चारुदत्तम्

[[चारुदत्तम् Source: EB]]

[

चारुदत्तम् नाटकीय - पात्राणि पुरुषाः — नायकः — सार्थवाहपुत्रः दरिद्रचारुदत्तः। विदूषकः —( मैत्रैयः ) चारुदत्तस्य मित्रम्। शकारः — राजश्यालः संस्थानकः। विटः — शकारसहचर संवाहक — चारुदत्तभृत्यो द्यूतकर। चेटः — वसन्तसेनायाः किङ्करः। सज्जलकः — मदनिकाकामुकः। स्त्रियः — गणिका — वसन्तसेना नायिका। ब्राह्मणी — चारुदत्तस्य पत्नी। रदनिका — चारुदत्तगृहे चेटी। मदनिका — वसन्तसेनायाः सखी चेटी च। विच्छित्तिका — चतुरिका — वसन्तसेनायाः परिचारिके। चारुदत्तम् ( नान्द्यन्ते ततः प्रविशति सूत्रधारः। ) सूत्रधारः — किण्णु खु अज्ज पच्चस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजलबिन्दू विअ चञ्चलअन्ति विअ मे अक्खीणि। ( परिक्रम्य ) जाव गेहं गच्छिअ जाणामि किणअणु हु संविधा विहिदा ण वेत्ति। ( परिक्रम्य ) एदं अम्हाणं गेहं जाव पविसामि। ( प्रविश्यावलोक्य ) जह लोहीपरिवट्टणकालसारा भूमी , णेहुब्भावणसुगन्धो विअ गन्धो , सुणिमित्तं विअ परिब्भमन्तो वडिवस्सअजणो , किण्णु खु संविधा विहिदा। आदु बुभुक्खाए ओदणमअं विअ जीवलोअं पेक्खामि। जाव अय्यं सद्दावेमि। अय्ये ! इदो दाव। [ किन्तु खल्वद्य प्रत्यूष एव गोहान्नष्कारान्तस्य बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव णेऽक्षिणी। यावद् गेहं गत्वा जानीमि किन्नु खलु संविधा विहिता न वेति। एतदस्माकं गेहम्। यावत् प्रविशामि। यथा लौहीपरिवर्तनकालसारा भूमिः , स्नेहोद्भावनसुगन्ध इव गन्धः , सुनिमितमिव परिभ्रमन् वरिवस्यकजनः , किन्नु खलु संविधा विहिता। अथवा बुभुक्षयौदनमयमिव जीवलोकं प्रेक्षे। यावदार्यां सब्धापयामि। आर्ये ! इतस्तावत्। ] नटी — अय्य ! इअम्हि। अय्य ! दिट्ठिआ खु सि आअदो। [ आर्य ! इयमस्मि। आर्य ! दिष्ट्या खल्वस्यागतः। ] सूत्रधारः — अय्ये ! किं अत्थि अम्हाणं गेहे को वि पादरासो। [ आर्ये ! किमत्स्यस्माकं गेहे कीऽपि प्रातराशः। ] नटी — अत्थि। [ अस्ति ] सूत्रधारः — चिरं जिव। एवं सोभणाणि भोअणाणि। दत्तिआ होहि। [ चिरं जीव। एवं शोभनानि भोजनानि। दात्री भव। ] नटी — अय्य ! तुवं एव पडिवालन्ती चिट्ठामि। [ आर्य ! त्वामेव प्रतिपालयन्ती तिष्ठामि ] सूत्रधारः — एवं देवा तुमं अस्सासअन्तु। अय्ये ! किं किं। [ एवं देवास्त्वामाश्वासयन्तु। आर्यें ! किं किम्। ] नटी — घिदं गुलं दहि पण्डुला अ सव्वं अत्थि। [ घृतं गृडो दधि तण्डुलाश्च सर्व्वमस्ति। ] सुत्रधारः – एदं सव्वं अम्हाणं गेहे अत्थि। [ एतत् सर्वमस्माकं गेहेऽस्ति। ] नटी — णहि णहि। अन्तलावणए। [ नहि नहि ! अन्तरापणे। ] सूत्रधारः —( सरोषम् ) आ अणय्ये ! एवं दे आसा छिन्दीअदु। अभावं च गमिस्ससि। अहं चण्डप्पवादलंडुओ विअ वरण्डो पव्वदादो दूरं आरोविअ पाडिदो म्हि। [ आ आनार्ये ! एवं ते आशा छिद्यताम्। अभावं च गमिष्यसि। अहं चण्डप्रवातलण्डित इव वरण्डः पर्वताद् दूरमारोप्य पातितोऽस्मि। ] नीट — मा भाआहि मा भाआहि। मुहुत्तअं पडिवालेदु अय्यो। सव्वं सज्जं भविस्सदि। लद्धं णाम एदं अज्ज मम उववासस्स अय्यो सहायो होदु। [ मा बिभीहि मा बिभीहि। मूहूर्तकं प्रतिपालयत्वार्यः। सर्वं सज्जं भविष्यति। लब्धं नामैतत्। अद्य ममोपवासस्यार्यः सहायो भवतु। ] सूत्रधारः — किण्णामहेओ अय्याए उववासो। [ किननामधेय आर्याया उपवासः। ] नटी — अभिरूववदी णाम। [ अभिरूपपतिर्नाम। ] सूत्रधारः — किं अण्णजादीए। [ किमन्यजात्याम्। ] नटी — आम। [ आम् ] सूत्रधारः — साहु चुण्णगोट्ठ साहु। [ साधु चूर्णगोष्ठ ! साधु। ] नटी — जइ अय्यस्य अणुग्गहो , तदो इच्छेअं अम्हारिसजणजोग्गं कञ्चि बम्हणं निमन्तेदुं। [ यद्यार्यस्यानुग्रहः , तत इच्छेयमस्मादृशजनयोग्यं कञ्चिद् ब्राह्मणं निमन्त्रयितुम्। ] सूत्रधारः — धम्मिठ्टो खु णिओओ। तेण पादरासो वि मे भविस्सदि। जइ एव्वं , पविसदु अय्य। अहं वि अम्हारिसजणजोग्गं कञ्चि बम्हणं अण्णेसामि। [ धर्मिष्ठः खलु नियोगः। तेन प्रातराशोऽपि मे भविष्यति। यद्येवं प्रविशत्वार्या। अहमप्यस्मादृसजनयोग्यं कञ्चिद् ब्राह्मणमन्विष्यामि। ] नटी — जं अय्यो आणवेदि। ( निष्क्रान्तः। ) [ यदार्थ आज्ञापयति। ] सूत्रधारः — कहिं णु खु दरिद्दबम्हणं लभेअं। ( विलोक्य ) एसो अय्यचाररुदत्तस्स वअस्सो अय्यमेत्तेओ णाम् बम्हणो इदो एव्व आअच्छदि। जाव उवणिमन्तेमि। ( परिक्रम्य ) अय्य ! णिमन्तिदो सि। आमन्तणस्स मा दरिद्द त्ति मं अवमण्णेहि। सम्पण्णं अम्हिदव्वं भविस्सदि। घिदं गुलं दहि तण्डुला अ सव्वं अत्थि अवि अ दक्खिणा मासआणि भविस्सन्ति। [ कुत्र नु खलु दरिद्रब्राह्मणं लभेय। एष आर्यचारुदत्तस्य वयस्य आर्यमैत्रेयो नाम ब्राह्मण इत एवागच्छति। यावदुपनिमन्त्रयामइ। आर्य ! निमन्त्रितोऽसि। आमन्त्रणस्य मा दरिद्र इति मामवमन्यस्व। सम्पन्नमशितव्यं भविष्यति। घृतं गुडो दधि तण्डुलाश्य सर्वमस्ति। अपि च दक्षिणआ माषका भविष्यन्ति। ] ( नेपथ्ये ) अण्णं अण्णं णिमन्तेदु दाव भवं। अरित्तओ दाव अहं। [ अन्यमन्यं निमन्त्रयतु तावद् भवान्। अरिक्तकस्तावदहम्। ] सुत्रधारः — घिदगुलदहिसुसमिद्दं धूविअसूवोवदंससम्भिण्णं सक्कारदत्तमिट्ठं भुंजीअदु भत्तमय्येण ॥ 1 ॥ [ घृतगुडदधिसुसमृद्दं धूपितसूपोददंशसम्भिन्नम्। सत्कारदत्तमिष्टं भुज्जतां भक्तमार्येण ॥ 1 ॥ ] ( निष्क्रान्तः। ) इति स्थापना अथ प्रथमोऽङ्कः ( ततः प्रविशति विदूषकः। ) विदूषकः — अण्णं अण्णं णिमन्तेदु दाव भवं। अरित्तओ दाव अहं। णं भणामि अहं अरित्तओ त्ति। किं भणासि — सम्पण्णं असनं अण्हिदव्वं भविस्सदित्ति। अहं पुण जाणामि। अहिअमहुरस्स अम्बस्स अजोग्गदाए अट्ठि ण भक्खिअदित्ति। किं दाणि मं उल्लालिअ उल्लालिअ भणासि। भणामि वावुदो त्ति। किं भणासि — दक्खिणामासआणि भविस्संदित्ति। एसो वाआ पच्चाचक्खिदो हिअएण अणुबन्धीअमाणो गच्छीअदि। अहो अच्चाहिदं। अहं वि णाम परस्स आमन्तणाणि त्ति तक्कोमि। जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्तसिद्धेहि णाणाविधेहि हिङ्गुविद्धेहि ओग्गारणसुगन्धेहि भूक्केवमत्तपडिच्छिदेहि अन्तरन्तरपाणीएहि असणप्पआरेहि चित्तअर विअ बहुमल्लाएहि परिवुदो आअण्ठमत्तं अण्हिअ चच्चरवुसहो विअ मोदअखज्जएहि रोमन्थाअमाणो दिव्सं केवेमि , सो एव्व दाणि अहं तत्तहोदोचारुदत्तस्स दरिद्ददाए समं पारावदेहि साहारणवुत्तिं उवजीवन्तो अण्णहि चरिअ चरिअ तस्स आवासं एव्व गच्छामि। अण्णं च अच्छरिअं। मम उदरं अवत्थाविसेसं जाणादि। अप्पेणावि तुस्सदि। बहुअं वि ओदणभरं भरिस्सदि दीअमाणं। ण आएदि अदीअमाणं , ण पच्चाचिक्खदि। न खु अहं एरिसेण ण सन्तुट्ठो। ता सट्ठीकिददेवकय्यस्स तत्तहोदो चारुदत्तस्स कारणादो गहीदो सुमणो अनतलिक्खवासो अ। जाव से पस्सपरिवत्ती होमि। ( परिक्रम्यावलोक्य ) एसो तत्तभवं चारुदत्तो पबादचन्दो विअ सकरुणप्पिअदंसणो जहाविभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छदि। जा णं उवसप्पामि। ( निष्क्रान्तः ) [ अन्यमन्यं निमन्त्रयतु तावद् भवान्। अरिक्तकस्तावदहमअ। तनु बणाम्यहमरिक्तक इति। किं भणसि — सम्पन्नमशनमशितव्यं भविष्यतीति। अहं पुनर्जानामि। अधिकमधुरस्य आम्रस्य अयोग्यतया अस्थि न भक्ष्यत इति। किमिदानीं मामुल्लाल्योल्लाल्य भणसि। भणामि व्यापृत इति। कि भणसि — दक्षिणामाषका भविष्यन्तीति। एष वाचा प्रत्याख्यातो हृदयेनानुबध्यमानो गम्यते। अहो अत्याहितमअ। अहमपि नाम परस्यामन्त्रणआनीति तर्कयामि। योऽहं तत्रभवतश्चारुदत्तस्य गेहेऽहोरात्रपर्याप्तसिद्धैर्नानाविधैर्हिड्गुविद्धैरुद्गारसुगन्धिभिः भ्रुक्षेपमात्रप्रतीष्टैरन्तरान्तरपानीयैरशनप्रकारैशिचत्रकर एव बहुमल्लकैः परिवृत आकण्ठमात्रमशित्वा चत्वरवुष्भ इव मोदकखाद्यै रोमन्थायमानो दिवसं क्षिपामि , स एवेदानीमहं तत्रभवतश्चारुदत्तस्य दरिद्ररतया समं पारवतैः साधराणवृत्तिमुपजीवन् अन्यत्र चरित्वा चरित्वा तस्यावासमेव गच्छामि। अन्यच्चाश्चर्यम्। ममोदरमवस्थाविशेषं जानाति। अल्पेनापि तुष्यति। बहुकमप्योदनभरं भरिष्यति दीयमानम् ‌ । न याचते अदीयमानं , न प्रत्याचष्टे। न खल्वहमीदृशेन न सन्तुष्टः। तत् षष्ठीकृतदेवकार्यस्य तत्रभवश्चारुदत्तस्य कारणाद् गृहीतानि सुमनसोऽन्तरीयवासश्च। यावदस्य पार्श्वपरिवर्ती भवामि। एष तत्रभवांश्चारुदत्तः प्रबातचन्द्र इव सकरुणप्रियदर्शनो यथाविभवेन गृहदैवतान्यर्चयन् इति एवागच्छति। यावदेनमुपसर्पामि। ] ( ततः प्रविशति बलिमुपहरन्नायको विदूषकश्चाङ्गेरिकाहस्ता चेटी च। ) नायकः –( दीर्घं निःश्वस्य ) भोः ! दारिद्र्यं खलु नाम मनस्विनः पुरुषस्य सोच्छ्वासं मरणम्। कुतः , यासां बलिर्भवति मद्गृदेहलीनां हंसैश्च सारसगणै श्च विभक्तपुष्पः। तास्वेव पूर्वबलिरूढयवाङ्गकासु पीजाञ्जलिः पतति कीटमुखावलीढः ॥ विदूषकः — अलं दाणि भवं अदिमत्तं सन्तप्पिदुं। पुरुसजोप्वणाणि विअ गिहजोव्वणाणि खु दसाविसं अणुहोन्ति। आसमुद्दआणविपण्णविभवस्स बहुलपक्खचन्दस्स जोण्हापरिक्खओ विअ भवदो एव्वरमणीओ अअं दरिद्दभावो। [ अलमिदानीं भवानतिमात्रं सन्तप्तुम्। षुरुषयौवनानीव गृहयौवनानि खलु दशाविशेषनुभवन्ति। आसमुद्रयानविपन्नविभवस्य बहुलपक्षचनद्रस्य ज्योत्स्नापरिक्षय इव भवत एव रमणीयोऽयं दरिद्रभावः। ] नायकः — न खल्वहं नष्टां श्रियमनुशोचामि। गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां प्रतिभाति। कुतः , सुखं हि दुःखान्यनुभूय शोभते यथान्धकारादिव दीपदर्शनम्। सुखात्तु यो याति दशां दरिद्रतां स्थितः शरीरेण मृतः स जीवति ॥ 3 ॥ विदूषकः — भो वअस्स ! समुद्दपट्टणसारभूदो तादिसो अत्थसञ्चओ कहिं गओ। [ भो वयस्य ! समुद्रपत्तनसारभूतस्तादृसोऽर्थसञ्चयः क्व गत। ] नायकः —( निःश्वस्य ) वयस्य ! यत्र गतानि मे भागदेयानि। पश्य , क्षीणा ममार्थाः प्रणायिक्रियासु विमानितं नैव परं स्मरामि। एतत्तु मे प्रत्ययदत्तमूल्यं सत्त्वं सखे ! न क्षयमभ्युपैति ॥ 4 ॥ ( चिन्तां नाटयति। ) विदूषकः — किं भवं अत्थविभवं चिन्तेदि। [ किं भवानर्थविभवं चिन्तयति। ] नायकः — सत्यं न मे धनविनाशगता विचिन्ता भाग्यक्रमेण हि धनानि पुनर्भवन्ति। एतत्तु मां दहति तष्टधनश्रियो मे यत् सौहृदानि सुजने शिथिलीभवन्ति ॥ 5 ॥ अपि च , दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते सत्त्वं हास्यमुपैति शीलशशिनः कान्तिः परिम्लाय ते। निर्वैरा विमुखीभवन्ति सुहृदः स्फीता भवन्त्यापदः पापं कर्म च यत् परैरपि कृतं तत्तस्य सम्भाव्यते ॥ 6 ॥ विदूषकः — एदे दाणि दासीए पुत्ता अत्थवावारा गोवदारआ विअ मसअभीदागिहादो णिग्गच्छन्ति। छणविणासदुक्खस्स उण चिन्तिअमाणस्स वसन्ते बुड्ढस्स सरत्थम्बस्स विअ अंकुरंकुरा उब्भमन्ति। ता अलं भवदो सन्दावेण। [ एत इदानीं दास्याः पुत्रा अर्थव्यापारा गोपदारका इव मश्कभीता गृहाद् निर्गच्छन्ति। धनविनाशदुःखस्य पुनस्चिन्त्यमानस्य वसन्ते वृद्धस्य शरस्तम्बस्येवाङ्कुराङ्कुरा उद्भ्रमन्ति। तदलं भवतः सन्तापेन। ] नायकः — वयस्य ! किमर्थं सन्तापं करिष्ये। किञ्चाहं दरिद्रः , यस्य मम , विभवानुवशा भार्या समदुःखसुखो भवान्। सत्त्वं च न परिभ्रष्टं यद् दरिद्रेषु दुर्लभम् ॥ 7 ॥ ( ततः प्रविशति गणिका सम्भ्रान्ता विटेन शकारेण चानुगम्यमाना। ) शकारः — चिट्ठ चिट्ठ वशञ्चशेणिए ! चिट्ठ किं याशि धावशि पधावशि पक्खलन्ती शाहु प्पशीद ण मलीअशि चिट्ठ दाव। कामेण शम्पदि हि डज्झइ मे शलीलं अङ्गालमज्झपडिदे विअ चम्मखण्डे ॥ 8 ॥ [ तिष्ठ तिष्ठ वसन्तसेन तिष्ठ ,] किं यासि धावसि प्रधावसि प्रस्खलन्ती साधु प्रसीद न मार्यसे तिष्ठ तावत्। कामेन सम्प्रति हि दह्यते मे शरीरमङ्गारमध्यपतितमिव चर्मखण्कडम् ॥ 9 ॥ विटः — वसन्तसेने ! किं त्वं भयेन परिवर्तितसौकुमार्या नृत्तोपदेशविशदौ चरणौ क्षिपन्ती। उद्विग्नचञ्चलकटाक्षनिविष्टदृष्टिर्व्याघ्रानुसारचकिता हरिणीव यासि ॥ 9 ॥ शकारः – भावे ! शा गच्छइ वशञ्चशेणिआ , दुवेहि अम्हेहि अणुबन्धअनती जहा शिगाली विअ कुक्कुलेहि। शपुपुला मेहलाणादहाशा शवेंटणं मे हलअं हलन्ती ॥ 10 ॥ [ भाव ! एषा गच्छति वसन्तसेना , द्वाब्यामावाभ्यामनुबध्यमाना यथा श्रृगालीव कुक्कुराभ्याम्। सनूपुरा मेखलानादहासा सवृन्तं मे हृदयं हरन्ती ॥ 10 ॥ विटः — वसन्तसेने ! किं त्वं पदात् पदशतानि निवेशयन्ती नागीव यासि पतगेन्द्रभयाभिभूता। वेगादहं प्रचलितः पवनोपमेयः किं त्वां ग्रहीतुमथवा न हि मेऽस्ति शक्तिः ॥ 11 ॥ गणिका —( समनतादवलोक्य ) पल्लवअ ! पल्लवअ ! परहुदिए ! परहुदिए ! णहुअरअ ! महुअरअ ! सारिए ! सारिए ! हद्धि , णट्ठो मे परिजणो। एत्थ सअं एव अप्पा रक्खिदव्वो। [ पल्लवक ! पल्लवक ! परभृतिके ! परभृतिके ! मधुकरक ! मधुकरक ! शारिके ! शारिके ! । हा धिक् , नष्टो मे परिजनः। अत्र स्वयमेवात्मा रक्षितव्यः। ] शकारः — विलव विलव णाए ! विलव पल्ववं वा , परहुदिअं वा , महुअरं वा , शव्वं वशञ्चमाशं वा। के के तुमं परित्तअशि। किं वाशुदेवे शवपट्टणेशे कुन्तीशुदे वा जणमेजए वा। अहं तुमं गण्हिअ केशहत्थे दुःखाशणे शीदमिवाहलामि ॥ 12 ॥ [ विलप विलप ज्ञाते ! विलप पल्ववं वा , परभृतिकां वा , मधुकरं वा , शारिकां वा , सर्वं वसन्तमासं वा। कः कस्त्वां परित्रस्यते। किं वासुदेवः शवपत्तनेशः कुन्तीसुतो वा जनमेजयो वा। अहं त्वां गृहीत्वा केशहस्ते दुःशासनः सीतामिवाहरामि ॥ 12 ॥ विटः —- वसन्तसेने ! सर्वत्र भयानभिज्ञहृदयं मां कुरु। पश्य , परिचिततिमिरा मे शीलदोषेण रात्रिर्बहलतिमिरकालस्तीर्णपूर्वा विघट्टाः। युवतिजनसमक्षं काममेतन्न वाच्यं विपणिषु हतशेषा रक्षिणः साक्षिणो मे ॥ 13 ॥ गणिका — हं इदाणि संसइदा संवुत्ता , जो अप्पगुणाणि सअं एव्व मन्तेदि। कहं एदे अकय्यं ण करिस्सन्दि। [ अहमिदानीं संशयिता संवृत्ता। य आत्मगुणान् स्वयमेव मन्त्रयन्ते कथमेतेऽकार्यं न करिष्यन्ति। ] विटः — भवति ! क्रियतामस्माकमनुनयपरिग्रहः। पश्य , जनयति खलु शेषं प्रश्रयो भिद्यमानः किमिव च रुषितानां दुष्करं मद्विधानाम्। अनुनयति समर्थः शड्गदीर्घः करोऽयं युवतिवधघृणाया मां शरीरं च रक्ष ॥ 14 ॥ गणिका — अणुणओ वि खु से भाएदि। [ अनुनयोऽपि खल्वस्य भाययति। ] शकारः — वशञ्चशेणिए ! शुट्ठु भावे बणादि। बहुमण्णिअदि खु दाव बलिअजणदुल्लहे अणुणए। पेक्ख वाशु ! अशि क्खु तिक्खे शिहिगीवमेअए खिवेमि शीशं तव मालए हवा। अलं तु अम्हालिशकाणि लोशिअ मडे खु जो होइ ण णआम जीवइ ॥ 15 ॥ [ वसन्तसेने ! सुष्टु भावो भणति। बहुमान्यते खलु तावद् बलवज्जनदुर्लभोऽनुनयः। प्रेक्षस्व वासु ! असि - खलु तीक्ष्णः शिखिग्रीवामेचकः क्षिपामि शीर्षं तव मारयेऽथवा। अलं त्वस्मादृशकान् रोषयित्वा मृतः खलु यो भवति न नाम जीवति ॥ 15 ॥ गणिका — अय्य ! कुलउत्तजणस्स सीलपरितोसोपजीविणी गणिआ सु अहं। [ आर्य ! कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका खल्वहम्। ] विटः — अतः खलु प्रार्थ्यसे। गणिका — अय्य ! इमादो जणादो किं इच्छीअदि सरीरं वा आदु अलङ्गारो वा। [ आर्य ! अस्माज्जनात् किमिष्यते शरीरं वाथवालङ्गारो वा। ] विटः — न पुष्पमोक्षणमर्हति लता। कृतमलङ्कारो वा। ] विटः — न पुष्पमोक्षपमर्हति लता। कृतमलङ्कारेण। गणिका — अहं खु दाणि अत्ताणं ण सन्दावेअ। [ अहं खल्विदानीमात्मानं न सन्तापयेयम्। ] गणिका — सन्तो सि। [ शान्तोऽसि। ] शकारः — शुणाहि भावे ! शुणाहि। एशा वशञ्चशेणिआ मं शन्तो शि त्ति भणादि। [ श्रृणु भाव ! श्रृणु। एषा वसन्तसेनिका मां श्रान्तोऽसीति भणति !] विटः —( आत्मगतम्। आक्रुष्टमात्मानं न जानाति मूर्खः। शान्त इत्युक्ते श्रान्त इत्यवगच्छति। अपि च , अभिनयति वचांसि सर्वगात्रैः किमपि किमप्यनवेक्षितार्थमाह। अनुचितगतिरप्रगल्भवाक्यः पुरुषमयस्य पशोर्नवावतारः ॥ 16 ॥ ( प्रकाशम् ) वसन्तसेने ! किमिदं मत्सन्निधौ वेशवासविरुद्धमभिहितम्। पश्य , तरुणजनसहायश्चिन्त्यतां वेशवासो विगणय गणिका त्वं मार्गजाता लतेव। वहसि हि धनहार्यं पण्यभूतं शरीरं समुपचर भद्रे ! सुप्रियं चाप्रियं च ॥ 17 ॥ गणिका — एसो मे अभिणिवेसो अभिजणेण तुलीअदि। [ एष मेऽभिनिवेशोऽभिजनेन तोल्यते। ] शकारः – भावे ! एशा अन्धआलपूलिदगम्भीला लच्छा दीशइ। णा खु णाए एत्थ भंशइदव्वा। आ कामदेवाणुआणप्पहुदि णअणमत्तत्शंथुतं दरिद्दशत्थवाहपुत्तं चालुदत्तवड्अं कामेदि एशा। इदं तश्शा गेहश्श पक्खदुवालं। [ भाव ! एषान्धकारपुरीतगम्भीरा रथ्या दृश्यते। मा खलु ज्ञाता अत्र भ्रंशयितव्या। आ कामदेवानुयानात् प्रभृति नयनमात्रसंस्तुतं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकं कामयत एषा। इदं तस्य गेहस्य पक्षद्वारम्। ] गणिका —( सहर्षमात्मगतम् ) एदं तस्स गेह। दिट्ठिआ दाणइं अमित्तजणणिरोहेण पिअजणसमीवं उवणीदम्हि। भोदु , एवं दाव करिस्सं ( अपसरति। ) [ एतत् तस्य गेहम्। दिष्ट्येदानीममित्रजननिरोधेन प्रियजनसमीपमुपनीतास्मि। भवतु , एतं तावत् करिष्यामि। ] शकारः —( विलोक्य ) भावे ! णट्ठा णाए णट्ठा। [ भाव ! नष्टा ज्ञाता नष्टा। ] विटः — कथं नष्टा। अन्विष्यतामन्विष्यताम् . शकारः — भावे वञ्चिताः स्मः। वसन्तसेने ! उपलब्धेदानीमसि। कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामनीव जलदोदरसन्निरुद्धा। त्वां सूचयिष्यति हि वातवशोपनीतो गन्धश्च शब्दमुखराणि च भूषणानि ॥ 18 ॥ ( गणिका मालामपनीय भूषणानि चोत्सारयति .) विटः – अहो बलवांश्चायमन्धकारः। सम्पर्रति हि , लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ 19 ॥ अपि च , सुलभशरणमाश्रयो भयानं वनगहनं तिमिरं च तुल्यमेव। उभयमपि हि रक्षतेऽन्धकारो जनयति यश्च भयानि यश्च भीतः ॥ 20 ॥ तथाहि — आलोकविशाला मे सहसा तिमिरप्रवेशसढ्छन्ना। उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ॥ 21 ॥ गणिकाः — अम्महे भित्तिपरिणामसूइदं पक्खदुवालं। असम्बोअमलिणदाए इह अहिअं अन्धआरो। ता इह एव्व चिट्ठिस्सं। ( स्थिता। ) [ अहो भित्तिपरिणामसूचितं पक्षद्वारम्। असम्बोगमलिनतयेहाधिकमन्धकारः। तद् इहैव स्थास्यामि। ] नायकः — मैत्रेय ! गच्छ , चतुष्पथे बलिमुपहर मातृभ्यः। विदूषकः — ण मे सद्धा , अण्णो गच्छदु। [ न मे श्रद्धा , अन्यो गच्थत्। ] नायकः — किमर्थम्। विदूषकः — मम बुद्धी आदंसमण्डलगआ विअ छाआ वामेसु दक्खिण दक्खिणेसु वामा होइ। [ मम बुद्धिरादर्शमण्डलगतेवच्छाया वामेषु दक्षिणा दक्षिणा दक्षिणेषु वामा भवति। ] नायकः — मूर्ख ! यथाविभवेनार्च्यताम्। भक्त्या तुष्यन्ति दैवतानि। तद् गम्यताम्। विदूषकः — एआई अहं कहं गमिस्सं। [ एकाक्यहं कथं गमिष्यामि। ] नायकः — रदनिके ! अनुगच्छात्रभवन्तम्। रदनिका — जं भट्टा आणवेदि। [ यद् भर्ताज्ञापयति। ] विदूषकः — भोदि ! दीवं अहं णइस्सं। [ भवति ! दीपमहं नेष्यामि। ] नायकः — यथा भवान् मन्यते तथास्तु। विदूषकः —( दीपं गृहीत्वा ) भो रदणिए ! अवावुद पक्खदुवालं। [ भो रदनिके ! अपावृणु पक्षद्वारम्। ] रदनिका — तह। ( नाट्येन द्वारमपावृणोति ) [ तथा। ] ( गणिका वस्त्रान्तेन दीपं निर्वापयति। ) विदूषकः — अविहा ! अविहा ! । [ अविहा अविहा ! । ] नायकः — वयस्य ! किमेतत्। विदूषकः — अवावुदपक्खदुवारपिण्डीकिदप्पविट्ठेण राअमग्गसङ्किण्णेण वादेण सहसा णिग्गच्छन्तस्स मम हत्थे णिवावुदो दीवो। [ अपावृतपक्षद्वारपिण्डीकृतप्रविष्टेन राजमार्गसङ्गीर्णेंन वातेन सहसा निर्गच्छतो मम हस्ते निर्वापितो दीपः। ] नायकः — मूर्ख ! धिक् त्वाम्। विदूषकः — अप्पं खु मे अवरद्धं। रदणिए ! गच्छ , चउप्पहे मं पडिवालेहि। जाव अहं वि अब्भन्तरचउस्सालादो दीवं गणिहअ आअच्छामि। ( निष्क्रान्तः। ) [ अल्पं खलु मेऽपराद्धम्। रदनिके ! गच्छ , चतुष्पथे मां प्रतिपालय। यावदहमप्यभ्यन्तरचतुश्शालातो दीपं गृहीत्वागच्छामि। ] चेटी — अय्य ! तह। [ आर्य ! तथा। ] गणिका — दिट्ठिआ मम पवेसणिमित्तं अवावुदं पक्खदुवालं। अलं चारित्तभेण। जाव पविसामि। ( अभ्यन्तरं प्रविश्य तिष्टति। ) [ दिष्ट्या मम प्रवेशनिमित्तमपावृतं पक्षद्वारम्। अलं चारित्रभयेन। यावत् प्रविशामि ] विटः —( विलोक्यात्मगतम् ) भवनान्निर्गत्य काचिदियमागच्छति। भवतु , अनया वराकं वञ्चयामि। ( प्रकाशम् ) सुरभिस्नानधूपानुविद्ध इव गन्धः। शकारः — आम भावे ! शुणामि गन्धं शवणेहिं। अन्धआलपूलिदेहिं णाशापुडेहिं शुट्ठु ण पेक्खामि। आम् भाव। श्रृणोमि गन्धं श्रवणाभ्याम्। अन्धकारपूरिताभ्यां नासापुटाभ्यां सुष्ठु न प्रेक्षे। विटः — तिष्ठ तिष्ठ। क्व यास्यसि। ( चेटी गृह्णाति। ) ( चेटी सभयं भूमौ पतिता। ) शकारः – गण्ह भावे। गण्ह। [ गृहाण भाव ! गृहाण। ] विटः — एषा हि वयसो दर्पात् कुलपुत्रावमानिनी। केशेषु कुसुमन्यासैः सेवितव्येषु धर्षिता ॥ 