[[बिल्हणीयम् Source: EB]]
[
॥ बिल्हणीयम् ॥
वन्दे प्रभाविनममुं सरसं महान्तम् ।
सन्तानवज्जगति सन्ततिमूलभूतम् ।
लावण्यशोभितमहर्निशसङ्गमातम् ।
सौन्दर्यपायिनमहं मधुयौवनारव्यम् ॥
(नान्द्यन्ते)
शशी – अयि भोः सभास्ताराः अद्य वयं काश्मीरपण्डित बिल्हणकवेः जीवितमुद्दिश्यकृतं नाटकं बिल्हणीयं प्रयोक्तम् उद्यतास्मः । तदर्थं मे जाया ज्योत्स्ना अस्मिन् नाटके यामिनी पात्रधारी भविष्यति ।
ज्योत्स्ना – (सवेगं प्रविश्य) अरे प्रिय किमर्थं मम नाम सर्वेषां समक्षं घोषयसि । नाहमुक्ताऽस्मि । यत्किमपि भवता नाटकमुद्दिश्य । किमेतत् नाटकम् ? कोऽयं कविः ? सविस्तरं कथय प्रथमतः । अनन्तरं यदि इच्छा भवेत् तर्हि नटिष्यामि ।
शशी – अधुना कथयितुमेव अत्राऽगतोऽस्मि । कथयामि श्रृणु । अस्य नाटकस्य नाम बिल्हणीयम् । अस्य नाचकस्य कर्ता गीर्वाणान्ध्रभाषाप्रवीणः कलाभिमानी महाकविः पण्डित परीक्षित् शर्मा ।
ज्योत्स्ना – अयं महाकविः कथम् ?
शशी – अयं यशोधरा महाकाव्यकर्ता । तस्मात् अयं महाकविः ।
ज्योत्स्ना – कलाभिमानी कथम् ?
शशी – ललितगीतालहरी इति, अक्षय गीत रामायणमिति च गेयकाव्यद्वयं लिलेख तस्मात् कलाभिमानी । अस्य गौर्वाणगेयचक्रतर्तीति नामान्तरमपि विद्यते ।
ज्योत्स्ना –पण्डितः कथम् ।
शशी – अयम् आबाल्यं गीर्वाणान्ध्रभाषाद्वये कृतपरिश्रमः । तयोः भाषयोः पदवीरश्च । अयं विंशति संवत्सराणि शालासु गीर्वाणान्ध्राग्ल भाषाः बोधयामास ।
ज्योत्स्ना – अधुना विदितास्मि । अहं सानन्दम् अस्मिन्नाटके बहुरूपी भविष्यामि ।
शशी – प्रिये ज्योत्स्ने अस्मिन् वसन्तर्तौ किञ्चित् सङ्गीतकं श्रावय ।
ज्योत्स्ना – प्रिय, श्रुणु श्रावयामि ।
गीतम् (वसन्तरागे)
अये सङ्कुल जीवन सुखकर मधुर हसन्तम् ।
गाय गाय वसन्त रागिणि ऋतुराज वसन्तम् ॥ ध्रु. ॥
शशि पिककीर मयूर मधुव्रत निचय समाकुल सुषमाकान्तम् ।
सकलाशावृत चटुल समीरण शीतल पूत सुगन्ध विभान्तम् ॥ 1 ॥
युवतीजन हृदयारविन्द मधुबिन्दु गुञ्जन चपल मिलिन्दम्
मदनानल ज्योतिर्मय सूनपरागातिशयानन्तानन्दम् ॥ 2 ॥
धरणियुवतीरञ्जन प्रथमसमागम सन्ततबहुनिरतम्
विकसित नीरज रागपराग विचर्चित मधुपरिमल हसितम् ॥ 3 ॥
खगकुल कोकिल कूजन मङ्गलवाद्य सुनादावलि कलितम्
बम्भर गुञ्जन शब्दायित ऋतुगुणगण नामावलि लसितम् ॥ 4 ॥
शशी – (आकर्ण्य) प्रिये ज्योत्स्ने मदनाभिरामनृपतेः पुत्रिका यामिनी सङ्गीतराज्ञी गायन्ती आस्ते । एहि गच्छावः श्रोतुम् । (इति उभौ गच्छतः)
(सङ्गीत शालायां मृदङ्ग मर्दल वीणा पणव वेणु इत्यादयः सन्ति, यामिनी वीणा वादयन्ती गायन्ती आस्ते । तस्याः निकटे देवी रतिः उपविश्य गानं श्रुणोति)
गीतम् (भीमपलासरागे)
आयाता मधुर मधुमामिनी । मुग्धवधूजन जीवनदायिनी
मलयानिल चञ्चल गामिनी । मधुमय जीवित वसन्तभामिनी ॥ ध्रु. ॥
चिरयति मे जीवन वसन्तदाता । अभिनव यौवन मदसम्भरिता ।
रसमय प्रियतम पदसङ्गीता । वल्लभ प्रतिकृति दर्शनरमिता ॥ 1 ॥
निन्दति स्वान्तं रञ्जित सन्न्ध्यारागम् । शतथा मञ्जुल गन्धिल कुलुमपरागम ।
मधुरं गायति प्रियतम मोहनरागम् । प्रथमति लोके प्रेमलतानुरागम् ॥ 2 ॥
परभृतविरुतं कुरुते हृदयम् । पति विरहित जनमनुरागमयम् ।
कर्षति चापं मुञ्चति शरनिचयम् । अबलाजन हृदयमदयमदनोऽयम् ॥ 3 ॥
रतिः – बाले यामिनि त्वं सङ्गीत नाट्ययोः गायिका अपिच अभिनेत्री सञ्जातासि । सम्यक् गेयमिदं गीतं त्वया । अस्य गीतस्य अर्थः कः विस्तारय पुत्रि ।
यामिनी – मातः अहं सङ्गीतं जानामि, नाट्यं जानामि, किन्तु अस्य गीतस्यार्थं न जाने ।
