[[धर्मविजयम् Source: EB]]
[
ॐ
?0श्रीः।
भूदेवशुक्लविरचितम्
?0धर्मविजयं नाटकम्।
?0* * *
?*0प्रथमोऽङ्कः*।**
प्रकटितनिजरूपः षोडशाराभिरामे
विभुरपि हृदयाब्जे दीपयद्दव्यमूर्तिः॥
त्रिभुवनमिदमोतप्रोतमेवास्ति यस्मिन्
स जयति जगदीशः शास्त्रसिद्धान्तगम्यः॥ 1 ॥
(नान्द्यन्ते)
सूत्रधारः—अलमतिविस्तरेण। अद्य तावदा हूयसमादिष्टोस्मि श्रीमद्दिल्लीदयितवेतनदानामत्येन महितचरतेन श्रीमत्ता केशवदासेन यद्वयं धर्मशास्त्रानुसारिप्रयोगाभिनयेनान्मानं विनोदयितुमिच्छामः। तद्रूदेवशुक्लग्रथितेन नवन घ— यनाम्ना नाटकेन सम्भावनीयेयं स्मार्तसभेति। तत्सदनमुपेत्य कान्तामाहुय सङ्गीतकमनुतिष्ठामि (नेपथ्याभिमुखमवलोक्य) आर्ये इतस्तावत्।
(प्रविश्य)
नटी—-अज्जेउत्त एस ह्मि आणवेदु अज्जउत्तो, को णिओओ अणुचिट्ठि अदुति।
सूत्रधारः—आर्ये सम्निहितानि नेपथ्यविधिसाधनानि?।
नटी—अज्जउत्त चलणप्पहवेण संण्णिहिदं जेव्व सव्वं साहणं सज्जं। किं उण तुह्माणं कज्जं?।
सूत्रधारः—आर्ये अनुरञ्जनीयः खलु सकलधर्मकर्मरसिकः सकलशास्त्रप्रवीणः केशवदासः।
नटी—को णु खु तस्सिं तुट्ठे अह्माणं लोहो।
सूत्रधारः—दारिद्य्रभङ्गः।
नटी—कहं विअ।
सूत्रधारः—प्रसिद्धप्रभावो महावदान्यः खल्वसौ राजर्षिः यः पूर्णमनोरथैरर्थिसार्थैरनिशमेवं श्लाध्यते। यथा॥
चित्तं मानसमुन्नतं करयुगं श्रीपुष्करं पझजा-
जन्मरथानतया समुद्रमहिमा क्रान्तः शयोदक्षिणः॥
सेतुर्धर्मकथाम्बुधेस्तव मतिस्त्वां च प्रभासं जनः
प्राप्तः केशवदास चित्रमिह किं प्राप्नोति यद्वाञ्छितम्॥ 2॥
अपि च।
वाण्या विरोध्यति रमा रमया च वाणी
तावच्च निर्वहति शाश्वतिको विरोधः।
यावन्न दर्शयति केशवदास एषः
प्रेमप्रसादकरुणाकलुषं कटाक्षम्॥ 3 ॥
नटी—जुज्जइ।
सूत्रधारः—-कतमत्प्रकरणमभिनीयैनं प्रसादयामः।
नटी—-णं खु दाणिं जेव्व अज्जउत्तेण भणिदं जं भूदेवमिस्सरइदेण धम्मविजएण एदे आराहणीयेति।
सात्रधारः—विजयपूरीजनवदनारविन्दात्प्राचीनोदन्तश्रवणाय दत्तचेतसा मया विस्मृतं खलु।
नटी—-को णु खु उदन्तो।
सूत्रधारः—किमत्र जगतीनायकयोः पुरा संगरे वृत्तमिति पृष्टः कोप्यघादीत्। इह हिअस्मिन् संसारे।
अधर्म इव धर्मेण भूभारक्षमबाहुना॥
मध्यदेशक्षितिभूजा जितो दक्षिणभूपतिः॥ 4 ॥
(नेपथ्ये)
आः पाप मूर्ख शैलूष कथमेतेषु स्वेच्छाविहारिषु ब्रवीविगहाराजपराजयकथाम्। यतः–
कोपोंनृतस्तेन शरीरिहिंसाकापण्यमालिन्यनृशंसभावाः॥
दुर्दान्तताऽनिन्द्रियनिग्रहश्चेत्येकैकशो धर्मवधे समर्थाः॥ 5॥
सूत्रधारः—आर्ये सकलमहाजनेषु प्रच्छन्ननिवासायाऽधर्मेण राज्ञा समाज्ञप्तो व्यभिचारजन्मा वर्णसंकरः पत्न्या नीचसंगत्या सहित एवाभिवर्तभानो मद्वचनादुपजातक्रोधइव लक्ष्यते। तदेहि तावदपसरावः।
प्रस्तावना।
(ततः प्रविशति वर्णसंकरो नीचसंगतिश्च)
वर्णसकरः—(आःपपिति पुनः पठित्वा) पश्य रे वैधवेय भरत॥ वन्धूनामपि निधेन निचद्धचितः साधूनामपि परिपीडने प्रसिद्धः॥ आटोपप्रथितविवेकधैर्यलोपः कोपश्चेद्ग्रसति जनं तदा क्व धर्मः॥ 6 ॥ अचि चं।
अनृते स्फुरति श्रद्धा कुतः स्वर्गापवर्गयोः॥
श्रद्धायां च विलीनायां निर्मूलं सुकृतं कुतः॥ 7 ॥
किंच।
देवद्विजातिवनितायतिदुर्बलानां
गृह्णाति यत्किल कपर्दकमप्यदत्तम्॥
वित्ताय यद्विशसनेपि निबद्धचित्तं
स्तेयं सहिष्यति कथं तपसः प्रसङ्गम्॥ 8॥
अपि च।
यत्पक्षपातनिरताः किल रागलोभ-
द्वेषा गृहेषु गृहिणामथ पञ्चसूनाः॥
यस्याश्च पामरजनप्रकृतिः सहायः
सैषा निकृन्तति कथं मुकृतं न हिंसा॥ 9 ॥
नीचसंगतिः—–अज्जउत्त वराई किविण दाणधम्मस्स किं कलिस्सदि।
वर्णसं0—–प्रिये मैवम्।
न प्रयच्छति न खादति स्वयपीडत्यनुगतानपि क्षुधा॥
दैवपितृविधिबाधबन्धुरा क्षाम्यति क्व सुकृतं कदर्यता॥ 10 ॥
अपि च।
पूतिगन्धवसनाननोचछलद्वासना बहुलपिच्छिलाकृतिः।
क्व स्थितिर्भवति पुण्यकर्मणां व्याष्टता मलिनता भवेद्यदि॥ 11 ॥
किच।
यः पीडयत्यनपराधमपि स्ववर्ग-
मुद्वेजयत्यपि मुनीन् किमुतान्यलोकम्॥
आराधनेप्यविरमत्कुटिलस्वभावः
मप्तत्कर्म नाशयति सोपि नृशंसभावः॥ 12॥
अपि च।
साहसैकरता नित्यमकृत्याय कृतोद्यमा॥
सेयं दुर्दान्तता पुंसां कृत्या धर्मविरोधिनी॥ 13॥
नीचसंगतिः। अज्ज अणिग्गहस्स बलीयं खु पलाक्कमो त्थिति संभावेमि।
वर्णसङ्करः—-प्रियेऽस्य महिमानं वर्णायितुं वयमपि न शक्रुमः। यः स्वयमगम्यागमनेपिनिबद्धधैर्याया धर्मं व्याकुलयति।
अपि च।
कुम्भाप्सरोधीवरजामृगीश्यः समाधिभाजामपि यत्प्रसूतिः॥
सोयं तपोविव्नकृदिन्द्रियाणामनिग्रहस्य प्रकटः प्रभावः॥ 14 ॥
नीच0—-अज्जउत्तेण सोहणं खु आचलिदं जं परिहीणपस्खस्स धम्मस्स पस्खवादं परिहलिअ भट्टिणो पावस्स पस्खवादो आचलिदो।
वर्ण0—न केवलं पक्षपातमात्रं किं त्वेकस्मिन्नन्वयेऽवतीर्णानामस्माकमुचितमप्येतत्।
नीच—किं तुह्माणं वि एवज्जेब्व कुलम्।
वर्ण0—अथ किम्। ननु तृतीयः पुरुष एवास्माकं राज्ञो यवीयाननिन्द्रियनिग्रहश्च। पश्य।
अनिग्रहादक्षगणस्य धर्मे नष्टप्रचारे प्रभवत्यधर्मे॥
स्त्रीषु प्रदुष्टामु महाजनानामजीजनन्मां व्यभिचारपादाः॥ 15 ॥
नीच0—-जुज्जइ। अहं वि तुह्माणं जेव्व उदरादो उप्पण्णा तुह्म सङ्गदेण ग्गहमुहं अणुवंभदो सव्वसुन्दलीणं सिस्मिचिठ्ठामि।
वर्णसं0—–सर्वोप्ययं प्रभावो राज्ञो भाग्यं च तातपादानाम्। यतः।
व्यभिचारप्रसक्तानां कुतो भ्राता कुतः पिता॥
कुतो गुरुः कुतोऽगम्या सर्वमेव समञ्जसम्॥ 16 ॥
न केवलमावाभ्यामेवंविधं दाम्पत्यमनुभुयते दृश्यते चान्यत्रापि क्वचित् क्वचित्। तथा हि।
वेश्यासु सक्ताः कुलजाः कुमाराः गर्भेषु तासां जनयन्ति कन्याः॥
कालेन तास्वेव रतिक्षमासु मनोभवं मोहवशाद्भजन्ति॥ 17 ॥
नीच0—-सुदं मए धम्मप्पमुहा वि तुह्माणं जेव्व कुलेप्पसूदेति।
वर्ण0—-आः किमुच्यतेऽस्मत्कुलप्रसूता इति मत्तश्चतुर्थः कर्तृपुरुषः सर्वेषां मूलपुरुषः।
नीच0—-ता वित्थरेण कहेदु अज्जो।
वर्ण0—-अयमनादिनिधनो भगवान् कर्ता। तस्य विहितक्रियायां धर्मप्रधानो वंशो निषिद्धक्रियायां चाधर्मप्रधानोन्ववायः समजनि।
नीच0—-ता किंति तुह्माणं एदारिसो विद्देशो।
वर्ण0—-धर्मस्यैवापराधेन।
नीच0—कोणुस्खु तस्य अवराहो।
वर्ण0—
ज्ञानं तपो यज्ञविधिः प्रदानमेते कृतादौ सुकृतावताराः॥
एतैः समाक्रम्य जगन्ति धर्मः सन्तापयामास बलादधर्मम्॥ 18॥
ततश्च परिक्षीणो नृपतिरस्माकं अवसरं प्रतीक्षमाणः क्वचिन्निलीय निगूढोऽवसत् ततश्च समूपेते त्रेतावसरे ज्ञानममीमरत्।
नीच0—-तदो तदो
वर्ण0—–
द्विषज्जयमनोश्योन्मयितचित्तमासीत्तप-
स्त्रिविष्टपसुखस्पृहाजनितकष्टमिष्टेर्मनः॥
वितानमिव दानमुज्ज्वलविभूतिकामोन्नम-
त्पदानमितशेखरं विकृतवेषवर्णाकृति॥ 19॥
नीच0—-तदो तदो
वर्ण0—-ततश्च द्वापरे तपसोप्यासीद्दुर्विपाकः। एवं च।
सप्ततन्तुरभिचारदन्तुरो दानमुद्भटयशःस्पृहाकुलम्॥
सत्त्वसंक्षयरजःपराभवप्रौढरागविधुरात्मनामभूत्॥ 20॥
नीच0—-तदो तदो
वर्ण0—-ततोस्माकं दुःखैकबन्धुः कलिरेतेषु दिनेषु वर्णाश्रमाननुगृह्णाति। इदानीं च।
वेद्यावद्या नो नमस्या तपस्या मन्यौ मन्युः सेवके संप्रदानम्॥
इत्थंभूते सज्जने सोपि बिभ्यन् स्मृत्वा तिष्ठत्यादरान्नाम विष्णोः 21
नीच0—-अज्जउत्त एव्वं भणामि जइ सोअरो ञ्जेव्व राआ धम्मो ता तस्स विरोहे तुह्मांणं मणं कहं चलेदि।
वर्ण0—-प्रतिपक्षचरितानुसारेण स हि धर्मशास्त्रमुल्लङ्घ्र्यैव राज्ञे द्रुह्यति।
नीच0—ता एआरिसाचलणकारी लोएण धम्मो ति कहं भणिअदि कहं सत्थे वि अत्थि एसो विचालो।
वर्ण0—-आः क्षुद्रोयं जनोऽनार्यमप्यार्यपदे समारोपयति कथमन्यथा॥
भीष्मं गुरुं सूर्यसुतं निहत्य वृद्धं पितृव्यं तनयैर्वियोज्य॥
युधिष्टिरः स्वानपि घातयित्वा धर्मावतारः प्रथितः पृथिव्याम् 22
(नेपथ्ये)
आः पापजातिचाण्डाल वर्णसंकर! कथमस्मानेवाधिक्षिपसि विरुद्धाचारः सोदरोपि निग्राह्य एवेत्यस्माभिरप्यधर्मो दण्ड्यपदं प्रापितः। यच्च प्रलपसि बद्धमूलानस्मानुन्मूलयितुं तदप्याकाशसुमनोभिस्तिलान् वासयसि। यतः प्रमादपठितेपि भगवन्नाम्नि सत्यां च भगवत्यां भागीरथ्यां कथ भवतांजीवितकथापि पश्य।
लङ्कालंकारकारागृहवसतिजुषो नाकपाताललोकां-
