकारः अपायकरः?

नोरा : कथं वा भवेत्? अञ्जसा त्वद्धनं तुभ्यं समर्प्यते।

क्रोग्स्टः: त्वां प्रश्नमेकं पृच्छानि। कुतस्त्वया ऋणपत्रं तव पित्रे प्रेषितम्?

नोरा : तदसाध्यमासीत्। पितू रोग उल्बणावस्थां गते मया तस्य हस्ताक्षरार्थं प्रार्थना अशक्या अभवत्। “मम भर्ता रोगान्मरणोन्मुखः, तदर्थं धनस्य अवश्यकता अस्ति” इति तस्मै निवेदनं न शक्यमासीत्।

क्रोग्स्टः : यदि तव परदेशयात्रा स्थगिता अभविष्यत् तदा समीचीनमभविष्यत्।

नोरा : तदपि अशक्यमासीत्। मम विदेशप्रयाणं भर्तुरारोग्यार्थमेव आसीत्। कथमिव तस्मात् विरमानि?

क्रोग्स्टः : “अहं क्रोग्स्टं वञ्चये” इति तव मनोपटले कच्चित् चिन्ता न समुद्भूता?

नोरा : नहि। त्वां प्रति मम सद्भावनाः नासन् यतः मम भर्तुरनारोग्यं ज्ञात्वापि त्वया निर्घृणेन मम पथि कृच्छ्राण्यानीतानि।

क्रोग्स्टः : हेल्मेरगृहिणि, तवापराधस्य गुरुता त्वया नावगतेति सिद्धं भवति। येनापराधेन मम गौरवं नाशितं स तवापराधाद्गुरुतरो नासीत्।

नोरा : कच्चित् त्वमिच्छसि यदहं “त्वमात्मनो विपद अनादृत्य त्वद्भार्याप्राणरक्षणं कर्तुं समर्थो धीर असी”ति विश्वसिमि?

क्रोग्स्टः : न्यायनियमा अपराधकारणानि नाश्रयन्ति खलु।

नोरा : तदा न्यायनियमाः प्रज्ञाहीना भवेयुः।

क्रोग्स्टः : भवन्तु नियमाः प्रज्ञाहीना न वा, यद्यहमिमं पत्रं न्यायालये अर्पयिष्यामि, तर्हि तैरेव निर्णीयते यत् त्वया अपराधः कृतो वा न वा।

नोरा : नाहं विश्वसिमि। नियमाः नानुमोदन्ते किम् यत् सन्निहितमरणस्य पितुरुद्वेगस्य वारणं दुहितुः कर्तव्यम्? ते नानुमोदन्ते किं यद्भर्तुः प्राणानां रक्षणं भार्यायाः कर्तव्यम्? अहं न्यायनियमान् न जानामि परं तु नियमैः कथितदशासु कथितकार्याण्यनुमोदनीयानीति मन्ये। तादृशनियमास्त्वया अवगता भवेयुः। वाक्कीलोऽसि? क्रोग्स्टवर्य, वाक्कीलंमन्य असि?

क्रोग्स्टः : असानि तावत्। “त्वया मया सह कृतः व्यवहारः यथाविधः तथाविधव्यवहारेषु त्वमज्ञ” इति चिन्तयसि किम्? यथेच्छसि तथा कुरु। परंतु त्वामिदं वदानि यद्यहं बाङ्क् पदव्याः निष्कासितो भविष्यामि तर्हि मया सह तव पदव्यपि नष्टा भविष्यति। (स तस्यै नमस्कृत्य प्रवेशकोष्ठमार्गेण निष्क्रमते)

नोरा : (क्षणकालं चिन्ताग्रस्ता दृश्यते, पश्चात् शिरः उन्नमति) असंबद्धकथनम्। तथा मां बिभेतुं यतते- नाहमज्ञा तथा यथा स चिन्तयति। (बालानां वस्तूनि यथाक्रमं निवेशयितुं प्रारभते) किञ्च परंतु —-? न हि, तदसाध्यम्। मया यत्कृतं तत् प्रेम्णा सञ्जातम्।

बालाः : (वामपार्श्वस्थद्वारि) मातः, सः अपरिचितः मुखद्वारान्निष्क्रान्तः।

नोरा : अहं जानामि। तदपरिचितस्य आगमनं प्रति कमपि न वदेत। शृणुथ, न पितरमपि।

बालाः : अस्तु। अस्माभिः सह पुनः खेलसि किम्?