रतिः – अर्थं विना पठनं गानं च व्यर्थं भवति ।
यामिनी – जानामि मातः । नटने गायने च विना संस्कृत साहित्यस्य ज्ञानं तन्निष्टः रसः पराकाष्ठां न प्राप्नोति ।
रतिः – अर्थज्ञानं विना आनन्दः कथं भवति।
यामिनी – न भवति । किन्तु केवल श्रवण दर्शनमात्रेण अर्धानन्दो भवति ।
रतिः – कस्येयं गीतिः ।
यामिनी – गीर्वाण गेयचक्रवर्तिनः गीतिरियमिति जगति प्रथा वर्तते ।
रतिः – योवा कोवा भवतु इयं गीतिका श्रवणानन्दकरी केवलं नहि किन्तु अत्यन्तात्मानन्दकारिणी भवति ।
यामिनी – जननि, मे संस्कृत साहित्याभ्यासे अत्यन्त आग्रहः वर्तते । भवती पितरं निवेद्य संस्कृत काव्पप्रपञ्चपठने सुव्यवस्थां कारय ।
रतिः – बाले अहमपि तथैव भावयामि । संस्कृतज्ञानेन विना सर्वाः कलाः निष्फलाः, सकलाः विद्याः प्राणहीनाः भवन्ति । सर्व अभ्याससमुदायः संस्कृतात्माहीनः निर्जीवः भवति। संस्कृतज्ञानेन विना कलाभिमानः विडम्बनाप्रायः भवति ।
रतिः – बाले त्वं सर्वाङ्ग सुन्दरी । सत्यं यामिनी इव राजसे । किन्तु यदि प्रसन्नचन्द्रस्य आविर्भावः भवेत् तर्हि सर्व जीवितं कलामयं भवत्येव ।
यामिनी – (अवहित्थया वीणां पार्श्वे निक्षिप्य उत्तिष्ठति)
रतिः – (हसन्ती) बाले कथं त्वं लज्जावनताऽसिः ?
(ततः प्रविशति वेत्रवती)
वेत्रवती – तत्र भवति राज्ञि अभिवादयेऽहम् । (इति अभिवादनं करोति) तत्रभवत्योः उपस्थितीः अपेक्ष्यते महाराजेन ।
रतिः – हञ्जे, त्वं गच्छ । आवाम् आगच्छावः ।
वेत्रवती – यथाज्ञापयति देवी । (इति नमस्कृत्य गच्छति)
रतिः – बाले यामिनि एहि गच्छावः । (इति यामिन्यासार्थं गच्छति)
(यवनिका पतति)
********************************************************************
.
द्वितीयं दृश्यम्
(मदनाभिराम नृपतिः सिंहासने उपविष्टः परिचारिके वीजयतः अमात्यः किञ्चित् दूरे पार्श्वतः आसने उपविष्टः)
मदनः – अमात्य शेखर, अद्य सर्वत्रापि देशे घोषणा कर्तव्या ।
अमात्यः – कामुद्दिश्यघोषणाकर्तव्या निवेदयन्तु भवन्तः ।
मदनः – अमात्य शेखर, सङ्गीतनाट्याभिनिवेशिनां युवतीनां संस्कृतं पाठयितुं एकः काव्यालङ्कारज्ञः पण्डितः अनुपदमेव अपेक्ष्यते इति घोषणां कारयन्तु ।
अमात्यः – महाराज कुमार्याः संस्कृताध्यापने काव्यालङ्करणज्ञस्य आवश्यकता कथं वर्तते । अस्मदीय राज्ये बहवः पण्डितोत्तमाः सन्ति । तेषु यः कश्चन नियुक्तः यदि भवेत् सर्वमपि सुव्यवस्तं भवेत् इति मे अभिप्रायः ।
मदनः – साधूक्तं भवता । किन्तु अत्रस्थाः पण्डिताः पण्डितं मन्यमानाः । ते अतीव छान्दसाः उत डाम्बिकाः, नोचेत् सर्वशास्त्राधीतारः नाहं जाने ।
अमात्यः – बहवः वैयाकरणाः वर्तन्ते ।
मदनः – वैयाकरणाः कविताकन्यायाः जनकोपमाः भवन्ति । ते न जानन्ति कविता सौन्दर्यम् ।
अमात्यः – विना च व्याकरणं संस्कृताध्ययनं कथं भविष्यति महाराज । ।
मदनः – अमात्यवर्य जानामितत् । किन्तु कलाभिमानिनां अधिक व्याकरण पाण्डित्यं मा भवतु । तेषां तेन पाण्डित्येन उपयोगः नास्ति । कवितायाः भाषायश्च यावत् आवश्यकी तावत् केवलं व्याकरणं सम्यक् अध्ययनीयं वर्तते ।
अमात्यः – तथा यदि भाति भवतां ऊहाप्रपञ्चे, तर्हि तार्किकाः विद्यन्ते राज्ये । विना च व्याकरणतर्क शास्त्राध्ययनं संस्कृतभाषाध्ययने पाटवः न भवति ।
मदनः – महामात्य, कलाभिमानिनां तर्केण किं प्रयीजनम् । तार्किकाः अलर्क समानाः । ते कविता कन्यायाः भ्रातृस्थानं भजन्ते ।
अमात्यः – मदन भूपते, एवं यदि भवेत् तर्हि मीमांसकाः सन्ति राज्ये । मीमांसाशास्त्रं ज्ञानदायकं भवति । तच्च शास्त्रं सर्वशास्त्राणां आयतनं भवति ।