श्चक्रे यस्तीर्णशोकान् हरिसुतसखितामित्रताभ्यामुपेतः॥
हेलामात्रस्मृतोपि व्यथितकलिमलः कं न पापप्रभूता-
त्पायादायासभाराद्दशरथसदनाभूषणं दूषणारिः॥ 13॥
अपि च।
मदनमथनताराकान्तकान्तीर्हसन्ती
प्रचलदमृतपारावारकान्तैः पयोभिः॥
सगरनृपसुतानां स्वर्गसोपानधारा
यदि हृदि कथमारादेति पापप्रचारः॥ 24 ॥
अपि च।
अपि पतितजनानां मोक्षमार्गैकबन्धु-
र्यदि सुरपुरसिन्धुप्रौढपाथःप्रवाहः॥
क्वचिदपि निवसद्भिः कीर्त्यते स्नानकाले
कलिखि नरकान्धुः सर्वदा स्यान्न रिक्तः॥ 25॥
वर्ण0—-प्रिये सर्वेषामस्माकं अयमभ्यर्हिततमो वंशगोप्ता ज्येष्ठो राजा देव्योर्ध्वगत्या सहित इव एवाभिवर्तते।
य एषः।
स्नानोपवासविछिशासननित्यहोम-
स्वाध्यायसाधनविधिश्रमदुर्बलाङ्गः॥
सर्वस्वमेव पितृदेवमुखे नियोज्य
क्षीणोपि भाति भगवानिव बालचन्द्रः॥ 26॥
अपि च।
मुहुर्मुहुः काममुखं निरीक्षन् भजन्नथार्थस्य विधेयभावम्॥
मोक्षेण पृष्टेनुसृतः कथंचिद्दत्तावलम्बः परमूर्ध्वगत्या॥ 27 ॥
अपि च।
श्रीयाज्ञवल्क्यमनुदेवलविष्णुशर्म-
शातातपादिमुनिनिर्मितपक्षपातः॥
कात्यायनद्विजसुभाषितगृह्यसूत्र-
व्यादष्टपद्धातिरपि स्वयमेव पश्यन्॥ 28 ॥
मद्वचनादयमुपजातक्रोध इव लक्ष्यते। तदपसरावः।
(इति निष्क्रान्तौ)
विष्कम्भकः॥
(ततः प्रविशति यथानिर्दिष्टो राजोर्ध्वगतिश्च)
राजा—-(आः पापेति पठित्वा)। ननु रे मूर्ख अस्मद्व्यवसायमन्तरापि भवत्कुले कोपकन्ययाऽसूयया प्रसूयते। ब्रह्मद्वेष एवानायासेन भवती नाशयिष्यति। यतः—–
द्रुह्यन्ति ये ब्राह्यणपुङ्गवेभ्यो वेदान्विवादैरपि खण्डयन्ति॥
निन्दन्ति विश्वेश्वरपादपझं तेषां कुलं कुत्र पुनः पृथिव्याम्॥ 29॥
ऊर्ध्वगतिः—-सुदंमए तुह्माणं सवत्तजणणीए हिअ अप्पसूदोऽधम्मोति।
राजा—-अथ किम्।
ऊर्ध्व0—ता किंति णाणुग्गहिअदि।
राजा—-आर्ये नायमनुग्रहपात्रम्॥
दूरं दूरोदरसुराहृतचित्तवृत्ति-
र्गुर्वङ्गनागमनलोलमातिर्नितान्तम्॥
उद्वेजिताखिलजनः प्रसभं पूरासौ
हेमाहरद्विशसनव्यसनाद्द्विजानाम्॥ 30 ॥
तस्येदं वृत्तमालोक्य सर्वे वर्णाश्रमास्तथा॥
तदाचाराः समावृत्ता बुद्धिमूलं हि संगतिः॥ 31॥
ऊर्ध्व0—-एको स्खु अवराहो रण्णा स्खमीअदि ण खु अवराहाणां सहस्सं।
राजा—-देवि नायं भाजनं क्षमाया यद्येवं स्यात् पूर्वमेवैतावान् संघर्षो न स्यात्।
आवश्यकः परिणतौ सह येन संधि-
र्नो वैमनस्यमपि तस्य पुरा विधेयम्॥
नो वा मनस्त्रुटितमेति कदापि संधिं
ग्रन्थिं दधाति घटितं गुणवत्कथं चित्। 32॥
ऊर्ध्व0—-तदो।
राजा—-ततो बाध्यमानः क्वापि अन्त्यजन्मसूप्रच्छन्नमवसत्
ऊर्ध्व0—-तदोतदो।
राजा—ततश्चास्मदेकपक्षपातिभिर्मन्वत्रिविष्णुहारीतादिभिर्धिक्कृताः सर्वे वर्णाश्रमाः स्वव्यापारमन्वतिष्ठन्। तदा प्रभृत्यद्यदिनं यावत्।
विप्राः षट्कर्मभाजः किल नरपतयो वर्णरक्षानुरक्ताः
वैश्याः कृष्यां प्रसक्ताः परिचरणविधौ व्याप्रियन्ते च शूद्राः॥
कुर्वन्त्याम्नायपाठं पटुमतिबटवः पञ्चयज्ञान्गृहस्याः
पाराकाद्यं वनस्थाः प्रणवजपाविधिभिक्षवोमोक्षसंस्थाः॥33॥
अङ्गं न दर्शयति पश्यति नान्यवक्रम्॥
गेहान्न याति न च तिष्ठति दुष्टसंगे॥
नोच्चैर्वदत्यति(पि) न कुप्यति सापराधे
पत्याविमानि चरितानि कुलाङ्गनायाः॥ 34॥
ऊर्ध्व0—-अज्जउत्तताओ धण्णाओ पदिव्वदाओ महाप्पहावा सुणीअंदि। ताणं महत्तणं कहेदु अज्जो।
राजा—-देवि कः समर्थः प्रभाववर्णने पतिदेवतानां यासु कान्तमादाय चितां प्रविष्टासु।
एताः स्वध्रमनिरता मरणान्तिकेपि
तेजः परस्य पुरुषस्य कथं सहन्ते॥
इत्थं विचिन्त्य विरतः पुरतः सतीनां
शैत्यं प्रयाति भगवान् किमु वीतिहोत्रः॥35॥
ऊर्ध्व0—-ता णं जलणप्पवेसे को उण लाहो।
राजा—-अविच्छिन्नप्रियसंयोगः।
ऊर्ध्व0—-हु एव्वम्।
राजा—-अथ किम्।
अधनं परिपीडितं भृतं परिणेतारमसौ जहाति न॥
न परित्यजति प्रियोप्यमुं गुणलुब्धोनु भवान्तरेष्वपि॥ 36॥
ऊर्ध्व0—-परलोए त्ताणं उण का गदि।
राजा—–उमालोकप्राप्तिस्तस्मादनिवृत्तिश्च। यतः।
अपि दुप्कृतिनं मृतं पतिं समुपादाय हिरण्यरेतसः॥
विरताचिंषि सार्चिषा पथा समुपैतीति कथासु शश्रुमः॥ 37॥
ऊर्ध्व0—-धण्णाओ ताओ एक्ववदीओ जा अज्जेण सलाहणीअन्दि।
राजा—-प्रिये सर्वथैव धन्यास्ता यासां माहात्म्यं शास्त्रमपि कथंचिद्वक्तुं शक्नोति। अपि च।
नेत्रप्रान्तः कटाक्षं विहसितमधरो भाषितं कान्तकर्णः
कोपं चित्तं स्वकीयं गतिषु विलसितं वासगेहस्य भूमिः॥
धैर्यं भर्तुश्चिताग्निस्तनयुगघनताहारभारः सतीनां
सौन्दर्यं दीर्घशाटी कलयति वलयं मार्दवं दोर्लतायाः॥ 38॥
ऊर्ध्व0—-तदो तदो।
राजा—ततश्च।
द्रव्येषु शुद्धिरधिका कनकादिदानं
पात्रेषु कर्मसु यजिर्गणनायकस्य
नान्दीमुखादिपितृकर्मनभश्चशणां
पूजेति कर्मकलिठः फलितश्च वेदः॥ 39॥
ऊर्ध्व0—तदो तदो।
राजा—-ततश्च। त्रेताद्वापरयोः सन्धौ कदाचिदविनयमाचरन्। चारमुखादवगतो दुर्वल इत्युपोक्षितोऽस्माभिः। वर्णाश्रमनिगूढपक्षपातेन कलिवलेन चैतावतीं भूमिं गतः पुनस्तथावृत्त एव संवृत्तः।
उर्ध्व0—–हत्थंगतं पडिवस्खं को णु क्खु पलिहलअदि।
राजा0—-तस्येदं कर्णणः फलं यतः।
ऋणस्य शेषः प्रतिपक्षवंशो
वह्नेः स्फुलिङ्गः फणिनः शिशुश्च॥
यैः स्थापितः कोमलबुद्धिभाजां
स्वप्नेपि तेषां कुशलं कुतः स्यात्॥ 40॥
ऊर्ध्व—-अज्जउत्त जइ एदेसु दिणेसु सो संवादिदपस्खवादोअज्जो उण पलिहीणपस्खो ता कहं विअ एसो दुव्विणीदो तुह्येर्हि जेदव्वो।
राजा—-देवि अलमस्मान् कृशानप्यधर्मापेक्षया दूर्बलान् संभाव्य तेजस्विनां तेज एव जयति शत्रून्नोपकरणानि कलेवरंवा अतः।
आस्तां नु पीवरतनुर्मदन्थरो वा
दन्तावलोपि जगतीधरगह्वरेषु॥
स्वेच्छाविहाररसिकः किल नाभ्युपैति
यावत्कृशोपि दृशिकेसारिणः किशोरः॥ 41॥
अपि च।
आस्तां तावद्भवनकुहरे कोपि गाढान्धकारः
स्वल्पोप्येकः प्रभवति पुनस्तं निह्न्तुं प्रदीपः
भूयाद्भूयो दवभूवि तृणं भूरुहाणां च यो वा
स्वाहाभर्तुस्तदपि दहति प्रायशो विस्फुलिङ्गः॥ 42॥
ऊर्ध्व0—-अज्जउत्त तह वि बलीयं खु एसो जदो कामकोवलीहप्पहुदि हिं तस्स बल्लहेहिं किदोवजावो अअजणोएणं जेव्वकामेदिण उण तुह्याणम्।
राजा—-देविआपातमनोहरेन्द्रियलालनेन तस्य विधेयभावमुपगतोप्ययं लोकः कर्मविपाकद्वारास्माभिरुपजप्तः परिणतौ नरकवेदनयोद्वेजितः सक्षतिपापसंसर्गं किंच स्वप्रयोजनपरः क्व पुनरुपकर्तुरत्याहिते सहायोपि। यतः।
गीर्वाणाः सुधयाऽसुरा मदिरया पाथोधरैर्मानुषाः
सर्वस्वार्थपरायणा जडतया केनामुना तोषिताः॥
पाणावाचमतो निधाय जलधिं यादोमहीध्रैः समं
नो मित्रावरुणात्मसम्भवमुनेः कोप्यन्तरायोऽभवत्॥ 43॥
तथापि। प्रवृद्धस्य रिपोरुपचारः सत्वरं विजिगीषुणेति प्रेषयामस्तावत्तीर्थायतनपुरपत्तनारण्यपर्वकतक्षेत्रेषु पुराणश्रवणादीन्।
(नेपथ्ये)
भवतु भव्याय भवतां संध्या माध्यन्दिनवर्तिनी।
राजा—किं संवृतो घस्रमध्यः।
(पुनर्नेपथ्ये)
संप्रति हि।
दिशः शून्याकाराश्चपलमृगतृप्णामयजलाः
समस्तोप्यस्तोयं जननयनकोशस्य विषयः॥
पयः क्वाथीभावं व्रजति सरसि स्वल्पसलिले
प्रचण्डो मार्तण्डस्तपति जगतामेष शिरसि॥ 44॥
राजा—-(आलोक्य) तरुणतरतरणिकिरणसरणिजनितक्लेशेव तनुतायुपैति छाया जनानाम्। त्वरिततरमुदयगिरिवरशिखरपरिसरादम्बरसरणिसमारोहणपरिश्रमादिव मिहिररथतुरगाश्चिरतामुपयान्ति गगनाङ्गणे।
(पुनर्नेपथ्ये)
दर्पेण स्वेन सौरैरपि करनिकरैर्वैनतेयातिकृष्ट-
व्यावल्गद्वल्गुवल्गत्फणमणिगरलज्वालयोष्मायमाणाः॥
व्यात्तैर्वक्त्रैरुरोभिर्घनघनजघनैः फेनजालं क्षरन्तो
मध्येव्योम्नः कथंचिद्विदधति विरतिं सप्तयः सप्तसप्तेः 45
अहो वैषम्यमस्य समयस्य यतः।
छायामप्युपकारिणीं विटपिनः स्वामात्मसात्कुर्वते
शैत्यं दुर्बलतां गतं तु सलिलैरन्तः क्वचित्स्थाप्यते॥
कान्ताभिः कुचमण्डलं मलयजक्षोदेन सङ्गोप्यते
मध्याह्ने पवनोपि वीजनपटरैन्तार्हितो लक्ष्यते॥ 46 ॥
राजा—-तद्वयमपि आह्निकशेषेण स्नानतर्पणादिना समयभशून्यं कुर्मः।
(इति सह राज्ञा निष्क्रान्ताःसर्वे)
इति श्रीमच्छुक्लभूदेववरचिते धर्मविजयनाम्नि नाटके आचारविचारो नाम प्रथमोऽङ्कः॥ 1 ॥
——-000——
*********************************************
.