नोरा : न,नेदानीम्।

बालाः : परं तु त्वया प्रतिश्रुतम् खलु।

नोरा : आम्, परं तु इदानीं मया न शक्यम्। धावत, मया कार्याणि बहूनि । धावत,मम मधुरशिशवः (शनैर्बालानेकैकं पार्श्वकोष्ठे नुदति, कोष्ठद्वारं विघट्टयति च,आसन्द्यामुपविश्य सीवनकर्मणि निरता भवितुं यतते क्षणेन कर्म स्थगयति च) न हि,(स्यूतवस्त्रं भूमौ क्षिपति,उत्थाय प्रवेशकोष्ठद्वारि आह्वयति)हेलने, क्रिस्तोत्सववृक्षमन्तरानय (वामस्थमञ्चकमुपसृत्य संपुट19मावृणोति) नहि,नहि,तदसाध्यम्।

drawer

सेविका : (वृक्षं गृहीत्वा आगच्छति)आर्ये, इमं कुत्र स्थापयानि?

नोरा : अत्र तलस्य मध्ये।

सेविका : कञ्चिदन्यमानयानि किम्?

नोरा : नहि, उपकृतोऽस्मि, वाञ्छितं सर्वं लब्धम्। (सेविका निष्क्रमते)

(वृक्षमलङ्कर्तुं प्रारभते)दीप अत्र। पुष्पाण्यत्र। दुर्जनोऽसौ। सर्वमसम्बद्धम्। नकिञ्चिदसाधु। वृक्षो मनोहरो भविष्यति। टूर्वल, त्वां प्रीणयितुं मया कल्पनीयं सर्वं करिष्यामि। त्वदर्थं गास्यामि, नर्तिष्यामि (हेल्मेरः कानिचित्पत्राणि स्कन्धे ग्रहीत्वा प्रविशति) अहो, पुनरायातवान्स्त्वमञ्जसा?

हेल्मेरः : बाढम्, कश्चिदागमत्किम्?

नोरा : अत्र? नहि।

हेल्मेरः : तद्विचित्रम्। अहं मुखद्वारान्निर्गच्छ्न्तं क्रोग्स्टमद्राक्षम्।

नोरा : अद्राक्षीः? बाढम्। विस्मरामि। क्षणमात्रं क्रोग्स्टः अत्र आगमत्।

हेल्मेरः : नोरे, तवेङ्गितैरिदं सम्भाव्यं यद्यथा त्वं तस्य हिताय मां वदिष्यसि तथा त्वां याचितुमागमत्।

नोरा : बाढम्।

हेल्मेरः : तस्याशा आसीत् यत्त्वया मया सह तथा संभाषणीयं यथाहं त्वं तस्य प्रेरणं विना स्वेच्छयैव तस्य हिताय मां चोदयसीति भावयामि। किञ्च तस्यागमनं त्वया सह सम्भाषणं च अहं न जानीयामिति च ऐच्छत्।

नोरा : बाढम्। टूर्वल, परं तु

हेल्मेरः : नोरे, नोरे, तादृशव्यवहारे त्वमपि भागिनी? तादृशनरेण साकं तव संलपनम्, त्वया तस्मै प्रतिश्रवदानम्? न केवलम् ते, त्वया अनृतभाषणं च?

नोरा : अनृतम्?