मदनः – मन्त्रिवर्य, मीमांसकाः इहलोकं सन्त्यज्य परलोक चिन्तकाः भवन्ति । तस्मात् ते नपुंसकप्रायाः इति केषाञ्चन मतम् । तैः शास्त्रिभिः कलाविदां, कलाभिज्ञानानां न किमपि प्रयोजनं विद्यते ।
अमात्यः – तर्हि काव्यालङ्कारालङ्कृताय पण्डिताय घोषणां कारयिष्यामि ।
मदनः – शीघ्रं कारयन्तु घोषणाम् ।
दौवारिकः – (प्रविश्य) महाराज । बिल्हणोनाम कश्चन कविः काश्मीर देशात् समागतः द्वारि तिष्ठति तत्रभवतः द्रष्टुम् ।
मदनः – अनुपदं प्रावेशय तं काश्मीर कविम् ।
दौवारिकः – यथाज्ञापयति देवः । (इति प्रणम्य गच्छति)
मदनः – अमात्यवर्य, वयं अभ्यागतं विचारयिष्यामः । कोऽयमिति ।
अमात्यः – काश्मीरदेशात् समागतः इत्यनेन ज्ञायते, अयं काश्मीरदेश संस्कृतपण्डितः कविश्च इति ।
मदनः – पश्यामः ।
(ततः प्रविशति कविवेषे बिल्हणः)
बिल्हणः – (हस्तमुद्यम्य) स्वस्ति भवते ।
विभाति लोके गगनं प्रशान्तम् । मृगाङ्कभाभिः प्रिययामिनीषु ।
किमत्र चित्रं तव राज्यपालने । दिवाऽनिशं कीर्तित चारुचन्द्रमाः ॥
मदनः – भोः कविवर्य भवतः कवितया वयं प्रसन्नास्मः । अत्रोऽपविशन्तु भवन्तः । (इति आसनं दर्शयति)
अमात्यः – कविपुङ्गव तत्र भवन्तः काव्यालङ्करणज्ञाः इति मे मनीषा ।
बिल्हणः – अयि अमात्य शेखर ।
काव्यालङ्कार तज्ञोहम् । कवितासौन्दर्यमोहितः ।
राजाऽहं कविताराज्ये । मकुटेन विना भुवि ।
अमात्यः – साधु कविवर्य । काश्मीरदेशात् भवन्तः अत्र आहूताः इव समागतवन्तः कथं निवेदायन्तु ।
बिल्हणः – अमात्यवर्य ।
विद्वानहं कविश्चैव । देशभक्तः कलाप्रियः ।
ब्राह्मीकटाक्षपूतोऽहम् । राष्ट्रालोकन तत्परः ॥
तस्मात् अस्मदीय पवित्र भारतवर्षं द्रष्टुं समुत्सुकः सकलधराधिपमण्डलं मदनाभिरामनृपतिं च द्रष्टुं समागतोऽस्मि ।
अमात्यः – कविवर्य, नानानारीं निष्फला लोकयात्रा इति शास्त्रप्रमाणं विद्यते । भवान् एकाकी कथं समागतोऽस्ति ।
बिल्हणः – शास्त्रप्रमाणं वर्तते । किन्तु अहं एकाकी, ब्रह्मचारीच, तस्मादेव भारतवर्षं द्रष्टुं समागतोऽस्मि ।
मदनः – भारतवर्षदर्शनेन कोलाभः वर्तते ।
बिल्हणः – महाराज, प्रत्येकदेशभक्तस्य भारतराष्ट्र दर्शनं योग्यं भवति । सर्व भारतराष्ट्रदर्शनेन निखरा देशभक्तिः भवति जनस्य ।
मदनः – अयि भोः कविवर्याः भवन्तः अस्मिन् राज्ये कति दिवसाः स्थास्यन्ति ।
बिल्हणः – महाराज वयं भ्रमराः इव इतस्ततः ज्ञानमधुसञ्चयनार्थं भ्रमामः । नाहं जाने कति दिवसाः अत्राहं स्थास्यामीति ।
मदनः – कविवर्य, भवान् कतिपय वत्सराणि अत्रैव अस्मदीय राज्ये स्थित्वा मम कुमार्यै काव्यालङ्कारशास्त्रं पाठयन्तु इति अस्मदीय देशः ।
बिल्हणः – महाराज अहं भवतां आदेशं स्वीकृत्य शिक्षको भूत्वा संस्कृतभाषां काव्यालङ्कारशास्त्रञ्च अध्यापयेयम् ।
मदनः – मे कुमारी यामिनी सङ्गीतनाट्ययोः निष्णाता तस्यै अध्यापनीयं वर्तते ।
बिल्हणः – महाराज, मम कश्चित् नियमः विद्यते ।
मदनः – कोऽयं नियमः ?
बिल्हणः – अहं मम जीवने कुष्ठिरोगिणं न पश्येयम् इति ।
मदनः – अस्मदीयदेशे कुष्ठिरोगिणः नसन्ति ।
बिल्हणः – निरस्त कुष्ठिरोगिणं देशं कुर्वन्त्विति मम विज्ञप्तिः ।
मदनः – मा विचारयन्तु भवन्तः । सर्वं यथायोग्यं कुर्याम् ।
अमात्यः – महाराज, अम्बरमणिः गगनमध्यम् आरोहति त्वर्यतां मध्याह्नभोजनाय ।
मदनः – हाम्, अद्य सभापरिसमाप्ता । अमात्यवर्य बिल्हण महाकवये योग्यं सुसज्जितं वसति स्थानं प्रकल्पयन्तु । (इति निर्गम्छति)
(यवनिका पतति)
************************************************
.