22 ॥ शकारः — भावे ! किं गहीदा। [ भाव ! किं गृहीता। ] विटः — अथ किम्। एषा गन्धानुसारेण गृहीता। शकारः – दाशीए पुत्तीए शीशं दाव छिन्दिअ पच्चा मालइश्शं। [ दास्याः पुत्र्याः शीर्षं तावच्छित्त्वा पस्चान्मारयिष्यामि। ] विटः — गृह्यतां तावत्। शकारः —( चेटीं गृहीत्वा ) एशा हि वाशू शिलशि ग्गहीदा केशेषु वालेशु शिलोलुहेशु। कूजाहि कन्दाहि लवाहि वात्तं महेश्शलं शङ्कलमिश्शलं वा ॥ 23 ॥ [ एषा हि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु। कूज क्रन्द लप वार्तं महेश्वरं शङ्करमीश्वरं वा ॥ 23 ॥ ( चेदीं बलादाकर्षति। ) चेटी — किं अय्यमिस्सेहि ववसिदं। [ किमार्यमिश्रैर्व्यवसितम्। ] शकार — भावे ! जाणामि शलयोगेण ण होइ वशञ्चशेणिआ ॥ [ भाव ! जानामि स्वरयोगेन न भवति वसन्तसेना ] विटः — न मोक्तव्या। वसन्तसेनैवैषा। एषा रङ्गप्रवेशेन कलानां चैव शिक्षया। स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ॥ 24 ॥ ( प्रविश्य ) विदूषकः —( दीपं गृहीत्वा ) राअमग्गसङ्किण्णेण सीअसुउमारेण वादेण पदे पदे विक्खोहिअमाणजणिअतरङ्गतेल्लपुण्णभाअणं दीवं कहं वि रक्खिअ गण्हिअ आअदो म्हि। [ राजमार्गसङ्कीर्णेन शीतसुकुमारेण वातेन पदे पदे विक्षोब्यमाणजनिततरङ्गतैलपूर्णभाजनं दीपं कथमपि रक्षित्वा गृहीत्वागतोऽस्मि। ] चेटी —( शकारं पादेन ताडयन्ती रुदित्वा ) अय्य ! मेत्तेअ ! अयं परिभवो आदु अवलेवो। [ आर्य ! मैत्रेय ! अयं परिभवोऽथवावलेपः। ] विदूषकः — मा दाव , मा दाव। ( सखङ्गं विटं शकारं च दृष्ट्वा शह्कितस्तिष्ठति। ) [ मा तावद् , मा तावत्। ] विटः — अये आर्यचारुदत्तस्य वयस्यो मैत्रेयः खल्वयम्। नेयमपि वसन्तसेना। महाब्राह्मण ! अन्यशङ्कया खल्विदमस्माभिरनुष्ठितं , न दर्पात्। पश्यतु भवान् , अकामा ह्रियतेऽस्माभिः काचित् स्वाधीनयौवना। सा भ्रष्टा शङ्कया यस्याः प्राप्तेयं शीलवञ्चना ॥ 25 ॥ शकारः — अविहा दलिद्दशत्थवाहपुत्तश्श चालुदत्तवडुअश्श चेडी खु इअं , ण होइ वशञ्चशेणिअ। शाहु , वशञ्चशेणिए ! शाहु ! अन्धआलं कलिअ अन्तला वञ्चिदे भावे , अहके दाव बञ्चिदे कूडकवडशीलए। सव्वहा दुक्खडे कडे। [ अविहा दरिद्रसार्थवाहपुत्रस्य चारुदत्तवटुकस्य चेटी खल्वियं , न भवति वसन्तमेना। साधु वसन्तसेने ! साधु। अन्धकारं कृत्वान्तरा वञ्चितो भावः। अहं तावद् वञ्चितः कूटकपटशीलया। सर्वथा दुष्करं कृतम्। ] विदूषकः — मा दाव। ण जुत्तमिदं। [ मा तावत्। न युक्तमिदम्। ] विटः — भो महाब्राह्मण ! अयमनुनयसर्वस्वमञ्जलिः। विदूषकः — भोदु , भोदु। अणवरद्धो भवं। अणुणीदो अहं एव्व एत्थ अवरद्धो। [ भवतु , भवतु। अनपराद्दो भवान्। अनुनीतोऽहमेवात्रापराद्धः। ] शकारः — भावे ! दिढं खु भाआशि तं दलिद्दशत्थवाहपुत्तं चालुदत्तवडुअं। [ भाव ! दृढं खलु बिभोषि तस्माद् दपिद्रसार्थवाहपुत्राच्चारुदत्तवटुकात्। ] विटः सत्यं भीतोऽस्मि। शकारः — किश्स भावे ! किश्श। [ कस्माद भाव ! कस्मात् ] विटः — तस्य गुणएभ्यः। पश्यतु भवान् , स मद्विधानां प्रणयैः कृशीकृतो न तस्य कश्चिद् विभवैरमण्डितः। निदाघसंशुष्क इव ह्रदो महान् नृणां तु तृष्णआमपनीय शुष्यति ॥ 26 ॥ महाब्राह्मण ! अयमर्थः सार्थवाहपुत्रस्य न कथयितव्यः। ( निष्क्रान्तो विटः। ) शकारः — मालिश ! वडुअ ! मालिश ! भणेहि तं दलिद्दशत्थवाहपुत्तं चालुदत्तव़डुअं मम वअणेण - लाअशाले शण्ठणे शवट्टेण शीशेण अणुवन्दिअ भणादि - णाडअइत्थिअ वशञ्चशेणिआ णाम गणिआदारिआ शुवण्णवण्णा दुवेहि अम्मेहि बलक्कारेण णीअमाणा महन्तेण शुवण्णालङ्कारेण तव गेहं पविट्ठा। शा शुवे णित्याअइदव्वा। मा दाव तव अ मम अ दालुणो खोहो होदि त्ति। वडुअ ! णालिश ! इदं च भणाहि – मा दाशीए पुत्त ! वारावदगलप्पविट्ठं विअ मूलकन्दं शीशकवालं मडमडाइश्शं। मा खु कवाडशम्पुडप्पविट्टं विअ पक्ककवित्थं शीशं दे चुण्णचुण्णं मडमडाइश्शं ति [ मारिष ! वटुक ! मारिष ! भण तं दरिद्रसार्थवाहपुत्रं चारुदत्तवटुकं मम वचनेन – राजश्यालः संस्थानकः सपट्टेन शीषेणानुवन्द्य भणति – नाटकस्त्री वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्यामावाभ्यां बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण तव गेहं प्रविष्टा। सा स्वो निर्यातयितव्या। मा तावत् तव च मम च दारुणः क्षोभो भवतीति। वटुक ! मारिष ! इदं च भण – मा दास्याः पुत्र ! पारावतगलप्रविष्टमिव मूलकन्दं शीर्षकपालं मडमडायिष्यामि। मा खलु कपाटसम्पुटप्रविष्टमिव पक्वकपित्थं शीर्षं ते चूर्णचूर्णं मडमडायिष्यामीति। ] विदूषकः — भो ! तह। ( शकारं दीपेनोद्वेजयति ) । [ भोः ! तथा। ] शकारः —( सर्वतो विलोक्य ) कहिं भावे। गदे भावे ! अविहा भावे ! । [ क्व भावः। गतो भावः अविहा भाव ! । ] ( निष्क्रान्तः शकारः। ) विदूषकः — किदं देवकय्यं ति तत्तहोदो णिवेदइस्सामो। भोदि ! अवणीअदु दे हिअअमण्णू। अअं वुत्तन्तो अब्भन्तरं ण पेसिदव्वो। [ कृतं देवकार्यमिति तत्रभवते निवेदयिष्याव। भवति ! अपनयतां ते हृदयमन्युः। अयं वृत्तान्तोऽभ्यन्तरं न प्रेषयितव्यः। ] चेटी — अय्य ! रदणिआ खु अहं। [ आर्य ! रदनिका खल्वहम्। ] विदूषकः — एहि गच्छामो। [ एहि गच्छावः। ] ( उभौ परिक्रामतः। ) नायकः — भद्रे ! कृतं देवकार्यम् . गणिका —( आत्मगतम् ) परिजपत्ति मं सद्दावेदि। भोदु , रक्खिदम्हि। [ परिजन इति मां शब्दापयति। भवकतु रक्षितास्मि। ] नायकः — मारुताभिलाषी प्रदोषः। तद् गृह्यतां प्रावारकम्। गणिका —( प्रावारकं गृहीत्वा सहर्षम् ) अणुदासीणं जोव्वणं से पडवासगन्धो सूएदि। [ अनुदासीनं यौवनमस्य पटवासगन्धः सूचयति। ] नायकः — रदनिके ! प्रवेश्यतामभ्यन्तरचतुःशालम्। गणिका —( आत्मगतम् ) अभाइणी अहं अब्भन्तरप्पवेशस्स। [ अभागिन्यहमभ्यन्तरप्रवेशस्य। ] नायकः — किमिदानीं न प्रविशसि। गणिका — इदाणिं अहं किं भणइस्सं। [ इदानोमहं किं भणिष्यामि। ] नायकः — रदनिके किं विलम्बसे। ( रदनिकाविदूषकावुपसृत्य ) चेटी — भट्टिदारअ ! इअ म्हि। [ भर्तृदारक ! इयमस्मि। ] नायकः — इयमिदानीं का . अविज्ञातप्रयुक्तेन धर्षिता मम वाससा। संवृता शरदभ्रेण चन्द्रलेखेव शोभति ॥ 27 ॥ गणिका —( आत्मगतम् ) दीवालोअसूइदरूवो सो एव्व दाणि एसो , जस्स किदे अहं णिस्सासमत्तलक्खिदं सरीरं उव्वहामि। [ दीपालोकसूचितरूपः स एवेदानीमेषः , यस्य कृतेऽहं निःश्वासमात्ररक्षिकतं शरीरमुद्वहामि। ] विदूषकः — भो चारुदत्त ! राअसालो संठाणो सवणट्टे सीसेण अणुवन्दिअ विण्णवेदि — णाडअइत्थिआ वसन्तसेणिआ णाम गणिआदारिआ अम्हेहि बलक्कारेण णीअमाणा महन्तेण सुवण्णालङ्कारेण तुम्हाणं गेहं पविट्ठा। सा सुवे णिय्याअइदव्वत्ति। [ भोः चारुदत्त ! राजश्यालः संस्थानः सपट्टेन शीर्षेणानुवन्द्य विज्ञापयति – नाटकस्त्री वसन्तेसना नाम गणिकादारिकास्माभिर्बलात्कारेण नीयमाना महता सुवर्णात्नंकारेण युष्माकं गेहं प्रविष्टा। सा श्वो निर्यातयितव्येति। ] गणिका — हं बलक्कारेण णीअमाणत्ति णं भणादि। भोदु , अअं पत्तकालो। ( प्रकाशम् ) अय्य ! सरणआगदम्हि। [ हं बलात्कारेण नीयमानेति ननु भणति। भवतु , अयं प्राप्तकालः। आर्य ! शरणागतास्मि। ] नायकः — न भेतव्यं न बेतव्यम्। किं वसन्तसेनैषा। विदूषकः — अविहा वसन्तसेणा। ( अपवार्य ) भो चारुदत्त ! वसन्तसेणा खु इअं , जा भवदा कामदेवाणउआणप्पहुदि णअणमत्तसंत्थुदा सण्णिहिदमणोभवेण हिअएण उव्वहीअदि। ता पेक्खदु इमां। [ अविधा वसन्तसेना। भोः चारुदत्त वसन्तसेना खल्वियं , या भवता कामदेवानुयानपरभृति नयनमात्रसंस्तुता सन्निहितमनोभवेन हृदयेनोदुह्यते। तत् प्रेक्षतामिमाम्। ] नायकः — वयस्य ! पश्याम्येनाम् , यत्र मे पतितः कामः क्षीणे विभवसञ्चये। रोषः कुपुरुषस्येव स्वाङ्गेष्वेवावसीदति ॥ 28 ॥ गणिका — अदिण्णभूमिप्पवेसपधरिशणेण अवरद्धा अहं अय्यं सीसेण पसादेमि। [ अदत्तभूमिप्रवेशप्रधर्षणेनापराद्धाहमार्यं शीर्षेण प्रासदयामि। ] नायकः — यद्येवमहमपि तावदविज्ञातप्रयुक्तेन प्रेष्यसमुदाचारेण सापराधो बवतीं प्रसादयामि। विदूषकः — भो ! विवहन्ता इव सअडिअं दुव्विणीदबलीवद्दा अण्णोण्णं सङ्किलेसन्ति। अहं दाणि रदणिअं पसादेमि। रदणिए ! पसीददु , पसीददु होदी। [ भोः ! विवहन्ताविव शकटिकां दुर्विनीतबलीवर्दावन्योन्यं संक्लेशयतः। अहमिदानीं कं प्रसादयामि। भवतु , इदानीं रदनिकां प्रसादयामि। रदनिके ! प्रसीदतु , प्रसीदतु भवती। ] नायकः — भवति ! परवानस्मि। किमनुतिष्ठति स्नेहः। गणिका —( आत्मगतम् ) महुरं खु इच्छिदव्वं। अदक्खिणं खु पढमदंसणे जइच्छागदाए इह वसिदुं। ता एवं करिस्सं ( प्रकाशम् ) जइ मे अय्यो पसण्णो , अअं मे अलङ्कारो इह एव्व चिठ्टदु। अलङ्गारणिमित्तं पावा मं अणुसरन्ति। अहं पि अय्येण रक्खिदा गेहं गन्तुमिच्छामि। [ मधुरं खल्वेष्टव्यम्। अदक्षिणं कलु प्रथमदर्शने यदृच्छागतयेह वस्तुम्। तदेवं करिष्यामि। यदि मे आर्यः प्रसन्नः , अयं मे ऽलङ्कार इहैव तिष्ठतु। अलङ्कारनिमित्तं पापा मामनुसरन्ति अहमप्यार्येण रक्षिता गेहं गन्तुमिच्छामि। ] नायकः — अन्वर्थमुपदिशति। मैत्रेय ! गृह्यताम्। विदूषकः — ण मे सद्दा। [ न मे श्रद्धा। ] नायकः — मूर्ख ! गृह्यताम्। विदूषकः — जं भवं आणवेदि। आणेदु भोदी। [ यद् भवनाज्ञापयति। आनयतु भवती। ] ( गणिका विमुच्चालंकारं प्रयच्छति। ) विदूषकः —( गृहीत्वा ) रदणिए ! गण्ह एदं सुवण्णालङ्गारं तुवं। सट्ठीए सत्तमीए अ धारेहि। अहं अट्ठमीए अणज्ज्ञाए धारइस्सं। [ रदनिके ! गृहाणैतं सुवर्णालङ्कारं त्वम्। षष्ठ्यां सप्तम्यां च धारय। अहमष्टम्यामनध्याये धारयिष्यामि। ] चेदी —( विहस्य ) सत्थं वक्खाणअन्तस्स भट्टिपुतत्तस्स तदाणिं अवसरो होदि। आणेदु अय्यो। ( गृहीत्वा निष्कान्ता। )[ शास्त्रं व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति। आनयत्वार्यः ] नायकः — कोऽत्र भोः ! दीपिका तावत्। विदूषकः — भोः ! दीविआ गणिका विअ णिस्सिणेहा संवुत्ता। [ भोः ! दीपिका गणिकेव निःस्नेहा संवृत्ता। नायकः — कृतं दीपिकया। ( विलोक्य ) उदोतो भगवान् सर्वजनसामान्यप्रदीपश्चन्द्रः अतः खलु , उदयति हि शशाङ्कःक क्लिन्नखर्जूरपाणअडुर्युवतिजनसहायो राजमार्गप्रदीपः। तिमिरनिचयमध्ये रश्मयो यस्य गौरा हृतजल इव पङ्गे क्षीरधाराः पतन्ति ॥ 