हेल्मेरः : न कोऽप्यत्र आगमदिति त्वं अवादीः खलु? (स्वाङ्गुलीं तां प्रति कम्पयते) मम कोकिला न कदाप्येवं कुर्यात्। कोकिलाया चञ्चु कूजनाय स्वच्छा भवेत्। न कदाप्यपस्वरः। (स्वहस्ते तस्याः कटिं गृह्णाति)। तत्तथैव, न कच्चित्? निस्संशयम्, तथैव। (तां मुञ्चति) अस्मिन् विषये आवां न संलपाव। (चुल्ल्याः समीपे तिष्ठति) कियत् शाखप्रदं सुखकरमत्र (पत्राणि पठितुं यतते)

नोरा : (क्षणानि क्रिस्तोत्सववृक्षस्य अलङ्करणे प्रवृत्ता बिलम्ब्य) टूर्वल,

हेल्मेरः : किम्?

नोरा : परश्वः स्तेन्बोर्गस्य गृहे प्रचलिष्यमाणं विचित्रपरिधाननृत्योत्सवं प्रति अहमुत्सुकास्मि।

हेल्मेरः : त्वं मां तत्र कथं चकितं करिष्यसीति द्रष्टुमुत्सुको&स्मि।

नोरा : मया यत् करणं चिन्तितं तन्मौर्ख्यमिति मन्ये।

हेल्मेरः : किं वक्तुमिच्छसि?

नोरा : यत्समुचितं तन्मम मनोपथं नायाति। यद्यच्चिन्तयामि तत्तत् सर्वं परिहासपात्रमिति भाति।

हेल्मेरः : अन्ततस्ते ज्ञानोदयः।

नोरा : (तस्य आसन्द्याः पृष्ठफलकं हस्ताभ्यां गृह्णन्ती पृष्ठे स्थित्वा) टूर्वल, त्वमिदानीं भूरि कार्यनिरतोऽसि किम्?

हेल्मेरः : बाढम्।

नोरा : तानि पत्राणि कानि?

हेल्मेरः : बाङ्क्-सम्बद्धानि।

नोरा : इयदाशु?

हेल्मेरः : निवर्तमाननिर्वाहकेन अनुज्ञातोऽहमुद्योगगणे अवश्यपरिवर्तनं कर्तुमधिकृतोऽस्मि। क्रिस्तोत्सवस्य अवकाशदिनेष्वेतत्कार्यं तथा पूर्णं भवेद्यथा नववर्षे सर्वं सन्नद्धं भविष्यति।

नोरा : तदेव कारणं किं यदमायः क्रोग्स्टः—

हेल्मेरः : हुम्!

नोरा : (तस्य आसन्द्याः पृष्ठमवलम्ब्य, तस्य केशपाशं परामृशन्ती) टूर्वल, यदि तव कार्यमग्नता इयती नाभविष्यत् तदाहं त्वत्तः कञ्चिन्महदुपकारमप्रार्थयिष्यम्।

हेल्मेरः : किमेतत्? श्रावय।

नोरा : कोऽप्यन्यो नास्ति यो रसाभिज्ञतायां तव समानः। विचित्रपरिधाननृत्ये अहं शोभायमाना भवितुमिच्छामि। अतः नृत्ये मम पात्रं किं भवेत्, मम परिधानं कथं भवेदित्यस्मिन् विषये त्वं निश्चिनोतुमर्हसि।

हेल्मेरः : आहा! मम प्रतीपा ललना आत्मानं त्रातुं कस्यचनान्यस्य साहाय्यं वाञ्छति!

नोरा : बाढं, टूर्वल, तव साहाय्यं विना किमपि न कर्तुं शक्नोमि।

हेल्मेरः : तथास्तु, अहं चिन्तयामि, किमप्यावयोर्ज्ञानगोचरं भविष्यति।

नोरा : तव सौजन्यं ननु। (क्रिस्तोत्सववृक्षमुपगच्छति, क्षणं विलम्ब्य) कियत्सुन्दरं तत् रक्तपुष्पम्! परं तु! कथय क्रोग्स्टेनाचरितं बहुकुत्सितमासीत् किम्?

हेल्मेरः : कपटलेखेन कस्याप्यन्यस्य नामलिखितमन्वकरोत्। त्वमवगच्छसि किं तत्कर्मणः कुत्सितताम्?