तृतीयं दृश्यम्
(मदनाभिरामनृपतिः अमात्यश्च उपविष्टौ स्वीय स्थानयोः)
मदनः – अमात्यशेखर अस्मदीय भाग्यवशात् अस्माकम् अप्रयत्नेन कुमार्याः शिक्षणायै एकः महाकविः अस्मदीय गेहं सम्प्राप्तः । स्वयं तीर्थक्षेत्रं यत् अवगाहनार्थं गम्यते, तदेव अस्मदीय सम्मुखं समागतम् ।
अमात्यः – सत्यमुदीरितं भवद्भिः । (इति शङ्कते)
मदनः – किमपि भवद्भिः आशङ्कयते ।
अमात्यः – महाराज, अयं कविः, युवाः, सुन्दरः, पण्डितः, अलङ्कारशास्त्रज्ञः । यदि अयं कुमार्याः शिक्षकः भवेत् तर्हि क्षत्रिय कुलस्य कलङ्को भविष्यतीति मया आशङ्क्यते ।
मदनः – मन्त्रिवर्य, वयं सुक्षत्रियाः ते ब्राह्मणाः कवयः । गौतम धर्मसूत्रानुसारं सलोम विलोम विवाहः मा भूयात् इति केवलम् अस्मदीय अभिप्रायः ।
अमात्यः – महाराज, यामिनी तन्वी, श्यामा, सङ्गीतनाट्यनिष्णाताः । अस्मिन् सन्दर्भे गुरुशिष्यभावनापेक्ष्या प्रियप्रेयसीभावः शतथा स्पष्टं सन्दृश्यते ।
मदनः – भवद्भिः प्रतिपादितं सत्यं प्रितभाति मे ।
अमात्यः – अत्र विद्यमानविषयाः एतादृशाः विद्यन्ते । यस्मिन् कस्मिन् क्षणे यत् किमपि भवितुं शक्यं भवति ।
मदनः – इयं लोकरीतिः यत् सङ्गीतेन जनाः मोहिताः भवन्ति ।
अमात्यः – (विहस्य) नाट्येन कामुकः भवति ।
मदनः – साहित्येन रसिकः भवति ।
अमात्यः – मानवः एकेन गर्वितः भवति ।
मदनः – (विहस्य) किं वक्तव्यं समवायेन ।
अमात्यः – तस्मात् अहं चिन्तयामि कमप्युपायम् ।
मदनः – कोऽयम् उपायः ।
अमात्यः – अहम् एवं चिन्तयामि । कविः बिल्हणः कुष्ठशरीरिणं न पश्यतीति तदीय भाषणेन अस्माकं विदितमासीत् । तस्मात् वयं एकं नाटकं खेलिष्यामः ।
मदनः – किं तन्नाटकम् अमात्यवर्य ।
अमात्यः – महाराज श्रुण्वन्तु भवन्तः । यामिनी अक्ष्णाकाणं न पश्यतीति वयं जानीमः ।
मदनः – हां सत्यम् । तस्मात् ।
अमात्यः – तस्मात् यामिन्यै, बिल्हणः अक्ष्णाकाणः इति, बिल्हणाय यामिनी कुष्ठरोगिणी इति वक्ष्यामः । तयोर्मध्ये पटमेकं बध्वा विद्याभ्यासार्थं प्रारम्भं करिष्यामः इति मे बौद्धिक तरङ्गः प्रचोदयति माम् ।
मदनः – अमात्यवर्य, भवान् अत्यन्त बुद्धिशाली । अयम् अद्भुतोपायः ।
अमात्यः – एषां यामिनी पटस्य इतः पठिष्यति, पटस्य ततः कविबिल्हणः अर्थं कथयिष्यति । कतिपयकालानन्तरं यामिनी गीर्वाणकवयित्री भविष्यति ।
मदनः – इयं कल्पना अभूतपूर्वा अपि च अवश्यम् आचरणीया । एवमेव ताभ्यां द्वाभ्यां सूचयितव्यम् ।
अमात्यः – महाराज, शुभस्य शीघ्रम् । श्वः प्रभृति संस्कृत शिक्षणा प्रारम्भ्यते ।
मदनः – अमात्य भवान् गत्वा सर्वं व्यवहारं स्वयं विलोक्य कारयतु । (इत्युत्थाय गच्छति)
अमात्यः – तथैव (इति राजानम्नुसरति)
(यवनिका पतति)
********************************************************.
.