***द्वितीयोऽङ्कः। ***
(ततः प्रविशति व्यभिचारः)
आज्ञप्तोस्म्यधर्मेण। यथा वत्स व्यभिचारप्रथमे तीर्थे पार्वतीप्राणनाथपुरे दृष्टिरागवनितया सह गार्हस्थ्यमनुभूयतां चरितं च भवतो विलोक्य कुलीनतरुणीतरुणैरपि स्वेच्छाविहारिभिर्भावेतव्यमिति। तदिदानीं प्राप्तं मया नन्दनवनं सम्पादिताज्ञो राज्ञो विधेयभावं नीतश्चात्रत्यः सर्वोपि जनः। यतः।
का चित्कान्तं परमभिसरत्यात्मना वित्तकामा
दूती कां चिन्नयति विविधैश्छझभिः सम्प्रलोम्य॥
काचित्कर्तुं व्रजति सफलं जारसङ्गाद्वयः स्वं
काचिद्वन्ध्याम्प्रतिमठमटत्याकुला पुत्रहेतोः॥ 1 ॥
अपि च।
एकत्रैके निवासादविदितचरिताः संश्रत्यन्त्यन्यकान्ताः
भूत्वा मित्राणि भर्तुर्विलसितमपरे तस्य दारैर्भजन्ति॥
केचिद्वाणिज्यदम्भात्परिचरणमिषात्केपि धर्मोपदेश-
व्याजात्केचित्परेषां शरणमुपगताः कामिनीः कामयन्ते
अपि च।
वाटीविभूषणमनर्ध्यमुदारशाटी-
पाटीरकुङ्कुमविलेपनमन्यदाराः॥
तीव्रा सुरा कुसुमपल्लविनी च शय्या
स्वर्गोयमेव नरकः क्व नु केन दृष्टः॥ 3 ॥
(सविमश च)
किंनु खलु जनचरितानि परीक्षितुं प्रहिता चिरयति परस्परप्रीतिः। (पुरोवलोक्य) अये अभ्युपेतवै प्रियसखी।
(ततः प्रविशति परस्परप्रीतिः)
परस्परप्रीतिः—-अंप्पणो अपुव्वांविणअमितस्स पुलो कहं णु भणिस्सं किं णु कलिस्सं कहं विअ अङ्गाइं दंसइस्से कहं वा एदं कम्म होदित्ति मे हिअअं कम्पिदं दाणिं उणणं परिच्चईअ लोअवतन्तं देरक्खुणकज्जेण अस्थिरचित्ताए वि मम जुआईविअदिणाइं सम्बुत्ताइं। (इति उपसपति।)
व्यभि0—-(सहर्षम्) एहि प्रिये तावदालिङ्गस्व।
परस्परप्रीतिः—(तथा करीति)।
व्यभि0—(स्वगतम्)
त्र्युट्यत्कूर्पासहारं विदलितवलयं विश्लथन्नीविबाढं
प्रौढप्रेमातितिर्यग्विवलितनयनं गाढमालिङ्गितायाः॥
उच्छ्वासोत्तालवक्षोभवदृढघटनादेति तन्व्या महीया-
नङ्गप्रत्यङ्गसङ्गादनुभवपदवीं कोपि शर्मातिरेकः॥ 4 ॥
(प्रकाशं, द़ृढं परिप्वज्य)
प्रिये कः खलु पौरवृत्तान्तः।
परस्पर0—-किं ण आलोएदि अज्जो सअलं जेव्व णअरं अज्जउत्तस्स वसंवदं वि अदीसइ।
व्यभि0—-पश्य कौतुकामेतो वीथ्याम्।
प्रौढः पीवा विमलवसनः स्निग्घदृष्टिः शिखावान्
सायं प्रातः प्रविशति गृहं होमकर्मच्छलेन॥
भिक्षां कर्तुं मुखविधिमिषात्प्रस्थितस्य प्रवासे
भुक्त्वा कान्तां व्रजति कपटादाहिताग्रेर्द्विजस्य॥ 5॥
परस्पर0—-अज्ज पलिक्कमणेसु देवप्पासाआण अवगाहणेसु तीत्थाणं कहाप्पसंगेसु पुलाणिआण उज्जणिआसु धम्मप्पउत्ताणं पडिच्छण्णं वि तुमं लोअणसंदसणमेच्चकेण पलिंखिअपहुवितलम्भि तुए जेव्व रज्जं करीअदित्ति संभावेमि।
व्यभि0—-प्रिये तस्य तुरीये वयसि कृतोद्वाहस्य धनपालनाम्रो नाणकपरीक्षकस्य पुष्पवती नाम वनिता एतेषु दिनेषु किमाचारा।
परस्प0—- ताँए विणिच्चंदह पंचजुआणो अणुरंजिअंदि।
व्यभि0—-किमसावसती संवृत्ता।
परस्प0—-ण रक्खु जच्चरियं।
स्वज्जइपिज्जइ मिठ्ठं देरोपइ जोव्वणं विसमम्॥
णिक्किव हिअओमअणो को वराहोसे वराईए॥ 6 ॥
व्यभि0—सर्वमेतत्सुत्कृतं घनमात्रमालोक्य कन्याप्रदातुः।
अपि च।
पलितचलितवालः शुष्ककङ्कालजाल-
श्चलितगलितदंष्ट्रादन्तमालः करालः॥
लपनतरललालः श्वासहिक्काजटोलो
न भवति सुमुखीना भोगयोग्यश्चितांशः॥ 7 ॥
पश्य तावदधुनापि सदनमसंभावयतो यूनः कलत्रं प्रतिनिशमुपपति श्रावयति। यथा।
कान्तः शेते विपणिशरणे स्वीयगेहे ननान्दा
श्वश्रूर्मन्दाकरणविकला क्वापि सौधस्य कोणे॥
वाणिज्याय श्वशुरचरणाः पर्यटन्ति प्रवासे
दैवाच्चोरः प्रविशति गृहं कस्तदा नः सहायः॥ 8 ॥
परस्प0—-अज्ज ण रख्खु समत्थेहिं णादो वि दुव्विणओ अ तिदूहिअ अस्सन्नियं उप्पादेइ।
व्यभि0—एवमेतत्पश्य।
कोप्येकाकी धनिकजरठः स्वां वधूं खिंगसक्तां
दृष्ट्वा दण्डादपि नरपतेः साहसाच्चैव वध्वाः॥
बिभ्यत्कोपाकुलितमतिरप्यप्रगल्भो नियन्तुं
निन्दत्येवं परिणतिनिजं केवलं दीर्घमायुः॥ 9 ॥
(सविमर्शम्)
अहो नु चरितविनयमतीनाम्।
एताः प्रसन्नमनसः परकीयपुंसा
क्रीडन्ति दैनवशतोनुचिते प्रवृत्ते॥
मां वक्ति नर्मवचनं वसनाञ्चलं मे
गृह्णाति कोयमिति तं च विडम्बयन्ति॥
अपिच।
उन्मादयन्त्यपि कटाक्षसठाप्रकारै-
र्निर्भर्त्प्तयन्ति वनिताः कुतुकात् पुमांसम्॥
दीर्घावगुण्ठनतिरोहितवत्क्रचन्द्रा
भावं कदा व्यभिनयन्ति पुनः सतीनाम्॥ 11॥
(पुरोवलोक्य)
अये।
कुतो घौतं वासः पचनविधिपात्राण्यपि कुतो
न पानीयं पात्रं वहति करकं मृन्मयमपि॥
स्पृशन् श्वानं गावं श्वपचमथ विप्रं समतया
विदेशेष्येकाकी भ्रमति किल कोयं द्विज इव॥ 12॥
परस्पर0—-वअस्स को वि पंचालओ वि बह्मणो दीसइ सो
व्यभि0—–सत्यं प्रयागमार्गेणागतः पाश्चात्य एव तदस्माद्वत्सस्यानाचारस्य वृत्तन्तं कलायेष्यामि। सिन्धुप्रातकाश्मरिकुरुक्षेभ्रादिषु तेन किं संपादितमिति।
परस्प0—एसो वि तुमं पेस्खिअ इदो ज्जेव्व अहिवट्टइ।
व्यभि0—तदेहि द्वारवेदिकायां उपपिशाव (इत्युपवेशनं नाटयतः।
(ततः प्रविशति यथांनिर्दिष्टोऽनाचारः)
अनाचारः—–अहो शास्त्रसंगतिमन्तरेण पशुकल्पः पाश्चात्यो वर्णः सर्वोपि मयाऽनायासेन स्घाधीनतां नीतः॥
अपि च।
विश्वामित्रः श्वपलमहरत् पार्वतीशः कपालं
धत्ते विष्णुर्मधुरबदरं भिल्लदष्टं चखाद॥
लोपामुद्रासहचरमुनिर्वित्तलोभेन मांसं
वातापीयं कथमिव पुनः पामपराणां विवेकः॥ 13 ॥
(गङ्गां च दृष्ट्वा सविनयं)
नास्त्याद्रीकरणाय वस्त्रमधिकं शीतं तथा बाघते
न स्नानेपि रुचिर्न चान्त्यजजनस्पर्शे मम व्यग्रता॥
अस्नातं किल नात्र कोपि सहसा भां पश्यति प्रायश-
स्तस्माज्जन्ञ्चसुते मया विरचितो दूरादयं तेञ्जलिः 14
(अन्यतः पश्यन्)
अहो मूर्खब्राह्यणस्याचाराः। यथायम्।
सुस्नातं श्रितनवधौतपट्टवस्त्रंस्प्टष्टो-
साविति पृथुकं निहन्तियष्ट्या॥
चाण्डालः स्पृशाति मुहुर्विनिन्द्यकर्मा
क्रोधो मामिति किल नानुसंदधाति॥ 15 ॥
पुनरन्यतो गत्वा एते तावत्॥
स्नात्वोपलिप्तभुवि कम्बलखण्डसंस्थाः
पट्टाम्बराणि परिदाय जपन्तु नाम॥
येषामपानविवरं विहितं विधात्रा
जन्मप्रभृत्यपि कथं शुचयः स्युरेवम्॥ 15 ॥
(पुरीवलोक्य)
अये कोप्ययं द्वारवेदिकायामुपरिष्टः शिष्टइव दृश्यते तदहमप्येतादृशएव भवामि यतः।
स्मार्तः स्मार्तेषु विष्णोः स्मरणविधिपरो वैष्णवानां समाजे शैवः शैवेषु शक्त्याः परिचरणरतः शाक्तमार्गस्थितेषु॥
तद्वद्धर्माभिसिद्धिं स्वयमपि सहसा संश्रितः कूटबुद्ध्या
सोहं लब्धावकाशोऽतिथिरनयजुषां दाम्भिकानां गृहेषु 17
(आकाशे)
भो भो धनिकाः।
अयाचि श्रोत्रियश्चास्मि भुज्यते स्वत आगतम्॥
नाद्यापि च प्रसिद्धोत्र तेनाहं मलिनः कृशः॥ 18॥
(कर्णे दत्त्वा)
किमुच्यते गृह्यतामिदमनाहतं वस्त्रद्वयं परिधानाय प्रावरणाय चेति। भवतु को विरोधो यद्ययाचितमुपतिष्ठतीति (इति परिघाय परिक्रामति)।
व्यभि0—-प्रिये नायं पाश्चात्योऽपि तु मध्यदेशीयः कोपि स्नातकः।
परस्प0—-दीसई।
अनाचारः—उपसुत्य स्वस्ति मवते।
व्यभि0—–नमो भगवतेभ्यागताय।
परस्प0—-भअवं पादवंदणं करेमि।
अना0—–असंख्यपुत्रपतिकाभव।
व्यभि0—-प्रिये उपकल्पतां पाद्यं मधुपर्कं च।
परस्प0—-(जनांतिकं) वअस्स जइ णलूससिता एदस्स पलस्खं करेमि।
व्यभि0—–किं प्रयोजनम्।
परस्प0—-जईएसो सच्च सोजिओ जेव्वता अह्माणं सुहवि रोहं करेदिति अह्म घरे सेवसईण हुविस्सदि जइ अह्मसरिसा होदि ता अह्येहिं सद्धंचिअं विहलिस्सदित्ति।
व्यभि0—-भवतु का नो हानिः।
परस्प0—-(स्वगतं) केन उण उवाएणणं पलिस्खिस्सं होदु दाव क्कमेण अंज्जणाचारं कदु असे मणं पावइस्सं।
प्रकाशम्—–(वदनार्धप्रविष्टेन पात्रेण पानीयमानीय पीतशेषम्)
एद पादोदअं गेण्हादु अज्जो इत्यर्पयति।
व्यभि0—-गृहीत्वा समीपमुपेत्य षङर्ध्या इत पठति।
अना0—आयुप्मान् पीतशेषेणानाचारः खलु पाद्यविधिः।
व्यभि0—-भगवन्नैतदेवं गुर्जराः पीतशेषं पयः सोमकल्पं कलयन्ति।
अना0—–दृष्टमेतदन्यच्च।
स्नाति द्वित्राः प्रातरुत्थाय केचित्।
भोज्यं भोक्तुं स्वावकाशात्परे च॥
दैवं प्रत्र्यं चानुतिष्ठति वर्णा-
श्चर्मान्त्रोभिण्डले र्गुजराणाम्॥ 19॥
व्यभि0—–स्पृष्टाधरपात्रेण पानीयपानमपि प्रकारो मध्यदे शीयानाम्।
अना0—–दृश्यते।
स्वादन्तीज्यामन्तरेणापि मांसं
विन्ध्यस्याद्रेरुत्तरस्यां द्दिजेन्द्राः॥
आबालं चावृद्धमाखादयन्ति
प्रायः प्रीत्या दाक्षिणात्याः पलाण्डुम्॥ 20॥
व्यभि0—ब्रह्मन्नभिज्ञोसि देशाचाराणाम्। तत्राभीरमाल वादिषु कः सदाचारः।
अना0—–
त्रैवर्णिकानां मरुमालवादिदेशस्थितानामविवेकभाजाम्॥
न भक्ष्यशुद्धिर्न च शौचबुद्धिस्तत्रालमाचारविधेर्विचारैः॥ 21॥
व्यभि0—महाश्रोत्रिय समांसो मधुपर्क इति गृह्यकमतं यद्यभिमतं तर्हि तथैवोपचरामि।
अना0—-कलिवर्ज्ये प्रथमपठितमेतत्। परंतु यता रोचते तुभ्यम्।
व्यभि0—-(स्वगतम्) अनाचारोपजप्तस्येव द्विजन्मनश्चरितं
(प्रकाशम्)
भगवन् देवरादपत्यमपि कलौ गर्हितं श्रूयते !
अना0—अस्ति स्मृतिः अग्रहोत्रमित्यादि परन्तु निर्मूला। कथमन्यथा संन्यासोपि।
व्यभि0—(निपुणं निरूप्य) किं वत्सोनाचारः।
अना0—(सहर्षे) किमार्य इति पादयोः पतति।
व्यभि0—वत्स दर्शनक्षण एव प्रत्यभिज्ञातोपि कालविप्रकर्षेण सम्यक् न परिचितोसि (इत्युत्यालिङ्गति)
परस्पर0—एदु दाव अङ्कवालिन्देदु वच्चो दे अरो।
अना0—-(तथा करोति)
परस्प0—(स्वगतं) परपुलुसो इत्थिआणं वट्ठइ मुहसाहणं रसिओ तत्त वि पाहुणिअ देअरो जइ रहम्मि हत्थगदो होइ।
अना0—(आत्मगतं)
स्त्रियः सन्तु स्वीयाः सुरतचतुराः काञ्चनरुचो
भवन्तु स्वाधीना जगति परकीयाः प्रतिपदम्॥
तथापि प्रोन्मीलद्बहुलतररागाकुलपदं
परीरम्भोगम्याजनविरचितः कोपि सुखदः॥ 22॥
व्यभि0—-वत्स उचिते समयेऽभ्यागतो यदत्र परमप्रियां भैरवीं यातनामुपभोक्तुकामो राजाप्यायातीति श्रूयते।
परस्पर0—-जइण एसो हत्थगदो हुविख्सदि ता णाहिप्पदंसणत्थणुग्घाडणचिउरप्तंम्मरिज्जणतिरिअदिठ्ठिपेस्खण मुहुरालावणिक्वारंणहसिदणिज्जणप्पदेससंढाणपुत्तमुहचुम्बणादिहिं णं विहेअत्तणं पावइस्सं।
(नेपथ्ये)
भो भो नागराः प्रत्यासन्नो भूपतिरधर्मः। यथा हि।
भेरीणां प्रतिरसितप्रचण्डशब्दाः
श्रुयन्ते दिनकरमावृणोति रेणुः॥
आश्वीयं किल पिदधाति भूमिभागान्
दृश्यन्ते गजपतिकेतवो विचित्राः॥ 23॥
तेन हि।
आलम्भ्यन्तां विविधपशवः सत्क्रियन्तां गृहाणि
द्यूतक्रीडा भवतु भवने भाग्यभाजं जनानाम्॥
आहूयन्तां तरुणगणिकाः कल्प्यं पानभूमिः
प्रत्यानेतुं व्रजतु सकलः पौरलोको नरेन्द्रम्॥ 24॥
अना0—समागत एव देवस्तत्प्रत्युद्गमनेन सम्भावयत्वार्यः।