नोरा : नैतत् किमसम्भाव्यं यत् सःअनन्यतन्त्रस्तत्कर्म अकरोत्?

हेल्मेरः : बाढम्, असमीक्ष्यकारितैव कारणं भवेत्। नाहं निर्घृणो यदेकेनैवानृजपदा नरं दण्ड्यस्थाने स्थापयितुं शक्नोमि।

नोरा : सत्यम्। न शक्नोषि ननु, टूर्वल।

हेल्मेरः : ये आत्मनः पापकृत्यं जनसंसदि स्वीकृत्य दण्डनं च स्वीकुर्वन्ति तैरात्मनः शीलं रक्षितुं शक्यम्।

नोरा : दण्डनम्?

हेल्मेरः : परं तु क्रोग्स्टेन न तथाचरितम्। स कुत्सितमार्गेण पारमासीदत्। अत एव स निन्दनीयः।

नोरा : त्वं तथा चिन्तयसि किम्?

हेल्मेरः : त्वमेव भावय। तादृशः सापराधो नरः सर्वैः सह कापट्येन वर्तयेत्। तेन स्वजनैः सह स्वपत्न्या स्वापत्यैः सह वर्णिकां धृत्वा वर्तनीयम्। स्वापत्यैः सह वर्णिकां धृत्वा वर्तनं तु अक्षम्यम् खलु।

नोरा : कथमिव?

हेल्मेरः : यतस्तादृशेऽनृतमयसन्निवेशे कुटुम्बजीवितमेव गरलीभवति। तादृशकुटुम्बे बालानामेकैकश्वासःअपि पापकृमिमयो भवति।

नोरा : (तस्य समीपं गच्छन्ती) तथा दृढं मनुषे किम्?

हेल्मेरः : मम प्रिये, मम न्यायवादिवृत्तौ मया असकृत् दृष्टं यद्यौवने पापकृत्यं कुर्वाणानां मातापि पापकृत्या भवति।

नोरा : कुतो माता एव?

हेल्मेरः : पितुश्चर्यापि प्रभाववती भवेत्। तथापि प्रायेण मातुश्चर्या एव प्रधानप्रभावा। सर्वेषां न्यायवादिनामस्य तत्त्वस्य परिचयः अस्ति। अयं क्रोग्स्टः आत्मन अपत्यान्येव सततं अनृतवचोभिः कपटवृत्त्या च विषं पाययति। अतः स सर्वथा नीतिभ्रष्ट इति कथयामि। (स्वहस्तौ पत्न्यै प्रसार्य) अत एव मम मनोहरा नोरा “तदर्थंमहं न कदापि त्वां प्रार्थयामी”ति मां प्रतिजानीयात्। तव पाणिं देहि। किमिदम्? पाणिं देहि। इदं व्यवस्थापितम्। मया तेन सह कोऽपि नियोग असाध्यः। तादृशजनानां सङ्गेन मम स्वास्थ्यं क्षीयते।

नोरा : (आत्मनः पाणिं तस्य पाणिभ्यां विमोच्य, क्रिस्तोत्सववृक्षस्य इतरपार्श्वं गत्वा) कियत् सोष्णमत्र! मया कार्यं तु बहु।

हेल्मेरः : (उत्थाय आत्मनः पत्राणि सज्जीकृत्य) बाढम्, रात्रिभोजनात् प्रागेव इमानि मया पठ्यानि। तव परिधानमुद्दिश्यापि मया अवधेयम्। इदमपि सम्भवं यत् वृक्षे मया सौवर्णपत्रमपि अवलम्ब्यते। (आत्मनः पाणिं तस्याः शिरसि निधाय) मम अनर्घकोकिला! (आत्मनः कोष्ठं गत्वा द्वारं पिदधाति।)

नोरा : (क्षणान् विलम्ब्य मन्दस्वरेण) नहि, नहि, तदनृतम्। तदसाध्यम्। तदसाध्यं भवेत्।