चतुर्थं दृश्यम्
(पटस्य उभयतः यामिनी बिह्लणौ उपविष्टौ)
यामिनी – अयि गुरो अभिवादये । (इति नमस्करोति)
बिल्हणः – कल्याणमस्तु, विदुषी भव । (इति हस्तमुद्यम्य आशिषः ददाति) अयि तरुणि यामिनी, मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रशंसते । तस्मात् त्वं प्रथमतः दैवप्रार्थनां कुरु । अनन्तरं पाठः प्रारम्भ्यते ।
यामिनी – करोमि भोः ।
शुक्लाम्बरधरं विष्णुम् । शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् । सर्वविघ्नोऽप शान्तये ॥
बिल्हणः – दैवस्तोत्रं सम्यक् कृतं भवत्या । त्वं रघुवंश काव्ये प्रथमश्लोकं पठ ।
यामिनी – वागर्थाविव सम्पृक्तौ । वागर्थः प्रतिपत्तये ।
जगतः पितरौ वन्दे । पार्वती परमेश्वरौ ॥
बिल्हणः – कुमार सम्भवकाव्ये प्रथमश्लोकं पठ ।
यामिनी – अस्त्युत्तरस्यां दिशि देवतात्मा ।
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधौ विगाह्य ।
स्थितः पृथिव्या इव मानदण्डः ॥
बिल्हणः – अद्य एतावत्पर्यन्तं विरम । त्वं गच्छ । सर्वं यत् कथितं तत् कण्ठपाठं कुरु ।
यामिनी – तथैव करिष्यामि गुरो । नमांसि भोः गच्छाम्यहम् । (इति गच्छति)
बिल्हणः – अहो इयं शरच्चन्द्र चन्द्रिका । एषा रसिकान् डोलायमानमानसान् करोति । अहो चन्द्रमाः, लोके सर्वासु भाषासु सर्वे कवयः भवन्तम् अनेक सहस्र वर्षेभ्यः वर्णयन्ति । तथापि न कोऽपि तृप्तः अभूत् । अहम् अधुना त्वाम् एवं वर्णयामि ।
अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे ।
सारङ्गं कतिचिच्च सञ्जगदिरे भूच्छायमैच्छन् परे ।
इन्दोयद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते ।
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थामाचक्ष्महे ॥
(ततः प्रविशति यामिनी किञ्चित् श्रुण्वन्ती)
यामिनी – (मनसि) अहो बिल्हणकवेः कण्ठगत स्वरः इव प्रतिभाति । (आकर्ण्य) हा सत्यम् इदं बिल्हणकवेः स्वरः एव। इदं गीतं नहि । सर्वमपि श्लोकबद्धं भवति । अरे अयम् आकाशे विराजमानं चन्द्रमसं विलोक्य कवितां करोतिती मन्ये । इयम् अस्य कविता इव आभाति । अहो अस्य कवितायाः मधुरताः अहो कण्ठगतस्वर माधुर्यता च । अयम् अन्धः खलु । अन्धः चन्द्रमसं विलोक्य कथं कवितां करिष्यति । अत्र विद्यते किञ्चित् अव्यक्तं रहश्यम् । भवतु मे व्रतभङ्गः । अहम् एनं कविपुङ्गवम् अवश्यं पश्येयम् । (इति पटम्न्नमय्य तं पश्यति) अहो किमयं मानवः उत देवः । कियान् सुन्दरः अयं कविः । अयं कवित्वमिव सुन्दरः । अयम् अन्धः नहि । अयम् आकर्णान्त विशाल लोचनः । अयं यामिनी रमण चन्द्रमाः । अयं सङ्गीत साहित्य कलानिधिः । लोकः एनम् अन्धः इति कथयति । बत अहम् अस्य दर्शनानुपदमेव चित्तजव्यथाव्याधिना पीडिता भवामि । नाहं सहे इमां बाधाम् । (इति गत्वा तस्य उत्सङ्गे पतति) महाकवे रक्षतु भवान् ।
बिल्हणः – अहो त्वं यामिनी । त्वं कुष्ठरोगिणी नहि । अहो इयं लावण्यमूर्तिः । इयं सुवर्ण शलाका । यामिनी भवती संस्कृतसाहित्यस्य रसमूर्तिः । त्वं रसात्मा । अहं त्वां मन्मथसाम्राज्यराज्ञीं करिष्यामि । उतिष्ठ । (इति ताम्त्थापयति)
यामिनी – अयि बिल्हणकवे त्वं मे जीवितम् । (इति तमालिङ्गति)
(यवनिका पतति)
*********************************************************************
.
पञ्चमं दृश्यम्
(मदनाभिराम महीपतिः, तस्य पत्नी रतिः, अमात्यश्च उपविष्टाः सर्वे विचारग्रस्ताः विषण्णवदनाः भवन्ति)
मदनः – अयं बिल्हणः, कविः, पण्डितः इति सानन्दं स्वागतं व्याहृतम् । कुमार्यै संस्कृतशिक्षणा सम्यक् भविष्यतीति परमोत्सुकः अभवम् । किन्तु सर्वमपि भस्मचये विकिरित सुगन्धजलमिव जातम् । वंशः कलङ्कितः बभूव ।
अमात्यः – प्रभो मानवः एकं चिन्तयति दैवं अन्यत् विदधाति । प्रथमतः अस्माभिः सर्वं सुविचार्य सम्यक् रचना कृता । सापि रचना वृथा सञ्जाता । दैवशक्तिः प्रबला चकासे ।
रतिः – मन्त्रिवर्य, एतादृशद्रोहस्य प्रतिक्रिया अवश्यं करणीया विद्यते । किं कर्तव्यं, कथं कर्तव्यं विचार्यताम् ।
मदनः – एतादृश कर्मणः वध्यस्थाने बिल्हणस्य गलकृन्तनमेव शिक्षायोग्या भवति । कोऽत्र भोः ।
दौवारिकः – (प्रविश्य) अहमस्मि भोः ।
मदनः – हन्तकौ समाह्वय ।
दौवारिकः – यथाज्ञापयति देवः । (इति निर्गच्छति)
(ततः प्रविशतः हन्तकौ)
हन्तकौ – (अर्धनामित शरीरौ) आज्ञापयन्तु भवन्तः ।
मदनः – कुकविं राजद्रोहिणं बिल्हणं वध्यस्थानं नीत्वा गलं निकृन्त्य तस्य मांसवसादिकं शृगालेभ्यः श्वभ्यः गृध्रवायसेभ्यः विकिरताम् ।
हन्तकौ– यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छतः)
रतिः – महाराज भवताम् आदेशः दयाविहिनः भवन्तः बहुवारं विचार्य कुर्वन्तु ।
मदनः – नियमविनियमौ सर्वेषाम् एकपद्धत्या भवतः । नात्र प्रतिसंहरः भवति ।
अमात्यः – महाराज, पुनर्विचारं कुर्वन्तु भवन्तः ।
मदनः – ममाऽदेशे न लेशोऽपि प्रमादः विद्यते । (इत्युत्थाय वेगं गच्छति, अमात्यः रतिश्च गच्छतः)
(यवनिका पतति)
***************************************************************************
.