व्यभि0—प्रिये वाङ्यनः कर्मभिस्ते समुचितो देवरोपचारः
(इति निष्क्रान्तः)
पुनर्नेपर्थ्ये—-
स्कन्धावारं निवेश्याथ नगराद्बहिरादरात्॥
काश्यामधर्मो नृपतिः पौरकार्यं समीक्ष्यते॥ 25॥
परस्पर0—एहि जोव्वणलछीविछुरिदमुहचन्दपाहुण देअर सुलालसेण पढमं तुमं सन्तोसिअ पच्चा उपचलिस्सम्।
अना0—आर्ये।
ममाक्रान्तस्य सुरया कृत्याकृत्यमजानतः॥
पुरश्चपलचित्तस्य स्थातुं शक्यं त्वया कुतः॥ 26॥
परस्पर0—-अहं वि महुवासरस्स विहेअत्तणं उवगदा रअणिं वा दिणं वा ण जाणिस्सं किं उण तुअ चरिदम्।
अना0—-एहि तर्हि स्वेष्टं साघयाव (इति निष्क्रान्तो)
विष्कम्भकः।
(ततः प्रविशति अधर्मो विभवतश्च परिवारः)
अधर्मः—–यद्यपि नाष्टष्टः कस्यचित् ब्रूयादित प्रसिद्धा पद्धतिः॥ किं च।
यदि चोरस्य जननी चाण्डालेन हता बलात्॥
का हानिस्तत्र विदुषां तथाप्येतदपेशलम्॥ 27॥
इति विचारपरैर्जगद्बन्धुभिर स्माभिः स्वत एवोच्यते। भोजनाश्चेतयध्वम्। यतः।
न वा पीता तीव्रा प्रकृतिमधुरा जीर्णमदिरा
न च द्यूतक्रीडा सहकितवसंघैर्विरचिता॥
न वा वेश्या वेश्मन्यपि समुपहूता सकृदहो
वृथा विप्रैर्वित्तं जगति कुधियां लुण्ठितमिदम्॥ 28॥
अपि च अर्थवादश्रुतिनाशितमतिभिर्वैधयैर्न सञ्चितानि भुक्तान्यपि तु॥
पाण्डित्यं कविता कलाकुशलता शौर्यं तथान्ये गुणाः
सन्तु प्राणभृतां तथापि त इमे यैः स्युर्विना निष्फलाः॥
तान्येतानि धनानि दैववशतो हस्तागतानि ज्वलत्-
स्वाहाप्राणपतेर्मुखे मखमिषान्निर्नाशितानि स्वयम्॥ 29 ॥
(स्मृतिंमभिनीय सचमत्कारम्)। अहो नु खलु चेतसि चित्रित इवोपदेशो वत्सस्य कार्प्यण्यस्य॥ यथा॥
यस्यां विष्णुस्त्रिभुवनगुरुर्नित्यमासक्तचेताः
क्षोणीपालाः समितितरुणास्ते यदर्थं म्रियन्ते॥
यस्यां लुब्धाः कमलनयना यत्र मोहो मुनीनां
सैषा लक्ष्मीः स्वयमिव कथं नाश्यते बुद्धिशून्यैः॥30॥
(प्रविश्य)
दौवारिकः—-जेदुं राअउलं अपुव्वाए खण्डिदचिउराए माणंसिणीएसहिदो कूडपुलाणिओ देवं पेख्खिदुं उवगदो दुवालि चिठ्ठदि।
अधर्मः—-(स्वगतं)। यदाप्रभृति।
सत्सङ्गपुण्यवनतीर्थनिषेवणाद्यैः
सार्द्धं नृपेण तपसा प्रहितं पुराणम्॥
वर्णाश्रमेषु विदधात्युपजापमेत-
च्छ्रुत्वा ममास्ति न रतिर्न मतिर्न निद्रा॥ 31॥
तदाप्रभृति सहानृतेन पुराणोद्वासनाय प्रेषितोयं ब्राह्मणः सत्वरमभ्यागतः कृतकृत्यो भविष्यते।
(प्रकाशम्)
कुबुद्धे प्रवेशयैनं चिरमारभ्य द्रष्टुमुत्सुकोस्मि।
दौवा0—–जं देवो आणवेदिति (इति निष्क्रान्तः)
(ततः प्रविशाति कूटपौराणिको बालविधवा च)
पौरा0—-
नवं वयो मूर्तिरनङ्गकल्पा शृङ्गारसम्भिन्नकथान्यदारैः॥
व्यासास्पदं मिष्टभूजि क्रिया चेत्यनल्पभाग्यैः कृतिनो लभन्ते 32
विशेषतश्च विश्लिष्टप्रियतमानां विरहोन्मादहेतुरस्मदीयकथाप्रस्तावनाप्रगल्भो वर्षर्तुः। सम्प्रति हि।
कल्लोलिन्यः कलुषसलिलाः कूलपातैः समन्ता
त्क्षेत्रप्रान्तारचितवृतयः पङ्किलो राजमार्गः॥
इत्थं रुद्धे जगति कुविधिर्धर्मशालास्थपान्थान्
धारापातश्लथगृहगलल्लोष्टपातं हिनस्ति॥ 33 ॥
(विधवां प्रति)
अयि तपस्विनि सहास्माभिरपूर्वस्ते समागसः। क्वचित्पूर्वमपि श्रुतं त्वयाधर्मरहस्यम्।
विधवा—-अह इं कस्स विबुधपुलाणिअस्स मुहादो सुदं मए अलं एदेर्हि जण्णई जमुणादिहिं तित्थएहिं जइ होदि अच्चुअस्स कहात्ति।
पौरा0—–आस्तेन तत्रैव गङ्गेतिपद्यस्यानर्थः कृतो वस्तुतो यत्र दारकथाप्रसङ्गोऽच्युतस्तत्रैव सर्वाणि तीर्थीनि इति तस्यार्थः।
विधवा—-कहं विअ लोअविणंदअं कम्म सामिणा सलाहिज्जदिति ।
पौरा0—-अयि कोमलकलेवरे बालतपास्विनि किं जानाति लोकः स्तोतुं विगर्हितुं वा पश्य।
लक्ष्मीलोभादुदधिशयनं पझनाभोधिशेते
वाणीं कण्ठे त्रिभुवनपिता स्थापयत्येव नित्यम्॥
गौरीं देवो वहति सततं वामभागे महेशः
शृङ्गारोयं त्रिगुणमहितोस्मादृशैः किं न पूज्यः॥ 34॥
अपि तु। पुराणेतिहासादावप्ययमेव रसोभ्यर्हिततमः। यतः। पीतो वह्निर्दवदहनकृद् भानुकन्याशयस्थो
दुष्टो व्यालः सपदि दमितश्चाङ्गुलिस्थः कृतोद्रिः॥
एतच्चान्यत्किमिव न विभोश्चित्रहेतुश्चरित्रं
रासक्रीडाललितमिव न प्रायशः शर्मणे तत्॥ 35॥
किंच भवतीनामेव पृच्छामः।
सन्ति श्यामाः कमलनयना भुक्तिमुक्तिप्रदानां
हित्वा तासां हृदि विलसितं प्रत्युत स्वीयचित्ते॥
मेघश्यामं कमलनयनं भावयन्तः कृतार्थं
ये मन्यन्ते स्वयमपि क इव प्रत्ययस्तत्र तेषाम्॥ 36॥
विधवा—-(शृङ्गारलज्जां मिरूपयति)
पौरा0—-(स्वगतं) मामभिलषन्त्या इवास्यां दृश्यते चेष्टयान्तः।
श्यत्य्रधो वक्रयतीक्षणद्धयं सभ्रूविभेदं कुपिता हसत्यपि॥
वौवोत्तरं किंचन मां वदत्यसौ स्वयं चधर्मस्य मिषेण पृच्छति 67
(प्रकाशं)
सुन्दरि त्वया निरन्तरमस्मदीयकथायामेव सन्निहितया भवितव्यम् (इति परिक्रामति)
अध0—-(निर्वर्ण्य)
आकर्णोल्लासिकाश्मीरजहिमकणिकाघृष्टपाटीरलेपः
सूक्ष्मं वासो वसानः प्रकटितवविधव्यासविद्यावलेपः॥
मञ्जिष्टारक्तपादाम्बरकलितकथापुस्तकः कोकशास्त्रे
सङ्गीते च प्रवीणः सुखयति विधवाः कूटपौराणिकोयम् 38
सर्वथा चायमनुष्ठितनिर्देशः। यतः।
प्रसन्नमतिसस्मितं वदनपङ्कजं नेत्रयो-
र्गतिर्विविधविभ्रमा स्फुरतसुन्दरान्तोधरः॥
सबाहुलसितत्वराप्रसरणं पुरः पादयो-
र्नरस्य कृतकृत्यतां वदति वाग्विलासं विना॥ 39॥
पौरा0—-(उपसृत्यमः। स्वस्ति परमेश्वराय।
अधर्मः—(स्वगतं)
पौरा0—देव प्रणतिरिलातलमालिंग्यानृतस्य कनिष्ठस्य।
अध0—कुशलम्।
पौरा0—देवकृपया।
अधर्मः—क्वेदानीमधिवासोऽनृतस्य किष्ठस्य।
पौरा0—सर्वत्र।
अध0—साम्प्रतं किमनुतिष्ठति।
पौरा0–इदानीं हि।
कृत्वादरेण हृदये पदमुत्तमानां
वासं विधाय निभृतं वदनारविन्दे॥
अष्टादशापि शनकैर्व्यवहारपादा-
नाक्रम्य विश्वमनृतं स्वरतं तनोति॥ 40॥
अध0—केन क्रमेण जगदाक्रान्तं युवाभ्याम्।
पौरा0—देवनिदेशात्प्रस्थितयोरावयोः किञ्चित्कालं प्रथमतः काश्यां वसतिरासीत्। ततश्चात्र निश्चलं पदमाधाय शनैः शनैः कलिङ्गकामरूपकाश्मीरकाम्बोजकर्णाटककोङ्कणमहाराष्ट्रमगधमानटमत्स्यमालवमलय-
सिंहलशूरसेनसौराष्ट्रसौवीरशाल्वपुलिन्दपारसीकपौण्ड्रपाञ्चालपाण्ड्यभोजजाङ्गलयवनबर्बरवङ्गविदर्भविदेह-
गान्धारगौडगुर्जरनेपाललाटान्ध्राङ्गहूणद्रविडेषु स्थितिं विधाय पुनरपि परमप्रियं गुर्जरमण्डलमावाभ्यामाश्रितम्।
अध0—तेषु देशेषु कः समाचारः।
पौरा0—
पर्ज्यन्यः खण्डवृष्टिं वितरति जगती स्वल्पसस्या तरुण्यो
भर्त्रे द्रुह्यन्ति मुख्याश्रमगततरुणाः कामयन्तेन्यदारान्॥
पुत्राणां प्रेतकृत्ये प्रभवति जनकः क्रोधलोभोपजप्ताः
क्षोणीपालाः सचौराः प्रतिदिशमटवीं घातुका लुण्ठयन्ति 41
अपि चात्रास्माकमेकः संशयः॥ यथा-
स्रोतस्विन्यो विरलसलिलाः साधवो मन्दभाग्या
नानाभोगान् भजति च खलो भूरुहोल्पं फलन्ति॥
निर्मर्यादाः कुलयुवतयः पूज्यते दम्भयुक्तः
सर्वं चैतत्तव विलसितं देव किं वा नृतस्य॥ 42 ॥
अध0–आः कोनृतस्यास्माकं च विशेषो येन संशयावकाशः॥
एकः स्वभावो न पृथक् चरित्रं भिन्नाभिधा वस्तुनि नास्तिभेदः।
धर्मस्य सत्यस्य यथैकमत्यं तद्वन्ममात्मानृतमस्य चाह॥ 43 ॥
पौरा0—
दारिद्र्याय ददाति धैर्यमधिकं रोगान् समाश्वासय-
त्यानन्दस्य जलाञ्जलिं विरचयत्यस्तं नयत्युन्नतिम्॥
दाक्षिण्यस्य करोति नाशमनिशं विश्वासमाभीषय-
त्येवं देव किलानृतस्य चरितं प्रोक्तं समासान्मया॥ 44॥
अध0—-किं तवोपकृतमनृतेन।
पौरा0—इतोप्यन्यत् किमुपकर्तव्यं॥ यतः॥
वैधेयानां सभायामनधिगतनयो मादृगत्यादरेण
त्वत्पादाब्जप्रतापोपनतबलभरस्यानृतस्य प्रसादात्॥
यत्किंचिद्ग्रन्थपत्रं पठितमपठितं यादृशं तादृशं वा धृत्वा
पालौ समग्रान् कथयति सततं भारतादीन् प्रबन्धान्॥ 45 ॥
अध0—-स्वत एव विज्ञो भवसि भवति शिक्षा पुनरुक्तप्राया तथापि कलेर्मम चाहितानामाख्यानानि भारतादौ सन्ति तेषां त्वया नामापि न ग्राह्यं। इति पुनरवधानाय स्मार्यते !
पौरा0—-के वा कलेः प्रतिकूलाः।
अध0—-आः न जानासि सर्वेपि राजर्षयः संक्षेपतस्तत्रापि तावदेति॥
भीमात्मजानलनृपः सुकृताङ्गजन्मा
कर्कोटकः फणिपतिस्तनयाचलस्य॥
रामोग्रणीर्गुणवतामृतुपर्णभूपः
संकीर्तनात्कलिमलं दलयन्त्युदीर्णम्॥ 46 ॥
पौरा0—-के वा द्रुह्यन्ति देवाय॥
आख्यानं पृथुनलभार्गवार्जुनानां कौशल्योदरवसतेर्हलायुधस्य॥
राजर्षेर्हृदयभुवः शकुन्तलायाः पापस्य प्रथमरिपुर्जगत्प्रसिद्धः 47
पौरा0—-राजन्नेते मम श्रुतपूर्वा अपि अहं तु॥
संगीतगान्धर्वविवाहशास्त्रकान्ताचरित्रश्रवणे स्थितानाम्॥
स्त्रीणां समाजे विविधैर्विलासैः सतालहासैः समयं नयामि॥ 48॥
अधर्मः—-दैवाद्यदि कश्चिद्विज्ञरतत्र समायाति।
पौरा0—–
आयातु नाकिभवनाद्रुरुरीश्वरो वा
वाचामसौ परिकरं सुद्दढं करोतु॥
व्याख्यानमाग्रहकृतं किल दुर्विदग्धै-
र्दूरीकरोतु स कथं चतुराननोपि॥ 49॥
अधर्मः—–सम्यक् खलु पुराणमुद्वासितमिति त्वदुक्त्यानुमीयते॥
पौरा0—-अस्माभिस्तु चक्षुषापि न दृष्टं तथापि किंवदन्ती तिष्ठति।
वेदान्ते धर्मशास्त्रे परिणतमतयो न्यायशास्त्रे प्रवीणाः
काव्यालङ्कारगोष्ठीष्वपि रसिकतमा नाटकाख्यानदक्षाः॥
काव्यंकर्तुं प्रगल्भाः प्रतिपदमपि ये भावयन्ति स्वबुद्ध्या
तेषां चक्रे पुराणं निवसति सकलं सेतिहासं नरेन्द्र॥ 50॥
अधर्मः—–अस्तीदानीमपि धर्ममूलशेषः। तच्चतुर्दशविद्याविघाताय मौढ्यादीन् प्रेषयामः। यतः
जाड्यप्रमादविक्षेपव्यासङ्गैर्विकलीकृता॥
विद्या स्थास्यति नैकापि क्व पुनस्ताश्चतुर्दश॥ 59॥
विद्या या अनुदयकारि तत्र जाड्यं
अभ्यासप्रशमनकारणं प्रमादः॥
विक्षेपो रिपुरखिलैकवाक्यताया
व्यासंगः प्रभवति विस्मृतिं विधातुम्॥ 52॥
(नेपथ्ये)
देव त्वर्यतां कल्पितपानभूमिर्देवी भैरवी यातना वासकसज्जाकल्पेन महाराजं प्रतीक्षते। उपस्थितश्च गणकावेदितोमुहूर्तः। संप्रतिहि।
द्रुतपतदहिमांशुस्पन्दनार्वत्खुराग्रो-
च्छलितवविधधातुव्रातरेणूत्करेण॥
छुरितमिव विहाय सांध्यमेघैर्विचित्रै-
र्वरुण दिगबलायाः संश्रयत्यम्बरत्वम्॥ 53॥
अपि च।
वासरान्तसमये समुपेतां पाशपाणिदिशमाश्रितरागाम्॥
कुङ्कुमारुणकरैरिव लिम्पन् दृश्यते कमलिनीहृदयेशः॥ 54॥
अधर्मः—-(विलोक्य सत्कृतं)
वेदमूर्तिरपि रागमाश्रितस्तेजसां निधिरपि स्पृशन् तमः॥
अम्बरं परिहरन् स्खलत्करः काश्यपः पतति वारुणीं भजन्॥ 55॥
तद्वयमपि चरविप्रयोगविमनस्कां देवीं संभावयामः (इति सपौराणिको निष्क्रान्तः)॥ 2॥
इतिधर्मविजयनाटकेअधर्मोद्योगो नाम द्वितीयोङ्कः॥ 2॥
——000——
********************************************
.