29 ॥ भवति ! राजमार्गे निष्क्रम्णं किर्यताम्। सखे ! अनुगच्छात्र भवतीम्। विदूषकः — जं भवं आणवेदि। एदु एदु भोदी। [ यद् भवानाज्ञापयति। एत्वेतु भवती। ] ( निष्कान्ताः सर्वे। ) इति प्रथमोऽङ्कः ******************************************** . अथ द्वितीयोऽङ्कः। ( ततः प्रविशति गणिका चेटी च ) गणिका — तदो तदो। [ ततस्ततः। ] चेटी — अम्महे ण किञ्टि मए भणिदं। किं तदो तदो त्ति। [ अम्महे न किञ्चिन्माया भणितम्। किं ततस्तत इति। ] गणइका — इञ्जे ! किं मए मन्तिदं। [ हञ्जे ! कि मया मन्त्रितम्। ] चेटी — अज्जुए ! सिणेहो पुच्छदि , ण पुरोबाइदा। किं चिन्तीअदि। [ अज्जुके ! स्नेहः पृच्छति , न पुरोभागिता। किं चिन्त्यते। ] गणिका — हञ्जे ! तुमं दाव किं त्ति तक्केसि। [ हञ्जे ! त्वं तावत् किमिति तर्कयसि। ] चेटी — अप्पयओअणदाए गणिआभावस्य अज्जुआ कं पि कामेदि त्ति तक्केमि। [ अप्रयोजनतया गणिकाभावस्याज्जुका कमपि कामयत् इति तर्कयामि। ] गणिका — सुट्ठु तुए किदं। अवञ्चिदा दे दिट्ठी। ईदिसवण्णय्येव। [ सुष्ठु त्वया कृतम् . अवञ्जिता ते दृष्टिः। ईदृशवर्णकेव। ] चेटी — अणलंकिदं पि अज्जुअं मण्डिदं विअ पेक्खामि। कामो हि भअवं अणवगीदो ऊसुवो तदरुणजणस्स। [ अनलङ्कृतामप्यज्जुकां मण्डितामिव प्रेक्षे। कामो हि भगवाननवगीत उत्सवस्तरुणजनस्य ] गणिका — हदासे ! उक्कण्ठिदव्वे का दे रदी। [ हताशे ! उत्कण्ठिव्ये का ते रतिः। ] चेटी — अज्जुए ! इच्छामि पुच्छिदुं बहुमाणो विअ रमणीओ कोच्चि राअकुमारो। [ अज्जुके ! इच्छामि प्रष्टुं बहुमान इव रमणीयः कश्चिद् राजकुमारः। ] गणिका — रमिदुं इच्छामि , ण सेविदुं। [ रन्तुमिच्छामि , न सेवितुम् ] चेटी — किण्णु खु विज्जाविसेसरमणीओ कोच्चि बम्हणदारओ। [ किन्नु खलु विद्याविशेषरमणीयः कश्चिद् ब्राह्मणदारकः। ] गणिका — अत्थि अदिबहुमदो विस्संभो। पूअणीओ खु सो जणो। [ अस्त्यतिबहुमतो विस्रम्भः। बूजनीयः खलु स जनः। ] चेटी — किण्णु हु वणिजदारओ कोच्चि आगन्तुओ। [ किन्नु खलु वणिग्दारकः कश्चिदागन्तुकः .] गणिका — उम्मत्तिए ! आसाच्छेदं उक्कण्ठन्ता का सहेदि। [ उन्मत्तिके ! आशाच्छेदमुत्कण्ठमाना का सहते। ] चेटी — किं ण सक्कं सोदुं। को अम्हाणं मणोरहाउत्तो। [ किं न शक्यं श्रोतुम्। कोऽस्माकं मनोरथावुत्तः। ] गणिका — किं तुवं कामदेवाणुयाणे ण आअदा सि। [ किं त्वं कामदेवानुयाने नागतासि। ] चेटी — णं आअदम्हि [ नन्वागतास्मि। ] गणिका — केण उदासीणं मन्तेसि। [ केनोदासीनं मन्त्रयसे। ] चेटी — भणादु भणादु अज्जुआ , भणादु। [ भणतु , भणत्वज्जुका , भणतु। ] गणिका — हञ्जे ! सुणाहि दाव। अत्थि सत्थवाहपुत्तो चारुदत्तो णाम। [ हञ्जे ! श्रृणु तावत्। अस्ति सार्थवाहपुत्रश्चारुदत्तो नाम। ] चेटी — जेण सरणागदा तुवं रक्खिदा। [ येन शरणागता त्वं रक्षिता। ] गणिका — सो एव्व। [ स एव। ] चेटी — हद्धि , दरिद्दो क्खु सो। [ हा धिक् , दरिद्रः खलु सः। ] गणिका — अदो क्खु कामीअदि। अदिदरिद्दपुरुशसत्ता गणिआ अवअणीआ होइ। ] अतः खलु काम्यते। अतिदरिद्रपुरुषसक्ता गणिका अवचनीया भवति। ] चेटी — अज्जुए ! उद्धूदपुप्फं सहआरं महुअराओ उवासन्ति। [ अज्जुके ! उद्धूतपुष्पं सहकारं मधूकरा उपासते। ] गणिका — हञ्जे ! एवं , उवासन्ति। दे महुअरा त्ति पुच्छीअन्ति। [ हञ्जे ! एवेम् , उपासते। ते मधुकरा इति पृचछ्यन्ते। ] चेटी — किं , विहवमन्ददाए वेसवासप्पसङ्गकादरो दुक्खं ति जइ ण आअच्छे ! [ किं , विभवमन्दतय वेशवासप्रसङ्गकातरो दुःखमिति यदि नागच्छेत्। ] गणिका — णं अहं तं कामेमि। [ नन्वहं तं कामये। ] चेटी — जइ एत्तओ बहुमाणी , किं णाभिसरीअदि। [ यद्येतावान् बहुमानः , किं नाभिस्रियते। ] गणिका — ण हु ण गच्छामि। किन्तु सहसा अभिसरिदो पच्चुअआरदुल्लभदाए गुणो मे दुल्लभो भवे त्ति विलम्बेमि। [ न खलु न गच्छामि। किन्तु सहसाभिसृतः प्रत्युपकारदुर्लभकतया पुनर्मे दुर्लभो भवेदिति बिलम्बे। ] चेटी — हं , किं एतण्णिमित्तं तहिं एव्व सो अलङ्कारो ठाविदो। [ हं , किमेतन्निमित्तं तत्रैव सोऽलङ्कारः स्थापितः। ] गणइका — ईदिस एव्व। [ ईदृशमेव। ] ( ततः प्रविशत्यपटीक्षेपेण संवाहकः ) संवाहकः — अय्ये ! सरणागदो म्हि। [ आर्ये ! शरणागतोऽस्मि। ] गणिका — अलं अय्यस्स सम्भमेण। [ अलमार्यस्य सम्भ्रमेण। ] चेदी — हं , को दाणि एसो। [ हं , क इदानीमेषः ] गणिका — उन्मत्तिए ! किं सरणागदो पुच्छीअदि। [ उन्मत्तिके ! किं शरणागतः पृच्छ्यते। ] चेटी — अवि णाम साहसिओ भवे। [ अपि नाम साहसिको भवेत्। ] गणिका — उन्मत्तिए ! गुणवन्तो रक्खिदव्वो होदि। [ उन्मत्तिके ! गुणवान् रक्षितव्यो भवति। ] संवाहकः — अय्ये ! णं भएण उवआरो विस्सरिदो , ण परिभवेण। पेक्खदु अय्या , भीदाहवा पधरिसिदाहवा आवण्णआहवा सुलभचारित्तवञ्चणाहवा अवराहेदुं समत्था हिन्ति। [ आर्यो ! ननु भयेनोपचारो विस्मृतः , न परिभवेन। प्रेक्षतामार्या , भीता अथवा प्रथर्षिता अथवा आपन्ना अथवा सुलभचारित्रवञ्चना अथवा अपराधयितुं समर्था भवन्ति। ] गणिका — भोदु , भोदु , विस्सत्थो भोदु अय्यो। गणिआ खु अहं। [ भवतु , भवतु , विश्वस्तो भवत्वार्यः। गणिका खल्वहम्। ] संवाहकः — अभिजणेण , ण सीलेण। [ अभिजनेन न शीलेन। ] गणिका – हञ्जे ! एवं विअ। [ हञ्जे ! एवमिव। ] चेटी — अज्जुआ अय्यं पुच्छदि , कुदो अय्यस्स भअं ति। [ अज्जुकार्यं पुच्छति , कुत आर्यस्य भयमिति। ] संवाहकः — अय्ये ! धणिआदो। [ आर्ये ! धनिकात्। ] गणिका — जइ एवं , आसणं देदु अय्यस्स। [ यद्येवम् , आसनं ददात्वार्यायः। ] चेटी — तह। ( आसनं ददाति। ) [ तथा। ] गणिका — उवविसदु ! अय्यो। [ उवविशत्वार्यः। ] संवाहकः —( स्वगतम् ) पुआविसेसेण जाणामि क्य्यं ति। ( उपविशति। ) [ पूजाविशेषेण जानामि कार्यमिति। ] गणिका — हञ्जे ! एवं विअ। [ हञ्जे ! एवमिव। ] चेटी — अज्जुए ! तह। अय्य ! राअमग्गे विस्सत्थसम्पादं अय्यं कादुं इच्छदि अज्जुआ। कस्स किं कत्तब्ब। [ अज्जुके ! तथा। आर्य ! राजमार्गे विश्वस्तसम्पातमार्यं कर्तुमिच्छत्यज्जुका। क्स्य किं कर्तव्यम्। ] संवाहकः — सुणादु अय्या। [ श्रृणोत्वार्या। ] गणिका — अवहिदम्हि। [ अवहितास्मि। ] संवाहकः — पाडलिपुत्तं मे जम्मभूमी। पकिदीए वणिजओ अहं। तदो भाअधेअपरिवुतदाए दसाए संवाहअवुतिं उवजीवामि। [ पाटलिपुत्रं मे जन्मभूमिः। प्रकृत्या वणिगहम्। ततो भागधेयपरिवृत्ततया दशया संवाहकवुत्तिमुपजीवामि। ] गणिका — संवाहओ अय्यो। सुउमारा कला सिक्खिदा अय्येण। [ संवाहक आर्यः। सुकुमारा कला शिक्षितार्येण। ] संवाहकः — कलेत्ति सिक्खिदा। आजीविअं दाणि संवुत्तम्। [ कलेति शिक्षिता। आजीवितमिदानीं संवृत्तम्। ] गणिका — णिव्वेदसूअअं विअ वअणं अय्यस्स। तदो तदो। [ निर्वेदसूचकमिव वचनमार्यस्य। ततस्ततः। ] संवाहकः — अज्जुए ! सो दाणि अहं आअनतुआणं सुणिअ पुरुसविसेसकोदूहलेण आअदो म्हि इमं उज्जअणिं [ अज्जुके ! स इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतुहलेनागतोऽस्मीमामुज्जयनीम्। ] गणिका — तदो दतो। [ ततस्ततः। ] संवाहकः — तदो इह आअदमत्त एव्व कोच्चि सत्थवाहपुत्तो समासादिदो। [ तत इहागतमात्र एव कश्चित् सार्थवाहपुत्रः समासादितः। ] गणिका — केरिसो [ कीदृशः। ] संवाहकः — आइदिमन्तो अविब्भमन्तो अणुच्छित्तो ललिदो ललिददाए अविम्हओ चउरो महुरो दक्खो सदक्खिञ्ञो अबिमदो आइदो तुट्ठो होदि। दय्य ण विकत्थेदि। अप्पं वि सुमरदि , बहुअं पि अवइदं विसुमरदि। अञ्जुए ! किं वहुणा , तस्स कुलवुत्तस्स गुणाणं चउब्भाअं पि सुदिग्घेण वि गिम्हदिअहेण वण्णिदुं ण सक्कं। किं बहुणा , दक्खिञ्ञदाए परकेरअं विअ अत्तणो सरीरं धारेदि। [ आकृतिमान् अविभ्रमन् अनुत्सिक्तो ललितो ललिततया विस्मयश्चतुरो मधुरो दक्षः सदाक्षिण्योऽभिमत आचितस्तुष्टो भवति। दत्त्वा न विकत्थयति। अल्पमपि स्मरति , बहुकमप्यपकृतं विस्मरति। अज्जुके ! किं बहुना , तस्य कुलपुत्रस्य गुणानां चतुर्भागमपि सुदीर्घेणापि ग्रीष्मदिवसेन वर्णयितुं न शक्यम्। किं बहुना , दाक्षिण्यतया परकीयमिवात्मनः शरीरं धारयति। ] गणिका —( अपवार्य ) हञ्जे ! को णु खु सो अय्यचारुदत्तस्स गुणाणं अणुकरेदि। [ इञ्जे ! को नु खलु स आर्यचारुदत्तस्य गुणाननुकरोति। ] चेदी — मम वि कोदूहलं सोदुं। को णुहु उज्जअणिं अत्तणो गुणेहि मण्डेदि। [ ममापि कौतूहलं श्रोतुम्। को नु खलुज्जयनीमात्मनो गुणैगर्मण्डयति। ] गणिका — तदो तदो। [ ततस्तत। ] संवाहकः — तदो तस्स गुणविक्किणिदसरीरो विस्सरिदकलत्तो उवजीविओ संवुत्तो। [ ततस्तस्य गुणविक्रीतशरीरो विस्मृतकलत्र उपजीविको संवृत्त। ] गणिका — किं सो दरिद्दो। [ कि स दरिद्रः। ] संवाहक — कहं अणाचिक्खिदे अय्या जाणादि। [ कथमनाख्यात आर्या जानाति। ] गणिका — एअस्सिं दुल्लहो गुणविभवो त्ति। तदो तदो। [ एकस्मिन् दुर्लभो गुणविभव इति। ततस्ततः। ] चेटी — को णाम सो अय्यो। [ को नाम स आर्यः। ] संवाहकः — अय्यचारुदत्तो णाम। [ आर्यचारुदत्तो नाम। ] गणिका — जुज्जइ। तदो तदो। [ युज्यते। ततस्ततः। ] संवाहकः — तदो सो विभवमन्ददाए अस्साहिणपरिजणो विसज्जिअकुडुम्बभरणो चारित्तमत्तावसेसो सत्थवाहकुले पडिवसदि। अहं पि तेण अय्येण अब्भणुञ्ञादो — अण्णं उवचिट्ठदु त्ति। कहं अण्णं एरिसं मणुस्सरअणं लभेअं ति कहं च तस्स कोमलललिदमहुरसरीप्परिसकिदत्थं मे हत्थं साहारणसरीरसम्मद्देण सोअणीअं करिस्सं ति जादणिव्वेदो दद्धसरीररक्खणत्थं जूदोवजीवी संवुत्तो। [ ततः स विभवमन्दतयास्वाधीनपरिजनो विसर्जितकुटुम्ब - भरणश्चारित्रमात्रावशेषः सार्थवाहकुले प्रतिवसति। अहमपि तेनार्येणआभ्यनुज्ञातोऽन्यमुपतिष्टतामिति। कथमन्यमीदृशं मनुष्यरत्नं लभेयेति , कथं च तस्य कोमलललितमधुरशरीरस्पर्शकृतार्थं मे हस्तं साधारणशरीरसम्मर्देन शोचनीयं करिष्यामीति जातनिर्वेदो दग्धशरीररक्षणार्थं द्यूतोपजीवी संवृत्तः। ] ( गणिका सहर्षबाष्पं चेटीमवलोकयति। ) चेटी — तदो तदो। [ ततस्ततः। ] संवाहकः — तदो बहूणि दिणाणि मए पराइदेण पुरुसेण कदाई अहं पि दहसु सुवण्णेसु पराइदो म्हि। [ ततो बहूनि दिनानि मया परजितेन पुरुषेण कदाचिदहमपि दशसु सुवर्णेषु पराजितोऽस्मि। ] गणिका — तदो तदो। [ ततस्ततः। ] संवाहकः — तदो अज्ज वेशमग्गे जइच्छोवणदो समासदिदो म्हि। तस्स भएण इह पविट्ठो। एवं अय्या जाणादु। [ ततोऽद्य वेशमार्गे यदृच्छोपनतः समासादितोऽस्मि। तस्माद् भयेनेह प्रविष्टः। एवमार्या जानात्। ] गणिका —( आत्मगतम् ) अहो अच्चाहिदं। एवं खु मण्णे वासपपादपविणासेण पक्खिणो आहिण्डन्ति त्ति ( प्रकाशम् ) एवं गदे अत्तकेरओ अय्यो। हला ! एहं तं जणं विसज्जेहि। [ अहो अत्याहिनम्। एवं खलु मन्ये वासपादपविनाशेन पक्षिण आहिण्डन्त इति। एवं गत आत्मीय आर्यः। हला ! एहि तं जनं विसर्जय। ] चेदी — तह। ( निष्क्रान्ता। ) [ तथा। ] गणिका — ण शु अय्येण अत्थणिमित्ता चिन्ता कादव्वा। अय्यचारुदत्तो एव देदि त्तिअय्यो जाणादु। [ न खल्वर्येणार्थनिमित्ता चिन्ता कर्तव्या। आर्यचारुदत्त् एव ददातीत्यार्यो जानात्। ] चेटी —( प्रविश्य ) अज्जुए ! विसज्जिदो सो जणो , परितुट्ठो गदो अ। [ अज्जुके ! विसर्जितः स जनः , परितुष्टो गतश्च। ] संवाहकः — अणुग्गहिदो म्हि। [ अनुगृहीतोऽस्मि। ] गणिका — गच्छदु अय्यो सुहिज्जणदंसणेण पीदि णिव्वत्तेदजुं। [ गच्छत्वार्यः सुहृज्जनदर्शनेन प्रीति निर्वर्तयितुम्। ] संवाहकः — अज्ज एव कदाइ णिव्वेदेण पव्वजेअं। जइ इअं परिअणे सङ्कन्ता कला भवे , तदो अय्याए अणुग्गहिदो भवेअं। [ अद्यैव कदाचिन्निर्वेदेन प्रव्रजेयम्। यदीयं परिजने संक्रान्ता कला भवेत् , तत आर्ययानुगृहीतो भवेयम्। ] गणिका — जस्स किदे इअं कला सिक्खिदा , सो एव्व अय्येण उवचिट्ठिदव्वो बविस्सदि। [ यस्य कृते इयं कला शिक्षिता , स एवार्येणोपस्थातव्यो भविष्यति। ] संवाहकः —( स्वगतम् ) णिउणं खु पच्चाचक्खिदो म्हि। को हि णाम् अप्पणा किदं पच्चुअआरेण विणासेदि। ( प्रकासम् ) अय्ये ! गच्छामि दाव अहं। [ निपुणं खलु प्रत्याख्यातोऽस्मि। को हि नामात्मना कृतं प्रत्युपकारेण विनाशयति। आर्ये ! गच्छामि तावदहम्। ] गणिका — गच्छदु अय्यो पुणो दंसणाअ। [ गच्छत्वार्यः पुनर्दर्शनाय। ] संवाहकः — अय्यो ! तह। ( निष्क्रान्तः ) [ आर्ये ! तथा। ] गणिका — हं , सद्दो विअ। [ हं शब्द इव। ] ( प्रविवश्य ) चेटः — विच्छित्तिए ! विच्छित्तिए ! कहि कहिं अज्जुआ। [ विच्छित्तिके ! विच्छित्तिके ! कुत्र कुत्राज्जुका। ] गणिका — हंजे ! किं एदं। [ हञ्जे ! किमेतत्। ] चेटः — ह् , विप्पलद्धो म्हि , वादाअणणइक्खामिदपुव्वकाआए ओणमिअपओहराए कण्णऊरस्स परिप्फन्दो अज्जुआए जेण ण दिट्ठो। [ हं , विप्रलब्धोऽस्मि , वातायननिष्क्रामितपूर्वंकाययावनमितपयोधरया कर्णपूरस्य परिस्पन्दोऽज्जुकया येन न दृष्टः। ] गणिका — लहुजणस्स सुलहो विम्हओ। किं दे उस्सेअस्स कारणम्। [ लघुजनस्य सुलभो विस्मयः। किं ते उत्सेकस्य कारणम्। ] चेटः — सुणादु अज्जुआ। एसो उग्गवेगेण ओगाहणणिव्वत्तिदेण पस्सुदमदगन्धं राअमग्गं करन्तेण मङ्गलहत्थिण भद्दकवोदएण अणेअपुरुससङ्कलेसु राअमग्गेसु उत्तरिअपडविराअदाए अहिअलक्खणीओ कोच्चि पव्वइदो समासादिदो। [ शृणोत्वज्जुका एष उग्रवेगेनावगाहननिवर्तितेन प्रस्रुतमदगन्धं राजमार्गं कुर्वता मङ्गलहस्तिना भद्रकपोतकेनानेकपुरुषसंकुलेषु राजमार्गेषूत्तरीयपटचविरागतयाधिकलक्षणीयः कश्चित् प्रव्रजितः समासादितः। ] गणिका — हं , तदो तदो। [ हं , ततस्ततः। ?] चेटः — तदो मए हत्थिहत्थामद्दताडिअमाणो दन्तन्तरपरिवत्तमाणो हत्थिहत्थपडिदचरणो तदजो हा हा विपाडिदो हा हा हदोत्ति जणवादे संवुत्ते तदो दिण्णकरप्पहारेण परिवत्तिदं हत्थिं करिअ मोइदो सो परिव्वाओ। [ ततो मया हस्तिहस्तामर्दताड्यमानो दन्तान्तरपरिवर्तमानो हस्तिहस्तपतितचरणः ततो हा हा विपाटितो हा हा हत इति जनवादे संवृत्ते ततो दत्तकरप्रहारेण परिवर्तितं हस्तिनं कृत्वा मोचितः स परिव्राट्। ] गणिका — पिअं मे। तदो तदो [ प्रियं मे। ततस्ततः। ] चेटः — तदो सव्वो जणओ भणादि – अहो चेडस्स कम्म त्ति। ण उण कोच्चि किं पि इच्छइ दाउं। तदो अज्जुए ! केण वि कुलवुत्तेण उइदाणि आभरणट्ठाणाणि विलोइअ अङ्गुट्ठेणाणिअ वि उण अलद्वं पेक्खिअ देव्वं उवालभिअ दिग्घं णिस्ससिअ एत्तओ मे विभवो त्ति करिअ परिजणहत्थे अअं पावरओ पेसिदो। [ ततः सर्वो जनो भणति — अहो चेटस्य कर्मेति। न पुनः कश्चित् किमपीच्छति दातुम्। ततोऽज्जुके ! केनापि कुलपुत्रेणोचितान्याभरणस्थानानि विलोक्यांगुष्ठेनानीयापि पुनरलब्धं प्रेक्ष्य दैवमुपालभ्य दीर्घं निःस्वस्यैतावान् मे विभव इति कृत्वा परिजनहस्तेऽयं प्रावारकः प्रेषितः। ] गणिका — को णु खु अय्यचारुदत्तस्स गुणाणि अणुकरेदि। को नु खल्वार्यचारुदत्तस्य गुणाननुकरोति। ] चेदी — अज्जुए ! मम वि कोदूहलं अत्थि। को णु खु एसो। [ अज्जुके ! ममापि कौतूहलमस्ति। को नु खल्वेषः। ) गणिका — केण वि साहुणा पुरुसेण होदव्वं। [ केनापि साधुना पुरुषेण भवितव्यम्। ] चेदी — साहु पुच्छीअदु दाव। [ साधु पृच्छ्यतां तावत्। ] गणिका — हञ्जे एकपुरुसपक्खवादिदा सव्वगुणाणि हन्ति। [ हंजे ! एकपुरुषपक्षपातिता सर्वगुणान् हन्ति। ] चेदी — भद्द ! से णाम तुवं जाणासि। [ भद्र ! अस्य नाम त्वं जानासि। ] चेटः — ण हु जाणामि। [ न खलु जानामि। ] गणिका — अदिलहु तुए किदं [ अतिलघु त्वया कृतम्। ] चेटी — जइ एवं , इह तुए को त्ति मन्तिदं। [ यद्येवम् , इह त्वया क इति मन्त्रितम्। ] चेटः — अहं एत्तअं तु जाणामि — भद्दओ अविम्हओ त्ति। [ अहमेतावत् तु जानामि भद्रकोऽविस्मय इति। ] गणिका — एहि दाव तं पेक्खामो। [ एहि तावत् तं प्रेक्षामहे। ] चेटः — पेक्खदु पेक्खदु अज्जुआ। एसो गच्छइ। [ प्रेक्षताम् प्रेक्षतामज्जुका। एष गच्छति। ] गणिका —( प्रासादाद् विलोक्य ) हंजे ! एसो हि सो अय्यचारुदत्तो एव्व जण्णोववीदमत्तपावारओ गच्छइ। ता जाव दूरं गओ ण भविस्सदि एसो , पेक्खम्ह दाव णं [ हञ्जे ! एष हि स आर्यचारुदत्त एव यज्ञोपवीतमाक्षत्रप्रावारको मच्छति। तद् यावद् दूरं गतो न भविष्यत्येष , प्रेक्षामहे तावदेनम् ] ( निष्क्रान्ताः सर्वे। ) इति द्वितीयोऽङ्कः। *************************************************** . अथ तृतीयोऽङ्कः। ( तत प्रविशति नायको विदूषकश्च। ) नायकः — वयस्य ! वीणा नामासमुद्रोत्थितं रत्नम्। कुतः , उत्कण्ठितस्य हृदयानुगता सखीव सङ्गीर्णदोषरहिता विषयेषु गोष्ठी। क्रीकडारसेषु मदनव्यसनेषु कान्ता स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ॥ 1 ॥ विदूषकः — भो वयस्स ! को कालो किदपरिघोसणदाए णिस्सम्पादा राअमग्गा। कुक्कुरा वि ओसुत्ता। वअं णिद्दं ण लभामो। अण्णं च दाणि अच्छरीअं। इमं हदवीणं ण रमामि। अहिअदिढत्थाणए विच्छिण्णतन्तिआ होदु। [ भो वयस्य ! कः कालः कृतपरिघोषणतया निःसम्पाता राजमार्गाः कुक्कुरा अप्यवसुप्ताः। वयं निद्रां न लभामहे। अन्यच्चेदानीमाश्चर्यम्। इमां हतवीणां न रमे। अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु। ] नायकः — वयस्य ! भावशबलेन बहुशः खल्वद्य मधुरं गीतम्। न च भवान् रमते। विदूषकः — अदो एव्व एदं अहं ण रमामि। महुरं पि बहु खादिअं अजिण्णं होइ। [ अत एवैतामहं न रमे। मधुरमपि बहु खादितमजीर्णं भवति ] नायकः — सर्वथा सुव्यक्तं गीतम्। कुतः , रक्तं च तारमधुरं च समं स्फुटं च भावार्पितं च न च साभिनयप्रयोगम्। किं वा प्रशस्य विविधैर्बहु तत्तदुक्त्वा भित्त्यन्तरं यदि भवेद् युवतीति विद्याम् ॥ 2 ॥ विदूषकः — कामं पसंसेदु भवं। मम खु दाव गाअन्तो मणुस्सो इत्थिआ वि पठन्ती उभअं आदरं ण देदि। गाअन्तो दाव मणुस्सो रत्तसुमणावेट्ठिदो विअ पुरोहिदो दिढं ण सोहइ। इत्थिया वि पठन्ती छिण्णणासिआ विअ धेणुआ अदिविरूवा होइ। [ कामं प्रशंसतु भवान्। मम खलु तावद् गायन् मनुष्यः स्त्र्यपि पठन्त्युभयमादरं न ददाति। गायंस्तावन्मनुष्यो रक्तसुमनोवेष्टित इव पुरोहितो दृढं न शोभते। स्त्र्यपि पठन्ती छिन्ननासिकेव धेनुरतिविरूपा भवति। ] नायकः — सखे ! उपारूढोऽर्धरात्रः। स्थिरतिमिरा राजमार्गाः। निस्सम्पातपुरुषत्वात् प्रसुप्ते वोज्जयनी प्रतिभाति। कुतः , असौ हि दत्त्वा तिमिरावकाशमस्तं गतो द्यष्टमपक्षचन्द्रः। तोयावगाढस्य वनद्विपस्य विषाणकोटीव निमज्जमाना ॥ 3 ॥ विदूषकः — सुट्ठु भवं भणादि। अन्तद्धिअमाणचन्दलद्धावआसो ओदरदी विअ पासादादो अन्धआरो [ सुष्ठु भवान् भणति। अन्तर्दधानचन्द्रलब्धावकासोऽवतरतीव प्रासादादन्धकारः। ] नायकः —( परिक्रम्य ) इदमस्मदीयं गृहम्। वर्धमानवक ! वर्धमानवक ! विदूषकः — वद्धमाणवअ ! वद्धमाणवअ ! दुवारं अवावुद। [ वर्धमानवक ! वर्धमानवक द्वारमपावृणु। ] ( प्रविश्य ) चेटः — अम्मो अय्यमेत्तेओ। [ अम्मो आर्यमैत्रेयः। ] नायकः — वर्धमानवक ! चेटः — अम्मो भट्टिदारओ। भट्टिदारअ ! वन्दामि। [ अम्मो भर्तृदारकः। पादोदकम्। ] विदूषकः — वद्धमाणवअ ! मम वि पादं पक्खालेहि। [ वर्धमावनक ! ममापि पादं प्रक्षालय। ] चेटः — सुहोदेसु पादेसु भूमीए पलोट्ठिदव्वं। उदअं विणासेहि। अहव आणेहि। पक्खालइस्सं। ( नाठ्ये न विदूषकस्य पादौ प्रक्षालयति। ) [ सुधौतयोः पादयोर्भूम्यां प्रलोठितव्यम्। उदकं विनाशय। अथवानय। प्रक्षालयिष्यामि। ] विदूषकः — ण केवलं दासीए पुत्तेण पादा धोदा , मुहं वि धोदं। [ न केवलं दास्या पुत्रेण पादौ दौता , मुखमपि धौतम्। ] नायकः — वयस्य ! इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुसपर्वतीव माम्। अदृश्यमाना चपला जरेव या मनुष्यवीर्यं परिभूय वर्धते ॥ 4 ॥ मैत्रेय ! सुप्यताम्। ( निष्क्रान्तश्चेटः। ) ( प्रविश्याभरणसमुद्गहस्ता ) चेटी — अय्यमेत्तेअ ! उट्ठेहि उट्ठेहि। [ आर्यमैत्रेय ! उत्तिष्ठ उतिष्ठ। ] विदूषकः — भोदि ! किं एदं। [ भवति ! किमेतत्। ] चेटी — इअं सुवण्णभण्डं सट्ठीए सत्तमीए परिवेट्टामि। अट्ठमी खु अज्ज। [ इदं सुवर्णभाण्डं षष्ठ्यां सप्तम्या परिवेशयामि। अष्टमी कल्वद्य। ] नायकः — इदं तद् वसन्तसेनायाः स्वकम्। चेटी — आम। भणादु भणादु भट्ठिदारओ , गण्हदु त्ति। [ आम्। भणतु भणतु भर्तृदारकः गृह्णात्विति। ] नायकः — मैत्रेय ! गृह्यताम्। विदूषकः — किं णिमित्तं अअं अलङ्कारो अब्भन्तरचउस्सालं ण प्पवेसीअदि। [ किन्निमित्तमयलसङ्कारोऽभ्यन्तरचतुःशालं न प्रवेश्यते। ] नायकः – मूर्ख ! बाह्यजनधारितालङ्कारं गृहजनो न द्रक्ष्यति। विदूषकः — का गई ! आणेहि गणअहामि चोरेहिं गण्हिअमाणं। [ का मतिः। आनय गृह्णामि चोरैर्गृह्यमाणम्। ] ( चेटी दत्त्वा निष्क्रान्ता। ) विदूषकः — भो ! किंणिमित्तं सो पावरओ तस्स गणिआपरिआरअस्स दिण्णो। [ भीः ! किन्निमित्तं स प्रावारकस्तस्मै गणिकापरिचारकाय दत्तः। ] नायकः – सानुक्रोशतया। विषदूकः — इह वि साणुक्कोसदा ! [ इहापि सानुक्रोशता। ] नायकः — वयस्य ! मा मैवम्। विदूषकः — अहं भरिदगद्दभो विअ भूमीए पलोट्ठामि। [ अहं भरितागर्दभ एव भूमौ प्रलुठामि। ] नायकः — निद्रा मां बाधते। तूष्णीं भव। विदूषकः – सअदु भवं सुहप्पबोहाअ। जाव अहं पि सुविस्सं। [ शेतां भवान् सुखप्रबोधाय। यावदहमपि स्वप्स्यामि। ] ( द्वावपि स्वपितः। ) ( ततः प्रविशति सज्जलकः। ) सज्जलकः — एष भोः। कृत्वा शरीरपरिणाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गम्। गच्छामि भुमिपरिसर्पणघृष्टपार्श्वो निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥ 5 ॥ भोः ! वृक्षवाटिकापक्षद्वारे सन्धिं छित्त्वा प्रविष्टोऽस्मि। यावदिदानीं चतुः - शालमुपसर्पामि। ( सनिर्वेदं विचिन्त्य ) भोः कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते विश्वस्तेषु हि वञ्चनापरिभवः शौर्यं न कार्कश्यता। स्वाधीना वचनीयतापि तु वरं बद्धो न सेवाञ्जलि - र्मार्गश्चैष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना ॥ 6 ॥ ( विचिन्त्य ) लुब्धोऽर्थवान् साधुजनावमानी वणिक् स्ववृत्तावतिकर्कशश्च। यस्तस्य गेहं यदि नाम लप्स्ये भवामि दुःखोपहतो न चित्ते ॥ 7 ॥ यद्वा तद्वा भवतु। किं वा न कारयति मन्मथः। यावदारभे कर्म। भोः ! देशः को नु जलावसेकशिथिलश्छेदादशब्दो भवेद् भित्तीनां क्व नु दर्शितान्तरसुखः सन्धिः करालो भवेत्। क्षारक्षीणतया चलेष्टककृसं हर्म्यं क्व जीर्ण भवेत् कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत् ॥ 8 ॥ ( परिक्रम्य ) इयं वास्तुविभागक्रिया। सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः। इह तावत् प्रवेशावकाशं करिष्ये। भोः ! कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात्। सिंहाक्रान्तं पूर्णचन्द्रं झषास्यं चन्द्रार्धं वा व्याघ्रवक्त्रं त्रिकोणम्। सन्धिच्छेदः पीठिका वा गजास्यमस्मत्पक्ष्या विस्मितास्ते कथं स्तुः ॥ 9 ॥ भवतु , सिंहाक्रान्तमेवच्छेदयिष्ये। विदूषकः – भो ! जागत्ति खु भवं , णहि। [ भोः ! जागर्ति खलु भवान् , नहि। ] नायकः — किमर्थम्। विदूषकः — अहं खु दाव कत्तव्वकरत्थीकिदसङ्केदो विअ सक्किअसमणओ णिद्दं ण लभामि। वामं खु मे अक्खि फन्देदि। चोरो सन्धिं छिन्ददी विअ पेक्खामि। जइ ईदिसी अवत्था अत्थाणं , जादीए दरिद्दो एव्व होमि। [ अहं खलु तावत् कर्तव्यकरस्त्रीकृतसङ्केत इव शाक्यश्रमणको निद्रां न लभे। वामं खलु मेऽक्षि स्पन्दते। चोरः सन्धिं छिनत्तीव प्रेक्षे। यदीदृश्यवस्थार्थानां , जात्या दरिद्र एव भवामि। ] नायकः — मूर्ख ! धिक् त्वाम्। दारिद्र्यामभिलषसि . सज्जलकः — अथ केनेदानीं सन्धिच्छेदमार्गः सूचयितव्यः स्यात्। नन्विदं दिवा ब्रह्मसूत्रं रात्रौ कर्मसूत्रं भविष्यति। अद्यास्य भित्तिषु मया निशि पाटितासु छेदात् समासु सकृदर्पितकाकलीषु। काल्यं विषादविमुखः प्रतिवेशवर्गो दोषांश्च मे वदतु कर्मसु कौशलं च ॥ 10 ॥ नमः खरपटाय। नमो रात्रिगोचरेभ्यो देवेभ्यः। ( तथा करोति। ) हन्त अवसितं कर्म। प्रविशामस्तावत्। ( प्रविश्य ) अये ! ज्वलति दीपः। अपसरामि तावत्। धिक् , सज्जलकः खल्वहम्। मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः। माया वर्णशरीरभेदकरणे वाग् देशभाषान्तरे दीपो रात्रिषु सङ्कटे च तिमिरं वायु स्थले नौर्जले ॥ 11 ॥ ( सर्वतो विलोक्य ) आगन्तुकत्वादविदितसमृद्धिविस्तरः केवलं भवनप्रत्ययादिह प्रविष्टेऽस्मि। न चेदानीं कञ्चित् परिच्छदविशेषं पश्यामि। किन्तु खलु दरिद्र एवायम्। उताहो अयं संयमन - निरर्थकं द्रष्टव्यं धारयति। अथवा , अभिजातोऽयं भवनविन्यासः। उपभुक्तप्रनष्टविभवेन भवितव्यम्। तथा विभवमन्दोऽपि जन्मभूमिव्यपेक्षया। गृहं विक्रयकालेऽपि नीलस्नेहेन रक्षति ॥ 12 ॥ भवतु पश्यामस्तावत्। अथवा , न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः। गच्छामि तावत्। विदूषकः — भो ! गण्ह एदं सुवण्णभण्डअं। [ भो ! गृहाणैतत् सुवर्णभाण्डम्। ] सज्जलकः — कथं सुवर्णभाण्डमित्याह किं मा दृष्टवाभिभाषते। आहोस्वित् सत्त्वलाघवात् स्वप्नायते। भवतु पश्यामस्तावत्। ( दृष्ट्वा ) भूतार्थं सुप्त एवायम्। तथाहि , निःश्वासोऽस्य न शह्कितो न विषमस्तुल्यान्तरं जायते गात्रं सन्धिषु दीर्घतामुपगतं शय्याप्रमाणाधिकम्। दृष्टिर्गाढनिमीलिता न चपलं पक्ष्मान्तरं जायते दीपं चैव न मर्षयेदभिमुखः स्याल्लक्षसुप्तो यदि ॥ 13 ॥ क्व नु खलु तत्। अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपं दृश्यते। सुपरिगृहीतमनेन। अयमत्र प्राप्तकालः। इमे मया गृहीताः शलभाः। दीपनिर्वापणार्थमेकं मुञ्चामि। ( भ्रमरकरण्डकादेकं मुञ्चति। ) अये एष दीपं निर्वाप्य पतति। विदूषकः — अविहा णिव्वाविदो दीवो दाणि। मुसिदो म्हि। भो चारुदत्त ! गण्ह एदं सुवण्णालङ्कारं। अहं खु भीदीए उप्पहप्पवुत्तो विअ वणिजो णिद्दं ण लभामि। मम बम्हत्तणेण साविदो सि , जइ ण गण्हसि। [ अविहि निर्वापितो दीप इदानीम्। मुषितोऽस्मि। भोश्चारुदत्त ! गृहाणेमं सुवर्णालङ्कारम्। अहं खलु भीत्योत्पथप्रवृत्त इव वणिग् निद्रां न लभे। मम ब्रह्मत्वेन शापितोऽसि , यदि न गृह्णासि। ] सज्जलकः — किमत्र शपथपरिग्रहेण। एष प्रतिगृह्णामि। ( गृह्णाति। ) विदूषकः —( दत्त्वा ) अहं विक्किणिदभण्डओ विअ वणिजओ सुहं सइस्सं। [ अहं विक्रीतभाण्डक एव वणिक् सुखं शयिष्ये। ] सज्जलकः — सुखं स्वपिहि महाब्राह्मण ! । ( विचिन्त्य ) भोः ! ब्राह्मणेन विश्वासाद् दीयमानं मया हर्तव्यमासीत्। धिगस्तु खलु दारिद्र्यमनिर्वेदं च यौवनम्। यदिदं दारुणं कर्म निन्दामि च करोमि च ॥ 14 ॥ ( नेपत्ये पटहशब्दः क्रियते। ) सज्जलकः —( कर्णं दत्त्वा ) अये प्रभातसमयः संवृत्तः। अपसरामि तावत्। ( निष्क्रान्तः सज्जलक। ) ( प्रविश्य ) चेटी –( साक्रन्दम् ) अय्यमेत्तेअ ! अम्हाणं रुक्खवाडिआपक्खदुवाले सन्धिं छिन्दिअ चोरो पविट्ठो। [ आर्यमैत्रेय ! अस्माकं वृक्षवाटिकापक्षद्वारे सन्धिं छित्वा चोरः प्रविष्टः। ] विदूषकः —( सहसोत्थाय ) किं भणादि होदि। [ किं भणति भवति। ] ( चेटी रुक्खवाडिअत्ति पठति। ) विदूषकः — चोरं छिन्दिअ सन्धी पविट्ठो। [ चोरं छित्वा सन्धिः प्रविष्टः। ] चेटी — हदास ! सन्धिं छिन्दिअ चोरो पविट्ठो। [ हताश ! सन्धिं छित्वा चोरः प्रविष्टः। ] विदूषकः — आअच्छ णं दंसेहि। [ आगच्छ ननु दर्शय। ] चेटी —( परिक्रम्य ) एदं। [ एतत्। ] विदूषकः — अविहा दासीए वुत्तेण कुक्कुरेण पवेसो किदो। भोदि ! आअच्छ , चारुदत्तस्यस पिअं णिवेदेमि। ( उभावुपगम्य ) भो चारुदत्त ! पिअं दे णिवेदेमि। [ अविहा दास्याः पुत्रेण कुक्कुरेण प्रवेशः कृतः भवति ! आगच्छ चारुदत्ताय प्रियं निवेदयामि। भोश्चारुदत्त ! प्रियं ते निवेदयामि। ] नायकः —( बुद्ध्वा ) किं मे प्रियम्। ननु वसन्तसेना प्राप्ता। विदूषकः — ण खु वसन्तसेणा , वसन्तसेणो पत्तो। [ न शलु वसन्तसेना , वसन्तसेनः प्राप्तः ] चेटी — भट्टदारअ ! अम्हाणं रुक्खआडिआपक्खदुवारे सन्धिं छिन्दिअ चोरो पविट्ठो। [ भर्तृदारक ! अस्माकं वृक्षवाटिकापक्षद्वारे सधिं छित्वा चोरः प्रविष्टः। ] नायकः — किं चोरः प्रविष्टः। विदूषकः — भो वअस्स ! सव्वहा तुवं भणासि , मुक्खो मेत्तेओ अपंडिदो मेत्तेओ त्ति णं मए सोभणं तं सुवणभंडअं तव इत्थे समप्पअन्तेण। [ भो वयस्य ! सर्वथा त्वं भणसि , मूर्खो मैत्रेयोऽपण्डितो मैत्रेय इति ननु मया शोभनं कृतं तत् सुवर्णभाण्डकं तव हस्ते समर्पयता। ] नायकः — किं भवता दत्तम्। विदूषकः — अह इं। [ अथकिम्। ] नायकः — कस्यां वेलायाम्। विदूषकः — अद्धरत्ते। [ अर्द्धरात्रे। ] नायकः — किमर्ध रात्रे। बाढं दत्तम्। विदूषकः — भो चारुदत्त। जं वेलं पडिवुद्धो आसि , तस्सिं वेलाअं खु दिण्णं। [ भोस्चारुदत्त ! यस्यां वेलायां प्रतिबुद्ध आसीः , तस्यां वेलाया खलु दत्तम्। ] नायक — हन्त हृतं सुवर्णभाण्डकम्। विदूषः — दाणिं मे हत्थे पडिच्छिदु अत्तभवं। [ इदानीं मम हस्ते प्रतीच्छत्वत्रभवान् ] नायकः —( आत्मगतम् ) कः श्रद्धास्यति भूतार्थं सर्वे मां तुलयिष्यति। शङ्कनीया हि दोषेषु निष्प्रभावा दरिद्रता ॥ 15 ॥ ( प्रविश्य ) ब्राह्मणी — रदणिए ! रदणिए ! आअच्छ। णहि सुणादि। कवाडसद्दं दाव करिस्सं। ( कथा करोति। ) [ रदनिके ! रदनिके ! आगच्छ। नहि शृणोति। कवाटशब्दं तावत् करिष्यामि। ] चेदी — हं , कवाकडसद्दो विअ। भट्टिदारिआ मं सद्दावेदि। ( परिक्रम्य ) भट्टिदारिए ! इअ मिह। [ हं , कवाटशब्द इव। भर्तृदारिका मां शब्दापयति। भर्तृदीरिके ! इयमस्मि। ] ब्राह्मणी — ण परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा। [ न परिक्षतो न व्यापादित आर्यपुत्र र्यमैत्रेयो वा। ] चेदी — कुसली भट्टिदारओ अय्यमेत्तेओ अ। जो तस्स जणस्स अलङ्कारो चोरेण गहीदो। [ कुशली बर्तृदारक आर्यमैत्रेयश्च। यस्तस्य जनस्यालङ्कारश्चोरेण गृहीतः। ] ब्राह्मणी — किं भणासि चोरेण गहीद त्ति। [ किं भणसि चोरेण गृहीत इति। ] चेटी — अह इ। [ अथ किं। ] ब्राह्मणी — किं णु खु तस्स जणस्स दादव्वं भविस्सदि। अहव एदं दइस्सं। ( कणौ स्पृष्ट्वा ) हद्धि तालीपत्तं खु एदं। सो दाणि परिअओ मं विडम्बोदि। किं दाणि करिस्सं। ( विचिन्त्य ) भोदु , दिट्ठं। मम ञादिकुलादो लद्धा सदसहस्समुल्ला मुत्तावली। तं पि अय्यउत्तो सोण्डीं रदाएण पडिच्छदि। भोदु , एवं दाव करिस्स। ( निष्क्रान्ता ) [ किन्नु खलु तस्मै जनाय जातव्यं भविष्यति। अथवैतद् दास्यामि। हा धिक् तालीपत्रं खल्वेतत्। स इदानीं परिचो मां विडम्बयति। किमिदानीं करिष्यामि। भवतु , दृष्टम्। मम ज्ञातिकुलाद् लब्धा शतसहस्रमूल्या मुक्तावली। तामप्यार्यपुत्रः शौण्डीपतया न प्रतीच्छति। भवतु , एवं तावत् करिष्यामि। ] विदूषकः — इमस्स अनधआरुप्पादिदस्स अवराहस्स किदे भवन्तं सीसेण पसादेमि। दाणिं मे हत्थे पडिच्छदु अत्तभवं। [ अस्यान्धकारोत्पादितस्यापरधस्य कृते भवन्तं शीर्षेण प्रसादयामि। इदानीं में हस्ते प्रतीष्यत्वत्रभवान्। ] नायकः — किं भवानिदानीं मां बाधते। भवांस्तावदविश्वासी शीलज्ञो मम नित्यशः। किं पुनः स कलाजीवी वञ्चनापण्डितो जनः ॥ 