षष्ठं दृश्यम्
(ततः प्रविशति बद्धहस्तः हन्तकाभ्याम्नीयमानः बिल्हणः)
प्रथमः – अरे राजद्रोहि चल रे चल ।
द्वितीयः – अयं कविः ।
बिल्हणः – सत्यमेवाहं कविः । कवितां करोमि श्रुणु ।
जीवने प्रेमसम्पूर्णे । मधुरं मरणं सदा ।
एतादृशं प्रेमसौख्यम्। सर्वेषां नैव जायते ॥
हे यामिनि त्वं मधुमयमांसान् स्मारं स्मारं सुखमनुभव ।
प्रथमः – अरे राजद्रोहि कुमार्याः नामोच्चारणं मा कुरु । सत्वरं चल ।
बिल्हणः – मनोज्ञशिल्पां सततं हसन्तीम्।
प्रियां सुसङ्गीतरतां स्मरामि ।
नाट्यादि सम्मूर्छित चित्तसद्माम्।
रसस्वरूपां प्रिययामिनीं ताम् ।
द्वितीयः – अरे कुकवे मोच्चर कुमार्याः नाम ।
बिल्हणः – चन्द्रमण्डलं यामिनी कर्णकुण्डलम्।
वल्गु वल्गनं कामिनी रम्यमण्डनम् ।
रम्यभाषणं भारती काव्यमण्डनम्।
दर्पणोऽपमं यामिनी गण्डमण्डलम् ॥
प्रथमः – अयं कामिनी उन्मत्तो जातः । अरे सर ।
बिल्हणः – सर्वं विशाले परिदृश्यमानम्।
धरातले नश्वरमेव भाति ।
न जीवने सत्यमिहास्ति लोके ।
प्रियाङ्गनासङ्गमजन्यसौख्यात् ॥
द्वितीयः – अरे त्वं राजद्रोही असि । त्वं कविताप्रपञ्चे निवसन् बाह्यं न जानासि। अधुना त्वं किं जानासि ? कुत्रनीयसे इति ।
बिल्हणः – जीवामि नाहं सखि यामीनीं विना ।
जानामि नाहं सुरतं विना भुवि ।
प्राप्नोमि सर्वं मम सौख्य मूलकम् ।
जिघ्रामि तन्वङ्गि कलासुवासनाः ॥
प्रथमः – अस्य कविता उत्तरोत्तरं सारभूयिष्टं भवति । भवतु श्रोष्यावः, कियत् कालं कवितां करिष्यति ।
बिल्हणः – प्रिये मन्मथ क्रीडारम्ये । (यामिनी स्तोत्रं करोति)
स्तोत्रम् (दुर्गारागे गीयते)
हे यामिनी, चन्द्र बिम्बानने । हे कामिनी, पक्व बिम्बाधरे ।
हे मानिनि, भ्रमर लोलालके । हे भामिनि, मञ्जु मन्दस्मिते ध्रु।
हे तापसंहारिणि, सौख्य सन्दायिनी । कामसंवर्धिनि, कुम्भि कुम्भस्तनि
कङ्कणालङ्कृते विभ्रमालङ्कृते । भोगवासप्रिये, कामगन्ध प्रिये 1
नित्य सौख्यस्थिते, लास्य हेवाञ्चिते चारु भावावृते, चारु हासावृते
बाहु बन्धस्थिते, भावचित्रस्थिते । काव्यशय्यास्थिते नित्यहावस्थिते 2
तुभ्यं नमो यामिनि । तुभ्यं नमो भामिनि
पाहि मां पाहि मां पाहि माम्। तुभ्यं नमः 4
द्वितीयः – अरे, अयं देवी स्तोत्रं करोति ।
प्रथमः – इदं नहि देवी स्तोत्रं भासते । किन्तु यामिनी दण्डकमिव द्योतते ।
बिल्हणः – काश्मीरकुङ्कमपराग विलिप्तगण्डा ।
रोलम्बकलिमसमान सुदीर्घकेशा ।
श्रीनागरे नुत लतान्तपरिमलास्या ।
हे यामिनि प्रियसखि क्षितिदिव्यगात्रि ॥
द्वितीयः – अयं मरणात् भीतः स्तोत्रं करोति ।
बिल्हणः – नाहं बिभेमि दयिते मरणात् कदापि ।
तृप्तोऽस्मि ते विरह पीडित रुग्णचित्तः ।
नैवास्ति दीर्घनयने भवता विनान्या ।
मामुद्धरोद्धर शुभे नुतचारुशीले ॥
प्रथमः – अहो एषः न चलति ।
द्वितीयः – अयम् अधुना उन्मत्तः जातः । अस्य ताडनमेव औषधं भवेत् ।
(यवनिका पतति)
*****************************************************
.