तृतीयोऽङ्कः॥
(ततः प्रविशति महीरुहशाखावसक्तरज्वोद्बन्धनेनात्मानं व्यापादयन्ती पण्डितसंगतिः।)
पण्डितसंगतिः—हामातरश्चतुर्दशविद्याः हा सखि कविते।
कथमिव भवतीनामाननाम्भोरुहाणि
प्रसरदमलवाणीवासनागर्भितानि॥
विविधजनसमाजेद्यापि नालोकयन्ती
हतविधिकलिताहं जीवितं धारयिष्ये॥ 1॥
(इति पाशमादाय ग्रीवां निबध्नाति)
(प्रविश्य पटाक्षेपेण संभ्रान्ता परीक्षा)।
परीक्षा—सहि किंतिआउलीभूदाअप्पघादंकरेस।
(इतिबलात्पाशं शिथिलयति।)
पण्डितसं0—सखि मा खलु मां संतापय
परीक्षा—-अप्पणो वेअणं कहेहि।
पण्डि0—
वेदान्तोन्तमवाप दक्षिणपथं नान्वेति सान्विक्षिकी
सिद्धान्तः कपिलस्य कोपि विलयं यातः सपातञ्जलः॥
मीमांसाविकलाङ्गभङ्गविकलो वेदः स्मृतिर्विस्मृता
साहित्यं पिहितं हितैषिणि हितं नो जीवितं मेधुना॥ 2॥
परी0—सहि तह वि सुदधम्मसत्थाए तुएअविणिंदिअकम्म ण जुज्जइ।
पण्डित0—सखि स्वाधीनचित्तानां किमकार्ये। यतः।
पाशैर्बन्धनमुच्चपर्वततटात्पातं पयोमज्जनं
यद्यद्गर्हितमात्मनाशविधये तत्तत्समारब्धवान्॥
शोकाक्रान्तविवेकशून्यहृदयापक्रान्तशास्त्रस्मृतिः
शक्त्याद्यौरसपुत्रनाशविवशो विद्वान् वसिष्ठो मुनिः 3
परीक्षा—-सहि समस्सससमस्सस एंहि दाव अण्णेसेह्म जइ कहिं वि णिलीअछिदा होदि।
पण्डि0—-सखि अतः परं किमन्वेषणीयं॥
अन्विष्टं तदपि सदो नराधिपानां विद्यार्थी प्रतिमठमादरेण पृष्टः॥
भट्टानामुदवसितं विविच्य दृष्टं विद्यायाः पदमधुनापि नोपलब्धं 4
परी0—-तह वि एकैकस्यभवणगणं पविसिअपेख्खह्म एहि दाव तुमं पि (इति पण्डितसंगतिमादाय परिक्रामति)
पण्डि0—-सखि को नु खल्वसौ कुण्डलोल्लासितकपोलमण्डलोवसनवैभवगर्वखर्वीकृताखण्डलः पण्डितमन्यः।
परी0—-सहि ओख्खधकंडणाविप्फुडिदहत्थो को वि विज्जोवि अ दीसइ एसो।
पण्डि0—-एनं पृछावः कदाटदुलभ्यते आयुर्वेदगन्धः॥
(ततः प्रविशति वैद्यः)
यदाप्रभृति जाड्येनोपालब्धोस्मि यत्पुरुषायुषजीविनो जनास्तत्र तवैवोपेक्षामूलमिति। तदाप्रभृति।
किमिति दिनमभोजी स्वस्थतां यात्यकस्मात्
किमु पतति न खट्वापञ्जरे पुष्टदेहः॥
कथमिव तरुणानां नास्ति रोगः सदेति
व्यथयति नितरां मे मानसं कापि चिन्ता॥ 5 ॥
परी0—सहि ज्जुरदा विअ ख्खणं होहिणं पलिख्खिस्सं।
पंडि0—तथा करोति।
वैद्यः—-यद्यपि।
बिल्वस्तनी वारिदकेशपाशा धान्यप्ररोहा कलितावतंसा॥
विश्वातिसारा नलदप्रचारा न स्मर्यते सापि मयाद्य विद्या॥ 6 ॥
तथा पि।
मृतेस्यायुः पूर्णं परमिति चिरातङ्कलिते
हरेरच्छा सद्यो ज्वरजुषि परश्वो यमगदः॥
गुणोयं पुष्टेषु त्रिकटुगुटिकानामिति वचो-
विलासो मे विद्या बलमविदिते साहसमपि॥ 7॥
(इति परिक्रामति)
परी0—-(उपसृत्य सप्रमाणम्)
भावमिस्स इअं णो पिअसही बलीअं खु संतावं अणुवहदि ता से उवाअं कहेदु अज्जो।
वैद्यः—-(स्वगतं)
ज्वराङ्कशाद्यैः सविषप्रचारैर्ममोपचारैः शतशो म्रियन्ते॥
तथापि मोहोयमहो जनानां वैद्योयमिति प्रतीतिः॥ 8॥
(प्रकाशं)
सुन्दरि॥
चूर्णः कषायो गुटिकावलेहः पाकश्च संदिग्धचिकित्कितानि॥
अरोग्यकारि ज्वरितस्य शाघ्रं तत्पायसेनाङ्कनमेकमेव ॥ 9॥
पण्डित0—-कस्मिन्नबन्धेऽध्ययनं भवतः॥
वैद्यः—-
आत्रेयपत्रेपि न दत्तनेत्रो रीतिं न हारीतमुनेरघीतः॥
न सुश्रुतस्य श्रुतवान् श्रुतिं वा स्वतोस्मि वैद्यश्चरकानभिज्ञः 17
पण्डि0—-(सहासं) ब्रह्मन्नेतत्तव चिकित्सितोपदेशोपि पिशुनयति परीक्षांप्रति (जनान्तिकं) सखि।
कुर्यादुपेक्षां क्वचदायुषः क्षयः प्रतीक्षते मृत्युरपि स्वयं क्वचित्॥
आरोग्यभाजोपि जनस्य जीवितं हरत्यकस्मात्परमेतदौषधम् 11
परीक्षा—-अदो ख्खु महोवेज्जे एसो।
पण्डि0—अथ किम्।
परी0—-सुमरेदि वा पिअसह तस्स वेज्जस्सदिट्टिपहेडिदोविकंचरणकलेवरो ज्जेष्वसंवुत्तो।
पण्डि0—कथं विस्मरामि पुराणधन्वंतरीयकृतक्षश्रमं तं महा पुरुषं॥
गुल्मोरण्ये पर्वते गंडमाला कुष्टं हट्टे शूलमीशानपाणौ॥ चित्रे पांडुर्यक्ष्म पक्षेक्षयोभूत् यस्मिन्वैद्ये मीनवर्गाः सरोगाः 12
परी0—पंचंगपत्तहत्थो को णु ख्खु एसो इदो ज्जेव्व अहिवट्ठइ।
पण्डि0—सोयं गणक इव दृश्यते।
(ततः प्रविशति गणकः)
आजन्मासीच्च प्रसादः परवशतया मूहूर्तमपि न जानीमः।
किमुत गणितं तथापि देशान्तरीयपण्डितैः।
पञ्चाङ्गपत्रप्रकटीकृतानां श्रुत्वा गतिं खेचरतारकाणाम्॥
संभावितं प्रश्नमनुब्रुवन्तो ज्योतिर्विदः केपि वयं पृथिव्यां॥ 13॥
पण्डि0(उपसृत्य सप्रमाणं) भगवन् कुत्राध्ययनं भवतः।
गणकः—प्रश्नग्रन्थे।
पण्डि0—-(जनान्तिकं)
गणकः—रोमणिर्भूतभविष्यबोधे बीजस्थितिः कण्ठगरत्नमाला॥
लीलावती दृष्टपथे न यस्य ज्योतिर्विदेषः प्रथमाश्रमस्थः॥ 14 ॥
परी0—मए से चमक्वालं पेख्खिअ पलिख्खिअं ण ख्खु ए सो सच्च जोइसिओ किंतु कोविणख्खत्तसूचओ हुविस्सदिति॥
पण्डि0—(गणकं प्रति) भगवन्नेकं प्रश्नविषयं ब्रूहि।
गण0–
भावसंधिफलदानभश्चराः क्रूरसौम्यखगदृष्टयो मिथः॥
द्विस्वभावमपि लग्रमीहितं सिद्धिमेष्यति न वेति निश्चयः
पण्डित0—भगवन्नवग्रहेण पीडयते जनः तद्बूहि पज्यवार्ताम्।
गणकः—(सस्वगतं) अत्रापि स्वाध्ययनामनुसारेण संशयितमेवोत्तरं वदिप्यामि।
(प्रकाशं)
धान्येश्वरोस्ति कुजनिः शनिरब्दपाता-
द्दग्धानि कानिचदुडून्यगलच्चगर्भः॥
केषांचिदात्मगणितेन तथापि मन्ये
वृष्टिं विधास्यति भवन् क्षितिजन्मवारः॥ 16॥
पण्डि0—-(परीक्षाम्प्रति) सखि सर्वथैव।
रम्या श्लेषान्तरार्द्रा मृगसमनयना पझसंस्पार्द्धिहसता
चित्राक्रान्तोच्चवस्त्रा श्रवणयुगलसत्कुण्डलाऽदृष्टपूर्वा॥
ज्ञानज्येष्ठाविशाखावृतमदनतरोर्मूलतो रोहिणी सा
सर्वर्क्षादिष्टपद्या विरतिमुपगता कापि वेदाङ्गविद्या॥ 17॥
परी0—-सहि एहि दाव अण्णदो अण्णेसेम्म।
पण्डि0-
भूगोलः सलिलधिसंवृतो व्यलोकि
प्रश्नेनाप्यवकलतोखिलः खगोलः॥
सिद्धान्तागमगणिताङ्गवेषणीया
क्वेदानीं जगति सुदुर्लभाङ्कविद्या॥ 18॥
वैद्यः—(अवलोक्य) अये चिरेण दृष्टः प्रियसुहृद्दैवज्ञः।
गण0—उपसृत्य अपि सुखिनो मिश्राः।
वैद्यः—अद्य विशेषेण।
गण0—नचेत्कार्यातिपातोऽन्यस्तर्हि धर्मशास्त्रविषयप्रश्नायस्तार्तशुक्लसदनं गच्छावः।
वैद्यः—(सावकाशीस्मीत्युत्तिष्ठति)
परी0—(सहर्षं) तस्य सअणम्मि धम्मसत्थस्स विज्जा हुविस्सादि। (इति सर्वे परिक्रामन्ति) (ततः प्रविशति स्मार्तः)
स्मार्तः—विक्षेपव्यासङ्गसेविना मया न कोपि दृष्टो निबन्धस्तत्रापि
व्रतबन्धविवाहपद्धतिज्ञः
श्रमवानाह्निककर्मपुस्तकेषु॥
स्ययमस्मि च पण्डितस्य पुत्रः
किमसाध्यः स्मृतिनिर्णयोधुना मे॥ 19॥
(इति परिक्रामति)
(उपसृत्य सर्वे प्रणमन्ति)
स्मार्तः—स्वागतम् (इत्यभिनन्दयति)
गण0—-ब्रह्मन् प्रथमोत्पन्नमर्भाणां कदा सीमन्तः।
स्मार्त0—-मासि षष्ठेऽष्ठमे च।
पण्डि0—-भगवन् सीमन्तः क्षेत्रसंस्कारः सकृदेवानुष्टेयः।
स्मार्तः—-आः षष्ठेऽष्टमे वा सीमन्त इति याज्ञवल्वयेन वारद्वयमाज्ञप्तः।
पण्डि0—अस्यां स्मृतौ काले विकल्पो न समुच्चयः।
स्मार्तः—-(स्वगतं) अनधीतधर्मशास्त्रस्य ममाप्यत्र संशयः।
(प्रकाशम्)
क्वचिद्विकल्पः क्वचित्पमुच्चयोपि।
परी0—(जनान्तिकम्)। को वि मुख्खो विअ दीसइ एसो ण पुछोहि विण्णदसत्थो ण वेति।
पण्डि0—कापि बाला त्वया दृष्टा।
स्मार्तः—-किमाचारा सा।
पण्डि0—
या मानवी कीकिलकूजितस्वारा
मिताक्षरा बद्धवचोमनोहरा॥
काप्यत्रिजान्मा नतदक्षदर्शना
पाराशरीति स्मृतमार्गगामिनी॥ 20॥
स्मार्तः—-न खलु सास्माकं कदापि दृष्टिगोचरा।
परी0—-(सरोषं)। अविण्णदधम्मस्सत्थो किं ति लोअ विप्पआरोसि।
स्मार्तः—आः पण्डितंमन्येऽस्मदीयैस्तातपादैरप्येवं निर्णीतवद्भिर्जन्म निर्गमितम्। अपि च।
न्यायस्मृत्योर्विरोधे क्वचिदपि बलवानर्थशास्त्रत् बलीयः
क्वाप्युक्तं धर्मशास्त्रं क्वचिदपि वचने देशभेदव्यवस्था॥
बाधोन्यस्मिन्विपक्षे क्वचिदपि गदितो धर्मकल्पे विकल्प-
स्तन्नैवं वाक्यभेदात्सुमुखि न नियतो धर्मशास्त्रार्थ एकः 21
परी0—-स हि अण्णादधम्मसत्थमग्गस्स अज्जाणमिस्सस्स पल्लविदेण अप्पणो जाणत्तणं किं ति संसअदूसिदं करेसि।
पण्ड0—सखि धारय माम्॥
तिरयति तिमिरं दृशोर्विलासान्
दहति हृदन्तकथापि बान्धवानाम्॥
जनयति जडता प्रयत्नमान्द्यं
कमपि विवेकमपाकरोति रोषः॥ 23॥
परी0—समस्सस। समस्सस।
पण्डि0—किं करोमि क्व गच्छामि।
आचारे प्रथमाखिलव्यवहृतिप्राविण्यशालिन्यलं
प्रायश्चित्तगतं जनस्य नितरामावेदयन्ती स्वयम्॥
कालज्ञानवती विपाककुशला सत्कर्णणां सुव्रता
सा कान्ता श्रुतिवर्त्मगामिनयनप्रान्ताधुना नेक्ष्यते 24
स्मार्तः—(गणकम्प्रति) सखे इदं कृत्याद्वयं कुतः समुपार्जि
पण्डितः—भगवन् किमपराद्धमावाभ्यां येन परीक्षामात्रप्रयोजनेन प्रश्नेनोद्विग्रोसि।
स्मार्तः—-आः संसारव्यवहारानभिज्ञे।
भवति गुणगणाभिमानभाजा-
मपि सहसा प्रतिभानिरासहेतुः॥
सदसि विबुधसंश्रिते कृतं य-
न्न कथमशस्त्रवधः परीक्षणं तत्॥ 25॥
गण0—(श्रुतिमभिनीय) अये दक्षिणस्यामार्तस्वरस्यैवम0 स्मात् स्वरः।
स्मार्तः—-(विमृश्य) आः ज्ञात्तम्। एकोद्दिष्टभोजनभारास स्थकलेवरतया व्याकुलान्तःकरणः सविधे शयितायाः॥
पत्न्या नितम्बमभिमृश्च शिरोभ्रमेण
किं केशपाशविकला मृतभर्तृकेयम्॥
इत्थं विषण्णहृदयः शयने निषण्णो
हा पुत्र मातारिति रोदिति वैदिकोयम्॥ 26 ॥
परी0—सहि एहि दाव तस्स रुअतस्स छन्दअस्स घरमि वेओ हुविस्सदित्ति॥
पण्डि0—सखि निखिलजनमहनीयचारितं न शक्नोम्य लोकयितुं तं दुःखस्थं महापुरुषम्। यतः।
शिक्षाविहीनो न च कर्मकल्पः
छन्दोनुरुद्धं न च यन्निरुक्तम्॥
भग्राङ्गसन्धिर्विकलः स्वरेण
दृष्टोपि वेदः सदयं दुनोति॥ 27 ॥
परी0—सहि अवहेहि मन्दमुहुरोपाणिणीयसद्दो विसुणीप्रदि।
पण्डि0—अष्टाध्यायीमात्रं भविप्यति न पुनः प्रमादपराभूते नगति भाप्यम्।
परी0—कहं विअ।
पण्डि0–
अभिनवरसभाराक्रान्तिभागाह्निकेषु
प्रगटितगुणवृद्धिर्व्यस्तसंधिप्रचारा॥
सखि कथमलसानां स्वादनीयप्रकारा
विषधरवदनोत्था कापि पीयूषधारा॥ 28॥
स्मार्तः—किमुद्दिश्य भवत्योरितस्ततः परिभ्रमणम्।
पण्डि0—अस्माकं यूथात्परिभ्रष्टाः काश्चन धर्मशीलाः सुर्यस्तासामन्वेषणार्थम्।
स्मार्त—-गणकं प्रति सखे यदि जानासि ब्रूहि तावदनयोः श्नमिदानीं विद्या कुत्रेति।
गण0—-(स्वगतं) वयं तावदुन्मूलनाय विद्यानामधर्मेण भूपतिना निर्दिष्टास्तत्परिशोधनं न कुत्र जानीमः तथाप्यन्यत्र प्रुतमुत्तरं वदिष्यामः (प्रकाशं गणितभभिनीत्य) अस्ति यत्र कुत्रापे। किंतु॥
दारिद्र्यदुर्ललितदूषितभाग्यभाजा-
माश्रित्य धैर्यमवलम्ब्य मनस्वितं च॥
अभ्यासतीव्रधिषणागुरुभक्तिभाजां
स्वान्तं प्रविश्य गिरिदुर्गमिवाधिशेते॥ 29 ॥
परी0—(सहर्षे)। सहि दिट्ठिआ वट्टसे एहि दाव तं गामङ्गछम्म जइ ताणं महापुलिसाणं हिअये णिवासो विज्जाणम्।
(इति सपण्डितसंगतिर्निष्क्रान्ता)
स्मार्तः—-वयमपि पुंसवनसीमन्तशास्त्राण्यभ्यासेन दृढीकुर्मः
(इति सवैद्यो गणको निष्क्रान्तः)
॥ इति धर्मविजयनाटके तृतीयोऽङ्कः॥ 3 ॥
—–0:0—-
****************************************************
.