16 ॥ विदूषकः — मण्णे मए मन्दभग्गेण कुम्भीलस्स हत्थे दिण्णं। ( विषण्णस्तिष्ठति। ) [ मन्ये मया मन्दभाग्येन कुम्भीलस्य हस्ते दत्तम्। ] ( प्रविश्य ) ब्राह्मणी — रदणिए ! अय्यमेत्तेअं सद्दावेहि। [ रदनिके ! आर्यमैत्रेयं शब्दापय। ] चेटी — अय्यमेत्तेअ ! भट्टिदारिआ तुमं सद्दावेदि। [ आर्यमैत्रैय ! भर्तृदारिका त्वा शब्दापयति। ] विदूषकः — भोदि ! किं मं। [ भवति ! किं माम्। ] चेटी — आम। [ आम्। ] विदूषकः — एस आअच्छामि। ( उपसर्पति। ) [ एष आगच्छामि। ] ब्राह्मणी — अय्यमेत्तेअ ! इमं पडिग्गहं पडिगण्ह। [ आर्यमैत्रेय ! इमं प्रतिग्रहं प्रतिगृहाण। ] विदूषकः — अवत्थाविरुद्धो खु अअं पदाणविभवो। कुदो एदस्स आगमो। [ अवस्थाविरुद्धः खल्वयं प्रदानविभवः कुत एतस्यागमः। ] ब्राह्मणी — णं सट्ठि उववसामि। सव्वसारविभवेण बम्हणेण सोत्थि वाअइदव्वं ति एसो इमस्स आगमो। [ ननु षष्ठीमुपवसामि। सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यमित्येषोऽस्यागमः। ] विदूषकः — अट्ठमी खु अज्ज। [ अष्टमी खल्वद्य। ] ब्राह्मणी — पमादादो अदिक्कमो किदो। अज्ज पूआ णिव्वत्तीअदि। [ प्रमादाद् अतिक्रमः कृतः। अद्य पूजा निर्वर्त्यते। ] विदूषकः — अणणुरूवदाए पदाणस्स अणुक्कोसो विअ पडिभादि। ( जनान्तिकम् ) रदणिए ! किं करिस्सं। [ अननुरूपतया प्रदानस्यानुक्रोश इव प्रतिभाति। रदनिके ! किं करिष्यामि। ] चेदी —( अपवार्य ) किंणु खु तस्स जणस्स दादव्वं भविस्सदि त्ति एदण्णिमित्तं भट्टिदारओ सन्तप्पदि ति भट्टिदारिआ तव हत्थे दइअ अय्यउत्तं अणिरिणं करिस्सामि त्ति एवं करेदि। ता गण्ह एदं। [ किन्नु खलु तस्मै जनाय दातव्यं भविष्यतीत्येतन्निमित्तं भर्तृदारकः संतप्यत इति भर्तृदारिका तव हस्ते दत्त्वार्यपुत्रमनृणं करिष्यामीत्येव करोति। तद् गृहाणैतत्। ] ब्राह्मणी — उदअसम्भवदाए मुत्तावलीए तव अ दुललहदाए उवआरो बिस्सरिदो। गण्ह एदं। ( ददाति। ) [ उदकसम्भवतया मुक्तावल्यास्तव च दुर्लभतयोपचारो विस्मृतः। गृहाणैतत्। ] विदूषकः —( गृहीत्वा ) सववं दाव चिट्ठदु। रोदिदीविअ होदीए दिट्ठी। [ सर्वं तावत् तिष्ठतु। रादितीव भवत्या दृष्टिः। ] ब्राह्मणी — देवउलधूमेण रोदाविदा। [ देवकुलधूमेन रोदिता। ] विदूषकः — साविदासि तत्तहोदा चारुदत्तेण , जइ अलिअं भणासि। [ शापितासि तत्रभवता चारुदत्तेन यद्यलीकं भणसि। ] ब्राह्मणी — हद्धि। ( निष्क्रान्ता। ) [ हा धिक्। ] विदूषकः — एसा वाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ। ( उपगम्य ) भो ! इदं। [ एषा वाचा दुःखं रक्षित्वाश्रुभिः सूचयित्वा गता। भोः ! इदम्। ] नायकः — किमेतत्। विदूषकः — सरिसकुलदारसङ्गहस्स फलं। [ सदृशकुलदारसंग्रहस्य फलम्। ] नायकः — कि ब्राह्मणी मामनुकम्पते। विदूषकः — एवं विअ। [ एवमिव। ] नायकः – धिगात्मानम्। अद्य हतोऽस्मि। मयि द्रव्यक्षयक्षीणे स्त्रीद्रव्येणानुकम्पितः। अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ 17 ॥ विदूषकः – तत्तहोदी हिअएण तुमं याचेदि। अहं सीसेण याचेमि। गण्ह एदं। [ तत्रभवती हृदयेन त्वां याचते। अहं शीर्षेण याचे। गृहणैतत्। ] नायकः — तथा। ( गृहीत्वा ) वयस्य ! इमां मुक्तावलीं गृहीत्वा वसन्तसेनायाः सकाशं गच्छ। अर्तेषु काममुपलभ्य मनोरथो मे स्त्रीणां धनेष्वनुचितं प्रणयं करोति। माने च कार्यकरणे च विलम्बमानो धिग् भो ! कुलं च पुरुषस्य दरिद्रतां च ॥ 18 ॥ विदूषकः — अहो अप्पमुल्लस्स सुवण्णभण्डअस्स किदे सदसहस्समुल्ला मुत्तावली [ अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या। ] नायकः — वयस्य ! मा मैवम्। यं समालक्ष्य विश्वासं न्यासोऽस्मासु कृतस्तया। तस्यैतन्महतो मूल्यं प्रत्ययस्य प्रदीयताम् ॥ 19 ॥ ( निष्क्रान्ताः सर्वे। ) इति तृतीयोऽङ्कः। **************************************************** . अथ चतुर्थोऽङ्कः ( ततः प्रविशति सोत्कण्ठा वसन्तसेना , चित्रफलकमादाय वर्तिकाकरण्डहस्ता चेटी च। ) गणिका — हञ्जे ! पेक्खसि सरिसो तस्स जणस्स। [ हञ्जे ! प्रेक्षसे सदृशस्तस्य जनस्य। ] चेटी — अज्जुए ! तस्सिं हत्थिविमद्दकोलाहले बहुमाणपय्यत्थाए दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व। [ अज्जुके ! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्ट्या दूरतो दृष्टः स भर्तृदारक ईदृश एव। ] गणिका — तुमं दाव दक्को वेसवासजणो त्ति जणवादं पूरअन्ती अलिअं भणासि। [ त्वं तावद् दक्षो वेशवासजन इति जनवादं पूरयन्त्यलीकं भणसि। ] चेटी — किं एदं वेसवासजणो सव्वो दक्खिणो होइ त्ति। पेक्खदु अज्जुआ चम्पआरामे पिचुमन्दा जाअन्ति। अदिसरिस त्ति मम हिअअं अहिरमदि। परमत्थदो एव्व पसंसीअदि , णं कामदेवो। [ किमेतद् वेशवासजनः सर्वो दक्षिणो भवतीति। प्रेक्षतामज्जुका चम्पकारामे पिचुमन्दा जायन्ते। अतिसदृश इति मम हृदयमभिरमते। परमार्थत एव प्रशस्यते , ननु कामदेवः। ] गणिका — हञ्जे ! सहीजणेण अवहसणीअत्तणं अत्तणो परिहराणि। [ हञ्जे ! सखी जनेनापहसनीयत्वमात्मनः परिहारामि। ] चेटी — एदं जुज्जइ। सहीजणसपत्तिओ गणिआजणो णाण। [ एतद् युज्जते। सखीकजनसपत्नीको गणिकाजनो नाम। ] ( ततः प्रविशत्याभ रणहस्तापरा चेटी। ) चेटी — सुहं अज्जुआए। [ सुखमज्जुकायाः। ] गणिका — हञ्जे ! साअदं दे। [ हञ्जे ! स्वागतं ते। ] चेटी — अज्जुए ! अत्ता आणवेदि — इदं दुवारं पविट्ठं पोक्खरं उवावत्तिदं पवहणं। ता तुवरमाणमण्डणा गही दावउण्ठणा आअच्छदु त्ति। इह अलङ्कारं अलङ्करेदु अज्जुआ। [ अज्जुके ! अम्बाज्ञापयति — इदं द्वारं प्रविष्टं पुष्करमुपावर्तितं प्रवहणम्। तत् त्वरमाणमण्डना गृहीतावगुण्ठनागच्छत्विति। इहालङ्कारम्। अलङ्करो त्वज्जुका। ] गणिका — कं अय्यचारुदत्तो मण्डइस्सिदि। [ किमार्यचारुदत्तो मण्डयिष्यति। ] चेदी — णहि , जेण अलङ्कारो पेसिदो सो राअसालो सण्ठाणो। [ नहि , येनालङ्कारः प्रेषितः स राजश्यालः संस्थानः। ] गणिका — अवेहि अविणीदे। [ अपेह्यविनीते। ] चेदी — पसीददु पसीददु अज्जुआ। सन्देसं खु अहं मन्तेमि। ( पादयोः पतति। ) [ प्रसीदतु प्रसीदत्वज्जुका। सन्देशं खल्वहं मन्त्रयामि। ] गणिका — उट्ठेहि उट्ठेहि। कुसन्देसं असूआमि , ण तुवं। [ उत्तिष्ठोतिष्ठ। कुसन्देशायासूयामि , न तुभ्यम्। ] चेटी — किं अहं उत्तं भणामि। [ किमहमम् ‌ बा भणामि। ] गणिका — भणेहि अत्तं — जदा अय्यचारुदत्तो अभिसारइदव्वो तदा मम्डेमि त्ति। [ भणाम्बां यदार्यचारुदत्तोऽभिसारयितव्यस्तदा मण्डलामीति। ] चेटी — तह ( निष्क्रान्ता ) [ तथा। ] ( ततः प्रविशति सज्जलकः। ) सज्जलकः — कृत्वा निशायां वचनीयदोषं निद्रां च हित्वा तिमिरं भयं च। स एव सूर्योदयमन्दवीर्यः शनैर्दिवाचन्द्र इवास्मि भीतः ॥ 1 ॥ दिष्ट्या कर्मान्ते प्रभातम्। यावदिदानीं वसन्तसेनायाः परिचारिकाया मदनिकाया निष्क्रयार्थं मयेदं कृतम्। ( परिक्रम्य ) इदं वसन्तसेनाया गृहम्। यावत् प्रविशामि। ( प्रविश्य ) किन्नु खल्वभ्यन्तरस्था मदनिका। अथवा , पूर्वाह्णे गणिकानामभ्यन्तरे सान्निध्यम्। अतस्तत्रैव तथा भवितव्यम्। यावच्छब्दापयाभि। मदनिके ! मदनिके ! । चेटीः —( आकर्ण्य ) सज्जलअस्स विअ सरो। वावुदा अज्जुआ। ता उवसप्पिस्सं। ( उपगम्य ) इअम्हि। [ सज्जलकस्येव स्वरः। व्यापृताज्जुका। तदुपसर्पिष्यामि। इयमस्मि। ] सज्जलकः — इतस्तावत्। चेटी — किं तुवं सङ्किदवण्णो विअ। [ किं त्वं शङ्कितवर्ण इव। ] सज्जलकः — न खलु , किञअचित् कथयितुकामः। गणिका — हञ्जे इमं चित्तफलअं सअणीए ठावेहि। ( विलोक्य ) कहिं गआ हदासा। अहव अदूर्गआए होदव्वं। जाव णं पेक्खिस्सं। ( परिक्रम्यावलोक्य ) अम्मो इअं सा अदिसिणिद्धाए दिट्ठीए केण वि मणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठइ। तक्केणि एसो जो कोवि कएण मं याचेदि। [ हञ्जे ! इदं चित्रफलकं शयनीये स्थापय। कुत्र गता हताशा। अथवा अदूरगतया भवितव्यम्। यावगदेनां प्रेक्षिष्ये। अम्मो इयं सातिस्निग्धया दृष्ट्या केनापि मनुष्येण पिबहन्तीव सह मन्त्रयमाणा तिष्ठति। तर्कयाम्येष यः कोऽपि क्रयेण मां याचते। ] सज्जलकः — श्रूयतां रहस्यम्। गणिका — अजुत्तं पररहस्सं सोदुं , अहं गमिस्सं। [ अयुक्तं पररहस्यं श्रोतुम् , अहं गमिष्यामि। ] सज्जलकः — अपि वसन्तसेना ( इत्यर्धोक्ते ) गणिका — अहं अहिइदा एदाअं कहाअं। होदु , सुणिस्सं दाव भविस्सदि। ( पुनःप्रतिनिवृत्य स्थिता। ) [ अहमधिकृतैतस्यं कथायाम्। भवतु , श्रोष्यामि तावद् भविष्यति। ] सज्जलकः — किं दास्यति त्वां निष्क्रयेण। गणिका — सो एव्व एसो। होदु , सुणिस्सं। [ स एवैषः। भवतु , श्रोष्यामि। ] चेटी — सज्जलअ ! मम पदाणं पुढमं एव अज्जुआए उत्तं। [ सज्जलक ! मम प्रदानं प्रथमवेवाज्युकयोक्तम्। ] सज्जलकः — तेन हीममस्यै प्रयच्छ , एवं वक्तव्या च — अयं तव शरीरस्य प्रमाणादिव निर्मितः। अप्रकाश्यो ह्यलङ्कारो मत्स्नेहाद् धार्यतामिति ॥ 2 ॥ चेटी — पेक्खामि दाव। [ प्रेक्षे तावत्। ] सज्जलकः — गृह्यताम्। ( दर्शयति। ) चेटी — दिट्ठपुरुवो विअ अअं अलङ्कारो। [ दृष्टपूर्व इवायमलङ्गारः। ] गणिका — ममकेरको विअ अअं अलङ्कारो। [ मदीय इवायमलङ्कारः। ] चेटी — भणाहि भणाहि। को इमस्स आअमो। [ भण भण। कोऽस्यागमः। ] सज्जलकः — त्वत्स्नेहात् साहसंकृतम्। उभे — हं , साहसिओ। [ हं साहसिकः। ] चेटी —( आत्मगतम् ) आ , अज्जुआए खु इमस्स आइदी कम्मदारूणदाए उव्वेअणीआ संवुत्ता। ( प्रकाशम् ) हद्धि मम किदे उभअं संवुत्तं — तव सरीरं चारित्तं च। [ आ , अज्जुकायाः खल्वस्याकृतिः कर्मदारुणतयोद्वेजनीया संवृत्ता। हा धिग् मम कृते उभयं सशयितं संवृत्त — तव शरीरं चारित्रं च। ] सज्जलकः – उन्मत्तिके। साहसे खलु श्रीर्वसति। चेटी — अपण्डिदो खु सि। को हि णाम जीविदेण सरीरं विक्कीणिस्सदि अह कस्स गेहे इअं विस्सासवञ्चणा किदा। [ अपण्डितः खल्वसि। को हि नाम जीवितेन शरीरं विक्रेष्यति। अथ कस्य गेहे इयं विश्वासवञ्चना कृता। ] सज्जलकः — यथा प्रभात मया श्रुतं — श्रेष्ठिचत्वरे प्रतिवसति सार्थवाहपुत्रश्चारुदत्तो नाम। उभे — हुम्। सज्जलकः — अयि , विषादस्रस्तसर्वाङ्गी सम्भ्रमोत्फुल्ललोचना। मृगीव शरविदधाङ्गी कम्पसे नानुकम्पसे ॥ 