सप्तमं दृश्यम्
(सिंहासने राजा चिन्ताक्रान्तः उपविष्टः रतिः पार्श्वे विद्यमान सिंहासने चिन्ताक्रान्ता उपविष्टा । ततः प्रविशति अमात्यः)
अमात्यः – महाराज स्वस्ति भवते । (इति आसने उपविशति)
परिचारिका – (प्रविश्य) नमांसि महाराज, कुमारी यामिनी, बिल्हण कवे, कवि बिल्हण इति जल्पन्ती विवशाङ्गी पतिता ।
मदनः – परिचारिके, त्वं गच्छ ।
परिचारिका – यथाज्ञापयति देवः । (इति गच्छति)
मदनः – सा मृता इति मन्ये ।
रतिः – तथा मावदतु महाराज । इयमेका पुत्रिका अस्माकम् ।
मदनः – किं प्रयोजनं तया राजवंशजानाम् । सा राजवंश कलङ्किनी जाता ।
रतिः – महाराज, कोऽयं राजवंशः यः कलङ्कितः । (इति कृत्था भवति)
अमात्यः – मर्षय महाराज्ञि ।
(ततः प्रविशति दौवारिकः)
दौवारिकः –(नमस्कृत्य) महाराज, कुमारी यामिनी कवि बिल्हण, मम जीवनदायिन इति जल्पन्ती सोरस्ताडं क्रन्दति ।
मदनः – (विषण्ण वदनः) तां अत्र प्रवेशय ।
दौवारिकः – यथाऽज्ञापयति देवः । (इति गच्छति)
(ततः प्रविशति यामिनी विषण्णवदना)
यामिनी – महाराज, अभिवादये । (इति नमस्करोति)
मदनः – यामिनि, दैवदृष्ट्यां सर्वे समानाः । नात्र विद्यते लेशोऽपि पक्षपातः । राजद्रोहिणां मदीय राज्ये नहि स्थानं विद्यते ।
यामिनी – महाराज, अत्र कोऽभूत् राजद्रोही ।
मदनः – यामिनि, अत्र काऽभूत् राजद्रोहिणी इति, पृच्छ ।
यामिनी – किमपराद्धं मया ।
मदनः – राजपरम्परा कलङ्कीकृता, खण्डिताच ।
यामिनी – राजपरम्परा मण्डिता इति वक्तव्यम् ।
मदनः – साम्प्रदायेन भूषितोऽयं राजवंशः त्वया शतथा दूषितः ।
यामिनी – कथम् ?
मदनः – काश्मीर पण्डित बृवसङ्गमेन ।
यामिनी – तस्मादेव ब्रवीमि काश्मीर भूषणेन भूषितः इति ।
मदनः – ब्राह्मणक्षत्रियाणां समागमः असाम्प्रदायिकः ।
यामिनी – इयं परम्परा अति प्राचीना महीधरेभ्यः ।
मदनः – त्वं मे नहि बोधयिष्यसि ।
यामिनी – अधुनाहम् अधीत सर्वशास्त्रा अस्मि । कोऽयं पराशरः ? केयं मत्स्यगन्धी । कोऽयमगस्त्यः ? का लोपामुद्रा ?
मदनः – यामिनि तासु कथासु विद्यमान रहस्यम् अविचार्य त्वत्कतृकं साध्विति निरूपयितुं प्रयतसे कुवादैः ।
यामिनी – नहि निरूपयामि । सत्यमिति नेत्रोऽन्मीलनं कारयामि ।
मदन – एषः सङ्गमः अस्वाभाविकः ।
यामिनी – कथमयम् अस्वाभाविकः ।
मदनः – परम्परागत विवाह पद्धत्या न कृतोऽयं सङ्गमः ।
यामिनी – परम्परागत विवाह पद्धत्या कृतोऽयं सङ्गमः ।
मदनः – त्वं राजानं तृणी करोषि । अपेहि मम सम्मुखात् पापी ।
रतिः – अयि देव, यामिनी यत् कथयति तत् सत्यमेव । तयोः विवाहः समजनि, यतः द्वयोर्मध्ये यवनिकापटं निक्षिप्तम् । संस्कृत भाषया वेदमन्त्रैश्च अन्योन्य सम्भाषणेन अयं विवाहः कृतः ।
मदनः – राज्ञि, त्वमपि यामिनीं अभिसरसि ।
अमात्यः – महाराज । ताभ्यां यदुक्तं तत् सत्यमेव । अपिच अयं ब्राह्मणः, कविः, पण्डितश्च । सुन्दरः युवा । भारतनन्दनवनायित काश्मीर देशात् समागतः सर्वलक्षणोपेतः ।
मदनः – संस्काराः भिन्नाः भवन्ति महामात्य ।
अमात्यः – भारतराष्ट्रीयानां सर्वे संस्काराः एकरूपात्मकाः भवन्ति भोः । “कन्या वरयते रूपं” अपि च द्वयोर्मध्ये अनुरागः वर्तते । द्वावपि सङ्गीत साहित्य विद्वांसौ । समवयस्कौ, अनुरूपिणौ । सर्वसुगुणसम्पत्तिः एकत्र राशी भूता ।
मदनः – अयं अनुलोम विलोम विवाहः न भवति किम् ?
अमात्यः – अधुना गतजलसेतुबन्धनं किमर्थम् ? महाराज, मे बुद्धिः कथयति, अयं सर्वथा युक्तः योग्यः विवाहः इति ।
मदनः – अमात्य, अङ्गीकरोम्यहं ते युक्तिवादम् । (यामिनीं विलोक्य) कुमारि यामिनि, त्वं मा विचारय । निश्शङ्कं त्वं तव पतिं बिल्हणमनुव्रज । सुखेन तेन सार्थं जीवनं यापय । अत्र सङ्गीतसाहित्ययोः विवाहः कृतः ।
अमात्यः – पितः भवान् उदारवान् । राष्ट्रहितः जीवनः । अहं भोः अभिवादये । (इति नमस्कृत्य मातुः समीपं गत्वा मातरं आलिङ्ग्य नमस्कृत्य मन्त्रिणः समीपम् आगत्य तं नमस्कृत्य) अयि अमात्यवर्य अहं भवताम् आशिषः कामये। (इति नमस्करोति, अमात्यः आशिषः ददाति, यामिनी गच्छति)
मदनः – (घण्टां ताडयति)
(ततः प्रविशति भटः)
भटः – अयमस्मि देवः । (इति नमस्करोति)
मदनः – अस्मदीय जामातुः कविबिल्हणस्य वधामाभूयात् इति सत्वरं वध्यस्थानं वार्तां प्रेषय ।
भटः – यथाज्ञापयति देवः । (इति निर्गच्छति)
(यवनिका पतति)
*******************************************************
.