***अथ चतुर्थोऽङ्कः। ***
(ततः प्रवीशति प्राड्विवाकः)
प्राड्विवाकः—-
अये प्रभातैव रजनी। तथा हि।
या मोदते समुदितेऽमृतधाम्नि पूर्वं
ज्योत्स्नाधुना विलयमेति सहैव तेन।
प्राणेश्वरप्रणयहेतुरनन्यभाजां
वामभ्रुवां सहगतिर्जननान्तरेषु॥ 1॥
अपि च।
पूर्वश्रिया विरहितामलकेशहीनां
दीनामिमां कुमुदिनीं बत कैरवास्याम्॥
संपश्यतां न करुणा समुदेति तेषां
कोप्यत्र भाविनियतः समयो बलीयान्॥ 2 ॥
आदिष्टोस्मि भूपतिना सुकृतेन सभामाहूय व्यवहारो द्रः इति तत्कदासौ धर्मासनं सम्भावयिष्यति (इति परिक्रामण) (पुरीवलोक्य) अये वयस्योस्माकं सदस्यः।
(ततः प्रविशाति सदस्यः)
सदस्यः—कष्टः खलुः धर्मः सभासदाम्। यतः।
मा सभां प्रविशतु प्रतिष्ठितः संश्तितो वदतु वा समञ्जसम्॥
पात्रतां भजति यत्र विब्रुवन्नब्रुवन्नपि नरः किलैनसाम्॥ 3 ॥
अपि च।
यो न याति कुपितस्थितं नृपं रागलोभभयकृष्टचेतनः॥
गण्डशैल इव मज्जति स्वयं मज्जयत्यपि समेदिनीपतिम्॥ 4॥
किंच। निसर्गोज्जवलप्रकृतिसर्गोपि दुर्जनसंसर्गेण दूप्यत एव। यतः।
पाथसां मकरवानिवाशयः सर्पयुङ्भलयजो यथा द्रुमः॥
सज्जनोपि खलसभ्यसङ्गमाद् भूपतिर्भवति भीतिदायकः॥ 5 ॥
प्राड्विवाकः—गुरुः खलु संदेशो देवस्य यद्दुरात्मन्यनृते क्षणमपि न विश्वसितव्यमिति। यतः।
शृङ्गिणां क्षितिभुजां नदीनदस्रोतसां नखभृतां नखभृतां नतभ्रुवाम्॥
दष्ट्रिणामनृतसक्तचेतसां शस्त्रिणां च चरिते न विश्वसेत्॥ 6॥
सदस्पः—-
विद्यया विमलयाप्यलंकृतो दूर्जनः सदसि मास्तु कश्चन…
साक्षारोपि विपरीतत्प्तं गतः केवलं जगति कोपि राक्षसः॥ 7॥
(इत्युपसर्पति)
प्रा0—अद्य खलु चारमुखादष्ठादशस्वपि व्यवहारविषयेषु अनृतेनोपजप्तमिति। तावदाकाण्या त्वरिततरं मां समाहूय राज्ञाऽज्ञप्तम्। यन्मध्यमामात्यो दण्डमुखनास्माभिः सहस्त्रधोपलब्धो पि अनवहितस्तिष्ठतीति तत्सविधे भवतापि क्षणादाननिक्षेपस्वामिविक्रयसभ्भूयसमुत्थानदत्तानयकर्माभ्युपेत्याशुश्रूषावेतनादानसंविद्व्यतिक्र-
मक्रयविक्रयानुशयस्वामिपालविवादसीमावेवादधर्मदण्डवाचिकापारुष्यस्तेयसाहस्त्री - सङ्ग्रहणस्त्रीपुंधर्मविभाग
द्यूताब्हयनां तेषामवलोकने सावधानेन भाव्यमिति। तत्र च। भाह्यः समर्थः प्रतिभूर्विवादे भाषानुरोध्युत्तरमाशु लेख्यम्॥ हीनः प्रदद्याद्धनिने धनानि नृपस्य दण्डं पणकृत् पणं च ॥ 8 ॥
ततश्च।
उक्तिभिर्लिखितवीरशासनैः साक्षिभिर्विविधदिव्यकर्मभिः॥
निर्णयोस्तु वनिवारितच्छलः पीङ्यतामनतसङ्गतोः ॥ 9 ॥
तत्र च।
समुताः शुचयः कुलप्रसूता धनवन्तः सदयाः स्वधर्मसंस्थाः ॥
ऋजवः समदर्शिनस्तटस्थाः रुत्र्यवराः संसदि साक्षितां भजन्तु ॥ 10 ॥
एवं च।
पक्षपातधनकामनापरत्रासवद्भिरपि यावलोकिता ॥
सान्यथा व्यवहृतिः प्रवर्तता वर्तता च निखिलं यथास्मृति ॥ 11 ॥
भवांश्चात्र साहाय्ये निर्दिष्टः।
सदस्यः— धन्योस्म्यनुगृहीतोस्मि। आर्य ममापि चेतसि सर्वदैवायं मनोरथः। परं तु। पिशुनचरितादुद्विग्नोस्मि। यतः
उष्णः क्वचित्क्वचिदुपाश्रितशीतभावः
साधारणः क्वचिदुपायशतैरसाध्यः॥
नानाप्रलापकुशलः परिशङ्कनीयः
कर्णेजपोतिबलवानिव संनिपातः ॥ 12 ॥
प्रा0— सत्यम्।
चन्दनारणिनिशेशमणिभ्यां जन्मवानपि जदद्दहनोग्रिः ॥
तापसस्य बटुरप्यबलाना पीडनाय पिशुनः पटुरेव ॥ 13 ॥
तथापि। स प्रविशन् राजकुलं सकुलं निग्राह्यः। परंतु कुः पुनः संक्षेपतो दुर्विनीतानां विनेता शास्त्रार्थः।
सदस्यः—
निवेशनविनाशनं द्रुतनिवासनं देशत-
स्तिरस्कृतिरनेकधा विविधवध्यघातैर्वधः॥
भगातिविकृतं च चिह्नमलके खरारोपणं
दमः प्रथममध्यमाधमाभिधा त्रिधा साहसम् ॥ 14 ॥
प्राङ्विवाकः—किमेतावत्कर्तु प्रभविष्यति व्यवहारः।
सद0—कः संदेहो यदि भवत्युद्यमपरः।
प्रा0—सत्सम् ।
उच्चैर्न कूटं कनकाचलस्य नीचैः कुतश्चिन्न तलं रसायाः॥
दिशो न दूरे न नदीभूजंगो गभीरतावान् व्यवसायभाजाम् ॥ 15 ॥
प्रा0— ( अवलोक्य ) दूवसकाशादुपावृतेन दण्डेन किमप्यवीयमानः।
शृण्वन्संप्रति पत्तिमादरपरः साक्ष्यं च मिथ्योत्तरे
प्राग्र्याये जयपत्रदर्शनविधिज्ञप्रत्यवस्कन्दने ॥
भुक्ताद्यः परिभावयन् वदनशोषेण रखद्वाग्भरै-
र्दुष्टानाकलयन् शुभासनगतो राज्ञः प्रधानोपरः ॥ 16 ॥
तदेहि कृताह्निकावेनं द्रक्ष्यावः । ( इतिनिष्क्रान्तौ ) ।
विष्कम्भकः ।
( ततः प्रविशति व्यवहारी दण्डश्च )
व्यवहारः— वत्स कष्टं खलु राजसेवानुजीविनां यदेवमन्नपावसनमपहाय नित्यमुद्युक्त एव॥
प्रागल्भोस्मि स्वीयव्यइहृतिविधाने प्रतिपदं
करोमि व्यापारं नृपतियमपाशेन यमिनः ॥
निहन्मि क्रूराणामनयमिति जानात्यपि भावा-
नुपालम्भः को वा तदपि मम राज्ञा विचरितः ॥ 17 ॥
दण्डः— आर्य कः संदेहः ।
वेश्याधनेन भुजगः पयसा पलेन
व्याघ्रो नृपः प्रतिदिनं परिचर्यया च॥
संतोषितो पि विदुषापरिशङ्कनीयः
प्रायः प्रतिक्षणविलक्षणबुद्धयोमी ॥ 18 ॥
व्यव0— वत्स जानासि किंमूलः सर्वात्मना मयि खेदो देवस्य
दण्डः— अदण्ङ्यदण्डनेन दण्ङ्यपरिवर्जनेन च ॥
व्यव0— सर्वोयमपराधोऽनृतस्य । तदस्य निग्रहाय सत्यं प्रयोजयामः ॥
दण्डः— हिंसादिकमुन्मूलयितुमहिंसादयोपि इदानीमेव प्रेषणीयाः इत्यैषापराज्ञा राज्ञः ।
व्यव0 — वत्स सम्यगवबोधितोस्मि । कः कोत्र भोः।
( प्रविश्य )
दौवारिकः— आणवेदु अमच्चो।
व्यव0— धर्मसाधनानि सत्वरमाकारय।
दौवा0— जं आणवेदि सामीती ( इतिनिष्क्रम्य सहाहिंसादिभिः प्रविशिति ) ।
अहिंसा—
आकीटमादन्तिनमाविराजं समाः शरीरेषु चतुर्विधेषु ॥
आत्मेति जानंस्तृणगुंल्मवल्लीछेदेपि कुर्याद्विबुधो मनः कः ॥ 1 ॥
सत्यं—
शैत्यं प्रयातु रविरुष्णकरत्वमिन्दुः
स्थैर्य जहातु हिमवानचलाचलस्तु ॥
धैर्य विमुञ्चतु महोदधिरप्यकस्मा-
त्कस्मात्सतोस्तु पणितं भणितं च मिथ्या ॥ 2 ॥
शौचम्—
मृत्स्नासु तोयेषु परिग्रहेषु न दुर्लभेष्वप्यकृतात्मशौचाः ॥
कथं तु जीवन्त्यथवान्यथायं प्रारब्धभोगो नरकाद्गरीयान्
इन्द्रियनिग्रहः—
कौलेयकानामथ रासभानामनिग्रहस्तुल्य इहेन्द्रियाणाम्
धन्यः परं कोप्ययमूर्ध्वरेता भेत्तुं रवेर्मण्डलमुक्तचेताः ॥ 1 ॥
दानं—
बलिस्त्रिलोकीं दिनभर्तृपुत्रोप्युत्कृत्य चर्मास्थिगण दधीचिः ॥
अविजित्य रामः पृथिवीमयच्छक्ति याचमानाय न देयमस्ति ॥ 14 ॥
दमः—
भासायमाप्रातरतृप्तिभाजो भक्ष्येण गावः सुलभा भवन्तु ॥
चन्द्रायणादिव्रतवीतपापाः सन्तः पृथिव्यं न कथं दुरापाः 25
दया–
ते पीडयन्तु कथमन्यमिहात्मदोषै-
र्यः पीडितस्तमप वक्ष्य निरन्तरं ये॥
पीडां सजन्ति हृदि निर्मलबुद्धिसारा-
स्ताराधिपोज्ज्वलदयोत्थयशःप्रचाराः॥ 26 ॥
क्षान्तिः—-
चाटूनि यस्य गदितानि स वातुलोपि
क्रूरोपि वा क्षणमसौ भवतु क्षमावान्॥
?B धन्यास्त एव शतशोपि विनिन्दितानां
येषां न भेदमुपयाति मुखस्य रागः॥ 27॥
(इति सर्वे परक्रामन्ति)
दौवा0—एसे अमच्चे तुह्माणं पडिवालयं ते चिट्टदि ता उपसप्पन्तु महाणुहावा। (सर्वे उपसृत्य प्रणमन्ति)॥
व्यप—–(यथोचितमभिनन्द्य सर्वान् प्रति) ! काश्यामव्याहतं शासनं विधाय प्रयागे निवेशितस्कन्धावारो दुर्बुद्धिरधर्मः संग्रामायोद्योगमातनोति। नासीराच्च तैर्विनिर्गतैहिंसादिभिर्व्याकुली क्रियते महाजनामाजः इति प्रेक्ष्कजनादाकर्ण्य क्रोधपरवशेन स्वामिना समक्षप्ता भवन्तः संगराय तदिदानीमेव प्रचलन्तु प्रवर्तभन्तु च तत्र प्रियसाहासं व्यवहारम्
सर्वे—–यदा ज्ञापयस्य मात्यः (इति निष्क्रान्ताः)
व्यव0—महापातकान्वेषणाय प्रेषितः किन्नु चिरयति क्रोष्टपालः॥
दण्डः—पञ्चात्मनोपि तस्य निवासः प्रच्छन्न इत्येतावतैव विलम्बः।
(ततः प्रविशाति पश्चाद्बद्धपुरुषमादाय क्रोष्टपालः पदातिनौ च)
एकः—अले गुरुअणमहिलापल्लंगख्खलिअ सुलापाणघुम्मिअलोअणजुअल कहोहि किं ति तुए निरवराहो वराओ वह्मणो जीवग्गाहं मारिदो॥
महापातकः—(तूष्णीमास्ते)
द्वितीयः—णिक्विवहिअअ बह्म हे महारअपाटच्चल किं ति तूण्हीभूदोसि त्ति (शिरीधरायां खङ्गमुष्ट्या ताडयति)
क्रोष्टपालः—पावपुलिस सच्चंभणकोसि तुमं किं ति वा एआरिसं कम्म करेसि।
महापा0—(सगर्वे) योस्मि सोस्मि न बिभेमि भवादृशेभ्योवराकेभ्यः। यतः।
गछाभ्यगम्यां मदिरां पिबामि हरामि वैप्रं कनकं तदर्थ॥
द्विजान् धनार्थं शतशोनिहन्मि स्थितोस्मि संगेप च मद्विधानां 28
क्रोष्ट0—(सप्रत्यभिज्ञमिव) एसे पंचमहापावपुलिसे रण्णे अधम्मस्स अमच्चे ता अह्मसआसादो सासणं ण माणअंदि तेण गछह्म अमच्चस्स व्वहारस्स सआसं (इति सर्वे परिक्रामंति) (उपसृत्व सर्वे) जेदु अभच्चे अमच्चसामि एसे पंचमहावे।
व्यव0—-(अवलोक्य सक्रोधम्) आः पुरुषश तशोप शासितः किमिति पापन्न विरमसे।
पञ्चमहापातकः—सुरापानादविरामे तु सोमपचरितमेव गुरुः
व्यव0—कथमिव।
पञ्च0–पश्य।
स्वर्गाय जुष्टचमसे मिलितैर्निपीतः
सोमः कटुर्यदि भवोत्किल याज्ञिकानाम्॥
किं पीयते न मधुरा विधुरौर्धिया त-
त्सार्द्धं सुखाय मदिरामदिरेक्षणाभिः॥ 29॥
दण्डः—-(सभर्त्सनं आः कुटिलप्रकृते हिरण्यहरण किमिति प्रच्छन्नोसि॥
पञ्च0—सद्गुरूपदेशेन। यथा हि।
हेयं स्तेयं कुशलमतिभिर्नो विधेयं विधेयं
मूर्ध्नश्छेदे परिणातमुपैतीति यन्नीतिशास्त्रं॥
तत्र ब्रूमो धनिकवदनालोकनं मानभाजां
कीदृक् कीदृक् तदनु भवतु प्रार्थनायाश्च भङ्गः॥ 30 ॥
व्यव0—(सहासम्) एतावतानुमीयतेऽगम्यानुगमनमपि कश्चिदाचार्योपदेशो भविष्यति।
पञ्च0—-अत्र कः संदेहः यतः।
रूपेण रम्यवयसा बहुधा धनेन
भोग्या भवन्ति तरुणाः परकामिनीनाम्॥
यस्यास्ति नैकमति तस्य निजाप्यगम्या
गम्यास्तु दुर्लभतराः कथमन्यकान्ताः॥ 31॥
दण्डः—(सखेदम्) आः पाप ब्रह्मवध्यायां केनोपदिष्टोसि।
पञ्च0—स्वेनान्तरात्मना। यतः।
द्रोणोर्जुनेन समघाति पुलस्त्यपौत्रो
रामेण शास्त्रमथ किं पठितं न ताभ्याम्॥
सोहं शपामि शतशो यदि विप्रवध्या
दोषावहा कल भवेत्पुरुषार्थभाजाम्॥ 32॥
व्यव0—(क्रीष्टपालं प्रति) दुष्टदमन नायमकृत्याद्विरमति नाप्यनुशेते न प्रायश्चित्ताक्रमणयोग्योयं वध्यघातैर्हन्यताम्॥
क्रोष्ट0—केण उण उवाएण णं विससेम्म॥
व्य0—-प्रथमं तछिन्नशिश्नमेनं तप्तसुरां पाययित्वा स्वर्णमुशलेन शिरसि कृतक्षतं अश्वत्थकाष्टे प्रज्वलयन्तु।
क्रो0—-जं आणवेदि अमच्चे (इति सपापपदातिर्निष्क्रान्तः)
(नेपथ्ये)
कक्षाभिः समरगजा रथास्तुरगैः पर्याणैर्जवनहया भजन्तु योगम्॥
आग्रेयं प्रचलतु यन्त्रजातमुष्ट्रेः प्रस्थानं नृपपटवेश्मनः प्रवृत्तम्॥ 33॥
(उभौ सोत्कण्ठमाकर्णयतः)
(पुनर्नेपथ्ये)
संप्रति हि दध्यक्षतदूर्वासिद्धार्थहस्ताभिः कन्याभि) कृतमङ्गलोपचारः॥
युक्तः श्रुतिस्मृतिपुराणविविक्तमार्गैः
सत्कर्मभिः कुलपरंपरयागतैश्च॥
संदर्शितः समरतूर्यनिनादमूर्च्छ-
त्क्रोधोऽधिरोहतरथं प्रधनाय धर्मः॥ 34॥
व्यव0—वत्स विजयाय प्रस्थितो देवः। प्रचलन्ति च समंततो दशदिक्पथेन महारथास्तदावामपि तीर्थराजमुपेत्य शस्त्रधारातीर्थेनात्मानं कृतकृत्यतामापादयावः।
(इति निष्क्रांतौ)
इति धर्मविजयनाम्नि नाटके व्यवहारविहारो नाम चतुर्थोऽङ्कः॥ 4॥
*****************************************
.