3 ॥ चेटी — सच्चं भणाहि। सत्थवाहकुले साहसं करन्तेण तुए कोच्चि कुलवुत्तो सत्थेण अत्थि परिक्खदो वावादिदो वा। [ सत्यं भण। सार्थकवाहकुले साहसं कुर्वता त्वया कश्चित् कुलपुत्रः शस्त्रेणआस्ति परिक्षतो व्यापादितो वा। ] गणिका — सुट्ठु , मए वि पुच्छिदव्वं एदाए पुच्छिदं। [ सुष्ठु मयापि प्रष्टव्यमेतया पृष्टम्। ] सज्जलकः — मदनिके ! एतावत् किं न पयप्तिं , द्वितीयमप्यकार्यं करिष्यामि। न खल्वत्र शस्त्रेण कश्चित् परिक्षतो वा। चेटी — सज्जलअ ! सच्चं। [ सज्जलक ! सत्यम्। ] सज्जलकः — सत्यम्। चेटी — साहु सज्जलअ ! पिअं मे। [ साधु सज्जलक ! प्रियं में। ] सज्जलकः — किं किं प्रियमित्याह। ईदृशं मदनिके ! त्वत्स्नेहबद्धहृदयो हि करोम्यकार्यं सन्तुष्टपूर्वपूरुषेऽपि कुले प्रसूतः। रक्षामि मन्मथगृहीतमिदं शरीरं मित्रं च मां व्यपदिशस्यपरं च यासि ॥ 4 ॥ चेटी — सज्जलअ ! सुणाहि। अज्जुआए अअं अलङ्कारो ( कर्णे। ) एवं विअ। सज्जलक ! श्रृणु ! अज्जुकाया अयमलङ्गारः। एवमिव। ] सज्जलकः — एवम्। अज्ञानाद् या मया पूर्वं शाखा पत्रैर्वियोजिता। छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराक्षितः ॥ 5 । गणिका — सन्तप्पदि त्ति तक्केमि एदेण अकय्यं किदं ति। [ संतप्यत इति तर्कयामि एतेनाकार्यं कृतमिति। ] सज्जलकः — मदनिके ! एवं गते किं कर्तव्यम्। चेटी — तहिं एव णिय्यादेहि। णहि मण्डइस्सदि अज्जुअ। [ तत्रैव निर्यातय। नहि मण्डयिष्यत्यज्जुका। ] सज्जलकः — अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुषैर्ग्राहयिष्यति चेदत्र किं करिष्यामि। चेटी — मा भाआहि। कुलवुत्तो खु सो गुणाणं परितुस्सादि। [ मा बिभीहि। कुलपुत्रः खलु स गुणै परितुष्यति । ] गणिका — साहु भद्दे ! अवत्तव्वासि , अलङ्किदा विअ एदेण वअणेण। [ साधु भद्रे ! अवक्तव्यासि , अलङ्कृतेवैतेन वचनेन। ] सज्जलकः — सर्वथा न शक्ष्याम्यहं तत्र गन्तुम्। चेटी — अअं अण्णो उवाओ। [ अयमन्य उपायः। ] गणिका — एदे गुणा वेसवासस्य। [ एते गुणा वेशवासस्य। ] सज्जलकः — कोऽन्य उपायः। चेटी — णं तव रूपञ्ञा अज्जुआ अवि स्त्थवाहपुत्तो अ। [ ननु तव रूपज्ञा अज्जुकापि सार्थवाहपुत्रश्च। ] सज्जलकः — न खलु। चेटी — तेण हि इमं दाव अलङ्कारं तस्स सत्थवाहपुत्तस्स वअणादो अज्जुआए णिय्यादेहि। एवं च किदे तुवं रक्खिदो , सो अय्यो अ अणिव्विण्णो भविस्सदि। अहं च पीडिदा ण भविस्सं। आदु अज्जुअं च पुणो वञ्चिअ पुणो एव्व दासभावो भवे। तेन हीमं तावदलङ्कारं तस्य सार्थवाहपुत्रस्य वचनादज्जुकायै निर्यातय। एवं च कृते त्वं रक्षितः , स आर्यश्चानिर्विण्णो भविष्यति। अहं च पीडिता न भविष्यामि। अथवा अज्जुकां च पुनर्वञ्चयित्वा पुनरेव दासभावो भवेत्। ] सज्जलकः — मदनिके ! प्रीतोऽस्मि। गणिका — भोदु , अब्भन्तरं पविसिअ उवविसामि। ( तथा करोति। ) [ भवत्वभ्यन्तरं प्रविश्योपविशामि। ] चेटी — सज्जलअ ! आआच्छ , कामदेवउले मं पडिवालेहि। अहं ओसरं जाणिअ अज्जुआए णिवेदेभि। [ सज्जलक ! आगच्छ , कामदेवकुले मां प्रतिपालय। अहमवसरं ज्ञात्वाज्जुकायै निवेदयामि। ] सज्जलकः — बाढम्। ( निष्कान्तः। ) ( ततः प्रविशत्यपरा चेटी। ) चेटी — सुहं अज्जुआए। एसो सत्थवाहपुत्तस्स अआसादो कोच्चि बम्हणो आअदो अज्जुअं पेक्खिदुं। [ सुखमज्जुकायाः। एष सार्थवाहपुत्रस्य सकाशात् कश्चिद् ब्राह्मण आगतोऽज्जुकं प्रेक्षितुम्। ] गणिका —( सादरम् ) गच्छ , सिग्घं पवेसेहि णं। [ गच्छ , शीघ्रं प्रवेशयैनम्। ] चेटी — तह। ( उपसृत्य ) एदु एदु अय्यो। [ तथा। एत्वेत्वार्यः। ] ( प्रविश्य ) विदूषकः —( सर्वतो विलोक्य ) अहो गणिआवाडचस्स सस्सिरीअदा। णाणापट्टणसंमागदेहि आअमिएहि पुत्थआ वाईअन्ति। संओजअन्ति अ आहारप्पआरणि। वीण वादीअन्ति। संओजअन्तिअ आहरप्पआराणि। वीणा वादीअन्ति। सुवण्णआरा अलह्कारप्पआराणि आदरेण जोजअन्ति। [ अहो गणइकावाटस्य सश्रीकता। नानापट्टणसमागतैरागमिकैः पुस्तकानि वाच्यन्ते। संयोज्जन्ते चाहारप्रकाराः। वीणा वाद्यन्ते। सुवर्णकारा अलङ्कारप्रकारानादरेण योजयन्ति। ] चेदी — एसा अज्जुआ। उवसप्पदु अय्यो। [ एषाज्जुका। उपसर्पत्वार्यः ] विदूषकः —( उपगम्य ) सोत्थि होदीए। [ स्वस्ति भवत्यै। ] गणिका — आअदं अय्यस्स। हञ्जे ! आसणं अय्यस्स , पादोदअं च। [ स्वागतमार्यस्य। हञ्जे ! आसनमार्यस्य , पादोदकं च। ] विदूषकः —( आत्मगतम् ) सव्वं आणेदु वज्जिअ भोअणं। [ सर्वमानयतु वर्जयित्वा भोजनम्। ] चेटी — जं अज्जुआ आणवेदि। ( आसनं ददाति पादोदकं च। ) उवविसदु अय्यो। [ यदज्जुकाज्ञापयति। उपविशत्वार्यः .] विदूषकः —( उपविश्य ) पडिच्छदु आसणं भोदी। अहं किञ्चि भणिदुं आअदो। [ प्रतीच्छत्वासनं भवती। अहं किञ्चिद् भणितुमागतः। ] गणिका —( उपविश्य ) अवहिदम्हि। [ अवहितास्मि। ] विदूषकः — केत्तिअमत्तं खु तस्स अलङ्कारस्स मुल्लप्पमाणं। [ कियन्मात्रं खलु तस्यालह्कारस्य मूल्यप्रमाणम्। ] गणिका — किणिमित्तं खु अय्यो पुच्छदि। [ किन्निमित्तं खल्वार्यः पृच्छति। ] विदूषकः — सुणादु भोदी। तत्तहोदो चारुदत्तस्स गुणप्पच्चाअणणिमित्तं खु तुए अलङ्कारो तहि णिक्खित्तो। सो तेण जूदे हारिदो। [ शृणोतु भवती। तत्रभवतश्चारुदत्तस्य गुणप्रत्यायननिमित्तं खलु त्वयालङ्गारस्तस्मिन् निक्षिप्तः। स तेन द्यूते हारितः। ] गणिका — जूदे। जुज्जइ। तदो तदो। [ द्यूते। युज्यते। ततस्ततः .] विदूषकः — तदो तस्स अलङ्कारस्स मुल्लभूदं इमं मुत्तावलिं पडिच्छदु भोदी। [ ततस्तस्यालङ्कारस्य मूल्यभूतामिमां मुक्तावलीं प्रतीच्छतु भवती। ] गणिका —( आत्मगतम् ) धि क्खु गणिआभावं। लुद्धत्ति मं तुलअदि। जइ ण पडिच्छे , सो एव्व दोसो भविस्सदि। ( प्रकाशम् ) आणेदु अय्यो। [ धिक् खलु गणिकाभावम्। लुब्धेति मां तुलयति। यदि न प्रतीच्छामि , स एव दोषो भविष्यति। आनयत्वार्यः। ] विदूषकः — इदं गण्हदु भोदी। [ इदं गृह्णातु भवती। ] गणिका —( गृहीत्वा ) पडिच्छिदं तए त्ति अय्यो णिवेदेदु। [ प्रतीष्टं तयेत्यार्यो निवेदयतु। ] विदूषकः —( आत्मगतम् ) कोवि उवआरो वि ण एदाए भणिदो। ( प्रकाशम् ) एवं होदु। ( दत्त्वा निष्क्रान्तः। ) [ कोऽप्युपचारोऽपि नैतया भणितः। एवं भवतु। ] गणिका — साहु। भाअधेअपरिवुत्तदाए दसाए माणावमाणं रक्खिदं [ साधु चारुदत्त ! साधुष। भागदेयपरिवृत्ततायां दशायां मानावमानं रक्षितम्। ] ( प्रविश्य ) मदनिका — अज्जुए ! सत्थवाहपुत्तस्स सआसादो कोच्चि मणुस्सो आअदो इच्छइ अज्जुअं पेक्खिउं। [ अज्जेके ! सार्थवाहपुत्रस्य सकाशात् कश्चिद् मनुष्य आगत इच्छत्यज्जुकां द्रष्टुम् । ] गणिका — किं दिट्ठपुरुवो णवदंसणो वा। [ किं दृष्टपूर्वो नवदर्शनो वा। ] मदनिका — अज्जुए ! णहि , तस्सकेरओ त्ति मे पडीभादि। [ अज्जुके ! नहि , तदीय इति मे प्रतिभाति। ] गणिका — गच्छ , पवेसेहि णं। [ गच्छ , प्रवेशयैनम्। ] मदनिसा — तह। ( निष्क्रान्ता। ) [ तथा। ] गणिका — अहो रमणिज्जदा अज्ज दिवसस्स। [ अहो रमणईयताद्य दिवसस्य। ] ( ततः प्रविशति मदनिका सज्जलकेन सह। ) सज्जलकः — कष्टा खल्वात्मशङ्का नाम , यः कश्चिच्चकितगतिर्निरीक्षते मां सम्भ्रान्तो द्रुतमुपसर्पति स्थितो वा। सर्वांस्तांस्तुलयति दोषतो मनो मे स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥ 6 ॥ मदनिका — एसा अज्जुआ। उवसप्पदु अय्यो। [ एषाज्जुका। उपसर्पत्वार्यः। ] सज्जलकः —( उपसृत्य ) सुखं भवत्यै। गणिका – साअदं अय्यस्स। हञ्जे ! आसणं देदु अय्यस्स। [ स्वागतमार्यस्य। हञ्जे ! आस्नं दीयतामार्याय। ] सज्जलकः — भवतु भवतु। गृहीतमासनम्। त्वरिततरमनुष्ठेयं किञ्चित् कार्यमस्ति। गणिका — एवं भणादु अय्यो। [ एवं , भणत्वार्यः। ] सज्जलकः — आर्यचारुदत्तेनास्मि प्रेषितः – यस्तावदलङ्कारो मम हस्ते निक्षिप्तः , स त्वसंभोगमलिनतया गृहस्यासान्निध्यात् कौडुम्बिकानां दुरारक्षः। तद् गृह्यताम् इति। गणिका — इमं तस्स चारुदत्तस्य देदु अय्यो। [ इमं तस्मै चारुदत्ताय ददात्वार्यः। ] सज्जलकः — भवति ! न खल्वहं गच्छामि। गणिका — अहं जाणामि तस्य गेहे साहसं करिअ आणीदो अअं अलङ्कारो। तस्सगुणाणि अणउकम्पेदु अय्यो। [ अहं जानामि तस्य गेहे साहसं कृत्वानीतोऽयमलङ्कारः। तस्य गुणाननुकम्पतामार्यः .] सज्जलकः —( आत्मगतम् ) कथं विदितोऽस्म्यनया। गणिका — को एत्थं , पवहणं दाव अय्यस्स। [ कोऽत्र , प्रवहणं तावदार्याय। ] मदनिका — णेमिसद्दो विअ सुणीअदि। आअदेण पवहणेण होदव्वं [ नेमिशब्द इव श्रूयते। आगतेन प्रवहणेन भवितव्यम् ] गणिका —( स्वैराभरणैर्मदनिकामलङ्कृत्य ) आरुहदु अय्यो अय्याए सह पवहणं। [ आरोहत्वार्य आर्यया सह प्रवहणम्। ] मदनिका — अज्जुए ! किं एदं। [ अज्जुके ! किमेतत्। ] गणिका — मा खु मा खु एवं मन्तिअ। अय्या खु सि दाणिं संवुत्ता। गण्हदु अय्यो। ( मदनिकां गृहीत्वा सज्जलकाय प्रयच्छति। ) [ मा खलु मा खल्वेवं मन्त्रयित्वा ] [ आर्या खल्वसीदानीं संवृत्ता। गुह्णात्वार्यः। ] सज्जलकः —( आत्मगतम् ) भोः ! कदा भवत्याः प्रतिकर्तव्यं भविष्यति। अथवा , शान्तं शान्तं पापम्। नरः प्रत्युपकारार्थी विपत्तौ लभते फलम्। द्विषतामेव कालोऽस्तु योऽस्या भवतु तस्य वा ॥ 7 ॥ ( तया सह निष्क्रान्तः सज्जलकः। ) गणिका – चउरिए ! । [ चतुरिके !] ( प्रविश्य ) चेटी — अज्जुए ! इअम्हि। [ अज्जुके ! इयमस्मि। ] गणिका — हञ्जे ! पेक्ख जागरन्तीए मए सिविओ दिट्ठो। एवं। [ हञ्जे ! प्रेक्षस्वजाग्रत्या मया स्वप्नो दृष्ट एवम्। ] चेटी — पिअं मे , अमुदंकणाडअं संवुत्तं। [ प्रियं मे , अमृताङ्कनाटकं संवृतम्। ] गणिका – एहि इमं अलङ्करं गण्हिअ अय्यचारुद्त्तं अभिसरिस्सामो। [ एहीममलंकारं गृहीत्वार्यचारुदत्तमभिसरिष्यावः। ] चेटी — अज्जुए ! तह एदं पुण अभिसारिआसहाअभूदं दुद्दिणं उण्णमिदं। [ अज्जुके ! तथा। एतत् पुनरभिसारिकासहायभूतं दुर्दिनमुन्नमितम्। ] गणिका — हदासे ! मा हु बड्ढावेहि। [ हताशे ! मा खलु वर्धय। ] चेटी — एदु एदु अज्जुआ। [ एत्वेत्वज्जुका। ] ( निष्क्रान्ते। ) इति चतुर्थोऽङ्कः। ********************************************************** ]