अष्टमं दृश्यम्
(वध्यस्थाने बिल्हणः भटौ च प्रविशन्ति, तौ स्वीय कृपाणौ धारायुते कुरुतः, बिल्हणः कवयति)
बिल्हणः – अहो मे हृदयम्ति निर्भरं भवति । यतः
यामिनी कामिनी भूत्वा । प्रविवेश हृदन्तरम् ।
यथाऽपगा विशत्याशु । रसराशिं महोदधिम् ॥
(ततः प्रविशति भटः)
भटः – अयि हन्तकौ, बिल्हण महाकविः मदनाभिराम नृपतेः जामाता तस्मात् अयम्वध्यः इति राज्ञाम् आदेशः ।
प्रथमः – अयं बिल्हणः मृत्युमुखात् परावृत्तः । अयं मृत्युञ्जयः ।
द्वितीयः – अयं महाराजानां जामाता अभूत् । अयम् अस्माकं पूज्यः । (इति नमस्करोति द्वावपि हन्तकौ गच्छतः)
(ततः प्रविशति यामिनी)
यामिनी – बिल्हण महाकवे क्षमस्व माम् । अहमेव कारणं तव अस्याः दशायाः । (इति पादयोः पतति)
बिल्हणः – प्रिये यामिनि, नापराद्धं मे भवत्या । इयं दशा गीर्वाण साहित्ये भारतवर्षे च वैशिष्ट्यपूर्णं प्रतिभाति । अयं विवाहः लोकसामान्यविवाहः नहि, किन्तु अयं संस्कृत सङ्गीतयोः विवाहः । अयम् आदर्श विवाहः । नात्र चिन्ता कार्या । आवां संस्कृत सङ्गीत कल्याणकारकौ अभवाव । (इति ताम् उद्धरति)
यामिनी – प्रिय, बिल्हण, भवान् भारतीय संस्कृति प्रतीकः अस्ति । ते भावना अत्यन्त उदार स्वरूपिणी । अहं नितान्तं भवतां सहवासेन भारतीय संस्कृतिसंरक्षणे कटिबद्धा भवेयम् ।
विल्हणः – प्रिये यामिनि,
काश्मीरकुङ्कुमपराग विलिप्तगण्डा ।
रोलम्बकालिमसमान सुदीर्घकेशा ।
श्रीनागरे नुत लतान्तपरीमलास्या ।
हे यामिनि प्रियसखि क्षितिदिव्यगात्रि ॥
(इति तां आलिङ्गतुं इच्छति)
यामिनी – (किञ्चित् पश्चात् अपसृत्य) प्रिय सर्वेषां समक्षं शृङ्गार प्रदर्शनं किमर्थम् ? तच्च प्रदर्शनं केलीगृहे कर्तव्यम् निर्भीकम् । प्रिय, जानाम्यहं, त्वं बहु बुभुक्षितोऽसि इति । किन्तु पश्य जगति जनः बुभुक्षितोऽपि भोजनम् एकहस्तेनैव खादति न किन्तु द्वाभ्यां हस्ताभ्याम् । किञ्चित्कालं धैर्यमवलम्बस्व ।
बिल्हणः – प्रिये विना च तव दर्शनं तव देहस्पर्शनं तवाधरपानं नाहं जीवितुं शक्नोऽमि, एहि, निवसतु मे बाहुपञ्जरे शुकी इव । (इति बाहू प्रसारयति)
यामिनी – प्रिय श्रुणु, आवयोः सङ्गमे अहम् एवं भवामि, चिन्तयामिच ।
बिल्हणः – कथम् ?
गीतम् (कल्याणीरागे)
यामिनी – त्वमेवाहं त्वमेवाहं त्वमेवाहर्निशं मे
जीवने रमसे भृशम्, स्फुरशेऽनिशम् ध्रु.
एषा पौर्णिमा रम्यानिश
बालाहं सदा सुतरां सुखे विवशा ।
त्वददर्शन विस्मृत तनु भावा
आतत चित्तज भाववेशा ॥ 1
बिल्हणः – चालन चञ्चल गुरुतर श्रोणी भारा
व्यावर्तन शिखरित पीवर कुचभारा
कङ्कण झण झण निक्वण क्वणिता
पारयसीहा हृदयं परवश कामावेशा ॥ 2
यामिनी – शीतल मार्दव सैकत शय्यायाम
चन्दन चर्चित गन्धिल देहलतायाम्
शारद शुभ्रांशुक ज्योत्स्नायाम्
क्रीडाभावां सुरताऽलिङ्गन डोलायाम् ॥ 3
बिल्हणः – ते मधुराधर दंशनकृत भणितम्
तनु ते स्वर्गसुखं परमानन्दम्
तव सुन्दर शारद नीरज मधुवदनम्
आह्वयतीव मधुपानाय यौवन भ्रमरम् ॥ 4
यामिनी – त्वत् परिरम्भण पुलकित देहा
व्यपगत लौकिक बाधा पाशा
गतजन्मनि सञ्चित पुण्य बला
सुखमय गाढालिङ्गनविव ॥ 5
बिल्हणः – मन्मथ शय्या विपुलं श्रोणी बिम्बम्
लाक्षा रञ्जित शिंजा ध्वनितं पदलास्यम्
कुरुते मे हृदि शाश्वत मुद्रान्यासम्
कल्पय देवि परिरम्भण सुखसमयम् ॥ 6
(इति आलिङ्गितुं गच्छति)
(यवनिका पतति)
*****************************************************
.
]