अथपञ्चमोऽङ्कः
(ततः प्रविशति प्रायश्चित्तं)
प्रायश्चित्तं—
पाराकसान्तपनकृछ्रकषष्ठकाल-
चान्द्रायणैः सह महीवलयं क्रमेण॥
कुर्वन् प्रदक्षिणमुपेत्य पुनः प्रयागं
कर्तास्मि नाशमचिरादिव पातकानाम्॥ 1 ॥
अपि च।
कुरुक्षेत्रात्परावृत्तः श्रुतवानस्मि लोकतः॥
देवस्य न चिराद्वृत्तं सपरायमरातिभिः॥ 2 ॥
तत्र च कस्य जयः पराजयो कस्य वा वीरशय्याशयनम्।
अपि च।
नाशोयमस्ति समरे वरतस्य बंधो-
र्देशांतरे च विहितं किल वर्ण भेदात्॥
साधारणं च तनयानपहाय शुध्यै
स्नानं सचैलमपि तत्र विधेयमेव॥ 3 ॥
तेन कान्यकुब्जमुपेत्य गंगास्नानेन सह संगम्याखिलवृत्तान्तमाकलयिष्यामि (इति परिक्रामति)
(पुरीवलीक्य)
अये प्रियमित्रमस्माकं गङ्गास्नानमित एवाभिवर्तते।
(ततः प्रविशति गङ्गास्नानम्)
गङ्गास्नानं - अहो महिमातिशयो भगवत्या भागीस्थ्याः। यतः।
तृष्णापयोनिधिविलङ्घनचञ्चुधैर्याः
संसारसागरकृतोत्कटसेतुबन्धाः॥
आचान्तवाङ्ययपयोनिधयोपि नित्यं
मज्जन्त्यगाधसलिले यतयोपि यस्याः॥ 4॥
(विमृश्य च)
हनूमदेकसाध्यरावणादिवधे रामस्येव भृत्यमा त्रे विधेयोपिकर्मणि दृश्यते क्वचित् प्रभूणामपि प्रवृत्तिर्यतोमयिसत्यमप्यधर्मवधाय देवस्योद्योगः। अन्यथापि।
हिमशिखरनितंबा नो कुरुद्रोहकर्त्री
पतितजनपवित्री भावसंपादयित्री॥
भवति यदि पृथिव्यां भीष्मभूभृत्सवित्री
कथिमिव न भवित्री निष्कृतिर्दुष्कृतीनाम्॥ 5 ॥
अपिच। विष्णुपदप्राप्तिकामानां वीतरागाणामप्युपास्या देवीगङ्गैव। यतः।
व्यथितकलिमनर्थानर्थबीजं विहायो-
त्थितमजभवनान्तात्पाथसां पूरमन्यः॥
पथि चरमपुमर्थप्रार्थनोत्कण्ठितानां
भवतु क इव सार्थः पार्थबन्धो पुरस्य॥ 6॥
प्रेषितं चास्मि राज्ञा प्रायश्चित्तमाकारयितुं तत्कुत्र तस्य समागमो भविता प्रतिपालयामि तावदत्रैव (इति तिष्ठति)
प्रायश्चित्तं—-(उपसृत्य) सखे कुतः सत्वरमिवागच्छसि।
गङ्गास्नानं—देवस्कन्धावारात् (इति प्रणमति)।
प्राय0— (आलिङ्ग्य) अनामयप्रपूर्वकं तत्कथ्यतां तावद्विस्तरेण तत्रत्यो वृत्तान्तः।
गंगा0—आर्य भवत्प्रस्थानसमयमेव सन्धिविग्रहकुशलः कश्चित्तूपेत्याधर्मदूतो राजानमवादीत्। यथा।
वर्णान् विहाय चतुरश्चतुराश्रमाणां
कर्माणि सत्वरमपास्य वनं प्रयाहि॥
नो चेत्कृपाविमुखमद्विशिशैर्विभिन्नः
सङ्ग्रामसीम्नि शयितासि वृतः शिवाभिः॥ 7 ॥
प्राय0—ततस्ततः।
गंगा0—ततश्चैतदुपाकर्ण्य दृश्यतां दुष्टस्य दुर्वचोविलसितमद्यैवास्मत्संमुखे वासो न भवितेति कृतसङ्कल्पश्चतुरङ्गसेनामुपादाय देवोपि सत्वरं तीर्थराजमुपेयिवान्।
प्राय0–ततस्ततः
गंगा0—ततश्चापरेहनि दुर्वहदिनमणिगर्भभरालसायां नाकनायकककुभि परिणतयवाङ्कुरपाण्डिमानमुपगतायामासन्नप्रसवपूर्वप्रसृतरजोधारयेव सन्ध्यया कलुषीकृताम्बरायाम्। प्रचण्डतरमारुतान्दोलितोदयाद्रद्रुमकुसुमकिञ्जल्करेणुपटलानुकारिणि प्रतिपक्षदानवकरनिकरनिर्मलशस्त्रसहस्रसमुच्छलच्छोणितछटानुसारिणी प्रसरति समन्ततस्तरणिकिरणजाले परेषामस्माकं च व्यूढसैन्यद्वयात्प्रथमतो निर्गत्य॥
विवृतमसि समूहं धूमधूम्रं वहन्तं
कनककटककान्तिज्वालया लेलिहानाः॥
प्रलयकुपितवह्निव्रातकल्पाः समंता-
द्भुवनमिव दहन्तः पत्तयः सन्निपेतुः॥ 8॥
प्राय0-ततस्तः।
गंगा0—
ततोश्ववाराः स्वगतीरुदाराः प्रदर्शयन्तः परिवृत्य कुन्तान्॥
उत्थाप्य वल्गाश्चलपार्ष्णिघातप्रणुन्नवाहास्तरसा निपेतुः॥ 9॥
प्राय0—ततस्ततः।
गंगा0—ततश्च।
अविरतमदधारादुर्दिनोड्डामरेभ्यो
घनतटविकटेभ्यः प्रौढदन्तावलेभ्यः॥
अहितकरविमुक्तैर्गार्ध्रपत्रैः प्रणुन्ना-
स्तडित इवि निपेतुः स्वर्णमय्यः पताकाः॥ 10॥
अपि च।
घनतटगिरिकूटस्पर्द्धिगन्धद्विपानां
पतदकृपकृपाणच्छिन्नंकुभस्थलेभ्यः॥
समदरुधिरधाराः प्रस्रवन्त्योनुसस्रु-
रुरुभरमवतीर्णं गैरिकाधित्यकाभ्यः॥ 11॥
प्राय0—ततस्ततः।
गङ्गा0-ततश्चास्मदायैर्विशेषविक्रान्तैरितस्ततो व्यापाद्यमानेषु द्वन्द्वयुद्धेऽहिंसया हिंसाऽनृतं सत्येन स्तेयमस्तेयेनाशौचं शौचेनानिन्द्रियनिग्रह इन्द्रिय निग्रहेण कार्पण्यं दानेन निर्दयता दयया क्रोधः क्षमया च व्यापादितः।
प्रायश्चित्तम्—(सहर्षं) ततस्ततः।
गंगा0—ततश्च।
भरोर्बृहत्कमठपृष्टलुठत्तरङ्गाः
कृत्तस्फुरत्करीटरुस्तभुजङ्गभीमाः॥
मत्स्यध्वजप्रचलमीनगणाः प्रसस्रः
कीलालतोयतरलाः परितस्तटिन्यः॥ 12॥
प्राय0—ततस्ततः।
गंगा0—ततश्च क्रमेण प्रवर्तमाने महावैशसे॥
समररभसकृत्तगाढहटप्रतिपक्षभटारभटीविकटामितहाटककङ्कटसंकटघोरकटारविपाटितवैरिकपाट-
विशालभुजान्तरनिर्गतरक्तरटत्तटिनीतटनाटितभूतघटोत्कटराटनातिभयानकमत्तगजेन्द्रघटाः। कटदाननवासवपानपटुप्रणिनादविभीषणशत्रुभुजाघटनाबहुतखङ्गनटोद्भटनाटकबन्धुकबन्धसमुद्धतयुद्धमुखद्रुत-
भग्नमधर्ममुप श्रुतवान् सहसानृपतिः॥ 13 ॥
प्रा0—ततस्ततः।
गंगा0—-ततश्च। तरसाध्मातशंखः स्वयमवहारं विधाय चिरीवप्रयुक्तमहाविद्याभिलाषी वाराणसीं गन्तुकामस्त्वां प्रतिपालयन्निदानीं दशाश्वमेधिकं तीर्थमध्यास्ते॥
प्राय0—सखे तदेहितावदावामपि दिष्ट्या देवं वर्द्धयावः
(इति निष्क्रामतः)
गंगा0–आर्य नातिदूरे तीर्थराजः।
प्राय0—सत्यमेव।
वेणीकछविलप्रमीतपतितं नेतु वनं नन्दनं
यान्तिनां नवकौतुकोत्सवजुषां गीर्वाणवामभ्रुवाम्॥
पारावारनितम्बिनीसलिलयोरुत्तालकोलाहलैः
संभिन्नः श्रवणौ पुनाति यदयं लीलामृदङ्गध्वनिः॥ 14 ॥
गंगा0—आर्य समुपागत एव प्रयागः। यत्र।
सोयं वटः प्रलयबन्धुरनादिपुंसः प्रस्वापसंतरसमाश्रयबालपत्रः॥
अद्यापि पझनयनप्रभयेव बाढ श्यामः परां नयनयोर्मुदमातनोति 15
प्राय0—सखे पश्य पुरस्तात्तीर्थराजोयं तदेतद्दशाश्वमेधिकं। अयं च्च कवितयोपश्लोकितो राजा शुभासनगतस्तदेहि सितासितयोः संगमे जपाह्निकादिकं विधायापराह्णे एनं द्रक्ष्यावः (इति निष्क्रान्ती)
?0शुद्धविष्कम्भकः।
(ततः प्रविशति राजा कविताविभवतश्च परीवारः)
कविता—-महाराज।
जानुदघ्नसलिलाः पुरस्कृतप्रेयसीनयनवारिपूरणात्॥
दुस्तराः किल भवन्ति सिन्धवस्त्वद्भयद्रुतविरोधि भूभुजाम् 16
सर्वदैव च स्वयमेव।
बाणभिन्ननिजबालसंस्थतां वीक्ष्य खङ्गमुकुरे विधेर्लिपिम्॥
राज्यभोगविनिवृत्तमानसाः शत्रवो विमुखतां भजन्ति ते 17
राजा—देवि वयं तावद्वर्तमानंजनताचरित्रमात्रं श्रोतुकामास्तदस्मद्विषयेर्थवादमपहाय यथानुभवं वर्णय।
कविता–देव सर्वमेव तत्ते भूतार्थवर्णनं नतु स्तोत्रं संप्रति हि जरा द्विजघ्नी मधुपो मिलिंदः सुवर्णहारी वनिताङ्गवर्णः॥
पटः पृथिव्यां गुरुतल्पगामी त्वयि प्रभो शासति दुर्विनीतान् 18
अपि च।
वक्षोभुवोतिकठिनाः कुटिलाः कटाक्षाः
कर्णेजपा नयनपंकजखंजरीटाः॥
केशा नितान्तमलिना गतयोथ मन्दा
वामभ्रुवामधरसंगतयश्च हासाः॥ 19॥
राजा0—-(लज्जाभरनमितशेखरस्तूष्णीमास्ते)
(नेपथ्ये)
इदो इदो मादाओ। (सर्वेसमाकर्णयंति)
कविता—राजन् संप्रति हि।
हिंसा यज्ञे सत्कृतानां पशूनां
स्पर्द्धाविद्याकामुकानां बहूनां॥
क्रोधः क्रीडद्बालकानां गुरूणां
शिष्याणां चाध्यात्ममार्गे विवादः॥ 20॥
(पुनर्नेपथ्ये)
इदो उवसप्पंदु देवीओ एसो। विपख्खस्स हत्थपल्लत्थतिख्खण सदसहस्स सरसंखोज्जिदगत्तबंधो वि णिअपौलिसमहम्मेण अणुञङिझअसमत्थत्तणो किलिसकलेवरो वि सहाविअकंतिप्पचारसोहगप्गमहुरेमुहपुंडरीएण समुभ्भासिदो वज्जी वि अ समुभ्भासिदसभाप्पदेसो मुणिअणसलाहणिज्जचलिदो जाणुईतरंगसीअलोहिं बादेहिं अहिणिवट्टितसमरपलिस्समो कविदाए उवासिदो महाराओ इदो सिंहविट्ठर अलं करेदि॥
राजा—महाविद्यानां अवसरदर्शनार्थं प्रेषितस्य प्राकृतस्येव भाषणं श्रुयते।
सख्यः—सुतरामेव घटते यद्विजयिनं राजानमुपेत्य स्वयमेव दिष्ट्या वर्द्धयामः।
अपि च अयम्।
यत्सर्वदा विनयभारविनम्रमौलि-
रस्मत्सकाशमुपयात्युचितं तदस्य॥
युक्तं पुनः समरविक्षतगात्रयष्टि-
र्वत्सोधुना स्वयमुपेत्य विलोकनीयः॥ 21॥
कविता—देव प्राकृतेन सह विद्या अपि समुपागताः इति लक्षये यदयं व्यवहारविदामग्रेसराया अलङ्कारविद्याया इवाकर्ण्यते श्लोकः।
राजा—किं न पश्यसि पुरः समुपागता एव पूर्वपक्षोत्तरपक्षैर्बहुलं तन्त्रं प्रदर्शयनत्यः सर्वाः।
(ततः प्रविशति समं महाविद्याभिः प्राकृतम्)
प्राकृतम्—णअणकप्पूरसलाआइदो तिहुअणतिलओ एसो सो राएसी सुराजदि।
पाआलमज्जम्मि बलिप्पिआणं णरच्छिआणं युहवीतलम्मि॥
सग्गम्मि वग्गो सुलसुदलीणं गाअन्दिगोराईं जसाइ जस्स॥ 22॥
अलङ्कारः—अयमीदृश एव महानुभावो येन सङ्ग्रामाङ्गणरङ्गभवने परमप्रतापहुतवहसाक्षिकं पाणिगृहीतपात्रैव।
दीव्यत्कठोरापि शिरीषकोमलां
श्यामापि गौरीं तरलापि सुस्थिराम्॥
नृशंसरूपाणिं सदा मनोहरां
सत्कीर्तिरूपां सुषुवे कृपाणिका॥ 13॥
कालः प्रलम्बस्तरलोऽतिवक्रगः
क्रूरान्तरः कोशबिलप्रियस्थितिः॥
विरोधकृत्प्राणसमीरणाशनः
शङ्गो यदियः कुटिलो भुजङ्गः॥ 24 ॥
(इति सर्वे परिक्रामन्ति)
राजा—गृह्यसूत्र आदिश्यतां तावत्पारस्काराचार्यः। समधुपर्कमर्वमादायोपतिष्ठत्विति।
सूत्रं0—यदाज्ञापयति देवः (इति निष्क्रातं)। (उपसृत्य प्राकृतं)
महाराअ विविससदंसणीयं पढमा विज्जा तुमं सहाजेदि।
राजा–(ससंभ्रममासनादूत्थायाञ्जलिं बद्ध्वा)।
द्रव्यैर्गुणैर्विविधकर्मभिरर्चनीया
सामान्यकान्तिसरणिः किरणावलीभिः॥
लोके विशेषविदितायुतसिद्धिरूपा
भावप्रलोभितपतिर्जननी त्वमेव॥ 25॥
(इति प्रणमति)
विद्या—-
सिसृक्षया समुत्पन्नं लीयते सञ्जिहीर्षया ॥
योस्य पाता त्रिजगतः स देवः सुखदोस्तु ते ॥ 26 ॥
प्राकृ0— देव एसा अख्खवादसलाहणिज्जाविज्जा णं पणमदु महाराओ ।
राजा—
पातिव्रत्ये प्रमाणं चरणसरजिजं भर्तुरेव प्रमेयं
जल्पः स्वल्पः सुजातेरवयवकलना नापरेषां कदाचित् ॥
नो दृष्टः क्वापि वादश्छलगतिरहितं किं च यस्याश्चारित्रं
दृष्टान्तोनन्यभाजामिति जननि भवत्यादृता गौतमेन ॥ 27 ॥
इति शिरस्यजलिं घटयति।
विद्या–
प्रारब्धयोगपरमाणुगुणक्रियाभि-
र्ज्ञानैषिणा कृतविडम्बितकार्यकर्ता॥
क्षित्यङ्कुराद्यनुमितः समुपास्यते यः
श्रेयः स ते दिशतु विश्वगुरुर्महेशः॥ 28॥
कविता—देव इयमस्मदुपास्या त्वत्सभाजनाय।
सालंकृतिर्गुणवती च विलीनदोषा
चेतोञ्जनेन विदुषामपि रञ्जयन्ती॥
शृङ्गारहास्य करुणादिमती समेता
सा भारती भरततापसमान्यमूर्तिः॥ 29 ॥
राजा–(दण्डवत्प्रणमति)।
विद्या—
महाकाव्यसमुत्पन्नमनोवृत्त्या विनाशिते॥
अज्ञानांशे स्फुरन्नव्यादात्मा नवरसात्मकः॥ 30॥
प्राकृ0—महाराअ एसा देवहूदी हिअअप्पसूदस्स तावसस्स माणणीया का वि विज्ज।
कविता—
हस्तारविन्दचरणाधररक्तवर्णां
रोमावलीचिकुरपाशकटाक्षकृष्णाम्॥
दन्तद्युतिस्मितसमाश्रितशुक्लशोभां
विद्यां नमस्व वृपते प्रकृतिप्रगल्भाम्॥ 31॥
राजा—(रुहर्षम्)। एनां लोहितशुक्लकृष्णां जनयित्रीं जनानामिति स्तुवन्ति कापिला (इति प्रणमत)।
विद्या–
संसारकृत्यविमुखः किल चेतनोपि
निर्लेप एव समुपार्जितयोगबुद्धिः॥
नो वा महान्न गुणवानपि यस्तथापि
विश्वैकवन्द्यचरणः शरणं स तेस्तु॥ 32॥
कवि—त्वामियं दिष्ठ्या वर्धयति।
मैत्र्यादिशुद्धहृदयाश्रितसत्समाधि-
र्नासाग्रदत्तनयना विमलासनस्था॥
क्लेशासहेश्वरपरा विधृताक्षमाला
हृद्यानवद्यचरिता नृपयोगविद्या॥ 33॥
राजा—-देवि महायोगिभिरुपास्यन्ते पादपझं प्रणमामि।
विद्या—-
नौलीकर्मविशुद्धदेहविवरान्मन्दोष्णसन्मारुते
मूलाधारविलीनकुण्डलिनिकामाकृप्य मूर्ध्नि स्थिते॥
ध्येयः पङ्क्तिशतारभाजि जलजे भव्याय भूयाद्गुरु-
र्ज्ञेयः षोडशपत्रहृत्सरसिजे पायात्पुराणः पुमान्॥ 34॥
क्रविता—देव प्रेक्ष्यताम्।
प्रभाकराकर्ममुखारविन्दा भट्टोपदष्टाद्भुतमण्डनश्रीः॥
विध्यर्थवादाकुलितान्तराले नमामि बाले तव पादपझे॥ 36॥
विद्या—
एकस्मादपि जातानां यद्वैचित्रेण देहिनाम्॥
वैचित्र्यं सुखदुःखेषु स विधिस्ते शुभावहः॥ 37॥
कविता—
द्वैतध्वान्तनिवारणैकतरणिप्रौढप्रभाधोरिणी
विश्वेषामपवर्गमार्गसरणिर्ज्ञानाग्निमन्थारणी॥
विद्याधीवरधीवराधिपसुता कानीनवक्त्रोद्गता
भूपालेन्द्रसभाजनाय भवनः प्राप्तेयमालोक्यताम्॥ 38॥
प्रकृतं—-बह्मविज्जाए उवासणं करेदु देवो।
राजा–देविमहनीयमूर्तिममूर्तानुरागां रागादिभिः कवलितां त्वां चिरमारभ्य द्रष्टुमुत्सुकोस्मि। यतः।
जरठाप्यसती विमुक्तसंगं पुरुषं स्वीयगुणप्रदर्शनेन॥
अनुरञ्जयति प्रसह्य जातां भवती कापि तिरस्करोति मायाम् 39
(इति पादयोः पतति)
विद्या—
श्रोत्रेक्षणादिकरणैर्विकलोपि बुद्ध्या
शून्योपि धर्मरहितोपि न संगतोपि॥
कूटस्थतामपि भजन्नपि मायिको यः
साक्ष्येक एव जगतः सुखदः स तेस्तु॥ 40॥
प्राकृतं—-इदो इदो आसणाइ उवविसदु देवीओ।
(सर्वे यथोचितमुपविशंति)
अलंकारः—वत्स महाराष्ट्रविषये संगतानामष्टादशस्मृतीनामयं संदेशः।
राजा—-किमाज्ञप्तमम्बाभिः।
विद्या—वत्स भाजनोचितेपि समये यदस्माकं विलम्बः सकर्माविपाकं पुरस्कृत्य वर्णाश्रमनियन्त्रणायेति वत्सेनावधातव्यम्॥
राजा–(सहर्षम्)
यदास्माभिर्विधातव्यं देवीभिस्तत्स्वयं कृतम्॥
अपूर्वः पक्षपातोयं भूयो नायमनुग्रहः॥ 41 ॥
कियत्संपादितं मातृभिः कर्मविपाकेन च
विद्या—वत्स किं संपादनीयं पामरस्तु पापपर एव। परंतु।
शास्त्राण्यधीत्य विविधानि गुरूनुपास्य
ज्ञात्वापि दुःखसरणिं नरकप्रभूताम्॥
गाढानुरागकवलीकृततुच्छचित्ताः
पापस्य तत्परिणतेरपि न स्मरन्ति॥ 42॥
तथापि महाभयप्रदर्शनैर्हस्तगतप्रायोसौ लोकः सर्वापि।
राजा—किंतद्भयप्रदर्शनम्।
विद्या—
निरये निपतन्त्यधर्मिणस्तरुगुल्मादषु संभवन्त्यथ॥
पशुपक्षिषु संसरन्त्यथो मनुजानामुदरे ततः परम्॥ 43॥
तत्र च प्राक्तनकर्मयोगेन।
दुर्दर्शनाः केचन केपि दुर्भगास्तीव्रामयग्रस्तकलेवराः परे॥
व्यङ्गा दरिद्रा वकलास्तथेन्द्रियैर्निसर्गतः केप्युपसंगमन्थराः 44
राजा—ततस्ततः।
विद्या—ततश्चैतावदाकर्णनमात्रेण सर्वेपि सत्रासाः पूर्वकृतदुप्कृतसानुशया सर्वथैव वैमुख्यमधर्माद्भजंतस्त्वदनुशासनं प्रमाणयन्ति। विलीनस्य त्वदरातेर्न वार्तापीत्येतदाकलय्य वत्सः॥
प्रमाणमिति।
राजा—नास्मात्परं विधेयमस्ति।
सर्वाः—वत्स इदानमिसि कृतकृत्यस्तद्भगवदुपासनयैव नीयन्तामयं समयः॥
राजा—उपादिशन्तु भगवत्यः॥
विद्या—–
कर्तारं भज यज भन्त्रमात्रमूर्ति जानीहि प्रकृतिविभिन्नमादिदेवम्॥
मिथ्यैतत्त्वयि लसति प्रपञ्जजालं सर्वात्मन् जमति पुनस्त्वमेकमेव 45
राजा—देव्यः। नानाविधाराधनश्रवणेन व्याकुलीकृतो ममान्तरात्मा।
(नेपथ्ये)
राजन् सर्वाणि शास्त्राणी नमस्कृत्य विसर्जय॥
भज पर्वतजाकान्तमेकान्तं परिशीलयन्॥ 46॥
(सर्वे समाकर्णयन्ति)
विद्या—वत्स सम्यगुक्तं उपासनया।
राजा—(साञ्जलिबन्धम्) देवि त्वद्वचनेपि तथैव सदेहः॥
विद्या—-वत्स किमिति प्रमुग्धोसि सर्वासामस्माकमेक एवाशयः। यतः।
यो मन्त्रमूर्तिरथ यः प्रकृतेर्विभिन्नः
कर्ता च यस्त्रिजगतामथ यस्तुरीयः॥
विष्णुर्विरञ्चिरिति यः कथितः पुराणैः
सोयं हिमाचलसुताहृदयादिनाथः॥
(नेपथ्ये)
राजन्नेवमेतत्॥
असहन्नपि शब्दवाच्यतां समुपास्योयमनेकानामभिः॥
विविधास्वामिधास्यमुष्य यद्विवदन्ते विविधानवस्तुभिः॥ 48॥
?B वत्स ध्यायतां भगवान् भूतभव्यभवत्प्रभुः।
अर्धाङ्गे कुवलयलोचनां दधानः
प्रालेयस्फटिकधराधरोद्भटाभः॥
उद्दामद्युतिशशिखण्डमण्डनश्री-
श्चित्तान्तर्विलसाति यः पुमान् पुराणः॥ 49॥
राजा—(प्रणिधानं नाटयति)
(नेपथ्ये)
वत्स पूजयस्वोपचारैर्मानसैः परमेश्वरम्।
राजा—(स्वैकाग्रचित्तं पुनध्यांत्वा)
उत्सर्पिदर्प्पफणभीषणहारसर्प-
नासापुटैर्निकटसंकुचितैर्निपीतः॥
पाटीरकुङ्कुममिलन्मृगनाभिवन्धु-
र्गन्धः सदाशिव मया मनसार्पितस्ते॥ 50॥
अपि च।
गुञ्जन्मधुव्रतघटोद्भवपक्षपातव्राता-
भिघातरभसप्रसरत्परागम्॥
संकल्पकल्पतमधुव्रतगन्धधाम
मन्दारदाम तव पादयुर्गर्पयामि॥ 51॥
अपि च।
गङ्गाजटातटगतामिव द्रष्टुकामः
श्यामप्रवाह इव वासरभर्तृजायः॥
उत्पातकेतुरिव मोहभरस्य धूपः
श्रीविश्वरूपहृदयेन मया कृतस्ते॥ 52॥
अपि च।
यत्कान्त्यलाभविवशोनुरविः सतापः
पापः क्रमाद्भवति पूर्णनिशाकरोति॥
दीपः पुरस्तव भवार्मवकर्णधारः
संसारदीपरचितः स मनोरथेन॥ 53॥
अपि च।
माधूर्यसंपदघधीरितसौधगर्व-
मन्नाद्यमुज्ज्वलमनेकविधं विधातः॥
स्वान्तेन शान्तिकालितेन कृतंनिवेद्य
विद्यैकगम्य परितोषकरं तवास्तु॥ 54॥
(नेपथ्ये)
प्रणम्यतां परमेश्वरः
रा0–(अञ्जलिं बद्ध्वा)
लक्ष्मीविलासिकमलासननाकिनाथै-
रानम्रमौलिमणिदीधितिधोरणीभिः॥
नीराजितं त्रिजगदेकगुरोर्नमामि
दाक्षायणीसहचरस्य पदारविन्दम्॥ 55॥
विद्या—वत्स बयं तावदेतैस्तव सुचरितैः संतुष्टाः स्मस्तद्भियतां तावदभीप्सितम्॥
राजा–देवीनां दर्शनादेव फलितमनोर्थोस्मि। यतः।
युष्मत्प्रसादवशतः प्रियमक्षमं ते
यातः क्षणात्क्षयमशेषविपक्षपक्षः॥
साक्षात्कृतौ स्फुरति दक्षसुताधिनाथः
क्षोणीभृदावृततलावशगा क्षमा च॥ 56॥
तथापीदमस्तु। भरतवाक्यम्।
आयासाद्वासुदेवोऽवतु भवतु भवो भंव्यदः पझिनीनां
प्राणाधीशः प्रियाणि प्रथयतु हरताद्विघ्नरार्शि गणेशः॥
हन्यात्कन्या हिमाद्रेः कलिबलमखिलं किं च वर्णाश्रमाणां
श्रौतस्मार्तैकनिष्ठाहरिहरपदयोर्भक्तिरव्याहतास्तु॥ 57॥
विद्याः—वत्स जगत इव तवापीयमाशीर्यथा॥
विप्णुर्व्यापकतां ददातु जगतामैश्वर्यमीशो गिरे-
स्तेजस्तीव्रकरस्तनोतु विपुला शक्तिश्च शक्तिं पराम्॥
विघ्नं विघ्नकरो हरत्वविरतं रात्रीशखण्डोल्लस-
द्भालेभक्तिरचञ्चलास्तु भवतो देवे च लक्ष्मीपतौ॥ 58॥
राजा—पुनः काशीदर्शनकामुकोस्मि यद भवेदभिमतं भमवतीनाम्॥
विद्या—तदेहि वत्स सहैव तावत्साधयामः (इति नाट्येन निष्क्रान्ताः सर्वे)
इति श्रीमच्छुक्लभूदेवविरचिते धर्मविजयनाम्नि नाटके नायकनन्दनो नाम पञ्चमोङ्कः समाप्तः॥ 5॥
—-00—
—-000—
****************************************************************************************************************
]